स्कन्दपुराणम्/खण्डः ८ (अम्बिकाखण्डः)/०१
आगामी पृष्ठः (अध्यायाः ११ - २०)
अध्यायाः १ - १०
3
ॐ नमः शिवाय
नमः परमदेवाय त्रैगुण्यविजितात्मने ।
शाश्वते१ योगरूपाय संसाराभावहेतवे२ । । १ । ।
स्थितिसंरोधसर्गाणां३ हेतवेन्त (?) प्रसारिणे४ ।
षड्विंशाय प्रधानाय महादेवाय धीमते । । २ । ।
प्रजाषतेर्महाक्षेत्रे५ गङ्गाकालिन्दिसङ्गमे ।
प्रयागे परमे पुण्ये ब्रह्मणो लोकवर्त्मनि । । ३ । ।
मुनयः शंशितात्मानस्तपसा क्षीणकल्मषाः ।
तीर्थसंप्लवनार्थाय६ पौर्णमास्यां कृताह्निकाः । ।४। ।
पौराणिकमपश्यन्त७ सूतं सत्यपरायणम् ।
स्नात्वा तस्मिन्महातीर्थे प्रणामार्थमुपागतम् । । ५। ।
दृष्टवा ते सूतमायान्तमृषयो हृष्टमानसाः८ ।
आशास्या९ सनसंवेशं१० तद्योगं११ समकल्पयन्१२ । । ६ । ।
स प्रणम्य ततः१३ सर्वान् सूतस्तान्मुनिपुङ्गवान् ।
प्रदत्तमासनं भेजे सर्वधर्मसमन्वितः १४ । ।७ । ।
तमासीनमपृच्छन्ते १५ मुनयस्तपसैधिताः१६ ।
ब्रह्मसत्रे पुरा साधो१७ नैमिशारण्यवासिनाम्१८। ।८ । ।
१ शाश्वतो - ख., सर्वतो - घ. । २ ससारभार - घ, संसारोद्भाव - - ख. । ३ स्थितिसं बोध ... - घ । ४ कर्त्रे इर्त्रे पुरारिणे - च. । ५ पुरा हुतवहक्षेत्रे,. महक्षेत्रे - ख. । ६. सप्लावनार्थाय - घ । ७ - -. न्ते - ख, -रत - च । ८ .. न्तं सर्वेप्या कृष्टमानसाः - य । ९ आश्चर्या - ध. । १० सेन - ष. । ११ ग्यं - व. ( १२ येत् - य. । १३ च तान् - ब. । १४ धर्मागमा .. - व. । १५ अपृच्छन्त - घ. । १६ - स्तं समाहिताः -ये. ।? तपसेधिता - .ख । १७ पुरासीना - घ. । १८ वासिन. - घ ।
4
कथितं भारताख्यानं पुराणं च परं त्वया।
तेन नः प्रतिभासि त्वं साक्षात्सत्यवतीसुतः ।।६ ।।
सर्वागमपरार्थज्ञः सत्यधर्मपरायणः॥
द्विजपूजारतो नित्यं तेन पृच्छां त्वमर्हसि ॥8.1.१०॥
भारताख्यानसदृशं पुराणाद्यद्विशिष्यते॥
तत्त्वा पृच्छाम वै जन्म कार्त्तिकेयस्य धीमतः ॥११॥
इमे हि मुनयः सर्वे त्वदुपास्तिपरायणाः॥
स्कन्दसंभवशुश्रूषा संजातौत्सुक्यमानसाः ॥१२॥
एवमुक्तस्तदा सूतः संसिद्धैर्मुनिपुंगवैः॥
प्रोवाचेदं मुनीन्सर्वान्वचो भूतार्थवाचकम् ॥१३॥
शृणुध्वं मुनयः सर्वे कार्त्तिकेयस्य सम्भवम् ॥
ब्रह्मण्यत्वं समाहात्म्यं वीर्यं च त्रिदशाधिकम् ॥१४॥
मुमुक्षया परं स्थानं याते शुकमहात्मनि॥
सुतशोकाभिसंतप्तो व्यासस्त्र्यम्बकमैक्षत ॥१५ ॥
दृष्ट्वैव स महेशानं व्यासोऽभूद्विगतव्यथः॥
विचरन्स तदा लोकान्मुनि सत्यवतीसुतः ॥१६॥
मेरुशृङ्गेऽथ ददृशे ब्रह्मणः सुतमग्रजम्॥
सनत्कुमारं वरदं योगैश्वर्यसमन्वितम् ॥१७॥
विमाने रविसंकाशे तिष्ठन्तमनलप्रभम्॥
मुनिभिर्योगसंसिद्धैस्तपोयुक्तैर्महात्मभिः ॥१८॥
वेदवेदाङ्गतत्त्वज्ञैः सर्वधर्मागमान्वितैः॥
सकलावाप्तविद्यैस्तु चतुर्वक्त्रमिवावृतम् ॥१९ ॥
दृष्ट्वा तं सुमहात्मानं व्यासो मुनिमथास्थितम्॥
ववन्दे परया भक्त्या साक्षादिव पितामहम् ॥8.1.२०॥
ब्रह्मसूनुरथ व्यासं समायातं महौजसम्॥
5
परिष्वज्य परं प्रेम्णा प्रोवाच वचनं शुभम् ॥२१ ॥
दिष्ट्या त्वमसि धर्मज्ञ प्रसादात्पारमेश्वरात् ॥
अपेतशोकः सम्प्राप्तः पृच्छस्व प्रवदाम्यहम् ॥२२ ॥
श्रुत्वाथ वचनं सूनोर्ब्रह्मणो मुनिपुंगवः॥
इदमाह वचो विप्राश्चिरं यद्धृदये स्थितम् ॥२३ ॥
कुमारस्य कथं जन्म कार्त्तिकेयस्य धीमतः ॥
किंनिमित्तं कुतो वास्य इच्छाम्येतद्धि वेदितुम् ॥२४॥
कथं रुद्रसुतश्चासौ वह्निगङ्गासुतः कथम्॥
उमायास्तनयश्चैव स्वाहायाश्च कथं पुनः॥
सुपर्ण्याश्चाथ मातॄणां कृत्तिकानां कथं च सः ॥२५ ॥
कश्चासौ पूर्वमत्पन्नः किंतपाः कश्च विक्रमः॥
भूतसंमोहनं ह्येतत्कथयस्व यथातथम् ॥२६ ॥
सूत उवाच
एवं स पृष्टस्तेजस्वी ब्रह्मणः पुत्रसत्तमः॥
उवाच सर्वं सर्वज्ञो व्यासायाक्लिष्टकारिणे ॥
तच्छृणुध्वं यथातत्त्वं कीर्त्यमानं मयानघाः ॥२७ ॥
इति स्कन्दपुराणे प्रथमोऽध्यायः
6
सनत्कुमार उवाच
प्रपद्ये देवमीशानं सर्वज्ञमपराजितम् ।
महादेवं महात्मानं विश्वस्य जगतः पतिम् ।।१ ।।
शक्तिरप्रतिघा यस्य इइ ऐश्वर्यञ्चैव सर्वशः ।
स्वामित्वञ्च विभुत्वञ्च स्वकृतानि प्रचक्षते ।।२।।
तस्मै देवाय सोमाय प्रणम्य प्रयतः शुचिः ।
पुराणाख्यानजिज्ञासोर्वक्ष्ये स्कन्दोद्भवं शुभम् ।।३ । ।
देहावतारो देवस्य रुद्रस्य परमात्मनः ।
प्राजापत्याभिषेकश्च हरणं शिरसस्तथा ।।४। ।
दर्शनं षट्कुलीयानां चक्रस्य च विसर्जनम् ।
नैमिशस्योद्भवश्चैव सत्रस्य च समापनम् । ।५।।
ब्रह्मणश्चागमस्तत्र तपसश्चरणन्तथा ।
शर्वस्य दर्शनञ्चैव देव्याश्चैव समुद्भवः । ।६।।
सत्या विवादश्च तथा दक्षशापस्तथैव च ।
सेनायाश्च समुत्पत्तिर्यथा देव्याः स्वयंवरः ।।७।।
देवानां वरदानञ्च वसिष्ठस्य च धीमतः ।
पराशरस्य चोत्पत्तिर्व्यासस्य च महात्मनः ।।८ ।।
वसिष्ठकौशिकाभ्याञ्च वैरोद्भवसमापनम् ।
वाराणस्याश्च शून्यत्वं क्षेत्रमाहात्म्यवर्णनम् ।।९। ।
रुद्रस्य चात्र सान्निध्यं नन्दिनश्चाप्यनुग्रहः ।
गणानां दर्शनञ्चैव कथनञ्चाप्यशेषतः ।।8.2.१ ० । ।
कालीव्याहरणञ्चैव तपश्चरणमेव च ।
सोमनन्दिसमुत्पत्तिर्वरदानं तथैव च । ।१ १ । ।
7
गौरीत्वं पुत्रलम्भश्च देव्या उत्पत्तिरेव च ।
कौशिक्या भूतमातृत्वं सिंहस्य रथता तथा ।।१२।।
गौर्याश्च निलयो विन्ध्ये विन्ध्यसूर्यसमागमः ।
अगस्त्यस्य च माहात्म्यं वधः सुन्दनिसुन्दयोः ।।१३ ।।
निशुम्भशुम्भनिर्णाशो महिषस्य वधस्तया ।
अभिषेकश्च कौशिक्या - - - - - - - - ।।१४।।
- - - - - - - - वरदानमथापि च ।
अन्धकस्य तथोत्पत्तिः पृथिव्याश्चैव बन्धनम् ।।१५।।
हिरण्याक्षवधश्चैव हिरण्यकशिपोस्तथा ।
बलशंशमनं चैव देव्याः समय एव च ।।१६।।
देवानां गमनं चैवं अग्नेर्दूतत्वमेव च ।
देवानां वरदानं च शुक्रस्य च विसर्जनम् ।।१७।।
दूतस्य च तथोत्पत्तिर्देव्याश्चान्धकदर्शनम् ।
शैलादिदैन्यसम्मर्द्दो देव्याश्च शतरूपता ।।१८।।
आर्यावरप्रदानं च शैवादिस्तव एव च ।
देवस्यागमनं चैव वृत्तस्य कथनं तथा ।।१९।।
पतिव्रतायाश्चाख्यानं गुरुशुश्रषणस्य च ।
आख्यानं पञ्चचूडायास्तैजसश्चाप्यधृष्यता ।।8.2.२०।।
दूतस्यागमनं चैव संवादोथ विसर्जनम् ।
अन्धकासुरसंवादो मन्दरागमनं तथा ।।२१।।
गणानामागमश्चैव संख्यानश्रवणं तथा ।
विग्रहश्चान्धकस्याथ युद्धे (?)नं - महता तथा ।।२२।।
शरीरार्धप्रदानं च अशोकसुतसंग्रहः ।
भम्मसोमोद्भवश्चैव श्मशानवसतिस्तथा ।।२३ ।।
8
उत्पत्तिर्यक्षराजस्य कुबेरस्य च धीमतः।
निग्रहो भुजगेन्द्राणां शिखरस्य च पातनम् ।।२४।।
त्रैलोक्यस्य सशक्रस्य वशीकरणमेव च।।
देवसेनाप्रदानं च सेनापत्याभिषेचनम् ।। २५।।
नारदख्यागमश्चैव तारकप्रेषितस्य ह ।।
वधश्च तारकस्योग्रो यात्रा भद्रवटस्य च ।।२६।।
महिषस्य वधश्चैव क्रौञ्चस्य च निबर्हणम्।।
शक्तेरुद्धरणं चैव तारकस्य वधः शुभः ।।२७।।
देवासुरभयोत्पत्तिस्त्रैपुरं युद्धमेव च ।।
प्रह्लादविग्रहश्चैव कृतघ्नाख्यानमेव च।।
महाभाग्यं बाह्मणानां विस्तरेण प्रकीर्त्यते ।।२८।।
एतज्ज्ञात्वा यथावद्धि कुमारानुचरो भवेत्।।
बलवान्मतिसम्पन्नः पुत्रं चाप्नोति संमतम् ।।२९।।
इति स्कन्दपुराणे द्वितीयोऽध्यायः
सनत्कुमार उवाच
शृणुष्वेमां कथां दिव्यां सर्वपापप्रणाशनीम्।।
कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसंमिताम्।।
यां श्रुत्वा पापकर्मापि गच्छेच्च परमां गतिम् ।।१।।
न नास्तिकाश्रद्दधाने शठे चापि कथंचन।।
इमां कथामनुब्रूयात्तथा चासूयके नरे ।।२।।
