सामग्री पर जाएँ

वाचस्पत्यम्/सात्त्वत

विकिस्रोतः तः
पृष्ठ ५२७५

सात्त्वत त्रि० सत्त्वमेव सात्त्वं तत्तनोति तन--ड । १ विष्णौ

त्रिका० यदुवंश्ये अंशुपुत्रे २ नृपभेदे “अथांशोः
सात्त्वतो नाम विष्णुभक्तः प्रतापवान्” कूर्मपु० २२ अ० ।
तद्वंश्ये ३ बलरामे हेमच० । “सत्त्वं सत्त्वाश्रयं सत्त्व-
गुणं सेवेत केशवम् । योऽनन्यत्वेन मनसा सात्त्वतः
स उदाहृतः” इत्युक्ते ४ विष्णुभक्तभेदे । ५ सात्त्वतनृपाधिष्ठितदेशे
सोऽभिजनोऽस्य अण् । पित्रादिक्रमेण ६ तद्देशवासिनि च
त्रिका० । यदुर्वश्योत्पन्नत्वेन ७ शिशुपालमातरि स्त्री
ङीप् । “न दूये सात्त्वतीमूनुः” माघः । सा च
नाटकस्य ८ वृत्तिभेदे च । तस्या लक्षणादि सा० द० उक्तं यथा
“सात्त्वती बहुला सत्त्वशौर्य्यत्यागदयार्जवैः । सहर्षा
क्षुद्रशृङ्गारा विशोका सा स्मृता तथा । उत्थापकोऽथ
सोघात्यः संलाप परिवर्त्तकः । विशेष इति चत्वारः
सात्त्वत्याः परिकीर्त्तिताः । उत्तेजनकरी शत्रोर्वागु-
त्थापक उच्यते । मन्त्रार्थदैवशक्त्यादेः सांघात्यः सङ्घभे-
दनम् । संलापः स्याद् गभीरोक्तिर्नानाभावसमाश्रयः ।
प्रारब्ध दन्यकार्य्याणां करणं परिवर्त्तकः” । तलोपे
एकतकारोऽपि । ९ जातिभेदे पुंस्त्री० सुधन्वाचार्य्यशब्दे दृश्यम् ।

सात्त्विक पु० सत्त्वात् सत्त्वगुणप्रधानात् विष्णोर्भवति ठञ् ।

१ चतुर्मुखे ब्रह्मणि हेमच० । तस्य विष्णुनाभिकमलजत्वात्
तथात्वम् । सत्त्वमेव सात्त्वमस्त्यस्य ठन् । २ विष्णौ ।
सत्त्वगुणेन तत्कार्य्येण मनसा वा निर्वृत्तः ठञ् ।
३ सत्त्वगुणजाते ४ सत्त्वप्रधानमनोविशेषजाते च । ५ शृङ्गा-
रादिरसानुगुणे भावभेदे सा० द०
“उक्ताः स्त्रीणामलङ्कारा अङ्गजाश्च स्वभावजाः । तद्रूपाः
सात्त्विका भावास्तथा चेष्टाः परा अपि । विकाराः सत्त्व-
सम्भूताः सात्त्विकाः परिकीर्त्तिताः । सत्त्वमात्रोद्भवत्वात्ते
भिन्ना अप्यनुभावतः । स्तम्भः स्वेदोऽथ रोमाञ्चः स्वर-
भङ्गोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विका
स्मृताः” । एतेषां लक्षणानि तत्तच्छब्दे दृश्यानि ।
स्त्रीणां यौवने सत्त्वजाते ६ अलङ्कारभेदे सा० द० “यौवने
सत्त्वजास्तासामष्टाविंशतिसंख्यकाः” । अलङ्कारशब्दे ४०८
पृ० दृश्यम् । ७ सत्त्वप्रधाने त्रि० । ८ देवीपूजाभेदे स्त्री
“शारदी चण्डिकापूजा त्र्विधा परिकीर्त्तिता । सात्त्विको
राजसी चैव तामसी चति तां शृणु । सात्त्विको
जपयज्ञैश्च नैवेद्यैश्च निरामिषैः” ति० त० । ९ भावभेदे पु०
“सत्त्वोत्कटे मनसि ये प्रभवन्ति भावास्ते सात्त्विका इति
विदुर्मुनिपुङ्गवास्तु” सर्वान० । १० सत्त्वप्रधाने पुराण-
भेदे “वैष्णवं नारदीयञ्च तथा भागवतं शुभम् । गारु-
डञ्च तथा पाद्मं वाराहं शुभदर्शने! । सात्त्विकानि पुरा-
णानि विज्ञेयानि शुभानि वै । सात्विकेषु पुराणेषु
विष्णुमाहात्म्यवर्णनम्” उपपुराणशब्दे दृश्यम् ।
११ स्मृतिभेदे स्त्री “वासिष्ठं चैव हारीतं व्यासं पारा-
शरं तथा । भारद्वाजं काश्यपञ्च सात्त्विक्यो मुक्तिदाः
शुभाः” पद्मपु० उत्त० ४३ अ० । १२ दुर्गायां स्त्री ङीप् ।
१३ गीतोक्तेषु श्रद्धादिभेदेषु यथायथं त्रि० यथा
“सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत! । श्रद्धाम
योऽयं पुरुषो यो यच्छ्रद्धः स एव सः । यजन्ते सात्त्विका
देवान्” (श्रद्धा) “आहारस्त्वपि सर्वस्य त्रिविधो भवति
प्रियः । यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु” इत्यु-
पक्रमे “आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्द्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विक
प्रियाः” (आहारः) “अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो
य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः”
(यज्ञः) “श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ।
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते” (कायिकादि
त्रिविधं तपः) “दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च तद्दानं सात्त्विकं मतम्” (दानम्)
“सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं
विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्” (ज्ञानम्) “नियतं
सङ्गरहितमरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म
यत्तत् सात्त्विकमुच्यते” (कर्म) “मुक्तसङ्गोऽनहंवादी
धृत्युत्साहसमन्वितः । सिद्ध्यसिद्ध्योर्निर्विकारः कर्त्ता सा
त्त्विक उच्यते” (कर्त्ता) “प्रवृत्तिं च निवृत्तिं च कार्य्या-
कार्य्ये भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा
पार्थ! सात्त्विकी” (बुद्धिः) “धृत्या यया धारयते मनः
प्राणेन्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिः सा
पार्थ! सात्त्विकी” (धृतिः) “यत्तदग्रे विषमिव परिणाभे-
ऽमृतोपमम् । तत् सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम्”
(सुखम्) “कार्य्यमित्येव यत् कर्म नियत कुरुतेऽर्जुन! ।
सङ्गं त्यक्त्वाफलं चैव स त्यागः सात्त्विको मतः” (त्यागः) ।
तत्र सात्त्विकाहारस्य चित्तशुद्धौ हेतुत्वं छान्दो० उक्तं
यथा “आहारशुद्धौ सतवशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः” ।
सत्त्वं मनः । “अन्नमयं हि सौम्य! मनः इत्यादिना” तस्य
पृष्ठ ५२७६
अन्नमयत्वस्य तत्रोक्तेस्तथात्वम् । साख्यमतासद्धे सत्त्वप्रधाने
१४ महत्तत्तवे १५ अहङ्कारतत्तवे च “सात्तिवकी राजस-
श्चैव तामसश्च त्रिधा महान्” सां० प्र० धृतवाक्यम् ।
“सात्त्विकमेकादशकं प्रवर्त्तते वैकृतादहङ्कारात्” सां० सू०
एकादशानां पूरणमेकादशकं मनः षोडशात्मगणमध्ये
सात्तिवकम् । अतस्तद्वैकृतात् सात्तिवकाहङ्काराज्जायत
इत्यर्थः । “वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ।
अहन्तत्तवाद्विकुर्वाणान्मनो वेकारिकादभूत् । वैकारिकाश्च ये
देवा अर्थाभिव्यञ्जनं यतः” सा० प्र० ध० वाक्यम् । १६ अध्यव-
सायादौ च “अध्यवसायो बुद्धिर्धमो ज्ञानं विराग ऐश्व-
र्य्यम् । सात्तिवकमेतद्रूपं तामसमस्माद्विपर्य्यस्तम्” सां० का० ।
“सात्त्विक एकादशकः प्रवर्त्तते वैकृतादहङ्कारात् । भूतादे-
स्तन्मात्रः स तामसस्तैजसादुभयम्” सां० का० “प्रका-
शलाघवाभ्यामेकादशक इन्द्रियगणः सात्त्विको वैकृतात्
सात्तिवकादहङ्कारात् प्रवर्त्तते” तत्तवकौ० ।

सादनी स्त्री साद्यन्ते रोगा अनया सद--णिच्--करणे ल्युट्-

ङीप् । कटुक्यां राजनि० ।

सादि पु० सद--इण् । १ सारथौ हेमच० २ योद्धरि उणादि०

३ अवसन्ने त्रि० ४ वायौ पु० संक्षिप्तसारः ।

सादिन् पु० सद--णिनि । १ अश्वारोहणकर्त्तरि अमरः ।

२ गजारोहिणि ३ रथारोहिणि च मेदि० । ४ अवसन्ने
त्रि० स्त्रियां ङीप् ।

सादृश्य न० सदृशस्य भावः ष्यञ् । तद्भिन्नत्वे सति तद्गत-

भूयोधर्मरूपे उपमानधर्मे । तच्च सादृश्यं सप्तपदार्थाति-
रिक्तः पदार्थ इति मीमांसकाः । तन्मतमुक्तं मुक्तावल्यां
“सादृश्यमतिरिक्तः पदार्थ इति मीमांसकाः” । तन्मतञ्च
उपमानचिन्तामणौ निराकृतम् उपमानशब्दे १२३५
दृश्यम् । सादृश्यवाचका इवादिनिपाताः पदृशादि
शब्दाश्च तत्र इवादिभिः निपातैः सादृश्यस्याभिधाने प्रति-
योग्यनुयोगिनोः समानविभक्तिकत्वं, गौरिव गवय चन्द्र-
मिव मुखं वश्यतीत्यादि । अन्ये तु गवादिशब्दा एव
गोसदृशे लाक्षणिकाः इवादिशब्दास्तथालक्षणायां तत्प-
र्य्यग्राहका इत्याहुः तुलोपमाभिन्ननाम्ना तस्याभिधाने
प्रतियीगिनि तृतीया षष्ठी च । तुलोपमाभ्यां योगे तु
षष्ठ्येव । सादृश्ये च एकस्य प्रतियोगिताऽन्यस्तानुयोगिता तत्र
प्रतियोगिन उपमानत्वमनुयोगिन उपमेयत्वमिति ।
उपमानोपमेयभावस्य द्वयोः सम्भवेऽपि प्रसिद्धस्येवोप्रमानता ।
तत्र काव्ये केषाद्विस्तूनां कुत्रचिदुपमानतया वर्णनं युक्तं
तन्निर्णीतं कविकल्पलतार्या यथा “वेण्याः सर्पादिभृङ्गाल्यः
केशषाशस्य चामरः । नीलण्ठकलापोऽपि, धम्मिल्लस्य
विधुन्तुदः । सीमन्तस्य चाध्वदण्डौ ललाटस्वाष्टमी विधुः ।
मकरश्च, कपोलस्य चन्द्रः स्यात् मुकुरः स्थली । भ्रुवोः
खड्गधनुर्यष्टी रेस्वापल्लवल्लयः । दृशश्चकोरहरिणमदिरा-
खञ्जनाञ्जनम् । कुमुदं नीलमग्भाजं, श्रुतेर्दीपः सपाशकः ।
नासायाः स्युस्तु वंशाधोमुखतूणीरचञ्चवः । तिलप्र-
सूनदण्डौ चाधरस्य नवपल्लवः । विम्बीफलं प्रवालं
च, दन्तानां मौक्तिक्वावलिः । कुन्ददाड़िमवीजानि
हीरकाश्च, स्मितस्य च । ज्योत्स्ना पुष्पाणि पीयूषं,
श्वासस्याम्भोजसौरभम् । जिह्वायाश्चौड्रलोले च वाण्या
भृङ्गापकध्वनी । वीणावाद्यं मधु सुधा, मुखस्य चन्द्रमा-
स्तथा । अम्भोजदर्पणौ चापि चिवुके दर्पणाग्रकम् ।
कण्ठस्य कम्बूरसस्य कुम्भो वाह्वोस्तु वल्लरी । मृणा-
ललहरीशाखापाशाः, पाणितलस्य तु । पल्लवश्चाङ्गु-
लीनां तु पल्लवीऽम्भोजपत्रकम् । दीपो नवदलं चैव
चम्बकं, नखसन्ततेः । रत्नतारेन्दुपुष्पाणि, स्तनयोः
कुद्मलौ घटौ । कुम्भिकुम्भौ गिरी चक्रौ बिल्वे, मध्यस्य
वेदिका । सिंहमध्यं वज्रमध्यं क्षीणद्रव्यञ्च कथ्यते ।
उपमानानि रोमाल्याः रेखाशेवालवल्लयः । नीलकान्त-
मणीधूमलताद्विरदशुण्डकाः । नाभेरम्भोजमावर्त्तो ह्रदो
विवरकूपकौ । त्रिबल्या वीचिसोपाननिःश्रेण्यो, जघनस्य
तु । पुलिनं पीठफलके, नितम्बस्य स्थलं पुनः । पर्वतः
पृथिवी स्थूलोपलं वस्तु च यन्महत् । ऊर्वोः
कदलिकास्तम्भेभकरो करभस्तथा । जङ्घाद्वयस्य स्तम्भश्च
पादस्य नवपल्लवः । अम्भोजं च गतेर्हंसखञ्जनद्विदतां
गतिः । इमान्यन्यान्यपि स्त्रीणां पुंसामपि
समानि तु । पु सो रूपोपमानानां विशेषः कोऽपि कथ्यते ।
स्कन्धस्य वाजिवृषभस्कन्धौ बाह्वोर हीश्वरः । हस्तिहस्त-
स्तथा स्तम्भार्गलदण्डाश्च, वक्षसः । शिलापट्टकपाटे च
प्रमत्ताक्षगतिर्गतेः । यशसः कुन्दचन्द्राद्याः शुभ्रव-
र्णास्तथा मताः । प्रतापस्याग्निसूर्य्यौ च वाड़वाग्नी
रषेः करः । जवापुष्पादयश्चैव रक्तवर्णपदार्थकाः । पुण्यस्य
गौर्वृक्षवीजं सस्कारोऽङ्कुर एव च । शुक्लवर्णाः पदाथां
वे तेऽप्यत्र परिकीर्त्तिताः । सामर्थ्यस्य महद्वस्तु पञ्चास्य-
विक्रमादिकम् । नीतेर्लतादिः साध्वीस्त्री ज्वाला दीपस्य
कीर्त्तिता । आदेशस्योत्कटेच्छादिर्वेदवाक्यं गुरोर्वचः ।
शासनस्य स्थिरार्थाश्च प्रारन्धकर्म कीर्त्तितम् । पापस्य
पृष्ठ ५२७७
कर्दमोऽकीर्त्तिः कलङ्कः कृष्णवर्णकः । अन्धकारः
केशमसोप्रगृतिश्चोपमानकम् । अकीत्तेः कृष्णवस्तूनि
मालिन्यं तमसां ततिः । कस्तूरिकाया भ्रमरो नीलकान्त
मणिर्घनः । सुगन्धिद्रव्यदाहोत्थधूमः कज्जलकं तथा ।
कृष्णपुष्पप्रभृतयः कामाकीर्त्तिः स्थलान्तरे । कामिनोरय-
शस्तद्वत् कज्जलस्यापि तानि च । कर्पूरस्य तथा चन्द्रः
शशाङ्काकरणस्तथा । यूथिकाकुन्दकुसुमं विरहिगण्ड-
कस्तथा । हिण्डीरपिण्डः प्रथित उपमानतया भवि ।
मनोरथस्य विज्ञेयः फलपुष्पादियुक्तरुः । कविबुद्धि-
कल्पना स्यादानन्दस्य सुधार्णवः । ब्रह्मसाक्ष त्कृति-
स्तद्वत्, कमिनीदर्शनस्य तु । अतिप्रियतमप्राप्तिर्ब्रह्म-
साक्षात्कृतिस्तथा । सुधारसो नित्यसुखसाक्षात्कार-
स्तथा मतः । पूर्णचन्द्रादिकस्यापि साक्षात्कारः प्रकी-
र्त्तितः । अमृतस्य तु सत्काव्यं कामिन्यधरपानकम् ।
व्रह्मसाक्षात्कृतिस्तद्वत्, विषस्याघ प्रकीर्त्यते । साध्वीस्त्री
विरहः पापं मलिनं दुःखदं च यत् । ग्रीष्माग्निः
शीतकालीनशीतोदं परिकीर्त्तितम् । व्यभिचारिणी च
या नारी सापि तद्वत् प्रकीर्त्तिता । विरहस्याग्निरा-
धिश्च यातना च प्रयोनिधिः । दु खदानि च वस्तूनि
तप्तानि कथितानि च । पुष्पाणां कामिनी चन्द्रः
कर्पूरञ्च यशस्तशा । चन्द्रस्य प्रमदावक्त्रमतिशुभ्रञ्च
यद्भवेत् । यशः पुण्यादिकं वस्तु चोपमानतयेष्यते ।
सूर्य्यस्य शिवनेत्राग्निः काञ्चनक्ष्मारुहस्तथा । बाड़-
बाग्निर्जवापुष्पं वसन्तोत्थपलाशकः । पद्मस्य कामिनी-
वक्त्वं पाटल रक्तवस्तु च । इन्दीवरस्य कस्तूरी
नीलकान्तमणिस्तथा । कामिनीनयनं तद्वत् कैरवस्य तु
चन्द्रमाः । कुन्दादिपुष्पमन्यच्च शुभ्रवर्णञ्च यद्भवेत् ।
राज्ञ इन्द्रः कुवेरश्च चन्द्रमा भास्करस्तथा । नलप्रभृ-
तयो ये तु प्रसिद्धाश्चक्रवर्त्तिनः । मेघंस्य काली कृष्णश्च
नीलपाथोजसंहतिः । इन्दीवरं वनं दाता कृष्णार्थो
भ्रमरावली । शरन्मेधस्य चन्द्रादिशुक्लवर्णपदार्थकाः ।
कन्दर्पस्य नलश्चन्द्र आश्विनौ च पुरूरवाः । दीपस्यर्षिश्च-
म्पकञ्च प्रतापः शास्त्रकं तथा । वायोः शीघ्रगवस्तूनि
कीर्त्तितानि पुरातनैः । अश्वस्य वायुर्हरिणो मनश्च,
हस्तिनो गिरिः । मेधस्तमालवृक्षश्च तमसाञ्च समुचयः ।
सौधस्योच्चैःश्रवाश्चन्द्रः कैलासैरावतौ मतौ । शिवस्य
सौधवत् सर्वं कृष्णस्य सजली घनः तमालवृक्षो
भ्रमरश्रेणीन्दीवरकं नभः । नीलकान्तमणिर्नीलपद्मं
रामस्य पूर्ववत् । नवदूर्वादलं वृक्षपल्लवं चाधिकम् पुनः ।
लक्ष्म्यास्तु पार्वती चन्द्रकान्तिः सीता रतिस्तथा । द्रौपदी
पद्मकान्तिश्च पुराणैः परिकीर्त्तिता । सरस्वत्याश्चन्द्र-
कला कैलासाचलकान्तयः । शुक्लवर्णपदार्थाश्च,
विपणेस्तु समुद्रकः । ब्रह्माण्डं पण्डितमनस्तथा नारायणो-
दरम् । समुद्रस्य च मेघादि वस्तु कृष्णं च यद्भवेत् ।
विदूरक्ष्मा भारतञ्च तथापस्मारिरोगवान् । पुरस्य
स्वर्गः कैलासो यत् वृहत् स्यात् मनोरमम् । रथस्य
पृथ्वी वैकुण्ठपुरी पोतश्च पुष्पकम् । कामिन्यास्तु
तड़ित्तारा स्वर्णवर्णा च केतकी । उपमानतया स्वर्ण-
लतापि परिकीर्त्तिता । नायकस्य तु कन्दर्प ऐलश्चन्द्री-
ऽश्विनौ तथा । सभायास्तु सुधर्मा स्यात् गङ्गा सूर्य्यस्य
मण्डलम् । गण्डकी पर्वती मेरुरुपमानतया मतः ।
पण्डितस्य सुराचार्य्य ऋषिः शुक्रः सरस्वती । श्रीरा-
मस्तु विरहिणः शिवोऽजो दुःखितो जनः । उन्मत्त-
श्चन्दनतरुः शिवशेखरचन्द्रमाः । बाड़वाग्नियुताब्धिश्च
वल्मीकोऽद्रीन्दुशेखरः । दातुः कर्णः कल्पवृक्षः
कामधेनुरुशीनरः । रोहणोऽब्धिरव्दवली जैमिनिश्च युधि-
ष्ठिरः । वसन्तर्त्तोर्मतं मद्यमुन्मादो मलयानिलः ।
यमोऽग्निर्विषसर्पौ च स स्यात् विरहिणं प्रति । ग्रीष्मर्त्तोर-
ग्निर्विरहोऽहिनिश्वासस्तथा पुनः । विरहिण्याश्च
निश्वास उपमानतया मतः । वर्षर्त्तोरजनी व्योम नारा-
यणसमुद्रकाः । शरदः काशपुष्पादिरूपशीतांशुचामाराः ।
सैरावतगजा ज्ञेया उपमानतया बुधैः । शीतर्त्तोरुप
मानं स्यात् राज्यशून्यस्तु भूपतिः । तथापस्माररोगाद्या
विद्वद्भिः परिकीर्त्तितः । शिशिरर्त्तोस्तु गुणिनः
समुद्रोऽद्रिर्धराश्विनौ । राजागभनकालश्च मदनोऽपि
मतो विदाम् । सचिवस्योपमानं तु सुराचार्य्यः प्रकी-
र्त्तितः” ।

