स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः १३

विकिस्रोतः तः
← अध्यायः १२ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्
अध्यायः १३
वेदव्यासः
अध्यायः १४ →

।। सनत्कुमार उवाच ।। ।।
स्वर्गद्वारे नरः स्नात्वा दृष्ट्वा देवं च भैरवम् ।।
श्राद्धं तत्रैव कुर्वीत पितॄनुद्दिश्य भक्तितः ।। १ ।।
पितॄंश्च स नरो व्यास तारयेदात्मना सह ।।
स्वर्गद्वारेण योऽभ्येति रुद्रस्य परमं पदम् ।। २ ।।
भैरवस्याग्रतो देवी पूर्वे तिष्ठति चांबिका ।।
तां तु दृष्ट्वा नरः स्त्री वा मुच्यते सर्वपातकैः ।। ३ ।।
महानवम्यां पुरुषः कृत्वा बस्तमयं बलिम् ।।
महिषं वा सुरां मांसं मालां बिल्वमयीं शुभाम् ।।
भक्त्या निवेद्य देव्यै तु सर्वासिद्धिमवाप्नुयात् ।। ४ ।।
तत्र स्नात्वा नरो भक्त्या पूजां कृत्वा महेश्वरे ।।
स्वर्गद्वारेण सोऽभ्येति रुद्रस्य भवनं द्विज ।। ५ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये स्वर्गद्वारमाहात्म्य वर्णनंनाम त्रयोदशोध्यायः ।। १३ ।। ।।छ।।