स्कन्दपुराणम्/खण्डः ८ (अम्बिकाखण्डः)/०२
पूर्ववर्ती पृष्ठः (अध्यायाः १ - १०)
आगामी पृष्ठः (अध्यायाः २१ - ३०)
अध्यायाः ११ - २०
41
सनत्कुमार उवाच
कदाचित् स्वगृहं१ प्राप्तं कश्यपं द्विपदाम्वरम्२ ।
अपृच्छद्धिमवान् प्रश्नं लोके ख्यातिकरं नु३ किम् । । १ । ।
केनाक्षयाश्च लोकाः स्युः ख्यातिश्च परमा मुने४ ।
तथैव५ चार्चनीयत्वं सत्सु तत्६ कथयस्व मे । । २ । ।
कश्यप उवाच
अपत्येन महाभाग७ सर्वमेतदवाप्यते ।
मम ख्यातिरपत्येन ब्रह्मणश्चर्षिभिः सह । । ३ । ।
किन्न पश्यसि शैलेन्द्र यतो मां परिपृच्छसि ।
वर्त्तयिष्यामि८ तच्चापि यन्मे दृष्टं पुराचल९ । ।४ । ।
वाराणसीमहं गच्छन्नपश्यं संस्थितं दिवि ।
विमानं स्वनवद्दिव्यमनौपम्यमनिन्दितम् । । ५ । ।
तस्याधस्तादार्त्तनादं गर्भस्थाने१० शृणोम्यहम् ।
- - - - - - - - - - - - - - - - ।
तानहं ११ तपसा ज्ञात्वा तत्रैवान्तर्हितः स्थितः१२ । । ६ । ।
अथागात्तत्र शैलेन्द्र१३ विप्रो नियमवान् शुचिः ।
तीर्थाभिषेकपूतात्मा परे तपसि संस्थित. । ।७ । ।
अथ स व्रजमानस्तु व्याघ्रेणाभीषितो द्विजः ।
विवेश तं तदा देशं सा गर्ता१४ यत्र भूधर । ।८ । ।
गर्त्ताया १५ वीरणस्तम्बे लम्बमानांस्तदा मुनीन् ।
अपश्यदार्तो १६ दुःखार्त्तानपृच्छत्तांश्च स द्विजः१७ । । ९ । ।
के यूयं वीरणस्तम्बे लम्बमाना ह्यधोमुखाः ।
दुःखिताः केन मोक्षश्च युष्माकं भवितानघाः १८ । । 8.11.१० । ।
१ इच्छया - घ. । २ मुनिपुंगवम् - घ । ३ तु - घ । ४... त्मने - घ. । ५ सर्वथैवा - घ. । ६ ससुतं - ख, घ., सत्सुतं ( तत्) - क । ७ महाबाहो - ख घ. । ८ चात्रैव - घ । ९ तन - घ. । १० गर्त्त... - ख. घ. । - ११ तथाहं - क., तमहं - घ । १२... तास्थितान् - ख । १३ सैन्येव - घ. । १४ सगर्तो - घ । १५ गर्त्तोयं - घ. । ।१६. .. र्त्तान् - ख. । १७... जाः - ख । १८. घ - क. ग. ।
42
पितर ऊचुः
वयन्तेकृतपुण्यस्य पितरः सपितामहाः ।
प्रपितामहाश्च क्लिश्यामस्तव१९ दुष्टेन कर्मणा ।।।११।।
नरकोयं महाभाग गर्त्तारूपं२० समास्थितः ।
त्वञ्चापि वीरणस्तम्बस्त्वयि लम्बामहे वयम् ।।१२।।
यावत्त्वं जीवसे विप्र तावदेव वयं स्थिताः ।
मृते त्वयि गमिष्यामो नरकं पापचेतसः ।।१३।।
यदि त्वं दारसंयोगं कृत्वापत्यं गुणोत्तरम् ।
उत्पादयसि तेनास्मान्मुच्येम वयमेकशः२१ ।।१४।।
नान्येन तपसा पुत्र न तीर्थानां फलेन च ।
तत् कुरुष्व महाबुद्धे तारयस्व पितॄन् भयात् ।।१५।।
स तथेति प्रतिज्ञाय आराध्य च वृषध्वजम् ।
पितॄन् गर्त्तात्समुद्धृत्य गणपान् प्रचकार ह ।।१६।।
स्वयञ्च२४ रुद्रदयितः सुकेशो नाम नामतः ।
संमतो बलवांश्चैव रुद्रस्य२३ च गणपोभवत् ।।१७।।
तस्मात् कृत्वा तपो घोरमपत्यं गुणवद् भृशम्२४ ।
उत्पादयस्व शैलेन्द्र ततः कीर्तिमवाप्स्यसि ।।१८।।
सनत्कुमार उवाच
स एवमुक्त२५ ऋषिणा शैलेन्द्रो नियमे स्थितः ।
तपश्चकार विपुलं येन ब्रह्मा तुतोष ह ।।१९।।
तमागत्य२६ ततो२७ ब्रह्मा वरदोस्मीत्यमाषत ।
ब्रूहि तुष्टोस्मि ते शैल२८ तपसानेन सुव्रत ।।8.11.२०।।
१९ त... - ख. । २० गर्त्तारूपा - ख. गर्तरूपो घ. । २१.. -मंहसः - घ. । २२ अयञ्च... - घ. । २३ वरस्य - घ. । २.. .त्तरम् - घ. । २५ एवमुक्तो हि - घ.,.. .क्तो - क. ख. घ.,.. क्ते - ग. । २६ ततो गत्वा - घ. । २७ तद - कः. घ. । २८ शैलेन्द्र - घ. ।
43
हिमवानुवाच
भगवन् पुत्रमिच्छामि गुणैः सर्वैरलंकृतम् ।
एतद्वरं२९ प्रयच्छस्व यदि तुष्टोसि नः प्रभो ।।२१।।
ब्रह्मो३०वाच
कन्या भवित्री३१ शैलेन्द्र सुता ते वरवर्णिनी ।
यस्याः प्रभावात् सर्वत्र कीर्त्तिमाप्स्यसि पुष्कलाम् ।।२२ । ।
अर्चितः सर्वदेवानां तीर्थकोटीसमावृतः३२ ।
पावनश्चैव पुण्यश्च३३ देवानामपि सर्वतः ।
ज्येष्ठा च सा३४ भवित्री३५ ते अन्ये चानु ततः३६ शुभे३७ ।।२३ ।।
सनत्कुमार उवाच
एवमुक्त्वा ततो ब्रह्मा तत्रैवान्तरधीयत ।
सोपि कालेन शैलेन्द्रो मेनायामुदपादयत्३८ ।।२४।।
अपर्णामेकपर्णां च तथा चाप्येकपाटलाम् ।
न्यग्रोधमेकपर्णा तु पाटलं३९ चैकपाटला ।।२५।।
आश्रिते द्वे ह्यपर्णा तु अनिकेता तपोचरत् ।
शतं वर्षसहस्राणां दुश्चरं देवदानवैः ।।२६।।
आहारमेकपर्णेन सैकपर्णा समाचरत् ।
पाटलेन तथैकेन व्यदधाच्चैकपाटला४० ।।२७।।
पूर्णे पूर्णे सहस्रे तु आहारं ते च चक्रतुः४१ ।
अपर्णा४२ तु निराहारा४३ तां माता४४ प्रत्यभाषत ।।२८।।
निषेधयन्तीत्युमेति मातृस्नेहेन दुःखिता ।
सा तथोक्ता तदा मात्रा देवी दुश्चरचारिणी ।
तेनैव नाम्ना लोकेषु विख्याता सुरपूजिता । ।२९।।
२९ एवं वरं - क. ग. घ. । २० पितामह - क. । ३१.. ता - घ. । ३२ समन्वितः - घ. । ३३ पूत ... - घ. । ३४ सा च - घ । ३५ सवित्री - क । ३६ गते - घ. । ३७ शुभा - क., सुते - घ. । ३८ मुप... क. ख. । ३९... लां चैव - घ. । ४० विदधात्येक... क. ख. घ. । ४१.. .रश्च तया कृतः - घ. । ४२.. .र्णा - घ. । ४३.. .रां - क. । ४४ माता तां - क. ।
44
एतत् तत्त्रि४५ कुमारीकं४६ जगत् स्थावरजङ्गमम् ।
एतासां तपसा लोकान्४७ यावद् भूमिर्धरिष्यति । ।8.11.३ ० ।।
तपःशरीरास्ताः सर्वास्तिस्रो योगबलान्विताः ।
सर्वाश्चैव महायोगाः४८ सर्वाश्च४९ स्थिरयौवनाः५० ।।३ १ ।।
लोकानां मातर५१ श्चैव ब्रह्मचारिण्य एव च ।
अनुगृह्णन्ति लोकांश्च तपसा स्वेन सर्वदा ।।३ २ ।।
उमा तासां वरिष्ठा च श्रेष्ठा५२ च वरवर्णिनी ।
महायोगबनोपेता महादेवमुपस्थिता ।।३ ३ । ।
दत्तकश्चोशनास्तस्याः५३ पुत्रः स भृगुनन्दनः ।
असितस्यै५४ कवर्णा तु देवलं सुषुवे सुतम् । ।३४।।
या तु तासां कुमारीणां तृतीया ह्येकपाटला ।
पुत्रं शतशलाकस्य जैगीषव्यमुपस्थिता ।। ३५ ।।
तस्यापि शंखलिखितौ स्मृतौ पुत्रावयोनिजौ ।
उमा तु या५५ मया तुभ्यं कीर्तिता वरवर्णिनी ।।३ ६।।
अथ तस्यास्तपो५६ योगात् त्रैलोक्यमखिलं तदा ।
प्रधूपितं समालक्ष्य ब्रह्मा वचनमब्रवीत् ।। ३७। ।
ब्रह्मोवाच
देवि किं तपसा लोकान् तापयिष्यसि शोभने ।
त्वया सृष्टमिदं विश्वं मा कृत्वैतद्५७ विनाशय ।।३८ ।।
त्वं हि धारयसे लोकानिमान् सर्वान् स्वतेजसा ।
ब्रूहि किन्ते जगन्मातः प्रार्थितं संप्रसीद नः५८ । ।३ ९। ।
४५ त्वद्रि - घ. । ४६ णा - ख. । ४७ दुग्ध - क । ४८.. भागा - ख. । ४९ स्तथा च - क. । ५० तपोधनाः - ख. । ५१.. त। लोक - क. । ५२ ज्येष्ठा - घ. । ५३ दत्तश्चाशनसा तस्याः. - क घ., तस्य - ख. । ५४... ञ्चैक... - क. घ,.. ञ्चैक (?) । ५५ मा... - क, ५६ स्ताप - घ. । ५७ कृत्वा त क, कृतान्तवि.. - ख., हृता त्व.. - घ । ५८ ह्र - क; ।
45
देव्युवाच५९
यदर्थन्तपसो ह्यस्य चरणं मे पितामह ।
जानीषे तत्त्वतस्तन्मे ततः पृच्छसि किं पुनः ।।8.11.४० ।।
ब्रह्मोवाच६१
यदर्थ देवि तपसा श्राम्यसे लोकभावनि६२ ।
स त्वां६३ स्वयं समागम्य६४ इहैव वरयिष्यति । ।४१ ।।
सर्वदेवपतिः६५ श्रेष्ठः सर्वलोकेश्वरेश्वरः ।
वयं सदेवा यस्येशे वश्याः किङ्करवादिनः६६ ।।४२।।
सदेवदेवः परमेश्वरे६७श्वरः स्वयं६८ तवायास्यति६९ लोकपोन्तिकम् ।
उदाररूपो विकृतो७० भिरूपवान्७१ समानरूपो हि नरस्य७२ कस्यचित्७३ ।।४३ ।।
महेश्वरः पर्वतलोकवासी चराचरेशः प्रथमो७४ प्रमेयः ।
विनेन्दुनापीन्दु७४ समानवक्त्रो विभीषणं रूपमिहास्थितोग्र्यम्७६ ।।४४।।
इति स्कन्दपुराणे देव्या वरप्रदानं७७ नाम एकादशोध्यायः
ततः स भगवान्देवो ब्रह्मा तामाह सुस्वरम् ।
देवि येनैव सृष्टासि न विना यस्त्वया शुभे१ ।।१ । ।
स भर्ता तव देवेशो२ भविता मा तपः कृथा३।
ततः प्रदक्षिणं कृत्वा ब्रह्मा व्यास गिरेः सुताम् ।।२।।
५९ उमोवाच - घ । ६० तत्त्बमेतन्मे - ख । ६१ पितामह उ० - घ. । । ६२ भाविनि - क., भाविनी घ. । ६३ त्वा - ख. । ६४.. त्य - ख । ६५... ति - क. । ६६ वा (मा , निनः- ख, वाणि व.- घ. । ६७.. रः स्वयं - ख । ६८ हरो - घ । ६१ तवैयं मा.. - ख. । ७० ता - क । ७१ तिरूपः... - क, मिरूपः - घ । ७२ नहि यस्य - क.,. णि. - घ । ७३ कश्चित् - ? । ७४... मा - क. । ७५ ही... - क., ती. - ध । ७६.. ग्रं - क.,... ग्रत स्थित - ख । ७७ उमातपसि ब्रहावचनो - घ. ।
१ मनसा यस्त्वया व्रत- - ख । २ .शि - ख. । ३ स्तथा - ख ।
46
जगामादर्शनं तस्याः सा चापि विरराम ह ।
सा देवी युक्तमित्येवमुक्त्वा स्वस्याश्रमस्य ह ।।३।।
द्वारि जातमशोकं वै समुपाश्रित्य संस्थिता ।
अथागाच्चन्द्रतिलकस्त्रिदशार्तिहरो हरः ।।४।।
विकृतं रूपमास्थाय ह्रस्वो बाहुक एव च ।
विभुग्ननासिको भूत्वा कुब्जः केशान्तपिङ्गलः ।।५।।
उवाच विकृतास्यश्च देवि त्वां४ वरयाम्यहम् ।
अथोमा योगसंसिद्धा५ ज्ञात्वा शङ्करमागतम् ।।६।।
अन्तर्भावविशुद्धात्मा क्रियानुष्ठानलिप्सया ।
तमुवाचार्घपाद्याभ्यां६ मधुपर्केण चैव हि ।
संपूज्य सुमनोनेत्रा७ ब्राह्मणं ब्राह्मणप्रिया ।।७।।
देव्युवाच
भगवन्न स्वतन्त्रास्मि पिता मेस्त्यरणो तथा ।
तौ प्रभू मम दाने वै कन्याहं द्विजपुङ्गव ।।८।।
गत्वा याचस्व पितरं मम शैलेन्द्रमव्ययम् ।
स चेद्ददाति मां विप्र तुभ्यं तद्रुचितं मम ।।९।
सनत्कुमार उवाच
ततः स भगवान् देवस्तथैव विकृतः प्रभुः ।
उवाच शैलराजं तमुमा८ मे यच्छ शैलप९ ।।8.12.१ ० ।।
स तं विकृतरूपेण ज्ञात्वा रुद्रमथाव्ययम् ।
भीतः शापाच्च विमना इदं वचनब्रवीत् ।।११ ।।
भगवन्नावमन्यामि ब्राह्मणान् भूमि१० दैवतान्११ ।
मनीषितं तु यत् पूर्वं तच्छृणुष्व महातपः१२ ।।१२।।
४ त्वा - ख. । ५... द्ध्या - क. । ६... र्ध्यमानाय्य - ख. । ७ सुमना नत्वा - घ. । ८ न्तामुमां - क. टि. । ९ .. राट् - ख. । १० भुवि - घ. । ११ देवतान् - क. - तां - ख. । १२... प - ख. ।
47
स्वयंवरो मे दुहितुर्भविता विप्र पूजितः ।
वरयेद्यं स्वयं तत्र स भर्त्तास्या भवेदिति ।।१३।।
सनत्कुमार उवाच
तच्छ्रुत्वा शैलवचनं भगवान् गोवृषध्वजः ।
देव्याः समीपमागत्य इदमाह महामनाः ।।१४।।
देवि पित्रा तवाज्ञप्तः१३ स्वयंवर इति श्रुतम् ।
तत्र त्वं वरयित्री यं स ते भर्त्ता किलानघे ।।१५।।
तदापृच्छे गमिष्यामि दुर्ल्लभा त्वं वरानने ।
रूपवन्तं समुत्सृज्य वृणाथा मादृशं१४ कथम् ।।१६।।
सनत्कुमार उवाच
तेनोक्ता सा तदा तत्र भावतो यत्तदीरितम्१५ ।
भावञ्च रुद्रनिहितं प्रसादं१६ मनसस्तथा ।।१७।।
संप्राप्योवाच देवेशं मा तेभूद् बुद्धिरन्यथा ।
अहं त्वां वरयिष्यामि नान्यद्भूतं कथञ्चन ।।१८।।
अथवा तेस्ति सन्देहो मयि विप्र कथञ्चन ।
इहैव त्वां महाभाग वरयामि मनोरथे१७ ।।१९।।
सनत्कुमार उवाच
गृहीत्वा स्तबकं सा तु हस्ताभ्यां तत्र संस्थितम्१८ ।
स्कन्धे शम्भोः समाधाय१९ देवी प्राह वृतोसि मे ।।8.12.२० ।।
