शतपथब्राह्मणम्/काण्डम् २/अध्यायः ५/ब्राह्मण ४

विकिस्रोतः तः


२.५.४.

महाहविष ह वै देवा वृत्रं जघ्नुः । तेनो एव व्यजयन्त येयमेषां विजितिस्तां तथो एवैष एतेन पाप्मानं द्विषन्तं भ्रातृव्यं हन्ति तथो एव विजयते तस्माद्वा एष एतेन यजते - २.५.४.१

तस्यावृत् । उपकिरन्त्युत्तरवेदिं गृह्णन्ति पृषदाज्यं मन्थन्त्यग्निं नवप्रयाजम्भवति नवानुयाजं त्रीणि समिष्टयजूंषि भवन्त्यथैतान्येव पञ्च हवींषि भवन्ति - २.५.४.२

स यदाग्नेयोऽष्टाकपालः पुरोडाशो भवति । अग्निना ह वा एनं तेजसाघ्नन्त्स तेजोऽग्निर्नाव्यथत तस्मादाग्नेयो भवति - २.५.४.३

अथ यत्सौम्यश्चरुर्भवति । सोमेन ह वा एनं राज्ञाघ्नन्त्सोमराजान एव तस्मात्सौम्यश्चरुर्भवति - २.५.४.४

अथ यत्सावित्रः । द्वादशकपालो वाष्टाकपालो वा पुरोडाशो भवति सविता वै देवानाम्प्रसविता सवितृप्रसूता हैवैनमघ्नंस्तस्मात्सावित्रो भवति - २.५.४.५

अथ यत्सारस्वतश्चरुर्भवति । वाग्वै सरस्वती वागु हैवानुममाद प्रहर जहीति तस्मात्सारस्वतश्चरुर्भवति - २.५.४.६

अथ यत्पौष्णश्चरुर्भवति । इयं वै पृथिवी पूषेयं हैवैनं वधाय प्रतिप्रददावनया हैवैनं प्रतिप्रत्तं जघ्नुस्तस्मात्पौष्णश्चरुर्भवति - २.५.४.७

अथैन्द्राग्नौ द्वादशकपालः पुरोडाशो भवति । एतेन हैवैनमघ्नंस्तेजो वा अग्निरिन्द्रियं वीर्यमिन्द्र एताभ्यामेनमुभाभ्यां वीर्याभ्यामघ्नन्ब्रह्म वा अग्निः क्षत्रमिन्द्रस्ते उभे संरभ्य ब्रह्म च क्षत्रं च सयुजौ कृत्वा ताभ्यामेनमुभाभ्यां वीर्याभ्यामघ्नंस्तस्मादैन्द्राग्नो द्वादशकपालः पुरोडाशो भवति - २.५.४.८

अथ माहेन्द्रश्चरुर्भवति । इन्द्रो वा एष पुरा वृत्रस्य वधादथ वृत्रं हत्वा यथा महाराजो विजिग्यान एवं महेन्द्रोऽभवत्तस्मान्माहेन्द्रश्चरुर्भवति महान्तमु चैवैनमेतत्खलु करोति वृत्रस्य वधाय तस्माद्वेव माहेन्द्रश्चरुर्भवति - २.५.४.९

अथ वैश्वकर्मण एककपालः पुरोडाशो भवति । विश्वं वा एतत्कर्म कृतं सर्वं जितं देवानामासीत्साकमेधैरीजानानां विजिग्यानानां विश्वम्वेवैतस्यै तत्कर्म कृतं सर्वं जितं भवति साकमेधैरीजानस्य विजिग्यानस्य तस्माद्वैश्वकर्मण एककपालः पुरोडाशो भवति - २.५.४.१०

एतेन वै देवाः । यज्ञेनेष्ट्वा येयं देवानां प्रजातिर्या श्रीरेतद्बभूवुरेतां ह वै प्रजातिं प्रजायत एतां श्रियं गच्छति य एवं विद्वानेतेन यज्ञेन यजते तस्माद्वा एतेन यजेत - २.५.४.११