पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०४१
← अध्यायः ०४० | पद्मपुराणम्/खण्डः २ (भूमिखण्डः) अध्यायः ४१ अज्ञातलेखकः |
अध्यायः ०४२ → |
एकचत्वारिंशोऽध्यायः 2.41
वेन उवाच-
पुत्रो भार्या कथं तीर्थं पितामाता कथं वद ।
गुरुश्चैव कथं तीर्थं तन्मे विस्तरतो वद १।
श्रीविष्णुरुवाच-
अस्ति वाराणसी रम्या गंगायुक्ता महापुरी ।
तस्यां वसति वैश्यैकः कृकलो नाम नामतः २।
तस्य भार्या महासाध्वी पतिव्रतपरायणा ।
धर्माचारपरा नित्यं सा वै पतिपरायणा ३।
सुकला नाम पुण्यांगी सुपुत्रा चारुमंगला ।
सत्यंवदा सदा शुद्धा प्रियाकारा प्रियप्रिया ४।
एवंगुणैः समायुक्ता सुभगा चारुकारिणी ।
स वैश्य उत्तमो नाना धर्मज्ञो ज्ञानवान्गुणी ५।
पुराणे श्रौतधर्मे च सदा श्रवणतत्परः ।
तीर्थयात्राप्रसंगेन बहुपुण्यप्रदायकम् ६।
श्रद्धया निर्गतो यात्रां तीर्थानां पुण्यमंगलाम् ।
ब्राह्मणानां प्रसंगेन सार्थवाहेन तेन च ७।
प्रस्थितो धर्ममार्गं तु तमुवाच पतिव्रता ।
पतिस्नेहेन संमुग्धा भर्तारं वाक्यमब्रवीत् ८।
सुकलोवाच-
अहं ते धर्मतः पत्नी सहपुण्यकरा प्रिय ।
पतिमार्गं प्रतीक्ष्याहं पतिदेवं यजाम्यहम् ९।
कदा नैव मया त्याज्यं सामीप्यं ते द्विजोत्तम ।
तवच्छायां समाश्रित्य करिष्ये धर्ममुत्तमम् १०।
पतिव्रताख्यं पापघ्नं नारीणां गतिदायकम् ।
पुण्यस्त्री कथ्यते लोके या स्यात्पतिपरायणा ११।
युवतीनां पृथक्तीर्थं विना भर्तुर्न शोभते ।
सुखदं नास्ति वै लोके स्वर्गमोक्षप्रदायकम् १२।
सव्यं पादं च भर्तुश्च प्रयागं विद्धि सत्तम ।
वामं च पुष्करं तस्य या नारी परिकल्पयेत् १३।
तस्य पादोदकस्नानात्तत्पुण्यं परि जायते ।
प्रयागपुष्करसमं स्नानं स्त्रीणां न संशयः १४।
सर्वतीर्थमयो भर्ता सर्वपुण्यमयः पतिः ।
मखानां यजनात्पुण्यं यद्वै भवति दीक्षिते १५।
तत्फलं समवाप्नोति सेवया भर्तुरेव हि ।
गयादीनां सुतीर्थानां यात्रां कृत्वा हि यद्भवेत् १६।
तत्फलं समवाप्नोति भर्तुः शुश्रूषणादपि ।
समासेन प्रवक्ष्यामि तन्मे निगदतः शृणु १७।
नास्त्यासां हि पृथग्धर्मः पतिशुश्रूषणं विना ।
तस्मात्कांतसहायं ते कुर्वाणा सुखदायिनी १८।
तवच्छायां समाश्रित्य आगमिष्यामि नान्यथा ।
विष्णुरुवाच-
रूपं शीलं गुणं भक्तिं समालोक्य वयस्तथा १९।
सौकुमार्यं विचार्यैवं कृकलः स पुनःपुनः ।
यद्येवं हि नयिष्यामि दुर्गमार्गं सुदुःखदम् २०।
रूपनाशो भवेच्चास्याः शीतातपविलोडनात् ।
पद्मगर्भप्रतीकाशमस्याश्चांगं प्रवर्णकम् २१।
झंझावातेन शीतेन कृष्णवर्णं भविष्यति ।
पंथाः कर्कश सुग्रावा पादौचास्याः सुकोमलौ २२।
एष्यते वेदनां तीव्रामथो गंतुं न च क्षमा ।
क्षुत्तृष्णाभिपरीतांगी कीदृशीयं भविष्यति २३।
वामांगी मम च स्थानं सुखस्थानं वरानना ।
मम प्राणप्रिया नित्यं नित्यं धर्मस्य चाश्रयः २४।
नाशमेति यदा बाला मम नाशो भवेदिह ।
इयं मे जीविका नित्यमियं प्राणस्य चेश्वरी २५।
न नयिष्ये वनं तीर्थमेकश्चैवाप्यहं व्रजे ।
चिंतयित्वा क्षणं नूनं कृकलेन महात्मना २६।
तस्य चित्तानुगो भावस्तया ज्ञातो नृपोत्तम ।
पुनरूचे महाभागा भर्त्तारं प्रस्थितं तदा २७।