इदं पुत्राय शिष्याय धार्मिकायानसूयवे।।
कथनीयं महाब्रह्मन्देवभक्ताय वा भवेत्।।३।।
9
कथनीयं५ सदा ब्रह्मन् देवभक्ताय वा भवेत् ।
कुमारभक्ताय तथा श्रद्दधानाय चैव हि । ।४।।
सदा वाच्यमिदं६ गुह्यं यतीनां भावितात्मनाम् ।
ततः प्रोवाच - - - प्रप-न्नेनान्तरात्मना । ।५। ।
पुरा ब्रह्मा प्रजा७ त्वष्टुरण्डेस्मिन्८ संप्रसूयत ।
सोज्ञानात् पितरं ब्रह्मा न वेद तमसावृतः । ।६ । ।
अहमेक९ इति ज्ञात्वा सर्व्वांल्लोकानवैक्षत१० ।
न चापश्यत तत्रान्यं११ तपोयोगबलान्वितः । ।७। ।
पुत्रपुत्रेति चा१२प्युक्तो१३ ब्रह्मा शर्वेण धीमता ।
प्रणतः१४ प्राञ्जलिर्भूत्वा तमेव शरणं गतः ।।८ । ।
स दत्त्वा ब्रह्मणे शम्भुः स्रष्टृत्वं१५ ज्ञानसंहितम् ।
विभुत्वं१६ चैव लोकानामन्तर्धात्१७ परमेश्वरः । ।९ । ।
तदेषोपनिषत् प्रोक्ता मया व्यास सनातनी१८ ।
यां श्रुत्वा योगिनो ध्यानात् प्रपद्यन्ते१९ महेश्वरम् । ।8.3.१ ० । ।
यो ब्रह्माणं विदधे पुत्रमग्रे ज्ञानञ्च यः प्रहिणोति स्म२० तस्मै ।
तमात्मस्थं येनु२२ पश्यन्ति धीरास्तेषां शान्तिः शाश्वती२३ नेतरेषाम्। ।१ १ । ।
स व्यास पितरं दृष्ट्वा दीप्त्या२३ परमया२४ युतम् ।
पुत्रकामः प्रजाहेतोस्तपस्तीव्रं चचार२५ ह । ।१२ । ।
तस्योग्रयोगतपसा२६ युक्तस्य२७ सुमहात्मनः ।
अचिरेणैव कालेन पिता संप्रतुतोष ह२८ । । १३ । ।
दर्शनं चागमत्तस्य वरदोस्मी त्युवाच च२९ ।
स ३० तुष्टावा ३१ नतो भूत्वा कृत्वा शिरसि चाञ्जलिम् । ।१४। ।
५ ... या - घ. । ६ वाक्य?.. - घ. । ७... ध्यक्षो - घ. । ८ ब्रह्माण्डे - घ.... मण्डे (?) । ९... व - ख । १०.. वेक्षत क. ख. । ११ कश्चापि - घ. । १२ स प्रो, - घ. । १३... क्तौ - ख । १४ प्राञ्जलिः... प्रणतोभू. .. घ. । १५ सुहृत्वं - ख । १६ चापि- ध. । १७... ःर्द्ध - क. । १८... ना - क. । १९ ... न्ति - क. । २० स्मेति पदं घ. पुस्तके न विद्यते । २१ न - ख. । २२.. ता - क. । २३ स्वदीप्त्या - क. ख., प्रदीप्त्या - घ- । २४ परया - क. ख. घ । परमया - क. टी. । २५ चकार - घ. । २६ महता योगतपसा - ख. । २७ च ... - प. २८ पितरं प्रत्यतोषयत् - ख. । २९ ह - ख. । ३० तमुवाचा... - ख. । ३१... व - क ।
10
नमः परमदेवाय देवानामपि वेधसे ।
स्रष्ट्रे वै लोकतन्त्राय३२ ब्रह्मणः पतये नमः । ।१ ५ । ।
एकस्मै३३ शक्तियुक्ताय आसक्तिरहिताय३४ च ।
अनन्तायाप्रमेयाय इन्द्रियाविषयाय ३५ च । ।१ ६ । ।
व्यापिने व्याप्तपूर्वाय अधिष्ठात्रे प्रचोदिने ।
कृतप्रचोदनायैव तत्त्वविन्यासकारिणे ३६ । ।१७। ।
प्रधानचोदकायैव गुणानां ३७ शक्तिदाय च ।
दृष्टिदाय च सर्वेषां स्वयं वै दर्शनाय च । ।१८ । ।
विषयग्राहिणे चैव नियमस्य च कारिणे ।
मनसः करणानां३८ च कर्त्रे वै३९ निगमस्य४० च ।।१ ९ । ।
भूतानां गुणकर्त्रे च शक्तिदाय तथैव च ।
कर्त्रे ह्यण्डस्य मह्यञ्च४१ अचिन्त्यायाग्रजाय च । ।8.3.२ ० । ।
अप्रमेय पितर्नित्यं४२ प्रीतो४३ नो दिश४४ शक्वरीम् ।
अप्रमेयगुणैश्वर्यशक्तयेव्याहताय वै । ।२१ । ।
तस्यैवं स्तुवतो४५ व्यास देवदेवो महेश्वरः४६ ।
तुष्टोव्रवीत् स्वयं पुत्रं ब्रह्माणं प्रणतं तदा४७ । ।२२। ।
यस्मात्ते विदितं वत्स सूक्ष्ममेतन्महाद्युते ।
तस्माद् ब्रह्मेति लोकेषु नाम्ना ख्यातिं गमिष्यसि । ।२३ । ।
यस्माच्चाहं पितेत्युक्तस्त्वया बुद्धिमतां वर ।
तस्मात् पितामहत्वं ते लोके ख्यातिं गमिष्यति४८ । ।२४। ।
प्रजार्थं यच्च ते तप्तं तप उग्रं सुदुश्चरम् ।
तस्मात्प्रजापतित्वं ते ददामि४९ प्रयतात्मने । ।२५ । ।
३२... स्य (?) । ३३.?. एत... - कः । ३४.,. अशक्ति... - क. ख. । ३५... पाय- क. । ३६... धा-ख । ३७ गुणिनां-ख । ३८ का... - घ. । ३९ तत्रैव - ख । ४० निय... - क. ख. घ. । ४१ ... गु - ख. । ४२ .. यामितायैव - ख । ४३ प्रीति ख । ४४ सर्वग - ख घ. । ४५ स्तुतो - ख. । ४६ देवः स परमेश्वरः - क. स देवः ... पर. - घ. । ४७ तथा - ख । ४८... सि ख. । ४९ ... ति ख. घ ।
11
( ११) एवमुक्त्वा स देवेशो सृजन्मूर्त्तिमतीः५० स्त्रियः ५१ ।
यास्ताः५२ प्रकृतयस्त्वष्टौ विकारा ५३ इन्द्रियैः सह । । २६ । ।
भावाश्च सर्वे ते देवमुपतस्थुः स्वरूपिणः ।
तानुवाच ततो देवः पतिं युक्त्तः ५४ स्वतेजसा । ।२७ । ।
एतमद्याभिषेकेण सम्पादयत मा चिरम् ।
ताभिः स्वं स्वं समादाय भावं दिव्यमतर्कितम् । ।२८ । ।
अभिषिक्तो बभूवेह५५ प्रजापतिरतिद्युतिः ।
तत्रेमं५६ योगिनः ५७ सूक्ष्मं दृष्टवा दिव्येन चक्षुषा । ।२९ । ।
पुराणं ५८ योगतत्त्वज्ञा गायन्ति त्रिगुणान्वितम् ५९ ।
रूद्रः स्रष्टा हि सर्वेषां भूतानां तव च प्रभो६० । ।8.3.३ ० । ।
अस्माभिश्च भवान् सार्द्धं जगतः संप्रवर्त्तकः ।
स देवस्तोषितः सम्यक् परमैश्वर्ययोगधृक्६१ ।
ब्रह्माणमग्रजं ६२ पुत्रं प्राजापत्येभ्यषेचयत् । ।३ १ । ।
यः कृत्वा बहुविधमार्गयोगयुक्तं६३ तन्वाख्यं६४ जगदिदमादराद्युयोज ।
तं देवं६५ परममनन्तयोगयुक्तं मायाभिः त्रिभुवनबन्धुमप्रमादम् ६६ । ।३ २।।
सर्वेषां मनसि सदावतिष्ठमानं६७ पश्यन्तं ६८ शुभमशुभं च भूतनाथम् ।
तं देवं प्रणतगतिं६९ प्रणम्य भक्त्या नित्यं वै शरणमुपैमि७० सूक्ष्मसूक्ष्मम् । ।३ ३ ।।
इति स्कन्दपुराणे ब्रह्मणः प्राजापत्याभिषेचनो७१ नाम तृतीयोघ्यायः ७२
५०... मूतिमत्योसृजत् - क. । ५१ स्त्र... - घ- । ५२ यस्मात् - ख. यास्तदा - घ- । ५३ विशेषा - ख. घ । ५४... तिर्युक्त क.,... तिर्भुक्तः - घ । ५५ थभूत्वे... -क. । ५६ तत्रस्था - क., अत्रे मं - घ । ५७... नं - ख । ५८... ण .. घ. । ५९ ... त्मकं - घ. । ६०... भोः - ख.,.. भुः - घ. । ६१... गैश्वर्यपरयोग - क. घ. । ६२ ब्रह्मणः परमं - ख. । ६३ योगमार्गं - घ. । ६४ तत्त्वा - ख. घ. । ६५ देवानाम्य... - खः । ६६.. .मप्रसादम् - ख. । ६७... नो - ख. । ६८ लोकानां - क., जानानः - ख. । ६९ प्रमथपतिं.. - ख. । ७०... ति - क. ख.,... णि - घ. ७१... षेकोनाम - ख. । ७२ चतुर्थोध्याय इति घ. ।
12
सनत्कुमार१ उवाच
प्राजापत्यं ततो लब्ध्वा प्रजाः स्रष्टुं प्रचक्रमे ।
प्रजास्ताः सृज्यमानाश्च न विवर्धन्ति२ तस्य ह । । १ । ।
स कुर्वाणस्तथा सृष्टिं शक्तिहीनः पितामहः ।
सृष्ट्यर्थं भूय एवाथ तपश्चर्तुं प्रचक्रमे । ।२ । ।
सृष्टिहेतोस्तप३ स्तस्य ज्ञात्वा त्रिभुवनेश्वरः ।
तेजसा जगदाविश्य आजगाम तदन्तिकम्४ । ।३ । ।
स्रष्टा तस्य जगन्नाथो दर्शयत्स्वतनौ जगत् ।
महायोगबलैश्वर्यो५ ज्ञानसिद्धगणावृतः । ।४। ।
स्वयमागत्य देवेशो महाभूतपतिर्हरः ।
व्याप्येव६ हि जगत् कृत्स्नं परमेण स्वतेजसा । । ५। ।
शम्भुः प्राह वरं वत्स याचस्वेति पितामहम् ।
तं ब्रह्मा लोकसृष्ट्यर्थं पुत्रत्वे७ मनसा वरीत्८ । ।६ । ।
स ज्ञात्वा तस्य संकल्पं ब्रह्मणः परमेश्वरः ।
मूढोयमिति सञ्चिन्त्य प्रोवाच वरदः स्वयम् । ।७ । ।
आगतं पितरं मा त्वं यस्मात् पुत्रं९ समीहसे ।
मन्मूर्त्तिस्तनयस्तस्माद् भविष्यति ममाज्ञया । ।८ । ।
स च ते पुत्रतां यात्वा१० मदीयो गणनायकः ।
रुद्रो विग्रहवान् भूत्वा११ मूढ१२ त्वां विनयिष्यति । ।९ । ।
सर्वविद्याधिपत्यं१३ च योगानां चैव सर्वशः ।
बलस्याधिपतित्वं१४ च अस्त्राणां च प्रयोक्तृता१५ । ।8.4.१ ० । ।
१ ऋषि ख. । २ प्र.... - ख । ३ स्तत - घ । ४ च त.. - घ । ५... यं - क. । ६ व्याप्यैव - घ. । ७.. .त्वं - क. ख घ । ८ वदीत् - क., ब्रवीत् - ख. घ. । ९ पुत्रत्व.. - घ? । १० ग.. घ. ११ दृष्ट्वा - घ. । १२... डं - घ १३ त्वं - क १४ वचनस्याधिपत्यत्वं - घ. । १५... गता - घ ।
