शतपथब्राह्मणम्/काण्डम् १३/अध्यायः ७/ब्राह्मण १

विकिस्रोतः तः

१३.७.१

ब्रह्म वै स्वयम्भु तपोऽतप्यत तदैक्षत न वै तपस्यानन्त्यमस्ति हन्ताहम्भूतेष्वात्मानं जुहवानि भूतानि चात्त्मनीति तत्सर्वेषु भूतेष्वात्मानं हुत्वा भूतानि चात्मनि सर्वेषां भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यम्पर्यैत्तथैवैतद्यजमानः सर्वमेधे सर्वान्मेधान्हुत्वा सर्वाणि भूतानि श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति - १३.७.१.१

स वा एष सर्वमेधो दशरात्रो यज्ञक्रतुर्भवति दशाक्षरा विराड्विराडु कृत्स्नमन्नं कृत्स्नस्यैवान्नाद्यस्यावरुद्ध्यै तस्मिन्नग्निं परार्ध्यं चिनोति परमो वा एष यज्ञक्रतूनां यत्सर्वमेधः परमेणैवैनं परमतां गमयति - १३.७.१.२

तस्याग्निष्टुदग्निष्टोमः प्रथममहर्भवति अग्निर्वा अग्निष्टुदग्निष्टोमोऽग्निमुखा उ वै सर्वे देवाः सर्वेषां देवानामाप्त्यै तस्याग्नेया ग्रहा भवन्त्याग्नेय्यः पुरोरुचः सर्वमाग्नेयमसदिति - १३.७.१.३

इन्द्रस्तुदुक्थ्यो द्वितीयमहर्भवति इन्द्रो वै सर्वे देवाः सर्वेषां देवानामाप्त्यै तस्यैन्द्रा ग्रहा भवन्त्यैन्द्र्यः पुरोरुचः सर्वमैन्द्रमसदिति - १३.७.१.४

सूर्यस्तुदुक्थ्यस्तृतीयमहर्भवति सूर्यो वै सर्वे देवाः सर्वेषां देवानामाप्त्यै सौर्या ग्रहा भवन्ति सौर्य्यः पुरोरुचः सर्वं सौर्यमसदिति - १३.७.१.५

वैश्वदेवश्चतुर्थमहर्भवति विश्वे वै सर्वे देवाः सर्वेषां देवानामाप्त्यै वैश्वदेवा ग्रहा भवन्ति वैश्वदेव्यः पुरोरुचः सर्वं वैश्वदेवमसदिति - १३.७.१.६

आश्वमेधिकं मध्यमं पञ्चममहर्भवति तस्मिन्नश्वम्मेध्यमालभतेऽश्वमेधस्यैवाप्त्यै -१३.७.१.७

पौरुषमेधिकं मध्यमं षष्ठमहर्भवति तस्मिन्मेध्यान्पुरुषानालभते पुरुषमेधस्यैवाप्त्यै - १३.७.१.८

अप्तोर्यामः सप्तममहर्भवति सर्वेषां यज्ञक्रतूनामाप्त्यै तस्मिन्त्सर्वान्मेध्यानालभते यच्च प्राणि यच्चाप्राणं वपा वपावतां जुहोति त्वच उत्कर्तमवपाकानां सम्व्रश्चमोषधिवनस्पतीनां प्रकिरन्ति शुष्काणां चार्द्राणां चान्नमन्नं जुहोत्यन्नस्यान्नस्याप्त्यै सर्वं जुहोति सर्वस्मै जुहोति सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै प्रातःसवने हुतासु वपास्वेवमेव तृतीयसवने हुतेषु हविःषु - १३.७.१.९

त्रिणवमष्टममहर्भवति वज्रो वै त्रिणवो वज्रेण खलु वै क्षत्रं स्पृतं तद्वज्रेणैव क्षत्रं स्पृणोति - १३.७.१.१०

त्रयस्त्रिंशं नवममहर्भवति प्रतिष्ठा वै त्रयस्त्रिंशः प्रतिष्ठित्यै - १३.७.१.११

विश्वजित्सर्वपृष्ठोऽतिरात्रो दशममहर्भवति सर्वं वै विश्वजित्सर्वपृष्ठोऽतिरात्रः सर्वं सर्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै - १३.७.१.१२

अथातो दक्षिणानाम् मध्यं प्रति राष्ट्रस्य यदन्यद्ब्राह्मणस्य वित्तात्सभूमि सपुरुषं प्राची दिग्घोतुर्दक्षिणा ब्रह्मणः प्रतीच्यध्वर्योरुदीच्युद्गातुस्तदेव होतृका अन्वाभक्ताः - १३.७.१.१३

तेन हैतेन विश्वकर्मा भौवन ईजे तेनेष्ट्वाऽत्यतिष्ठत्सर्वाणि भूतानीदं सर्वमभवदतितिष्ठति सर्वाणि भूतानीदं सर्वं भवति य एवम्विद्वान्त्सर्वमेधेन यजते यो वैतदेवं वेद - १३.७.१.१४

तं ह कश्यपो याजयांचकार तदपि भूमिः श्लोकं जगौ न मा मर्त्यः कश्चन दातुमर्हति विश्वकर्मन्भौवन मन्द आसिथ उपमङ्क्ष्यति स्या सलिलस्य मध्ये मृषैष ते सङ्गरः कश्यपायेति - १३.७.१.१५