अनघा नैव वै त्याज्या पुरुषैः शृणु सत्तम ।
मूलमेवं हि धर्मस्य पुरुषस्य महामते २८।
एवं ज्ञात्वा महाभाग मामेवं नय सांप्रतम् ।
विष्णुरुवाच-
श्रुत्वा सर्वं हि तेनापि प्रियाया भाषितं बहु २९।
प्रहस्यैव वचो ब्रूते तामेवं कृकलः पुनः ।
नैव त्याज्या भवेद्भार्या प्राप्ता धर्मेण वै प्रिये ३०।
येन भार्या परित्यक्ता सुनीता धर्मचारिणी ।
दशांगधर्मस्तेनापि परित्यक्तो वरानने ३१।
तस्मात्त्वामेव भद्रं ते नैव त्यक्ष्ये कदा प्रिये ।
विष्णुरुवाच-
एवमाभाष्य तां भार्यां संबोध्य च पुनःपुनः ३२।
तस्या अज्ञातमात्रेण ससार्थेन समं गतः ।
गते तस्मिन्महाभागे कृकले पुण्यकर्मणि ३३।
देवकर्मसुवेलायां काले पुण्ये शुभानना ।
नैव पश्यति भर्तारं कृकलं निजमंदिरे ३४।
समुत्थाय त्वरायुक्ता रुदमाना सुदुःखिता ।
वयस्यान्पृच्छते भर्तुर्दुःखशोकाधिपीडिता ३५।
युष्माभिर्वा महाभागा दृष्टोऽसौ कृकलो मम ।
प्राणेश्वरो गतः क्वापि भवंतो मम बांधवाः ३६।
यदि दृष्टो महाभागाः कृकलो मम सांप्रतम् ।
भर्तारं पुण्यकर्तारं सर्वज्ञं सत्यपंडितम् ३७।
कथयंतु महात्मानं यदि दृष्टो महामतिः ।
तस्यास्तद्भाषितं श्रुत्वा तामूचुस्ते महामतिम् ३८।
धर्मयात्राप्रसंगेन नाथस्ते कृकलः शुभे ।
तीर्थयात्रां चकारासौ कस्माच्छोचसि सुव्रते ३९।
साधयित्वा महातीर्थं पुनरेष्यति शोभने ।
एवमाश्वासिता सा च पुरुषैराप्तकारिभिः ४०।
पुनर्गेहं गता राजन्सुकला चारुभाषिणी ।
रुरोद करुणं दुःखं सुकलापि परायणा ४१।
यावदायाति मे भर्त्ता भूमौ स्वप्स्यामि संस्तरे ।
घृतं तैलं न भोक्ष्येऽहं दधिक्षीरं तथैव च ४२।
लवणं च परित्यक्तं तथा तांबूलमेव च ।
मधुरं च तथा राजंस्त्यक्तं गुडादिकं तथा ४३।
एकाहारा निराहारा तावत्स्थास्ये न संशयः ।
यावच्चागमनं भर्तुः पुनरेव भविष्यति ४४।
एवं दुःखान्विता भूत्वा एकवेणीधरा पुनः ।
एककंचुकसंवीता मलिना च बभूव सा ४५।
मलिनेनापि वस्त्रेण एकेनैव स्थिता पुनः ।
हाहाकारं प्रमुंचंती निःश्वसंती सुदुःखिता ४६।
वियोगानलसंदग्धा कृष्णांगी मलधारिणी ।
एवं दुःखसमाचारा सुकृशा विह्वला तदा ४७।
रोदमाना दिवारात्रौ निद्रा लेभे न वै निशि ।
क्षुधां न विंदते राजन्दुःखेन विदलीकृता ४८।
अथ सख्यः समायाताः पप्रच्छुः सुकलां तदा ।
सुकले चारुसर्वांगि कस्माद्रोदिषि संप्रति ४९।
ततस्त्वं कारणं ब्रूहि दुःखस्यास्य वरानने ।
सुकलोवाच-
स मां त्यक्त्वा गतो भर्ता धर्मार्थं धर्मतत्परः ५०।
तीर्थयात्राप्रसंगेन अटते मेदिनीं ततः ।
मां त्यक्त्वा स गतः स्वामी निर्दोषां पापवर्जिताम् ५१।
अहं साध्वी समाचारा सदा पुण्या पतिव्रता ।
मां त्यक्त्वा स गतो भर्ता तीर्थ साधनतत्परः ५२।
तेनाहं दुःखिता सख्यो वियोगेनाति पीडिता ।
जीवनाशो वरं श्रेष्ठो वरं वै विषभक्षणम् ५३।
वरमग्निप्रवेशश्च वरं कायविनाशनम् ।
नारीं प्रियां परित्यज्य भर्ता याति सुनिष्ठुरः ५४।
भर्तृत्यागो वरं नैव प्राणत्यागो वरं सखि ।
वियोगं न समर्थाहं सहितुं नित्यदारुणम् ५५।
तेनाहं दुःखिता सख्यो वियोगेनापि नित्यशः ।
सख्य ऊचुः-
तीर्थयात्रां गतो भर्ता पुनरेष्यति ते पतिः ५६।
