सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २३४

विकिस्रोतः तः
← अध्यायः २३३ स्कन्दपुराणम् - नागरखण्डः
अध्यायः २३४
[[लेखकः :|]]
अध्यायः २३५ →

ब्रह्मोवाच ॥ ॥
पितॄणां तर्पणं कुर्याच्छ्रद्धायुक्तेन चेतसा ॥
स्नानावसाने नित्यं च गुप्ते देवे महाफलम् ॥१॥
संगमे सरितोस्तत्र पितॄन्संतर्प्य देवताः ॥
जपहोमादिकर्माणि कृत्वा फलमनंतकम् ॥२॥
गोविंदस्मरणं कृत्वा पश्चात्कार्याः शुभाः क्रियाः ॥
एष एव पितृदेवमनुष्यादिषु तृप्तिदः ॥ ३ ॥
श्रद्धां धर्मयुतां नाम स्मृतिपूतानि कारयेत् ॥
कर्माणि सकलानीह चातुर्मास्ये गुणोत्तरे ॥ ४ ॥
सत्संगो द्विजभक्तिश्च गुरुदेवाग्नि तर्पणम् ॥
गोप्रदानं वेदपाठः सत्क्रियासत्यभाषणम् ॥ ५ ॥
गोभक्तिर्दानभक्तिश्च सदा धर्मस्य साधनम् ॥
कृष्णे सुप्ते विशेषेण नियमोऽपि महा फलः ॥ ६ ॥
॥ नारद उवाच ॥ ॥
नियमः कीदृशो ब्रह्मन्फलं च नियमेन किम् ॥
नियमेन हरिस्तुष्टो यथा भवति तद्वद ॥७ ॥
॥ ब्रह्मोवाच ॥ ॥
नियमश्चक्षुरादीनां क्रियासु विविधासु च ॥
कार्यो विद्यावता पुंसा तत्प्रयोगान्महासुखम् ॥ ८ ॥
एतत्षड्वर्गहरणं रिपुनिग्रहणं परम् ॥
अध्यात्ममूलमेतद्धि परमं सौख्यकारणम् ॥ ९ ॥
तत्र तिष्ठंति नियतं क्षमासत्यादयो गुणाः ॥
विवेकरूपिणः सर्वे तद्विष्णोः परमं पदम् ॥ ६.२३४.१० ॥
कृत्वा भवति यज्ञान्यत्कृतकृत्यत्वमत्र तत् ॥
स्यात्तस्य तत्पूर्वजानां येन ज्ञातमिदं पदम् ॥ ११ ॥
तन्मुहूर्त्तमपि ध्यात्वा पापं जन्मशतोद्भवम्॥
भस्म साद्याति विहितं निरंजननिषेवणात् ॥ १२ ॥
प्रत्यहं संकुचत्यस्य क्षुत्पिपासादिकः श्रमः ॥
स योगी नियमी नित्यं हरौ सुप्ते विशिष्यते ॥ १३ ॥
चातुर्मास्ये नरो भक्त्या योगाभ्यासरतो न चेत् ॥
तस्य हस्तात्परिभ्रष्टममृतं नात्र संशयः ॥ १४ ॥
मनो नियमितं येन सर्वेच्छासु सदागतम्॥
तस्य ज्ञाने च मोक्षे च कारणं मन एव हि ॥ १५ ॥
मनोनियमने यत्नः कार्यः प्रज्ञावता सदा ॥
मनसा सुगृहीतेन ज्ञानाप्तिरखिला ध्रुवम् ॥ १६ ॥
तन्मनः क्षमया ग्राह्यं यथा वह्निश्च वारिणा ॥
एकया क्षमया सर्वो नियमः कथितो बुधैः ॥ १७ ॥
सत्यमेकं परो धर्मः सत्यमेकं परं तपः ॥
सत्यमेकं परं ज्ञानं सत्ये धर्मः प्रतिष्ठितः ॥ १८ ॥
धर्ममूलमहिंसा च मनसा तां च चितयन् ॥
कर्मणा च तथा वाचा तत एतां समाचरेत् ॥ १९ ॥
परस्वहरणं चौर्यं सर्वदा सर्वमानुषैः ॥
चातुर्मास्ये विशेषेण ब्रह्मदेवस्ववर्जनम् ॥ ६.२३४.२० ॥
अकृत्यकरणं चैव वर्जनीयं सदा बुधैः ॥
अहीनः सर्वकार्येषु यः सदा विप्र वर्तते ॥ २१ ॥
स च योगी महाप्राज्ञः प्रज्ञाचक्षुरहं नधीः ॥ ?
अहंकारो विषमिदं शरीरे वर्त्तते नृणाम् ॥ २२ ॥
तस्मात्स सर्वदा त्याज्यः सुप्ते देवे विशेषतः ॥
अनीहया जितक्रोधो जितलोभो भवेन्नरः ॥ २३ ॥
तस्य पापसहस्राणि देहाद्यांति सहस्रधा ॥
मोहं मानं पराजित्य शमरूपेण शत्रुणा ॥ २४ ॥
विचारेण शमो ग्राह्यः सन्तोषेण तथा हि सः ॥
मात्सर्यमृजुभावेन नियच्छेत्स मुनीश्वरः ॥ २५ ॥
चातुर्मास्ये दयाधर्मो न धर्मो भूतविद्रुहाम् ॥
सर्वदा सर्व दानेषु भूतद्रोहं विवर्जयेत् ॥ २६ ॥
एतत्पापसहस्राणां मूलं प्राहुर्मनीषिणः ॥
तस्मात्सर्वप्रयत्नेन कार्या भूतदया नृभिः ॥ २७ ॥
सर्वेषामेव भूतानां हरिर्नित्यं हृदि स्थितः ॥
स एव हि पराभूतो यो भूतद्रोहकारकः ॥ २८ ॥
यस्मिन्धर्मे दया नैव स धर्मो दूषितो मतः ॥
दयां विना न विज्ञानं न धर्मो ज्ञानमेव च ॥ २९ ॥
 तस्मात्सर्वात्मभावेन दयाधर्मः सनातनः ॥
सेव्यः स पुरुषैर्नित्यं चातुर्मास्ये विशेषतः ॥ ६.२३४.३० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये चातुर्मास्यमाहात्म्ये शेपशाय्युपाख्याने ब्रह्म नारदसंवादे चातुर्मास्यनियमविधिमाहात्म्यवर्णनंनाम चतुस्त्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३४ ॥