साधक त्रि० साध--ण्वुल्, सिध्--णिच्--ण्वुल् साधादेशः वा ।

१ साधनकर्त्तरि २ कारके तन्त्रोक्ते ३ मन्त्रादिसिद्धिकारके
शिष्ये च “साधकः सिद्धिमाप्नुयात्” इति तन्त्रम् ।
स्त्रियां टाप् अत इत्त्वम् । साधिका सा च ४ दुर्गायां
“साधनात् सिद्धिरित्युक्ता साधिका वाऽथ ईश्वरी”
देवीपु० ४५ अ० । ५ जन्मतारावधिकेषु षष्ठपञ्चदशचतु-
र्विंशनक्षत्रेषु पु० “जन्मसम्पद्विपत् क्षेम प्रत्यरिः
साधकी बधः । मित्रं परममित्रञ्च जन्मर्क्षात् गणयेत्
त्रिधा” ज्यो० त० । ६ अनुमापके त्रि० ।
पृष्ठ ५२७८

साधकतम न० अतिशयेन साधक तमप् “साधकतमं करणम्”

पा० परिभाषिते करणे कासकभेदे ।

साधन न० सिध--णिच्--साधादेशे यथायथं करणे भावे

ल्युट् कर्त्तरि ल्यु वा । १ करणरूपे कारकभेदे २ मारणे
३ मृतसंस्कारे अग्निदाने ४ गतौ ५ द्रव्ये ६ धने ७ अर्थदापने
८निष्पादने ९ उपकरणे १० हस्त्यश्वादियुद्धसामग्र्याम्
११ अनुगमने अमरः । १२ सैन्ये १३ उपाये १४ सिद्धौषधे
१५मेढ्रे मेदि० १६मैत्रे १७ ऊधसि १८ मिद्धौ धरणिः ।
१९कारके २० प्रमाणे हेमच० । २१ व्याप्ये त्रिका० । २२
मोहने २३ जवे अजयः २४ ब्रह्मविद्याहेतौ नित्यानित्य
वस्तुविवेकवैराग्यशमादिषट्कमोक्षेच्छाचतुष्टयें च । युच् ।
साधनाऽपि उपासनायां निष्पादनायाञ्च स्त्री ।

साधनाप्रसिद्धि स्त्री हेतुदोषभेदे सा च साधने साधनता

वच्छेदकधर्माभावरूपा यथा “पर्वतो वह्निमान् काञ्चन-
धूमादित्यादौ धूमनिष्ठः काञ्चनत्वाभावः साधनाप्रसिद्धिः ।

साधर्म्य न० सधर्मस्य समानधर्मस्य भावः ष्यञ् । १ स्वकीय-

साधारणधर्मरूपे लक्षणे २ अनुगतधर्मे “यदुक्तं यस्य
साधर्म्यम्” भाषा० । समानो धर्मो यस्य तस्य भावः
ष्यञ् । ३ समानधर्मे यथा प्रद्ममिव सुन्दरं सुखमित्यादौ
मौन्दर्य्यमुभयोः समानधर्मः ।

साधर्म्यसम पु० साधर्म्येण समः । स्थापनाहेतुदूषके जात्यु-

त्तरभेदे “साधर्म्येणोपसंहारे तद्धर्मविपर्य्ययोपपत्तेः
साधर्म्यसमः” गौ० “वादिनाऽन्वयेन व्यतिरेकेण वा साध्ये
साधिते प्रतिवादिना साधर्म्यमात्रप्रवृत्तहेतुना तदभावस्या
पादनम् यथा शब्दोऽनित्यः कृतकत्वाद् घटवत् व्यतिरे-
केण वा व्योग्रवदित्युपसंहृते नैतदेवं यद्यनित्यघटसाधर्म्यात्
नित्याकाशवैधर्म्याद्वाऽनित्यः स्यात् नित्याकाशसाधर्म्याद-
मूर्त्तत्वात् नित्यः स्यात् विशेषो वा वक्तव्यः” वृत्तिः भाष्ये तु
निदर्शनान्तरमुक्त्वा व्याख्यातं यथा “क्रिथावानात्मा द्रव्यस्य
क्रियाहेतुगुणयोगात् द्रव्यं लोष्टः क्रियाहेतुगुणयुक्तः
क्रियावान् तथा चात्मा तस्मात् क्रियावानिति एवमुप-
संहृते परः साधर्म्येणैव प्रत्यवतिष्ठते । निष्क्रिय आत्मा
विभुनो द्रव्यस्य निष्क्रियत्वात् विभु चाकाशं निष्क्रियं च
तथा चात्मा तस्मान्निष्क्रिय इति न चास्ति विशेषहेतुः
क्रियावत्साघर्म्यात् क्रियावता भवितव्यं न पुनरक्रिय-
साधर्म्यात् निष्क्रियेणेति विशेषहेत्वभावात् साधर्म्यसमः
प्रतिषेधो भवति” ।

साधारण त्रि० सह धारणया स्वार्थेऽण् । १ सदृशे अमरः ।

२ अनेकस्वत्ववत्येकस्मिन् ३ धने “साधारणं समाश्रित्य
यत्किञ्चिद्वाहनादिकम्” स्मृतिः । स्त्रियां गौरा० ङीष् ।
सा च ३ कुञ्चिकायां ४ वेश्यादिनायिकायाञ्च “यः सपक्षे
विपक्षे च भवेत् साधारणस्तु सः” भाषा० उक्ते ५
हेत्वाभासभेदे पु० । यथा वह्निमान् द्रव्यत्वादित्यादौ द्रव्य-
त्वहेतुः सपक्षे पर्वते विपक्षे ह्रदादौ च वर्त्तते इति
साधारणः । स चानैकान्तिकभेदः “आद्यःसाधारणस्तुः
स्यादन्योऽसाधारणो मतः । तथैवानुपसंहारी त्रिधा-
ऽनैकान्तिको मतः” भाषा० ।

साधारणधर्म्म पु० कर्म० । “अहिम्सा सत्यमस्तेयं शौचमि-

न्द्रियनिग्रहः । दमः क्षमार्ज्जवं दानं धर्मं साधारणं
विदुः” इत्युक्ते अहिंसादौ सर्ववर्णाश्रमतल्ये १ धर्मे ।
न्यायाद्युक्ते २ संशयहेतौ समानधर्मे च तथाहि रङ्गं
रजतं नवेति संशये रङ्गरजतयोः सामिन्यधर्मश्चाकचिक्य-
शुभ्रत्वादिर्हतुः । ३ प्रजासर्जनरूपे जन्तुमात्रधर्मे च “प्रज-
नार्थं स्त्रियः सृष्टाः सन्तानार्थञ्च मानवाः । तस्मात्
साधारणोधर्मः श्रुतौ पत्न्या सहोदितः” मनुः । स च
धर्मः सर्वेषां जन्त नां साधारण इति मानवा इत्युप-
लक्षणम् ।

साधारणस्त्री स्त्री कर्म० । वेश्यायां हेमच० । सा च

नायिकाभेदः । “अथ नायिका त्रिविधा स्वाऽन्या साधा-
रणस्त्रीति” सा० द० नायिकाशब्दे ४०४२ पृ० तल्लक्षणं
दृश्यम् । सामान्यस्त्रीप्रभृतयोऽप्यत्र ।

साधारणी स्त्री साधयति साधा अरणीव । १ कुञ्जिकायां

हेमच० साधारणस्वत्वास्पदे स्त्रीप्रभृती स्त्री ङीष् स्वार्थे
ष्यञ् । साधारण्य कुञ्जिकार्या न० । भावे ष्यञ् ।
साधर्मन्यधर्मे च ।

साधिका स्त्री साधयति गमयति सर्वोपशमम् गम--णिच्-

साधादेशः ण्वुल् । १ सुपुप्तो हेमच० । सिध--णिच् ण्वुल् ।
२ कार्य्यसाधिकायां स्त्रियाञ्च ।

साधित त्रि० सिध--णिच्--क्त । १ दापिते अमरः २ प्रमाणा-

दिना उद्भाविते च “साधितात् दशकं शतमि” तिः स्मृतिः
३निष्पादिते ४ शोधिते च ।

साधिदैव त्रि० सह अधिदेवेन स्वार्थे अण् द्विपदवृद्धिः ।

अधिदेवतासहिते । साधिभूतसाधियज्ञावपि परमेश्वरे ।

साधिष्ठ त्रि० अतिशयेन साधुः वाढो वा इष्ठन् साधादेशः

टिलोपो वा । १ अत्यन्तदृढ़े अमरः २ अतिसाधो ३
अतिशोभने च । ४ अत्यार्य्ये मेदि० ५ न्याय्ये हेमच० ।
पृष्ठ ५२७९

साधिष्ठान त्रि० सह अधिष्ठानेन । १ सन्निहिते तन्त्रोक्ते

षट्चक्रमध्ये सुषुम्णामध्यस्थे चक्रभेदे न० चक्रशब्दे
२८०८ पृ० दृश्यम् ।

साधीयस् त्रि० अतिशयेन साधुः वाढ़ो वा टिलोपः साधा-

देशा वा । १ साधुतरे च २ अत्यन्तदृढ़े अमरः । ३ न्याय्ये
हेमच० स्त्रियां ङीप् ।

साधु त्रि० साध--उन् । १ उत्तमकुलजाते अमरः । २ सुन्दरे

३ उचिते च । स्त्रियां वा ङीप् । ४ मुनौ ५ जिने च पु०
हेमच० “न प्रहृष्यति सम्माने नापमाने च कुप्यति ।
न क्रुद्धः पुरुष ब्रूयादेतद्धि साधुलक्षणम्” गरुड़पु०
उक्तधर्मयुते ६ जने ७ बार्द्धुषिके ८ मनोहरे मेदि० । साधु
लक्षणान्तरं यथा “यथालब्धेऽपि सन्तुष्टः समचित्तो जिते-
न्द्रियः । हरिपादाश्रयो लोके विप्रः साधुरनिन्दकः ।
निर्वैरः सदयः शान्तो दम्भाहङ्कारवर्जितः । निरपेक्षो
मुनिर्वीतरागः साधुरिहोच्यते । लोभमोहमदक्रोधकामादि-
रहितः सुखी । कृष्णाङ्घ्रिशरणः साधुः सहिष्णुः
समदर्शनः” पद्मात्त० ख० ९९ अ० “त्यक्तात्मसुखभोगेच्छः सर्वस-
त्वसुखैषिणः । भवन्ति परदुःखेन साधवो नित्यदुःखिताः ।
परदुःखातुरा नित्यं स्वसुखानि महान्त्यपि । नापेक्षन्ते
महात्मनः सर्वभूतहिते रताः । परार्थमुद्यताः सन्तः
सन्तः किं किं न कुर्वते । तादृगप्यम्बुधेर्वारि जलदैस्तत्
प्रदीयते । एक एव सतां मार्गो यदङ्गीकृतपालनम् ।
दहन्तमकरोत् क्राड़े पावकं यदपांपतिः । षात्मानं
षीड़यित्वापि साधुः सुखयते परम् । ह्लादयन्नाश्रितान्
वृक्षो दुःखञ्च सहते स्त्रयम्” वह्निपु० ।
९ व्याकरणव्यङ्ग्यसाधुताजात्याश्रये शब्दे “अनपभ्रंशताऽ-
नादिर्यद्वाऽभ्युदययोग्यता । व्याक्रियाव्यञ्जनीया वा
जातिः कापीह साधुता” हरिः । तथा च अपभ्रंश-
भिन्नत्वमनादित्वम् अभ्युदयसाधनप्रयोगबिषत्वं व्याक-
रणव्यङ्ग्यजातिर्वा साधुता इति तदर्थः । स च ईश्वरसङ्के-
ताश्रयः शब्द इति नैयायिकाः । तथा च यः शब्दो यस्मि-
न्नर्थे ईश्वरेण सङ्केतितः स शब्दस्तदर्थे साधुः । वैयाकरण-
मते यः शब्दः यस्मिन्नर्थे व्याकरणे व्युत्पादितः स शब्दस्तत्र
साधुः यथा “कर्मणि द्वितीया” पा० द्वितीया कर्मार्थे साधुः ।

साधुज त्रि० साधौ सत्कुले जायते जन--ड । उत्तमकुलो-

द्भवे शब्दर० ।

साधुधी स्त्री ६ ब० । १ श्वश्रां हारा० । २ सुन्दरबुद्धियुते

त्रि० । कर्म० । ३ साधुबुद्धौ स्त्री ।

साधुपुष्प न० साधु पुष्पं यस्य । १ स्थलपद्मे शब्दमा० । कर्म० । २ उत्तमकुसुमे ।

साधुवाह पु० कर्म० । विनीते सुशिक्षिते घोटके हेमच० ।

साधुवाहिन् पु० साधु यथा तथा वहति णिनि । १ विनी-

तेऽश्वे अमरः २ सुन्दरवहनकर्त्तरि त्रि० ।

साधुवृक्ष पु० नित्यकर्म० । १ कदम्बवृक्षे शब्दमा० । २ बरुण-

वृक्षे राजनि० । ३ शोभनवृक्षमात्रे च ।

साधृत न० सहाधृतेन सहस्य सः । १ आशुपत्त्रे २ मयूर-

समूहे ३ पर्णबीथ्याञ्च अजयः ।

साध्य पु० सिध--णिच्--यत् । “मनोमन्ता तथा प्राणो

भरोऽपानश्च वीर्य्यवान् । निर्मयो नरकश्चैव दंशो नारायणो
वृषः । प्रभुश्चेति समाख्याताः साध्या द्वादश देवताः”
इत्युक्ते द्वादशसंख्यके १ गणदेवताभेदे ज्यो० उक्ते विष्क-
म्भादिषु योगेषु २ एकविशे योगे च । ३ साधनीये त्रि०
मेदि० । ३ अष्टादशविवादेषु प्रमाणादिना उद्भाव्ये
पदार्थे “प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् ।
निश्चितं लोकसिद्धञ्च पक्षं पक्षविदोविदुः” इत्युक्ते व्यव-
हारे साधनार्हे प्रतिज्ञेये ४ पक्षे पु० “ऋणादिषु विवादेषु
स्थिरप्रायेषु निश्चितम् । उने वाप्यधिके चार्थे प्रोक्ते
साध्यं न सिध्यति” कात्या० । ५ अनुमित्या
साधनीये वह्न्यादौ च यथा वह्निमान् धूमादित्यादौ सिषा-
धयिषितो वह्निः साध्यः । साध्यमस्यास्ति अर्श आद्यच् ।
६ साध्यवति पक्षे पु० “साध्यनिर्देशः प्रतिज्ञे” ति गौ०
सूत्रम् । साध्यवत्तया पक्षनिर्देश इति दीधितिकारः
तन्त्रोक्ते ७ मन्त्रमात्रे ग्राह्यमन्त्रस्य स्वानुकूलताग्राहके
३८ पृ० उक्ते अकथहचक्रस्थे द्वितीयपञ्चमादिकोष्ठस्थाद्यक्ष-
रके “सिद्धः साध्यः सुसिद्धोऽरिः क्रमात् ज्ञेया मनीषिभिः”
इत्युक्ते ८ मन्त्रभेदे । १० देवमात्रे मेदि० । व्याकरणोक्ते
लिङ्गसंख्यानन्वयिक्रियाभेदे क्रियाशब्दे २३१७ पृ० दृश्यम् ।
“साध्यरूपा क्रिया तत्र धातुरूपनिबन्धना” हरिः ।
“साध्यस्य साधनाकाङ्क्षा” हरिः ।

साध्यता स्त्री साध्यस्यानुमितिविधेयस्य भावः तल् ।

अनुमितिविधेयतारूपे न्यायोक्ते १ विषताभेदे । २ इच्छाविषय-
ताभेदे च । यथा घटोजायतामित्यत्र घटीया साध्य-
ताख्या विषयता ।

साध्यताघटकसम्बन्ध पु० ६ त० । कर्म० । येन सन्धेन--साध्यस्य

अनुमेयता तादृशे सम्बन्धे यथा पर्बतः संयोगेन वह्नि-
माम धूमात् इत्यादौ संयोगः ।
पृष्ठ ५२८०

साध्यतावच्छेदक पु० साध्यतामवच्छिनत्ति विशेषयति अव +

छिद--ण्वुल् । येन रूपेण सम्बन्धेन वा यस्य साध्यतारूपा
विषयता । तस्मिन् १ सम्बन्धे २ धर्मे । यथा वह्निवान्
धूमादित्यत्र वह्निः साध्यः तस्य साध्यतां वह्नित्वमवच्छिन-
त्तीति वह्नित्वं साध्यतावच्छेदकम् । एवं संयोग-
सम्बन्धोऽपि ।

साध्यसम पु० १ हेत्वाभासभेदे “साध्याविशिष्टः साध्यत्वात्

साध्यसमः” गौ० सू० “द्रव्यं छायेति साध्यम् । गतिमत्त्वा-
दिति हेतुः । साध्येनाविशिष्टः साधनीयत्वात् साध्य-
समः । अयमप्यसिद्धत्वात् साध्यवत् प्रतिज्ञापयितव्यः ।
साध्यं तावदेतत् किं पुरुषवच्छायापि गच्छति? आहो
स्विदावरकद्रव्ये संसर्पत्यावरणसंतानादसंनिघिसंतानोऽयं
तेजसो गृह्यत इति? सर्पता खलु द्रव्येण यो यस्ते-
जोभाग आव्रियते तस्य तस्यासंनिधिरेवावच्छिन्नो
गृह्यत इति । आवरणं तु प्राप्तिप्रतिषेधः” वात्स्या०
२ जात्युत्तरभेदे “उभयसाध्यत्वात् साध्यसमः” गौ०
सू० “हेत्वाद्यवयवसामर्थ्ययोगी धर्मः साध्यः । तं
दृष्टान्ते प्रसजतः साध्यसमः । यदि यथा लोष्टस्तथात्मा
प्राप्तस्तर्हि यथात्मा तथा लोष्ट इति । साध्यश्चायमात्मा
क्रियावानिति कामं लोष्टोऽपि साध्यः । अथ नैवम् ।
न तर्हि यथा लोष्टस्तथात्मा” वात्स्या० । तच्च “पक्षदृष्टा
न्वादेः प्रकृतसाध्यतुल्यतापादनम्” गौ० पृ० दृष्टान्तस्य-
पक्षतुल्यताकथनम् । यथा, आत्मा सक्रियः क्रियाहेतु-
गुणवत्त्वादित्यादौ यदि यथा लोष्टस्तथात्मेति त्वयोच्यते
तदा यथात्मा तथा लोष्ट इत्यप्यायातम् । तथा च
यद्यात्मनि क्रियावत्त्वं साव्यते । तर्हि लोष्टेऽपि
तत्साधनीयम् । नेति चेत्तर्हि यथा लोष्टस्तथात्मेति न
वाच्यम । लोष्टसदृश आत्मात्ममदृशो लोष्ट इत्यत्र निया-
मकाभावादिति” नीलकण्ठः ।

साध्यसिद्धि स्त्री साध्यस्य सिद्धिः विनिर्णयः । साध्यस्य

वह्न्यादेः अनुमित्यादिना साधनाधीने १ निर्णये २ तन्नि-
ष्पत्तौ । साध्यस्य प्रतिज्ञेयार्थस्य सिद्धिर्निर्णयो यत्र । व्यव-
हारे प्रतिज्ञातार्थस्य प्राड्विवाकादिभिः विनिर्णयरूपे
३ व्यवहारपादनेदे च ।

साध्याप्रसिद्धि स्त्री ६ त० साध्ये साध्यतावच्छेदकस्याभावरूपे

हेत्वाभामभेदे । यथा पर्वतः काञ्चनमयवह्निमान् धूमा-
दित्यादौ वह्निनिष्ठः काञ्चनमयत्वाभावः माध्याप्रसिद्धिः ।

साध्वस न० साधु + अस्तति अम--अच् । भये अमरः ।

साध्वी स्त्री साधु--ङीप् । १ मेदायां राजनि० “आर्त्तार्त्ते

मुदिता हृष्टे प्रोषिते मलिना कृशा । मृते म्रियेत या
पत्यौ साध्वी ज्ञेया पतिव्रता” उक्तलक्षणायां २ स्त्रियां
तत्रार्थे संज्ञात्वात् न पुंवद्भावः । साधुतायुक्ते ३ स्त्रीमात्रे
च । तत्रार्थे पुंवद्भाव इति भेदः ।

सानन्द त्रि० सह आनन्देन । १ आनन्दसहिते “सानन्दं

नन्दिहस्ताहतमुरजरवाहूत्तकौमारबर्हि” मालतीमा० ।
२ ध्रुवकभेदे “अष्टादशाक्षरैर्युक्तो थशोहर्षप्रदो ध्रुवः ।
कहस्कसंज्ञके ताले सानन्दो वीरके रसे” सङ्गीतदा० ।
३ गुच्छकरञ्जे पु० राजनि० ।

सानन्दूर पु० तीर्थविशेषे “सानन्दूरेति विख्यातं भूमे! गुह्यं

परं मम । उत्तरे तु समुद्रस्य मलयस्य च दक्षिणे । तत्र
तिष्ठाभि वसुधे! उदीचीं दिशमाश्रितः । प्रतिमा वै
मदीयास्ति नात्युच्चा नातिनीचका । आयसीं तां
वदन्त्येके अन्ये ताम्रमयीं तथा । कास्यां रोतिमयीमन्ये
केचित् सीसकनिर्मिताम् । शिलामयीमित्यपरे
महाश्चर्य्यस्वरूपिणीम्” वराहपु० ।

