कासा-कथमिव ।
मिलि-
- परितः प्रतिमामध्यनिस्सरद्वह्निगोळकैः ।
- अदाहि स मदान्धो द्राक्तदा हि सुदुराशयः॥
विदू-कुदो एदम् ? (कुत एतत्?) ।
मिलि-प्रतिमायां निपीडितायामन्तर्ज्जातो जातवेदाः पारदसुवर्चलगन्धकादिनिर्मितगोलेषु ज्वलितो दहेद्बहिः प्रसरन् दारूण्यपि ।
कासा-भद्र ! तत्समीपवर्तिनी सदा कौमुदी किन्तद्विपत्तौ निपतिता ।
मिलि-
- जीमूतमालोक्य समापतन्तं गर्जन्तमेषा ललिताङ्गयष्टिः ।
- उत्थाय शीघ्रं क्वचिदात्तभीतिर्व्यलीयताळीजनतानुयाता ॥
कासा-हन्त ! कामिनां विवेकराहित्यम् ।
- सौन्दर्यदूरीकृतचित्तधैर्याः स्त्रीणां पुमांसः सुविवेकशून्याः ।
- गम्या न गम्येयमिति प्रतर्कं विहाय सद्योऽभिमृशन्ति मोहात् ।
विदू-अच्चरिअं जीमूअकामपरवसत्तणम्, जदो पडिभं वि पदुमिणीए मोहादो आळिंगिदवंतो । (आश्चर्यं जीमूतकामपरवशत्वम्, यतः प्रतिमामपि पद्मिन्या मोहादालिङ्गितवन्) ।
कासा-
- शौर्येण विद्याविभवेन वाऽपि वित्तेन वा येऽत्र भवन्ति मत्ता: ।
- विनाश्य तान् लोकसुखं विधातुं धाता विना स्त्रीं न परं ससर्ज ॥
विदू-तहा एव्व । अण्णहा रावणमुहा दुरासआ कहं विणासं णेदुं सक्का होन्ति । (तथैव । अन्यथा रावणमुखा दुराशयाः कथं विनाशं नेतुं शक्या भवन्ति) ।
कासा-सखे !
- बलेषु सर्वेष्वपि वेद्मि बुद्धेर्बलं वरिष्ठं न हि संशयोऽत्र ।
- मत्तेभजीमूतमदप्रशान्ति कर्तुं क्षमं योगिमतिं विना किम् ॥
विदू-अह इम् । (अथ किम्)
कासा-भद्र ! तत: ?
मिलि-अथ जीमूतानुयायिनस्सर्वेऽपि ‘पद्मिनीव्रतमहिम्ना दग्धोऽसमये संस्पृशस्तां महाराजः । किं ब्रूमो वयं शारदानन्दमहिमान' मिति कथयन्तः सस्वरं स्वपदं प्रपेदिरे ।