पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८९
समुद्रमथनामिधानः समवकारः


( ततः प्रविशन्ति यथानिर्द्दिष्टा त्रह्मादयो देवा वरुणेनानुगम्यमानः सागरश्च )

 महेशकृण्णौ-(सश्रय्मुय॒यू), अभिवाद्यावहे अत्रभवन्तं जगज्ज्येष्टम् । इत आस्यतां सह महेन्द्रादिभिर्येथायथम् ।

 सागरः--(सप्रश्रयम्) एप वः प्रणमति समुद्रः ।

 कृप्णः-(सगैौरवम्) निपीदतु प्रत्यासन्नोऽत्र सवम्णो भवान् ।

(सागरः तया करोति )

 लक्ष्मीः-(सकरुणं सास्नम्) ताद् । किं एदं संयुत्तं ? । ( इति फण्ठे लगवि )

 समुद्रः-( सफरुणं ) पुत्रि पुत्रि ! मा विपीद् । भद्रं भविप्यति निर्वहणं रुद्रप्रसादेन ।

 महेशः-( अपवार्य ) कृप्ण कृप्ण ! न शक्रोमि मुखमस्य दर्शयितुम् ।

( इति सविपादमधोमुरतस्तिष्टति )

 समुद्रः-( सप्रश्रयम्)

दाक्षिण्पतस्त्रिजगदीशा ! किमाकुलोऽसि ?
 पशय प्रसन्ननयनो मुखमुन्नमय्य ।
श्रेष्टोऽसि मे नहि नहि प्रमुमात्रकस्त्वं
 मन्येऽवमानमपि मानमहं भयत्तः ॥ ९ ॥

 अपि च । नाहं क्लीवोऽस्मि न चान्येन केनापि पराभूतो यदेवं विपीदति देयस्तथाहि--

चञ्चद्वीचिचपेटताडितमुखैर्द्दष्टोऽस्मि दैत्यैः फदा
 मैनाफं परिरक्षितुं कुलिशतः शक्त्तोउहमकेः परम् ।
सम्युद्धोऽस्नि मयाऽन्तरीर्यदहनग्त्रैलोक्यदाहोत्सृकः
 सर्गेऽपि प्रलयेऽप्यग्वण्दृमहिमा शम्भोः प्रसादादहम् ॥ १० ॥

 शङ्करः-( सहर्पे सगौरवम्) किमुच्यते ?

सर्गस्न्वमघस्त्वयि लब्घजन्मा
 ससर्ज सप्तापि जगन्ति वेघाः ।
सर्वोपजीब्योऽसि तवोपजीब्यो
 न सिन्धुराजः फचिदस्नि कश्चित् ॥ ११ ॥