सानसि पु० सन इण् असुक्च । सुवर्णे उणादिकोषः ।

सानिका स्त्री सन--ण्वुल् टापि अत इत्त्वम् । वंश्यां शब्दच०

सानु पुंन० सन--ञुन् । १ पर्वतस्थे समभूमिदेशे प्रस्थे अमरः

२ वने ३ वातसमूहे ४ पथि ५ अग्रे ६ कोविदे ७ अर्के मेदि० ।
८ पल्लवे च जटा० ।

सानुज न० सानौ जायते जन--ड । १ प्रपौण्डरीके राजनि०

२ तुम्बुरुवृक्षे पु० राजनि० । सहानुजेन । ३ अनुजसहिते त्रि०

सानुमत् पु० सानुरस्त्यस्य मतुप् । पर्वते हेमच० ।

सानेयी स्त्री सह आनेयेन स्वरेणंसहस्य सः गौरा० ङीष् ।

वंश्यां शब्दर० । स्वार्थे क ह्रस्वः । सानेयिकाऽप्यत्र ।

सान्तपन न० सन्तापयति सम् + तप० णिच् ल्युट्--स्वार्थेऽण्

सन्तपनाय साधु अण्--वा ।
“गोमूत्रं गोमय क्षीरं दधि सर्पिः कुशोदकम् ।
एकरात्रोपवासश्च कृच्छ्रं सान्तपनं विदुः” मनूक्ते द्व्यह-
साध्ये व्रतभेदे एकदिने गोमूत्रादिषट्कमात्रपानं परदिने
उपवास इति द्व्यहसाध्यताऽस्य ।

सान्तर न० सह अन्तरेण सहस्य सादेशः । १ विरले जटा०

२ व्यवघानसहिते त्रि० ।

सान्त्रानिक त्रि० सन्तानः प्रयोजनमस्य सन्तना० ठक् । सन्तानसाघने विधानभेदे ।

सान्त्व आनुकूल्यकरणे अद० चु० उभ० सक० सेट् । सान्त्व-

यति ते अससान्त्वत् त सान्त्वापयतीत्यन्ये अनेकच्कत्वात्
न षोपदेशः ।
पृष्ठ ५२८१

सान्त्व न० सान्त्व--अच् । १ अत्यर्थमधुरे २ आनुकूल्ये मेदि० ।

३ श्रोत्रमनःप्रीतिदवाक्ये प्रियवाक्यादिना क्रोधोपशमन-
रूपे सामनि च अमरः ।

सान्त्वन न० सान्त्व--ल्युट् । १ आनुकूल्यकरणे प्रियवादा-

दिना क्रोधाद्युपशमने च । युच् । अत्रैव स्त्री ।

सान्दीपनि पु० सन्दीपनस्यापत्यम् । इञ् । रामकृष्णयोरा-

चार्य्ये अवन्तिपुरवासिनि मुनिभेदे ।
“विदिताखिलविज्ञानौ तत्त्वज्ञानमयावपि । शिष्याचार्य्य
क्रमं बीरौ ख्यापयन्तौ यदूत्तमौ । ततः सान्दीपनिं
काश्यमवन्तिपुरवासिनम् । अस्त्रार्थं जग्मतुवींरौ बलदेव
जनार्दनौ” विष्णुपु० ५ अशे २१ अ० ।

सान्द्र त्रि० अदि--रक् सह अन्द्रेण । १ निविड़े अमरः २ मृदौ

मेदि० । ३ स्निग्धे ४ मनीज्ञे शब्दर० । ५ वने न० मेदि० ।

सान्द्रपुष्प पु० सान्द्रं पुष्पमस्य । विभीतकवृक्षे शब्दर० ।

सान्द्रस्निग्ध त्रि० सान्द्रं स्निग्धः । १ अतिहृद्ये शब्दर० ।

२ अतिमनोहरे च ।

सान्धिक पु० सन्धा सुराच्यावनम् शिल्पं वेत्ति ठक् । १

शौण्डिके शब्दमा० । सन्धिः प्रयोजनमस्य ठञ् । २ सन्धि-
कर्त्तरि त्रि० ।

सान्ध्य त्रि० सन्ध्यायां भवः सन्धिवेला० अण् न ठञ् । सन्ध्याकालिके ।

सान्ध्यकुसुमा स्त्री ६ ब० । त्रिसन्धिपुष्पवृक्षे राजनि० ।

सान्नाय्य न० सन्नीयते सम् + नी--ण्यत् नि० । मन्त्रादिना

संस्कार्य्ये घृतादौ अमरः ।

सान्निध्य न० सान्निधिरेव ष्यञ् । नैकट्ये “सान्निध्यमिह कल्पय” आवाहनमन्त्रः ।

सान्निपातिक त्रि० सन्निपातात् त्रिदोषविकारात् आगतः

तेन निर्वृत्तो वा ठञ् । सान्निपाताज्जाते रोगे सन्निपात-
शब्दे ५२१६ पृ० दृश्यम् “विकारे सन्निपातके” कुमारः ।

सान्न्यासिक पु० सन्न्यासः प्रयोजनमस्य ठक् । सन्न्यासिनि हेमच०

सापत्न्य पु० सपत्न एव स्वार्थे ष्यञ् । १ शत्रौ अमरः ।

सपत्न्यां भवः तस्या अपत्यं वा यञ् । १ सपत्नीपुत्रे । अण् ।
सापत्नोऽप्युभयत्र ।

सापिण्ड्य न० सपिण्डस्य भावः ष्यञ् । दायाशौचग्रहणा-

द्युपयोगिनि ज्ञातिधर्मभेदे “सापिण्ड्यं साप्तपौरुषमि” ति
स्मृतिः । सपिण्डशब्दे ५ २२० पृ० दृश्यम् ।

साप्तपदीन न० सप्तभिः पदैः उच्चारितैर्निर्वृत्तम् खञ् ।

सख्ये सौहार्द्दे अमरः “साप्तपदीनं सख्यम्” पा० ।

साप्तपौरुष त्रि० सप्त पुरुषान् व्याप्नोति अण् उभयपद-

वृद्धिः सप्तपुरुषव्यापके ।

साफल्य न० सफलस्य भावः ष्यञ् । सामर्थ्ये सम्पूर्णतायाञ्च

साम सान्त्वने अद० चु० उ० स० सेट् । सामयति ते अससामत् त

अनेकाच्कत्वात् न षोपदेशः ।

सा(षा)म सान्त्वे चु० उभ० सक० सेट् । सामयति अयं षोपदेश

एव न्याय्यः दुर्गादासेन दन्त्यादित्वमस्योक्तमप्रमाणम् ।

सामक पु० साम--ण्वुल् । {??}णे त्रिका० । समकमेव

अण् । २ वृद्धिरहिते मूलमात्रे ऋणे मिता० ।

सामग पु० साम तद्वेदं गायति । सामवेदाध्यायिनि जटा० ।

सामगर्भ पु० साम गर्भे यस्य । विष्णौ शब्दर० ।

सामग्री स्त्री समग्रस्य भावः ष्यञ् स्त्रीत्वपक्षे ङीष् ङीषि

यलोपः । १ समस्ततायाम् । स्त्रोत्वाभावपक्षे सामग्र्य
तत्रार्थे न० । “प्रायेण सामग्य्रविधौ गुणानाम्” कुमारः ।
स्वार्थे ष्यञ् । २ करणसमूहे ३ द्रव्ये च स्त्री ।

सामज पुंस्त्री० साम्नो वेदभेदात् जायते जन--ड । १ गजे ।

स्त्रियां ङीष् । तस्य तज्जन्मकथा पालकाव्ये उक्तं तच्च
सामयोनिशब्दे दृश्यम् । २ सामपाठजे स्वरादौ त्रि० मेदि०

सामञ्जस्य न० समञ्जसस्य भावः ष्यञ् । औचित्ये ।

सामन् न० सो--मनिन् । “अग्ने आया हि” इत्यादिके

१ वेदभेदे तत्रोक्तामृचमधिकृत्य गेये २ गानभेदे “ऋच्यध्यूढं
साम गीयते” छान्दोग्योप० । साम्नो गोनरूपत्वं गानशब्दे
२५७२ पृ० दृश्यम् तद्भेदादिकं वेदगाने ऊहगानादौ
मूलग्रन्थे च दृश्यं सामवेदस्य विभागादि चरणव्यूहे
दृश्यम् । तच्छाखाभेदाः बेदशब्दे ४९३४ पृ० दृश्याः ।
राज्ञां “सामभेदस्तथा दानो दण्डश्चेत्युक्ते ३ उपायभेदे
तस्य विषयादिकं मत्स्यपु० २२१ अ० उक्तं यथा
मत्स्य उवाच “सामभेदस्तथा दानो दण्डश्च मनुजेश्वर! ।
उपेक्षा च तथा माया इन्द्रजालञ्च पार्थिव ।! प्रयोगाः
कथिताः सप्त तन्मे निगदतः शृणु । द्विविधं कथितं
साम तथ्यञ्चातथ्यमेव च । तत्राप्यतथ्यं साधूनामाक्रो-
शायैव जायते । तत्र साधुः प्रयत्नेन सामसाध्यो
नरोत्तम! । महाकुलीना ऋजवो धर्मनित्या जितेन्द्रियाः ।
सामसाध्या न चातथ्यन्तेषु साम प्रयोजयेत् । तथ्यं
साम च कर्त्तव्यं कुलशीलादिवर्णनम् । तथा तदुप-
चाराणां कृतानाञ्चैव वर्णनम् । अनयैव तथा युक्त्या
कृतज्ञाख्यापनं स्वकम् । एवं साम्ना च कर्त्तव्या वशगाः
धर्मतत्पराः । साम्ना यद्यपि रक्षांसि गृह्णन्तीति
पराश्रुतिः । तथाप्येतदसाधूनां प्रयुक्तं नोपकारकम् ।
अतिशङ्कितमित्येवं पुरुषं सामवादिनम् । असाधवो
पृष्ठ ५२८२
विजानन्ति तस्मात्तत्तेषु वर्जयेत् । ये शुद्धवंशा ऋजवः
प्रणीता धर्मे स्थिताः सत्यपरा विनीताः । ते
सामसाध्याः पुरुषाः प्रदिष्टा मानोन्नता ये सततञ्च राजन्” ।
तत्र मित्रादिसामप्रकारः शुक्रनीतिपरिशिष्टे तत्र विशेष-
श्चोक्तो यथा
“त्वत्समस्तु मम नास्ति मित्रे साम इदं स्मृतम् ।
परस्परमनिष्टं न चिन्तनीयं त्वया मया । सुसा-
हाय्यं च कर्त्तव्यं शत्रौ साम प्रकीर्त्तितम्” । विषय-
भेदेनोपायभेदालम्बनं तत्रोक्तं यथा “सर्वोपायै-
स्तथा कुर्य्यान्नीतिज्ञः पृथिवीपतिः । यथा स्वाभ्यधिका
न स्युर्मित्रोदासीनशत्रवः । सामैव प्रथमं श्रेष्ठं दानस्तु
तदनन्तरम् । सर्वदा भेदनं शत्रोर्दण्डनं प्राणसंशये ।
प्रबलेऽरौ सामदानौ साम भेदोऽधिके स्मृतौ । भेददण्डौ
समे कार्य्यौ दण्डः पूज्यः प्रहीणके । मित्रे च
सामदानौ स्तो न क्वचित् भेददण्डने । रिषोः प्रजानां सम्भेदः
पीड़नं स्वजयाय वै । रिपुप्रपीड़िताद्यं च साम्ना दानेन
संग्रहः । स्वप्रजानां न भेदेन नैव दण्डेन पालनम् ।
कुर्वीत सामदानाभ्यां सर्वदा यत्नमास्थितः” ।
४ शत्रुवशीकरणोपायभेदे ५ प्रियवाक्यादिना सान्त्वने च ।
५ पशुबन्धनरज्ज्वां स्त्री ङीप् ।

सामन्त पु० संश्लिष्टोऽन्तः एकदेशो यस्य समन्तस्तस्येश्वरः

अण् । स्वविषयानन्तरवर्त्तिदेशाधिपे १ नृपे अमरः ।
समन्ताद्भवः अण् टिलोपः । २ श्रेष्ठप्रजायाम् (मण्डल)
“यं परम्परया मौलाः सामन्तावा समागतम्” स्मृतिः ।

सामयिक त्रि० समये काले नियमे वा भवः उचितो वा

ठञ् । १ समयभवे २ समयोचिते ३ नियमबद्धे च
“निजधमाविरोधेन यस्तु सामयिको भवेत्” स्मृतिः ।

सामयिकाभाव पु० अत्यन्ताभावे त० दी० । केचित्तु, उत्पा-

दविनाशशीलोऽत्यन्ताभावादतिरिक्त्वोऽयमभाव इत्याहुः ।

सामयोनि पु० साम सामगानं योनिरुत्पत्तिस्थानं यस्य ।

हस्तिनि, तेषाञ्च सामयोनित्वमुक्तं पालकाव्ये “सूर्य्य-
स्याण्डकपाले द्वे समानीय प्रजापतिः । हस्ताभ्यां
परिगृह्याथ सप्त सामान्यगायत । गायतो व्रह्मणस्तस्मात्
समुत्पेतुर्मतङ्गजाः” इति । ६ त० । १ चतुर्मुखेब्रह्मणि स्त्री ।

सामर्थ्य न० समर्थस्य भावः ष्यञ् । १ देहजे बले २ शक्तौ

३ योग्यतायां मेदि० । ४ सङ्गतार्थतायाञ्च । समासशब्दे ५२३२
पृ० दृश्यम् । योग्यता च कार्य्यजनयोग्थत्वं यथा परामर्श-
स्यानुमितियोग्यत्वम् । ५ आकाङ्क्षायोग्यत्वादिमत्त्वे गौ०
वृ० यथा आप्तोक्तस्य वचनस्य । सङ्गतार्थतारूपं च सामर्थ्यं
द्विविधम् व्यपेक्षारूपम् एकार्थीभावश्चेति” वैयाक० ।
तत्राद्यं राज्ञः पुरुष इत्यादिवाक्ये ह्युपयुज्यते । द्वितीजं
राजपुरुष इत्यादि वृत्तावुपयुज्यते” ।

सामवायिक पु० समवाये प्रसृतः ठञ् । १ मन्त्रिणि हेमच०

तस्येदम् ठञ् । २ समवायसम्बन्धिनि त्रि० ।

सामाजिक पु० समाजः सभावेशनं प्रयोजनमस्य । १ सभ्ये

अमरः । २ समाजसम्बन्धिनि त्रि० ।

सामानाधिकरण्य न० समानाधिकरणस्य भावः ष्यञ् ।

१ तदधिकरणवृत्तित्व २ तद्वदनुयोगिकप्रतियोगिकत्वे सिद्धा-
न्तलक्षणे गदा० यथा वह्निधूमयोः सामानाधिकरण्यम् ।
स्वावच्छेदकीभूतो यः कालस्तदवच्छिन्ना या स्वविशिष्ट-
निरूपिता यत्किञ्चिद्व्यक्तिनिष्ठाऽऽधेयता सा । यथा
यदा सिषाधयिषा नासीत् परं तु सिद्धिरासीत्तदा सिद्धि-
सिषाधयिषाविरहयोः सामानाधिकरण्यम् । ३ अभेदा-
न्वयबोधकत्वे । यथा नीलोघट इत्यादौ नीलपदघटपदयोः
सामानाधिकरण्यम् ४ धर्मितावच्छेदकयत्किञ्चिद्व्यक्ति-
विषयकत्वे यथा पर्वतो वह्निमान् इत्यादौ यत्किञ्चित्पर्वत-
व्यक्तिविषयिकानुमितिः सामानाधिकरण्येनानुमितिः ।

सामान्य न० समानस्य भावः ष्यञ् । १ सादृश्यप्रयोजकधर्मे

यथा मुखं पद्ममिव सुन्दरमित्यादौ सौन्दर्य्यादि ।
समानमेव स्वार्थे ष्यञ् । द्रव्यगुणकर्मसु तुल्यतया स्थितायां
२ जातौ भाषा० । जातिशब्दे ३०९२ दृश्यम् ।
सामान्यञ्च द्विविधं सखण्डमखण्डञ्च सामान्यलक्षणा-
शब्दे दीधित्युक्तिः । “सामान्यं विशेष इति बुद्ध्यपेक्षम्”
कणा० । अनुगतधर्मत्वम् सामान्यमिति तल्लक्षणं तेन ३
अनुगतधर्मस्वरूपं यथा प्रतियोगितासामान्ये यद्धर्मावच्छिन्न-
त्वादीति दीधितिः । ४ अधिकविषयकत्वे यथा ब्राह्मणाय
दधि दीयतां कौण्डिन्याय तक्रम् इत्यादौ दधिदानस्या-
धिकब्राह्मणविषयकता । सामान्यविषयकशास्त्रञ्च विशेष-
शास्त्रेण बाध्यते यथा “मा हिंस्यात् सर्वाभूतानीति”
हिंसानिषेधः सर्वविषयः “वायव्यं श्वेतमालभेत” इत्यादि
विशेषः हिंसाशास्त्रं तेन सामन्यथास्त्रं वैधेतरविषयएव
प्रसरति । ५ अर्थालङ्कारभेदे ४०७ पृ० दृश्यम् ।

सामान्यच्छल न० छलभेदे “सम्भवतोऽर्थस्यातिसामान्ययोगा-

दसम्भूतार्थकल्पना” गौ० सू० “अहो खल्वसौ ब्राह्मणो
विद्याचरणसम्पन्न इत्युक्ते कश्चिदाह । सम्भवति हि
ब्राह्मणे विद्याचरणसम्पदित्यस्य वचनस्य विद्यातोऽर्थ-
पृष्ठ ५२८३
विकल्पोपपत्त्या सम्भूतार्थकल्पनया क्रियते । यदि ब्रा-
ह्मणे विद्याचरणसम्पत् सम्भवति । व्रात्येऽपि सम्भ-
वेत् । ब्रात्योऽपि ब्राह्मणः । सोऽप्यस्तु विद्याचरण-
सम्पन्न इति । सामान्यनिमित्तं छलं सामान्यच्छलमिति”
वात्स्या० “सामान्यविशिष्टसम्भवदर्थाभिप्रायेणोक्तस्याति-
सामान्ययोगादसम्भवदर्थकत्वकल्पनया दूषणाभिधानम् ।
यथा ब्राह्मणोऽय विद्याचरणसम्पन्न इत्युक्ते ब्राह्मण-
त्वेन विद्याचरणसम्पदं साधयति इति कल्पयित्वा परो
वदति । कुतो व्रह्मणत्वेन विद्याचरणसम्पत्? बाल्ये-
व्यभिचारात्” वृत्तिः ।

सामान्यतोदृष्ट न० सामान्यतः सामान्यस्य सामान्यात् वा

दृष्टं दर्शनम् । १ अनुमानभेदे “अथ तत्पूर्वकं त्रिविधमनुमानं
पूर्ववच्छेषवत् सामान्यतो दृष्टञ्च” गौ० सू० “पूर्ववदिति यत्र
कारणेन कार्य्यमनुमीयते यथा मेघोन्नत्या भविष्यति
वृष्टिरिति शेषवत्तत् यत्र कार्य्येण कारणमनुमीयते पूर्वो-
दकविपरीतकमुदकं नद्याः पूर्णत्वं शीघ्रत्वञ्च दृष्ट्वा स्रोत-
सोऽनुमीयते भूता वृष्टिरिति । सामान्यतो दृष्टम् व्रज्या-
पूर्वकमन्यत्र दृष्टस्यान्यत्र दर्शनमिति । तथा चादित्यस्य ।
तस्मादस्त्यप्रत्यक्षाप्यादित्यस्य व्रज्येति” अथ वा यत्रा-
प्रत्यक्षे लिङ्गलिङ्गिनो सम्बन्धे केनचिदर्थेन लिङ्गस्य
सामान्यादप्रत्यक्षो लिङ्गी गम्यते । यथेच्छादिभिरात्मा ।
इच्छादयो गुणाः, गुणाश्च द्रव्यसंस्थानाः, तद् यदेषां
स्थान स आत्मेति” वात्स्या० । २ कार्य्यकारणभिन्नलिङ्गके
अनुमानभेदे यथा पृथिवीत्वेन द्रव्यत्वानुमानम् । ३ अन्व-
यव्यतिरेक्यनुमाने च । यथा वह्निमान् धूमादित्यादि
उभयव्याप्तिसम्भवेन अत्रोभयानुमानसम्भवात् गौ० सू० वृ० ।