ततः स भगवान् देवस्तथा देव्या२० वृतस्तदा२१ ।
उवाच तमशोकं२२ वै वाचा संजीवयन्निव२३ ।।२१ ।।
१३ समा .. - घ. । १४.. .षे - ख. । १५ भव पन्त्या उदीरितम् - घ. । १६... दान् - घ । १७... थ १८... ता- क १९.. .दाय - क. घ. । २० वो देव्या तत्र- घ । २१ न्त... - घ. । २२ ता - घ. । २३ संचार... घ. ।
48
यस्मात्तव सुपुष्पेण स्तबकेन वृतो ह्यहम् ।
तस्मात्त्वं जरया त्यक्तः२४ अमरः संभविष्यसि ।।२२।।
कामरूपः कामपुष्पः कामगो दयितो मम ।
सर्वाभरणपुष्पाढ्यः सर्ववृक्षफलोपगः ।।२३।।
सर्वान्नभक्षदश्चैव अमृतस्रव एव च ।
सर्वगन्धश्च देव्यास्त्वं भविष्यसि दृढं प्रियः ।।२४।।
निर्भयः सर्वलोकेषु२५ चरिष्यसि सुनिर्वृतः ।
आश्रमं चैन२६मत्यर्थं२७ चित्रकूटेति विश्रुतम् ।।२५ ।।
योभियास्यति पुण्यार्थी सोश्वमेधमवाप्स्यति ।
यत्र तत्र मृतश्चापि ब्रह्मलोकं गमिष्यति ।।२६।।
यश्चात्र नियमैर्युक्तः प्राणान् सम्यक् परित्यजेत् ।
स देव्यास्तपसा युक्तो महागणपतिर्भवेत् ।।२७।।
सनत्कुमार उवाच
एवमुक्त्वा ततो२८ देव आपृच्छ्य हिमवत्सुताम् ।
अन्तर्दधे जगत्स्रष्टा सर्वभूतप ईश्वरः२९ ।।२२।।
सापि देवी गते तस्मिन् भगवत्यमितात्मनि ।
तत एवोन्मुखी स्थित्वा शिलायां संविवेश ह ।।२९।।
उन्मुखी सा गते तस्मिन्महेष्वासे प्रजापतौ ।
निशेव चन्द्ररहिता बभूव३० विमनास्तदा३१ ।।8.12.३०।।
अथ शुश्राव सा शब्दं बालस्यार्त्तस्य शैलजा ।
सरस्युदकसंपूर्णे समीपे स्वाः३२श्रमस्य ह ।।३१।।
स कृत्वा बालरूपं तु देवदेवः स्वयं शिवः ।
क्रीडाहेतोः सरोमध्ये ग्राहग्रस्तोभवत्तदा ।।३२। ।
२४ मुक्तो- घ. । २५ भूतेषु -घ. । २६ चैव-क, चम-घ. । २७ मा.. - घ. । २८ तदा-- घ। २९... तीश्वरः घ. । ३० सा बभौ - क. घ. । ३१. तः -क । ३२ चा- क ।
49
योगमायामथास्थाथ प्रपञ्चोद्भवकारणः ।
तद्रूपं सरसो मध्ये कृत्वेदं३३ समभाषत ।।३ ३ ।।
त्रातु मां कश्चिदेत्येह ग्राहेण हृतचेतसम् ।
धिक्कष्टं बाल एवाहमप्राप्तोथ मनोरथम्३४ ।। ३४। ।
यास्यामि निधनं वक्त्रे ग्राहस्यास्य दुरात्मनः ।
शोचामि न स्वकं देहं ग्राहग्रस्तोपि दुःखितः ।।३५।।
यथा शोचामि पितरं मातरञ्च तपस्विनीम्३५ ।
मां श्रुत्वा ग्राहवदने प्राप्तं निधनमुत्सुकौ ।।३ ६। ।
प्रियपुत्रावेकपुत्रौ प्राणान्नूनं विहास्यतः ।
अहो बत महत् कष्टं योहं बालोकृतव्रतः
अतप्त्वा तप एवायं यास्यामि निधनं हतः । ।३७। ।
सनत्कुमार उवाच
श्रुत्वा तु देवी तन्नादं विप्रस्यार्त्तस्य शोभना ।
उत्थाय प्रद्रुता तत्र यत्र तिष्ठत्यसौ द्विजः । ।३८ । ।
सापश्यदिन्दुवदना बालकञ्चारुरूपिणम् ।
ग्राहेण ग्रस्यमानं तं वेपमानमवस्थितम् ।।३ ९।।
सोपि ग्राहवरः श्रीमान् दृष्ट्वा देवीमुपागताम् ।
तं गृहीत्वा द्रुतं यातो३७ मध्यं सरस एव हि३८।।8.12.४० ।।
स कृष्यमाणस्तेजस्वी नादमार्त्तन्तदा३९करोत् ।
अथाह देवी दुःखार्त्ता बालं दृष्ट्वा महाव्रता ।।४१।।
ग्राहराज महासत्व४० बालकं ह्येकपुत्रकम् ।
विसृजैनं महादंष्ट्र क्षिप्रं भीमपराक्रम ।४२।
ग्राह उवाच
यो देवि दिवसे षष्ठे प्रथमे समुपैति माम् ।
स आहारो मम पुरा विहितो लोककर्तृभिः ।।४३ ।।
३३ कृत्वैव (वं) - घ. । ३४ मप्राप्तात्म.. - घ, मप्राप्याथ? । ३५... नो - क. । ३६ श्च ज्वाली. - घ. । ३७ स्रोतो - क. । ३८ ह - फ. । ३९ प्तथा? - घ. । ८०... त्मञ्च? - क ।
50
सोयं मम महाभागे षष्ठेहनि गिरीन्द्रजे ।
ब्रह्मणा प्रहितो४१ नूनं नैनं मोक्ष्ये४२ कथञ्चन ।।४४। ।
देव्युवाच
यन्मया हिमवच्छृङ्गे चरितं तप उत्तमम् ।
तेन बाल४३ मिमं मुञ्च ग्राहराज नमोस्तु ते ।।४५।।
ग्राह उवाच
मा व्ययं तपसो देवि कार्षीः शैलेन्द्रनन्दने४४ ।
नैनं मोचयितुं शक्तो देवराजोपि यः४५ स्वयम् ।।४६।।
मह्यमीशेन तुष्टेन शर्वेणोग्रेण शूलिना ।
अमरत्वमवध्यत्वमक्षयं बलमेव च ।।४७।।
स्वयं ग्रहणमोक्षश्च ज्ञानञ्चैवाव्ययं पुनः ।
दत्तं ततो ब्रवीमि त्वां४६ नायं मोक्षमवाप्स्यति ।।४८।।
अथवा ते कृपा देवि भृशं बाले शुभानने४७ ।
ब्रवीमि यत् कुरु तथा ततो मोक्षमवाप्स्यति ।।४९
देव्युवाच
ग्राहाधिप वदस्वाशु४८ यत् सतामविगर्हितम् ।
तत् कृतं नात्र सन्देहो मान्या मे ब्राह्मणा४९ दृढम् ।।8.12.५० ।।
ग्राह उवाच
यत् कृतं वै तपः किञ्चिद्भवत्या स्वल्पमन्ततः५० ।
तत् सर्वं मे प्रयच्छस्व ततो मोक्षमवाप्स्यति ।।५१ ।।
देव्युवाच
जन्मप्रभृति यत् पुण्यं महाग्राह कृतं मया५१ ।
तत्ते सर्व मया दत्तं बालं मुञ्च ममाग्रतः ।।५२।।
४१ विहितो - क- घ. । ४२ न मोक्ष्येहं - घ., . क्षे - क. । ४३ सत्त्व - घ. । ४४ चिकीर्षीर्व्यर्थमेव हि - घ. । ४५ स - क. । ४६ त्वा - क । ४७ हता... - घ । ४८ वदाम्या... - घ. । ४९ मनो मे ब्राह्मणे - घ. । ।7५ ०... ल्पमनन्तशः - घ. । ५१ मया कृतम् - घ. ।
51
सनत्कुमार उवाच
प्रजज्वाल ततो ग्राहस्तपसा तेन बृंहितः ।
आदित्य इव मध्याह्ने दुर्निरीक्ष्यस्तदाभवत् ।।।५३।।
उवाच चेदं हृष्टात्मा देवीं लोकस्य धारिणीम् ।
देवि किं कृतमेतत्ते अनिश्चित्य५२ महाव्रते ।।५४।।
तपसो ह्यर्जनं दुःखं तस्य त्यागो न शस्यते ।
गृहाण तप एतच्च५३ बालं चेमं शुचिस्मिते५४ ।।५५।।
तुष्टोस्मि ते विप्रभक्त्या वरं तस्माद्ददामि ते५५ ।
सा त्वेवमुक्ता ग्राहेण उवाचेदं महाव्रता । ।५६।।
सुविचिन्त्य५६ महाग्राह कृतं बालस्य मोक्षणम् ।
न विप्रेभ्यस्तपः श्रेष्ठं श्रेष्ठा मे ब्राह्मणा मताः ।।५७।।
दत्त्वा चाहं५७ न गृह्णामि ग्राहेन्द्र विदितं हि ते ।
न हि कश्चिन्नरो ग्राह प्रदत्तं पुनराहरेत् ।।५८।।
दत्तमेतन्मया तुभ्यं नाददामि५८ हि तत्पुनः ।
त्वय्येव रमतामेतद्५९ बालश्चायं विमुच्यताम् ।।५९।।
तथोक्तस्तां प्रशस्याथ६० मुक्त्वा६१ बालं नमस्य च ।
देवीमादित्यसद्भासं६२ तत्रैवान्तरधीयत ।।8.12.६० ।।
बालोपि सरसस्तीरे मुक्तो ग्राहेण वै तदा ।
स्वप्नलब्ध इवार्थो यस्तत्रैवान्तरधीयत ।।६१। ।
तपसोथ व्ययं मत्वा देवी हिमगिरीन्द्रजा ।
भूय एव तपः कर्तुमारेभे यत्नमास्थिता ।।६२।।
कर्तुकामां तपो भूयो ज्ञात्वा तां शंकरः स्वयम् ।
प्रोवाच वचनं व्यास६३ मा कृथास्तप इत्युत६४ ।।६३।।
५२ अनिवाह्य - घ.,.. .न्त्य - क । ५३ एवैनं - घ. । ५४.. .वृते घ. । ५५ विप्रभक्त्या वरं तस्माद् ददामि सुव्रते तव - घ. । ५६ सुनिश्चित्य - । ५७ हं नहि - घ. । ५८... नि - क., .. मीह - घ । ५९ त्वयैव वरमाहात्म्यं - घ. । ६० प्रसन्नो - घ. । ६१ त्यक्त्वा - घ । ६२... वज्वालं - घ । ६३ भूयो - घ. ।
६४ इत्युमे - घ. ।
52
मह्यमेतत्तपो६५ देवि त्वया६६ दत्तं महाव्रते ।
तेनैतदक्षयं६७ तुभ्यं भविष्यति सहस्रधा ।।६४।।
इति लब्ध्वा वरं देवी तपसोक्षय्यमुत्तमम् ।
स्वयंवरमुदीक्षन्ती तस्थौ प्रीतियुता सती६८ ।।६५।।
इदं पठेद्यो हि नरः सदैव बालानुभावाचरणं६९ हि शम्भोः ।
स देहभेदं समवाप्य पूतो भवेद् गणस्तस्य कुमारतुल्यः ।।६६।।
इति स्कन्दपुराणे द्वादशोध्यायः
सनत्कुमार उवाच
विस्तृते हिमवत्पृष्ठे विमानशतसंकुले ।
अभवत् स तु कालेन शैलपुत्र्याः स्वयंवरः ।।१।।
अथ पर्वतराजोसौ हिमवान् ध्यानकोविदः ।
दुहितुर्देवदेवेन ज्ञात्वा तदभिमन्त्रितम् ।।२।।
जानन्नपि महाशैलः समाचारक्रियेप्सया ।
स्वयंवरं ततो देव्याः सर्वलोकेष्वघोषयत् ।।३ ।।
देवदानवसिद्धानां सर्वलोकनिवासिनाम् ।
वृणुयात् परमेशानं समक्षं येन मे सुता ।।४।।
तदेव२ सुकृतं श्लाघ्यं ममाभ्युदयसम्मतम् ।
इति संचिन्त्य शैलेन्द्रः कृत्वा हृदि महेश्वरम् ।।५।।
आब्रह्मकेषु३ लोकेषु देव्याः शैलेन्द्रसत्तमः ।
कृत्वा रत्नाकुलं४ देशं स्वयंवरमचीकरत्५ ।।६।।
६५ त्वया - घ. । ६६ तपो - घ । ६७... वमक्षयं - क., वद - घ. ६८ प्रीतिमुदा युत -घ । ६९ व चव र च - ध. । १ भग.. - घ. । १.. बं - घ. । ३ अपेक्ष्य लोकान् - ध. । ८ कृत्वा वतरस्वयं - घ. । ५ मथाकरोत् - ध ।
53
?? अथैवमाघोषितमात्र एव स्वयंवरे व्यास महीध्रपुत्र्याः ।
देवादयः सर्वजगन्निवासाः समाययुर्दिव्यगृहीतवेषाः६ ।।७। ।
प्रफुल्लपद्मासनसन्निविष्टः सिद्धैर्वृतो योगिभिरप्रमेयैः७ ।
विज्ञापितस्तेन महीध्रराजा८ पितामहस्तत्र समाजगाम ।।८।।
अक्ष्णां सहस्रं सुरराट् स बिभ्रद् दिव्या९ङ्गहारस्रगुदात्तरूपः ।
ऐरावतं सर्वगजेन्द्रमुख्यं स्रवन्मदासारकृतप्रवाहम् ।।९।।
आरुह्य सर्वामरराट् स वज्रं बिभ्रत्समागात् पुरतः सुराणाम् ।
तेजः प्रतापा१० ऽधिकदिव्यरूपः११ प्रोद्भासयन् सर्वदिशो विवस्वान् ।।8.13.१०।।
हैमं विमानं स चलत्पताक१२ मारुह्य१३ आगात् त्वरितं जवेन ।
मणिप्रदीप्तोज्ज्वलकुण्डलश्च वह्न्यर्कतेजःप्रतिमे विमाने ।।११।।
समभ्यगात् कश्यपविप्रसूनुरादित्य आराद् १४ भगनामधारी ।
पीनाङ्गयष्टिः सुकृताङ्गःहारस्तेजोबलाज्ञासदृशप्रभावः ।।१२।।
दण्डं समादाय कृतान्त आगादारुह्य भीमं महिषं जवेन ।
महामहीध्रोच्छ्रय१५ पीनगात्रः स्वर्णादिरत्ना१६ चितचारुवेषः१७ ।।१३।।
समीरणः सर्वजगद्विभर्त्ता विमानमारुह्य समभ्यगाद्धि ।
सन्तापयन्सर्वसुरासुरेशाँस्तेजोधिक१८ स्तेजसि सन्निविश्य१९ ।।१४।।
वह्निः समभ्येत्य सुरेन्द्रमध्ये ज्वलन् प्रतस्थौ वरवेषधारी ।
नानामणिप्रज्वलिताङ्गयष्टिर्जगच्चरन्दिव्यविमानमग्र्यम् ।।१५।।
आरुह्य सर्वद्रविणाधिपेशः स राजराजस्त्वरितोभ्यगाच्च ।
आप्याययन् सर्वसुरासुरेशान् कान्त्या च वेषेण२० च चारुरूपः ।।१६।। ज्वलन्महारत्नविचित्ररूपं२१ विमानमारुह्य शशी समागात् ।
श्यामाङ्गयष्टिः सुविचित्रवेषः सर्व२२ स्रगाबद्धसुगन्धिमालः२३ ।।१७।।
६,. शाः - ख घ. । ७... यः - घ. । ८.. .ज्ञा - क. ख. घ । ९... न्दि - क, र - क र - घ. । १० प्रभावा - घ. । ११... पं - घ. । १२ सपताकदण्ड - घ. । १३ आरूढ - घ । १४... आगाद् - क. ख. । १५.?. ध्राश्र... - घ- । १६... त्नो... - घ । १७.. शः - ख । १८.. .प - घ. । १९... वेश्य - घ.,... वेशः - ख. । २०... थ रूपेण - घ । २१. (त्रि).. .तांगं - ख । २२... शीतः - ध । २३... सुगन्धिमाल्यः - घ सुगन्धमाली - ख. ।
54
तार्क्ष्यं समारुह्य महीध्रकल्पं गदाधरोसौ त्वरितं समेतः ।
तथाश्विनौ देवभिषग्वरौ तौ२४ एकं२५ विमानं त्वरयाभिरुह्य ।।१८।। मनोहरावुज्ज्वलचारुवेषावाजग्मतुर्देवसदः२६ सुवीरौ ।
शेषः सहस्रं स्फुरदग्निवर्णं बिभ्रत् फटानां ज्वलनार्कतेजाः । ।१९।।
सार्धं स नागैरपरैर्महात्मा विमानमारुह्य समभ्यगाच्च ।
दितेः सुतानां च महासुराणां वह्न्यर्कशक्रानिल२७ तुल्यभासाम् ।।8.13.२०।।
वरानुरूपं प्रविधाय वेषं२८ वृन्दं समागात् पुरतः सुराणाम् ।
