शतपथब्राह्मणम्/काण्डम् २/अध्यायः २/ब्राह्मण २

विकिस्रोतः तः


२.२.२.

घ्नन्ति वा एतद्यज्ञम् । यदेनं तन्वते यन्न्वेव राजानमभिषुण्वन्ति तत्तं घ्नन्ति यत्पशुं सम्ज्ञपयन्ति विशासति तत्तं घ्नन्त्युलूखलमुसलाभ्यां दृषदुपलाभ्यां हविर्यज्ञं घ्नन्ति - २.२.२.१

स एष यज्ञो हतो न ददक्षे । तं देवा दक्षिणाभिरदक्षयंस्तद्यदेनंदक्षिणाभिरदक्षयंस्तस्माद्दक्षिणा नाम तद्यदेवात्र यज्ञस्य हतस्य व्यथते तदेवास्यैतद्दक्षिणाभिर्दक्षयत्यथ समृद्ध एव यज्ञो भवति तस्माद्दक्षिणा ददाति - २.२.२.२

ता वै षड्दद्यात् । षड्वा ऋतवः संवत्सरस्य संवत्सरो यज्ञः प्रजापतिः स यावानेव यज्ञो यावत्यस्य मात्रा तावतीभिर्दक्षयति - २.२.२.३

द्वादश दद्यात् । द्वादश वै मासाः संवत्सरस्य संवत्सरो यज्ञः प्रजापतिः स यावानेव यज्ञो यावत्यस्य मात्रा तावतीभिर्दक्षयति - २.२.२.४

चतुर्विंशतिं दद्यात् । चतुर्विंशतिर्वै संवत्सरस्यार्धमासाः संवत्सरो यज्ञः प्रजापतिः स यावानेव यज्ञो यावत्यस्य मात्रा तावतीभिर्दक्षयत्येषा मात्रा दक्षिणानां दद्यात्त्वेव यथाश्रद्धं भूयसीस्तद्यद्दक्षिणा ददाति - २.२.२.५

द्वया वै देवा देवाः । अहैव देवा अथ ये ब्राह्मणाः श्रुश्रुवांसोऽनूचानास्ते मनुष्यदेवास्तेषां द्वेधा विभक्त एव यज्ञ आहुतय एव देवानां दक्षिणा मनुष्यदेवानां ब्राह्मणानां शुश्रुवुषामनूचानानामाहुतिभिरेव देवान्प्रीणाति दक्षिणाभिर्मनुष्यदेवान्ब्राह्मणाञ्छुश्रुवुषोऽनूचानांस्त एनमुभये देवाः प्रीताः सुधायां दधति - २.२.२.६

तद्यथा योनौ रेतो दध्यात् । एवमेवैतदृत्विजो यजमानं लोके दधति तद्यदेभ्य एतद्ददाति ये मेदं सम्प्रापिपन्निति नु दक्षिणानाम् - २.२.२.७

देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिरे त उभय एवानात्मान आसुर्मर्त्या ह्यासुरनात्मा हि मर्त्यस्तेषूभयेषु मर्त्येष्वग्निरेवामृत आस तं ह स्मोभयेऽमृतमुपजीवन्ति स यं ह स्मैषां घ्नन्ति तद्ध स्म वै स भवति - २.२.२.८

ततो देवाः । तनीयांस इव परिशिशिषिरे तेर्चन्तः श्राम्यन्तश्चेरुरुतासुरान्त्सपत्नान्मर्त्यानभिभवेमेति त एतदमृतमग्न्याधेयं ददृशुः - २.२.२.९

ते होचुः । हन्तेदममृतमन्तरात्मन्नादधामहै त इदममृतमन्तरात्मन्नाधायामृता भूत्वा स्तर्या भूत्वा स्तर्यान्त्सपत्नान्मर्त्यानभिभविष्याम इति - २.२.२.१०

ते होचुः । उभयेषु वै नोऽयमग्निः प्र त्वेवासुरेभ्यो ब्रवामेति - २.२.२.११

ते होचुः । आ वै वयमग्नी धास्यामहेऽथ यूयं किं करिष्यथेति - २.२.२.१२

ते होचुः । अथैनं वयं न्येव धास्यामहेऽत्र तृणानि दहात्र दारूणि दहात्रौदनं पचात्र मांसं पचेति स यं तमसुरा न्यदधत तेनानेन मनुष्या भुञ्जते - २.२.२.१३

अथैनं देवाः । अन्तरात्मन्नादधत त इमममृतमन्तरात्मन्नाधायामृता भूत्वा स्तर्यां भूत्वा स्तर्यान्त्सपत्नान्मर्त्यानभ्यभवंस्तथो एवैष एतदमृतमन्तरात्मन्नाधत्ते नामृतत्वस्याशास्ति सर्वमायुरेत्यस्तर्यो हैव भवति न हैनं सपत्नस्तुस्तूर्षमाणश्चन स्तृणुते तस्माद्यदाहिताग्निश्चानाहिताग्निश्च स्पर्धेतेऽआहिताग्निरेवाभिभवत्यस्तर्यो हि खलु स तर्हि भवत्यमृतः - २.२.२.१४

तद्यत्रैनमदो मन्थन्ति । तज्जातमभिप्राणिति प्राणो वा अग्निर्जातमेवैनमेतत्सन्तं जनयति स पुनरपानिति तदेनमन्तरात्मन्नाधत्ते सोऽस्यैषोऽन्तरात्मन्नग्निराहितो भवति - २.२.२.१५

तमुद्दीप्य समिन्द्धे । इह यक्ष्य इह सुकृतं करिष्यामीत्येवैनमेतत्समिन्द्धे योऽस्यैषोऽन्तरात्मन्नाग्निराहितो भवति - २.२.२.१६

अन्तरेणागाद्व्यवृतदिति । न ह वा अस्यैतं कश्चनान्तरेणैति यावज्जीवति योऽस्यैषोऽन्तरात्मन्नग्निराहितो भवति तस्मादु तन्नाद्रियेत यदनुगच्छेन्न ह वा अस्यैषोऽनुगच्छति यावज्जीवति योऽस्यैषोऽन्तरात्मन्नग्निराहितो भवति - २.२.२.१७

ते वा एते प्राणा एव यदग्नयः । प्राणोदानावेवाहवनीयश्च गार्हपत्यश्च व्यानोऽन्वाहार्यपचनः - २.२.२.१८

तस्य वा एतस्याग्न्याधेयस्य । सत्यमेवोपचारः स यः सत्यं वदति यथाग्निं समिद्धं तं घृतेनाभिषिञ्चेदेवं हैनं स उद्दीपयति तस्य भूयो भूय एव तेजो भवति श्वः श्वः श्रेयान्भवत्यथ योऽनृतं वदति यथाग्निं समिद्धं तमुदकेनाभिषिञ्चेदेवं हैनं स जासयति तस्य कनीयः कनीय एव तेजो भवति श्वः श्वः पापीयान्भवति तस्मादु सत्यमेव वदेत् - २.२.२.१९

तदु हाप्यरुणमौपवेशिं ज्ञातय ऊचुः । स्थविरो वा अस्यग्नी आधत्स्वेति स होवाच ते
मैतद्ब्रूथ वाचंयम एवैधि न वा आहिताग्निनानृतं वदितव्यं न वदञ्जातुनानृतं वदेत्तावत्सत्यमेवोपचार इति - २.२.२.२०