स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २३५

विकिस्रोतः तः
← अध्यायः २३४ स्कन्दपुराणम् - नागरखण्डः
अध्यायः २३५
[[लेखकः :|]]
अध्यायः २३६ →

॥ ब्रह्मोवाच ॥ ॥
दानधर्मं प्रशंसंति सर्वधर्मेषु सर्वदा ॥
हरौ सुप्ते विशेषेण दानं ब्रह्मत्वकारणम् ॥ १ ॥
अन्नं ब्रह्म इति प्रोक्तमन्ने प्राणाः प्रतिष्ठिताः ॥
तस्मादन्नप्रदो नित्यं वारिदश्च भवेन्नरः ॥ २ ॥
वारिदस्तृप्तिमायाति सुखमक्षय्यमन्नदः ॥
वार्यन्नयोः समं दानं न भूतं न भविष्यति ॥ ३ ॥
मणिरत्नप्रवालानां रूप्यं हाटकवाससाम्॥
अन्येषामपि दानानामन्नदानं विशिष्यते ॥ ४ ॥
अन्नोदकप्रदानं च गोप्रदानं च नित्यदा ॥
वेदपाठो वह्निहोमश्चातुर्मास्ये महाफलम् ॥ ९ ॥
वैकुण्ठपदवाञ्छा चेद्विष्णुना सह संगमे ॥
सर्वपापक्षयार्थाय चातुर्मास्येऽन्नदो भवेत् ॥ ६ ॥
सत्यंसत्यं हि देवर्षे मयोक्तं तव नारद ॥
जन्मांतरसहस्रेषु नादत्तमुपतिष्ठते ॥ ७ ॥
तस्मादन्नप्रदानेन सर्वे हृष्यंति जन्तवः ॥
देवाश्च स्पृहयंत्येनमन्नदानप्रदायिनम् ॥ ८ ॥
आज्यं देयं च पात्रेषु श्रद्धया वज्रमिश्रितम् ॥
वज्रदानकरो मर्त्यश्चातुर्मास्ये न मानवः ॥ ९ ॥
भोजनं गुरुविप्राणां घृतदानं च सत्क्रिया ॥
एतानि यस्य तिष्ठन्ति चातुर्मास्ये न मानवः ॥ ६.२३५.१० ॥
सद्धर्मः सत्कथा चैव सत्सेवा दर्शनं सताम् ॥
विष्षुपूजा रतिर्दाने चातुर्मास्येषु दुर्लभाः ॥ ११ ॥
पितॄनुद्दिश्य यो मर्त्यश्चातुर्मास्येऽन्नदो भवेत् ॥
सर्वपापविशुद्धात्मा पितृलोकमवामुयात् ॥ १२ ॥
देवाः सर्वेऽन्नदानेन तृप्ता यच्छन्ति वांछितम् ॥
पिपीलिकाऽपि यद्गेहाद्भक्ष्यमादाय गच्छति ॥ १३ ॥
रात्रौ दिवाऽनिषिद्धान्नो ह्यन्नदानमनुत्तमम् ॥
हरौ सुप्ते हि पापघ्नं वार्य मपि शत्रुषु ॥ १४ ॥
चातुर्मास्ये दुग्धदानं दधि तक्रं महाफलम् ॥
जन्मकाले येन बद्धः पिंडस्तद्दानमुत्तमम् ॥ १५ ॥
शाकप्रदाता नरकं यमलोकं न पश्यति ॥
वस्त्रदः सोमलोकं च वसेदाभूतसंप्लवम् ॥ १६ ॥
सुप्ते देवे यथाशक्ति ह्यन्यासु प्रतिमासु च ॥
पुष्पवस्त्रप्रदानेन सन्तानं नैव हीयते ॥ १७ ॥
चन्दनागुरुधूपं च चातुर्मास्ये प्रयच्छति ॥
पुत्रपौत्रसमायुक्तो विष्णुरूपी भवेन्नरः ॥१८ ॥
सुप्ते देवे जगन्नाथे फलदानं प्रय च्छति ॥
विप्राय वेदविदुषे यमलोकं न पश्यति ॥ १९ ॥
विद्यादानं च गोदानं भूमिदानं प्रयच्छति ॥
विष्णुप्रीत्यर्थमेवेह स तारयति पूर्वजान् ॥ ६.२३५.२० ॥
गुडसैंधवतैलादिमधुतिक्ततिलान्नदः ॥
देवतायास्समुद्दिश्य तासां लोकं प्रयाति हि ॥ २१ ॥
चातुर्मास्ये तिलान्दत्त्वा न भूयः स्तनपो भवेत् ॥
यवप्रदाता वसते वासवं लोकमक्षयम् ॥ २२ ॥
हूयेत हव्यं वह्नौ च दानं दद्याद्द्विजातये ॥
गावः सुपूजिताः कार्याश्चातुर्मास्ये विशेषतः ॥ २३ ॥
यत्किंचित्सुकृतं कर्म जन्मावधि सुसंचितम् ॥
चातुर्मास्ये गते पात्रे विमुखे यन्न दीयते ॥ २४ ॥
प्रणश्यति क्षणादेव वचना द्यस्तु प्रच्युतः ॥
दिवसेदिवसे तस्य वर्द्धते च प्रतिश्रुतम् ॥ २५ ॥
तस्मान्नैव प्रतिश्राव्यं स्वल्पमप्याशु दीयते ॥
तावद्विवर्द्धते दानं यावत्तन्न प्रयच्छति ॥ २६ ॥
यो मोहान्मनुजो लोके यावत्कोटिगुणं भवेत् ॥
ततो दशगुणा वृद्धिश्चातुर्मास्ये प्रदातरि ॥ २७ ॥
नरके पतनं तस्य याव दिंद्राश्चतुर्दश ॥
अतस्तु सर्वदा देयं नरैर्यत्तु प्रतिश्रुतम् ॥ २८ ॥
अन्यस्मै न प्रदातव्यं प्रदत्तं नैव हारयेत् ।
चातुर्मास्येषु यः शय्यां द्विजाग्र्याय प्रयच्छति ॥ २९ ॥
वेदोक्तेन विधानेन न स याति यमालयम् ॥
आसनं वारिपात्रं च भाजनं ताम्रभाजनम् ॥ ६.२३५.३० ॥
चातुर्मास्ये प्रयत्नेन देयं वित्तानुसारतः ॥
सर्वदानानि विप्रेभ्यो ददत्सुप्ते जगद्गुरौ ॥ ३१ ॥
आत्मानं पूर्वजैः सार्द्धं स मोचयति पातकात् ॥
गौर्भूश्च तिलपात्रं च दीपदानमनुत्तमम् ॥ ३२ ॥
ददद्विजातये मुक्तो जायते स ऋणत्रयात् ॥ ३३ ॥
स विश्वकर्ता भुवनेषु गोप्ता स यज्ञभुक्सर्वफलप्रदश्च ॥
दानानि वस्तुष्वधिदैवतं च यस्मिन्समुद्दिश्य ददाति मुक्तः ॥ ३४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वर क्षेत्रमाहात्म्ये शेषशाय्युपाख्याने चातुर्मास्यमाहात्म्ये ब्रह्मनारदसंवादे चातुर्मास्यदानमहिमवर्णनंनाम पञ्चत्रिंशदुत्तरद्विशततमोऽध्यायः ॥ ॥ २३५ ॥