गन्धर्वराजः स च चारुरूपी दिव्याङ्गनो दिव्यविमानचारी ।।२१ ।।
गन्धर्वसंघैः सहितोप्सरोभिः शक्राज्ञया तत्र समाजगाम ।
अन्ये च देवास्त्रिदिवौकसेशाः पृथक् पृथक् चारुगृहीतवेषाः ।।२२।।
आजग्मुरारुह्य विमानपृष्ठं गन्धर्वयक्षोरगकिन्नराश्च२९ ।
शचीपतिस्तत्र सुरेन्द्रसंघे३० राजाधिकाराधिकलक्ष्यमूर्त्तिः ।।२३।।
राज्ञां बलैश्वर्यकृतप्रमोहो वृथाधिकं यत्नमुपाचकार३१ ।
हेतुस्त्रिलोकस्य जगत्प्रसूति३२ र्माता च तेषां ससुरासुराणाम् ।।२४।।
पत्नी च शंभोः पुरुषस्य धाम्नो३३ गीता पुराणैः३४ प्रकृतिः परार्था ।
दक्षस्य कोपाद् हिमवद्गृहं सा कार्यार्थमागात् परमेशपत्नी ।।२५।।
एवं यत३५स्तान्न विदुः सुरेशा मोहस्ततस्तान्पर आविवेश ।
वरार्थमाजग्मु३६ रतो विमूढा ईशेन यस्माद् वृडिताः३७ कृतास्ते ।।२६।।
ततः प्रनृत्ताभि३८ रथाप्सरोभिर्गन्धर्वसंघैश्च सुगीतशब्दैः ।
स्थितैश्च नानाविधरूपवेषै३९ देवासुरादित्रिदिवोकसंघैः४०।।२७।।
विमानपृष्ठे मणिहेमचित्रे स्थिता चलच्चामरबीजिताङ्गी ।
सर्वर्तुपुष्पां४१ सुसुगन्धमालां४२ प्रगृह्य देवी४३ प्रसभं प्रतस्थे४४।।२८।।
२४ तु. - क. घ. । २५... वं - क. । २६. सभा - घ । २७... शनि... - घ. । २० देहं - घ । २९.. क्षोरग - क । ३०... मध्ये - ख । ३१ चचार - ख. । ३२... ते - ख. । ३३ चाग्र्या - ध. । ३४... णे - क. घ. । ३५ स्वत - ख. । ३६ तत समाजग्मु - क । ३७ कुपिताः - घ. । ३८ प्रवृ... - क. । ३१ रो (गी)तैश्च नाना विदधे (विध) शरागै - घ । ४० त्रिदिवेश - घ. । ४१... ष्यं - घ. । ४२.. .ल्य - घ. । ४३ मा (बा ?) ला - ख. । ४४... स्थौ - क. ।
55
सनत्कुमार उवाच
मालां प्रगृह्य देव्यान्तु स्थितायां देवसंसदि ।
शक्राद्यैरागतैर्देवैः स्वयंवर उपागतैः४५ ।।२९।।
देव्या जिज्ञासया शम्भुर्भूत्वा पञ्चशिखः शिशुः ।
उत्सङ्गतलसंसुप्तो बभूव सहसा विभुः ।।8.13.३ ०।।
अकस्मादथ तं देवी शिशुं पञ्चशिखं स्थितम् ।
ज्ञात्वा योगसमाधानाज्जहृषे प्रीतिसंयुता ।।३ १।।
अथ सा शुद्धसंकल्पा कांक्षितप्राप्तसत्फला ।
निर्वृतेव तदा तस्थौ कृत्वा हृदि तमेव तु ।।३२ ।।
ततो दृष्टवा शिशुं देवा देव्या उत्सङ्गवर्त्तिनम् ।
कोयमत्रेति संमन्त्र्य चुक्रुधु४६ र्भृशमर्दिताः ।।३३।।
वज्रमाका४७ रयत्तस्य बाहुमुत्क्षिप्य वृत्रहा ।
स बाहुरुत्थित४८स्तस्य तथैव समतिष्ठन ।।३४।।
स्तम्भितः शिशुरूपेण देवदेवेन शम्भुना ।
वज्रं क्षेप्तुं नो४९ शशाक बाहुञ्चालयितुं न च ।।३५।।
भगो नाम ततो देव आदित्यः काश्यपो बली ।
उत्क्षिप्य मुशलं दीप्तं क्षेप्तुमैच्छद्विमोहितः ।।३६।।
तस्यापि भगवान् बाहुं तथैवास्तम्भयत्तदा ।
शिरः प्रकम्पयन् विष्णुः सकोपस्तमवैक्षत ।।३७।।
तस्यापि शिरसो देवः खालित्यं प्रचकार ह ।
पूषा दन्तान्दशन्दन्तैः शर्वमैक्षत मोहितः ।।३८।।
तस्यापि दशनाः पेतुर्दृष्टमात्रस्य शम्भुना ।
यमस्य स्तम्भितो दण्डस्तेजो वह्नेः शशेः५० प्रभा ।।३९।।
४५ मु... - घ. । ४६ चुक्षुभु - घ. । ८७ धा... - घ. । ४८ रुन्न... - घ. । ४९ न - क. घ । ५० शशिन इति वक्तव्ये शशेरिति छन्दोभङ्गभयकृतप्रयोग आर्पत्वेन कथंचित्समाधेयः ।
56
बलं वायोस्तथान्येषां तस्मिन्सर्वदिवौकसाम् ।
बलन्तेजश्च योगञ्च तथैवास्तम्भयद्विभुः ।।8.13.४० ।।
अथ तेषु स्थितेष्वेवं मन्युमत्सु सुरेषु तु ।
ब्रह्मा परमसंविग्नो ध्यानमास्थाय सादरम् ।।४१।।
बुबुधे देवदेवेशमुमोत्सङ्गसमास्थितम् ।
स बुद्ध्वा५१ परमेशानं शीघ्रमुत्थाय सादरम् ।।४२।।
ववन्दे चरणौ शम्भोरस्तुवच्च पितामहः।
पौराणैः५२ सामसंगीतैः पुण्याख्यैर्गुह्यनामभिः ।।४३।।
अजस्त्वममरो देवः स्रष्टा हर्ता विभुः परः ।
प्रधान५३ पुरुषस्तत्त्वं ब्रह्म ध्येयं तदक्षरम्५४ ।।४४।।
अमृतं परमात्मा च ईश्वरः कारणं महत् ।
ब्रह्मकृत् प्रकृतेः स्रष्टा सर्वसृक् परमेश्वरः ।।४५।।
न त्वं वै देवदेवेश शक्यो ज्ञातुं दिवौकसैः ।
मुनिभिर्वापि योगज्ञैर्ज्ञातुं देव न शक्यते ।।४६।।
अप्रमेयो महादेव वर्तसे त्वं स्वलीलया ।
महासर्गे महाकल्पे त्वमेकस्तिष्ठसि प्रभो ।।४७।।
अहमेव न जानामि चेष्टां तव महेश्वर ।
कथं विदन्ति त्रिदशा गंभीरं गहनात्मकम् ।।४८
इयञ्च प्रकृतिर्देव५५ सदा ते सृष्टिकारणम् ।
पत्नीरूपं समास्थाय जगत्कारणमागता ।।४९।।
नमस्तुभ्यं सदेशान देव्याश्चैव सदा नमः ।
प्रसादात्तव देवेश नियोगाच्च मया प्रजाः ।।8.13.५० ।।
देवाद्यास्त इमे सृष्टा मूढास्त्वद्योगमोहिताः ।
कुरु प्रसादमेतेषां यथापूर्वं भवन्त्विमे ।।५१।।
तत एवं तदा ब्रह्मा विज्ञाप्य परमेश्वरम् ।
स्तम्भितान्सर्वदेवाँस्तानिदमाह महाद्युतिः ।।५२।।
५१ ज्ञात्वा - घ। ५२ कीर्तनैः क। ५३. . तं - क। ५४... यम् - क ५५. . .वी - घ
57
मूढाः स्थ देवताः सर्वे५६ नैनं बुद्ध्यथ५७ शंकरम् ।
देवदेवमिहायातं ममैवोत्पत्तिकारणम् ।।५२।।
अयं रुद्रो महादेवः शर्वो भीमः कपर्द्दवान्५८ ।
उग्र ईशान आत्मा च अजः शंकर एव च ।।५३ ।।
देवदेवः परं धाम ईशः पशुपतिः पतिः ।
जगत्स्रष्टा जगद्धर्ता जगत्संस्थितिकारणम् ५९ ।।५४।।
गच्छध्वं शरणं शीघ्रमेत६० मेवामरेश्वराः ।
सार्ध मयैव देवेशं परमात्मान६१ मव्ययम् ।।५५।।
ब्रह्मणो वचनं श्रुत्वा देवो नारायणः प्रभुः ।
प्रहस्य विबुधान् सर्वान् बोधयामास लोकपाः ।।५६।।
एवमेव न सन्देहो यथाह पद्मसंभवः ।
पूर्वसर्गे नु विबुधा मया सार्धं महेश्वरः ।।५७।।
बहुरूपेण रूपेण जगद् व्याप्य व्यवस्थितः ।
तस्मात् सर्वात्मना भूत्वा गच्छध्वं शरणं हरम् ।।५८।।
ततस्ते स्तम्भिताः सर्वे तथैव त्रिदिवौकसः ।
प्रणेमुर्मनसा शर्वं भावशुद्धेन चेतसा ।।५९।।
अथ तेषां प्रसन्नोभूद् देवदेवो महेश्वरः ।
यथापूर्वं चकाराशु देवतानां तनूस्तदा६२ ।।8.13.६०।।
तत एवं प्रवृत्ते तु सर्वदेवनिवारणे६३ ।
वपुश्चकार देवेशस्त्र्यक्षं परममद्भुतम् । ।६१।।
तेजसा यस्य६४ देवास्ते चक्षुरभ्यर्थयन्६५ विभुम् ।
तेभ्यः परमकं चक्षुः स्ववपुर्दृष्टिशक्तिमत्६६ ।।६२।।
प्रादात् परमदेवेशः अपश्यंस्ते तदा प्रभुम् ।
ते दृष्टवा परमेशानं तृतीयेक्षणधारिणम् ।।६३ ।।
६ सर्वाः - घ. । ५७.. .त - क. घ. । ५८.. र्द्दिमान् - क. । ५९... ण. - क- । ६०... व - क., त - घ. । ६१ ... नन्द - घ. । ६२.. .था - घ. । ६३ .. णम् - घ । ६४ त... - घ. । ६५ रप्रा... - क. घ. । ६६.. .मान् - क. ।
58
ब्रह्माद्या नेमिरे तूर्ण्णं सर्व एव सुरेश्वराः ।
तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम् । ।६४।।
पादयोः स्थापयामास स्रग्मालाममितद्युतेः ।
साधु साध्विति संप्रोच्य६७ देवतास्ते पुनर्विभुम् । ।६५। ।
सह देव्या६८ नमश्चक्रुः शिरोभिर्भूतलाश्रितैः ।
अथास्मिन्नन्तरे व्यास ब्रह्मा लोकपितामहः ।।६६।।
हिमवन्तं महाशैलमिदमाह महाद्युतिः ।
श्लाघ्यः पूज्यश्च वन्द्यश्च सर्वेषां नस्त्वमेव हि ।।६७। ।
शर्वेण सह संबन्धो यस्य ते भूदयं महान् ।
क्रियताञ्चाशु उद्वाहः किमर्थं स्थीयते६९ परम् ।।६८। ।
ततः प्रणम्य हिमवान् तं देवं प्रत्यभाषत ।
त्वमेव कारणं देव येन शर्वोदयन्मम७० । ।६९। ।
प्रसादः सहसोत्पन्नो हेतुश्चापि त्वमेव हि ।
उद्वाहन्तु यथायोग्यं७१ तद्विधत्स्व पितामह ।।8.13.७० । ।
तत एवं वचः श्रुत्वा गिरिराजः७२ पितामहः ।
उद्वाहः क्रियतां देव७३ इति देवमुवाच ह ।।७१ । ।
तमाह शङ्करो देवं यथेष्टमिति लोकपम् ।
तत्क्षणाच्च ततो व्यास ब्रह्मणा कल्पितं पुरम्७४ ।।७२ ।।
उद्वाहार्थं महेशस्य नानारत्नोपशोभितम् ।
रत्नानि मणयश्चित्रा हेम मौक्तिकमेव च । ।७३ ।।
मूर्त्तिमन्त उपागम्य७५ अलञ्चक्रुः पुरोत्तमम् ।
चित्रा मारकती भूमिः सौवर्णस्तम्भशोभिता । ।७४। ।
भामयस्फाटिकाभित्ति७६ र्मुक्ताहारप्रलम्बिता ।
तस्मिन् शिवपुरे७७ रम्ये उद्वाहार्थं विनिर्मिते । ।७५।।
६७ संपूज्य - घ. । ६८... वा - घ. । ६९ स्थितये - क. । ७०... यं - ग. क. घ. । ७१ विवाहं तव जामातृक् (तुः?) - घ. । ७२... ज्ञः - क. । ७३ क्रियतां देव उद्वाह - घ. । ७४ पुरा - घ. । ७५ मु... - क. घ. । ७६ भासस्फटिकभित्तीभि - क. । ७७ रति... - घ. ।
59
शुशुभे देवदेवस्य महेशस्य महात्मनः ।
सोमादित्यौ७८ समं तत्रा७९ भासयेतां८० महामहीम् । ।७६ ।।
सौरभेयं मनोरम्यं गन्धमादाय८१ मारुतः ।
प्रववौ सुखसंस्पर्श ईशे भक्तिं प्रदर्शयन्८२ ।।७७।।
समुद्रास्तत्र चत्वारः शक्राद्याश्च सुरोत्तमाः ।
देवनद्यो महानद्यः सिद्धा मुनय एव च ।।७८। ।
गन्धर्वाप्सरसः सर्वे नागा यक्षाः सराक्षसाः ।
गुह्यकाः खेचराश्चान्ये किन्नरा देवचारणाः८३ ।।७९।।।
तुम्बुरुर्नारदो हाहा हूहूश्चैव तु सामगाः८४ ।।
रत्नान्यादाय वाद्यांश्च तत्राजग्मुर्मुदा युताः८५ ।।8.13.८ ० ।।
ऋषयः कृत्स्नशस्तत्र वेदगीतान् तपोधनाः८६ ।
पुण्यान् वैवाहिकान् मन्त्रान् जेपुः संहृष्टमानसाः । ।८ १ ।।
जगतो८७ मातरः सर्वा देवकन्याश्च कृत्स्नशः८८ ।
गायन्ति हृषिताः सर्वा८९ उद्वाहे परमेष्ठिनः ।।८२।।
ऋतवः षट् समं तत्र नानागन्ध९० सुखावहाः ।
उद्वाहः शङ्करस्येति मूत्तिमन्त उपस्थिताः । ।८३ । ।
नीलजीमूतसंधातमन्द्रध्वानप्रहर्षितैः ।
केकायमानैः शिखिभिर्नृत्यमानैश्च सर्वशः । ।८४। ।
विलोलपिङ्गलस्पष्टविद्युल्लेखावभासिता ।
कुमुदापीतशुक्लाभिर्बलाकाभिश्च शोभिता ।।८५।।
प्रत्यग्रसंजातशिलीन्ध्रकन्दला लता द्रुमाभ्युद्गतचारुपल्लवा । शुभाम्बु९१धाराप्रणयप्रबोधितै९२ र्मदालसैर्भेकगणैश्च नादिता ।।८६। ।
७८..? त्यैः - क. । ७९ तत्र - क. घ. । ८०?. .यन्तो - क.,.?. यन्तौ - घ. । ८१... माघ्राय - क. घ. । ८२ प्रसाद... - क. । ८३ चारिणः - घ., वारणाः - क. । ८४ सभागताः - - घ. । ८५ स्तदा पुरं - क. । ८६ स्तपो... - घ. । ८७ संगता - घ । ८८ सर्वशः - घ. । ८९... र्वे - घ. । ९०... धाः - घ । ९१ सुधा... - घ. । ९२ प्रलयप्रबोधितैः... - घ. ।
60
प्रियेषु मानोन्नतमानसानां सुनिश्चितानामपि कामिनीनाम् ।
मयूरकेकाभिरुतैः क्षणेन मनोहरैर्मानविभङ्गकर्त्री । ।८७ । ।
तथा त्रिवर्णोज्ज्वलचारुमूर्तिना शशाङ्कलेखाकुटिलेन सर्वतः ।
पयोदसंघातसमीपवर्त्तिना महेन्द्रचापेन भृशं विराजिता ।।८८। ।
विचित्रपुष्पस्पर्शात् सुगन्धिभि९३ र्घनाम्बुसंपृक्ततया९४ सुशीतलैः ।
विकम्पयन्ती९५ पवनैर्मनोहरैः सुरा९६ ङ्गनानामलकावलीः शुभाः ।।८९। गर्जत्पयोदस्थगितेन्दुबिम्बा नवाम्बुसेकोद्गतचारुदूर्वा९७ ।
निरीक्षिता सादरमुत्सुकाभिर्निःश्वासधूम्रं९८ पथिकाङ्गनाभिः । । 8.13.९० ।। हंसनूपुरशब्दाढ्या समुन्नतपयोधरा ।
चलद्विद्युल्लताकाञ्ची९९ स्पष्टपद्मविलोचना ।।९ १ । ।