13
मया दत्तानि तस्याशु उपस्थास्यन्ति सर्वशः ।
धनुः पिनाकः१६ शूलं च खङ्गः१७ परशुरेव च । ।१ १ । ।
कमण्डलुस्तथा दण्ड अस्त्रं१८ पाशुपतं तथा ।
संवर्त्तकाशनिश्चैव चक्रं च प्रतिसर्गिकम्१९ । । १२ । ।
एवं सर्वद्धिसंपन्नः सुतस्ते स२० भविष्यति ।
एवमुक्त्वा गते तस्मिन्नन्तर्धानं महात्मनि । ।१ ३ । ।
ब्रह्मा चक्रे तदा चेष्टिं पुत्रकामः प्रजापतिः ।
स जुह्वञ्छ्रमसंयुक्तः प्रतिघातसमन्वितः । । १४।।
समिद्युक्तेन हस्तेन ललाटं प्रममार्ज ह ।
समित्संयोगजस्तस्य स्वेदबिन्दुर्ललाटजः । ।१५। ।
पपात ज्वलने तस्मिन् द्विगुणं२१ तस्य तेजसा ।
तद्धि माहेश्वरं तेजः सन्धितं२२ ब्रह्मणि२३ स्रुतम्२४। । १६ ।।
प्रेरितं देवदेवेन निपपात हविर्भुजि ।
क्षणे तस्मिन्महेशेन स्मृत्वा तं वरमुत्तमम् । १७। ।
प्रेषितो गणपो२५ रुद्रः सद्य२६ एवाभवत्२७ तदा ।
तच्च संस्वेदजं तेजः पूर्वं ज्वलनयोजितम् । ।१८ । ।
भूत्वा लोहितमाश्वेव२८ पुनर्नीलमभूत्तदा ।
नीललोहित इत्वेव तेनासावभवत्२९ प्रभुः । । १९। ।
त्र्यक्षो दशभुजः श्रीमान् ब्रह्माणं छादयन्निव ।
शर्वाद्यैर्न्नामभिर्ब्रह्मा तनूभिश्च जलादिभिः । ।8.4.२ ० ।।
स्तुत्वा३० तं सर्वगं देवं नीललोहितमव्ययम् ।
ज्ञात्वा सर्वसृजं३१ पश्चान्महाभूतप्रतिष्ठतम् । ।२१ । ।
असृजद्विविधास्त्वन्याः प्रजाः स जगति प्रभुः ।
सोपि योगं समास्थाय ऐश्वर्येण समन्वितः । ।२२ । ।
१६... कं - क. घ । १७... ङ्गं - क. घ । १८ मन्त्र - घ । १९ प्रतिमादिकं - घ । २० सं... - घ. । २१.. .णे - घ- । २२ सन्निभं - घ. । २३... णः - घ । २४ शुचिः - घ. । २५ गगनाद् - व. । २६ सत्य - ध. । २७ शतस्तदा - घ. । २८ वर्णञ्च - घ. । २९.. तन्नामावा-..? घ । ३० स्तुत्वान्तः घ । स्तौति स्मेति स्यात् । ३१... जत्वं च - घ. ।
14
लोकान्सर्वान्समाविश्य धारयामास सर्वदा ।
ब्रह्मणोपि ततः पुत्रा दक्षधर्मादयः शुभाः३२ । ।२ ३ । ।
असृज्यन्त प्रजास्सर्वा देवमानुषसंकुलाः ।
अथ कालेन महता कल्पेतीते पुनः पुनः । । ।२४ । ।
प्रजा धारयतो योगादस्मिन्कल्प उपस्थिते
प्रतिष्ठितायां वार्तायां प्रवृत्ते सृष्टिसर्जने३३ । । ।२५। ।
प्रजासु च विवृद्धासु प्रयागे यजतश्च ह ।
ब्रह्मणः षट्कुलीयास्ते ऋषयः शंसितव्रताः३४ । ।।२६ ।।
मरीचयोत्रयश्चैव वसिष्ठाः क्रतवस्तथा ।
भृगवोङ्गिरसश्चैव तपसा दग्धकिल्बिषाः ।।२७।।
ऊचुर्ब्रह्माणमभ्येत्य सहिताः कर्मणोन्तरे ।
भगवन्नन्धकारेण महता स्मः समावृताः ।।२८।।
खिन्ना विवदमानाश्च न३५ च पश्याम यत्परम् । ।
एतन्नः संशयं देव चिरं हृदि समास्थितम् ।।२९।।
त्वं हि वेत्थ यथातत्त्वं कारणं परमं हि नः३६ ।
किं परं सर्वभूतानां बलीयाँ३७ श्चापि सर्वतः३८ ।।8.4.३ ० ।।
केन चाधिष्ठितं विश्वं को नित्यः कश्च शाश्वतः ।
कः स्रष्टा सर्वभूतानां प्रकृतेश्च प्रवर्तकः ।।३ १ ।।
कोस्मान् सर्वेषु कार्येषु३९ प्रयुनक्ति महामनाः४० ।
कस्य भूतानि वश्यानि कः सर्वविनियोजकः ।।३ २ ।।
कथं पश्येम तञ्चैव एतन्नः शंस सर्वशः ।
एवमुक्तस्ततो ब्रह्मा सर्वेषामेव सन्निधौ ।।३ ३ । ।
देवानां च ऋषीणां च गन्धर्वोरगरक्षसाम्४१ ।
यक्षाणामसुराणां च ये च भूत४२ प्रवर्त्तकाः । । ३४। ।
३२... यस्तथा - घ. । ३३ वृ.. - क. । ३४ संशित... - क. । ३५ तु - घ । ३६ वः - ध. । ३७... यः - घ. । ३८ शः - घ. । ३९ भूतेषु - घ. । ४०. त्मना - क,... त्मनः - ध. । ४१... रा -., क. । राक्षसैः - ध. । ४२ कुत्र - क. ।
15
- - -क्षाणां सपिशाचानां ये चान्ये तत्समीपगाः ।
उत्थाय प्राञ्जलिः प्राह रुद्रेति४३ त्रिःप्लुतं वचः ।।३ ५।।
स चापि तपसा शक्यो द्रष्टुं नान्येन केनचित्
सः४४ स्रष्टा सर्वभूतानां बलवांश्चापि४५ स स्मृतः ।।३६।।
तस्य वश्यानि भूतानि तेनेदं धार्यते जगत् ।
- - - र्व४६ - - - - - ते नमश्चक्रुर्महात्मने ।। ३७।।
ऋषय४७ ऊचुः
किं तन्महत्तपो देव येन दृश्येत स प्रभुः ।
तन्नो वदस्व देवेश वरदं चाभिधत्स्व नः ।।३८।।
पितामह उवाच
सत्रं महत्समासध्वं वाङ्मनोदोषवर्जिताः ।
देशं४८ च वः प्रवक्ष्यामि यस्मिन्देशे चरिष्यथ ।। ३९ ।।
सनत्कुमार उवाच
ततो मनोमयं चक्रं स सृष्ट्वा४९ तानुवाच ह ।
क्षिप्तमेतन्मया चक्रमनुव्रजत मा चिरम् । ।8.4.४० । ।
यत्रास्य नेमिः शीर्येत स देशस्तपसः शुभः ।
ततो मुमोच तच्चक्रं ते च तत्समनुव्रजन् ।४१ । ।
तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्यत ।
नैमिशन्तत् स्मृतं नाम्ना पुण्यं सर्वत्र पूजितम् । ।४२।।
तत्पूजितन्देवमनुष्यसिद्धै रक्षोभिरुग्रैरुरगैश्च दिव्यैः ।
यक्षैः सगन्धर्वपिशाचसंघैः सर्वाप्सरोभिश्च दितेः सुतैश्च ।।४३ ।।
विप्रैश्च दान्तैः शमयोगयुक्तैस्तीर्थैश्च सर्वैरपि चावनीध्रैः५० ।
गन्धर्वविद्याधरचारणंश्च साध्यैश्च विश्वैः पितृभिः स्तुतञ्च ।।४४।।
इति स्कन्दपुराणे षट्कुलीयोत्पत्ति५१र्नाम चतुर्थोध्यायः ।।
४३ विद्रुतं - घ. । ४४ यः - घ. । १५ स्तेन - क. । तन्मयं जगत् - घ. । ४६ अतस्ते सर्वलोकेशो - घ. । ४७ षट्कुलीया - घ. । ४८ वरं - घ. । ४९ ह कृ?) त्वा - घ. । ५० वारणस्थैः ध. । ५१ नैमिशोत्पति रिति पाम्ः साधीयान् ।
16
सनत्कुमार उवाच१
तन्नैमिशं समासाद्य ऋषयो दीप्ततेजसः ।
दिव्यं सत्रं समासन्त महद्वर्षसहस्रिकम् ।। १ । ।
एकाग्रमनसः सर्वे निर्ममा२ निरहंकृताः३ ।
ध्यायन्तो नित्यमीशेशं सदारतनयाग्नयः ।। २ ।
तन्निष्ठास्तत्पराः सर्वे तद्युक्तास्तदुपाश्रयाः४ ।
सर्वक्रियाः५ प्रकुर्वाणास्तमेव मनसा गताः ।। ३ ।।
तेषां तं६ भावमालक्ष्य मातरिश्वा महातपाः ।
सर्वप्राणि७ चरः श्रीमान्८ सर्वभूतप्रवर्तकः९ । ।४।।
ददौ स रूपी भगवान् दर्शनं सत्रिणां शुभः१० ।
तन्ते दृष्ट्वार्चयित्वा च मातरिश्वानमव्यम् ।।५।।
आसीनमासने पुण्ये ऋषयः संश्रितव्रताः११ ।
पप्रच्छु१२रुद्भवं कृत्स्नं१३ जगतः प्रलयन्तथा ।।६। ।
स्थितिञ्च कृत्स्नां१४ वंशांश्च युगमन्वन्तराणि च ।
वंशानुचरितं कृत्स्नं दिव्यमानं तथैव च । ।७ ।।
अष्टानां देवयोनीनामुत्पत्तिं प्रलयन्तथा ।
पितृसर्गं तथा शेषं ब्रह्मणो मानमेव च । ।८। ।
चन्द्रादित्यगतिं सर्वां ताराग्रहगतिं तथा ।
स्थितिं सर्वेश्वराणां च द्वीपधर्ममशेषतः ।।९।।
वर्णाश्रमव्यवस्थानं१५ यज्ञानां च प्रवर्तनम् ।
एतत्सर्वमशेषेण कथयामास स प्रभुः१६ ।।8.5.१ ० ।।
१ सन उ - क. । २ निर्मला - घ. । ३ ह्यनहंकृताः - क- । ४ स्तदपा... - क., स्तत्परायणाः - घ. । ५... यां - घ. । ६ स - ध. । ७... धरो - घ. । ८ देवः घ । ९ लोक.. - घ. । १० ततः - घ. । ११ संशित... - घ. । १२ संभवं - घ । १३ पुण्यं - ध. । १४ कृत्स्नं - क. । १५ नां - क. । १६ सर्वशः - घ. ।
17
दिव्यवर्षसहस्रं च१७ तेषां तदभियात्तथा ।
अथ दिव्येन रूपेण सामवाग् दिङ्निरीक्षणा । ।१ १ । ।
यजुर्घ्राणाथर्वशिरा शब्दजिह्वा शुभा सतो ।
न्यायश्रोत्रा निरुक्तत्वगृक्पादपद१८ गामिनी । ।१ २ । ।
कालबाहूर्वर्षकरा दिवसाङ्गुलिधारिणी ।
कलादिभिः पर्वभिश्च मासैः कररुहैस्तथा । । १३ । ।
कल्पेन चोरसा१९ दिव्या शिक्षाविद्योन्नतस्तनी२० ।
छन्दोविजितमध्या च मीमांसानाभिरेव च । । १४। ।
पुराणविस्तीर्णकटिर्धर्मशास्त्रमनोरथा२१ ।
आश्रमोरुर्वर्णजानुर्यज्ञगुल्फा फलाङ्गुलिः२२ । । १ ५। ।
लोकवेदशरीरा च रोमभिश्छान्दसैः२३ शुभैः ।