वृथा शोषयसे कायं वृथाशोकं करोषि वै ।
वृथा त्वं तप्यसे बाले वृथा भोगान्परित्यजेः ५७।
पिबस्व पानं भुंक्ष्व त्वं स्वप्रदत्तं हि पूर्वकम् ।
कस्य भर्ता सुताः कस्य कस्य स्वजनबांधवाः ५८।
कः कस्य नास्ति संसारे संबंधः केन चैव हि ।
भक्ष्यते भुज्यते बाले संसारस्य हि तत्फलम् ५९।
मृते प्राणिनि कोऽश्नाति को हि पश्यति तत्फलम् ।
पीयते भुज्यते बाले एतत्संसारतः फलम् ६०।
सुकलोवाच-
भवतीभिः प्रयुक्तं यत्तन्न स्याद्वेदसंमतम् ।
यातु भर्तुः पृथग्भूता तिष्ठत्येका सदैव हि ६१।
पापभूता भवेन्नारी तां न मन्यंति सज्जनाः ।
भर्तुः सार्धं सदा सख्यो दृष्टो वेदेषु सर्वदा ६२।
संबंधः पुण्यसंसर्गाज्जायते नात्र संशयः ।
नारीणां च सदा तीर्थं भर्ता शास्त्रेषु पठ्यते ६३।
तमेवावाहयेन्नित्यं वाचा कायेन कर्मभिः ।
मनसा पूजयेन्नित्यं भावसत्येन तत्परा ६४।
भर्तुः पार्श्वं महातीर्थं दक्षिणांगं सदैव हि ।
तमाश्रित्य यदा नारी गृहस्था परिवर्त्तयेत् ६५।
यजते दानपुण्यैश्च तस्य दानस्य यत्फलम् ।
वाराणस्यां च गंगायां यत्फलं न च पुष्करे ६६।
द्वारकायां न चावन्त्यां केदारे शशिभूषणे ।
लभते नैव सा नारी यजमाना सदा किल ६७।
तादृशं फलमेवं सा न प्राप्नोति कदा सखि ।
सुमुखं पुत्रसौभाग्यं स्नानं दानं च भूषणम् ६८।
वस्त्रालंकारसौभाग्यं रूपं तेजः फलं सदा ।
यशः कीर्तिमवाप्नोति गुणं च वरवर्णिनी ६९।
भर्तुः प्रसादात्सर्वं च लभते नात्र संशयः ।
विद्यमाने यदा कांते अन्यं धर्मं करोति या ७०।
निष्फलं जायते तस्याः पुंश्चली परिकथ्यते ।
नारीणां यौवनं रूपमवतारं स्मृतं ध्रुवम् ७१।
एकस्यापि हि भर्तुश्च तस्यार्थे भूमिमंडले ।
सुपुत्रा सुयशा नारी परिकथ्येत वै सदा ७२।
तुष्टे भर्तरि संसारे दृश्या नारी न संशयः ।
पतिहीना भवेन्नारी भवेत्सा भूमिमंडले ७३।
कुतस्तस्याः सुखं रूपं यशः कीर्तिः सुता भुवि ।
सुदौर्भाग्यं महद्दुःखं संसारे परिभुज्यते ७४।
पापभागा भवेत्सा च दुःखाचारा सदैव हि ।
तुष्टे भर्तरि तस्यास्तु तुष्टाः सर्वाश्च देवताः ७५।
तुष्टे भर्तरि तुष्यंति ऋषयो देवमानवाः ।
भर्ता नाथो गुरुर्भर्ता देवता दैवतैः सह ७६।
भर्ता तीर्थश्च पुण्यश्च नारीणां नृपनंदन ।
शृंगारं भूषणं रूपं वर्णं सौगंधमेव च ७७।
कृत्वा सा तिष्ठते नित्यं वर्जयित्वा सुपर्वसु ।
शृंगारैर्भूषणैः सा तु शुशुभे सा यदा पतिः ७८।
पत्याविना भवत्येवं क्षीरं सर्पमुखे यथा ।
भर्तुरर्थे महाभागा सुव्रता चारुमंगला ७९।
गते भर्तरि या नारी शृंगारं कुरुते यदि ।
रूपं वर्णं च तत्सर्वं शवरूपेण जायते ८०।
वदंति भूतले लोकाः पुंश्चलीयं न संशयः ।
तस्माद्भर्तुर्वियुक्ता या नार्याः शृणुत भूतले ८१।
इच्छंत्या वै महासौख्यं भवितव्यं कदाचन ।
सुजायायाः परो धर्मो भर्ता शास्त्रेषु गीयते ८२।
तस्माद्वै शाश्वतो धर्मो न त्याज्यो भार्यया किल ।
एवं धर्मं विजानामि कथं भर्ता परित्यजेत् ८३।
इत्यर्थे श्रूयते सख्य इतिहासः पुरातनः ।
सुदेवायाश्च चरितं सुपुण्यं पापनाशनम् ८४।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित एकचत्वारिंशोऽध्यायः ४१।