शतपथब्राह्मणम्/काण्डम् ८/अध्यायः ६/ब्राह्मणम् २

विकिस्रोतः तः


८.६.२ अथ एकत्रिंशच्छन्दस्येष्टकोपधानम्

छन्दस्या उपदधाति । अत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र श्रियमैच्छन्नो हैषोऽतः पुरा तस्मा अलमास यच्छ्रियमधारयिष्यत्तस्मादिदमप्येतर्ह्याहुर्न वा एषोऽलं श्रियै धारणाय राज्याय वा ग्रामणीष्ठ्याय वेति तस्मै देवा एतां श्रियम्प्रायच्छन्नेताश्छन्दस्याः पशवो छन्दांस्यन्नं पशवोऽन्नमु श्रीः - ८.६.२.१

त्रिचान्युपदधाति । त्रिवृद्वै पशुः पिता माता पुत्रोऽथो गर्भ उल्बं जरायु अथो त्रिवृद्वा अन्नं कृषिर्वृष्टिर्बीजमेकैवातिच्छन्दा भवत्येका ह्येव सा सर्वाणि छन्दांस्यति सा या सा श्रीर्महत्तदुक्थं तद्यत्तन्महदुक्थमेतास्ताश्छन्दस्याः - ८.६.२.२

तस्य शिरो गायत्र्यः । आत्मा त्रिष्टुभोऽनूकं जगत्यः पक्षौ पङ्क्तयोऽथैतासां ककुभां चत्वारि चत्वार्यक्षराण्यादायातिच्छन्दस्युपदधाति सा सातिच्छन्दा एव भवति गायत्र्य इतराः सम्पद्यन्ते सैव गायत्र्यशीतिर्या बृहत्यः सा बार्हती या उष्णिहः सौष्णिह्यथ यद्वशो यदर्धर्चौ यदैन्द्राग्नं यदावपनं तदतिच्छन्दा अथ यन्नदो यत्सूददोहा यत्पदनुषङ्गा यत्किंचात्रानुष्टुप्कर्माणं तदनुष्टुभः - ८.६.२.३

प्रतिष्ठा द्विपदाः । एतावद्वै महदुक्थं महदुक्थं श्रीः सर्वामेवास्मा एतां देवाः प्रायच्छंस्तथैवास्मा अयमेतां सर्वां श्रियं प्रयच्छति - ८.६.२.४

यद्वेव च्छन्दस्या उपदधाति । एतद्वै देवा एतं नाकं स्वर्गं लोकमपश्यन्नेता स्तोमभागास्तस्मिन्नविशंस्तेषां विशतां प्रजापतिरुत्तमोऽविशत्स यः स प्रजापतिरेतास्ताश्छन्दस्याः - ८.६.२.५

तस्य शिरो गायत्र्यः । ता यद्गायत्र्यो भवन्ति गायत्रं हि शिरस्तिस्रो भवन्ति त्रिवृद्धि
शिरः पूर्वार्ध उपदधाति पुरस्ताद्धीदं शिरः - ८.६.२.६

उरस्त्रिष्टुभः । ता रेतःसिचोर्वेलयोपदधाति पृष्टयो वै रेतःसिचा उरो वै प्रतिपृष्टयः - ८.६.२.७

श्रोणी जगत्यः । स यावति पुरस्तात्स्वयमातृण्णायै त्रिष्टुभ उपदधाति तावति पश्चाज्जगतीर्यो वा अयं मध्ये प्राणस्तदेषा स्वयमातृण्णा यावत्यु वा एतस्मात्प्राणात्पुरस्तादुरस्तावति पश्चाच्छ्रोणी - ८.६.२.८

सक्थ्यावनुष्टुभः । ता अनन्तर्हिता जगतीभ्य उपदधात्यनन्तर्हिते तच्छ्रोणिभ्यां सक्थ्यौ दधाति - ८.६.२.९