श्रद्धा२४ शुभाचारवस्त्रा२५ योगधर्माभिभाषिणी । ।१ ६ । ।
वेदीमध्याद्विनिःसृत्य प्रवृत्ता परमाम्भसा ।
तस्यान्ते२६ वभृथे प्लुत्य वायुना सह संगताः । । १७। ।
तामपृच्छन्त कान्वेषा वायुं देवं महाधियम्२७ ।
उवाच स महातेजा ऋषीन्धर्मानुभावितान्२८ । । १८ ।।
शुद्धाः स्थ तपसा सर्वे महान्धर्मश्च बः कृतः ।
यस्मादियं नदी पुण्या ब्रह्मलोकादिहागता । ।१९। ।
इयं२९ सरस्वती नाम ब्रह्मलोकविभूषणा ।
प्रथमं मर्त्त्यलोकेस्मिन् युष्मत्सिद्ध्यर्थमागता ।
नास्याः पुण्यतमा लोके त्रिषु लोकेषु विद्यते । ।8.5.२० ।।
ऋषय ऊचुः
कथमेषा महापुण्या प्रवृत्ता ब्रह्मलोकगा३० ।
कारणं किञ्च तत्रासीदेतदिच्छाम वेदितुम् ।।२१ ।।
१७ तु - घ. । १८ ऋग्वेदपाद -धा. । १९ कल्पसाधारणा - क. । २० विद्योदित... - (?) ।... ना - क. । २१... रमा - ध. । २२. .लः? - क । २३?. .शी - घ. । २४ शुद्धा - घ. । २५?.. वर्ण्णा - ध. । २६ न्तु (न्त्व?) - घ । २७ मनोगमम् - घ । २८ तानृषीन्धर्म... घ. । २९ एषा - घ. । ३० लोकपा शुभा - ष. ।
18
वायुरुवाच
अत्र वो वर्त्तयिष्यामि इतिहासं पुरातनम् ।
ब्रह्मणश्चैव संवादं पुरा यज्ञस्य चैव हि३१ ।।२२।।
यज्ञैरिष्ट्वा पुरा देवो ब्रह्मा दीप्तेन तेजसा ।
असृजत्सर्वभूतानि स्थावराणि चराणि च ।।२३।।
स दृष्ट्वा दीप्तिमान्देवो दीप्त्या परमया युतः ।
अवेक्षमाणस्ताँल्लोकाँश्चतुर्भिर्मुखपङ्कजैः ।।२४। ।
देवादीन् मानुषादीं ३२ श्च दृष्ट्वा दृष्ट्वा महामनाः ।
अमन्यत न मेन्योस्ति समो लोके न चाधिकः ।।२५।।
योहमेताः प्रजाः सर्वाः सप्तलोकप्रतिष्ठिताः ।
देवमानुषतिर्यक्षु ग्रसामि विसृजामि च ।।२६।।
अहं स्रष्टा हि भूतानां नान्यः कश्चन विद्यते ।
नियन्ता लोककर्ता च न ममास्ति समः३३ क्वचित् ।।२७।।
तस्यैवं मन्यमानस्य यज्ञ आगान्महामनाः ।
उवाच चैनं दीप्तात्मा मैवं३४ मंस्था महामते ।।२८।।
अयं हि तव संमोहो विनाशाय भविष्यति ।
न युक्तमीदृशन्तेद्य सत्वस्थस्यात्मयोनिनः३५ ।।२९।।
स्रष्टा त्वञ्चैव नान्योस्ति तथापि न यशस्करम् ।
अहं धर्त्ता३६ हि भूतानां भुवनस्य तथैब च । ।8.5.३ ० ।।
करोमि न च संमोहं यथा त्वं देव कत्थसे३७ ।
तमुवाच तदा ब्रह्मा न त्वं धारयिता विभो ।।३ १ । ।
अहमेव हि भूतानां धर्त्ता३८ हर्ता३९ तथैव च ।
मया सृष्टानि भूतानि त्वमेवात्र विमुह्यसे ।।३२।।
३१ ह - क. । ३२ मनुष्या - क । ३३ समोस्ति न सम. - घ. । ३४ मैव - क. ग. घ. । ' ३५ जा (या) जिनः - घ. । ३६ कर्ता - क ग घ. । ३७ कथ्यसे - घ. ३८ कर्ता - घ. । ३९ भर्ता - ख. ।
19
अथागत्तत्र संविग्नो वेदः४० परमदीप्तिमान् ।
उवाच चैव तौ वेदो४१ नैत४२ देवमिति प्रभुः ।।३३ ।।
अहं श्रेष्ठो यत्कृतोस्मि४३ न वदाम्यनृतं क्वचित्४४।
शृणुध्वं मम यः कर्त्ता भूतानां युवयोश्च ह ।।३४।।
परमेशो महादेवो रुद्रः सर्वगतः प्रभुः ।
येनाहं तव दत्तश्च कृतस्त्वञ्च प्रजापतिः ।।३५।।
यज्ञोयं यत्प्रसूतिश्च४५ अहं४६ यत्रास्मि४७ संस्थितः४८ ।
सर्वं तस्मात्प्रसूतं वै नान्यः४९ कर्त्तास्ति नः५० क्वचित् ।।३६।।
तमेवंवादिनं देवो ब्रह्मा वेदन५१मभाषत ।
अहं श्रुतीनां५२ सर्वासां नेता५३ स्रष्टा तथैव च ।।३७।।
मत्प्रसादाद्धि वेदस्त्वं यज्ञश्चायं न संशयः ।
मूढौ५४ युवामधर्मो वा भवद्भ्यामन्यथा कृतः ।।३८।।
प्रायश्चित्तं चरध्वं वः किल्बिषान्मोक्ष्यथस्ततः ।
एवमुक्ते तदा तेन महाञ्छब्दो बभूव ह ।।३९।।
आदित्यमण्डलाकारमदृश्यत च मण्डलम् ।
महच्छब्देन५५ महता उपरिष्टाद्५६ वियत्स्थितम् ।।8.5.४०। ।
स चापि तस्माद्विभ्रष्टो भूतलं समुपाश्रितः५७ ।
हिमवत्कुञ्जमासाद्य नानाविहगनादितम् ।।४१।।
व्योमगश्च चिरं भूत्वा भूमिगः संबभूव ह ।
ततो ब्रह्मा दिशः सर्वा निरीक्ष्य मुखपङ्कजैः ।।४२। ।
चतुर्भिर्न वियत्स्थं तमपश्यत्स पितामहः ।
स मुखं पञ्चमं दीप्त५८मसृजन् मूर्घ्नि५९ संस्थितम् ।।४३।।
४० देवः - घ. । ४१ वदतो देवा - घ. । ४२ नेत - घ. । ४३ मत्कृतोस्मि - ग., महाभाग - घ. । ४४ नवदाम्यहमन्यथा - घ ४५. मत्प्रसूतिश्च - क. । ४६. अण्डं - क. ग. घ. । ४७.. - स्ति - घ - ४८... तं - ग. घ. । ४९ सद्यः - घ. । ५० न - घ. । ५१ चेद - घ. । ५२ मुनीनां सर्वेषां - घ । ५३ वेत्ता - घ । ५४. ढो - ग. ध., । ५५ श.. - ध., श्व, श्च? - क. । ५६ रूप... - क. ग. । ५७ सम.. - क. । ५८ दिव्य - ध. । ५९ मूर्ति क. ।
20
तेनापश्यद्वियत्स्थं तं सूर्यायुतसमप्रभम् ।
आदित्यमण्डलाकारं शब्दवद् घोरदर्शनम् ।।४४। ।
तत्सृष्ट्वा पञ्चमं तस्य शिरो वै क्रोधजं महत ।
संवर्तकाग्निसदृशं ग्रसिष्यत्तमवर्धत ।।४५। ।
वर्द्धमानं तदा तत्तु वडवामुखसन्निभम् ।
दीप्तिमच्छब्दवच्चैव देवोसौ दीप्तमण्डलः । ।४६ । ।
हस्ताङ्गुष्ठनखेनाशु वामेनावज्ञयैव हि ।
चकर्त्त तन्महद्घोरं ब्रह्मणः पञ्चमं शिरः ।।४७।।
दीप्तिकृत्तशिराः सोथ दुःखेनोस्रेण६० चार्दितः। ।
पपात मूढचेता६१ वै योगधर्मविवर्जितः । ।४८। ।
स विदंष्ट्रो महाहस्ती विशृङ्गो हरगोपतिः ।
विरश्मिरिव चादित्यः पतितो भूतले बभौ । ।४९। ।
ततः सुप्तोत्थित इव संज्ञां लब्ध्वा महातपाः ।
मण्डलस्थं महादेवमस्तौषीद्दीनया गिरा । । 8.5.५० । ।
ब्रह्मोवाच
नमः सहस्रनेत्राय शतनेत्राय वै नमः६२ ।
नमो विवृतवक्त्राय६३ शतवक्त्राय वै नमः ।।५१ ।।
नमः सहस्रवक्त्राय सर्ववक्त्राय वै नमः ।
नमः सहस्रपादाय सर्वपादाय वै नमः । ।५२।।
सहस्रपाणये चैव सर्वतःपाणये नमः ।
नमः सर्वस्य स्रष्ट्रे६४ च द्रष्ट्रे६५ सर्वस्य ते नमः । ।५ ३ । ।
नम आदित्यवर्णाय६६ शिरसश्छेदनाय च ।
सृष्टिप्रलयकर्त्रे च स्थितिकर्त्रे तथा नमः६७ ।।५४। ।
६० ग्रेण? - घ । ६१... धर्मो - घ. । ६२ चैवहि - घ । ६३ विवृत्त... - क. ग । ६४ द्रष्ट्रं? - क । ६५ द्रष्ट्राय - ग, । ६६ आदित्यवर्णाय नमः - क. ग. घ. । ६७... नध - घ. ।
21
नमः सहस्रलिङ्गाय सहस्रचरणाय च ।
संहारलिङ्गिने६८ चैव जललिङ्गाय वै नमः । ।५५।।
अन्तश्चराय सर्वाय प्रकृतेः पूरणाय च ।
व्यापिने सर्वसत्त्वानां पुरुषप्रेरकाय च ।।५६ । ।
इन्द्रियार्थविशिष्टाय६९ तथा नियमकारिणे ।
भूतभव्याय सर्वाय नित्यमध्यवदाय च (?) । । ५७। ।
त्वमेव स्रष्टा लोकानां मंत्रदाता तथा विभो ।
शरणागताय दान्ताय७० प्रसादं कर्तुमर्हसि ।।५८ । ।
तस्यैवं स्तुवतः सम्यग्भावेन परमेण ह ।
स तस्मै देवदेवेशो दिव्यं चक्षुर्ददौ तदा ।।५९। ।
चक्षुषा तेन स तदा ब्रह्मा लोकपितामहः ।
विमाने सूर्यसंकाशे तेजोराशिमपश्यत । ।8.5.६ ० । ।
तस्य मध्यात्७१ ततो वाचं महतीं सम७२ शृण्वत७३ ।
गंभीरां मधुरा७४ युक्ता७५मर्थ७६ संपन्नलक्षणाम् । ।६१ । ।
विशदां७७ पुत्रपुत्रेति पूर्वं देवेन चोदिताम् ।
अंबरात्पुत्र उत्पन्नो७८ यस्तुभ्यं नीललोहितः । ।६ २ । ।
यच्च पूर्वं मया प्रोक्त७९स्त्वं८० तदा सुतमार्गणे ।
मदीयो गणपो यस्ते मन्मूर्तिश्च भविष्यति । ।६३ । ।
स प्राप्य८१ परमं ज्ञानं मूढ त्वा८२ विनयिष्यति८३ ।
तस्येयं८४ फलनिष्पतिः शिरसश्छेदनं तव८५ । ।६४ । ।
मयैव कारिता तेन निर्वृतश्चाधुना भव ।
ऊर्ध्वगं ज्ञानरूपं तु शिरोदिव्यं समुत्थितम् । । ६५। ।
६८ सङ्घार... क, सहस्र.. - घ. । ६९... विशेषाय - घ । ७०... गजाय दन्ताय - ध. । ७१ मध्यं - घ. । ७२ स तु - घ । ७३ तः - घ । ७४ महता - घ । ७५ स - ग । ७६ थो - ग. । ७७ दिशती - ध । ७८ मुत्पन्नौ - घ. । ७९ प्रोक्तं - ध. । ८० ते - ग. । ८१ सं.. - घ. । ८२ त्वां - घ. । ८३ विनसि - ग., विशसि? । ८४ पश्येहं - घ. । ८५ तथा - ध. ।