असितजलदवृन्दध्वानवित्रस्तहंसा
विमलसलिलधारापातताम्रोत्पलाग्रा ।
सुरभिकुसुमरेणुक्लृप्तसर्वाङ्गशोभा
गिरिदुहितृ१०० विवाहे प्रावृडागाद्विभूत्यै । ।९२ । ।
मेघकञ्चुकनिर्मुक्ता पद्मकोशोद्गतस्तनी ।
हंसनूपुरनिर्ह्रादा१०१ सर्वरम्यदिगन्तरा ।।९३ । ।
विस्तीर्णपुलिनश्रोणी कूजत्सारसमेखला ।
प्रफुल्ले१०२ न्दीवराभोगविलोचनमनोहरा । ।९४। ।
पक्वबिम्बाधरपुटा कुन्ददन्तप्रहासिनी ।
नवश्यामालताश्यामरोमराजि१०३ परिष्कृता । ।९५। ।
चन्द्रांशुहारवर्येण सौधोरःस्थलसर्पिणा ।
प्रह्लादयन्ती चेतांसि सर्वेषां त्रिदिवौकसाम् ।।९६ । ।
प्रमदालिकुलो१०४ द्गीतमधुरस्वन१०५ भाषिणी ।
चलत्कुमुदसंघातचारुकुण्डलशोभिनी१०६ । ।९७। ।
९३ च्छुगन्धि ... - क. । ९४ सपक.ं?. - क., भयात्... - घ । ९५ विकल्प... - घ. । ९६ पुरा - घ. । ९७ प... - घ । ९८... म्रा - घ । ९९ वि ( ज?) ह्वा - घ । १००.. तु - क. । १. १... द - क. । १०२ पुष्करे - घ. । १०३... जी - क घ । १०४ समदासीगणो. - घ. । १०५... र - घ. । १०६... ता - घ ।
61
रक्ताशोकाग्रशाखोत्थपल्लवाङगुलिधारिणी ।
तत्पुष्पसंचयमयैर्वासोभिः समलंकृता ।।९८ । ।
रक्तोत्पलाग्रचरणा जातीपुष्पनखावली ।
कदलीस्तम्भचारूरुः शशाङ्कवदना शुभा१०७ । ।९९।।
पद्मकिञ्जल्कसंपृक्त१०८ पवनप्रकरैः१०९ सुरान्११० ।
प्रेम्णा स्पृशन्ती कान्तेव शरदागान्मनोरमा ।।8.13.१ ०० । ।
निर्मुक्ता१११ सितमेघकञ्चुकपुटा पूर्णेन्दुबिम्बानना
नीलाम्भोजविलोचनाब्मुकुल११२ प्रोद्भिन्नचारुस्तनो ।
नानापुष्परजःसुगन्धिपवना११३ एं ए प्रह्लादनी चेतसाम्
तत्रागात्११४ कलहंसनूपुररवा देव्या विवाहे शरत्११५ । । १०१ । ।
अत्यर्थशीतलांभोभिः प्लावयन्तौ गिरेः शिलाः ।
ऋतू हेमन्तशिशिरा११६ वाजग्मतुरभिद्युती११७ ।। १०२ ।।
ताभ्यामृतुभ्यां प्राप्ताभ्यां हिमवान् स नगोत्तमः ।
प्रालेयचूर्णवर्षिभ्यां क्षिप्रं रौप्य इवाबभौ ।। १०३ ।।
तेन प्रालेयवर्षेण घनेन स हिमाचलः ।
शोभनेन११८ तदा रेजे क्षीरोद इव सागरः । । १ ०४। ।
हिमस्थानेषु हेमन्तो११९ र्प्य नाशयामास पादपान् ।
साधूपचारान् सहसाकृतार्थ इव दुर्जनः । । १० ५। ।
प्रालेयपटलच्छन्नैः शृङ्गैः स१२० शुशुभे नगः ।
छत्रैरिव महाभोगैः पाण्डरैः पृथिवीपतिः । ।१ ०६ । ।
पाण्डराणि विशालानि श्रीमन्ति सुभगानि च ।
अद्रिशृङ्गाणि तुङ्गानि१२१ सौधानीव चकाशिरे । । १ ०७। ।
तस्याचलेन्द्रस्य दरीष्वतीव विचित्रसारङ्१२२ कुत्नाकुलासु ।
प्रालेयधाराः शशिपादगौरा गोक्षीरधारा इव सन्निपेतुः । ।१ ०८ । ।
१०७ तथा - क. । १०८ सयुक्ता - घ. । १०९ पद्मव्यग्रकरा- - घ । ११० शुभा - घ. । १११.. निमुक्तोज्कि? त - घ. । ११२ कुमुद - घ. । ११३... न - क. घ. । ११४ तद्योगात् - घ । ११५ स्वयम् - घ. । ११६ शिशिरहेमन्ता - क. घ । ११७ रति... - क घ. । ११८ अगाधने ( धेन?) - घ. । ११९ हिमवान् - ग क. घ. । १२० सं - घ. । १२१ तुङ्गानि चाद्रिशृंगाणि - घ. । १२२ शार्दूल - घ. ।
62
बहुकुसुमरजोभिरुत्कराङ्गा१२३ हिमकणसङ्गसु१२४ शीतलाः समीराः । ववुरमरगणेश्वराम्बराणि प्रतनुतमानि शनैर्विकम्पयन्तः । । १०९ । ।
विधूतरू१२५ क्षानीलवीतदोषः१२६ प्रोद्भिन्नचूताङ्कुरकर्णपूरः ।
वसन्तकालश्च तमद्रिपुत्रीसेवार्थमागाद्धिमवन्तमाशु१२७ । । 8.13.११० ।।
तस्मिन्नृतावद्रिसुताविवाहसिषेवया तं गिरिमभ्युपेते ।
प्रादुर्बभूवुः कुसुमावतंसाः समन्ततः पादपगुल्मषण्डाः ।।१ ११ ।।
ववुः सुगन्धाः सुभगाः सुशीता विचित्रपुष्पाग्र१२८ रजोत्कराङ्गाः ।
मनोभवोद्रेककराः१२९ सुराणां सुरङ्गनानाञ्च मुहुः समीराः ।।१ १ २। ।
स्वच्छाम्बुपूर्णाश्च तथा नलिन्यः पद्मोत्पलानां कुसुमैरुपेताः १३० ।
ईषत्समुद्भिन्नपयोधराग्रा नार्यो यथा रम्यतमा बभूवुः । ।१ १३ ।।
ऋतोः स्वभावाच्च मदोद्भवाच्च फुल्लासु शाखासु निलीनपक्षाः ।
श्रोत्राभिरामं त्रिदशाङ्गनानां पुंस्कोकिलाश्चाविकलं१३१ विनेदुः । ।१ १४।।
नात्युष्णशीतानि सरःपयांसि किञ्जल्कचूर्णैः कपिलीकृतानि १३२ ।
चक्राह्वयुग्मैरुपनादितानि पपुः प्रहृष्टाः सुरदन्तिमुख्याः । । ११५ । ।
प्रियंगुसंवृतवरः वृताँश्चापि प्रियतरः । (?)
तर्जयन्त इवान्योन्यं मञ्जरीभिश्चकाशिरे१३३ ।।१ १ ६।।
हिमशुक्लेषु शृङ्गेषु तिलकाः कुसुमोत्कराः१३४ ।
शुशु - -१३५ कार्यमुद्दिश्य वृद्धा इव समागताः । । १ १७। ।
फुल्लाशोकलतास्तत्र रेजिरे शालसंश्रिताः १३६ ।
कामिन्य इव कान्तानां कण्ठालम्बितमूर्त्तयः १३७ ।। ११८ । ।
समदालिकुलोद्गीतलताकुसुमसंचयाः ।
परस्परं हि मालत्यो भाषन्त्य इव रेजिरे ।। ११९ ।।
१२३ रावृताङ्गा - घ. । १२४. म - घ. । १२५ वृ.. - घ. । १२६ शीतदोषः - घ. । १२७... शु - क. । १२८ पुष्पौग्र - घ. । १२९ न्मेष.?. - घ. । १३० स्वकुलं... - घ. । १३१ ति.. - क. घ. । १३२ कलुषी... - घ. । १३३ र्बभाषिरे - घ- । १३४ कुमुदोत्कराः - क. । १३५ शिशुभिः - घ. । १३६ साल - क. । १३७ बाहवः - घ. ।
63
नीलानि नीलाम्बुरुहैः पयांसि गौराणि गौरैश्च मृणालदण्डैः ।
तथैव चित्राणि१३८ भृशं कृतानि मत्तद्विरेफार्धविदष्टपत्रैः१३९ । । 8.13.१२० । ।
हैमानि विस्तीर्णजलेषु केषुचिन्निरन्तरं मारकतानि केषुचित् ।
वैदूर्यनालानि सरस्सु केषुचित् प्रजज्ञिरे पद्मवनानि सर्वतः ।। १२१ ।।
वाप्यस्तत्राभवन् रम्याः कमलोत्पलभूषिताः ।
नानाविहङ्गसंघुष्टा१४० हेमसोपानपंक्तयः । ।१ २२ ।।
शृङ्गाणि तस्य तु गिरेः कर्णिकारैः सुपुष्पितैः ।
समुच्छ्रितान्यविरलै१४१र्हैमानीव बभुर्मुने । ।१ २३ ।।
ईषदुद्भिन्नकुसुमैः पाटलै१४२श्चापि पाटला१४३ ।
संबभूवुर्दिशः सर्वाः पवनाकम्पिमूर्त्तिभिः१४४ ।।१ २४। ।
कृष्णाञ्जनाद्रिशृङ्गाभा नीलाशोकमहीरुहाः ।
गिरौ ववृधिरे फुल्लाः स्पर्धयेव १४५ परस्परम् । ।१ २५ । ।
चञ्चरीकविघुष्टानि१४६ किंशुकानां वनानि च ।
पर्वतस्य नितम्बेषु सर्वेष्वेवाभिजज्ञिरे१४७ । । १२६ ।।
तमालगुल्मैस्तस्यासीच्छोभा हिमवतस्तदा ।
नीलजीमूतसंघातैर्निलीनैरिव सन्धिषु ।। १ २७। ।
निकामपुष्पैः१४८ सुविशालशाखैः समुच्छ्रितैश्चम्पकपादपैश्च ।
प्रमत्तपुंस्कोकिलसंप्रलापै१४९ र्हिमाचलोतीव तदा रराज । । १२८ । ।
श्रुत्वा शब्दा१५० नृतुमदकलान्१५१ सर्वतः कोकिलानाम्
चञ्चत्पक्षाः सुमधुररुतं नीलकण्ठा विनेदुः ।
तेषां शब्दैरुपचितबलः पुष्पचापेषुहस्तः
सज्जीभूतस्त्रिदशवनिता वेद्धुमङ्गेष्वनङ्गः । ।१ २९ ।।
पटुसूर्यातपश्चापि प्रायः सोष्णजलाशयः ।
देवीविवाहसेवार्थं१५२ ग्रीष्म आगाद्धिमाचलम् ।। 8.13.१३० । ।
१३८ रक्तानि रक्तैश्च - घ. । १३९ विदह्यमालैः - घ. । १४०.. मसंयुक्ता - घ., ष्ट -क १४१ समुत्सृ -घ । १४२.. .कुमुभाः पादपाः.. घ. । १४३ - धिपाटला - घ । १४४ मूर्त्तयः - घ. । १४५... या च - घ. । १४६ विपुष्टानि - घ. । १४७ तस्मिन्काले गिरीशस्य सर्वस्थानेथ.?. - घ. । १४८ निमील... - घ. । १४९ पुंस्कोकिलानां च तथा... - घ. । १५०दं श० - क. घ । १५१ कल - क.घ । १५२ समये - घ ।
64
स चापि तरुभिस्तत्र बहुभिः कुसुमोत्करैः ।
शोभयामास शृङ्गाणि प्रालेयाद्रेः समन्ततः ।।१३ १।।
तस्यापि च ऋतोस्तत्र वायवः सुमनोहराः ।
ववुः पाटलविस्तीर्णकदम्बार्जुनगन्धिनः ।।१३२।।
वाप्यः प्रफुल्लपद्मौघाः केसरारुणमूर्त्तयः ।
अभवन् तटसंघुष्टकलहंसकदम्बकाः ।।१ ३३।।
तथा कुरबकाश्चापि१५३ कुसुमापाण्डुमूर्तयः ।
सर्वेषु जज्ञुः१५४ शृङ्गेषु भ्रमरावलिसेविताः ।।१ ३४।।
बकुलाश्च नितम्बेषु विशालेषु महीभृतः ।
उत्ससर्जुर्मनोज्ञानि कुसुमानि समन्ततः ।। १ ३५।।
इति कुसुमविचित्रसर्ववेषा१५५ विविधविहङ्गमनादरम्यदेशाः ।
हिमगिरितनयाविवाहभूत्यै षडुपययुर्ऋतवो मुनिप्रवीर ।।१३६।।
तत एवं१५६ प्रवृत्ते तु सर्वभूतसमागमे ।
नानावाद्यसमाकीर्णे ब्रह्मा मम पिता स्वयम् ।।१३७।।
शैलपुत्रीमलंकृत्य योगा१५७ भरणसंपदा ।
पुरं प्रवेशयामास.. .य१५८ मादाय लोकवित् ।।१३८।।
ततस्तु पुनरेवेशं१५९ ब्रह्मा व्यज्ञापयद्विभुम् ।
हविर्जुहोमि वह्नौ तु उपाध्यायपदे स्थितः ।।१३९।।
ददासि मह्यं यद्याज्ञां कर्तव्योयं क्रियाविधिः ।
तमाह शङ्करो देवं देवदेवो जगत्पतिः । ।8.13.१४०।।
यत्त्वदिष्टं१६० सुरेशान तत्कुरुष्व यथेप्सितम्१६१ ।
कर्तास्मि वचनं सर्वं ब्रह्मँस्तव जगद्विभोः१६२ ।।१४१ ।।
१५३... न्ये- घ. । १५४ जज्ञे - क., नग... - घ. । १५५... वृक्षा - घ. । १५६ तत्रोत्सवे - घ. । १५७ योग्या(?) । १५८ श्रय (?) - घ. । १५९ देवेशं - क. । १६० यद्य... - क. । १६१ ४.. यथोचि... - घ. । १६२... भो- घ ।
65
ततः प्रणम्य हृष्टात्मा ब्रह्मा लोकपितामहः ।
हस्तं देवस्य देव्याश्च१६३ योगबन्धे युयोज ह ।। १४२। ।
ज्वलनश्च१६४ स्वयं तत्र१६५ कृताञ्जलिरुप१६६स्थितः१६७ श्रुतिगीतैर्महामन्त्रैर्मूर्तिमद्भिरुपस्थितैः । । १४३ ।।
यथोक्तविधिना हुत्वा सर्पिस्तदमृत च हि१६८ ।
त्रिश्च१६९ तं ज्वलनं देवं कारयित्वा प्रदक्षिणम् । । १४४।।
मुक्त्वा१७० हस्तसमायोगं सहितः१७१ सर्वदेवतैः१७२ ।
सुतैश्च मानसैः सर्वैः१७३ प्रहृष्टेनान्तरात्मना । । १४५ ।।
वृत्ते उद्वाहकार्ये१७४ तु प्रणनाम वृषध्वजम् ।
योगेनैव तयोर्व्यास तदोमापरमेशयोः । । १४६।।
उद्वाहः स परो वृत्तो यं देवा न विदुः क्वचित् ।
इति ते सर्वमाख्यातं स्वयंवरमिदं शुभम् ।
उद्वाहश्चैव देवस्य शृण्वतः परमाद्भुतम् । । १४७।।
-इति स्कन्दपुराणे उमापरिणयनं नाम त्रयोदशोध्यायः
सनत्कुमार उवाच
अथ वृत्ते विवाहे तु भवस्यामिततेजसः ।
प्रहर्षमतुलं गत्वा देवाः सह पितामहाः१ । । १ । ।
तुष्टुवुर्वाग्भिरिष्टाभिः प्रणमन्तो महेश्वरम् ।
नमः पर्वतलिङ्गाय पर्वतेशाय वै नमः । ।२ । ।
नमः पवनवेगाय विरूपायाजिताय च ।
नमः क्लेशविनाशाय दात्रे च शुभसम्पदाम् । । ३ । ।
१६३ वै देवदेवस्य - घ । १६४ श्च - क. । १६५ कृत्वा - क. । १६६ मुप... - क. । १६७... त - क. । १६८ हविः - घ. । १६९ त्रिषु - घ. । १७० स्तुत्वा - घ. । १७१ हसित घ. । १७२ सर्वदैवतैः- घ. । १०३ सिद्धैः - घ । १७४... ले - क. घन् ।
१ देवताः सपितामहाः - घ. ।
66
नमो नीलशिखण्डाय अम्बिकापतये नमः ।
नमः पवनरूपाय शतरूपाय वै नमः । ।४। ।
नमो भैरवरूपाय विरूपनयनाय२ च ।
नमः सहस्रनेत्राय सहस्रचरणाय च । ।५ ।।
नमो वेदरहस्याय वेदाङ्गाय३ नमो नमः ।
विष्टम्भनाय४ शक्रस्य५ बाहो६र्वेदाङकुराय च । ।६ । ।
चराचराधिपतये शमनाय नमो नमः ।
सलिलेशयलिङ्गाय युगान्तायतलिङ्गिने७ । ।७।।
नमः कपालमालाय कपालस्रग्विणे नमः ।
नमः कपालहस्ताय दंष्ट्रिणे गदिने८ नमः ।।८।।
नमस्त्रैलोक्यनाथाय९ सप्तलोकनताय१० च ।
