पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये सप्तमोऽङ्कः
मिलि–कथमिव ?
कुमु-
- मन्त्रं मयेमं जपतः प्रदत्तं स्तुत्याऽनया ते स्तुवतः सुभक्त्या ।
- श्रीरामदूतं निखिलेष्टसिद्धिः स्यादापदः प्राप्नुयुराशु नाशम् ॥ इति
मिलि-सखे ! सा स्तुतिः कीदृशी ? यदि न गोपनीया श्रावयितुमभ्यर्थये ।
कुमु-गोप्यमपि सुहृदे प्रकाश्यं खलु । तदवधीयताम् ।
मिलि-अवहितोऽस्मि ।
कुमु-
- वन्दारुं दाशरथेर्मन्दारं कञ्चिदाश्रये भजताम् ।
- वृन्दारकनव्यगुणं सन्दारितरावणात्मजं समरे ॥
- क्वाहं पापकृदग्र्यः क्व च तव कृतिभिः प्रसाद इह लभ्यः ।
- भगवंस्तथाऽपि मह्यं प्रसीदसीत्यत्र हेतुरनुकम्पा ॥
- अनिलसुत नाथ भगवन्ननिशं ते पादसंस्मृतिर्यदि मे ।
- क्वाघं क्व च विपदार्तिः क्वारिः क्व च मे क्व चात्र दुष्कीर्तिः ॥
- धैर्यं सर्वविधं मे नाना चिन्ता कपीन्द्र ! शिथिलयति ।
- किं करवाणि रघूणां किङ्कर पत्युः कृपानिधे पाहि ॥
- अनुभूता बहुविपदो ननु ते विदितं समस्तमनिलसुत ।
- श्रृणु किंचिद्दासवचः सोढुं शोकं न शक्नुयामुपरि ॥
- अनुभूयैव व्यसनं प्राक्तनपापं क्षयं प्रणेयमिह ।
- इति चेत् त्वामस्मरतां को भेदः स्तावकस्य मम च विभो ॥
- निर्बध्नात्येष हि मामिति मारुतपुत्र मा रुषं यासीः ।
- नाथानन्यशरण्यो निवेदनीयं निवेदयामि तव ॥
- चण्डकरस्त्वं नमतां खण्डयितुं सर्वपापसन्तमसम् ।
- उदितो दितिसुतविमतं सततं स्वान्तर्हरे हरि बिभ्रत् ॥
- अनलोऽस्यनिलसुत त्वं लङ्कादाहाय नाथ सम्भूतः ।
- अनलत्वं न च धत्से भीमात्मजयान्वितो यतश्चित्रम् ॥[१]
73