22
अस्य८६ चैवोत्पथस्थस्य८७ यज्ञस्य तु८८ महामते ।
शिरश्छेत्स्यत्यसावेव कस्मिंश्चित् कारणान्तरे८९ ।
स्तवेनानेन तुष्टोस्मि किं ददानि९० च तेनघ । ।६६ । ।
वायुरुवाच९१
ततः स भगवान् हृष्टः९२ प्रणम्य शुभया गिरा ।
उवाच प्राञ्जलिर्भूत्वा लक्ष्यालक्ष्यं तमीश्वरम् ।। ६७ । ।
भगवन्नैव मे दुःखं दर्शनात्ते प्रबाधते ।
इच्छामि शिरसो ह्यस्य धारणं सर्वदा त्वया ।।६८ ।।
नाहं९३ स्मरेयमेतच्च शिरसश्छेदनं विभो ।
भूयश्चाधर्मकार्येभ्यस्त्वयैवेच्छे निवारणम् । ।६९।।
तथा च कृत्यमुद्दिश्य पश्येयं त्वा९४ यथासुखम् ।
विज्ञप्ति ब्रह्मणः श्रुत्वा प्रोवाच भुवनेश्वरः । ।8.5.७० ।।
स एव सुतसंज्ञस्ते९५ मन्मूर्त्तिर्नीललोहितः ।
शिरश्छेत्स्यति यज्ञस्य विभर्त्स्यति शिरश्च ते । ।७ १ । ।
इत्युक्त्वा देवदेवेशस्तत्रैवान्तरधीयत ।
गते तस्मिन्महादेवे९६ ब्रह्मा लोकपितामहः ।
सयज्ञः सहवेदश्च९७ स्वं लोकं९८ प्रत्यपद्यत । ।७२ । ।
वायुरुवाच
य इमं९९ शृणुयान्मर्त्यो गुह्यं वेदार्थसंमितम् ।
स देहभेदमासाद्य सायुज्यं ब्रह्मणो व्रजेत् ।।७३ । ।
यश्चेमं पठते नित्यं ब्राह्मणानां समीपतः ।
स सर्वपापनिर्मुक्तो१०० रुद्रलोके महीयते । ।७४। ।
८६ तस्य - ग. । ८७. न्म.. - ग. । ८८ यज्ञास्यत्व न - घ. । ८९ द्रावणान्तरे - घ. । ९० .मि - घ. ९१ वायुरु - ग । ९२ भूयुः (नुष्टः) घ । ९३ नोघ - घ. । ९४ त्वां - घ. । ९५ मज्ञस्ते - घ । ९६ देवः स्वं लोकं प्रत्यपद्यत ग । ९७ देवश्च - घ. । ९८ स्वर्ल्लो - घ । ९९ एवं - घ १०० सर्वपापवि... - घ ।
23
नापुत्रशिष्ययोगिभ्य इदमाख्यानमैश्वरम् ।
आख्येयं१०१ चापि नाज्ञाय१०२ न शठाय न मानिने ।।७५ ।।
इदं महद्दिव्यमधर्मशासनं१०३ पठेत्१०४ सदा ब्राह्मणवैद्यसंसदि ।
कृतावकाशो१०५ भवतीह मानवः१०६ शरीरभेदे१०७ प्रविशेत् पितामहम् ।।७६। ।
इति स्कन्दपुराणे पञ्चमोध्यायः
सनत्कुमार उवाच
ततः स भगवान्देवः कपर्दी नीललोहितः ।
आज्ञया परमेशस्य जग्राह ब्रह्मणः शिरः ।।१ ।।
तद् गृहीत्वा शिरो दीप्तं रूपं विकृतमास्थितः ।
योगक्रीडां समास्थाय भैक्षाय प्रचचार ह ।।२।।
स देववेश्मनि तथा भिक्षार्थमगमद् द्विजाः ।
न चास्य कश्चित्तां भिक्षामनुरूपामदाद्विभोः ।।३।।
अथ संचक्रमे१ देवो वेश्म विष्णोर्महात्मनः ।
तस्या२ तिष्ठत स द्वारि भिक्षामुच्चारयन् शुभाम् ।।४।।
स दृष्ट्वा ततहस्तं३ तं विष्णुर्वै योगचक्षुषा ।
शिवलीलां४ समाज्ञाय रक्तधारामपातयत् ।।५।।
पपात सा च विस्तीर्णा योजनार्द्ध शतं तदा ।
तया पतन्त्या विप्रेन्द्रा बहून्यब्दानि धारया ।।६।।
पितामहकपालस्य नार्धमप्यभिपूरिम् ।
तमुवाच ततो देवः प्रहस्य वचनं शुभम् ।।७।।
सकृत्कन्याः प्रदीयन्ते सकृदग्निश्च जायते ।
सकृद्राजानो ब्रुवते६ सकृद् भिक्षा प्रदीयते ।।८।।
१०१ देयं - ग । १०२ नास्तिका... - ग । १०३ ना - घ. । १०४ पठन् - घ । १०५ क्रीडावकाशो -घ १०६ भवदीय - घ । १०७... पि - घ ।
१ संक्रमणा - मू । २ तस्य - मू । ३ तहतस्तता - मू. । ४ लीलात् - मू । ५.. मादाय (?) । ६ च इत्यधिकं मूले ।
24
तुष्टोस्मि तव दानेन युक्तेनानेन मानद ।
वरं वृणीष्व देवेश वरदोस्मि तवाद्य वै ।।९।।
विष्णुरुवाच
एष एव वरः श्लाघ्यो यदहं देवताधिपम् ।
पश्यामि शंकरं दीप्तं - - - - कपर्द्दिनम्७ ।।8.6.१ ० ।।
देवश्छायां ततो वीक्ष्य कपालस्थे तदा८ रसे९ ।
ससर्ज पुरुषं दिव्यं विष्णोः सदृशमूर्जितम् ।।१ १ ।।
तमाह१० चाक्षयश्चासि अजरोमर११ एव च ।
युद्धेषु चाप्रतिद्वन्द्वो सखा विष्णोरनन्तरः ।।१ २।।
देवकार्यकरः श्रीमान् महासेनपरं वच (? । ।
नारासु जन्म१२ यस्मात्ते वियुद्धे हो भवान्वच(?) ।
नरस्तस्माद्धि नाम्ना त्वं प्रियश्चास्य भविष्यसि ।। १३ ।।
वायुरुवाच
तं तदा१३ श्वास्य विक्षिप्य नरं विष्णोरनन्तरम् ।
अगमद् ब्रह्मसदनं तौ चाप्याविशतुर्गृहम् ।।१४।।
य इदं नरजन्मेह शृणुयाद्वा पठेत वा ।
स कीर्त्या१५ परया युक्तो विष्णुलोके महीयते ।। १ ५।।
इति स्कन्दपुराणे नरजन्मनामा षष्ठोध्यायः ।।
७ ने - भू. । ८... तसा - मू । ९ वसे - मू । १० हा एवक्षय - मू. । हैवाक्षय (?) । ११... रामर - मू. । १२ स्वयं - मू. । १३ तथा (?) । १४ र - मू । १५ कृत्यो - मू ।
25
वायुरुवाच
ब्रह्मलोकं समासाद्य भगवान् सर्वलोकपः ।
भक्ष भैक्षमिति प्रोच्य द्वारे समवतिष्ठत ।।१।।
तं दृष्ट्वा विकृतं ब्रह्मा कपालकरभूषणम् ।
ज्ञात्वा योगेन महता तुष्टाव भुवनेश्वरम् ।।२।।
तस्य तुष्टस्तदा देवो वरदोस्मीत्यभाषत ।
वृणीष्व वरमव्यग्रो यत्ते मनसि वर्तते ।।३।।
ब्रह्मोवाच
इच्छामि देवदेवेश त्वया चिह्नमिदं कृतम् ।
येन चिह्ने न लोकोयं चिह्नितः स्याज्जगत्पते ।।४।।
तस्य तद्वचनं श्रुत्वा भगवान् वदतां वरः ।
सर्वं प्रतिमयं (?) ब्रह्मन्नोमिति व्याजहार सः ।।५।।
तस्यैवं ध्यानमात्रेण वागियं दिव्यरूपिणी ।
निःसृताः वदनाद्देवी प्रह्वा समवतिष्ठत ।।६।।
तामुवाच ततो देवी वाचा संजीवयन्निव ।
यस्मात् त्वम४क्षरो भूत्वा मम वाचो विनिःसृता ।।७।।
सर्वविद्याधिदेवी त्वं तस्माद्देवि५ भविष्यसि ।
यस्माद् ब्रह्मरसं वेदं मुखं६ मम समाश्रिता ।।८।।
तस्मात् सरस्वतीत्येवं७ लोके ख्यातिं गमिष्यसि ।
इमं लोकं रसाम्भोभिर्भावयित्वा च सुप्रभे ।।९।।
सर्वलोकान् तारयिता पुनस्त्वं८ नात्र संशयः ।
यज्ञभागं च ते देवा दास्यंति सपितामहाः ।।8.7.१०।।
इत्येव ब्रह्मणश्चेदं कपालममितौजसः ।
इमं लोकमनुप्राप्य९ देशे प्रेष्ठेवतिष्ठत१० ।।११।।
१. ..क्ष मू. । सर्वोप्ययं घ पुस्तकमूलपाठो मन्तव्यः । २ ध्यात.. । ३... त्य ।?) । ४ त्वं य । ५.. .वी । ६ सुखं? । ७ देवी । ८ स्थ । ९.. प्यं । १०.. .ते ।
26
तत्र तच्च महद्दिव्यं कपालं देवताधिपः ।
स्थापयामास दीप्तार्चिः कुशानामग्रतः प्रभुः ।। १२ । ।
स्थापितं तदथो११ दृष्ट्वा गणाः सर्वे महात्मनः ।
व्यनदन् सुमहानादं नादयन्तो दिशो दश । । १३ ।।
१२ - - - - प्रख्ये१३ - - - - -विदीर्यते ।
तेन शब्देन घोरेण असुरो देवकण्टकः । । १४। ।
हालाहल इति ख्यातस्तं देशं सोभ्यगच्छत ।
अमृष्यमाणः क्रोधान्धो दुरात्मा यज्ञशासकः१४ । । १५ । ।
ब्रह्मदत्तवरश्चैव अवध्यः सर्वजन्तुभिः ।
महिषश्छन्नरूपाणा१५मसुराणां शतैर्वृतः । ।१ ६ । ।
तमापतन्तं सक्रोधं महिषं देवकण्टकम् ।
संप्रेक्ष्याह गणाध्यक्षो गणान्सर्वान् पिनाकिनः । । १७। ।
यो ह्ययं गणपा दुष्टस्त्रैलोक्ये१६ सुरकण्टकः ।
आयाति रुषितो१७ युष्मान्१८ तस्मादेनं निहिंसत१९ । ।१ ८ । ।
ततस्ते गणपाः सर्वे समायातं सुरद्विषम् ।
भित्त्वा शूलेन संक्रुद्धा विगतासुं प्रचक्रिरे । । १९ । ।
हते तस्मिन् तदा देवो दिशः सर्वानवैक्षत ।
ताभ्यः पिशाचवृत्तास्याः पिशाच्यश्च२० महाबलाः । ।8.7.२ ० । ।
अभ्यगच्छत तं देवं२१ ताभ्यस्तं विनिवेदयन् ।
स ताभिरुपयुक्तश्च - - - - - सर्वशः । ।२ १ । ।
तमेवाप्यथवावासं देवादिष्टं प्रपेदिरे ।
भक्षयन्ति स्म तं नित्यं सिद्धासिद्धा यतस्ततः । । २२ । ।
कपालमातरः प्रोक्तास्तस्माद्देवेन धीमता ।
कपालं स्थापितं यस्मात्तस्मिन्देशे पिनाकिना२२ । ।२ ३ । ।
११ तम... । १२ क्षु चंरते सरित्प्रख्यो । १३ निर्भियेन । १८... शाशक । १५... छ । १६ श्वर । १७ दूषिता । १८ यूयं । १९ हिष्यथ । र्ग्वोय मूलपुस्तकपाठो बोध्यः । २०... चाश्च । २१ देशं (?) । २२.. न ।
27
महाकपालं२३ तत्तस्मात् त्रिषु लोकेषु गद्यते२४ ।