नमः खट्वाङ्गहस्ताय प्रमथार्त्तिहराय च ।।९।।
नमो यज्ञशिरोहर्त्रे कृष्णकेशा११पहारिणे ।
भगनेत्रनिपाताय पूष्णो दन्तहराय च । । 8.14.१० । ।
नमः पिनाकशूलासिखड्गमुद्गरधारिणे ।
नमोस्तु कालकालाय तृतीयनयनाय१२ च ।। ११ ।।
अन्तकान्तकृते चैव नमः पर्वतवासिने ।
सुवर्णरेतसे चैव शंखकुण्डलधारिणे । । १ २। ।
वाड्वले(?) र्योगनाशाय योगिनां गुरवे नमः ।
शशाङ्कादित्यनेत्राय ललाटनयनाय च । । १३ ।।
नमः श्मशानरतये श्मशानवरदाय च ।
नमो दैवतनाथाय त्र्यम्बकाय नमो नमः । ।१४।।
२.. पाय हराय - घ. । ३ देवाज्ञा (देवज्ञा?) य - घ. । ४ विश्वम्भराय - घ. । ५ शक्राय - घ. । ६ राहो - घ. । ७ युगान्तस्तोभ... - घ. । ८ ङ्ग.. - १) । ९ वाहाय - क. । १० रथाय - क. । ११.. स्य केशः... - घ. । १२ नयनत्रितयाय (?) ।
67
अशनीशतहासाय ब्रह्मण्यायाजिताय च ।
गृहस्थसाधवे नित्यं जटिने ब्रह्मचारिणे ।। १ ५। ।
नमो मुण्डार्धगण्डाय१३ पशूनां पतये नमः ।
सलिले तप्यमानाय योगैश्वर्यप्रदाय च । । १ ६।।
नमः शान्ताय दान्ताय प्रलयोत्पत्तिकारिणे ।
नमोनुग्रहकर्त्रे च स्थितिकर्त्रे नमो नमः । । १७। ।
नमो रुद्राय वसवे आदित्याया१४श्विने नमः ।
नमः पित्रेथ साध्याय१५ विश्वेदेवाय वै नमः ।। १८ । ।
नमः शिवाय१६ शर्वाय१७ उग्राय वरदाय च ।
नमो भीमाय सेनान्ये पशूनां पतये नमः ।। १ ९।।
शुचये रेरिहाणाय सद्योजाताय वै नमः ।
महादेवाय चित्राय नमश्चित्ररथाय च । ।8.14.२० ।।
प्रधानाया१८प्रमेयाय कार्याय करणाय च ।
पुरुषाय नमस्तेस्तु पुरुषेच्छाकराय च । ।२१ । ।
नमः पुरुषसंयोगप्रधानगुणधारिणे ।
प्रवर्तकाय प्रकृतेः पुरुषस्य च सर्वशः । ।२२।।
कृता१९कृतस्य सं(?)वेत्रे फलसंयोगदाय च ।
कालज्ञाय च सर्वत्र नमो नियमचारिणे२० ।।२३ ।।
नमो वैषम्यकर्त्रे च गुणानां वृत्तिदाय च ।
नमस्ते२१ देवदेवेश नमस्ते भूतभावन ।
शिवः सौम्यः सुखो द्रष्टुं भव सोमो हि नः प्रभो । ।२४। ।
सनत्कुमार उवाच
एवं स भगवान्देवो जगत्पतिरुमापतिः ।
स्तूयमानः सुरैः सर्वैरमरानिदमब्रवीत् । ।२५। ।
१३ मुक्तार्धमुण्डाय - घ । १४ य नमो नमः - घ । १५ सवित्रे च सावित्राय - घ। १६ सर्वाय क। १७ -... य - क. । १८... य - क. । १९ कृते - घ. । २० का... - घ. । २१ नमोस्तु - घ. ।
68
द्रष्टुं सुखश्च सौम्यश्च देवानामस्मि भो सुराः ।
परं ब्रूत यथेष्टं वो२२ दातास्मि वदता२३नघाः ।।२६।।
ततस्ते प्रणताः सर्वे ऊचुः सब्रह्मकाः सुराः ।
तथैव भगवन्नस्तु२४ वर एषोवतिष्ठताम् ।।२७।।
यदा कार्यं तदा नस्त्वं२५ दास्यसे वरमीप्सितम् ।
एवमस्त्विति तानुक्त्वा विसृज्य च सुरान् हरः ।
लोकांश्च प्रमथैः सार्धं विवेश भवनं ततः२६ ।।२८।।
यस्तु हरोत्सवमद्भुतमेतं२७ गायति दैवतविप्रसमक्षम् ।
सोप्रतिरूपगणेशसमानो देहविपर्ययमेत्य सुखी स्यात् ।।२९।।
सनत्कुमार उवाच
पाराशर्य स्तवं हीमं२८ शृणुयाद्यः पठेत वा ।
स स्वर्गलोकगगो२९ भूत्वा पूज्यतेमरराडिव३० ।।8.14.३०।।
इति स्कन्दपुराणे उमाविवाहस्तवो नाम चतुर्दशोध्यायः
सनत्कुमार उवाच
प्रविष्टे भवनं देवे सूपविष्टे वरासने
सवह्निर्मन्मथः क्रूरो देवं वेद्धुमना१ भवत् ।।१। ।
तमनाचारसंयुक्तं दुरात्मानं कुलाधमम् ।
लोकान् सर्वान् तापयानं२ सर्वेष्वकरुणात्मकम् ।।२।।
ऋषीणां विघ्नकर्तारं नियमानां व्रतैः सह३ ।
चक्राह्वयस्य रूपेण रत्या सह समा४गतम् ।। ३ ।।
२२ च - क. घ. । २३ वरदो - घ. । २४ तदैव भगवन् शंभो - घ. । २५ श्र - ध. । २६ भगवास्ता - घ- । २७ तद् -क. । २८ ह्येतत् - घ., ह्येतं (?) ' । २९ सर्वलोकगो - घ. । ३० चामराधिपैः - घ. ।
१ सन्धिरार्षः । ह्यभूदिति वा पाठः कल्प्यः । २ तापमान - घ. । ३ तथैव च - घ, । ४ तया - घ.
69
अथाततायिनं व्यास वेद्धुकामं सुरेश्वरम् ।
नयनेन तृतीयेन सावज्ञं तमवैक्षत । ।४। ।
ततोस्य नेत्रजो वह्निर्ज्वालामालासहस्रवान् ।
संवृत्य५ रतिभर्तारमदहत् सपरिच्छदम् । । ५। ।
स दह्यमानः करुणमार्त्तोक्रोशत विस्वरम् ।
प्रसादयँश्च तं देवं पपात स महीतले । । ६। ।
आशु सोग्निपरीताङ्गो मन्मथो लोकतापनः६ ।
पपात भस्मसाच्चैव क्षणेन समपद्यत ।।७। ।
पत्नी तु करुणं तस्य विललाप सुदुःखिता ।
देवं देवीञ्च७ रुदती८ अयाचत् करुणायती ।।८। ।
तस्यास्तत्९ क्रन्दनं१० श्रुत्वा११ देवौ तौ करुणात्मकौ ।
ऊचतुस्तां समालोक्य समाश्वास्य च१२ दुःखिताम् । ।९। ।
दग्ध एष ध्रुवं भद्रे१३ नास्योत्प१४त्तिरिहेष्यते ।
अशरीरोपि ते काले कार्यं सर्वं१५ करिष्यति । ।8.15.१ ० ।।
यदा तु विष्णुर्भविता वसुदेवसुतः शुभे ।
तदा तस्य सुतो ह्येष१६ पतिस्ते भविता रते१७ ।। ११ ।।
सनत्कुमार उवाच
ततः सा तं वरं लब्ध्वा कामपत्नी शुभानना ।
जगामेष्टं१८ तदा देशं प्रीतियुक्ता गतक्लमा१९ ।। १ २।।
सनत्कुमार उवाच
एवं दग्ध्वा स कामं तु शङ्करो मूढचेतसम् ।
प्रोवाच हिमवत्पुत्रीं भक्त्या मुनिवरस्य ह ।। १३ ।।
५ संभूत्तं - घ. । ६ पातनः - क. । ७ देवी देव च - घ । ८ दुःखार्ता - क । ९ श्र - घ । १० करणं - घ. । ११ ज्ञात्वा - घ. । १२ सु - घ. । १३ तत्र - घ. । १४ नान्यो. - घ. । १५ सर्वकायं - घ. । १६ प्येष - घ., यः स्यात् - क । १७ स भविष्यति - क. । १८. ष्टतमं - घ । १९ शंभोराधनकाम्यया - घ. ।
70
वसिष्ठो नाम विप्रेन्द्रो मां कृत्वा हृदि तप्यते ।
तस्याहं वरदानाय प्रयास्यामि महाव्रते । । १४। ।
एवमुक्त्वा स देवीं तु भक्त६० प्रीत्या तदा विभुः ।
जगाम तपतो२१ भ्यासं वसिष्ठस्य मुनेर्विभुः ।।१ ५।।
ततो मुनिवरश्रेष्ठं वरिष्ठं तपतां वरम् ।
वसिष्ठमृषिशार्दूलं तप्यमानं परन्तपः ।।१ ६।।
पूर्णे वर्षसहस्रे तु ज्वलमानमिवानलम् ।
उवाच भगवान् गत्वा ब्रूहि किन्ते२२ ददान्यहम्२३ ।।१७। ।
ददामि दिव्यं चक्षुस्ते पश्य मां सगणं द्विज ।
दृष्टवा तु स तमीशानं२४ प्रणम्य शिरसा प्रभुम्२५ ।
शिरस्यञ्जलिमाधाय२६ तुष्टाव हृषिताननः । । १८ ।।
वसिष्ठ उवाच
नमः कनकलिङ्गाय२७ वेदलिङ्गाय२८ वै नमः ।
नमः सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः । ।१ ९। ।
नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः ।
नमः परमलिङ्गाय२९ ब्रह्मलिङ्गाय वै नमः ।।8.15.२० । ।
नमस्त्रैलोक्यलिङ्गाय दाहलिङ्गाय वै नमः ।
नमः पर्वतलिङ्गाय स्थितिलिङ्गाय वै नमः । ।२ १ ।।
नमो रहस्यलिङ्गाय सप्तद्वीपाध्वलिङ्गिने३० ।
नमः सर्वार्थलिङ्गाय सर्वलोकाङ्गलिङ्गिने३१ ।।२२ । ।
नमोस्त्वव्यक्त३२ लिङ्गाय बुद्धिलिङ्गाय वै नमः ।
नमोहङ्कारलिङ्गाय भूतलिङ्गाय वै नमः । ।२३ । ।
नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने ।
नमः पुरुषलिङ्गाय भावलिङ्गाय वै नमः । ।२४। ।
२० भक्ति -क, भक्त्या घ। २१ तप्यतो - क. । २२ किन्न - घ. । २३ वदा - क., ददानि ते - घ. । २४ ततस्तमीशानं - क. । २५ विभुः - घ. । २६ मादा... - घ- । २७... पिङ्गाय - घ. । २८ स्थिति... - घ. । २९ पवन.. - क. । ३० सर्वनोकाङ्गः.. - घ. । ३१ सत्वलिङ्गाय वै नमः - ध. । ३२ नमः प्रकृतिः.. - घ. ।
71
नमः सत्वोर्ध्वलिङ्गाय३३ तमोलिङ्गाय वै नमः ।
नमो रजोर्ध्वलिङ्गाय सत्त्वलिङ्गाय वै नमः ।।२५।।
नमो गगनलिङ्गाय तेजोलिङ्गाय वै नमः ।
नमो वामूर्ध्वलिङ्गाय शब्दलिङ्गाय वै नमः ।।२६।।
नम ऋक्स्नुतलिङ्गाय यजुर्लिङ्गाय वै नमः ।
नमस्तेथर्वलिङ्गाय सामलिङ्गाय वै नमः । । २७।।
नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः ।
नमस्तेनन्तलिङ्गाय वेदानुगतलिङ्गिने३४ ।।२८।।
दिश नः३५ परमं योगमपत्यं मत्समं तथा३६ ।
ब्रह्म चैवाक्षयं देव शमञ्चैव परं विभो ।
अक्षयत्वं च वंशस्य धर्मे च मतिमक्षयाम् ।।२९।।
सनत्कुमार उवाच
एवं स भगवान् व्यास वसिष्ठेनामितात्मना ।
स्तूयमानस्तुतोषाथ तुष्टश्चेदं तमब्रवीत् ।।8.15.३० ।।
भगवानुवाच
तुष्टस्तेहं ददाम्येतत्३७ तव सर्वं मनोगतम् ।
योगं च परमं सूक्ष्ममक्षयं सर्वकामिकम् ।।३१ ।। ३८
पुत्रञ्च३९ त्वत्समं दिव्यं तपोयोगबलान्वितम् ।
ज्ञानानि४० च४१ ऋषिश्रेष्ठ प्रतिभास्यन्ति चैव ते४२ ।।३२। ।
दमः शमस्तथा कीर्तिस्तुष्टिरक्रोध एव च ।
नित्यं तव भविष्यन्ति अमरत्वं च४३ सर्वशः ।।३३ ।।
अवश्यत्व४४ मसह्यत्वमक्षयत्वञ्च सर्वदा ।
वंशस्य चाक्षतिर्विप्र धर्मे च मति४५रव्यया ।
ब्रूहि चान्यानपि वरान् ददामि४६ ऋषिसत्तम ।।३४।।
३३ सर्वार्थ.. - घ- । ३४ देवानुगत ... - क. । ३५ मे - घ. । ३६ यथा - घ. । ३७ ददान्ये... - क. घ. । ३८ सार्वकामिदं - घ. । ३९ पौत्रञ्च - क. । ४० ददानि - क. । ४१ ते - क. घ. । ४२ ह - घ. । ४३ हि - घ. । ४४... ध्यत्व - क. । ४५ रति - घ. । ४६ ददानि - क. घ. ।
72
वसिष्ठ उवाच
भगवन् विदितं४७ सर्वं भूतं यद्वर्तनं विभो ।
भविष्यं४८ येन जानीयां तन्मे देव विधीयताम् ।।३५। ।
देव उवाच
भविष्यं स्वेच्छया कुर्यामिति ज्ञातुं न शक्यते ।
तदपि मत्प्रसादेन ज्ञास्यसि निर्वृतो भव ।।३६।।
वसिष्ठ उवाच
भगवन् विदितं सर्व भविष्यं देवसत्तम ।
तस्यापि तत्तथा देव यथा वा मन्यसे प्रभो ।।३७। ।
देवदेव उवाच
भविष्यं नान्यथा कुर्यादिति मे निश्चिता मतिः ।
- - - - - - - - कथं कुर्यात्तदन्यथा ।।३८।।
तथा तन्नात्र सन्देहो विहितं यद्यथा मया ।
तस्मात्तेनुग्रहं कर्ता भूयः पुत्रस्तवाव्यय ।।३९। ।
सनत्कुमार उवाच
एवमुक्त्वा ततो देवः कपर्दी नीललोहितः४८ ।
पश्यतस्तस्य विप्रर्षेः क्षणादन्तरधीयत५० ।।8.15.४० ।।
इति स्कन्दपुराणे वसिष्ठवरप्रदानं नाम पञ्चदशोध्यायः
४७ निगदितं - घ. । ४८.. ष्यन् (?) - घ. । ४९ वृषभध्बज इति च - घ. । ५० क्षणेना... - घ. ।
73
वरान् स१ लब्ध्वा भगवान् वसिष्ठोस्मत्पितामहः२ ।
कं पुत्रं जनयामास आत्मनः सदृशद्युतिम् ।।१ । ।
सनत्कुमार उवाच
तेनासौ वरदानेन देवदेवस्य शूलिनः ।
अरुन्धत्यामजनयत्तपोयोगबलान्वितम् ।।२ ।।
ब्रह्मिष्ठं शक्तिनामानं पुत्रं पुत्रशताग्रजम् ।
तस्य बाल्यात्प्रभृत्येव वासिष्ठस्य महात्मनः ।।३।।
रभसोपगता४ भक्तिरभवद् गोवृषध्वजे ।
स कदाचिदपत्यार्थमाराधयदुमापतिम् ।।४।।
तस्य तुष्टो महादेवो वरदोस्मीत्यभाषत ।
अथ दृष्टवा तमीशानमिदमाहानताननः५ ।।५।।
केन स्तोष्यामि६ ते७ देव यस्त्वं८ सर्वजगत्पतिः ।
सर्वान् धारयसे लोकानात्मना समयाद्विभो ।।६।।
त्वमेव भोक्ता भोज्यञ्च कर्ता कार्यं तथा क्रिया ।
उत्पादकस्तथोत्पाद्य उत्पत्तिश्चैव सर्वशः ।।७।।
आत्मानं पुत्रनामानं मम तुल्यं गुणैर्विभो ।
इच्छामि दत्तन्देवेश एष मे दीयतां वरः ।।८। ।
सनत्कुमार उवाच
तमेवंवादिनं देवः प्रहस्य वदतां वरः ।