पर्शवो बृहत्यः । कीकसाः ककुभः सोऽन्तरेण त्रिष्टुभश्च ककुभश्च बृहतीरुपदधाति तस्मादिमा उभयत्र पर्शवो बद्धाः कीकसासु च जत्रुषु च - ८.६.२.१०

ग्रीवा उष्णिहः । ता अनन्तर्हिता गायत्रीभ्य उपदधात्यनन्तर्हितास्तच्छीर्ष्णो ग्रीवा दधाति - ८.६.२.११

पक्षौ पङ्क्तयः । ता यत्पङ्क्तयो भवन्ति पाङ्क्तौ हि पक्षौ पार्श्वत उपदधाति पार्श्वतो हीमौ पक्षौ यद्वर्षीयश्छन्दस्तद्दक्षिणत उपदधाति दक्षिणं तदर्धं पशोर्वीर्यवत्तरं करोति तस्माद्दक्षिणोऽर्धः पशोर्वीर्यवत्तरः - ८.६.२.१२

उदरमतिच्छन्दाः । पशवो वै छन्दांस्यन्नं पशव उदरं वा अन्नमत्त्युदरं हि वा अन्नमत्ति तस्माद्यदोदरमन्नं प्राप्नोत्यथ तज्जग्धं यातयामरूपम्भवति तद्यदेषा पशूंश्छन्दांस्यत्ति तस्मादत्तिच्छन्दा अत्तिच्छन्दा ह वै तामतिच्छन्दा इत्याचक्षते परोऽक्षं परोऽक्षकामा हि देवाः - ८.६.२.१३

योनिः पुरीषवती । ते संस्पृष्टे उपदधाति संस्पृष्टे ह्युदरं च योनिश्च पुरीषसंहिते भवतो मांसं वै पुरीषं मांसेन वा उदरं च योनिश्च संहिते पूर्वातिच्छन्दा भवत्यपरा पुरीषवत्युत्तरं ह्युदरमधरा योनिः - ८.६.२.१४

ते प्राच्या उपदधाति । प्राङ्ह्येषोऽग्निश्चीयतेऽथो प्राग्वै प्राच उदरं प्राची योनिर्बहिस्तोमभागं हृदयं वै स्तोमभागा हृदयमु वा उत्तममथोदरमथ योनिः - ८.६.२.१५

ते दक्षिणतः स्वयमातृण्णाया उपदधाति । अथ प्रथमायां चिता उत्तरतः स्वयमातृण्णाया उदरं च योनिं चोपदधाति यो वा अयं मध्ये प्राणस्तदेषा स्वयमातृण्णैतस्य तत्प्राणस्योभयत उदरं च योनिं च दधाति तस्मादेतस्य प्राणस्योभयत उदरं च योनिश्च - ८.६.२.१६

प्रतिष्ठा द्विपदाः । ता यद्द्विपदा भवन्ति द्वन्द्वं हि प्रतिष्ठा तिस्रो भवन्ति त्रिवृद्धि प्रतिष्ठा पश्चादुपदधाति पश्चाद्धीयं प्रतिष्ठा - ८.६.२.१७

सोऽस्यैष सुकृत आत्मा । तद्यस्य हैतमेवं सुकृतमात्मानं कुर्वन्त्येतं ह स सुकृतमात्मानमभिसम्भवत्यथ यस्य हैतमतोऽन्यथा कुर्वन्ति दुष्कृतं ह तस्यात्मानं कुर्वन्ति स ह स दुष्कृतमेवात्मानमभिसम्भवति - ८.६.२.१८

तदेते सामनिधने अभ्युक्ते । अर्को देवानां परमे व्योमन्नर्कस्य देवाः परमे व्योमन्नित्येतद्वै देवानां विशतां प्रजापतिरुत्तमोऽविशत्तस्मादाहार्को देवानाम्परमे व्योमन्नित्यथ यदाहार्कस्य देवाः परमे व्योमन्नित्ययं वा अग्निरर्कस्तस्यैतदुत्तमायां चितौ सर्वे देवा विष्टास्तस्मादाहार्कस्य देवाः परमेव्योमन्निति - ८.६.२.१९