स्थापितस्य कपालस्य यथा तदभवत्तदा२५ । ।२४। ।
ख्यातं शिवतडागं तत्सर्वपापप्रमोचनम् ।
आगत्याथ ततो ब्रह्मा देवतानां गणैर्वृतः । ।२५।।
कपर्दिनमुपामंत्र्य तं देशं सोन्व२६गृह्णत ।
अर्द्धयोजनविस्तीर्णं क्षेत्रमन्यत् समंततः ।
भविष्यति न संदेहः सिद्धक्षेत्रं महात्मनः ।।२६। ।
श्मेति२७ हि प्रोच्यते पापं क्षयं शानं२८ विदुर्बुधाः ।
ध्यानेन नियमै२९श्चैव श्मशानं तेन संज्ञितम्३० । ।२७। ।
गुह्य देवाधिदेवस्य३१ परं प्रिय३२मनुत्तमम् ।
एवं तत्र नरः पापं सर्वमेव प्रहास्यति ।।२८।।
त्रिरात्रोपोषितश्चैव अर्चयित्वा वृषध्वजम् ।
राजसूयाश्वमेधाभ्यां फलं कृत्स्नमवाप्स्यति३३ ।। २९।।
यश्च प्राणान् प्रियाँस्तत्र परित्यक्ष्यति मानवः ।
स गुह्यगणदेवानां समतां समवाप्स्यति । ।8.7.३ ० ।।
वायुरुवाच
ततः स तत्र संस्थाप्य देवस्यार्चाद्वयं३४ शुभम् ।
सुरेश्वरश्चकाराशु३५ रुद्रस्यायतनं शुभम् । ।३ १ ।।
तत्राभिगमनादेव कृत्वा पापस्य संक्षयम् ।
रुद्रलोकमवाप्नोति स प्राहैवं३६ पितामहः । । ३२।।
यत्र चापि शिरस्तस्य चिच्छेद भुवनेश्वरः ।
३७ - - - सोभवन्नाम्ना देशः पुण्यतमः शुभः ।।३ ३ ।।
२३.. .फ - पं । २४ पद्म? (ठ्य) ते । २५ तम... । २६ सोत्र । २७ श्वे ते । २८ सानं । २९ .. म । ३० संगि... । ३१ देवाति... । ३२ श्रित । ३३... ति । ३४ र्च्च्या.. । ३५ .ञ्चकार... । ३६ प्राहेव । ३७ कस्मादसौ ।
28
ततो देवः३८ सह गणै रूपं विकृतमास्थितः ।
पश्यतां सर्वदेवानामन्तर्द्धानमगात् प्रभुः ।।३४।।
एतच्च३९ देवनाथेन कपालस्थानमव्ययम् ।
सर्वतीर्थाभिषेकस्य फलेन समयोजि यत्४० ।।३५। ।
तदद्यापि महद्दिव्यं सरस्तत्र४१ प्रदृश्यते४२ ।
महाकपालं४३ विप्रेन्द्राः४४ स्वर्गस्तत्राक्षयः स्मृतः ।।३६।।
इदं शुभं दिव्यमधर्मशासनं महाह्रदं सेन्द्रसुरासुरार्चितम् ।
महा४५ कपालप्रकृतोपवर्णनं४६ सुरेशलोकादिविगाहने हितम्४७ ।।३७।।
तपोधनैः सिद्धगणैश्च संस्तुतं दिविष्टतुल्यं४८ द्विजराजमण्डलम् ।
पठेन्नरो यः शृणुयाच्च सर्वदा त्रिविष्टपं गच्छति सोभिनन्दितः४९ ।।३८।।
इति स्कन्दपुराणे कपालसंस्थापनं५० नाम सप्तमोध्यायः
वायुरुवाच
एवं ह्येषा१ भगवती ब्रह्मलोकानुसारिणी ।
युष्माकं धर्मसिद्ध्यर्थं वेदीमध्याद् व्यवर्त्तत ।।१ ।।
सनत्कुमार उवाच
एवं तेषां समाप्तेथ२ सत्रे वर्षसहस्रिके ।
प्रवृत्तायां सरस्वत्यामगात्तत्र३ पितामहः ।।२।।
ब्रह्मोवाच४
भूयोनेनेह५ सत्रेण यजध्वं६ देवमीश्वरम् ।
यदा? वो भविता विघ्न७स्तदा निष्कल्मषं तपः ।।३ ।।
३८ देवैः । ३९ एते च । ४०... जयत् । ४१ सुर.. । ४२ प्रहस्य... । ४३... ली । ४४... न्द्रः । ४५ सहा (द) - ग महत् - घ । ४६ दर्शतं । ४७ . .ङ्गितम् - ग । पाठोयं प्राय सर्वोपि घपुस्तकमूले प्रतिधृतो बोध्यः । -८ विद्दिष्ट - ष. ।. ल्य ... - घ । ४९ रुद्रवशोभिनंदति - घ । ५०... नो - घ-
१ एवमेषा - घ. । २ तु - घ. । ३ म .... घ., आ - ख. । ४ पितामह उवाच - घ. । ५ हन्येह? - घ. । ६ भजध्वं - घ । ७ विघ्नं - घ ।
29
विघ्नं तञ्चैव८ संतीर्य९ तपस्तप्त्वा च भास्वरम् ।
योगं प्राप्य महद्युक्ता१० स्ततो११ द्रक्ष्यथ शङ्करम् ।।४।।
तथेत्युक्त्वा गते तस्मिन् सत्राण्याजह्रिरे१२ तदा ।
बहूनि विविधा१३ काराण्यभियुक्ता१४ महाव्रताः ।।५ ।।
निस्सोमां पृथिवीं कृत्वा कृत्स्ना१५मेतां ततो द्विजाः ।
राजानं सोममानाय्य१६ अभिषोतु१७मियेषिरे ।।६।।
अथ सोपि कृत१८स्तिर्यग१९दृश्येन दुरात्मना ।
स्वर्भानुना हतः सोमस्ततस्ते दुःखिता भवन् ।।७।।
ते गत्वा मुनयः सर्वे कलापग्रामवासिनम् ।
पुरूरवसमानीय राजानन्तेभ्यषेचयन् ।।८।।
ऊचुश्चैनं२० महाभागा हृतः सोमो हि नः प्रभो ।
केनापि तद्भवान्२१ क्षिप्रमिहानयतु मा चिरम्२२ ।।९।।
स एवमुक्तो मृगयन् यदा नासादयत्२३ प्रभुः ।
उवाच स तदा विप्रान् प्रणम्य भयपीडितः ।।8.8.१ ० ।।
परमं यत्न२४मास्थाय मया सोमोभिमार्गितः ।
न च तं वेद्मि केनासौ क्व वा नीत इति प्रभुः ।।११।।
तमेवं२५वादिनं क्रुद्धा ऋषयः शंसितव्रताः ।
ऊचुः सर्वे सुसंरब्धा इलापुत्रं महामतिम् ।।१२।।
भवान् राजा कृत२६स्तात यतो२७स्माभिर्भयार्दितैः ।
न च नस्तद्भयं मुक्तं २८ नापि शक्तोसि२९ वेदितुम् ।। १३।।
विषयेष्वभि३० सक्तात्मा योगात्तं३१ नानुपश्यसि३२ ।
तस्माद्विरोधमास्थाय द्विजेभ्यो वधमाप्स्यसि३३ ।।१४।।
८ तज्जैष? - ष. । ९ संतर्प्य - व. । १० तत्त्वयु.. - ध. । ११?.. त - ख । १२ जज्ञि... - घ । १३. ज्ञानि- घ । १४ अतिभु.. - घ । १५ कृत्वा कृत्स्ना - घ. । १६ मानमस्रो?- - घ । १७ प्रतिषेद - घ, अभिषेक्तु (?) ।
१८ वि.. घ । १९ कृताति - ख., हताशल्यं - घ । २०. .वं - घ । २१ भगवान् - घ । २२ योगवित् - घ । २३. - .? - व. । २४ यज्ञ - घ. । २५ त एवं - घ. । २६ कु... - घ । २७ कृ... - घ । २८ यु.. - घ । २९. ? नो विभौ - ख । ३०.. .ति - घ. । ३१ त्मानम - घ । ३२. .. ति - घ । ३३. - ति घ ।
30
वयमेव हि राजानमानेष्याम३४ सुदुर्विदम् ।
तपसा स्वेन राजेन्द्र पश्य३५ नो बलमुत्तमम्३६ ।।१५।।
ततस्त ऋषयः सर्वे तपसा दग्धकिल्बिषाः ।
अस्तुवन्वाग्भिरिष्टाभिर्गायत्रीं वेदभाविनीम् ।।१६।।
स्तुवतां तु३७ ततस्तेषां गायत्री वेदभाविनी ।
रूपिणी दर्शनं प्रादादुवाचेदं च तान्द्विजान् ।।१७।।
तुष्टास्मि वत्साः किं वोद्य करोमि वरदास्मि वः ।
ब्रूत३८ तत्कृतमद्यैव३९ भविष्यति न संशयः ।।१८।।
ऋषय ऊचुः
सोमो नोपहृतो देवि केनापि सुदुरात्मना ।
तमानय४० नमस्तेस्तु एष नो४१ वर उत्तमः ।।१९।।
सनत्कुमार उवाच
सा तथोक्ता विनिश्चित्य दृष्ट्वा४२ दिव्येन चक्षुषा ।
श्येनीभूता जगामाशु श्वर्भानुमसुरं प्रति ।।8.8.२०।।
व्यग्राणामसुराणां सा च गृहीत्वा सोममागता ।
आगम्य तानृषीन्प्राह अयं सोमोभिषूयताम्४४ ।।२१।।
ते तमासाद्य ऋषयः प्राप्य यज्ञफलं महत् ।
अमन्यन्त तपोस्माकं निष्कल्मषमिति द्विजाः ।।२२।।
ततस्तत्र स्वयं ब्रह्मा सह देवोरगादिभिः ।
आगत्य तानृषीन् प्राह४५ तपः४६ कुरुत४७ मा चिरम् ।।२३ ।।
ते सह ब्रह्मणा गत्वा मैनाकं पर्वतोत्तमम् ।
सर्वैर्देवगणै४८स्सार्द्धं तपश्चेरुः समाहिताः । २४।।
३४ मानयिष्याम - ख, घ. । ३५ यथा - घ. । ३६ योग - घ. । ३७ सा व्रतान्ते (?) - ख. । ३८ ध्रुवं- घ- । ३९... मेवैव - ध. । ४० तस्मा । ( ?) - ख । ४१ ते - घ. । ४२.. .ष्ट्या - ख. । ४३ च - ध. । ४४ स्व (सो) यं राजा नियुज्य... - घ. । ४५ सर्वा - घ. । ४६ स्त... ख., घ. । ४७ कुर्वत - घ. । ४८ सर्वे दे. - ख. ।
31
तेषां कालेन महता तपसा भावितात्मनाम् ।
योगप्रवृत्तिरभवत्४९ सूक्ष्मयुक्ता५० स्ततस्तु ते५१ ।।२५।।
ते युक्ता ब्रह्मणा सार्धमृषयः सह देवतैः ।
महेश्वरे५२ मनः स्थाप्य निश्चलोपलवत् स्थिताः ।।२६।।
अथ तेषां महादेवः पिनाकी नीललोहितः ।
अभ्यगच्छत तं देशं विमानेनार्कतेजसा । ।२७। ।
तद्भावभावितान् ज्ञात्वा स५३ भावेन परेण ह ।
उवाच मेघनिर्हादः शतदुन्दुभिनिस्वनः ।।२८।।
भो भो सब्रह्मका देवाः सविष्णु५४ ऋषिचारणाः ।
दिव्यं चक्षुः प्रयच्छामि पश्यध्वं५५ मां यथेप्सितम्५६ ।।२९।।
सनत्कुमार उवाच
अपश्यन्त५७ ततः सर्वे सूर्यायुतसमप्रभम् ।
विमानं५८ मेरुसंकाशं५९ नानारत्नविभूषितम्६० ।।8.8.३ ० ।।
तस्य मध्येग्निरोचिष्कं६१ सुमहद्दीप्तिमा६२ स्थितम् ।
ज्वालामालापरिक्षिप्त६३मर्चिर्भिरुपशोभितम् ।।३१ ।।
दंष्ट्राकरालवदनं प्रदीप्तानललोचनम् ।