उवाच वचसा व्यास दिशः सर्वा विनादयन्९ ।।९।।
१ लब्ध्वा तु - घ. । २ ने पि-... - घ. । ३ वसिष्ठस्य - घ. । ४ मनसा तपसा - क. । ५... माहर... - घ- । ६ तो... - क. । ७ त्वां - घ । ८ यत्त्वं - घ. । ९ व्यपादयन्(?) - क, ।
74
त्वयाहं याचितः शक्ते स च ते संभविष्यति ।
त्वत्समः सर्ववेदज्ञस्त्वदीयो मुनिपुङ्गव१० ।।8.16.१०।।
बीजात्मा च तथोद्भूतः स्वयमेवान्तरात्मना ।
बीजात्मना न भवति परिणामान्तरङ्गतः ।।११।।
एवं स आत्मनात्मा नः संभूतोपत्यसंज्ञितः ।
स्वेनात्मना न भविता परिणामान्तरं गतः ।।१२।।
सनत्कुमार उवाच
एवमुक्त्वा तु तं देवः प्रहस्य च निरीक्षतः११ ।
जगाम सहसा योगी अदृश्यत्वमतिद्युतिः ।।१३ ।।
तस्मिन् गते महादेवे शक्तिस्तव पितामहः ।
वचस्तत् परिनिश्चित्य एवमेवेत्यमन्यत१२ ।।१४।।
अथ कालेतिमहति समतीते शुभप्रदे१३ ।
तपसा भावितश्चापि महताग्निसमप्रभः ।।१५।।
अदृश्यन्त्यां महाप्रज्ञ आदधे१४ गर्भमुत्तमम् ।
तस्यामापन्नसत्वायां राजा कल्माषपादृषिम् ।
भक्षयामास संरब्धो रक्षसा हृतचेतनः ।।१६।।
इति स्कन्दपुराणे षोडशोध्यायः
व्यास उवाच
कस्मात् स राजा तमृषिं चखाद तपसान्वितम् ।
रक्षसा स किमर्थ च हृतचेता१ भवन्नृपः ।।१ ।।
१० पुङ्गवः - - क. । ११ क्ष्यतः (त?) - क. । १२ वर एवं ह्यभाषत - घ. । १३... व्रते - क. । १४ ञ्चादधे - घ. । १ कृतचेता - घ. ।
75
वसिष्ठयाज्यो२ राजासीन्नाम्ना मित्रसहः३ प्रभुः ।
सौदासस्तस्य पुत्रोभू४दिन्द्रचन्द्रसमद्युतिः ।।२। ।
समागम्याब्रवी५च्छक्तिश्चरिष्ये दीक्षितो व्रतम् ।
ततो मे निशि राजेन्द्र सदैव६ पिशिताशनम् । ।३ । ।
इहागतस्य यच्छ त्वं शुचि७ सर्वगुणान्वितम् ।
सुप्रभाहार८ संयुक्तमेकस्यैकान्त९ एव च ।।४।।
एवमस्त्विति तेनोक्ते जगाम स महामनाः ।
अथास्यान्तर्हितं रक्षो१० नृपतेरभवत्तदा । ।५।।
सूदान्ना११ ज्ञापयत् तेन१२ तस्यार्थे मुनिसत्तम१३ ।
गते च दिवसे तात संस्मृत्याथ यतात्मवान् ।
सूदमाहूय१४ प्रोवाच आर्तवत्१५ स नराधिपः । ।६।।
सौदास उवाच
मया मृतवसो प्रातर्गुरुपुत्रस्य धीमतः ।
पिशितं संप्रतिज्ञातं भोजनं निशि संस्कृतम् ।।७।।
तत्कुरुष्व यथाक्षिप्रं कालो नोपरमेद्यथा ।
स एवमुक्तः प्रोवाच सूदो१६ मृतवसुस्तदा ।।८।।
राजंस्त्वया त्वनाख्यातं प्रागेव नरपुङ्गव ।
सांप्रतं नास्ति पिशितं स्तोकमप्यभिकांक्षितम् ।।९ ।।
पिशितस्यैव१७ चाल्पस्य बहूनां चैव भूभुजाम् ।
अमृतस्य(?) प्रदानाच्च न किंचिदवशिष्यते । ।8.17.१ ०।।
राजोवाच
जाने सर्वोपयोगं च जाने चा१८ दुष्कृतं तव ।
जाने स्तोकं च पिशितं कार्यं चेदं१९ तथाविधम् ।
मृग्यतां२० पिशितं क्षिप्रं लुब्धकं यत्र मन्यसे ।। ११ ।।
२ राज्ये - घ. । ३... सख - घ । ४ तस्य पुत्रश्च सौदासो - घ. । ५ वदत् - घ. । ६ सदे.,. - घ. । ७.. चिः - घ. । ८.. .कार - घ. । ९ स्ये... - घ. । १० वश्यो - घ. । ११ मुद्वाना.. - ध. । १२ त्तत्र - घ. । १३ मक्षः - घ. । १४ इदमाहूय - घ. । १५ मार्त.. - घ. । १६ सृतो - घ. । १७... स्येव - ध. । १८ वा - घ. १९ यथाविधम् - घ. । २० भु (यु? यो?) ज्यतां - घ. ।
76
सनत्कुमार उवाच
पिशितं मृगयन् यत्नान्नाप्यविन्दत कर्हिचित् ।
यदा न लब्धवान् मांसं तदोवाच२१ नराधिपम्२२ ।
मृगयन् सार (?)खि२३ न्नोस्मि शाधि२४ किं करवाणि ते । । १ २।।
सनत्कुमार उवाच
स एवमुक्तः सूदेन तस्मिन् काले नराधिपः ।
नोवाच किंचित्तं सूदं विमनाः२५ स बभूव ह । ।१ ३ ।।
इदमन्तरमासाद्य विश्वामित्रसमीरितः ।
राक्षसो रुधिरो नाम संविवेश नराधिपम् ।। १४। ।
राक्षसेन तदाविष्टो रुधिरेण दुरात्मना ।
उवाच सूदं२६ शनकैः कर्णमूले महाद्युतिः । ।१ ५।।
गच्छ यत्किंचिदानीय मांसं मानुष्यकं ततः ।
गार्दभं वाप्यथौष्ट्रं वा शीघ्रं२७ संस्कर्तुमर्हसि । । १ ६। ।
किमसौ ज्ञास्यते रात्रौ त्वया भूयश्च संस्कृतम् ।
रसवद् गन्धवच्चैव२८ क्षिप्रमेव समानय । । १७।।
सनत्कुमार उवाच
एवमुक्तस्तु तेनाथ मानुषं मांसमाददे ।
राजापकारिणो व्यास सूदो२९ शिष्टस्य कस्यचित् । ।१८। ।
अथार्धरात्रसमये भास्कराकारवर्चसम् ।
राजानल३० समप्रख्यमपश्यन्मुनिसत्तमम् ।। १ ९। ।
स तमर्घ्येण पाद्येन आसनाग्रवरेण च ।
अर्नयित्वा३१ तु विधिवदन्नमस्योपपादयत्३२ ।।8.17.२ ० ।।
२१ तत्रौ घ । २२ प घ २३ थि घ २४ सा घ। २५ विमूढः ? । २६ शृंग घ २७ सर्वं घ २ ६७। ग - घ. । २ ७- सर्वं - घ. । २८ वशबंधयुव - घ. । ( रसगन्धयुतं चैव?) । २९ मृतो - ध. । ३० शतानन... - घ. । ३१ सोर्चवित्वा - घ । हे २ त्त्वन्नभस्यो... - घ. ।
77
स तदन्नं३३ समानीतं३४ समालभ्य महातपाः ।
चुकोप क्षोभितं चापि पार्थिवं प्रहसन्निव । ।२१ ।।
शक्तिरुवाच
पार्थिवाधम विप्राणां भोजनं राक्षसोचितम् ।
न दीयते विधिज्ञेन त्वं तु मामवमन्यसे ।।२२ ।।
यस्मात्त्वं राक्षसमिदं मह्यं दित्ससि भोजनम् ।
तस्मात्त्वं कर्मणानेन पुरुषादो भविष्यसि ।।२३।।
सनत्कुमार उवाच
स एवमुक्तस्तेजस्वी राजा संचिन्त्य तत्तदा ।
उवाच क्रोधरक्ताक्षो राक्षसाविष्ठचेतनः । ।२४।।
पुरुषादो भवेत्येवं मामवोचद् भवान् यतः ।
अतस्त्वां भक्षयिष्यामि भ्रातृभिः सहितं द्विज ।। २५।।
भक्षयित्वा विशुद्ध्यर्थं मुक्तशापस्ततः परम् ।
चरिष्यामि तपः शुद्धं संयम्येन्द्रियसंयुतम् (?) ।
पित्रा तवाभ्यनुज्ञातः स्वर्गे वत्स्ये यथेप्सितम् । ।२६ । ।
इति स्कन्दपुराणे एकाशीतिसाहस्र्यां संहितायामम्बिकाखंडे कल्माषपादशापः सप्तदशोऽध्यायः
सनत्कुमार उवाच
ततः स राजा स्वं राज्यमुत्सृज्य सह भार्यया ।
वनं विवेश तत्राभूत् पुरुषादो महाबलः ।।१ ।।
सोभक्षयत तत्राग्रे शक्तिमेव महामुनिम् ।
ततो भ्रातृशतं तस्य वसिष्ठस्यैव पश्यतः ।।२ । ।
३३.. र्थं - घ. । ३४... सीनं - घ. ।
78
ततः पुत्रवधं घोरं दृष्ट्वा ब्रह्मसुतः प्रभुः ।
नोत्ससर्ज ततः क्रोधं वसिष्ठः कौशिकं प्रति । ।३ ।।
पुत्रशोकेन महता भृशमेवान्वतप्यत१ ।
स बद्ध्वा महतीं कण्ठे शिलां ब्रह्मसुतः प्रभुः ।।४।।
नद्यामात्मानमसृजच्छतरात्रं वसत्तया(?) ।
- - - इति तां प्राहुर्मुनयः शंसितव्रताः२ । ।५। ।
पुनः पाशैर्दृढं बद्ध्वा अन्यस्यामसृजद् वशी ।
तस्यां विपाशः संवृत्तो विपाशा साभवत्ततः ।।६ ।।
ततो वापीं समामाद्य निराहारो जितेन्द्रियः ।
वायुभक्षस्तदा तस्थौ स्वदेहं परितापयन् । ।७।।
अथ शुश्राव गच्छन्तं ध्वनिमेकस्य सुस्वरम् ।
अधीयानस्य तत्रासौ३ ध्यानमेवान्वपद्यत । ।८।।
अथैनं चारुसर्वाङ्गी पीनोन्नतपयोधरा ।
उपतस्थेग्रतः पत्नी शक्तेर्दीनानने४क्षणा ।।९ ।।
तामुवाच कुतस्त्वं वै कस्यैवं श्रूयते ध्वनिः ।
सोवाच५ दीनया वाचा वदतां शुश्रुवं(?) तदा ।। 8.18.१० ।।
अदृश्यन्त्युवाच
यदैव सुतदुःखेन६ निर्गतोस्या७श्रमाद् गुरो८ ।
तदाप्रभृत्येव चाहं भगवन्तमनुव्रता ।। ११ । ।
अधीयानस्य चैवायं९ ध्वनिः पौत्रस्य ते विभो ।
उदरस्थस्य श्रुतो मे१० मा दुःखं११ दुःसहं१२ कृथाः ।। १ २।।
१ नु कीर्त्यते - घ. । २ संशि.. - घ. । ३,.. सु (शु?) - घ. । ४ नल ( '?) - घ. । प्र नोवाच - घ. । ६ सुखदुःखेन - घ. । ७ तस्या - घ. । ८... रोः - घ. । ९... हं - घ. । १० मे मृतो - घ. । ११ न्सुदुःखे? ( खेदं?) - घ. । १२ द्रूसमः - घ. ।
79
सनत्कुमार उवाच
------ -- - - - - - - - -- -- --- --- --- -- - -- -- ।
इदानीमस्ति मे वत्से१३ जीविताशेति सो१४ ब्रवीत्१५ ।। १३ ।। ।।
- - - - - - - - - - - - - - - - ।। १४। ।
- - - - - -- -- - - -- - - -- -- - - -- -।
- - - - - - - - - - - - - - - । । १५ । ।
- - - - - - - - - - - - - - - - ।
उवाच चैनं दुष्टात्मन् दहेयं त्वां सबान्धवम् । । १६ । ।
- - - -- - - - - - - -- - - - - - -- - --- - -।
दग्धेन च१६ त्वया किं मे गच्छ मुक्तोसि दुर्मते । । १७। ।
सनत्कुमार उवाच
ततः स मुक्तो दीनात्मा राक्षसः क्रूरकर्मकृत् ।
प्रणम्य सहसा भीतो जगाम कौशिकान्तिकम्१७ ।। १ ८। ।
निशाचरे गते राजा प्रणम्य शिरसा मुनिम् ।
प्रसादयामास तदा स चोवाचेदमर्थवत् ।।१ ९।।
न दोषस्तव राजेन्द्र रक्षसाधिष्ठितस्य वै ।
कृतास्तेन कृताः (?) पुत्रा निमित्तं तत्र राक्षसः ।।8.18.२ ० ।।
प्रशाधि राज्यं राजेन्द्र पितृपैतामहं१८ प्रियम् ।
ब्रूहि किं वा प्रियं तेद्य करोमि नरपुंगव । ।२ १ । ।
राजोवाच
इच्छामि भगवन् पुत्रं त्वयो१९ त्पादितमच्युत ।
देव्यामस्यां महासत्वं तत्कुरुष्व मम प्रियम् । ।२ २ । ।
१३ त्स - घ. । १४ वा ( तां) - घ. । १५ इतः परमपि मूले कियानंशः खण्डित इव प्रतिभाति । १६ न - घ. । १७ न्ताकं - घ. । १८ ह... - घ. । १९ म... - घ,, ममो? ।
80
सनत्कुमार उवाच
एवमस्त्वित्यथोक्त्वासौ तस्य२० पत्न्यां महाव्रत२१ ।
पुत्रं च लोष्टकं२२ नाम जनयामास विश्रुतम् ।।२३ । ।
तं लोष्टकं ततो राज्ये स्व२३ पुत्रमभिषिच्य सः ।
जगाम वनमेवाथ सभार्यस्तपसि२४ स्थितः ।।२४।।
वसिष्ठस्यापि कालेन शक्तेः पुत्रः प्रतापवान् ।
अदृश्यन्त्यां भवत्पुत्रो नाम्ना स हि पराशरः ।।२५।।
वसिष्ठं तु तदा धीमान् तातमेवाभ्यमन्यत ।
तात तातेति च मुहुर्व्याजहार पिता गुरुः । ।२६ ।।
ततः कदाचिद् विज्ञाय भक्षितं रक्षसाशुचिम् ।
पितरं तपसा मंत्रै रजरक्षकृतौ (?) तदा । ।२७,।
ततः कोट्यः सपंचाशद्रक्षसां क्रूरकर्मणाम् ।
जुहावाग्नौ महातेजास्ततो ब्रह्माभ्यगाद् द्रुतम् ।।२८ ।।
सुतमभ्येत्य संपूज्य वसिष्ठसहितः प्रभुः ।
ऋषिभिर्दैवतैश्चैव इदमाह पराशरम् ।।२९। ।
ब्रह्मोवाच
देवतास्तर्पयन्ति स्म यज्ञैर्मन्त्रपुरःसरैः ।
अष्टमं स्थानमेतद्धि देवानां मा२५ त्व२६मीदृशम् ।।8.18.३ ० ।।
पराशर उवाच
सह देवैरहं सर्वान् लोकान् धक्ष्यामि पावकैः ।
दग्ध्वान्यान् प्रथयिष्यामि तत्रालोकान्न संशयः ।।३ १ । ।
सनत्कुमार उवाच
तस्यैवं गर्वितं वाक्यं श्रुत्वा देवः पितामहः ।
उवाच श्लक्ष्णया वाचा सान्त्वयन्२७ तमिदं वचः । ।३२ ।।
२०... स्यां - घ. । २१... त - घ. । २२ नोष्टकं... - घ. । २३... ज्यम... - घ.,.. .ज्ये स - पुत्रमभिषिच्य च (?) । २४... से - घ. । २५.., ना - घ । २६ त्य - घ । २७ शान्तरं त्व - घ., सान्तरं त(?) ।
81
पितामह उवाच
कृतमेतन्न सन्देहो यथा ब्रूषे महामुने ।
क्षन्तव्यं सर्वमेतत्तु अस्मत्प्रिय२८ चिकीर्षया । ।३ ३ ।।
यैस्ते पिता महाभाग भक्षितः सहसोदरः२९ ।
त एवाग्नौ३० तु होतव्या विश्वमित्रस्य पश्यतः । ।३४। ।
अन्येषां स्वस्ति सर्वत्र देवानां सह राक्षसैः ।
तस्य संकल्पसंतुष्टो मन्यं द्यतमुदाहरत्३१ ।।३ ५।।
वसिष्ठस्य महाभाग त्वं निवारय पौत्रकम् । (?)
