पृष्ठम्:ADictionaryOfSanskritGrammarByMahamahopadhyayaKashinathVasudevAbhyankar.djvu/४३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ ग्रन्थप्रशास्तिः ॥

प्रातिशाख्यमहृाभाष्यकौमुदीकाशिाकादिकान् ।
ग्रन्थान् वाक्यपदीयादीश्चाभ्यस्य श्रमपूर्वकम् ॥ १ ॥

ग्रन्थानां ग्रन्थकाराणां नामानि प्रत्ययांस्तथा ।
विशिष्टशास्त्रीयार्थस्य वाचकान् पारिभाषिकान् ॥ २ ॥

शब्दान् समीक्ष्य संज्ञादीनादेशानागमांस्तथा ।
यदारब्धं संग्रथनं कालात् प्राक् सुबहोर्मया ॥ ३ ॥

अभ्यंकरोपाहृकुले वासुदेवस्य सूनुना ।
काशिनाथभिधेनेदं कोषरूपं समापितम् ॥ ४ ॥

शालिवाहनशाकेस्मिन्नष्टाद्शशतोत्तरे ।
त्र्यशीत्यधिकवर्षेस्मिञ्चैत्रस्य प्रतिपत्तिथौ ॥ ५ ॥

द्राग् व्याकरणकोषाख्यं कृपया परया प्रभोः ।
निव्यूढं कार्यमेतन्मे कुर्याद्विद्वद्धृदि स्थितिम् ॥ ६ ॥

इह व्याकरण शास्त्रे ग्रन्थभूयस्त्वकारणात् ।
कोषार्हो बहवः शब्दा दिङ्मात्रमिह दर्शितम् ॥ ७ ॥

बुद्धिवैचित्र्यतः केचित् कोषानर्हाः स्थिता यदि ।
शब्दास्तदहंर्हा गलिताः प्रार्थये क्षम्यतां बुधैः ॥ ८ ॥