त्रेताग्नि६४ पिङ्गलजटं भुजगाबद्धमेखलम् ।।३२।।
मृष्टकुण्डलिनं चैव शूलाशक्तमहाकरम् ।
पिनाकिनं दण्डहस्तं मुद्गराशनिधारिणम्६५ ।।३३ ।।
असिपट्टिशहस्तं६६ च चक्रिणं चोर्ध्वमेहनम्६७ ।
अक्षसूत्रकरं६८ चैव दुष्प्रेक्ष्य६९मकृतात्मभिः ।।३४।।
४९ रागप्रवृत्तिरभवत् - घ. । ५०... मु.. - घ. । ५१ ततः स्फुटी - घ. । ५२ परमेशे - घ. । ५३ सद् - ख. । ५४ सू - घ., । ि - ख. । ५५... त्वं - घ. । ५६ यथासुखम् - घ. । ५७ तेपश्यँ स्ते - घ. । ५८... ने - ख. । ५९... शे - ख. । ६०... ते - ख. । ६१.. ग्निरोचिस्तं - घ, त्रिकूटञ्च - ख । ६२... मां - ख. ६३.. .क्लिष्ट - घ । ६४... मन्त्राग्नि... - घ. । ६५. पाणिनम् - ख. । ६६... सहर्ष - ख. । ६७.. .मेखलं - घ. । ६८... रथं - घ. । ६९... क्ष - घ. ।
32
चन्द्रादित्यग्रहैश्चैव कृतस्रगुपभूषणम्७० ।
तमपश्यन्त७१ ते सर्वे देवा दिव्येन चक्षुषा ।
यं दृष्ट्वा न भवेन्मृत्युर्मर्त्यस्यापि कदाचन७२ ।।३५।।
तपसा७३ विनियोगयोगिनः प्रणमन्तो भवमिन्दुनिर्मलम्७४ ।
वियतीश्वरदत्तचक्षुषः७५ सह देवैर्मुनयो मुदान्विताः७६ ।।३६।।
प्रसमीक्ष्य७७ महासुरेशकालं मनसा चापि विचार्य दुर्विसह्यम् ।
प्रणमन्त७८ गतात्मभावचिन्ताः७९ सह देवैर्जगदुद्भवं स्तुवन्तः८० । ।।३७।।
इति स्कन्दपुराणे रुद्रदर्शनो नामाष्टमोध्यायः
सनत्कुमार उवाच
ते दृष्ट्वा देवदेवेशं ब्रह्मेन्द्रप्रमुखाः१ सुराः ।
अस्तुवन् वाग्भिरिष्टाभिः प्रणम्य वृषवाहनम् ।।१ ।।
पितामह उवाच
नमः शिवाय सोमाय२ भक्तानां भयहारिणे ।
नमः शूलाग्रहस्ताय कमण्डलुधराय च ।।२।।
नमस्ते३ नीलकण्ठाय करालदशनाय४ च ।
त्रेताग्निदीप्तनेत्राय त्रिनेत्राय हराय च ।।३।।
नमः पिनाकिने चैव नमो५ स्त्वशनिधारिणे ।
व्यालयज्ञोपवीताय कुण्डलाभरणाय च ।।४।।
नमश्चक्रधरायैव व्याघ्रचर्मधराय च ।
कृष्णाजिनोत्तरीयाय सर्पमेखलिने तथा६ ।।५।।
७०.. .ग्रवि... - ख. । ७१.. .तः - ख. । ७२ कथंचन - ध. । ७३ ... सा - घ. । ७४.. .ला - ख. । ७५.. .षा - ख. । ७६... पि हर्षिताः - घ. । ७७ प्रतिवी... - घ. । ७८... न्ति ख., - घ. । ७९ यथात्मभावचित्ताः- घ । गतात्मभावचित्ताः- ख., त्तः - घ. । ८०... वस्तरन्तः - घ. ।
१ ब्रह्माणं... - ख., सर्वे सब्रह्मकाः - घ. । २ सौम्याय - घ. । ३ दान्ताय - घ. । ४... नयनाय - ष । ५ नम - घ । ६ नमः - घ ।
33
वरदात्रे च७ पुत्राय सरस्वतीसुवे८ तथा ।
सोमसूर्याक्षमालाय९ अक्षसूत्रकराय च ।।६।।
ज्वानामालासहस्राय१० ऊर्ध्वलिङ्गाय११ वै नमः ।
नमः पर्वतवासाय शिरोहर्त्रे च मे पुरा ।।७।।
हालाहलविनाशाय कपालवरधारिणे ।
विमानवरवाहाय जनकाय ममैव च१२ ।।८।।
वरदाय वरिष्ठाय श्मशानरतये नमः ।
नमो नरस्य कर्त्रे च स्थितिकर्त्रे१३ नमः सदा ।।९।।
उत्पत्तिप्रलयानां च कर्त्रे सर्वसहाय च ।
ऋषिदैवतनाथाय सर्वभूताधिपाय च ।
शिवः सौम्यश्च देवेश भव१४ नो भक्त१५ वत्सल१६ ।।8.9.१०।।
सनत्कुमार उवाच
ब्रह्मण्यथैवं स्तुवति देवदेवः१७ स लोकपः ।
उवाच तुष्टस्तान्देवानृषींश्च तप्तैधितान् ।११ ।
उ देवान् प । ।
तुष्टोस्म्यनेन वः सत्य१८ न्तपसा ऋषिदेवताः ।
वरं ब्रूत प्रदास्यामि सुनिश्चित्य च१९ उच्यताम् ।।१२।।
सनत्कुमार उवाच
अथ सर्वानभिप्रेक्ष्य संतुष्टाः२० तपसैधितान्२१ ।
दर्शनेनैव२२ विप्रेन्द्र२३ ब्रह्मा वचनमब्रवीत् ।।१३।।
ब्रह्मोवाच
यदि तुष्टोसि देवेश यदि देयो वरश्च नः ।
तस्माच्छिवश्च सौम्यश्च संदृश्यश्च२४ भवस्व नः ।।१४।।
७ वरदानाच्च - घ., परयाम... - ख. । ८.. .ते - घ । ९ सूर्यसोमाकं... - घ. । १०.. .ल .. - ख. घ. । ११ तत्त्व... - घ. । १२ ह - घ. । १३ ह... - ख । १४ भा... - ख. । १५ भक्ति... - घ., द्भक्ति... - ख. । १६... ल. - घ । १७ देवेभ? सर्व... - घ. । १८ सम्यक् - घ । १९ स - ख. । २०.. ष्टस्त.. - घ. । २१.. से.. ख. घ । २२. .न च? - घ । २३.. न्द्रा - घ. । २४ दृश्यश्चैव - ख. ।
34
सुख२५ संव्यवहार्यश्च नित्यं तुष्टमनास्तथा ।
सर्वकार्येषु च सदा हितः२६ पथ्यश्च शंकर ।।१५।।
सह देव्या२७ ससूनुश्च सह देव२८गणैरपि ।
एष नो दीयतां देव वरो वरसहस्रद ।।१६।।
सनत्कुमार उवाच
एवमुक्तः स भगवान् ब्रह्मणा२९ देवसत्तमः ।
स्वकं३० तेजो महद्३१ दिव्यं व्यसृजत्३२ सर्वयोगवित्३३ ।।१७।।
अर्धेन तेजसस्तस्य३४ मुखादुल्का ससर्ज ह ।
तामाह भव नारीति३५ भगवान् विश्वरूपधृक् ।।१८।।
साकाशं द्यां च भूमिञ्च महिम्ना व्याप्य धिष्ठिता३६ ।
उपतस्थे च देवेशं दीप्यमाना यथा तडित् ।।१९।।
तामाह प्रहसन् देवो देवीं कमललोचनाम् ।
ब्रह्माणं देवि वरद३७माराधय शुचिस्मिते ।।8.9.२० ।।
सा तथेति प्रतिज्ञाय तपस्तप्तुं प्रचक्रमे ।
रुद्रश्च तानृषीनाह शृणुध्वं मम तोषणे ।।२१।।
फलं फलवतां श्रेष्ठा यद् ब्रवीमि तपोधनाः ।
अमरा जरया त्यक्ता अरोगा जन्मवर्जिताः ।।२२।।
मद्भक्तास्तपसा युक्ता इहैव३८ च निवत्स्यथ३९ ।
अयं चैवाश्रमः श्रेष्ठः४० स्वर्णशृङ्गोचलोत्तमः ।।२३।।
पुण्यं पवित्रं स्थानं वै भविष्यति न संशयः ।
मैनाके पर्वते ह्यस्मिन्४१ स्वर्णाक्षोहं४२ यतः४३ स्थितः४४ ।।२४।।
२५.? .खं - ख. । २६ भितकल्प... - घ. । २७ सभृत्य.. - ध. । २८ भृत्य (?) । २९... णो - ख. घ. । ३०... कां - ख. । ३१ मयं - घ. । ३२ मभवत् - घ. । ३३ स च घ. । ३४ स्वस्य - ख. । ३५ त्वं - ख. । ३६ संस्थिता - घ. । ३७.. .दा - ख. । ३८ इह चैव घ. । ३९ हि वत्स्य ... - घ. । ४० ष्ठाः-- ख., ष्ठं - घ. । ४१ श्रेष्ठे - ख. । ४२ स्वर्णेहमभवं ग., स्वर्णे महति संचये - ख. । ४३ सदा - घ. । ४४ यतः - ग. ।
35
स्वर्णाक्षीं चासृजं देवीं४५ स्वर्णाक्षं तेन तत्स्मृतम्४६ ।
स्वर्णाक्ष४७ ऋषयो यूयं४८ षट्कुलीया४९ स्तपोधनाः । ।२५।।
निवत्स्यथ मयाज्ञप्ताः स्वर्णाक्षं५० वै ततश्च ह५१ ।
समन्ताद्योजनं क्षेत्रं पवित्रं५२ तन्न संशयः । ।२६ ।।
देवगन्धर्वचरितमप्सरोगणसेवितम्५३ ।
सिंहेभशरभाकीर्णं शार्दूलर्क्षमृगाकुलम्५४ । । २७। ।
अनेकविहगाकीर्णं लतावृक्षक्षुपाकुलम्५५ ।
ब्रह्मचारी नियमवान् जितक्रोधो जितात्मवान्५६ । । २८। ।
उपोष्य त्रिगुणां रात्रिं चरुं कृत्वा निवेद्य च ।
यत्र५७ तत्र मृतः सोपि५८ ब्रह्मलोके निवत्स्यति । । २९। ।
योप्येवमेवाकामान्मां पश्ये५९दत्र वृषध्वजम् ।
गोसहस्रफलं सोपि मत्प्रसादादवाप्स्यति ।। 8.9.३० । ।
नियमेन मृतश्चात्र मया सह चरिष्यति ।
यावत् स्थास्यन्ति लोकाश्च मैनाकश्चाप्ययं गिरिः । । ३१ । ।
तावत् सह मया देवा मत्प्रसादा६०च्चरिष्यथ ।
एवं६१ स तानृषीनुक्त्वा दृष्टवा सौम्येन६२ चक्षुषा ।
पश्यतामेव सर्वेषां तत्रैवान्तरधीयत । ।३ २ । ।
सनत्कुमार उवाच
य इमां६३ शृणुयान्मर्त्यो द्विजातीञ्छ्रावयीत६४ वा ।
सोपि तत्फलमासाद्य चरेन्मृत्युविवर्जितः । । ३३ । ।
जयति जलदवाहः सर्वभूतान्तकालः ।
शमदमनिरतानां६५ क्लेशहर्ता६६ यतीनाम् ।
४५ स्वर्णाक्षी च मया सृष्टा - घ. । ४६ स्वर्णाक्षो यो गिरिस्ततः - घ. । ४७ अस्मिँश्च - घ. ।. क्षं - ख., क्षे.. - ग. । ४८ युक्ताः - घ. । ४९.. .ना - ग. । ५० स्वर्णाक्षे - घ. । ५१ लर्वकामदे - घ. । ५२ भविष्यति - घ. । ५३ गीतनादितम् - ध. । ५४... समा... - घ. । ५५.. .समा... - घ. । ५६ जितेन्द्रियः - घ. । ५७ त... - ख । ५८ साक्षात् - घ. । ५९ त... - ख. घ. । ६० मत्प्रभावा... - ग. । ६१ चैव स ता - घ. । ६२ दिव्येन - घ. । ६३.. .दं - घ. । ६४. येत्तथा - घ. । ६५ निय... ख. ग. घ । ६६... हन्ता - घ.
