कञ्चुकस्थगितवल्गदुरोजं कन्दलत्क्वणितकङ्कणहस्तम् ।
तन्वती तरलतां तरुणानां तालयोर्द्वयमघट्टयदन्या ॥ ४८ ॥
कण्ठजृम्भितकलस्वनभङ्ग्या कामिनां भ्रमिसृजा हृदयेषु ।
अङ्गुलीभिरिव पल्लवयन्त्या वल्लकीमपरया समगायि ॥ ४९ ॥
पक्वबिम्बफलरोचिषि धन्यं वेणुमेकमधरे विनिवेश्य ।
कापि वादनमिषेणं मृगाणां कर्णयोरपि मधूनि ववर्ष ॥ ५० ॥
स्पन्दमानकबरीभरमाल्यं मन्दहासमधुराधरबिम्बम् ।
धर्मवारिकणमौक्तिकपङ्क्ति क्लिन्नपत्रमकराङ्ककपोलम् ॥ ५१ ॥
भावसूचनविलोलकराग्रं संहतस्तनलुठन्मणिहारम् ।
चारुनूपुरझलज्झलिताङ्घ्रिन्यासमेणनयनानटदेका ॥ ५२ ॥
केशमाल्यमकरन्दतुषारो वीटिकारसलवङ्गसुगन्धी ।
सुभ्रुवां कुचतटाहतिमन्दस्तं तदाभजदृषिं वनवातः ॥ ५३ ॥
इत्यमर्त्यवनिताललितेन क्षोदितोऽपि न चचाल स योगी ।
वा[१]ति चण्डपवनो वसुमत्यां तावता चलति किं गिरिरीषत् ॥ ५४ ॥
काचिदेत्य तदनु प्रमदानामालिलिङ्ग तमुरोजयुगेन ।
कानने कलभकुम्भनिकाषादस्य किंचिदधिकं न ततोऽभूत् ॥ ५५ ॥
आदधे वपुषि तस्य ततोऽन्या वक्रपाटलमुखानि नखानि ।
खेलतामुपरि तद्विहगानामातनोत्पदनखार्पणभङ्गीम् ॥ ५६ ॥
कापि वक्त्रकमलेन मृगाक्षी तत्कपोलमथ चारु चुचुम्ब ।
न व्यकारि स ततोऽपि तपस्वी लेहनादिव कुरङ्गशिशूनाम् ॥ ५७ ॥
तस्य तत्र मतिनिर्जितकामे यौवतस्य विफलोऽजनि यत्न: ।
किं करोतु बलिना युधि नाथे पातिते परनृपेण भटौघः ॥ ५८ ॥
- ↑ 'वातु' ख.'न पादपोन्मूलनशक्तिरंहः शिलोच्चये मूर्च्छति मारुतस्य’ इति रघुवंशे.