स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः १७

विकिस्रोतः तः
← अध्यायः १६ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्
अध्यायः १७
वेदव्यासः
अध्यायः १८ →

।। सनत्कुमार उवाच ।। ।।
दशाश्वमेधिके स्नात्वा दृष्ट्वा देवं महेश्वरम् ।।
दशानामश्वमेधानां फलं प्राप्नोति मान वः ।। १ ।।
मनुना मानवेन्द्रेण राज्ञा चैव ययातिना ।।
रघुणोशनसा चैव लोमशेन महर्षिणा ।। २ ।।
अत्रिणा भृगुणा व्यास दत्तात्रेयेण धीमता ।।
पुरूरवसा पुण्येन नहुषेण नलेन च ।। ३ ।।
अत्र स्नानेन संप्राप्तं दशाश्वमेधिकं फलम् ।।
संप्राप्ते द्वापरस्यांते राज्ञा बाष्कलिना तथा ।। ४ ।।
दशानामश्वमेधानां फल प्राप्तं द्विजोत्तम ।।
कृष्णवर्णं तथा लिंगं पूजितं भक्तितः सदा ।। ५ ।।
दृष्ट्वा स्पृष्ट्वा च तं देवं प्रागुक्तं लभते फलम् ।।
चैत्रे मासि सिताष्टम्यां देवं संपूज्य भक्तितः ।। ६ ।।
अश्वं दद्याच्च विप्राय सुरूपं च गुणान्वितम् ।।
यावंति तस्य रोमाणि गण्यंते संख्यया द्विज ।। ७ ।।
तावद्वर्षसहस्राणि शिवलोके महीयते ।।
शिवलोकात्परिभ्रष्टः सार्वभौमो भवेद्भुवि ।। ८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये दशाश्वमेधमाहात्म्यवर्णनंनाम सप्तदशोऽध्यायः ।। १७ ।।