सामान्यप्रत्यासत्ति सामान्यं तज्ज्ञानं वा प्रत्यासत्तिः ।

अलौकिकप्रत्यक्षसन्निकर्षभेदे सामान्यलक्षणाशब्दे दृश्यम् ।

सामान्यलक्षणा स्त्री सामान्यं साधारणधर्मः लक्षणं

यस्याः । न्यायोक्ते अलौकिकप्रत्यक्षसाधने उपायभेदे
सन्निकर्षशब्दे दृश्यम् । यथा एकघटज्ञाने घटत्वरूपसा-
मान्यधर्मज्ञानात् सकलस्य घटत्ववतो ज्ञानम् ।
तस्याः प्रत्यासत्तित्व मणिकृता व्यवस्थापितं यथा
“व्याप्तिग्रहश्च सामान्यलक्षणाप्रत्यासत्त्या सकलधूमादि-
विषयकः कथमन्यथा पर्वतीयधूमे व्याप्त्यग्रहे तस्मादनु-
मितिः सा चेन्द्रियसम्बद्धविशेषणतातिरिक्तैव वा
तद्विशेष्यकप्रत्यक्षे तदिन्द्रियसन्निकर्षस्य हेतुत्वेनानागतादौ
संयोगादेरभावादिति वदन्ति” ।
तस्याः अप्रत्यासत्तित्वमाशङ्क्य सिद्धान्तितं तत्रैव चिन्तमणि-
कृता “उच्यते यदि सामान्यलक्षणा नास्ति तदानुकूलत-
र्कादिकं विना धूमादौ व्यभिचारसंशयो न स्यात् प्रसिद्ध-
धूमे वह्निसम्बन्धावगमात् कालान्तरीयदेशान्तरीयधूमस्य
मानाभावेनाज्ञानात् सामान्येन तु सकलधूमोपास्थितौ
धूमान्तरे विशेषादर्शनेन संशयो युज्यते” ।
अत्र दोधितिः “अत्र च सामान्यं लक्षणं स्वरूपं यस्या
इत्यर्थे सामान्यमेव प्रत्यासत्तिः सामान्यं लक्षणं निरू-
पकं यस्या इत्यर्थे तु तज्ज्ञानम् । तत्राद्यमाह सा
चेन्द्रियेति इन्द्रियेण सम्बद्धं धूमादि तस्य विशेषणं
तद्विशेष्यकज्ञानप्रकारो धूमत्वादिरित्यर्थः । विशेषणतेत्यत्र
भावार्थो न बिवक्षितः तत्र विशेषणत्वं यस्या इति
बहुव्रीहिवां सम्बद्धपदस्यैव वा परम्परासम्बन्धस्तत्सम्बन्ध-
विशेष्यकज्ञानप्रकारोऽर्थः तथाच सैव विशेषणतेत्यर्थः ।
अत्र च बहिरिन्द्रियस्य लौकिकः सम्बन्धो ज्ञानस्य
तदिन्द्रियजन्यत्वञ्च नियामकम् एवञ्चाणुत्वेन यत्किञ्चि-
दणूपस्थितावपि सकलाणुगोचरो मानलो बोध इति
वदन्ति एतेन धूलीपटले धूमभ्रमे तत्र च वह्निव्याप्तिग्रहे
तत्रासता धूमत्वेन धूमेषु व्याप्त्यग्रहाद्धूमदर्शनाद्वह्न्यनु-
मितिर्न स्यात् हेत्वभावेन परामर्शानुत्पादात् किञ्च धर्मिशि
दोषवशान्नयनेनागृह्यमाणेन स्मरणप्रकारीभवता सामा-
न्येन गृह्यमाणेन वा लौकिकसन्निकर्षविगमेऽपि
चाक्षुषज्ञानापत्तिरिति परास्तम् । सामान्यञ्च सखण्डा-
खण्डभेदेन द्वेधा सखण्डे चाखण्डमेव परम्परया सम्बद्धं
प्रत्यासत्तिः येन सम्बन्धेन चेन्द्रियसम्बद्धे सामान्यं ज्ञा-
यते तेन सम्बन्धेनाधिकरणानां ग्रत्यासत्तिरिति” ।
दीधीतिकृता तु स्वमते सामान्यलक्षणायाः प्रत्यासत्तित्वं
निराकृतं तत्र दृश्यम् । तच्च विस्तरभयादिह नोक्तम् ।

सामान्या स्त्री समानैव स्वार्थे ष्यञ् अजा० टाप् । साधा-

रणस्त्रियां वेश्यायाम् “धनमात्रलाभार्थं सकलपुरुषाभि-
लाषा । सा त्रिधा । अन्यसम्भोगदुःखिता भानवती
वक्रोक्तिगर्विता च सापि द्विविधा । प्रेमगर्विता सौन्दर्य्य
गर्विता च” रसमञ्जरी ।

सामि अव्य० साम--इन् । १ अर्द्धे “सामिघटिता” नैषधम् । २ निन्दायाञ्च अमरः ।

सामिधेनी स्त्री सम्--इन्ध--करणे ल्युट् नि० । अग्निसमि-

न्धनसाधने १ऋग्भेदे अमरः । २ समित्काष्ठे मेदि० ।
सामिधेनौशब्दनिरुक्तिश्च शत० ब्रा० १३५१ “समिन्धे
सामधेनीभिर्होता तस्मात् सामिधेन्योनाम्” । “इध्मेनाग्वि-
पृष्ठ ५२८४
समिन्धनहेतुभूताः सामिधेनीर्विधास्यन् तासां नाम
निर्वक्ति सामधेनीभिः प्रवो वाजा इत्यादिभिरृग्भिः” भा०
ताश्चर्चः आश्व० श्रौ० १ । २ । ७ । “अथ सामिधेन्यः प्रवो वाजा
अभिद्यवॊ ऽग्न आयाहि वीतये गृणानः २ ईडेन्यो
नमस्यवस्तिरो३ऽग्नि दूतं वृणीमहे४ समिध्यमानो अध्वरे ५
समिद्धो अग्न आहुतेंति ६ । ७ द्वे ।

सामीप्य न० समापस्य भावः स्वार्थे वा ष्यञ् । १ नैकट्ये

२निकष्टे च सामीप्याश्ले षविषयैर्व्याप्त्याधारश्चतुर्विधः”
सग्ध० व्याकरणम् ।

सामुद्र न० समुद्रे भवः अण् । (करकच) १ लवणे हेमच० । २ समुद्रभवे त्रि० ।

सामुद्रक न० समुद्रेणर्षिणा प्रोक्तम् वुण् । हस्तादिरेखादिना

स्त्रीपुरुषशुभाशुभलक्षणज्ञापके समुद्रर्षिकृते १ ग्रन्थभेदे
“वामभागे तु नारीणां दक्षिणे पुरुषस्य च । तिर्दिष्टं
लक्षणं तेषां समुद्रेण यथोदितम् इति सामुद्रकसार-
मुद्रणा” नैष० । सामुद्र स्वार्थे क । २ समुद्रलवणे राजनि०

सामुद्रिक त्रि० समुद्रेण प्रोक्तं वेत्त्यधीते वा ठञ् । १ स्त्री-

पुरुषशुभाशुभलक्षणज्ञापकग्रन्धाध्येतरि २ तद्वेत्तरि च ।

साम्परायिक न० सम्परायाय आपदे परलोकाय वा

हितम् ठक् । १ युद्धे अमरः २ परलोकसाधने त्रि० ।

साम्प्रतम् अव्य० सम् + प्र + तन--डसु । युक्ते । १ उचिते

२ इदानीमित्यर्थे अमरः ।

सा(षा)म्ब सम्बन्धे चु० उभ० सक० सेट् । साम्बयति ते

अससाम्बत् त । अयं षोपदेशएव न्याय्यः ।

साम्बर न० सम्बरदेशे भवम् अण् । सम्बरदेशोद्भवे लवणे राजनि० ।

साम्भवी स्त्री सम्भवः अस्त्यंस्व प्रज्ञाद्यण् गौरा० ङीष् ।

रक्तलोध्रे शब्दच० ।

साम्य न समस्य भावः ग्यञ् । तुल्यत्वप्रयोजके साधारणधर्मे ।

साम्राज्य न सम्राजा भावः ष्यञ् । १ सार्वभौमत्वे “भेजे

साम्राज्यदोक्षितम् रघुः “लक्षाधिपत्यं राज्यं स्यात्
साम्रःज्यं दशलक्षके” इत्युक्ते २ दशलक्षग्रामाधिपत्ये च

साय पु० सो--घञ् । १ दिनान्ते अमरः । २ वाणे मेदि० ।

सायंसन्ध्या स्त्री सायम् दिनान्ते सन्ध्या, तत्र सन्ध्यायते

सम् + ध्यै--घञर्थे क वा । १ दिनान्तसन्ध्यायाम् अमरः ।
२ दिनान्ते उपास्यदेवताभेदे च । भावे अङ् । ३ तत्रो-
पासनायाम् ।

सायक पु० सो--ण्वुल् । १ वाणे २ खङ्गे च अमरः ।

सायकपुङ्खा स्त्री सायकस्य पुङ्खो यस्याः ५ व० । शरपु

वृक्षे राजनि० ।

सायन्तन त्रि० सायम्भवः सायम् + ट्युल् तुट् च । तिनान्तभवे ।

स्त्रियां ङीप् । “सायन्तनीं तिथिप्रण्यः” इति भट्टिः ।
“सन्ध्यां सायन्तनीं कुर्य्यात् द्वादश्यादिष्वपि प्रिये! ।
अकुर्वन्निरयं याति यतो नित्यागमक्रिया” वृहन्नोल-
तन्त्रे १ पटले

सायिका स्त्री सो--ण्वुल् टाप् । क्रमस्थितौ शब्दरम् ।

सायम् अव्य० सो--ञमु । दिनान्ते “सायं सम्प्रति वर्त्तते

इत्यद्भटः ।

सायाह्न पु० सायोऽह्नः एक० त० टच् समा० अ ह्रादेशः । १

दिनान्ते “सम्याह्न स्त्रमुहूर्त्तः स्यात् श्राद्धं तत्र न
कारयेदु दक्षोक्ते पञ्चधाविभक्तदिनस्य त्रिमुहूर्तात्मके पञ्चमे
२ शेषेऽंशे च ।

सायुज्य न० सह युनक्ति--युज--क्विप् सादेशः सयुङ् तस्य

भावः ष्यञ् । १ सहयोगे पञ्चविधमुक्तिमध्ये २ एकत्व-
रूपे मुक्तिभेदे च “सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्व-
मप्युत । दीयमानं न गृह्णन्ति विना मत्सेवन जनाः”
भाग० ३ स्क० २९ अ० ।

सार दौर्बल्ये अद० चु० उभ० सक० सेट् । सारयति ते अससारत् त अनेकाच्कत्वान्न षोपदेशः

सार न० सृ--घञ्, सार--अच् वा । १ जले २ धने ३ न्याय्ये

त्रि० मेदि० । ४ नवनीते न० राजनि० । ५ लौहे भावप्र० । ६ वने
शब्दर० । ७ बले ८ स्थिरांशे ९ मज्जनि पु० अमरः १० सर्ज-
क्षारे ११ वायौ जटा० । १२ रोगे धरणिः १३ अतिदृदे
१४ पाशके पु० शब्दर० १५ दध्यग्रे पु० हेमच० १६ श्रेष्ठे
१७ वरे च त्रि० अमरः । १षपरमेश्वरे “एकं शिवं
शान्तमनन्तमच्युतं परात्परं ज्ञानमयं विशेषम् । अद्वैत
मव्यग्रमचिन्त्यरूप सारन्त्वेकं नास्ति सारं ततोन्यत् ।
यस्मादेतज्जायते विश्वमग्र्यं यस्मिन् लीनं स्याच्च पश्चा-
त्स्थितञ्च । आकाशवन्मेघजालञ्च धृत्या यद्विश्वं वै
ध्रियते तच्च सारम् । अष्टाङ्गयोगैर्यदवाप्तुमिच्छन् योगी
युनक्त्यात्मरूपं सदैव । निवर्त्तते प्राप्य यन्नेह लोके तद्वै
सारं सारमन्यन्न चास्ति” कालिकापु० २७ अ० ।

सारक पु० सारयति रेचयति सृ--णिच् ण्वुल् । १ जयपाले

राजनि० । २ रेचकद्रव्यमात्रे त्रि० ।

सारखदिर पु० कर्म० । विटखदिरे राजेनि० ।

सारगन्ध पु० सारःश्रेष्ठोगन्धो यस्य । चन्दने शब्दच० ।

सारघ न० सरघाभिर्निर्वृत्तम् अण् । मधुनि क्षोद्रे जटा० ।

पृष्ठ ५२८५

सारङ्ग पुंस्त्री० सृ--अङ्गच् । १ चातकस्वगे अमरः । २ हरिणं

३ गजे मेदि० । ४ भृङ्गे ५ ?ख}गभेदे विश्वः । ६ छत्रे ७ राजहंसे
८ चित्रमृगे ९ वाद्यभेदे १० वस्त्रे शब्दर० ११ नानावर्णे
१२ मयूरे १३ कामदेबे १४ चापे १५ केशे १६ स्वर्ण १७ आभरणे
१८ पद्मे १९शङ्खे २०चन्दने २१ कर्पूरे २२ पुष्पे २३
कोकिले २४ मेघे २५ सिंहे २६ रात्रौ २७ भूमौ २८ दीप्तौ च
नानार्थकोषः । शारमङ्गमस्य शक० । शारङ्गोऽपि चित्र-
मृगादौ । चित्रवर्ण त्रि० अमरः । सवत्र जातौ स्त्रियां ङीष्

सारङ्गिक पु० सारङ्गं मृगं हन्ति ठक् । व्याधे सि० कौ० ।

सारजं न० सारात् दध्यग्रात् जायते जन--ड । नवनीते

शब्दच० ।

सारण न० सृ--णिच--ल्यु । १ गन्धद्रव्ये धरणिः । २ अतीसा-

ररोगे ३ रावणसचिवभेदे च हेमच० । ४ भद्रबलायां
धरणिः ५ आम्रातके शब्दच० ।

सारणि(णी) स्त्री सृ--णिच्--अनि वा ङीप् । १ क्षुद्रनद्यां

२ प्रसारिनयाम् उणादि० सङ्क्षेपेणाङ्कभेद सूचितग्रह-
गत्यादिबोधके ज्योतिषग्रन्थभेदे च ।

सारण्ड पु० सृ--णिच् वा० अण्ड । सर्पाण्डे जटा० ।

सारतरु पु० सारप्रधानः जलप्रधानस्तरुः । कदलीवृक्षे धनञ्जयः ।

सारथि पु० सृ--अथिण, सह रथेन सरथः घोटकः तत्र

नियुक्तः इञ् वा । रथादिवाहनप्रेरके नियन्तरि अमरः ।
तल्लक्षणं मात्स्ये १८९ अ० यथा “निमित्तशकुनप्रज्ञो
हयशिक्षाविशारदः । हयायुर्वेदतत्त्वज्ञो भूमिभागविशे-
षवित् । स्वामिभक्तो महोत्साही सर्वषां च प्रियवदः ।
शूरश्च कृतविद्यश्च सारथिः परिकीर्त्तितः” ।

सारदा स्त्री सारं ददाति दा--क । १ सरस्वत्याम् शब्दर्० ।

“लिखति यदि गृहीत्वा सारदा सर्वकालम्” शिवस्तवः ।
२ सारदातरि त्रि० ।

सारद्रुम पु० सारप्रधानो द्रुमः । खदिरवृक्षे राजनि० ।

सारपादप पु० सारयति सारः नित्यक० । धामनिवृक्षे रत्नमा०

सारभाण्ड न० कर्म० । १ अकृत्रिमपात्रे २ श्रेष्ठपात्रे च ।

सारमिति पु० सारं यथार्थं मिनोत्यनेन मा--करणे क्तिच् ।

१ वेदे हेमच० भावे क्तिच् । २ सारज्ञाने स्त्री ।

सारमूषिका स्त्री सारे मूषिकेवापहारकत्वात् । देवदाली-

वृक्षे राजनि० ।

सारमेय पुंस्त्री सरमायाः कश्यपपत्न्याः अपत्यम् ढक् । १ कुक्कुरे० २ तदयोषिति स्त्री ङीष् ।

सारलौह न० लौहेषु सारः राज० । लोहसारे (इश्पात)

सारव त्रि० सरय्वां भवः अण् नि० । सरयूनदीभवे अमरः

सारस न० सरो नियतवसतिरस्य अण् । १ पद्मे अमरः

२ कट्यामरणे च । सहं रसेन स्वार्थे अण् । ३ चन्द्रे
४ स्वनामख्याते पक्षिणि पुंस्त्री० स्त्रियां ङीष्
सरस इदम् अण् । ५ सरोवरसम्बन्धिनि त्रि० । “नद्य-
शैलवराच्चाम्भा यत्र संस्रुत्य तिष्ठति । तत्सरोज जलं
छन्नं सारसं परिकीर्त्तितम्” भावप्र० उक्ते ६ जलभेदे
“सारसं सलिलं बल्यं तृष्णाघ्नं मधुरं लधु । रोचनं
तुवरं रूक्षं वद्धमूत्रमलं हितम्” तत्रोक्तास्तद्गुणाः ।

सारसन न० सारं सनोति सन--अच् । १ स्त्रोकट्याभरणे

काञ्च्यां कञ्चुकदाद्यार्थं मध्यकाये निबद्धे २ पट्टिकादौ च
अमरः ।

सारस्वत पु० सरस्वती देवताऽस्य, सरस्वत्या इदं वा अण् ।

१ बल्वदण्डे २ देशभेदे हेमच० । पञ्चगौड़मध्ये ३ व्रह्म-
णभेदे ४ सरस्वतीप्रतिपालितमुनिभेदे ५ ब्राह्मदिनरूपे
कल्पभेदे च “सारस्वतस्य कल्पस्येति” मत्स्यपुराणम्
६ सरस्वतीसम्बन्धिनि त्रि० “तस्यां पूर्वाह्णसमये कुर्य्यात्
सारस्वतोत्सवम्” ति० त० । ७ सरस्वतीदेवताके च त्रि० ।
“तत्पावनाय निर्वाप्यश्चरुः सारस्वतोद्विजैरिति” स्मृतिः ।
मुनिभेदजन्मकथा च भा० श० ५२ अ० “ब्रह्मषं! (दधीच!) तेव
पुत्रोऽयं त्वद्भक्त्या धारितो मया । दृष्ट्वा तेऽप्सरसं रेतो
यत् स्कन्नं प्रागलम्बुषाम् । तत् कुक्षिणा वै व्रह्मर्षे!
त्वद्भक्त्या धृतवत्यहम्” इत्युपक्रमे “तस्मात् सारस्वतः
पुत्रो महांस्ते वरवर्णिनि! । तवैव नाम्ना प्रथितः
पुत्रस्ते लोकभावनः । सारस्वत इति ख्यातो
भविष्यति यथातपाः । एष द्वादश वार्षिक्यामनावृष्ट्यां
द्विजर्षभान् । सारस्वतो महाभागो वेदानध्यापयिष्यति”
इति सरस्वतीं प्रति दधीचोक्तिः तस्य वेदाध्यापनकथा च
तत्रैव अध्यायशेषे “अनावृष्टिरनुप्राप्ता राजन् द्वादश-
वार्षिकी । तस्यां द्वादशवार्षिक्यामनावृष्टौ महर्षयः ।
वृत्त्यर्थ प्राद्रवन्राजन्! क्षुधार्त्ताः सर्वतो दिशम् । दिग्-
भ्यस्तान् प्रद्रुतान् दृष्ट्वा मुनिः मारस्वतस्तदा । गमनाय
मतिञ्चक्रे तमुवाच सरस्वती । न गन्तव्यमितः पुत्र!
तवाहारनहं सदा । दास्यामि मत्स्यप्रवरानुष्यतामिह
भारत!” ततः तद्दत्तमत्स्याहारेण प्राणानधारयत् वेदां-
श्चाधारयत् अतीतायामनावृष्टौ अन्नाभावेन नष्टवेदा
अन्ये मुनयस्ततो वेदान् लेभिरे तत्कथा “तस्माद्वेदान-
नुप्राप्य पुनर्धर्मं प्रचक्रिरे । षष्टिर्मुनिसहस्राणि शिष्य
त्वं प्रतिपेदिरे । सारस्वतस्य विप्रर्षेर्वेदस्वाध्यायकार-
णात्” । देशभेदश्च “मध्ये सारस्वता मत्स्याः सूरसेनाः
समाथुराः । पाञ्चालशाल्वमाण्डव्य कुरुक्षेत्रगजाह्वयम्”
पृष्ठ ५२८६
इत्युक्तेर्मध्यदेशभेदः सोऽभिजनोऽस्य अण् । ८ तद्देश-
वासिस्तने । तत्रत्यब्राह्मणभेदश्च “सारस्वताः कान्यकुब्जा
गौडमैथिलकोत्कलाः । पञ्च गौड़ा इति ख्याता विन्ध्य-
स्योत्तरवासिनः” पुराणान्तरम् ।

सारस्वतकल्प पु० कर्म० । १ तन्त्रोक्ते सरस्वत्या उपासना-

थके विधानभेदे २ तन्नामके ब्रह्मदिने च । कल्पशब्दे
१८१६ पृ० दृश्यम् ।

सारा स्त्री सारयति सृ--णिच्--अच् । १ कृष्णत्रिवृतायाम् शब्दर० २ दूर्वायाञ्च शब्दच० ।

साराल पु० सारमालाति आ + ला--क । तिलवृक्षे शब्दर० ।

सारि(री) पुंस्त्री० सृ--इण् स्त्रीत्वपक्षे वा ङीप् । १ पाशके-

“सारीं चरन्तीं सखि! मारयेति” नैषधम् । २ पक्षि
भेदे च (शालिक) शब्दच० । ङोषन्तः ३ सप्तलायां राजनि०

सारिका स्त्री सरति गच्छति सृ--ण्वुल् । पक्षिभेदे (शालिक)

अमरः ।

सारिणी स्त्री सृ--णिनि । १ सहदेवीलतायां २ कार्पास्यां

३ दुरालभायां ४ कपिलशिंशपायां ५ प्रसारिण्यां ६ रक्त-
पुनर्णवायाञ्च राजनि० ।

सारिवा स्त्री सारिरिव वाति वा--क । (अनन्तमूल) लताभेदे

सा च दुग्धगर्भा जम्बुवत्पत्रां सुगन्धा च ।
सा च कृष्णशुक्लभेदात् द्विपिधा “सारिवायुगलं स्वादु
स्निग्धं शुक्रकरं गुरु । अग्निमान्द्यारुचिश्वासकासाम-
विप्रनाशनम् । दोषत्रयास्रप्रदरज्वरातीसारनाशनम्”
भावप्र० ।

सारोष्ट्रिक पु० सारः श्रेष्ठ उष्ट्रो यत्र सारोष्ट्रः देशभेदस्तत्र भवः ठक् । विषभेदे अमरः ।

