स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०५०
← अध्यायः ४९ | स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम् अध्यायः ५० वेदव्यासः |
अध्यायः ५१ → |
अध्याय ५०
उत्तानपाद उवाच -
द्विजाश्च कीदृशाः पूज्या अपूज्याः कीदृशाः स्मृताः ।
श्राद्धे वैवाहिके कार्ये दाने चैव विशेषतः ॥ ५०.१ ॥
यदि श्रद्धा भवेद्दैवयोगाच्छ्राद्धादिके विधौ ।
एतदाख्याहि मे देव कस्य दानं न दीयते ॥ ५०.२ ॥
ईश्वर उवाच -
यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ।
ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः ॥ ५०.३ ॥
यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला ।
यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः ॥ ५०.४ ॥
यथाऽनृणे बीजमुप्त्वा वप्ता न लभते फलम् ।
तथानृचे हविर्दत्त्वा न दाता लभते फलम् ॥ ५०.५ ॥
रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा ।
अवकीर्णी श्यावदन्तः सर्वाशी वृषलीपतिः ॥ ५०.६ ॥
मित्रध्रुक्पिशुनः सोमविक्रयी परनिन्दकः ।
पितृमातृगुरुत्यागी नित्यं ब्राह्मणनिन्दकः ॥ ५०.७ ॥
शूद्रान्नं मन्त्रसंयुक्तं यो विप्रो भक्षयेन्नृप ।
सोऽस्पृश्यः कर्मचाण्डालः स्पृष्ट्वा स्नानं समाचरेत् ॥ ५०.८ ॥
कुनखी वृषली स्तेयी वार्द्धुष्यः कुण्डगोलकौ ।
महादानरतो यश्च यश्चात्महनने रतः ॥ ५०.९ ॥
भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः ।
एते विप्राः सदा त्याज्याः परिभाव्य प्रयत्नतः ॥ ५०.१० ॥
प्रतिग्रहं गृहीत्वा तु वाणिज्यं यस्तु कारयेत् ।
तस्य दानं न दातव्यं वृथा भवति तस्य तत् ॥ ५०.११ ॥
श्रुताध्ययनसम्पन्ना ये द्विजा वृत्ततत्पराः ।
तेषां यद्दीयते दानं सर्वमक्षयतां व्रजेत् ॥ ५०.१२ ॥
दरिद्रान्भर भूपाल मा समृद्धान् कदाचन ।
व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ॥ ५०.१३ ॥
उत्तानपाद उवाच -
कीदृशोऽथ विधिस्तत्र तीर्थश्राद्धस्य का क्रिया ।
दानं च दीयते यद्वत्तन्ममाख्याहि शङ्कर ॥ ५०.१४ ॥
ईश्वर उवाच -
श्राद्धं कृत्वा गृहे भक्त्या शुचिश्चापि जितेन्द्रियः ।
गुरुं प्रदक्षिणीकृत्य भोज्य सीमान्तके ततः ॥ ५०.१५ ॥
वाग्यतः प्रव्रजेत्तावद्यावत्सीमां न लङ्घयेत् ।
शूलभेदं ततो गत्वा स्नानं कुर्याद्यथाविधि ॥ ५०.१६ ॥
पञ्चस्थानेषु च श्राद्धं हव्यकव्यादिभिः क्रमात् ।
पिण्डदानं च यः कुर्यात्पायसैर्मधुसर्पिषा ॥ ५०.१७ ॥
पितरस्तस्य तृप्यन्ति द्वादशाब्दानि पञ्च च ।
अक्षतैर्बदरैर्बिल्वैर्गुदमधुसर्पिषा ॥ ५०.१८ ॥
सापि तत्फलमाप्नोति तीर्थेऽस्मिन्नात्र संशयः ।
उपानहौ च यो दद्याद्ब्राह्मणेभ्यः प्रयत्नतः ॥ ५०.१९ ॥
सोऽपि स्वर्गमवाप्नोति हयारूढो न संशयः ।
शय्यामश्वं च यो दद्याच्छत्त्रिकां वा विशेषतः ॥ ५०.२० ॥
गच्छेद्विमानमारूढः सोऽप्सरोवृन्दवेष्टितः ।
उत्तमं यो गृहं दद्यात्सप्तधान्यसमन्वितम् ॥ ५०.२१ ॥
स्वेच्छया मे वसेल्लोके काञ्चने भवने हि सः ।
तिलधेनुं च यो दद्यात्सवत्सां वस्त्रसंप्लुताम् ॥ ५०.२२ ॥
