बृहत्पाराशरहोराशास्त्रम्/अध्यायः ४० (राजसम्बन्धयोगाध्यायः)

विकिस्रोतः तः
← अध्यायः ३९ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ४१ →


अथ राजसम्बन्धयोगाध्यायः॥४०॥

राज्यनाथे जनुर्लग्नादमात्येशयुतेक्षिते।
अमात्यकारकेणापि प्रधानत्वं नृपालये॥ १॥

लाभेशवीक्षिते लाभे पापदृग्योगवर्जिते।
राज्यभावे तदा विप्र प्रधानत्वं नृपालये॥ २॥

अमात्यकारकेणापि कारकेन्द्रेण संयुते।
तीव्रबुद्धियुतो बालो राजमन्त्री भवेद्‌ ध्रुवम्‌॥ ३॥

अमात्यकारके विप्र सबले शुभसंयुते।
स्वक्षेत्रेस्वोच्चगे वापि राजमन्त्री भवेद्‌ ध्रुवम्‌॥ ४॥

अमात्यकारके लग्ने पञ्चमे नवमेऽपि वा।
राजमन्त्री भवेद्‌ बालो विख्यातो नाऽत्रसंशयः॥ ५॥

आत्मकारकतः केन्द्रे कोणे वाऽमात्यकारके।
तदा राजकृपायुक्तो जातो राजाश्रितः सुखी॥ ६॥

कारकाच्च तथारूढात्‌ लग्नाच्च द्विजसत्तम।
तृतीये षष्ठभे पापैः सेनाधीशः प्रजायते॥ ७॥

कारके केन्द्रे कोणेषु स्वतुङ्गे वा स्वभे स्थिते।
भाग्यपेन युते दृष्टे राजमन्त्री भवेद्‌ ध्रुवम्‌॥ ८॥

कारके जन्मराशीशे लग्नगे शुभसंयुते।
मन्त्रित्वे मुख्ययोगोऽयं वार्धकेनाऽत्र संशयः॥ ९॥

कारके शुभसंयुक्ते पञ्चमे सप्तमेऽपि वा।
दशमे नवमे वाऽपि धनं राजाश्रयाद्‌ भवेत्‌॥ १०॥

भाग्यभावपदे लग्ने कारके नवमेऽपि वा।
राजसम्बन्धयोगोऽयं निर्विशंकं द्विजोत्तम॥ ११॥

लाभेशे लाभभावस्थे पापदृष्टिविवर्जिते।
कारके शुभसंयुक्ते लाभस्तस्य नृपालयात्‌॥ १२॥

लग्नेशे राज्यभावस्थे राज्येशे लग्नसंस्थिते।
प्रबलो राजसम्बन्धयोगोऽयं परिकीर्तितः॥ १३॥

कारकात्‌ तुर्यंभावस्थौ सितेन्दू द्विजसत्तम।
यस्य जन्मनि जातोऽयं राजचिह्नेन संयुतः॥ १४॥

लग्नेशे कारके वाऽपि पञ्चमेशेन संयुते।
केन्द्रे कोणे स्थिते तस्मिन्‌ राजमित्रं भवेन्नरः॥ १५॥