सार्थ पु० सृ--थन् स्वार्थे अण् । १ समूहे २ जन्तुसमूहे अमरः

“स जयत्यरिसार्थसार्थकीकृतनामा” नैषधम् । सह अर्थेन
वाच्येन वा । ३ बणिक्समूहे मेदि० । ४ धनिनि त्रि० ।
कप् । सार्थक । ५ अर्थसहिते त्रि० ६ शब्दे पु० “सार्थकः
स्वार्थबोधकृदिति” शब्दशक्तिप्रकाशिका ।

सार्थवाह पु० सार्थं वहति वह--अण् । बणिग्जने अमरः

सार्द्र त्रि० सह आर्द्रेण । आर्द्रतायुक्ते अमरः ।

सार्द्धम् अव्य० सह + ऋध--अमु । १ साहित्ये अमरः । सह

अर्द्धेन । सार्द्ध २ अर्द्धयुक्ते त्रि० ।

सार्प न० सर्पोदेवतास्य श्रण् । अश्लेषानक्षत्रे ।

सार्पिष्क त्रि० सर्पिषा संस्कतम् ठक् । घृतसंस्कृते व्यञ्ज

नादौ हेमच० ।

सार्वजनीन त्रि० सर्वेषु जनषु विदितः खञ् । सर्वलोकविदिते ।

सार्वत्रिक त्रि० सर्वत्र भव ठक् । सर्वस्मिन् कालादौ भवे ।

सार्वधातुक न० सर्वधातून् व्याप्नोति ठक् । व्याकरणोक्त

सर्वधातुप्रकृतिके लट् लोट लड् विधिलिङ् इत्याख्यके ।
चतुलकारे

सार्वभौतिक त्रि० सर्वाणि भूतानि व्याप्नोति ठञ् द्विपदवृद्धिः । सर्वभूतव्यापके ।

सार्वभौम पु० सर्वस्या भूमेरीश्वरः सर्वासु भूमिषु विदितो

वा अण् द्विपदवृद्धिः । १ चक्रवर्त्तिनि नृपे २ उत्तरदिक्स्थे
गजे च अमरः । ३ विदूरथनृपपुत्रे पु० भाग० ९ । २८ अ० ।
४ सकलभूमिसम्बद्धे त्रि० ।

सार्वलौकिक त्रि० सर्वेषु लोकेषु विदितः ठञ् द्विपदवृद्धिः ।

सर्वत्रलोकेषु विदिते “स रामः सार्वलौकिकः” मट्टिः ।

सार्वविभक्तिक त्रि० सिर्वासु विभक्तिषु तदर्थे भवः--ठञ् ।

सर्वविभक्त्यर्थे विहिते तसिलादो प्रत्यये पा० ।

सार्षप त्रि० सर्षपस्य विकारः अण् । सर्षपविकारतैलादौ

“अदुष्टं सार्षप तैलम्” स्मृतिः ।

साल पु० सल--घञ् । १ वृक्षमात्रे “रसालसालः समदृश्य-

तामुना” नैषधम् । २ स्वनामख्याते वृक्षभेदे “सालस्तु सर्ज-
कार्य्यश्वकर्णकः सस्यसंवरः । अश्वकर्णः कषायः स्याद्
व्रणस्वेदकफक्रमीन् । ब्रध्नविद्रधिबाधिर्य्ययोनिकर्ण
गदान् हरेत् । सर्जकोऽन्योऽजकर्णः स्यात् सालो मरिच
पत्त्रकः । अजकर्णः कटुस्तिक्तः कषायोष्णो व्यपोहति ।
कफपाण्डुश्रुतिगदान् मेहकुष्ठविषव्रणान्” भावप्र० ।
एतत्परत्वे तालव्यादिताऽवि । ३ प्राकारे मेदि० ४
सालमत्स्ये भरतः० ५ राले राजनि० ।

सालन पु० सालः कारणत्वेनाऽस्त्यस्य पामादितत्वात् न ।

सालनिर्य्यासे (धुना) रत्नमा० ।

सालनिर्यास पु० ६ त० । सर्जरसे (धुना) रत्नमा० ।

सालपर्णी स्त्री सालस्येव पर्णान्यस्याः ङीप् । (सालपानि)

वृक्षे शब्दर० ।

सालपुष्प न० सालस्येव पुष्पं यस्य । स्थलपद्मे शब्दर० ।

सालभञ्जिका स्त्री सालं भनक्ति भन्ज--ण्वुल् । १ काष्ठाटि-

निर्मिते कृत्रिमक्रीड़ासाधने पुत्तलिकाभेदे २ वेश्यायाञ्च
जटा० ।

सालरस पु० ६ त० । (धुना) राले राजनि० ।

सालवेष्ट पु० सालं वेष्टयति वेष्ट--अण् । राले (धुना) राजनि०

सा(शा)ला स्त्री सालः प्राकारोऽस्त्यस्याः अच् । गृहे भरतः

सा(शा)लावृक पुंस्त्री० सालाया वृक इव । कुक्कुरे ।

स्त्रियां ङीष् ।

सा(शा)लूर पुंस्त्री० स(श)ल--ऊरच् णिच्च । भेके मण्डूके शब्दर० स्त्रियां ङीष् ।

पृष्ठ ५२८७

सा(शा)लेय पु० सा(शा)लायां भवःढक् । मधुरिकायाम् अमरः

सालोक्य न० समानोलोकोऽस्य तस्य भावः ष्यञ् । सायुज्य-

शब्दोक्ते पञ्चविधमुक्तिमध्ये एकलोकसहवासरूपेमुक्तिभेदे ।

सा(शा)ल्व पु० ब० व० सौमदेशे । तेषां राजा अण् । तद्दे-

शाधिपे नृपभेदे स च श्रीकृष्णेन हतः भा० व० १४ अ०
दृश्यम् ।

सा(शा)ल्वहन् पु० साल्वं नृपं हतवान् हन--क्विप् । विष्णौ हेमच० ।

सावधान त्रि० सह अवधानेन । १ स चेतने सतर्के २ मनोभि-

निवेशयुक्ते च ।

सावन न० सवनं यागाङ्गं स्नानं सोमनिष्पीडनं वा तस्येदमण् ।

“अहोरात्रेण चैकेन सावनो दिवसः स्मृतः” ब्रह्मसिद्धा-
न्तोक्ते १ अहोरात्रात्मके दिवसे, सवनत्रयस्य अहोरात्र-
साध्यत्वादह्नस्तत्सम्बन्धित्वम् । तत्त्रिंशद्दिबसात्मके २
मासभेदे च पु० “चान्द्रः शुक्लादिदर्शान्तः सावनस्त्रिंशता
दिनैः” विष्णुध० “सावने च तथा मासि त्रिंशत्सूर्य्योदयाः
स्मृताः” म० त० । “सूतकादिपरिच्छेदो दिनमासाव्द-
पस्तथा । मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तितः”
इति सूर्य्यसिद्धान्तः । सावनमासकृत्यानि च विशेषतः
कानिचित् म० त० पितामहेनोक्तानि “विवाहादौ स्मृतः
सौरो यज्ञादौ सावनो मतः” “आदिपदेन सत्रभृति-
वृद्धिप्रायश्चित्तायुर्दायाशौचगर्भाधानपुंसवनसीमन्तोन्नयन-
नामकरणान्नप्राशननिष्क्रमणचूड़ादिग्रहणम्” म० त०
रघु० । एषु सावनेन मानेनैव सर्वत्र गणना “सत्राण्यु-
पास्यान्यथ सावनेन लोक्यञ्च यत् स्याद्व्यवहारकर्म विष्णुध०
३ वर्षभेदे “सौरेणाव्दस्तु मानेन यदा भवति भार्गव! ।
सावनेन च मानेन दिनषट्कं प्रपूर्य्यते” । “सौरवर्षे
दिनषट्काधिकसावनवर्षो भवतीति रघु० । दिनषट्कमिति
प्रायिकम् सौरवर्षे सावनस्य ५ १५ । ३१ । ३० । २४ दिना-
द्याधिक्यस्यैव सिद्धान्तोक्तेः । ४ यज्ञान्ते ५ यजमाने
६ वरुणे च पु० मेदि० ।

सा(शा)वर पु० स(श)वरेण निर्वृत्तः अण् । १ पापे २

अपवादे च विश्वः । ३ लोध्रे शब्दच० ।

सावर्ण पु० सवर्णायां सूर्य्यपत्न्यां संज्ञायां भवः अण् ।

सवर्णागर्भजे सूर्य्यजे अष्टमे मनौ इञ् । सावर्णिरप्यत्र
“सावर्णिः सूर्यतनथो यो मनुः कथ्यतेऽष्टमः” “सूर्य्याज्जन्म
समासाद्य सावर्णिर्भविता मनुः” देवीमा० । “छायासंज्ञा
सुतो योऽसौ द्वितीयः कथितो मनुः । पूर्बजस्य सवर्णोऽसौ
सावर्णस्तेन कय्यते” देवीभाग० तन्नामनिरुक्त्यन्तरमुक्तम्
“विवस्वतश्च द्वे भार्य्ये विश्वकर्मसुते उभे । संज्ञा छाया
च राजेन्द्र! ये प्रागहिते तव । तृतीयां बडवामेके तासां
संज्ञासुतास्त्रयः । यमोयमी श्राद्धदेवश्छायायाश्च सुतान्
शृणु । सावर्णिस्तपती कन्या भार्य्या संवरणस्य या ।
शनैश्चरस्तृतीयोऽभूत् अश्विनौ बडवात्मजौ । अष्टमेऽन्तर
आयाते सावर्णिर्भविता मनुः” भाग० ८ । १३ अ० । कल्प-
भेदादविरोधः ।

सावित्र पु० सविता देवताऽस्य अण् । १ विप्रे हेमच० ।

२ ऋग्विशेषे स्त्री ङीप् । “सावित्रीमात्रसारोऽपीति”
मनुः । सा च ३ सत्यवतोभार्य्यायाम् स्त्री ४ सवितृदेवताके
चर्वादौ त्रि० । ५ यज्ञोपवीते न० शब्दच० । स्वार्थे
अण् । ६ सूर्य पु० शब्दच० । तस्येदम् अण् । ७
महादेवे ८ वासौ च पु० मेदि० । ८ गर्भे शब्द० १० व्रह्मपत्न्यां
स्त्री ११ दुर्गायां च स्त्री मेदि० । तन्नामनिरुक्तिः देवीपु०
४४ अ० “त्रिदशैरर्चिता देवी वेदभागेषु पूजिता ।
भावशुद्धस्वरूपा तु सावित्री तेन सा स्मृता” वह्निपु० । अन्या
निरुक्तिः “सर्वलोकप्रसवनात् सविता स तु कीर्त्त्यते ।
यतस्तद्देवता देवी सावित्रीत्युच्यते ततः । वेदप्रसवना
च्चापि सावित्री प्रोच्यते बुधैः” । ब्रह्मपत्नी च शतरूपा
“ततः संजपतस्तस्य भित्त्वा देहमकल्मषम् । स्त्रीरूपा
मर्द्धमकरोदर्द्धं पुरुषरूपवत् । शतरूपा च सा ख्याता
सावित्री च निगद्यते । सरस्वत्यथ गायत्री ब्रह्माणी च
परन्तप!” मत्स्यपु० ३ अ० । गायत्रीशब्दे दृश्यम् ।

सावित्रीव्रत न० सावित्रीपूजनमुद्दिश्य कर्त्तव्यं व्रतम् ।

ज्यैष्ठकृष्णचतुर्दश्यां सावित्रोपूजनार्थे व्रते तद्विधियेथा
“शिवाऽघोरा तथा प्रेता सावित्री च चतुर्दशी । कुहूयु-
क्तैव कर्त्तव्या कुह्वामेव हि पारणम्” ति० त० धृतवचनम्
यमः “दत्त्वा जलाञ्जलीन् सप्त कृष्णपक्षे चतुर्दशीम् ।
धर्मराजं समुद्दिश्य सर्वपापैः प्रमुच्यते” । लिङ्गपुराणे
उपवासश्चतुर्दश्यां महापातकनाशकः” । पराशरः “मेषे
वा वृषभे वापि सापित्रीं तां विनिर्दिशेत्” । तां
चतुर्दशीम् “ज्यैष्ठे कृष्णचतुर्दश्यां सावित्रीमर्चयन्ति याः ।
वटमूले सोपवासा न ता वैधव्यमाप्नुयुः” । राजमार्त्त-
ण्डकृत्यचिन्तामण्योः “ज्यैष्ठे मासि चतुर्दश्यां सावि-
त्रीव्रतमुत्तमम् । अवैधध्याय कुर्वन्ति स्त्रियः श्रद्धासम-
न्विताः” । व्रतमात्रे तु अनन्ततृतीयाव्रतोक्तमाचरन्ति
दृष्टपरिकल्पनान्यायात् तदुक्तं मत्स्यपुराणे “गर्भिणी-
सूतिका नक्तं कुमारी च रजस्वला । यदाऽशुद्धा तदा-
पृष्ठ ५२८८
न्येन कारयेत् क्रियते सदा” । उपवासाशक्ता नक्तं
भोजनं कुर्य्यात् “उपवासे त्वशक्तानां नक्तं भोजनमि-
ष्यत” इति तद्धृतवचतान्तरात् । अशुद्धा चेत् पूर्जा
कारयेत् । कायिकञ्चोपवासादिकं सदा शुद्धया
अशुद्धया च स्वयं क्रियते । एवं स्मृतिपरिभाषिकायां
वर्द्धमानोपाध्यायाः । नारदः “दिवाभागे त्रयोदश्यां
यदा चतुर्दशी भवेत् । तत्र पूज्या सहासाध्वी देवी-
सत्यवता सह । दिवाभागे दण्डद्वयमात्रसत्त्वेऽपि
अतएव प्रदोषे व्रतमाचरन्ति । पूर्वाह्णे तद्विधत्वेऽपि ।
पराह्णे त्रिसन्ध्यव्यापित्वे पराह एव त्रिसन्ध्यव्यापि
नोति वचनात् । यदा तु पूर्वपरयोर्न तथाविधा तदापि
पराह एव यथा ज्योतिषे “चतुर्दश्याममावास्या
यदा भवति नारद! । उपोष्या पूजनीया सा
चतुर्दश्यां विधानतः” । सा सावित्री । ततश्चामावास्यायां
सावित्रीव्रतविधानं शिवाघोरेति वचनञ्चैतत्परम् ।
पराशरः “सावित्रीमर्चयित्वा तु फलाहारा परेऽहनि ।
ततश्चाविपवा नारी वित्तभोगान् लभेत सा” ।

सावित्रीसूत्र न० सावित्रीदीक्षाकालिकं सूत्रम् शाक० ।

यज्ञापवीते पब्दच० ।

साश्रुधी स्त्री साश्रु ध्यायति ध्यै--क्विप् सम्प्र० । श्वश्र्वाम् त्रिका

सास्ना स्त्री० सस--न णिच्च । गोगलस्थिते लोमसंघाता-

त्मके कम्बले अमरः ।

सास्र त्रि० सह अस्रेण । चक्षुर्जलान्विते ।

सास्थिताम्रार्द्ध न० सास्थि अस्थिसहितं ताम्रार्द्धं यत्र ।

कांस्ये त्रिका० तस्य रङ्गसहितताम्रार्द्धजातत्वात्
तथःत्वम् साहिताम्रार्द्ध इत्येव पाठः सम्यक् अहिर्नागो रङ्गः

