स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः १४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १३ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्
अध्यायः १४
वेदव्यासः
अध्यायः १५ →

।। सनत्कुमार उवाच ।। ।।
स्नात्वा चतुःसमुद्रे तु पश्येद्राजस्थलं शिवम् ।।
यस्य दर्शनमात्रेण पुत्रवाञ्जायते नरः ।। १ ।।
समुद्राः संति चत्वारः क्षारक्षीरदधीक्षवः ।।
समीपे तस्य देवस्य सुद्युम्नेन प्रतिष्ठिताः ।। २ ।।
।। व्यास उवाच ।। ।।
राजस्थल समीपे तु समुद्राः केन हेतुना ।।
कथय त्वं मुनिश्रेष्ठ सुद्युम्नेन प्रतिष्ठिताः ।। ३ ।।
लक्षयोजनपर्यंतं जंबुद्वीपं सुशोभनम् ।।
मर्यादायां स्थापितोऽयं समुद्रः क्षारसंज्ञितः ।।४।।
शाकद्वीपे द्विलक्षे तु क्षीराब्धिः संप्रतिष्ठितः ।।
दध्यब्धिस्तु कुशद्वीपे चतुर्लक्षः प्रतिष्ठितः।।
शाल्मले त्विक्षुजलधिर्ह्यष्टलक्षः प्रतिष्ठितः ।। ५ ।।
चत्वारस्ते समाख्याताः समुद्रा भूमिमंडले ।।
राजस्थलसमीपे तु कथमेकत्र संगताः ।। ६ ।।
।। सनत्कुमार उवाच ।। ।।
सुद्युम्नो नाम राजासीत्पुरा कल्पे सुधार्मिकः ।।
तस्य पत्नी वरारोहा नाम्ना ख्याता सुदर्शना ।। ७ ।।
मुनिं दाल्भ्यं च सा दृष्ट्वा पप्रच्छ सुतकाम्यया ।।
भगवन्केन दानेन स्नानेन विधिनाऽथवा ।। ८ ।।
सर्वलक्षणसंपूर्णः पुत्रो लभ्यो मया कथम् ।।
एतदाख्याहि विप्रर्षे याथातथ्यं सविस्तरम् ।। ।। ९ ।।
।। दाल्भ्य उवाच ।। ।।
विहितास्ते पुरा पुत्र्यब्धयः पुत्रेप्सयोत्तमाः ।।
स्वयंभुवेन देवेन ब्रह्मणा लोककारिणा ।। 5.1.14.१० ।।
तेषु राज्ञा कृते स्नाने तव पुत्रो भविष्यति ।।
शंकराराधने पुत्रि तस्मात्प्रेरय वल्लभम् ।। ११ ।।
दाल्भ्यस्यैव तु वाक्येन विचित्राख्यानकेन च ।।
प्रस्थापयामास पतिं शंकराराधने द्रुतम्।। १२ ।।
स गत्वा तोषयामास शंकरं गंधमादने ।।
संतुष्टः शंकरः प्राह शशिसूर्याग्निलोचनः ।।१३।।
अवंतीं गच्छ राजेद्र पुत्रं प्राप्स्यसि शोभनम्।।
मच्छासनाज्जलधयो गमिष्यंति कुशस्थलीम् ।। १४ ।।
मेरुरूपे स्थले राजन्समीपे शंकरस्य च ।।
द्रक्ष्यसि त्वं नरश्रेष्ठ जलधींस्तत्र संगतान्।।
अभ्यर्थितास्त्वया तत्र स्थास्यंति कलया सदा ।। १५ ।।
एवमुक्त्वा महादेवो जगामादर्शनं विभुः ।।
सुद्युम्नो भार्यया सार्धमाजगाम कुशस्थलीम् ।। १६ ।।
आगतस्तु कुशस्थल्यां समुद्रांश्च ददर्श ह ।।
तांस्तु दृष्ट्वा नमश्चक्रे राजस्थलसमीपतः ।। १७ ।।
ते वै दृष्ट्वा च सुद्युम्नं प्रणतं भक्तवत्सलम् ।।
प्रोचुर्वारिधयः सर्वे वरं वरय सुव्रत ।।१६।।
स वव्रे मनसा पुत्रं सर्वलक्षणसंयुतम् ।।
उवाच च पुना राजा यावत्ति ष्ठति मेदिनी ।।
तावदत्रैव स्थातव्यं राजस्थलसमीपतः ।। १९ ।।
।। समुद्रा ऊचुः ।। ।।
तावत्स्थास्यामहेऽत्रैव यावत्कल्पावसानकम् ।। 5.1.14.२० ।।
भविष्यति च ते पुत्रः सर्वलक्षणसंयुतः ।।
अत्र ते स्नानमात्रेण तस्मात्स्नानं समाचर ।। २१ ।।
स्थले चात्र शुभे राजन्स्थास्यामः कलया सह ।।।
एवं व्यास समुद्रास्तु सुद्युम्नेनावतारिताः ।। २२ ।।
कुरुते तेषु यो यात्रां तस्य पुण्यफलं शृणु ।।
स्नानं कृत्वा महापुण्ये समुद्रे क्षारसंज्ञके ।।। ।। २३ ।।
कुर्याच्छाद्धं ततो व्यास पितॄणां भक्तितत्परः ।।
पूजयेच्च महादेवं स्थलस्थं पार्वतीपतिम् ।। २४ ।।
मंडकांश्च ततो दद्याद्ब्राह्मणे वेदपारगे ।।।
पात्रं ताम्रमयं कार्यं लवणेन प्रपूरितम् ।। २५ ।।
सहिरण्यं च दातव्यं ब्राह्मणे वेदपारगे ।।
सप्तधान्यसमायुक्तं वेणुजं वस्त्रवेष्टितम् ।। २६ ।।
सदक्षिणं फलैर्युक्तमर्घ्यं दद्यात्प्रयत्नतः ।।
क्षीराब्धिं च ततो गत्वा स्नानं कुर्याच्च पूर्ववत् ।। २७ ।।
क्षीरं तत्र प्रदातव्यं ताम्रपात्रेण पूरितम् ।।
दध्यब्धौ च तथा कृत्वा दद्याद्दध्योदनं शुभम् ।। २८ ।।
इक्ष्वब्धौ च तथा कृत्वा दद्याद्विप्रे गुडं शुभम् ।।
यात्रां कृत्वा तु वै व्यास गां च दद्यात्पयस्विनीम् ।। २९ ।।।
एवं यः कुरुते यात्रां राजस्थलसमीपतः ।।
भव्यां हि लभते लक्ष्मीं पुत्रांश्चापि मनोरमान् ।। 5.1.14.३० ।।
मृते स्वर्गमवाप्नोति यावदिंद्राश्चतुर्दश ।।
तावत्स्वर्गफलं भुक्त्वा पश्चान्मोक्षं प्रयास्यति ।। ३१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहा त्म्ये राजस्थलेश्वरसमीपे चतुःसमुद्रमाहात्म्यवर्णनंनाम चतुर्दशोऽध्यायः ।। १४ ।। छ ।।