शतपथब्राह्मणम्/काण्डम् १०/अध्यायः १/ब्राह्मण १

विकिस्रोतः तः
शतपथब्राह्मणम्/काण्डम् १०/अध्यायः १/ब्राह्मण १
[[लेखकः :|]]
ब्राह्मण २ →

१०.१.१

अग्निरेष पुरस्ताच्चीयते संवत्सर उपरिष्टान्महदुक्थं शस्यते प्रजापतेर्विस्रस्तस्याग्रं रसोऽगच्छत् - १०.१.१.१

स यः स प्रजापतिर्व्यस्रंसत संवत्सरः सोऽथ यान्यस्य तानि पर्वाणि व्यस्रंसन्ताहोरात्राणि तानि - १०.१.१.२

स यः स संवत्सरः प्रजापतिर्व्यस्रंसत अयमेव स योऽयमग्निश्चीयतेऽथ यान्यस्य तान्यहोरात्राणि पर्वाणि व्यस्रंसन्तेष्टका एव तास्तद्यदेता उपदधाति यान्येवास्य तान्यहोरात्राणि पर्वाणि व्यस्रंसन्त तान्यस्मिन्नेतत्प्रतिदधाति तदेतदत्रैव यजुश्चितमत्राप्तम् - १०.१.१.३

अथ योऽस्य सोऽग्रं रसोऽगच्छत् महत्तदुक्थं तमस्य तं रसमृक्सामाभ्यामनुयन्ति तद्यत्तत्र यजुः पुरस्तादेत्यभिनेतैव तदेति यथाऽदो मेऽमुत्रैकं तदाहरिष्यामीत्येवं तद्यजुः पुरस्तादेति तं संवत्सरऽआप्नुवन्ति - १०.१.१.४

तमध्वर्युर्ग्रहेण गृह्णाति यद्गृह्णाति तस्माद्ग्रहस्तस्मिन्नुद्गाता महाव्रतेन रसं दधाति सर्वाणि हैतानि सामानि यन्महाव्रतं तदस्मिन्त्सर्वैः सामभी रसं दधाति तस्मिन्होता महतोक्थेन रसं दधाति सर्वा हैता ऋचो यन्महदुक्थं तदस्मिन्त्सर्वाभिर्ऋग्भी रसं दधाति - १०.१.१.५

ते यदा स्तुवते यदानुशंसति अथास्मिन्नेतं वषट्कृते जुहोति तदेनमेष रसोऽप्येति न वै महाव्रतमिदं स्तुतं शेत इति पश्यन्ति नो महदिदमुक्थमित्यग्निमेव पश्यन्त्यात्मा ह्यग्निस्तदेनमेते उभे रसो भूत्वापीत ऋक्च साम च तदुभे ऋक्सामे यजुरपीतः - १०.१.१.६

स एष मिथुनोऽग्निः प्रथमा च चितिर्द्वितीया च तृतीया च चतुर्थी चाथ पञ्चम्यै चितेर्यश्चितेऽग्निर्निधीयते तन्मिथुनं मिथुन उ एवायमात्मा - १०.१.१.७

अङ्गुष्ठा इति पुमांसः अङ्गुलय इति स्त्रियः कर्णाविति पुमांसौ भ्रुवाविति स्त्रिया ओष्ठाविति पुमांसौ नासिके इति स्त्रियौ दन्ता इति पुमांसो जिह्वेति स्त्री सर्व एव मिथुनः सोऽनेन मिथुनेनात्मनैतं मिथुनमग्निमप्येति - १०.१.१.८

एषात्रापीतिः अथ हैवं मिथुन इत्थं ह त्वेवापि मिथुनो वागेवेयं योऽयमग्निश्चितो वाचा हि चीयतेऽथ यश्चितेऽग्निर्निधीयते स प्राणः प्राणो वै वाचो वृषा प्राणो मिथुनं वाग्वेवायमात्माथ य आत्मन्प्राणस्तन्मिथुनं सोऽनेन मिथुनेनात्मनैतं मिथुनमग्निमप्येति - १०.१.१.९

एषो अत्रापीतिः न ह वा अस्यापुत्रतायै का चन शङ्का भवति य एवमेतौ मिथुनावात्मानं चाग्निं च वेदान्नं ह त्वेवायमात्मा दक्षिणान्नं वनुते यो न आत्मेति ह्यप्यृषिणाभ्युक्तम् - १०.१.१.१०

तदिदमन्नं जग्धं द्वेधा भवति यदस्यामृतमूर्ध्वं तन्नाभेरूर्ध्वैः प्राणैरुच्चरति तद्वायुमप्येत्यथ यन्मर्त्यं पराक्तन्नाभिमत्येति तद्द्वयं भूत्वेमामप्येति मूत्रं च पुरीषं च तद्यदिमामप्येति योऽयमग्निश्चितस्तं तदप्येत्यथ यद्वायुमप्येति यश्चितेऽग्निर्निधीयते तं तदप्येत्येषो एवात्रापीतिः - १०.१.१.११