स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०४९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४८ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्
अध्यायः ४९
वेदव्यासः
अध्यायः ५० →


अध्याय ४९

मार्कण्डेय उवाच -
अन्धकं तु निहत्याथ देवदेवो महेश्वरः ।
उमया सहितो रुद्रः कैलासमगमन्नगम् ॥ ४९.१ ॥
आगताश्च ततो देवा ब्रह्माद्याश्च सवासवाः ।
हृष्टास्तुष्टाश्च ते सर्वे प्रणेमुः पार्वतीपतिम् ॥ ४९.२ ॥

ईश्वर उवाच -
उपाविशन्तु ते सर्वे ये केचन समागताः ।
निहतो दानवो ह्येष गीर्वाणार्थे पितामह ॥ ४९.३ ॥
रक्तेन तस्य मे शूलं निर्मलं नैव जायते ।
शुभव्रततपोजप्यरतो ब्रह्मन्मया हतः ॥ ४९.४ ॥
कर्तुमिच्छाम्यहं सम्यक्तीर्थयानं चतुर्मुख ।
आगच्छन्तु मया सार्द्धं ये यूयमिह संगताः ॥ ४९.५ ॥
इत्युक्त्वा देवदेवेशः प्रभासं प्रतिनिर्ययौ ।
प्रभासाद्यानि तीर्थानि गङ्गासागरमध्यतः ॥ ४९.६ ॥
अवगाह्यापि सर्वाणि नैर्मल्यं नाभवन्नृप ।
नर्मदायां ततो गत्वा देवो देवैः समन्वितः ॥ ४९.७ ॥
उत्तरं दक्षिणं कूलमवागाहत्प्रियव्रतः ।
गतस्तु दक्षिणे कूले पर्वते भृगुसंज्ञितम् ॥ ४९.८ ॥
तत्र स्थित्वा महादेवो देवैः सह महीपते ।
भ्रान्त्वा भ्रान्त्वा चिरं श्रान्तो निर्विण्णो निषसाद ह ॥ ४९.९ ॥
मनोहारि यतः स्थानं सर्वेषां वै दिवौकसाम् ।
तीर्थं विशिष्टं तन्मत्वा स्थितो देवो महेश्वरः ॥ ४९.१० ॥
गिरिं विव्याध शूलेन भिन्नं तेन रसातलम् ।
निर्मलं चाभवच्छूलं न लेपो दृश्यते क्वचित् ॥ ४९.११ ॥
देवैराह्वानिता तत्र महापुण्या च भारती ।
पर्वतान्निःसृता तत्र महापुण्या सरस्वती ॥ ४९.१२ ॥
द्वितीयः सङ्गमस्तत्र यथा वेण्यां सितासितः ।
तत्र ब्रह्मा स्वयं देवो ब्रह्मेशं लिङ्गमुत्तमम् ॥ ४९.१३ ॥
संस्थापयामास पुण्यं सर्वदुःखघ्नमुत्तमम् ।
तस्य याम्ये दिशो भागे स्वयं देवो जनार्दनः ॥ ४९.१४ ॥
तिष्ठते च सदा तत्र विष्णुपादाग्रसंस्थिता ।
अम्भसो न भवेन्मार्गः कुण्डमध्यस्थितस्य च ॥ ४९.१५ ॥
शूलाग्रेण कृता रेखा ततस्तोयं वहेन्नृप ।
तत्तोयं च गतं तत्र यत्र रेवा महानदी ॥ ४९.१६ ॥
जललिङ्गं महापुण्यं चकतीर्थं नृपोत्तम ।
शूलभेदे च देवेशः स्नानं कुर्याद्यथाविधि ॥ ४९.१७ ॥
आत्मानं मन्यते शुद्धं न किंचित्कल्मषं कृतम् ।
तस्यैवोत्तरकाष्ठायां देवदेवो जगद्गुरुः ॥ ४९.१८ ॥
आत्मना देवदेवेशः शूलपाणिः प्रतिष्ठितः ।
सर्वतीर्थेषु तत्तीर्थं सर्वदेवमयं परम् ॥ ४९.१९ ॥
सर्वपापहरं पुण्यं सर्वदुःखघ्नमुत्तमम् ।
तत्र तीर्थे प्रतिष्ठाप्य देवदेवं जगद्गुरुः ॥ ४९.२० ॥
रक्षापालांस्ततो मुक्त्वा शतं साष्टविनायकान् ।
क्षेत्रपालाः शतं साष्टं तद्रक्षन्ति प्रयत्नतः ॥ ४९.२१ ॥
विघ्नास्तस्योपजायन्ते यस्तत्र स्थातुमिच्छति ।
केचित्कुटुम्बात्ततासु व्याग्राः केचित्कृषीषु च ॥ ४९.२२ ॥
केचित्सभां प्रकुर्वन्ति केचिद्द्रव्यार्जने रताः ।
परोक्षवादं कुर्वन्ति केऽपि हिंसारताः सदा ॥ ४९.२३ ॥
परदाररताः केचित्केचिद्वृत्तिविहिंसकाः ।
अन्ये केचिद्वदन्त्येवं कथं तीर्थेषु गम्यते ॥ ४९.२४ ॥
