सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०४५

विकिस्रोतः तः
← अध्यायः ४४ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्
अध्यायः ४५
वेदव्यासः
अध्यायः ४६ →


 अध्याय ४५

श्रीमार्कण्डेय उवाच -
एष एव पुरा प्रश्नः परिपृष्टो महेश्वरम् ।
राज्ञा चोत्तानपादेन ऋषिदेवसमागमे ॥ ४५.१ ॥

उत्तानपाद उवाच -
इदं तीर्थं महापुण्यं सर्वदेवमयं परम् ।
गुह्याद्गुह्यतरं स्थानं न दृष्टं न श्रुतं हर ॥ ४५.२ ॥
शूलभेदं कथं जातं केनैवोत्पादितं पुरा ।
माहात्म्यं तस्य तीर्थस्य विस्तराच्छंस मे प्रभो ॥ ४५.३ ॥

ईश्वर उवाच -
आसीत्पुरा महावीर्यो दानवो बलदर्पितः ।
मर्त्ये न तादृशः कश्चिद्विक्रमेण बलेन वा ॥ ४५.४ ॥
सूनुर्ब्रह्मसुतस्यायमन्धको नाम दुर्मदः ।
निजस्थाने वसन् पापः कुर्वन् राज्यमकण्टकम् ॥ ४५.५ ॥
हृष्टपुष्टो वसन्मर्त्ये स सुरैर्नाभिभूयते ।
भवनं तस्य पापस्य वह्नेरुपवनं यथा ॥ ४५.६ ॥
एतस्मिन्नन्धकः काले चिन्तयामास भारत ।
तोषयामि महादेवं येन सानुग्रहो भवेत् ॥ ४५.७ ॥
प्रार्थयामि वरं दिव्यं यो मे मनसि वर्तते ।
परं स निश्चयं कृत्वा सोऽन्धको निर्गतो गृहात् ॥ ४५.८ ॥
रेवातटं समासाद्य दानवस्तपसि स्थितः ।
उग्रं तपश्चचारासौ दारुणं लोमहर्षणम् ॥ ४५.९ ॥
दिव्यं वर्षसहस्रं स निराहारोऽभवत्ततः ।
द्वितीयं तु सहस्रं स न्यवसद्वारिभोजनः ॥ ४५.१० ॥
तृतीयं तु सहस्रं स धूमपानरतोऽभवत् ।
चतुर्थं वर्षसाहस्रं योगाभ्यासेन संस्थितः ॥ ४५.११ ॥
कोपीह नेदृश चक्रे तपः परमदारुणम् ।
अस्थिचर्मावशेषोऽसौ यावत्तिष्ठति भारत ॥ ४५.१२ ॥
तस्य मूर्ध्नि ततो राजन् धूमवार्त्तिर्विनिःसृता ।
देवलोकमतीत्यासौ कैलासं व्याप्य संस्थिता ॥ ४५.१३ ॥
तावद्देवसमीपस्था उमा वचनमब्रवीत् ।
कोऽस्त्ययं मानुषे लोके तपसोग्रेण संस्थितः ॥ ४५.१४ ॥
चतुर्वर्षसहस्राणि व्यतीयुः परमेश्वर ।
न केनापीदृशं तप्तं तपो दृष्टं श्रुतं तथा ॥ ४५.१५ ॥
अवज्ञां कुरुषे देव किमत्र नियमान्विते ।
सर्वस्य दत्से शीघ्रं त्वमल्पेन तपसा विभो ॥ ४५.१६ ॥
नाक्षक्रीडां करिष्येऽद्य त्वया सह महेश्वर ।
यावन्नोत्थाप्यते ह्येष दानवो भक्तवत्सल ॥ ४५.१७ ॥

ईश्वर उवाच -
साधु साधु महादेवि सर्वलक्षणलक्षिते ।
अहं तं न विजानामि क्लिश्यन्तं दानवेश्वरम् ॥ ४५.१८ ॥
योगाभ्यासे स्थितो भद्रे ध्यायंस्तत्परमं पदम् ।
तत्रागच्छ मया सार्द्धं यत्र तप्यत्यसौ तपः ॥ ४५.१९ ॥
उमया सहितो देवो गतस्तत्र महेश्वरः ।
अस्थिचर्मावशेषस्तु दृष्टो देवेन शम्भुना ॥ ४५.२० ॥
प्रत्युवाच प्रसन्नोऽसौ देवदेवो महेश्वरः ।
भोभोः कष्टं कृतं भीमं दारुणं लोमहर्षणम् ॥ ४५.२१ ॥
ईदृशं च तपो घोरं कस्माद्वत्स त्वया कृतम् ।
वरं दास्याम्यहं वत्स यस्ते मनसि वर्तते ॥ ४५.२२ ॥