साहचर्य्य न० सहचरस्य भावः व्यञ् । १ समभिव्याहारे,

२ साहित्ये ३ साननाधिकरण्ये च ।

साहस न० सहसा बलेन निर्वृत्तम् अण् । १ मलेन कृते चौर्य्य

स्त्रासंग्रहादौ दुष्टकर्मणि, “सहसा क्रियते यत्तु तत्
साहसमिति स्मृतमिति” स्मृतिः । तद्विवृतिः वीरमि०
“तस्य स्वरूपमाह नारदः “सहसा क्रियते कम
यत्किञ्चिद्बलदर्पितैः । तत्साहसमिति प्रोक्तं
सहोबनमिहोच्यते” इति । तस्य चातुर्विध्यमाह
वृहस्पतिः “मनुष्यमारणञ्चौर्यं परदाराभिमशनम् ।
पारुष्यमुभयञ्चेति साहसं स्याच्चतुर्विधम्” इति ।
उभय पारुष्यं वाग्दण्डपारुष्ये । तत्र त्रैविध्यमाह
नारदः “तत्पुनस्त्रिविधं ज्ञेयं प्रथमं मध्यमन्तथा ।
उत्तमञ्चेति शस्त्रेषु तस्योक्तं लक्षणं पृथग्” इति ।
एतेषां स्वरूपमाह स एव “फलमूल दकादीनां
क्षेत्रोपकरणस्य च । भङ्गाक्षेपोपमर्दाद्यैः प्रथमं
साहसं स्मृतम् । वासःपश्वन्नपानानां गृहोपकरणस्य
च । एतेनैव प्रकारेण मध्यम साहसं स्मृतम् । व्या-
पादो विषशस्त्राद्यैः परदाराभिमर्शनम् । प्राणोपरोधि
यच्चान्यदुक्तमुत्तमसाहसम्” इति । भङ्गः फलादि
स्वरूपनाशनम् । आक्षेप आक्रोशः वाक्तिरस्करण-
मिति यावत् । उपमर्दः स्वरूपावशेषेण पीड़नम् ।
एतेनैवंप्रकारेणेत्यर्थः । त्रिविधेऽपि साहसे दण्ड-
माह नारदः “तस्य दण्डः क्रियापेक्षः प्रथमस्य
शतावरः । मध्यमस्य तु शास्त्रज्ञैर्दृष्टः पञ्चशतावरः । उत्तमे
साहसे दण्डः सहस्रावर इष्यते । बधः सर्वस्वहरण
पुरान्निर्वासनाङ्कने । तदङ्गच्छेद इत्युक्तो दण्ड उत्तम-
साहसे” इति । ब्राह्मणस्य तु महत्यप्यपराधे शारीर-
दण्डाभावमाह स एव “अविशेषेण सर्वेषामेष दण्ड-
विधिः स्म्रतः । बधादृते ब्राह्मणस्य न बधम् व्राह्मणो-
ऽर्हतीति” । यमोऽपि “न शारीरा ब्राह्मणस्य दण्डा-
भवति कस्यचिद् इति । महत्यपराध ब्राह्मणस्य
दण्डमाह स एव “क्षित्या तु बन्धने बद्ध्वा राजा भक्षं
प्रदापयेत्” इति । नारदाऽपि “शिरसोमुण्डनं दण्ड-
स्तस्य निर्वासनं पुरात् । ललाटे चाभिशस्ताङ्कः प्रयाण
ङ्गर्द्धभेन च इति । परद्रष्यापहरणरूपसाहसस्वरूपं
तत्र च दण्डमाह याज्ञवल्क्यः “सामान्यद्रव्यप्रसभहरण
साहसं स्मृतम् । तन्मूल्याद् द्विगुणो दण्डो निह्नव
तु चतुर्गुणः” इति । बहुभिर्जनैः प्रहरादिकालक्रमेण
रक्ष्यमाणस्य द्रव्यस्य बलात्कारेण हरणं साहसरूपं
स्तेयमिति पूर्वार्द्धार्थः । तन्मूल्यादपहृतद्रव्यमूल्यात् ।
निह्नवे अपलापे । यः साहसं तरोति तद्द्विगुणन्दमम् ।
यस्तु साहसं कृत्वा निह्नुते स चतुर्गुणन्दाप्य इत्यु-
त्तरार्द्गार्थः । साहसिकस्य पयोजयितारं प्रत्याह
मएव “यः साहसं कारयति स दाप्यो द्विगुणन्दमम् ।
यश्चैवमुक्त्वाहन्दाता कारयेत्स चतुर्गुणम्” इति ।
द्विगुणन्दमं साहसिकदण्डाद्द्विगुणं दण्डम् ।
साहसिकविशेषं प्रत्याह स एव “अध्यांक्रोशातिक्रम-
कृद्भातृभार्य्यांप्रहारदः । गंदिथस्याप्रदाता च समुद्र-
गृहभेदकृत् । सामन्तकुलिकादीनामपकारस्य कारकः ।
पञ्चाशत्पणिको दण्ड एषामिति विनिश्चयः । स्वच्छन्दं-
पृष्ठ ५२८९
विधवागामी विक्रुष्टेनाभिधावकः । अकारणेन विक्रोष्टा
चाण्डालश्चोत्तमान् स्पृशन् । शूद्रपवजितानाञ्च दैवे
पित्र्ये च भोजकः । अयुक्तं शपथं कुर्वन् अयोग्यो
योग्यकर्मकृत् । वृषक्षद्रपशूनाञ्च पुंस्त्वस्य प्रतिघातकृत् ।
साधारणस्यापलापी दासीगर्भविनाशकृत् । पितृपुत्र-
स्वसृभ्रातृदम्पत्याचार्यशिष्यकाः । एषामपतितान्योन्य-
त्यागी च शतदण्डभाग्” इति । “अज्ञानकर्त्तृके
साहसिके पित्रादिबान्धवाः । प्रष्टव्या राजपुरुषैः सामा-
दिभिरुपक्रमैः । विज्ञेयोऽसाधुसंसर्गाच्चिह्नेर्होढेन वा
नरैः । एषोदिता घातकानान्तस्कराणाञ्च भावना ।
गृहीतः शङ्कया यस्त न तत्कार्यं प्रपद्यते । शपथेना-
वबोद्धव्यः सर्ववादेष्वयं विधिः” इति । चिह्नं रक्तलेपादि
हाढीमृतस्य धनादिकम् । ज्ञानानन्तरकर्त्तव्यमाह
व्यासः “ज्ञात्वा तु घातकं सम्यक् ससहाय सबान्धवम् ।
हन्याच्चित्रबधोपायैरुद्बेजनकरैर्नृपः” इति । वृहस्पतिः
“प्रकाशघातका ये तु तथा चोपांशुघातकाः । ज्ञात्वा
सम्यग्धनं हृत्वा हन्तव्या विविधैर्बधैः” इति । व्रह्मघ्न
क्षत्रियादिविषयमेतत् । यत आह बौधायनः “क्षत्रि-
यादीनां ब्राह्मणस्य बधे बधः सर्वस्वहरणञ्च तेषामेव
तुल्यापकृष्टबधे यथाबलमनुरूपं दण्डञ्च कल्पयोदिति” तेषां
क्षत्रियादीनान्तुल्यापकृष्टबधे सजातीयहीनजातीयबधे
दण्डं शारीरदण्डम् । एकघातार्थप्रवृत्तानां बहूनान्दो-
षानुरूपं दण्डमाह कात्यायनः “एकञ्चेद्बहवो हन्युः
संरुद्धाः पुरुषन्नराः । मर्मघाती तु यस्तेषां स घातक
इति स्मृतः” । यो मर्मघातकः स एव बधापनाधटण्ड-
भागित्यर्थः । स एव “आरम्भकृत्सहाय दाषवक्ताऽनु-
देशकः । आश्रयः शास्त्रदाता च भक्तदायो विकर्मि-
णाम् । युद्धोपदेशकश्चैव तद्विनाशप्रवर्त्तकः । उपेक्षा-
कार्य्ययुक्तश्च दोषवक्तानुमोदकः । अनिषेद्धा क्षमो यः
स्यात् सर्वे ते कार्य्यकारिणः । यथाशक्त्यनुरूपन्तु-
दण्डमेषां प्रकल्पयेत्” इति । वृहस्पतिरपि “एकञ्च
बहवो यत्र प्रहरन्ति रुषान्विताः । मर्मप्रहारको
यस्तु घातकः स उदाहृतः । मर्मघाती तु यस्तेषां
यथोक्तं प्रापयेद्दमम् । आरम्भकृत्सहायश्च दोषभागी
तदर्द्धतः । क्षतस्याल्पमहत्त्वञ्च मर्मस्थानञ्च यत्नतः ।
सामर्थ्यञ्चानुवन्धञ्च ज्ञात्वा चिह्नैः प्रसाधयेत्” इति ।
विषयविशेषे मनुष्यबधकत्तुर्दण्डाभावं दोषाभावप्रद-
र्शनपरानाह मनुः “शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो
यत्रोपरुध्यते । द्विजातीनाञ्च वर्णानां विप्लवे
कालकारिते । आत्मनश्च परित्राणे दक्षिणानाञ्च सङ्गरे ।
स्त्रीविप्राभ्युपपत्तौ च घ्नन् धर्मेण न दुष्यति” इति ।
यत्र देशे काले च धर्मस्तटाकादिरूपोभेदतच्छेदनदिना-
ऽपरुध्यते तथा शूद्रेतरवर्णसङ्गरे परदाराक्रम-
णादिरूपे राजाभावकालकारिते । तथात्मनः परतः
प्राणसशये । तथा दक्षिणानां सङ्गरे गोग्रहणनिमि-
त्तके युद्धे । तथा स्त्रीविप्राभ्युपपत्तौ दुर्बलहिंसानिवा-
रणे । धर्माद्धेतोर्घ्रन् न दुष्यति यतः । अतस्तत्र द्विजा-
र्तिभिः क्षत्रधर्माश्रयणरहितैरपि समर्थैः शस्त्रं ग्राह्य-
मित्यन्वयः । अत्र द्विजातिग्रहणं ब्राह्मणवैश्यविष-
यम् । प्रजापालनार्थं क्षत्रियस्य वचनान्तरेणैव शस्त्र
ग्रहणस्य प्राप्तत्वादित्यभिसन्धायैव बौधायन आह
“ब्राह्मणार्थे गवार्थे च वर्णानां वापि सङ्गरे । गृह्णी-
यातां विप्रविशौ शस्त्रं धर्मव्यतिक्रमे” इति । यत्तु “परी-
क्षार्थमपि ब्राह्मण आयुधन्नाददीत” इत्यापस्तम्बवचनम् ।
यच्च बोधायनवचनम् “हास्यार्थमपि ब्राह्मण आयुधं
नाददीतेति तद्द्वयमपि धर्मोपरोधादिभिन्नविषयम् ।
साहसस्तेयस्य क्रोधलोभकृतत्वमाह वृहस्पति
“साम्प्रतं साहसस्तेयं श्रूयतां क्रोधलोभजम्” इति ।
स्त्रीसंग्रहणाख्यसाहसस्वरूपमाह स एव “अनि-
च्छन्त्या यत् क्रियते सुप्तोन्मत्तप्रमत्तया । प्रलपन्त्या वा
रहसि बलात्कारकृतन्तु तत्” इति । अनिच्छन्त्या
परपुरुषेण सहेति शेषः । अनिच्छन्त्या यानि चिह्नानि
तस्याः कर्त्तव्यं राजकतव्यं चाह संवर्त्तः “नेच्छन्त्या
यानि चिह्नानि बलात्कारकृतानि च । परपुंसः
प्रसङ्गेषु नारीणान्तानि शृण्वतः । नखदन्तक्षतक्षामा-
सकचग्रसवीक्षिता । सद्यो निश्वासिता नारी बलात्कारेण
दूषिता । उच्चैर्विक्रोशयन्ती च रुदन्ती लोकसन्निधौ ।
तस्य नामवदन्ती च यथाहन्तेन दूषिता । शोचेदेवं-
विधैर्लिङ्गैर्व्रणोकृतपयोधरा । चिह्नालङ्कारकेशैश्च व्याकु-
लीकृतलोचना । राज्ञा सभ्यैः सभां नीत्वा स्वयमन्विष्य
तत्क्षणात् । यद् ब्रूयात् सहजं तत्र तत् कर्त्तव्यं
प्रयत्नतः । विवादे साक्षिणामत्र प्रकुर्वीत परिग्रहम् ।
प्रार्थनादभिशस्तस्य न दिव्यं दातुमर्हति” इति । अत्र
दण्डमाह मनुः “सहस्रं ब्राह्मणो दण्ड्यो विप्रां गुप्तां
वलाद्व्रजन् इति । गुप्तां स्वनियमेन रक्षिताम् ।
क्षत्रिवादिषवर्णविषये दण्डमाह वृहस्पतिः “सहसा
पृष्ठ ५२९०
कामयेद् यस्तु धनन्तस्याखिलं हरेत् । उत्कृत्य लिङ्ग-
वृषणौ भ्रामयेद् गर्द्धभेन तु” इति । कामयेत्
परस्त्रियङ्गच्छेत् । अयमेव दण्डोऽनुलोमप्रतिलोमजात्योः
सजातीयपरभार्य्यागमने वेदितव्य इति मदनरत्ने ।
हीनजातीयपरस्त्रीगमने ब्राह्मणादिष्वेतदर्द्धपरिमितो
दण्डः । उत्कृष्टजातीयपरदारगमने अयमेव दण्डो
बधसहितः कार्य्य इत्याह स एव “दमोनेयः समायान्तु
हीनायामधिकस्ततः । पुंसः कार्योऽधिकायान्तु गमने
सप्रमापणम्” इति । दमः सहसा कामयेदिति वाक्योक्तः ।
नेयः प्रापणीयः । यत्तु बधमात्राभिधायकं कात्यायन-
वचनम् “स्त्रीषु कृतोपभोगः स्यात् प्रसह्य पुरुषो यदा ।
बधे तत्र प्रवर्त्तेत कार्य्यातिक्रमणं हि तद्” इति । तन्नि-
र्गुणस्य भार्य्यागमने वेदितव्यम्” । सहसा अविवेकेन
कृतं कर्म । २ अविमृष्यकृतकर्मणि, त्रि० । “तेन साहसमनु-
ष्ठितं पुनः” काव्यप्र० ३ साहसमनुसरति अण् । स्मृत्युक्ते
३ दण्डविशेषे पु० “साशीतिपणमाहस्रोदण्ड उत्तम-
साहसः । तदर्द्धं मध्यमः प्रोक्तस्तदर्द्धमधमः स्मृतः”
स्मृतिः । “पाकयज्ञे तु साहस” इत्युक्ते ४ अग्निभेदे च पु० ।

साहसिक त्रि० साहसे प्रसृतः ठक् । १ मनुष्यमारणाद्यभि-

रते २ चोरे ३ पारदारिके ४ पारुष्यकारिणि च ।

साहस्र न० सहस्राणां समूहः अण् । १ सहस्रसमूहे ।

स्वार्थे अण् । २ सहस्रसङ्ख्यायाम् न० । सहस्रं
परिमाणमस्य अण् । ३ सहस्रसंख्यान्विते त्रि० । ४ सहस्र-
संख्यकगजसमूहे पु० अमरः ।

साहायक न० सहायस्य भावः वुण् । साहाय्ये ।

साहाय्य न० सहायस्य भावः ष्यञ् । सहायतायाम् ।

साहित्य न० सहितस्य भावः ष्यञ् । १ मेलने २ परस्पर-

सापेक्षाणां तुल्यरूपाणामेकक्रियान्वयित्वे श्राद्धवि-
३ तुल्यवदेकक्रियान्वयित्वे ४ एकक्रियान्वयित्वमात्रे ५ बुद्धि-
विशेषविषयत्वे शब्द० प्र० ६ पद्यात्मके काव्ये च ।

साह्य न० सह्यस्य भावः अण् सह--ण्यत् वा । १ सह्यत्वे

२ मेलने धरणिः ३ सहनीये त्रि० ।

साह्वय पु० आह्वयेनाभिधानेन । १ अभिधानसहिते

“जगाम गजसाह्वयम्” भारतम् । मेषादिप्राणिकरण-
द्यूनरूपे समाह्वये च शब्दर० ।

सिंह पुंस्त्री० हिन्स--अच् पृषो० “सिंहो वर्णविपय्ययात्”

इत्युक्तेः वर्णविप्र्य्ययः । स्वनामख्याते १ पशुभेदे अमरः
स्त्रियां ङीष् । गुहाशयशब्दे सिंहमांसगुणा दृश्याः ।
२ रक्तशोभाञ्जने राजनि० ३ मेषादितः पञ्चमे राशौ ज्यो०
सिंहराशिश्च २१६०० कलःत्मकराशिचक्रस्य ७२००
कलोपरि १८०० शतकलात्मकः मघापूर्वफल्गुन्युत्तरफल्गु-
न्याद्यपादात्मकः । “पुमान् स्थिरोऽग्निदिनपित्तरूक्षपी-
तोष्णपूर्वेण दृढ़श्चतुष्पाद् । समोदयो दीर्घरवोऽल्पसङ्गप्रजो
हरिः शैलनृपोऽथ धूम्रः” मील० ता० तत्स्वभावादि
उक्तम् । तस्य स्वामी सूर्य्यः । ४ जिनध्वजे हेमच० ।
५ उत्तरपदस्थः ५ श्रेष्ठार्थे अमरः । नरःसिंह इवेति
विग्रहे “उपमितं व्याघ्रादिभिः सामान्याप्रयोगे” पा०
उपमितसमासे नरसिंहादिशब्दात् सिंहतुल्यशौर्य्यादि-
युक्तो नर इति बोधात् नरस्य श्रेष्ठत्वं द्योत्यते इति
बोध्यम् । ६ नाड्यां स्त्री राजनि० । ७ प्रासादभेदे देवगृह-
शब्दे ३६८१ पृ० दृश्यम् ८ सिंहासनभेदे तच्छब्दे दृम्यम्

सिंहकेलि पु० सिंहस्येव केलिरस्य । मञ्जुघोषे त्रिका० ।

सिंहकेशर पु० सिंहस्येव केशरोऽस्य । बकुले त्रिका० ।

सिंहतल पु० संहतल + पृषो० । करद्वयमेलनरूपे अञ्जलौ ।

रामाश्रमः ।

सिंहतुण्ड पु० सिंहस्येव तुण्डः पुष्पमस्य । सेहुण्डवृक्षे राजनि० ।

सिंहद्वार न० सिंहचिह्नितं द्वरम् शाक० । पुरप्रवेशन-

योग्ये द्वारे हेमच० ।

सिंहध्वनि पु० सिंहम्येव ध्वनिः । १ सिंहतुल्यनादे सिंह-

नादादयोऽप्यत्र अमरः । ६ त० । २ सिंहस्य शब्दे ।

सिंहनर्दिका पु० सिंह इव नर्दति नर्दशवुल् । (सिङ्गा)

वाद्यभेदे हारा० ।

सिंहनादिका स्त्री सिंहमपि नादयति नद--णिच्--ण्वुल्

१ दुराब्दयाम् शलभाच० । २ सिंहनर्दिकायां हारा० ।

सिंहपर्णी स्त्री सिहस्य पुच्छ इव पर्णमस्या ङीप् । वासक-

वृक्षे जटा० ।

सिंहपुच्छिका स्त्री सिंहस्य पुच्छ इव पुत्त्राण्यस्याः--कप्,

अव इत्त्वम् । चित्रपर्णिकायां (क्षुद्रचाकुले) वृक्षे रत्नमा०

सिंहपुच्छी स्त्री सिंहस्य पुच्छ इव पुष्पाणि पर्णानि वास्याः

ङीप् । १ चित्रपर्ण्यां २ पृश्निपर्ण्याम् अमरः ३ माषपर्ण्याञ्च
रत्नमा० ।

सिंहपुष्पी स्त्री सिंहस्य पुच्छ इव पुष्पाण्यस्याः ङीष् पृश्निपर्ण्याम् राजनि० ।

सिंहमुखी स्त्री सिंहस्य मुख मुखस्थदन्त इव पुष्पमस्याः

ङीप् । वासके राजनि० ।

सिंहयाना स्त्री सिंहो यानं बाहनं यस्याः । दुर्गायाम्

हेमच० सिंहवाहनादयोऽप्यत्र ।
पृष्ठ ५२९१

सिंहल पु० सिंहोऽस्त्यत्र लच् । देशभेदे । तद्देशप्रभवत्वात्

२ रङ्गे धातौ हेमच० । ३ रीतौ ४ त्वचे च न० राजनि० ।
सिहलदेशश्च कूर्मविभागशब्दे २१६८ पृ० दक्षिणस्या-
मुक्तः ।

सिंहलस्था स्त्री सिंहले तिष्ठति स्था--क । सिंहल्यां ल तायां राजनि० ।

सिंहलास्थान पु० सिंहल आस्थानं यस्य । तालसदृशे

वृक्षभेदे शब्दर० ।

सिंहलील पु० रतिबन्धभेदे “लिङ्गोपरि स्थिता नारी भूमौ

दत्त्वा पदद्वयम् । हृदये दत्तहस्ता चेत् सिंहलीलः प्रकी-
र्चितः” । लिङ्गोपरि स्थिता नारी कान्तोरुस्थपदद्वया ।
हृदये दत्तहस्ता चेत् सिंहलीलोऽप्यसावपि” रतिम० ।

सिंहवाहिनी स्त्री सिंहरूपो वाहो विद्यतेऽस्या इनि ।

दुर्गायाम् “सिंहमारुह्य कल्पान्ते निहतो महिषी यतः ।
महिषघ्नी ततो देवी तथा वै सिंहवाहिनी” देवीपु०
४५ अ० ।

सिंहविक्रान्त पुंस्त्री० सिंह इव विक्रान्तः । १ अश्वे हारा०

स्त्रियां ङीष् २ सिंहतुल्यविक्रमे त्रि० ।

सिंहविन्ना स्त्री सिंह इव विन्ना विद--क्त । माषपर्ण्याम् राजनि० ।

सिंहसंहनन त्रि० सिंहस्येव संहननमङ्गमस्य । १ वराङ्ग-

युक्ते अमरः २ सिंहतुल्यदृढ़ाङ्गे च । “सिंहसंहननो
युवा” रघुः ।

सिंहा(शिङ्घा)न न० शिघि--आनच् पृषो० । १ लौहमले

अमरः । २ नासिकामले (सिकनी) शब्दर० ।

सिंहावलोक पु० न्यायभेदे न्यायशब्दे ४१६९ पृ० दृश्यम् ।

सिंहासन न० सिंहचिह्नितमासनम् । १ राजासनभेदे

तल्लक्षणं युक्तिकल्पतरौ दर्शितं यथा
“राज्ञो वरासनं नाम श्रीसिंहासनमुच्यते । शुभे मुहूर्त्ते
शुभमासवर्षे सुवारवेलातिथिचन्द्रयोगे । काले निरुत्पात
निरोतिभावे सिंहासनावस्थविधिं वदन्ति । स्थिरराशि
स्थिते भानौ चन्द्रे च स्थिरभोदिते । आसनारम्भमिच्छन्ति
गृहारम्भोऽपि येषु च” । एतेन गृहारम्भसिंहासनयोरा-
रम्भ एक एव कालः । तत्र क्रमः “वाणवेदाग्निपक्षाणि
सोपानानि युगैः क्रमात् । चत्वारिंशत्तथा त्रिंशत् विंशतिः
षोड़शैव च । सिंहान्वितानि ज्ञेयानि चरणानि युगैः
क्रमात् । पद्मः शङ्खो गजो हंसः सिंहो भृङ्गो मृगो
हयः । अष्टौ सिंहासनानीति नीतिशास्त्रविदो विदुः ।
आदित्यादि दशाजागां भूपतीनां यथाक्रमम् । राज्ञः
स्वहस्तेरष्टाभिरायामपरिणाहयोः । राजपात्रमिदं नाम
सोपानं पुरुषोन्नतम् । तदर्द्धमानं तन्मध्ये राजासन-
मुदाहृतम् । अर्द्धोन्नतमिदं रम्यं प्रोक्तं कलिमही-
भुजाम् । दिगष्टर्द्ध्यब्धिकोणः स्यात् ब्रह्मादीनां
यथायथम्” । अथाष्टानां लक्षणानि “गम्भारीकाष्ठघटितः
पद्ममालोपचित्रितः । पद्मरागविचित्राङ्गः शुद्धः काञ्चन
संवृतः । चरणाग्रे पद्मकोषात् पद्मरागविचित्रिताः ।
दिक्ष्वष्टौ पुत्रिका राजद्वादशाङ्गलिसम्मिताः । राजा-
सनं चतस्रश्च एवं द्वादशपुत्रिकाः । रत्नैश्च नवभिः
कार्य्यं निर्माणं चान्तरान्तरा । रक्तवस्त्रावृतं ह्येतत्
पद्मसिंहासनं१ मतम् । अत्रोषित्वा नरपतिः प्रतापमति
विन्दति । भद्रेन्द्रकाष्ठघटितः शङ्खमालोपशोभितः ।
शुद्धस्फटिकचित्राङ्गः शुद्धरूप्योपशोभितः । चरणाग्रे
शङ्खनाभ्यः पुत्रिकाः सप्नविंशतिः । स्थाने स्थाने विधा-
तव्याः शुद्धस्फटिकसंस्कृताः । शुक्लपट्टावृतं ह्येतत् शङ्ख-
सिंहासनं२ मतम् । पनसेनोपघटितो गजमालोपशो-
भितः । विद्रुमैरपि वैदूर्य्यैः काञ्चनेनापि शोभितः ।
चरणाग्रे गजशिरःपुच्छादेकैकपुत्रिका । माणिक्य-
रचितारक्तवस्त्रादिकविभूषणम् । गजसिंहासनं ३ नाम
साम्राज्यफलदायकम् । शालकाष्ठेन घटितो
हंसमालोपशोभितः । पुष्परागैः काञ्चनेन कुरुविन्दैश्च
चित्रितः । चरणाग्रे हंसरूपाः पुत्रिकास्त्वेकविंशतिः ।
गोमेदकोपथटिताः पीतवस्त्रविभूषणम् । हंससिंहासनं ४
नाम सर्वानिष्टविनाशनम् । चन्दनेनोपघटितः सिंह-
मालोपभूषितः । शुद्धहीरकचित्राङ्गः शुद्धकाञ्चननि-
र्मितः । चरणानां सिंहलेखाः पुत्रिकाश्चैकविंशतिः ।
मुक्ताशुक्तिभिरन्यैश्च निर्मलैरेव भूषणम् । शुद्धशुण्डा-
वृतं ह्येतत् सिंहसिंहासनं ५ मतम् । अत्रोषित्वा
नरपतिः कृत्स्नां साधयति क्षितिम् । भृङ्गमालोपसहितं
शुद्धचम्पककल्पितम् । शुद्धैर्मरकतैर्युक्तं पादाग्रे पद्म-
कोषिकाः । द्वामिंशतिः पुत्रिकास्तु नीलवस्त्रादिभूष-
णम् । भृङ्गसिंहासनं६ नाम शत्रुक्षयजयप्रदम ।
निम्बकाष्ठेन घटितं मृगमालोपशोभितम् । शुद्धनीलै-
र्महानीलैः काञ्चनेनापि चित्रितम् । चरणाग्रे
मृगशिराश्चत्वारिंशच्च पुत्रिकाः । नीस्नवस्त्रादियुक्तन्तु
मृगसिंहासनं ७ मतम् । लक्ष्मीयिजयसम्पत्तिर्नैरुज्यपदमुत्त-
मम् । केशरेणोपठटितं हयमालोपशोभितम् । र्समस्त-
वस्त्रैर्भूष द्याः पुत्रिकाः पञ्चसप्ततिः । चरणाग्रे
हयशिरश्चित्रवस्त्रादिमूषणम् । हयसिंहासनं ८ मात लक्ष्मी
पृष्ठ ५२९२
विजयवर्द्धनम् । इत्येतत् कथितं सारं महासिंहास-
नाष्टकम् । यथा भोजेन कथितं यथा चान्यैश्च
पण्डितैः । एतस्यातिक्रमं दम्भाद् यः कुर्य्यात् पृथिवी
पतिः । अचिरादेव कुरुते तस्य मृत्युरतिक्रमम् ।
परासनस्थो यो राजा यो राजा च निरासनः । स परैर्हन्यते
सिंहैरिव मत्तगजाधिपः” । चतुरङ्गक्रीड़ायां २ जयभेदे
चतुरङ्गशब्दे २८६३ पृ० दृश्यम् । ३ योगासनभेदे च
तल्लक्षणं यथा
“गुल्फो च वृषणस्याधः सीवन्याः शार्श्वयोः क्षिपेत् ।
दक्षिणे सव्यगुल्फन्तु दक्षगुल्फन्तु सव्यके । हस्तौ च
जान्वोः संस्थाप्य स्वाङ्गुलीः सप्रसार्य्य च । व्यात्तवक्त्रो
निरीक्षेत नासाग्र सुसमाहितः । सिंहासनं भवेदे-
तत् पूजितं योगिभिः सदा । बन्धत्रयस्य सन्धानं कुरुते
चासनोत्तमम्” इति हठप्रदीपः । ४ रतिबन्धभेदे पु०
“स्वजङ्घाद्वयबाहू च कृत्वा योषापदद्वये । स्तनौ
धृत्वा रमेत् कामी बन्धः सिंहासनो मतः” । इति
रतिमञ्जरी ५ चक्रभेदे चक्रशब्दे २८१९० पृ० दृश्यम् ।