देवाः प्राञ्जलयः सर्वे प्रणेमुस्ते महामुनिम् ।।३६।।
ऋषयश्चैव स क्रुद्धस्तपोयोगबलान्वितः ।
विहिद्य (?) तपसो योगाद्धोष्ये दीप्ते विभावसौ । ।३७। ।
सनत्कुमार उवाच
ततो देवाः सगन्धर्वाः पितामहपुरस्सराः ।
प्रभावं तस्य ते ज्ञात्वा पराशरमपूजयन् ।।३८। ।
हतेषु च ततस्तेषु रक्षस्सु सुदुरात्मसु ।
संजहार ततः सत्रं ब्रह्मणोनु३२ मते सदा ।। ३ ९।।
सनत्कुमार उवाच
य इदं श्राद्ध३३ काले वा दैवे कर्मणि वा द्विजान् ।
श्रावयीत शुचिर्भूत्वा न तं हिंसंति राक्षसाः । ।8.18.४० ।।
पराशरस्येदमदीनसंभवं विशुद्धवाक्कर्मविधानसंभवम् ।
निशम्य - - - - - - - - - रीयुः३४ कुलसिद्धिसंभवम् ।४१ । ।
इति स्कन्दपुराणे राक्षससत्रं नामाष्टादशोऽध्यायः ।
२८... त्प्रीति - घ. । २९ सहसा... - घ. । ३० र्थौ - घ. । ३१... रेत् - घ. । ३२ ब्राह्मणान्न - घ. । ३३ प्राह - घ. । ३४ रियु - घ. ।
82
सनत्कुमार उवाच
एवं तव पिता व्यास रक्षःसत्रं समाहरत् ।
समापयित्वा च पुनस्तपस्तपति सत्वरम्१ । ।१ ।।
तमागत्य वसिष्ठस्तु तपसा भास्करद्युतिम् ।
उवाच प्रीतिसंपन्नमिदमर्थवदव्ययः२ ।।२ । ।
वसिष्ठ उवाच
पितरः पुत्रकामा वै तपस्तप्त्वातिदुश्चरम् ।
पुत्रमुत्पादयंति स्म तपोज्ञानसमन्वितम् ।।३ ।।
यत्नतः संततिश्चैव ज्ञानवाँस्तपसान्वितः ।
करिष्यति गतिं दैवीमिति वेदविदो विदुः ।।४।।
सद्यस्तपोन्वितश्चैव ज्ञानवान् यशसान्वितः ।
पुत्रः पुत्रवतां श्रेष्ठो विहीनः (?) प्रजया विभो । ।५।।
तस्मात् पितॄणामानृण्यं गच्छ व्रतवतां वर ।
सुतमुत्पादय क्षिप्रं सममेव च भावन । ।६।।
सनत्कुमार उवाच
स एवमुक्तस्तेजस्वी वसिष्ठेन महात्मना ।
मैनाकं पर्वतं प्राप्य तपस्तेपे सुदुस्तरम् ।।७।।
तस्य कालेन महता तपसा तारितस्य तु ।
उमापतिर्वरं प्रादात् स च वव्रे वरं सुतम्३ ।।८।।
स लब्ध्वा वरमागत्यान्वेषयत् पुत्रकारणात् ।
क्षेत्रं सुपरिशुद्धं च स्वपुत्रो यत्र सम्भवेत् ।।९।।
स भ्रमन् दाशराजस्य४ दुहितृत्वमुपागताम् ।
पितृकन्यां ततः कालीमपश्यद्दिव्यरूपिणीम ।। 8.19.१० ।।
१ सस्वरम् - घ. । २... मदव्यय - घ. । ३ शुभम् - घ. । ४ दासराजस्य - घ.
83
मत्स्यगर्भसमुत्पन्नां मत्स्यबीजोद्भवां पुरा ।
अद्रिकामप्सरःश्रेष्ठां ब्रह्मतेजोमयीं शुभाम् । ।१ १ । ।
तस्यां स जनयामास वरं दत्त्वा महातपाः ।
भवन्तं तपसां योनिं श्रौतस्मार्तप्रवर्तकम् ।।१ २। ।
तव पुत्रोभवच्चापि शुको वेदविदां वरः ।
तस्य पुत्राश्च चत्वारः कन्या चैका सुमध्यमा । । १ ३।।
व्यास उवाच
तादृग् वैरं परं ब्रह्मन् विश्वामित्रवसिष्ठयोः ।
कथं चापि गतं भूय एतदिच्छामि वेदितुम् ।।१४। ।
सनत्कुमार उवाच
पराशरे तु गर्भस्थे रिपुत्वं६ गाधिजे गते ।
सरस्वत्यां कुरुक्षेत्रे वसतोः स्वाश्रमे तयोः७ । ।१५।।
तत्र वैरमनुस्मृत्य विश्वामित्रेण धीमता ।
नियतस्य वसिष्ठस्य हतं पुत्रशतं रुषा । । १ ६।।
।
मुनिरप्याह तत्रासौ विश्वामित्रः प्रतापवान् ।।१७।।
सरस्वतीमथैकान्ते वसिष्ठं - - - - - ' ।
स्रोतसा महता क्षिप्रं स्नायमानमिहानय ।। १८ ।।
सैवमुक्ता९ तु तं गत्वा वसिष्ठं प्राह दुःखिता ।
यदुक्तवाँस्तु गाधेयः१० स चोवाच महानदीम् ।। १ ९।।
एवं कुरु महाभागे मां ११ नयस्व यथेप्सितम् ।
मा ते क्रूरः स गाधेयः शापं दद्यात् सुदुस्तरम् । ।8.19.२ ० ।।
सनत्कुमार उवाच
गाधेयस्य ततः सा तु जुह्वतोथ दिवाकरे ।
मध्यं प्राप्तेनयच्चैव१२ वसिष्ठं स्रोतसा शुभा । ।२१ ।।
५ यस्यां - घ । ६.. त्र - ध. । ७ द्वयो र्वस्थाप्रमे (.. रप्याश्रमे?) - घ. । ८ मे महारगे - घ. । ९.. क्त्वा - घ. । १०... यं - घ. । ११ मा - घ. [ १२ त्वेव - घ. ।
84
स तं दृष्ट्व्रा हृतं व्यास स्रोतसा मुनिसत्तमम् ।
उवाच छद्मना सोस्मद्वेगेनापहृत१४ स्त्वया ।।२२।।
तस्मात्त्वं कर्मणानेन सातृक्तोया भविष्यसि ।
विश्वामित्रेण सा शप्ता नदी लोकसुखप्रदा ।। २३ । ।
अवहद्रुधिरं घोरं१५ मासं मेदस्तथैव च ।
त्रिश्वामित्रस्ततो गत्वा देवानामधिपं तदा१६ । ।२४। ।
उवाच वज्र मे देही शरीरं चैव कौशिकः१७ ।
दुर्वृत्तं हि हनिष्यामि वसिष्ठं ब्राह्मणाधमम् ।।२५।।
पुत्राः शक्र मया तस्य निहताः पापचेतसः ।
तान् हत्वापि न मे शान्तिर्भवित्री चैव देवप । ।२६।।
. शक्र उवाच
ब्रह्मज्ञानौ वसिष्ठश्च तव चात्मनि सत्तम । ( -)
निर्वेशे सोममेतेषां नो मुक्तं भव वेदितुम् (?) ।।२७। ।
ततः समभिक्रुद्धोसौ गाधेयः शक्रमोजसा ।
योगात् प्रच्यावयामास१८ शरीरात् कालिनन्दन । ।२८।।
स तच्छरीरमाविश्य वृत्रशत्रोः प्रतापवान् ।
वज्रोद्यतकरो भूत्वा छिद्रान्वेष्यवतिष्ठत ।।२९।।
ज्वलंतं स त१९मग्निं तु (?) वज्रेण शतपर्वणा ।
चिच्छेद सप्तथा कृत्वा मुनीनामेव पश्यताम् ।।8.19.३ ० ।।
खण्डान्यथ समानीय क्षिप्रमेव मुनिः स्वयम् ।
संधाय स्वशरीरं२० वै सक्रोधो वाक्य२२ मब्रवीत् ।।३ १ । ।
तिष्ठ कौशिक मेदानीं मया दृष्टो गमिष्यसि ।
- - - - - - - - - - - - - - - । ।३ २।। ।
दिवाकराद् वै (?) कबन्धाः पेतुः शतसहस्रशः ।।३ ३ ।।
१३ म घ । १४... कृत - घ. । १५ चौर - घ. । १६.. ?स्तथा - घ. । १७. क - ध. । १८ प्रछा... - घ. । १९ शत - घ. । २० स शरीरं - घ । २१ राज्य - घ. ।
85
अशून्यं२२ रुधिरं चैव गगनाच्च पपात ह ।
ववुश्चात्यशुभा२३ वाता विमानान्यरातन् दिवः२४ ।।३४।।
नेयुर्वेदाश्च विप्राणां नागाश्चाकाशगास्तथा ।
एवमादीँस्तदोत्पातान् विविधाँल्लोकनाशनान् । ।३५।।
दृष्टवा देवाः समुनयस्तमाहुर्गाधिनन्दनम् ।
वसिष्ठश्च महातेजास्त्वं च गाधेय धार्मिक । । ३ ६। ।
अमरौ जरया त्यक्तौ तपोयोगबलान्वितौ ।
युवयोर्हि क्षयं नास्ति क्षयं च न करिष्यथः ।।३७।।
देवानां सर्वलोकानां युध्यमानौ२५ परस्परम् ।
मत्तयोर्गजयोर्यद्वदरण्ये युध्यमानयोः ।। ३८ ।।
वीरुधां भूरुहां चैव संमर्द्देन क्षयो महान्२६ ।
तथा वैरेण युवयोः प्रवृत्तेन महात्मनोः२७ ।।।३ ९।।
लोकानामनयो व्यक्तं२८ भविष्यति न संशयः ।
तस्माद्विनाशं - - - लोकानामृषिभिः सह ।।8.19.४० ।।
युवयोरस्तु सख्यं च क्षयो वैरस्य चाथ वै ।
स एवमुक्तो गाधेयो मुनिभिर्दैवतैः सह ।।४१ ।।
एवमस्त्विति तान्प्राह विस्मितस्तेजसा तदा ।
ततो वसिष्ठमप्येवमूचुः सर्वे दिवौकसः । ।४२।।
असा२९वपि तथैवेति तेन सख्यं चकार ह ।
ततःप्रभृति सर्वं वै जगत् स्थावरजङ्गमम् ।।४३ । ।
ससुखं प्रीतिसंयुक्तं मुमुदे३० विगतज्वरम्३१ ।
- - - - - - - - - - - - - - - -
- - - - - - - - - - - - - - - - ।। १४।।
२२... न्यो - घ. । २३ प्यसुरा - घ. । २४.. द् गिर. - घ. । २५.. न. - घ. । २६ सप्तवैद्यनयोर्म... - घ, (?) व - घ. । २७ .. ना घ. । २८ र्व्र्यक्तं - घ. । २९ तासा... - घ. । ३० ययुर्देवि... - घ. । ३१ देवैर्गतज्वरम् - घ. ।
86
सनत्कुमार उवाच
अथ तीर्थप्रसंगेन मुनिभिः समुपागतैः ।
अनुग्रहः कृतस्तस्या येन स्वच्छजलाभवत् ।।४५। ।
महतस्तपसः शक्ताः (?) कालेन महता तदा ।
वसिष्ठस्य तु तां क्षान्तिं ज्ञात्वा स ऋषिपुङ्गवः ।।४६। ।
विश्वामित्रो महातेजा वसिष्ठे वैरमत्यजत् ।
एवं तौ वैरमन्योन्यं जहतुर्मुनिसत्तमौ ।।४७। ।
सनत्कुमार उवाच
य इदं शृणुयाद्विप्रो ब्राह्मणाञ्छ्रावयीत वा ।
सुदुस्तराणि दुर्गाणि तरत्य३२ श्रान्तपौरुषः । ।४८ ।।
त्रिपौरुषौदार्यविहारसत्वैः समुन्नतश्चोज्ज्वलचारुवेषः ।
भवेच्च सर्वामरराजतुल्यस्त्रिविष्टपे क्रीडति चेच्छया स्वयम् ।।४९। ।
एवं तदभवद् व्यास विश्वामित्रवसिष्ठयोः ।
वैरं समाप्तं लोकानां हितार्थं पुनरेव च ।।8.19.५० ।।
इति स्कन्दपुराणे वैरनिवर्तनं नाम ऊनविंशोध्यायः
व्यास उवाच
उमाहरौ तु देवेशो चक्रतुर्यत्तु संगतौ ।
तन्मे सर्वमशेषेण कथयस्व महामुने ।।१ ।।
सनत्कुमार उवाच
उमाहरौ तु संगम्य परस्परमनिन्दितौ ।
- - - - - -, - - - - - - - - - - । ।२ ।।
शिलादस्यात्मजं विप्रं१ - - - शक्तिवारणम्२ ।
- - - - - - - - - - - - - - - - । ।३ ।।
३२... त्या - घ ।
१ यं रण - घ. । २ शशांकस्यानुजोर्विप्रं यं रणशक्तिवारणं - घ. ।
87
स चाप्ययोनिजः पुत्र आराध्य च महेश्वरम् ।
रुद्रेण समतां लब्ध्वा महागणपतिर्बभौ ।।४।।
व्यास उवाच
कथं नन्दी समुत्पन्नः कथं चाराध्य शंकरम् ।
समत्वमन्वगाच्छम्भोः प्रतीहारत्वमेव च ।।५। ।
सनत्कुमार उवाच
अभूदृषिः सुधर्मात्मा शिलादो नाम वीर्यवान् ।
तस्याभूत् शीलवृत्तित्वं शिलादस्तेन सोभवत् । ।६ ।।
अपश्यन्लम्बमानास्तान् गतीर्यान् स पितॄन् द्विजः ।
विच्छिन्नसंततिर्घोरं निरयं वै प्रपेदुषः४ ।।७।।
तैरुक्तोपत्यकामो वै तं देवं लोक(? )मव्ययम् ।
आराधय महादेवं सुतार्थं द्विजसत्तम ।।८ ।।
योयमुत्तारणे शक्तः स ते५ पुत्रं प्रदास्यति ।
तेषां वाक्यं ततः श्रुत्वा जगाम शरणं६ शिवम् ।।९। ।
तस्य वर्षसहस्रेण तप्यमानस्य शूलधृक् ।
शर्वः सोमो गणवृतो वरदोस्मीत्यभाषत ।।8.20.१ ० ।।
सोमं स दृष्ट्वा७ देवेशं प्रणतः पादयोर्विभोः९ ।
हर्षगद्गदया वाचा तुष्टाव विबुधेश्वरम् । ।११ । ।
शिलाद उवाच
नमः परमदेवाय महेशाय महात्मने ।
स्रष्ट्रे१० सर्वसुरेशानां ब्रह्मणः पतये नमः । । १ २। ।
नमः कामांगनाशाय योगसंभवहेतवे ।
नमः पर्वतवासाय ध्यानगम्याय ते नमः ।।१३ ।।
ऋषीणां पतये नित्यं देवानां पतये नमः ।
लोकानां पतये चैव योगिनां पतये नमः ।। १४। ।
३ स्ता - घ. । ४... तसः (तुष?) - घ. । ५ शत्रो (सत?) - घ. । ६ सवलं - घ. । ७ स दृष्ट्वा सोम... - घ. । ८... य - ध. । ९ र्बभौ - घ । १० श्रेष्ठे - घ. ।
88
प्रधानाय नमो नित्यं११ - - - - - सर्गिणे ।
वरदाय च भक्तानां नमः सर्वगताय च । ।१ ५। ।
तन्मात्रेन्द्रियभूतानां विकाराय१२ गुणैः सह ।
१३ - - - पतये चैव नमस्ते प्रभविष्णवे । ।१ ६। ।
जगतः पतये चैव जगत्स्रष्टे नमः सदा ।
प्रकृतेः पतये नित्यं पुरुषात्परगामिने । । १७।।
ईश्वराय नमो नित्यं योगगम्याय - - - १४ ।
संसारोत्पत्तिनाशाय सर्वकामप्रदाय च । । १८।।
शरण्याय नमो नित्यं नमो भस्मांगरूपिणे ।
नमस्ते योग्रहस्ताय (?) तेजसां पतये नमः ।।१ ९।।
सूर्यानिलहुताशाम्बुचन्द्राकाशधराय च ।
स्थिताय सर्वदा नित्यं नमस्त्रैलोक्यवेधसे । । 8.20.२० । ।
स्तोतस्यान्यांगतो देव विश्रामस्तव हंक्ष्यते । (?)