36
जननमरणहर्ता६७ चेष्टतां धार्मिकाणाम्६८ ।
विविधकरणयुक्तः खेचरः पादचारी ।।३४। ।
मदनपुरविदारी नेत्रदन्तापहारी६९ ।
विगतभयविषादः सर्वभूतप्रणेता७० ।।
सततमभिदधानश्चेकितानात्मचितः ।
करचरणललामः सर्वदृग् देवदेवः ।। ३५ ।।
इति स्कन्दपुराणे७१ वरप्रदानिको नाम नवमोध्यायः
सनत्कुमार उवाच
सा देवी त्र्यम्बकप्रोक्ता तताप सुचिरं तपः ।
निराहारा कदाचिच्च एकपर्ण्णाशना पुनः ।।१ ।।
वाय्वाहारा पुनश्चापि अब्भक्षा१ भूय एव हि२ ।
तां तपश्चरणे युक्तां ब्रह्मा ज्ञात्वातिभास्वराम् ।।२।।
उवाच ब्रूहि तुष्टोस्मि देवि किं करवाणि ते ।
साब्रवीत् त्र्यम्बकं देवं३ पतिं प्राप्येन्दुवर्च्चसम् ।
विचरेयं सुखं देव सर्वांल्लोकान्नमस्तव ।।३।।
ब्रह्मोवाच
नहि येन शरीरेण क्रियते परमं तपः४।
तेनैव परमेशोसौ पतिः शम्भुरवाप्यते ।।४।।
६७... हंता घ. । ६८... ना - ख घ । ६९... वपाती - ख ग,.. वचारी - घ । ७० प्रचेताः - ख घ । ७१ सुवर्णाक्षोत्पत्ति .. - घ. ।
१. .भक्ष - घ. । २ च - घ । ३,. व - ख । ४ च परन्तपे - ख. ।
37
तस्माद्धि योगाद्भवती५ दक्षस्येह प्रजापतेः ।
जायस्व दुहिता भूत्वा पतिं रुद्रमवाप्स्यसि ।।५।।
ततः सा तद्वचः६ श्रुत्वा योगाद्देवी मनस्विनी ।
दक्षस्य दुहिता जज्ञे सतीनामा७तियोगिनी ।।६।।
तां दक्षस्त्र्यम्बकायैव ददौ भार्यामनिन्दिताम् ।
ब्रह्मणो वचनाद्यस्यां मानसा८नसृजत्सुतान् ।।७।।
आत्मतुल्यबलान्दीप्तान् जरामरणवर्जितान् ।
अनेकानि सहस्राणि रुद्राणाममितौजसाम् ।।८।।
तान्दृष्टा मृज्यमानाँश्च ब्रह्मा तं प्रत्यषेधयत् ।
मा स्राक्षीर्देवदेवेश प्रजा मृत्युविवर्जिताः ।।९।।
अन्याः१० सृजस्व भद्रन्ते प्रजा११ मृत्युसमन्विताः१२ ।
तेन चोक्तं स्थितोस्मीति१३ स्थाणुस्तेन ततः स्मृतः ।।8.10.१० ।।
१४देवदेव उवाच
न स्रक्ष्ये मृत्युसंयुक्ताः प्रजा ब्रह्मन् कथञ्चन ।
स्थितोस्मि वचनात्तेद्य वक्तव्यो नास्मि ते पुनः ।।११।।
ये त्विमे मानसाः१५ सृष्टा महात्मानो महाबलाः ।
चरिष्यन्ति मया सार्ध सर्व एते हि याज्ञिकाः ।।१२ ।।
सनत्कुमार उवाच
अथ काले गते व्यास स दक्षः शापकारणात् ।
अन्यानाहूय जामातॄन्सदारानर्च्चयद् गृहे१६ ।।१३।।
सतीं सह त्र्यम्बकेण१७ नाजुहाव रुषान्वितः ।
सती ज्ञात्वा तु तत्सर्वं गत्वा पितरमब्रवीत् ।।१४।।
५.. .ति - घ । ६ तत्त्वत - ख. । ७ नामे - घ. । ८ म... - ख । ९ षेधत - घ. । १० - न्या - ख. । ११... जा - ख. । १२... ताम् - ख. । १३ स्मृतो... - ख. । १४ एतत्स्थाने अथ काले गते व्यास देवदेवोभ्यभाषत । इति घ पुस्तके । १५ मनसा - ख. । १६ महे - घ । १७ ता सती त्र्यम्बकेनाथ - घ. ।
38
अहं ज्येष्ठा वरिष्ठा च जामात्रा सह सुव्रत१८।
मां हित्वा नार्हसि१९ ह्येताः सह भर्तृभिरर्चितुम् ।।१५।।
क्रोधेनाथ समाविष्टः स क्रोधोपहतेन्द्रियः२० ।
निरीक्ष्य प्राब्रवीद्२१ दक्षश्चक्षुषा निर्दहन्निव ।।१६।।
मामेताः सति सस्नेहाः पूजयन्ति सभर्तृकाः ।
न त्वं तथा पूजयसे सह भर्त्रा महाव्रते ।।१७।।
गृहांश्च मे सपत्नीकाः प्रविशन्ति तपोधनाः ।
श्रेष्ठो२२ स्तस्मात्सदा मन्ये ततस्तानर्चयाम्यहम् ।।१८।।
तस्माद् यां ते२३ करोम्यद्य शुभां२४ वा यदि वाशुभाम्२५ ।
पूजां गृहाण तां पुत्रि गच्छ वा यत्र रोचते ।।१९।।
सनत्कुमार उवाच
ततः सा क्रोधदीप्तास्या न जग्राहातिकोपिता ।
पूजामसम्मतां हीनामिदं चोवाच तं शुभा ।।8.10.२० । ।
यस्मादसम्मतामेनां पूजां त्वं कुरुषे मयि ।
श्लाघ्यां चैवाप्यदुष्टाञ्च श्रेष्ठां मां गर्हसे पितः ।।२१ ।।
तस्मादियं२६ स्वकं देहं त्यजाम्येषा२७ तवात्मजम्२८ ।
असत्कृतायाः किं मेद्य जोवितेनाशुभेन ह ।। २२।।
सनत्कुमार उवाच
ततः कृत्वा नमस्कारं मनसा त्र्यम्बकाय ह ।
उपाचेदं सुसंरब्धा वचनं वचनारणिः । ।२३।।
यत्राहमुपपद्येयं पुनर्देहे२९ स्वयेच्छया३० ।
देव तत्राप्यसं३१मूढा३२ संभूता धार्मिका सती । ।२४।।
१८ जामातरि शुभव्रता - घ । १९... से - ख. । २० अज्ञानो... घ. । २१ विषवी - ख, तां पुनर् - । २२ ज्येष्ठाँ - घ । २३ यत्ते - घ । २४, भम् । २५... भम् - घ. । २६... दं - घ. । २७.. ष - घ । २८... जा - घ. । २९ देहं - घ । ३० सुखेच्छपा - घ. । ३१ प्येष - घ । ३२ संमूढा - घ ।
39
गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धीमतः ।
ततः सा धारणां कृत्वा देव्याग्नेयीं समाधिना ।।२५।।
ददाह वै स्वकं देहं स्वसमुत्थेन३३ वह्निना ।
तां ज्ञात्वा३४ त्र्यम्बको देवीं तथाभूतां महायशाः ।।२६।।
उवाच दक्षं संगम्य३५ इदं वचनकोविदः ।
यस्मात्ते निन्दित३६श्चाहं प्रशस्ताश्चेतरे पृथक् ।।२७।।
जामातरः सपत्नीकास्तस्माद्वैवस्वतेन्तरे ।
उत्पत्स्यन्ते पुनर्यज्ञे तव जामातरस्त्विमे ।।२८।।
त्वं चैव मम शापेन क्षत्रियो भविता नृप३७ ।
प्रचेतसां सुतश्चैव कन्यायां शाखिनां पुनः ।
धर्मविघ्नञ्च ते तत्र करिष्ये क्रूरकर्मणः३८ ।।२९।।
सनत्कुमार उवाच
तमुवाच तदा दक्षो दूयता हृदयेन वै ।
मया यदि सुता३९ स्वा४० वै प्रोक्ता त्यक्तापि वा पुनः ।।8.10.३०।।
किं तवात्र४१ कृतं देव अहं तस्याः प्रभुः सदा ।
यस्मात्त्वं मामभ्यशपस्तस्मात्त्वमपि शङ्कर ।
भुव्येव वत्स्यसे नित्यं नान्तरिक्षे कदाचन ।।३ १ ।।
भागं च तव यज्ञेषु दत्त्वा सर्वे द्विजातयः ।
अपस्प्रक्ष्यन्ति सर्वत्र महादेव महाद्युते ।।३२।।
सनत्कुमार उवाच
ततः स देवः प्रहसन् तमुवाच त्रिलोचनः ।
सर्वेषामेव लोकानां मूलं भूर्लोक४२ उच्यते ।।३३ ।।
३३ स (स्व) कीयेनैव - घ. । ३४ ज्ञात्वा तु - घ. । ३५ सम्यक् - घ. । ३६ नार्थित - घ. ३७ नृपः - - घ. । ३८ ... णा - घ. । ३९ मया चैव - घ. । मयेयं दुहिता - ग । ४० सा घ. । ४१... द्य - घ. । ४२ भूरिति - घ. ।
40
तमहं धारयाम्येको लोकानां हितकाम्यया ।
एतस्मिन् हि धृते४३ लोकाः सर्वे तिष्ठन्ति शाश्वताः ।।३४।।
तस्मात्तिष्ठाम्यहं नित्यमिहैव न तवेच्छया ।
भागान्दत्त्वा तथान्येभ्यो दित्सवो मे द्विजातयः ।।३५।।
अपः स्पृशन्ति शुद्ध्यर्थं भागं४४ यच्छन्ति मे ततः ।
शी यश्च धर्मस्यैवाभिवृद्धये ।।।३६।।।
दत्त्वा स्पृशन्ति भूयश्च धर्मस्यैवाभिवृद्ध्ये।।३६।।
यथा४५ हि देवनिर्माल्यं शुचयो धारयन्त्युत ।
अशुचिं४६ स्प्रष्टुकामाश्च त्यक्त्वापः संस्पृशन्ति च ।।३७।।
यथा ममैव४७ मन्येषां दित्सवो ब्राह्मणर्षभाः ।
भागानपः स्पृशन्ति स्म तत्र का परिदेवना ।।३८।।
त्वन्तु मच्छापनिर्दग्धो विपरीतो नराधमः ।
स्वस्यां सुतायां४८ मूढात्मा पुत्रमुत्पादयिष्यसि ।।३९।।
सनत्कुमार उवाच
एवं स भगवाञ्छप्त्वा दक्षं देवो जगत्पतिः ।
विरराम महातेजा जगाम च यथागतम्४९ ।।8.10.४०।।
सोमदिवाकरवह्निसमाक्षं ५० चन्द्रनिभाननपद्मदलाक्षम् ।
गोवृषवाहममेय५१ गुणौघं शाश्वतमिन्दुवह५२ प्रणताः स्मः ।।४१ ।।
य इमं दक्षशापाङ्क५४ देव्याश्चैवाशरीरताम् ।
शृणुयाद् वाथ विप्रान्५५ वा श्रावयीत५६ यतव्रतः ।
स सर्वपापनिर्मुक्तो रुद्रलोकमवाप्नुयात् ।।४२।।
इति स्कन्दपुराणे दक्षशापो नाम दशमोध्यायः
४३ निर्वृत्ते - घ. । ४४. .गान् - ग । ४५ त... - घ । ४६... चि - घ । ४७ देवानामेव - घ., देवतामेव - ख ग । ४८ अस्याः स्वभार्या - घ. । ४९.. .मतम् - घ. । ५० मेरु - कं, मेरु भास्कार - ख., मेरुर्हिमाचलमन्दकरक्षं - घ. ।... समक्षं - घ । ५१ मशेष - घ. । ५२ सततमिहेन्दु.. - ? । ५३ इदं - घ. ५४... ङ्गः - घ. । ५५ विप्रेभ्यः - घ. । ५६... येत - क. ।