॥ अथ अष्टमोऽङ्कः ॥
(ततः प्रविशति कासारः विदूषकश्च)
कासा-सखे ! किं गोपयसि स्नेहातिरेकभणितं मिथो वृत्तम् ?
विदू-वअस्स ! जाव जीमूअणासं जाणेमि ताव मह हिअआदो पदुमिणीए वुतन्तो ण बही णिग्गमिस्सइ (वयस्य यावज्जीमूतनाशं जानामि तावन्मम हृदयात्पद्मिन्या वृत्तान्तो न बहिर्निर्गमिष्यति)।
कासा-
- वत्सा वल्लभसङ्गमोदितमनाः क्षोणीगृहे वर्तते
- वत्सो मे कुमुदाकरः कपटतो जीमूतगेहं गतः ।
- तस्यान्तःकरणं निमग्नमनिशं द्राक्कौमुदीरोचिषि
- प्राप्ता साऽरिवशं कदेदमखिलं गच्छेद्विपाकं शुभम् ॥
- वत्सा वल्लभसङ्गमोदितमनाः क्षोणीगृहे वर्तते
विदू-कोमुईं सुहाअरजादं मत्तेभओ कस्स किदे घेत्त्तूण ठावेइ ? (कौमुदीं सुधाकरजातां मत्तेभकः कस्यकृते गृहीत्वा स्थापयति ?)
कासा-निजनन्दनस्य कलभस्य कलत्रिकरणाय ।
विदू-कुदो विळंबो तस्स विवाहे (कुतो विलम्बस्तस्य विवाहे?) ।
कासा-सुधाकरप्रार्थनया समागतोऽहं व्रतोपदेशायेति वदता शारदानन्देनोपदिष्टं व्रतं भर्तृचिरायुष्करमनुतिष्ठति सा । तदनन्तरं विवाह्येति मन्वानो मत्तेभोऽधिकं सुतस्य वयः काङ्क्षन् प्रतीक्षते व्रतसमाप्तिम् ।
विदू-कआ वुदसमती (कदा व्रतसमाप्तिः ?) ।
कासा-अचिरादिति मन्ये ।
विदू-बअस, कोमुईए आराहणस्स किदे सारआणंदेण कस्स हेदुणो देवआपडिमा पदुमिणीसरिसी किदा ? (वयस्य कौमुद्या आराधनस्य कृते शारदानन्देन कस्य हेतोः देवताप्रतिमा पद्मिनीसदृशी कृता ?) ।
कासा-को जानति तस्य योगिनो हृदयम् ?