सिंहास्य पु० सिंहस्यास्यमास्यस्थदन्त इव पुष्पं यस्य ।

वामके अमरः ।

सिंहिका स्त्री । काश्यपपत्न्यां राहुमातरि । “कश्यपस्य

गृहिणी तु सिंहिकां राहुवास्तुतनयावजीजनत् ।
पूर्बजो हरिनिकृतकन्धरो दैवतैरवरजो निपातितः” वास्तुयागत०।

सिंहिकासुत पु० ६ त० । १ राहौ सिंहिकापुत्रादयोऽप्यत्र । २ वास्तुपुरुषे च ।

सिंही स्त्री हिनस्ति रोगान् हिन्स--अच् पृषो० । वार्त्ता-

क्याम् अमरः २ कण्टकारिकायाम् ३ वासके मेदि० ४
वृहत्यां राजनि० ५ राहुमातरि विश्वः ६ मुद्गपर्ण्याम्
सिंह + जातौ ङीष् । ७ सिंहयोषिति ।

सिंहीलता स्त्री कर्म० । वृहत्यां भावप्र० ।

सिक सेचने सौत्र० पर० सक० सेट् । सेकति असेकीत् ।

पर्मुदासात् न षापदेशः ।

सिकता स्त्री ब० व० । सिक--अतच् किच्च । बालुकायाम्

मेदि० । सिकताः सन्त्यत्र अण् तस्य लुप् । २ सिकता-
युक्तदेजे स्त्री अमरः ।

सिकतामय त्रि० सिकता + मयट् । बालुकामये तटादौ अमरः ।

सिकतावत् त्रि० सिकताः सन्त्यत्र मतुप् मस्य वः । बालु-

कायुक्तदेशे अमरः ।

सिकतिल त्रि० सिकताः मन्त्यत्र इलच् । बालुकायुक्तदेशे भरतः ।

सिक्थ न० सिच--थक् । १ मधूच्छिष्टे (मोम) २ नील्याञ्च

हेमच० । स्वार्थे क । तत्रार्थे भक्तपुलाके ग्रासे च पु०
मेदि० मधूच्छिष्टे न० अमरः ।

सिक्य न० सिक--यत् । (सिके) रज्जुनिर्मिते पदार्थे ।

सिच् त्रि० सिच--क्विप् । १ सेचनकर्त्तरि कर्मणि क्विप् । २ वस्त्रे

हेमच० ।

सिचय पु० सिच--अयच् किच्च । १ वस्त्रे हेमच० २ जीर्णवस्त्रे त्रिका० ।

सिञ्चिता स्त्री सिच--इतच् पृषो० । पिष्पल्याम् शब्दच० ।

सित न० सो--क्त । १ रौप्ये २ मूलके राजनि० । ३ चन्दने

रत्नमा० ४ शरे ५ शुक्रग्रहे ६ शुक्लवर्णे च पु० अमरः ।
७ तद्वति ८ समाप्ते ९ बद्धे १० ज्ञात च त्रि० विश्वः ।

सितकण्ठ पुंस्त्री० सितः कण्ठाऽस्य । दात्यूहे खगे स्त्रियां ङीष् ।

सितकर पु० सित ४ करः किरणो यस्य । १ चन्द्रे २ कर्पूरे

चंराजनि० सितमयूखादयोऽप्यत्र ।

सितकर्णी स्त्री सितः कर्ण इव पुष्पमस्याः ङीप् । वासके राजनि० ।

सितकुञ्जर पु० सितः कुञ्जरोऽस्य १ इन्द्रे कर्म० । २ ऐरावतगजे

सितगुञ्जा स्त्री कर्म० । श्वेतगुञ्जायाम् राजनि० ।

सितच्छत्रा स्त्री सित छत्रमिव पुष्पमस्याः । शतपुष्पायाम् अमरः

सितच्छद पुंस्त्री० सितश्छदः पक्षो यस्य । १ हंमे हेसच०

स्त्रियां ङीष् । २ श्वेतदूर्वायाम् स्त्री राजनि० टाप् ।

सितदर्भ पु० कर्म० । श्वेतकुशे राजनि० ।

सितदीप्य पु० दीपयत्यग्निम् दीप--णिच्--कर्त्तरि यत्

कर्म० । श्वेतजीरके राजनि० ।

सितदूर्वा स्त्री कर्म० । श्वेतदूर्वायाम् रत्नमा० ।

सितद्रु पु० कर्म० । १ मोरटभेदे रत्नमा० २ शुक्लवंर्णवृक्षे च ।

सितधातु पु० कर्म० । १ कतिन्याम् (खड़ो) राजनि० २ श्वेत-

धातौ रौप्यादौ च ।

सितपक्ष पुंस्त्री० सितः पक्षोऽस्य । १ हंसे शब्दर० स्त्रियां

ङीष् । कर्म० । चन्द्रस्य वृद्धिकारके पञ्चदशतिथ्यात्मके
२ शुक्ले पक्षे ।

सितपर्णी स्त्री सितानि पर्णान्यस्याः ङीप् । अर्कपुष्पिकावृक्षे रत्नमा० ।

सितपाटलिका स्त्री कर्म० । (श्वेत्रपारुल) वृक्षे राजनि० ।

सितपुङ्खा स्त्री सितः पुङ्खोऽस्याः । श्व तशरपुङ्खावृक्षे राजनि०

सितपुष्प न० सितानि पुष्पाण्यस्य । १ कैवर्त्तीमुस्तके जटा० ।

२ तगरवृक्षे पु० शब्दर० ३ काशे ४ श्वेतरोहितकवृक्षे च
पु० राजनि० । ५ श्वेतापराजितायां स्त्री ङीप् । ६ मल्लि-
कायां स्त्री टाप् । कर्म० । ७ श्वेते पुष्पे न० ।

सितमरिच न० कर्म० । शुभ्रमरिचे राजनि० ।

पृष्ठ ५२९३

सितमाष पु० नित्यक० । राजमाषे (वरवटी) हारा० ।

सितरञ्जन पु० सितमपि रञ्जयति रन्ज--णिच्--ल्युट् ।

१ पीतवर्णे हेमच० २ तद्वति त्रि० ।

सितवर्षाभू स्त्री वर्षासु भवति भू--क्विप् कर्म० । श्वेतपुन-

र्नवायाम् राजनि० ।

सि(शि)तसायका स्त्री सितः सायको यस्याः ५ ब० । शुभ्रशरपुङ्खावृक्षे राजनि० ।

सितशिम्बिक पु० सिता शिम्बिर्यस्य कप् । गोधूमे हेमच०

सितशूक पु० सितः शुभ्रः शूको यस्य । यवे भरतः ।

सितशूरण पु० कर्म० । वनशूरणे (वनओल) राजनि० ।

सितसर्षप पु० कर्म० । गौरसर्षपे राजनि० ।

सितसार(क) पु० सितः सारो निर्यासो यस्य वा कप् ।

शालिञ्चशाके राजनि० ।

सितसिन्धु स्त्री नित्यक० । गङ्गायां शब्दर० ।

सिता स्त्री सों--क्त । १ शर्करायाम् ।

“खण्डन्तु सिकतारूपं सुश्वेतं शर्करा सिता । सिता
सुमधुरा रुच्या बातपित्तास्रदाहहृत् । मूर्च्छाच्छर्दिज्वरान्
हन्ति सुशीता शुक्रकारिणी” राजव० । २ मल्लिकायां
शब्दर० ३ श्वेतकण्टकारिकायां ४ वाकुच्यां ५ विदार्य्यां
६ श्वेतदूर्वायां ७ चन्द्रिकायां ८ कुटुम्बिन्यां ९ सुरायां
१० पिङ्गायां ११ त्रायमाणलतायां १२ तेजन्यां राजनि०
१३ पर्वतजातापराजितायां रत्नमा० ।

सिताखण्ड पु० सिताया इव खण्डः । मधुजातशर्करायाम्

“मधुजा शर्करा रूक्षा कफपित्तहरी गुरुः । छर्द्यती-
सारतृड्दाहरक्तहृत् तुवरा हिमा । यथा यथाऽस्या
नैर्मल्यं मधुरत्वं तथा तथा । स्नेहलाघवशैत्यादि
सरसत्वं तथा तथा” भावप्र० ।

सि(शि)ताग्र पु० सि(शि)तमग्रं यस्य । कण्टके हारा० ।

सिताङ्क पुंस्त्री० सिता सिकता अङ्को यस्य । वालुकागड़े

(वेलिया) मत्स्ये हारा० स्त्रियां ङीप् ।

सिताङ्ग पु० सितमङ्गं यस्य । श्वेतरोहिषे राजनि० ।

सितादि पु० सिताया आंदिः कारणम् । गुड़े राजनि० ।

सितापाङ्ग पुंस्त्री० सितमपाङ्गं यस्य । मयूरे त्रिका०

स्त्रियां ङीष् ।

सिताब्ज न० कर्म० । श्वेतकमले राजनि० सिताम्भोजादयोऽप्यत्र ।

सिताभ पु० सिता आभा यस्य । १ कर्पूरे रायमुकुटः २ चन्द्रे

च ३ तक्रे स्त्री राजनि० ।

सिताभ्र पु० अभ्र इव सितः शुभ्रः राज० । कर्पूरे अमरः ।

सिताभ्रक न० अभ्रकमिव सितम् राज० । कर्पूर राजनि० ।

सिताम्बर पु० सितमम्बरं यस्य । १ श्वेतवस्त्रधारिणि व्रतिनि

हला० २ श्वेतवस्त्रधारिमात्रे त्रि० ।

सितार्जक पु० नित्यकर्म० । श्वेततुलस्याम् राजनि० ।

सितालक पु० आलयति भूषयति अल--णिच्--ण्वुल् नित्य

कर्म० । श्वेतमन्दारे राजनि० ।

सितालता स्त्री सिता सती आलतते आ + लत--अच् । श्वेतदूर्वायाम् रत्नमा०

सितालिकटभी स्त्री सितेन शुभ्रवर्णेन अलति अल--इन्

कर्म० । श्वेतकिणिहीवृक्षे राजनि० ।

सितावर पु० सितं श्वेततामावृणोति आ + वृ--अच् (सुसुनि)

१ शाकभेदे २ वाकुच्यां स्त्री राजनि० ङीष् । “चाङ्गेरी-
सदृशः पत्रैश्चतुर्दल इतीरितः । शाको जलान्विते देशे
चतुष्पत्रीति चोच्यते” भावप्र० ।

सितासित पु० वर्णेन सितः वस्त्रेणासितः । १ बलदेवे राजनि० २ गङ्गायमुनयोः स्त्री द्वि० व०

सिताह्वय पु० सितमाह्वयते आ + ह्वे--श । १ श्वेतशिग्रौ २ श्वेत-

रोहिते च राजनि० ।

सिति पु० सी--क्तिच् । १ शुक्लवर्णे २ कृष्णवर्णे च । २ तद्वति त्रि० रायमु०

सितिमन् पु० सितस्य भावः इमनिच् । शुभ्रतायाम् ।

“सित सितिम्ना सुतरां मुनेर्वपुः” माघः ।

सितिवार पु० सितिं श्वेततां वृणोति वृ--अण् । सुनिषण्णके

(सुसुनि) शाके भावप्र० ।

सितिवासस् पु० सिति कृष्ण वासोऽस्य । वलदेवे ।

सितेतर पु० सितादितरः । १ श्यामशालौ २ कुलत्थे च

३ शुभेतरवर्णे ४ तद्वति त्रि० ।

सितेतरगति पु० सितेतरा कृष्णा गतिरस्य । कृष्णवर्त्मनि वह्नौ हला० ।

सितोदर पु० सितमुदरमस्य । कुवेरे हेमच० ।

सितोपल पु० कर्म० । १ स्फटिके राजनि० कठिन्यां न०

त्रिका० । ३ शर्करायां स्त्री हेमच० ।

सिद्ध न० सिध--क्त । १ सैन्धबलबणे राजनि० अकृत्रिमत्वा-

तयात्वम् २ निष्पन्ने ३ पक्वे ४ नित्ये च त्रि० शब्दर० ।
सिद्धिरस्त्यस्य अच् । ५ व्यासादौ मुनौ ६ देवयोनिभदे
च पु० अमरः तल्लोकश्च चन्द्रलोकादधःस्थो व्यामस्थितः
यथोक्तं सू० सि० “मन्दामारज्यभूपुत्रसूर्य्यशुक्रेन्दुजे-
न्दवः । परिभ्रमन्त्यधोऽधःस्थाः सिद्धविद्याधरा घनाः”
७ निश्चिते त्रि० ८ विष्कम्भादिषु मध्ये द्वाविंशयोगे ज्यो०
८ गुडे १० कृष्णधुस्तूरे पु० राजनि० । ११ सूक्ते त्रि०
हेमच० १२ व्यापारे पु० शब्दर० ज्यातिषाक्ते १३
योगिनीदशामध्ये सप्तम्यां दशायां स्त्री । दशाशब्द ३५०५
पृ० दृश्यम् । तन्त्रोक्ते अकथहचक्रस्थे साधक-
पृष्ठ ५२९४
नामाद्याक्षरयुक्तकोष्ठस्थाद्याक्षरयुक्ते १४ मन्त्रभेदे पु०
अकथहशब्दे ३८ पृ० दृश्यम् । १५ घञादिवाच्ये क्रियाभेदे स्त्री
१६ सिद्धियुते मन्त्रे पु० “मन्त्रसिद्धेरुपायश्च गौतमीये
“पुनः सोऽनुष्ठितो मन्त्रो यदि सिद्धो न जायते ।
उपायास्तत्र कर्त्तव्याः सप्त शङ्करभाषिताः । भ्रामणं
रोघनं वश्यं पीड़नं पोषशोषणम् । दहनान्तं
क्रमात् कुर्य्यात् ततः सिद्धो भवेन्मनुः । भ्रामणं
वायुवीजेन यथानुक्रमयोगतः । तन्मन्त्रं यन्त्र आ
लिख्य सिह्लकर्पूरकुङ्कुमैः । उशीरचन्दनाभ्यान्तु मन्त्र
संग्रथितं लिखेत् । क्षीराज्यमधुतोयानां मध्ये तल्लि-
खितं भवेत् । पूजनाज्जपनाद्धोमात् भ्रामितः सिद्धिदो
भवेत् । भ्रामितो यदि नो सिद्धो रोधनं तस्य
कारयेत् । सारस्वतेन वीजेन संपुटीकृत्य संजपेत् । एवं
रुद्धे भवेत् सिद्धो न चेदेतद्वशीकुरु । अलक्तचन्दनं कुष्ठं
हरिद्रामादनं शिला । एतैस्तु मन्त्रमालिख्य भूर्ज-
पत्रे सुशोभने । धार्य्यं कण्ठे भवेत् सिद्धः पीड़नं वास्य
कारयेत् । अधरोत्तरयोगेन पदानि परिजप्य वै । ध्या-
येच्च देवतां तद्वत् अधरोत्तररूपिणीम् । विद्यामादित्य
दुग्धेन लिखित्वाक्रम्य चाङ्घ्रिणा । तथाभूतेन मन्त्रेण
होमः कार्य्यो दिने दिने । पीड़ितो लज्जयाविष्टः
सिद्धः स्यादथ पोषयेत् । बालायास्त्रितयं वीजमाद्यन्ते
तस्य योजयेत् । गोक्षीरमधुनालिख्य विद्यां पाणौ
विभावयेत् । पोषितोऽयं भवेत् सिद्धो न चेत् कुर्वीत-
शोषणम् । द्वाभ्यान्तु वायुवीजाभ्यां मन्त्रं कुर्य्याद्वि-
दर्भिणम् । एषा विद्या गले धार्य्या लिखित्वा वर
भस्मना । शोषितोऽपि न सिद्धः स्यात् दहनीयोऽग्निवी-
जतः । आग्नेयेन तु वीजेन मन्त्रस्यैकैकमक्षरम् ।
आद्यन्तमध ऊर्द्ध्वञ्च योजयेद्दाहकर्मणि । ब्रह्मवृक्षस्य
तैलेन मन्त्रमालिख्य धारयेत् । कण्ठदेशे ततो मन्त्रः
सिद्धः स्याच्छङ्करोदितम् । इत्येतत्कथितं सम्यक् केवलं
तव भक्तितः । एकेनैव कृतार्थः स्याद् बहुभिः कुमु
मुव्रते!” तन्त्रसारः ।

सिद्धक पु० सिद्ध इव इवार्थे कन् । १ सिन्धुवारे २ शालवृक्षे च राजनि० ।

सिद्धगङ्गा स्त्री सिद्धालोकस्था गङ्गा शाक० । मन्दाकिन्याम्

जटा० ।

सिद्धजल न० सिद्धं पक्वं जलमत्र । १ काञ्जिके कम० । २ पक्वे जले सिद्धतोयादयोऽप्यत्र ।

सिद्धदेव पु० सिद्धानां पूज्यः देवः । महादेवे शब्दर० ।

सिद्धधातु पु० सिद्धः प्रसिद्धो धातुः । पारदे त्रिका० ।

सिद्धपीठ पुंन० कर्म० । “जातो लक्षबलिर्यत्र होमो वा

कोटिसङ्ख्यकः । महाविद्याजपाः कोट्यः सिद्धपीठः
प्रकीर्त्तितः” इति तन्त्रोक्ते १ स्थानभेदे पीठशब्दे ४३४२
पृ० दर्शिते २ स्थानभेदे च ।

सिद्धपुर न० कर्म० । “लङ्का कुमध्ये यमकोटिरस्याः प्राक,

पश्चिमे रोमकपत्तनञ्च । अधोगतं सिद्धपुरञ्च” सि० शि० उक्ते
भूगोलस्थेषु भूवृत्तपादान्तरितदेशस्थेषु चतुर्षु देवनिर्मि-
तेषु पुरेषु मध्ये लङ्काधोभागस्थे पुरभेदे ।

सिद्धपुष्प पु० सिद्धप्रियं पुष्पं यस्य । करवीरवृक्षे राजनि० ।

सिद्धप्रयोजन पु० सिद्धं प्रयोजनं यस्मात् ५ ब० । गौरसर्षपे

राजनि० । २ सिद्धाभीष्टे न० ।

सिद्धमोदक पु० तवराजोद्भवखण्डे राजनि० ।

सिद्धरस पु० सिद्धः प्रसिद्धो रसः । १ पारदे अमरः सिद्धो

रसोऽत्र । २ धातुमात्रे त्रि० मेदि० ।

सिद्धविद्या स्त्री सिद्धा स्वतःसिद्धा विद्या मन्त्रो यस्याः । “काली

तारा महाविद्या षोड़शी भुवनेश्वरी । भैरवी छिन्नमस्ता
च विद्या धूमावती तथा । वगला सिद्धविद्या च मातङ्गी
कमलात्मिका । एता दश महाविद्याः सिद्धविद्याः
प्रकीर्त्तिताः” इति तन्त्रोक्तासु दशसु काल्यादिषु देवीषु ।

सिद्धसाधन न० सिद्धस्य निश्चितस्य साधनमनुमानम् । १ न्या-

योक्ते सिषाधयिषाविरहकाले साध्यवत्त्वेन निश्चितस्य
पुनरनुसानरूपे दोषे । सिद्धं साधयति ल्यु । २ श्वेत-
सर्षसे पु० राजनि० । सिषाधयिषासत्त्वे तु सिद्धस्यापि
अनुमानं भवत्येव “प्रत्यक्षपरिकलितमप्यर्थमनुमानेन
“बुभुत्सन्ते तर्करसिका” इति वाचस्पत्युक्तेः । तदसत्त्वे
तु नानुमितिः “न हि करिणि दृष्टे चित्कारेण तमनु-
मिमतेऽनुमातारः” इति तस्यैव वचनान्तरात् । सिद्धेश्च
यथाऽनुमितिविरोधित्वम् तथा सिद्धिशब्दे वक्ष्यते ।
संशयपक्षतावादिमते निश्चयेन संशयस्य प्रतिरोधात्
पक्षताऽसम्भवेन नानुमितिरिति बाध्यम् । सिद्धसाधनञ्च
पक्षताविघटकत्वेनाश्रयासिद्धावन्तर्भवतीति निग्रहस्था-
नान्तरमित्यन्ये ।