नाकपृष्ठे वसेत्तावद्यावदाभूतसम्प्लवम् ।
गृहे वा यदि वारण्ये तीर्थवर्त्मनि वा नृप ॥ ५०.२३ ॥
तोयमन्नं च यो दद्याद्यमलोकं स नेक्षते ।
सर्वदानानि दीयन्ते तेषां फलमवाप्यते ॥ ५०.२४ ॥
उदकं चात्र दानं च दद्यादभयमेव च ।
अन्नदानात्परं दानं न भूतं न भविष्यति ॥ ५०.२५ ॥
कन्यादानं तु यः कुर्याद्वृषं वा यः समुत्सृजेत् ।
तस्य वासो भवेत्तत्र यत्राहमिति नान्यथा ॥ ५०.२६ ॥
उत्तानपाद उवाच -
कन्यादानं कथं स्वामिन् कर्तव्यं धार्मिकैः सदा ।
परिग्रहो यथा पोष्यः कन्योद्वाहस्तथैव च ॥ ५०.२७ ॥
अन्यत्पृच्छामि देवेश कस्य कन्या न दीयते ।
दातव्यं कुत्र तद्देव कस्मै दत्तमथाक्षयम् ॥ ५०.२८ ॥
उत्तमं मध्यमं वापि कनीयः स्यात्कथं विभो ।
राजसं तामसं वापि निःश्रेयसमथापि वा ॥ ५०.२९ ॥
ईश्वर उवाच -
सर्वेषामेव दानानां कन्यादानं विशिष्यते ।
यो दद्यात्परया भक्त्याभिगम्य तनयां निजाम् ॥ ५०.३० ॥
कुलीनाय सुरूपाय गुणज्ञाय मनीषिणे ।
सुलग्ने सुमुहूर्ते च दद्यात्कन्यामलंकृताम् ॥ ५०.३१ ॥
अश्वान्ना गांश्च वासांसि योऽत्र दद्यात्स्वशक्तितः ।
तस्य वासो भवेत्तत्र पदं यत्र निरामयम् ॥ ५०.३२ ॥
येनात्र दुहिता दत्ता प्राणेभ्योऽपि गरीयसी ।
तेन सर्वमिदं दत्तं त्रैलोक्यं सचराचरम् ॥ ५०.३३ ॥
यः कन्यार्थं ततो लब्ध्वा भिक्षते चैव तद्धनम् ।
स भवेत्कर्मचण्डालः काष्ठकीलो भवेन्मृतः ॥ ५०.३४ ॥
गृहेऽपि तस्य योऽश्नीयाज्जिह्वालौल्यात्कथंचन ।
चान्द्रायणेन शुध्येत तप्तकृच्छ्रेण वा पुनः ॥ ५०.३५ ॥
उत्तानपाद उवाच -
वित्तं न विद्यते यस्य कन्यैवास्ति च यद्गृहे ।
कथं चोद्वाहनं तस्य न याञ्चां कुरुते यदि ॥ ५०.३६ ॥
ईश्वर उवाच -
अवितेनैव कर्तव्यं कन्योद्वहनकं नृप ।
कन्यानाम समुच्चार्य न दोषाय कदाचन ॥ ५०.३७ ॥
अभिगम्योत्तमं दानं यच्च दानमयाचितम् ।
भविष्यति युगस्यान्तस्तस्यान्तो नैव विद्यते ॥ ५०.३८ ॥
अभिगम्योत्तमं दानं स्मृतमाहूय मध्यमम् ।
याच्यमानं कनीयः स्याद्देहि देहीति चाधमम् ॥ ५०.३९ ॥
यथैवाश्माश्मनाबद्धो निक्षिप्तो वारिमध्यतः ।
द्वावेतौ निधनं यातस्तद्वदन्नमपात्रके ॥ ५०.४० ॥
असमर्थे ततो दानं न प्रदेयं कदाचन ।
दातारं नयतेऽधस्तादात्मानं च विशेषतः ॥ ५०.४१ ॥
समर्थस्तारयेद्द्वौ तु काष्ठं शुष्कं यथा जले ।
यथा नौश्च तथा विद्वान्प्रापयेदपरं तटम् ॥ ५०.४२ ॥
आहिताग्निश्च गृह्णाति यः शूद्राणां प्रतिग्रहम् ।
इह जन्मनि शूद्रोऽसौ मृतः श्वा चोपजायते ॥ ५०.४३ ॥
वृथा क्लेशश्च जायेत ब्राह्मणे ह्यग्निहोत्रिणि ।
असत्प्रतिग्रहं कुर्वन्गुप्तं नीचस्य गर्हितम् ॥ ५०.४४ ॥
अभोज्यः स भवेन्मर्त्यो दह्यते कारिषाग्निना ।
कटकारो भवेत्पश्चात्सप्त जन्म न संशयः ॥ ५०.४५ ॥
लज्जादाक्षिण्यलोभाच्च यद्दानं चोपरोधजम् ।
भृत्येभ्यश्च तु यद्दानं तद्वृथा निष्फलं भवेत् ॥ ५०.४६ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये पात्रापात्रपरीक्षादानादिनियमवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