अन्धक उवाच -
यदि तुष्टोऽसि मे देव वरदो यदि शङ्कर ।
सुरान् सर्वान् विजेष्यामि त्वत्प्रसादान्महेश्वर ॥ ४५.२३ ॥

ईश्वर उवाच -
स्वप्नेऽपि त्रिदशाः सर्वे न योद्धव्याः कदाचन ।
असंभाव्यं न वक्तव्यं मनसो यन्न रोचते ॥ ४५.२४ ॥
अन्यं किमपि याचस्व यस्ते मनसि वर्तते ।
स्वर्गे वा यदि वा मर्त्ये पातालेषु च संस्थितान् ॥ ४५.२५ ॥
मर्त्येषु विविधान् भोगान् भोक्ष्यसि त्वं यथेप्सितान् ।
कुरु निष्कण्टकं राज्यं स्वर्गे देवपतिर्यथा ॥ ४५.२६ ॥
देवस्य वचनं श्रुत्वा सोऽन्धको विमनाः स्थितः ।
वृथा क्लेशश्च मे जातो न किंचित्साधितं मया ॥ ४५.२७ ॥
निश्वासं परमं मुक्त्वा निपपात धरातले ।
मूलच्छिन्नो यथा वृक्षो निरुच्छ्वासस्तदाभवत् ॥ ४५.२८ ॥
मूर्च्छापन्नं ततो दृष्ट्वा देवी वचनमब्रवीत् ।
यं कामं कामयत्येष तमस्मै देहि शङ्कर ॥ ४५.२९ ॥
भक्तानुपेक्षमाणस्य तवाकीर्तिर्भविष्यति ॥ ४५.३० ॥

ईश्वर उवाच -
यदि दास्ये वरं देवि इच्छाभूतं कदाचन ।
ततो न मंस्यते विष्णुं न ब्रह्माणं न मामपि ॥ ४५.३१ ॥
उच्चत्वमाप्तो देवेशि अन्यानपि सुरासुरान् ॥ ४५.३२ ॥

देव्युवाच -
कमप्युपायमाश्रित्य उत्थापय महेश्वर ।
विष्णुवर्जं सुरान्सर्वाञ्जयस्वेति वरं वद ॥ ४५.३३ ॥

ईश्वर उवाच -
उपायः शोभनो देवि यो मे मनसि वर्तते ।
तमेवास्मै प्रदास्यामि यस्त्वया कथितो वरः ॥ ४५.३४ ॥
ततोऽमृतेन संसिक्तः स्वस्थोऽभूत्तत्क्षणादयम् ।
तथा पुनर्नवो जातः सर्वावयवशोभितः ॥ ४५.३५ ॥
शृणुष्वैकमना भूत्वा गृहाण वरमुत्तमम् ।
विष्णुवर्जं प्रदास्यामि यत्तवाभिमतं प्रियम् ॥ ४५.३६ ॥
सर्वं च सफलं तुभ्यं मा धर्मस्तेऽन्यथा भवेत् ।
ददामीति वरं तुभ्यं मन्यसे यदि चासुर ॥ ४५.३७ ॥
विष्णुवर्जं सुरान् सर्वाञ्जेष्यसि त्वं च मां विना ॥ ४५.३८ ॥

अन्धक उवाच -
भवत्वेवमिति प्राह बलमास्थाय केवलम् ।
विष्णुवर्जं विजेष्येऽहं स्वबलेन महेश्वर ॥ ४५.३९ ॥
कृतार्थोऽहं हि संजात इत्युक्त्वा प्रणतिं गतः ।
गच्छ देवोमयासार्द्धं कैलासशिखरं वरम् ॥ ४५.४० ॥
वृषपुंगवमारुह्य देवोऽसावुमया सह ।
वरं दत्त्वा स तस्यैवं तत्रैवान्तरधीयत ॥ ४५.४१ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अन्धकवरप्रदानवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