क्षुधया पीड्यते भार्या पुत्रभृत्यादयस्तदा ।
मोहजालेषु योज्यन्ते एवं देवगणैर्नराः ॥ ४९.२५ ॥
पापाचाराश्च ये मर्त्याः स्नानं तेषां न जायते ।
संरक्षन्ति च तत्तीर्थं देवभृत्यगणाः सदा ॥ ४९.२६ ॥
धन्याः पुण्याश्च ये मर्त्यास्तेषां स्नानं प्रजायते ।
सरस्वत्या भोगवत्या देवनद्या विशेषतः ॥ ४९.२७ ॥
अयं तु सङ्गमः पुण्यो यथा वेण्यां सितासितः ।
दृष्ट्वा तीर्थं तु ते सर्वे गीर्वाणा हृष्टचेतसः ॥ ४९.२८ ॥
देवस्य सन्निधौ भूत्वा वर्णयामासुरुत्तमम् ।
इदं तीर्थं तु देवेश गयातीर्थेन ते समम् ॥ ४९.२९ ॥
गुह्याद्गुह्यतमं तीर्थं न भूतं न भविष्यति ।
शूलपाणिः समभ्यर्च्य इन्द्राद्यैरप्सरोगणैः ॥ ४९.३० ॥
यक्षकिन्नरगन्धर्वैर्दिक्पालैर्लोकपैरपि ।
नृत्यगीतैस्तथा स्तोत्रैः सर्वैश्चापि सुरासुरैः ॥ ४९.३१ ॥
पूज्यमानो गणैः सर्वैः सिद्धैर्नागैर्महेश्वरः ।
देवेन भेदितं तत्र शूलाग्रेण नराधिप ॥ ४९.३२ ॥
त्रिधा यत्रेक्ष्यतेऽद्यापि ह्यावर्तः सुरपूरितः ।
कुण्डत्रयं नरव्याघ्र महत्कलकलान्वितम् ॥ ४९.३३ ॥
सर्वपापक्षयकरं सर्वदुःखघ्नमुत्तमम् ।
तत्र तीर्थे तु यः स्नाति उपवासपरायणः ॥ ४९.३४ ॥
दीक्षामन्त्रविहीनोऽपि मुच्यते चाब्दिकादघात् ।
ये पुनर्विधिवत्स्नान्ति मन्त्रैः पञ्चभिरेव च ॥ ४९.३५ ॥
वेदोक्तैः पञ्चभिर्मन्त्रैः सहिरण्यघटैः शुभैः ।
अक्षरैर्दशभिश्चैव षड्भिर्वा त्रिभिरेव वा ॥ ४९.३६ ॥
पृथग्भूतैर्द्विजातीनां तीर्थे कार्यं नराधिप ।
ब्रह्मक्षत्रविशां वापि स्त्रीशूद्राणां तथैव च ॥ ४९.३७ ॥
पुरुषाणां त्रयीं ध्यात्वा स्नानं कुर्याद्यथाविधि ।
दशाक्षरेण मन्त्रेण ये पिबन्ति जलं नराः ॥ ४९.३८ ॥
ते गच्छन्ति परं लोकं यत्र देवो महेश्वरः ।
केदारे च यथा पीतं रुद्रकुण्डे तथैव च ॥ ४९.३९ ॥
पञ्चरेफसमायुक्तं क्षकारं सुरपूजितम् ।
ओङ्कारेण समायुक्तमेतद्वेद्यं प्रकीर्तितम् ॥ ४९.४० ॥
यस्तत्र कुरुते स्नानं विधियुक्तो जितेन्द्रियः ।
तिलमिश्रेण तोयेन तर्पयेत्पितृदेवताः ॥ ४९.४१ ॥
कुलानां तारयेद्विंशं दशपूर्वान्दशापरान् ।
गयादिपञ्चस्थानेषु यः श्राद्धं कुरुते नरः ॥ ४९.४२ ॥
स तत्र फलमाप्नोति शूलभेदे न संशयः ।
यस्तत्र विधिना युक्तो दद्याद्दानानि भक्तितः ॥ ४९.४३ ॥
तुदक्षयं फलं तत्र सुकृतं दुष्कृतं तथा ।
गयाशिरो यथा पुण्यं पितृकार्येषु सर्वदा ॥ ४९.४४ ॥
शूलभेदं तथा पुण्यं स्नानदानादितर्पणैः ।
भक्त्या ददाति यस्तत्र काञ्चनं गां महीं तिलान् ॥ ४९.४५ ॥
आसनोपानहौ शय्यां वराश्वान् क्षत्रियस्तथा ।
वस्त्रयुग्मं च धान्यं च गृहं पूर्णं प्रयत्नतः ॥ ४९.४६ ॥
सयोक्त्रं लाङ्गलं दद्यात्कृष्टां चैव वसुंधराम् ।
दानान्येतानि यो दद्याद्ब्राह्मणे वेदपारगे ॥ ४९.४७ ॥
श्रोत्रिये कुलसम्पन्ने शुचिष्मति जितेन्द्रिये ।
श्रुताध्ययनसम्पन्ने दम्भहीने क्रियान्विते ।
त्रयोदशाहःस्वेकैकं त्रयोदशगुणं भवेत् ॥ ४९.४८ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदोत्पत्तिमाहात्म्यवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