कृष्णः-( स्वगतं सविपादम् ) आः ! कष्टं कष्टं दृष्टमदृष्टपूर्वम् । अहह ! इदमेव दुर्निमित्तं यद्धोरोऽन्धकारो यद्दारुणः समीरः । तत्पाययामि पीयूपं, न पुनरस्य समीपे पश्यामि वैनतेयम् । अहो महदिदं विमर्शस्थानम् ।
तथाहि--
दहतु दहतु घोरः शङ्करं कालकूटो |
तन्निरूपयामि ध्यानेन ) ( ध्यानाभिनयं कृत्वा सकोधम् ) आः शुक्र वक्रयुद्धे । किमिदं कृतवानसि ? । शङ्करवेपधरोऽसि द्विजोऽसि चेति कृनापराधोऽपि न मे वध्योऽसि । तद्गच्छ यावन्न शिवनयनगोचरतां प्रपद्यसे ।
( शुक्रः सभयं तिरोघते )
( ततः प्रविशति वैनतेयेनानुगम्यमानः शङ्करः )
कृष्णः--( विलोक्य सप्रश्रयमुत्थाय साफूतंस्मितम् ) नमो नमो निप्कपटशङ्कराय । इत आस्यताम् ।
शङ्करः-(वैनतेयोपनीतमासनमधिष्टाय सस्मितम् ) कृप्ण ! कृप्णा! केयमद्भुता तवाद्य विट्रेोपोत्तिः ।
कृष्णः--( सस्मितम् ) किं विज्ञप्यते सर्वज्ञाय ? ।
शङ्करः-( सद्दर्षे विद्दस्य ) कृते प्रतिकृतं समुचितमारब्धं भार्गपेण । त्वया हि कृतकैनंवकान्तारूपेण वञ्चिता दैत्याः । प्रत्याहृतं पीयूपम् किमुच्यते त्वयैवेदं विचित्ररूपं दिविपत्कार्यनिर्वहणकोटिमारोप्यते । तत्किं चिरयति वार्द्धिमानेतुं प्रेपितो वरुण: ? ।
कृष्णः--अयि वैनतेप ! त्वमपि महेशादेशेन गत्वा त्वरितमानय सागरम् ।
वैन०-( फतिचित्पदानि दत्त्वा व्यावृत्य ) आयान्त्यमो व्रह्मादयो देवाः,एप चाभ्पेति वरुणेनानुगम्यमानो रत्नाकरः । तत्किमेनमेते प्रत्युत्थातुं गताः ? ।
कृष्णः-वैनतेय ! नहि नहि । एते किल भार्गयोत्पादितमायान्धकारदुर्वृत्तविद्रवच्चन्द्रादिघारणोद्विग्ना, न्नृनं तीरदेशे मिलिताः समायान्ति ।