यस्माद्धेतुस्त्व१५मेवास्य जगतः स्थितिनाशयोः ।।२१ । ।
अशरण्यस्य देवेश त्वत्तश्च शरणार्थिनः ।
प्रसादं परमालक्ष्य वरदो भव विश्वधृक् । ।२२। ।
सनत्कुमार उवाच
यः स्तोत्रमेतदमलं पठति द्विजन्मा प्रातः शुचिर्नियमवान् पुरतो द्विजानाम् ।
तं ब्रह्मराक्षसपिशाचसभूतयक्षा हिंसन्ति नो द्विपदपन्नग - - पूताः ।।२३ ।।
ततः स भगवान् देवः स्तूयमानः सहोमया ।
उवाच वरदोस्मीति ब्रूहि यत्ते मनोगतम् ।।२४।।
तमेवंवादिनं देवं शिलादोभ्यर्चयत् तदा१६ ।
उवाच चेदं देवेशं स वाचा सज्जमानया ।।२५।।
भगवन् यदि तुष्टोसि यदि देयो वरश्च मे ।
इच्छाम्यात्मसमं पुत्रं मृत्युहीनमयोनिजम् ।।२६ । ।
११ तत्त्वमेसं - घ. । १२ विक... - घ. । १३ स्वाष्ट्र च - घ. । १४ वाहसे - घ. । १५ द्वि्त्तत्व - घ. । १६ सदा - घ. ।
89
एवमुक्त्वा ततो देवः प्रीयमाणस्त्रिलोचनः ।
एवमस्त्विति तं प्रोच्य तत्रैवान्तरधीयत ।।२७।।
गते तस्मिन्महेष्वासे ऋषिः परमपूजितः ।
स्वमाश्रममुपागम्य ऋषिभ्योकथयत्ततः । ।२८। ।
- - - - - - - - - - - - - - - - ।।२९ । ।
सर्वकामानलप्रख्यः कुमारः प्रत्यभाषत ।
स तं दृष्टवा तथोद्भूतं कुमारं दीप्ततेजसम् । । 8.20.३० ।।
राक्षसोयमिति ज्ञात्वा भया१७ न्नोपससार तम् ।
कुमारोपि तथोद्भूतः पितरं दीप्ततेजसम् । ।३ १ । ।
उपासर्पत दीनात्मा तात तातेति चाब्रवीत् ।
स तातेत्युच्यमानोपि यदा तन्नाभ्यनन्दत ।
अथ वायुस्तदाकाशे निनादं प्राह सुस्वरम् । ।३ २ । ।
वायुरुवाच
सालंकायन पुत्रस्ते योसौ देवेन शंभुना ।
अयोनिजः१८ पुरा दत्तः१९ स एष२० प्रतिनन्दय ।। ३३ ।।
यस्मान्नन्दिकरस्तेयं सदैव द्विजसत्तम ।
तस्मान्नन्दीति नाम्ना२१ यं भविष्यति सुतस्तव । ।३४। ।
सनत्कुमार उवाच
ततः स वायुवचनान्नन्दिनं परिसष्वजे ।
गृहीत्वा स्वा२२ श्रमं तेन चानयद् दृष्टिवर्द्धनम् (?) ।।३ ५।।
चूडानामव्रतादीनि कर्माण्यस्य चकार सः ।
कृत्वा चाध्यापयामास वेदान् साङ्गा२३ नशेषतः ।। ३ ६।।
आयुर्वेदं च गान्धर्वं धर्म२४ शास्त्रं सलक्षणम्२५ ।
हस्तिनां चरितं चैव नवनिध्योश्च२६ लम्भनम्२७ ।।३७।।
१७ भवा - घ । १८... ज - घ. । १९... त्तं - घ । २० एव - घ. । २१ नामा - घ. । २२ चा - घ. । २३ साध्या - घ । २४ काम?, अश्व? । २५ आयुर्वेदं (धनुर्वेदं) गान्धर्वं शास्त्रलक्षणम्? । २६ नरनार्योश्च लक्षणम्?, नवनाध्यो - घ. । २७ लम्बनम्... - घ. ।
90
शिल्पानि चैव सर्वाणि निमित्तज्ञानमेव च ।
भूतग्रामचिकित्सां च मातॄणां चरितं च यत् ।।३८।।
भुजगानां च सर्वेषां यच्च किञ्चिद् विचेष्टितम् ।
यच्च शास्त्रसमूहाना२८मष्टौ व्याकरणानि च ।।३ ९।।
तथा चैव पुराणानि इतिहासमशेषतः ।
पंचस्थानानि यानि स्युर्ज्योतिर्गणविचारणे२९ ।।8.20.४० ।।
मातृभूतग्रहं३० तन्त्रं योगिनां३१ मतमुत्तमम् ।
अब्दैरधीतवान् सर्वं व्यास षट्पंचभिस्ततः ।।४१ ।।
दक्षः शुचिरदीनात्मा प्रियवागनसूयकः ।
सर्वलोकप्रियो नित्यं नानानयननन्दनः ।।४२। ।
तस्याथ३२ सप्तमे वर्षे ऋषिदेवौ तपोधनौ ।
आश्रमं समनुप्राप्तौ शिलादस्याहतौजसौ ।।४३ ।।
तावभ्यर्च्य यथान्यायं शिलादः सुमहातपाः ।
सुखासीनौ समानम्य३३ आसने परमार्चितौ ।।४४।।
मित्रावरुणनामानौ तपोयोगबलान्वितौ ।
अभिज्ञौ सर्वभूतानां त्रिलोके सचराचरे । ।४५। ।
ताभ्यां समर्थितः सोपि निससाद वरासने ।
- - - - - । ।४६। ।
उवाच गुणवान् सम्यक् कुलवंशविवर्धनः ।
तमाहूय च संतुष्टः पुत्रं नन्दिनमच्युतः ।।४७।।
तयोः पादेषु शिरसा पातयत्तमनिन्दितम् ।
तौ तु तस्याशिषं दिव्यौ प्रयुक्तावथ नित्यताम् ।
गुरुशुश्रूषणे भावं लोकांश्चैव तथाक्षयान् ।।४८।।
सनत्कुमार उवाच
शिलादस्तावथालंब्य आशिषं देवयोस्तदा ।
विसृज्य नन्दिनं भीतः सोपृच्छदृषिसत्तमौ ।।४९।।
२८ ...हेन - घ. । २९ चारयन् - घ. । ३० गृहं - घ. । ३१ न - घ., नी? । ३२ यस्यार्थं - घ. । ३३.नश्च - घ. ।
91
शिलाद उवाच
किमर्थं मम पुत्रस्य दीर्घमायुरुभावपि ।
प्रयुक्तवन्तौ धन्यस्य(?)३४ नाशिषं मुनिसत्तमौ ।।8.20.५० ।।
मित्रावरुणावूचतुः
तवैष तनयस्तात स्वल्पायुः सर्वसंमतः ।
इतोन्यद् वर्षमेकं वै जीवितं धारयिष्यति । ।५१ ।।
सनत्कुमार उवाच
ततः स शोकसंतप्तोपत्यव्यसनदुःखितः३५ ।
विसृज्य ऋषिशार्दूलावेकाकी विललाप च । ।५२। ।
तस्य शोकाद् विलपतः स्वरं श्रुत्वा सुतः३५ शुभम् ।
नन्द्या३७गात्तं तथापश्यत्पितरं दुःखितं भृशम् ।।
नन्द्युवाच
केन त्वं तात दुःखेन दूयमानः३८ प्ररोदिषि ।
दुःखं ते कुत उत्पन्नं ज्ञातुमिच्छाम्यहं पितः । ।५४।।
शिलाद उवाच
पुत्र त्वं किमु वर्षेण जीवितं संप्रहास्यसि ।
ऊचतुस्तावृषीत्येवं ततो मां - - -३९ विशत् । ।५५।।
नन्द्युवाच
सत्यं देवऋषी तात न तावनृतमूचतुः ।
तथापि तन्न४० मृत्युर्मे प्रभविष्यति मा शुचः ।।५६।।
शिलाद उवाच
किं तपः किं परिज्ञानं को योगः कः श्रमश्च ते ।
येन त्वं दारुणं मृत्युं वञ्चयिष्यसि४१ पुत्रक ।।५७। ।
३४ धन्यस्य - घ., दीनस्य? । ३५ व्यथदुः... - घ. । ३६ सुभ - घ. । ३७ नद्या - ध. । ३८ भू (अभिभू?) - घ. । ३९ कृव्रणा? - च. । ४० पितर्न - घ । ४१ मुञ्चयिष्यसि - घ. ।
92
नन्द्युवाच
न तात तपसा मृत्युं वंचयिष्ये न विद्यया ।
महादेवप्रसादेन मृत्युं जेष्यामि नान्यथा । ।५८। ।
द्रक्ष्यामि शंकरं देवं ततो मृत्युर्न मे भवेत् ।
नष्टे मृत्यौ त्वया४२ सार्धं चिरं वत्स्यामि निर्वृतः । ।५९।।
शिलाद उवाच
मया वर्षसहस्रेण तपस्तप्त्वा सुदुश्चरम् ।
महादेवः पुरा दृष्टो लब्धस्त्वं मे यतः सुतः ।
कथं द्रष्टा४३ महादेवमेतदिच्छामि वेदितुम् । ।8.20.६० ।।
नन्द्युवाच
न चापि तपसा देवो दृश्यते नापि विद्यया ।
- - - मनसा देवो दृश्यते परमेश्वरः । । ६१ ।।
अहमेतद्विजानामि येन४५ द्रक्ष्यामि शंकरम् ।
त्वया विसृष्टो गत्वाहमचिरेण त्रिलोचनम् ।।६२। ।
द्रष्टा तात न सन्देहो विसृजाशु ततस्तु माम् ।
अचिरेणैव कालेन मृत्युदुःखविवर्जितम्४५ ।।६३ । ।
द्रक्ष्यसे मां कृतार्थं च तस्मान्मां त्वं विसर्जय ।
तिष्ठन्तं वा शयानं वा धावन्तं पतितं तथा ।।६४।।
न प्रतीक्षेत४७ मां४८ मृत्युरिति बुद्ध्वा शमं व्रज ।
यदि मृत्युसहस्राणि यमकोटिशतानि च ।। ६५। ।
अभिद्रवन्ति संतप्ता दण्डपाशोद्यतायुधाः ।
व्यथां (?) तथापि ते कर्तुं४९ न समर्थाः कदाचन ।।६६ ।।
न ममैते करिष्यन्ति व्यथां लोम्ना तथैव हि ।
अवतीर्य जलं दिव्यं भावं५० शुद्धं समाश्रितः । ।६७। ।
४२ तया - घ. । ४३ दृष्ट्वा - घ. । ४४ गृहिनः? - घ । ४५ यस्मात् - घ. । ४६.. तः - घ. । ४७ ति घ. । ४८ वै - घ. । ४९ तात - घ. । ५० द्वारं - घ
93
अभ्यस्य५१ रौद्रमध्यायं ततो द्रक्ष्यामि शङ्करम् ।
जपत५२श्चाभियुक्तस्य रुद्रभावयुतस्य५ च ।
न मृत्युकालबहवः (?) करिष्यन्ति मम व्यथाम् । ।६८।।
सनत्कुमार उवाच
तमेवं५४ वादिनं मत्वा ब्रुवाणं शुद्धया धिया५५ ।
व्यसर्जयन्नदीनात्मा धृत्या५६ पुत्रं महातपाः ।।६९ ।।
अभिवन्द्य५७ पितुः पादौ शिरसा स महायशाः ।
प्रदक्षिणं समावृत्य संप्रतस्थे५८ विनिश्चितः ।।8.20.७० ।।
अभिवन्द्य ऋषीन् सर्वान् स दिदृक्षु५९ रुदारधीः ।
मुनिर्देवमनाश्चैव प्रणतार्तिहरं शिवम् । ।७१ । ।
इति स्कन्दपुराणे नन्दितपःप्रवेशो नाम विंशतितमोध्यायः ६