सिद्धसाध्य पु० अकथहशब्दोक्ते साधकनामाद्याक्षरयुक्तकोष्ठा-

वधिद्वितीयकोष्ठस्थाद्याक्षरयुक्ते तन्त्रोक्ते मन्त्रभेदे
अकथहशब्दे दृश्यम् ।

सिद्धसिद्ध पु० तन्त्रोक्ते अकथहशब्दोक्ते साधकनामाद्यक्षर-

युक्तकोष्ठास्थिताद्याक्षरयुक्ते मन्त्रभेदे अकथहशब्दे दृश्यम्

सिद्धसिन्धु स्त्री ६ त० । गङ्गायाम् त्रिका० सिद्धनद्यादयोऽप्यत्र

पृष्ठ ५२९५

सिद्धसुसिद्ध पु० तन्त्रोक्ते मन्त्रभेदे अकथहशब्दे दृश्यम् ।

सिद्धान्त पु० सिद्धः निश्चितोऽन्तो यस्मात् । प्रमाणाद्युपन्या-

सेन पूर्वपक्षनिरासके सिद्धपक्षस्य स्थापनरूपे १ वाक्यस्तोमे
२ ज्योतिःशास्त्रभेदे च स च सूर्य्यसिद्धान्तः सोमसिद्धान्तादिः
“त्रुट्यादिप्रलयान्तकालकलनामानप्रभेदः क्रमाच्चारश्च द्यु-
सदां द्विधा च गणितं प्रश्नास्तथा सोत्तराः । भूधिष्ण्य-
ग्रहसंस्थितेश्च कथनं यन्त्रादि यत्रोच्यते सिद्धान्तः
स उदाहृतोऽत्र गणितस्कन्धप्रबन्धे बुधैः” सि० शि० । गौ०
सूत्रोक्तसिद्धान्तलक्षणभेदो यथा “तन्त्राधिकरणाभ्युपगम-
संस्थितिः सिद्धान्तः” सू० । “सर्वतन्त्रप्रतितन्त्राधिकरणाभ्यु-
पगमसंस्थित्यर्थान्तरभावात्” सू० । “सर्वतन्त्राविरुद्धस्तन्त्रे-
ऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः” सू० । “समानतन्त्रसिद्धः
परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः” सू० । “यत्सिद्धावन्य-
प्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः” सू० । “अपरीक्षिता-
भ्युपगमात् तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः” सू० ।
“तन्त्रं शास्त्रं तदेवाधिकरणं ज्ञापकतथा यस्य,
तादृशस्य योऽभ्युपगमस्तस्य समीचोनतयाऽसंशयरूप-
तया स्थितिस्तथाच शास्त्रितार्थनिश्चयः सिद्धान्तः अत्र
चाभ्युपगम्यमानोऽर्थः सिद्धान्त इति भाष्यम् “अभ्युप-
गमः सिद्धान्त इति वार्त्तिकटीका” न चात्र विरोधः
शङ्कनीयः आचार्य्यैः परिहृतत्वाम् तथाच त्रिसूत्री
निबन्धः अर्थाभ्युपगमयोर्गुणप्रधानभावस्व विवक्षातन्त्र-
त्वादर्थाभ्युपगमोऽभ्युपगम्यमानी वार्थः सिद्धान्तस्तेन
सूत्रभाष्यवार्त्तिकटीकासु न विरोधः । अत्र च भाष्यानु-
सारात् सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसिद्धान्तान्यतमः
सिद्धान्त इति सूत्रार्थ इति तु न युक्तं अग्रिमसूत्रानु-
त्थानापत्तेः तन्त्रसिद्धान्तत्वेन द्वयमनुगमव्य तन्त्राधिकर-
णाभ्युपगमान्यतमः सिद्धान्त इति कश्चित् । विभजते ।
स चतुर्विध इति शेषः सर्वतन्त्रादिसंस्थितीनामर्थान्तर-
भावात् भेदादित्यर्थः । सर्वतन्त्रसिद्धान्तं लक्षयति । सर्व-
तन्त्राविरुद्धः सर्वशास्त्राभ्युपगत इति वहवः । वस्तुतो
यथाश्रुत एवार्थः अन्यथा तन्त्रेऽधिकृत इत्यस्य वैयर्थ्या-
पत्तेरतएव च जात्यादेरसदुत्तरत्वमपि सर्वतन्त्रसिद्धान्तः
न च तन्त्रेऽधिकृत इति स्पष्टार्थं लक्षणे तु न
देयमेवेति वाच्यं मनस इन्द्रियत्वस्यापि सर्वतन्त्रसिद्धान्तता-
पत्तेः नव्यास्तु सूत्रस्योपलक्षणमात्रत्वाद्वाद्रिप्रतिवाद्युभ-
प्याभ्युपगतः कथानुकूलोऽर्थः स इति वदन्ति । प्रति-
तन्त्रसिद्धान्तं लक्षयति । समानशब्द एकार्थस्तेनैकतन्त्र-
सिद्ध इत्यर्थः स्वतन्त्र सिद्ध इति पर्य्यवसितोऽर्थः तथाच
वादिप्रतिवाद्येकतरमाव्राभ्युपगतस्तदेकतरस्य प्रतितन्त्र-
सिद्धान्त इति फलितार्थः, यथा मीमांसकानां शब्दनित्य-
त्वम् । अधिकरणसिद्धान्तं लक्षयति “यस्यार्थस्य सिद्धौ
जायमानायामेवान्यस्य प्रकरणस्य प्रस्तुतस्य सिद्धिर्भवति
सोऽधिकरणसिद्धान्त इत्यर्थः यथा तद् द्व्यणुकादिकं
पक्षीकृत्योपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यत्वे
साध्यमाने सर्वज्ञत्वमीशस्य, एवं हेतुवलादपि यथा दर्शन-
स्पर्शनाभ्यामेकार्थग्रहणादिन्द्रियादिव्यतिरिक्त आत्मनि
साधिते इन्द्रियनानात्वं तथा च यदर्थसिद्धिं विना योऽर्थः
शब्दादनुमानाद्वा न सिध्यति सोऽधिकरणसिद्धान्त इति ।
वस्तुतस्तु शाब्दत्वमनुमानत्वं चाविवक्षितं प्रमाणमात्रमपे-
क्षितम् अतएव प्रत्यक्षेण स्थूलत्वसाधनानन्तरमुक्तमात्म-
तत्त्वविवेके “सोऽयमधिकरणसिद्धान्तन्यायेन स्थूलत्वसिद्धौ
क्षणभङ्गभङ्ग इति” तत्र च वाक्यार्थसिद्धौ तदनुषङ्गी यो
यः सोऽधिकरणसिद्धान्त इति वार्त्तिकफक्किकां लिखित्वा
येन केनापि प्रमाणेन वाक्यार्थसिद्धौ जन्यमानायां
योऽन्यार्थः सिध्यति स तथेत्यर्थः इति व्याख्यातं दीधिति-
कृता । एवं हेतुरीदृशः पक्षश्च वाक्यार्थ इति टीकावचने च
उपलक्षणमेतदित्युक्तं तत्र तत्र विशिष्यैव लक्षणं
कार्य्यम् । यत्तु जनकीभूतव्यापकताज्ञाने व्यापककोटावेव
विषयः प्रकृतानुमित्या व्यापककोटौ विषयीकृतः शब्दज-
नकपदार्थज्ञानविषयत्वे सति शाब्दविषयश्चेति द्वयमधि-
करणसिद्धान्त इति तन्न इन्द्रियनानात्वादौ भाष्या-
द्युदाहृतेऽव्याप्तेरिति । अभ्युपगमसिद्धान्तं लक्षयति ।
अपरीक्षितस्य साक्षादसूत्रितस्य विशेषपरीक्षणं विशेष-
धर्मकथनम् । अभ्युपगमादिति ज्ञापकत्वे पञ्चमी अभ्युप-
गमज्ञापकमित्यर्थः विशेषपरीक्षणाज्ज्ञायते सूत्रकृतो-
ऽभ्युपगतमिदमिति तथाच साक्षादसूत्रिताभ्युपगमो-
ऽभ्युपगमसिद्धान्तः यथा मनल इन्द्रियत्वमिति” वृत्तिः ।
तथाच सिद्धस्यान्तः संस्थितिः सिद्धान्तः संस्थितिश्च इत्थ-
म्भावव्यवस्था । तत्र तन्त्रसंस्थितिस्तन्त्रार्थसंस्थितिः ।
अधिकरणसंस्थितिरधिकरणानुषक्तार्थसंस्थितिः । अभ्युप-
गमसंस्थितिरनवधारितार्थपरिग्रहे तद्विशेषपरीक्षणाया-
भ्युपगमसिद्धान्तः वात्स्या० भाष्ये दृश्यम् । प्रामा-
णकित्वेनाभ्युपतोऽर्थः सिद्धान्त इत्यन्ये । मीमांसकोक्ते
पञ्चावयवयुक्ताधिकरणाङ्गे ३ चरमेऽङ्गे अधिकरणशब्दे
१२६ पृ० दृश्यम् ।
पृष्ठ ५२९६

सिद्धान्ताचार पु० “आत्मानं देवतां मत्वा यजेद्देवञ्च

मानसैः । सदा शुद्धः सदा शान्तः सिद्धान्ताचार उच्यते”
तन्त्रोक्ते आचारभेदे ।

सिद्धारि पु० तन्त्रोक्ते साधकनामाद्याक्षरयुक्तकोष्ठावधिचतुर्थ-

कोष्ठस्थाद्याक्षरयुक्ते मन्त्रभेदे अकथहशब्दे ३८ पृ० दृश्यम् ।

सिद्धार्थ(क) पु० सिद्धः अर्थो यस्मात् ५ ब० वा कप् । १ श्वेत-

सर्षपे अमरः । २ वटीवृक्षे च राजनि० । ६ ब० । ३ प्रसि-
द्धार्थे त्रि० । “सिद्धार्थं सिद्धसम्बन्धम्” इति प्राञ्चः ।
४ शाक्यसिंहे पु० मेदि० ५ जिनभेदमातरि स्त्री
हेमच० ।

सिद्धि स्त्री सिध--क्तिन् । १ऋद्धिनामौषधे अमरः । २ योगभेदे

३ अन्तर्द्धाने ४ निष्पत्तौ ५ पाके ६ पादुकायाम् ७ वृद्धौ मेदि०
८मोक्षे हेमच० ९ सम्पत्तौ धरणिः १० अणिमाद्यष्टविधै-
श्वर्य्ये ११ बुद्धौ शब्दच० १२ साध्यवत्तया निश्चये च ।
१३ सांख्योक्ते ऊहादिके सिद्धिहेतुभेदे
“ऊहादिभिः सिद्धिः” सां० सू० । “ऊहादिभैदैः सिद्धिरष्टधा-
भवतीत्यर्थः । इदमपि सूत्रं कारिकया व्याख्यातम् ।
“ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः ।
दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः”
इति । “अस्वा अयमर्थः । अत्राध्यात्मिकादिदुःखत्रयप्र-
तियोमिकत्वात् त्रयो दुःखविघातामुख्यसिद्धयः । इतरास्तु
तत्साधनत्वाद्गौण्यः सिद्धयः । तत्रोही यथा
उपदेशादिकं विनैव प्राग्भवीयाभ्यासभ्यासवशात् तत्त्वस्य
स्वयमूहनमिति । शब्दस्तु यथा अन्यदीयपाठमाकर्ण्य
स्वयं वा शास्त्रमाकलय्य यज्ज्ञानं जायते तदिति ।
अध्ययनं यथा शिष्याचार्य्यभावेन शास्त्राध्ययनाज्ज्ञान-
मिति । सुहृत्प्राप्तिर्यथा । स्वयमुपदेशार्थं गृहागतात्
परमकारुणिकाज्ज्ञानलाभ इति । दानं यथा
धनादिदानेन परितोषिताज्ज्ञानलाभ इति । एषु च पूर्व-
स्त्रिविध ऊहशब्दाध्ययनरूपो मुख्यसिद्धेरङ्कुश
आकर्षकः । सुहृतप्राप्तिदानयोरूहादित्रयापेक्षया मन्दसा-
धनत्वप्रतिपादनायेदमुक्तम् । कश्चित्त्वेतासामष्टसिद्धी-
नामङ्कुशो निवारकः पूर्वस्त्रिविधो विपर्य्ययाशक्ति-
तृष्टिरूपो भवति बन्धकत्वादिति व्याचष्टे तन्न । तुष्ट्य-
भावस्याशक्तितया बाधिर्य्यादिवत् सिद्धिविरोधितालाभेन
तुष्ट्यतुष्ट्योः सिद्धिविरोधित्वासम्भवात् । ननूहादिभिरेव
कथं सिद्धिरुच्यते मन्त्रतपःसमाध्यादिभिरप्यणिमाद्यष्ट-
सिद्धेः सर्वशास्त्रसिद्धत्वादिति तत्राह” भा० । “नेतरा-
दितरहानेन विना” सू० । “इतरादूहनादिपञ्चकभिन्नात् ।
तप आदेस्तात्त्विकी न सिद्धिः कुत इतरहानेन वि ना
यतः सा सिद्धिरितरस्य विपर्ययस्य हानं विनैव भवत्यतः
संसारापरिपन्थित्वात् सा सिद्व्याभास एव न तु
तात्त्विकी सिद्धिरित्यर्थः । तथा चोक्तं योगसूत्रेण । “ते
समाघावुपसर्गाव्युत्थाने सिद्धयः” इति प्र० भाष्यम् ।
पात० सू० भाष्ययोश्च एकत्र विषयविशेषे धारणाध्यान-
समाधित्रयरूपसंयमविशेषात् कतिचित् सिद्धयो दर्शिताः
यथा “परिणामत्रयसयमादतीतानागतज्ञानम्” सू० ।
“धर्मलक्षणावस्थापरिणामेषु सयमात् योगिनां भवत्यतो-
तानागतज्ञानं धारणाध्यानसनाधित्रयमेकत्र संयम उक्त-
स्तेन परिणामत्रयं साक्षात्क्रियमाणमतीतानागतज्ञानं
सम्पादयति” भा० । “शब्दार्थप्रत्ययानामितरेतराध्यासात्
सङ्करस्तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम्” सू० ।
“सस्कारसाक्षात्करणात् पूर्वजातिज्ञानम्” सू० । “प्रत्ययस्य
परचित्तज्ञानम्” सू० । “कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे
चक्षुःप्रकाशासंप्रयोगेऽन्तर्द्धानम्” सू० । “सोपक्रमं निरुपक्रमञ्च
कर्म ततसंयमादपरान्तज्ञानमरिष्टेभ्यो वा” सू० । “मैत्र्यादिषु
बलानि” सू० । “बलेषु हस्तिबलादीनि” सू० । “प्रवृत्त्यालोक-
न्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम्” सू० । “भुवनज्ञानं
सूर्य्ये संयमात्” सू० । “चन्द्रे ताराव्यूहज्ञानम्” सू० । “ध्रुवे
तद्गतिज्ञानम्” सू० । “नाभिचक्रे कायव्यूहज्ञानम्” सू० ।
“कण्ठकूपे क्षुत्पिपासानिवृत्तिः” सू० । “कूर्मनाड्यां स्थैर्य्यम्”
सू० । “मूर्द्धज्योतिषि सिद्धदर्शनम्” सू० । “प्रातिभाद्वा
सर्वम्” सू० । “हृदये चित्तसंवित्” सू० । “सत्वपुरु-
षयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषोभोगः परार्थत्वात्
स्वार्थसंयमात् पुरुषज्ञानम्” सू० । “ततः प्रातिभश्रा-
वणवेदनादर्शास्वादवार्त्ता जायन्ते” सू० । “ते समाधावुप-
सर्गाव्युत्थाने सिद्धयः” सू० । “बन्धकारणशैथिल्यात् प्रचा-
रसंवेदनाच्च चित्तस्य परशरीरावेशः” सू० । “उदानजया-
ज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च” सू० । “समानजया-
ज्ज्वलनम्” सू० । “श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रो-
त्रम्” सू० । “कायाकाशयोः सम्बन्धसंयमाल्लघुतूलसमापत्ते-
श्चाकाशगमनम्” सू० । “वहिरकल्पिता वृत्तिर्महाबिदेहा ततः
प्रकाशावरणक्षयः” सू० । “स्थूलस्वरूपसूक्ष्मान्वयाथवत्त्व-
संयमाद्भूतजयः” सू० । “ततोऽणिमादिप्रादुर्भावः
कायसम्पत्तद्धर्माऽनभिघातश्च” सू० । “रूपलावण्य बलवजमह-
ननत्वानि कायसम्पत्” सू० । “ग्रहणस्वरूपाऽस्थितान्व-
पृष्ठ ५२९७
यार्थवत्त्वसंयमादिन्द्रियजयः” सू० । “ततो मनोजयित्वं
विकरणंभावः प्रधानजयश्च” सू० ।
“परिणामत्रयसयमादतीतानागतज्ञानम्” इत्यादिकैः
“ततः प्रातिभश्रावणवेदनादर्शास्वादवार्त्ता जायन्ते” इत्य-
न्तसूत्रैरुक्तानां सिद्धीनां समाधावुपसर्गत्वं व्युत्त्थाने
सिद्धित्वमाह “ते समाधावुपसर्गावत्थाने सिद्धयः” सू० । ते
प्रातिभादयः समाहितचित्तस्योत्पद्यमानाः उपसर्गास्तत्त्व-
दर्शनप्रत्यनीकत्वात् । व्युत्थितचित्तस्योत्पद्यमानाः सिद्धयः”
भा० । एवमग्रे वक्ष्यमाणाः ततोऽणिमादिप्रादुर्भाव इत्या-
दयोऽपि सिद्धयो व्युत्थानदशायामेव समाधौ तूपसर्गा
एव हेतोरविशेषात् । एवमन्या अपि सिद्धयः कैवल्य-
पादे दर्शिता यथा “जन्मौषधिमन्त्रतपःसमाधिजाः
सिद्धयः” सू० । “देहान्तरिता जन्मना सिद्धिः ओषधि-
भिरसुरभवने रसायनेनेत्येवमादि । मन्त्रैराकाशगम-
नाणिमादिलाभः तपसा सङ्कल्पसिद्धिः कामरूपी यत्र तत्र
कामग इत्येवमादि समाधिजाः सिद्धयोः व्याख्याताः” भा०
तासाञ्च यथाऽन्यथापरिणामहेतुत्वं तथा परसूत्रैस्तत्र
समर्थितम्” ।
तन्त्रोक्तमन्त्रसिद्धिलक्षणं च तन्त्रसा० उक्तं यथा
“मनोरथानामक्लेशः सिद्धिरुत्तमलक्षणा । मृत्योश्च हरणं
तद्वत् देवतादर्शनं तथा । प्रयोगेऽक्लेशतः सिद्धिः
सितेस्तु लक्षणं परम् । परकायप्रवेशश्च पुरप्रवेशनं तथा ।
ऊर्द्ध्वोत्क्रमण एवं हि चराचरपुरे गतिः । खेचरी-
मेलन चैव तत्कथाश्रवणादिकम् । भूच्छिद्राणि प्रप
श्येत्तु तद्वदुत्तमलक्षणम् । ख्यातिर्वाहनभूषादिलाभः
सुचिरजीवनम् । भूपानां तद्गणानाञ्च वशीकरणमुत्त-
मम् । सर्वत्र सर्वलोकेषु चमत्कारकरी सुधीः । रोगोप-
हरणं दृष्ट्या विषापहरणं तथा । पाण्डित्यं लभते
यन्त्री चतुर्विधमयत्नतः । बैराग्यञ्च मुमुक्षुत्वं त्यागितां
सर्ववश्यताम् । अष्टाङ्गयोगाभ्यसनं भोगेच्छापरिवर्जनम् ।
सर्वभूतेष्वनुकम्पा सार्वज्ञ्यादिगुणोदयः । इत्यादि
गुणसम्पत्तिर्मध्यसिद्धेस्तु लक्षणम् । महैश्वर्य्यं धनित्वं
च पुत्रदारादिसम्पदः । अधमाः सिद्धयः प्रोक्ता मन्त्रि-
णामाद्यभूमिका । सिद्धमन्त्रस्तु यः साक्षात् स शिवो
नात्र संशयः ।
आध्यवत्तानिश्चयरूपसिद्धिस्तु असत्यामनुनितीच्छायां
कामिनीजिज्ञामाटिवत् अनुमितेः पृथक् प्रतिबन्धिका
अनुमित्सा तु तत्रोत्तेजिका । “सिषाधयिषया शून्या
सिद्धिर्यत्र न विद्यते । स पक्षस्तत्र वृत्तित्वज्ञानादनुमिति-
र्भवेत्” भाषा० । सिद्धिश्च पक्षतावच्छेदकसामान्यावगा-
हिनी पक्षतावच्छेदकावच्छिन्नयत्किञ्चिद्धर्मावगाहिनी च
तत्रावच्छेदाच्छेदेनानुमितिं प्रति अववच्छेदावच्छेदेन
सिद्धिर्विरोधिनी न सामानाधिकरण्येन सिद्धिः ।
समानाधिकरण्येनानुमितिं प्रति तु सिद्धिमात्रं विरोधीति
विवेकः । संशयपक्षतावादिमते पक्षताविघटकत्वेन सिद्धे-
र्विरोधितेति विशेषः । १४ दक्षकन्याभेदे वह्निपु० ।

सिद्धिद पु० सिद्धि ददाति दा--क । वटुकभैरवे । २ सिद्धिदातरि त्रि० ।

सिद्धियोग पु० “शुक्रे नन्दा बुधे भद्रा शनौ रिक्ता, कुजे

जया । गुरौ पूर्णा च सयुक्ता सिद्धियोगः प्रकीर्त्तितः”
ज्योतिषोक्ते शुक्रादिवारयुक्तनन्दादितिथौ ।

सिद्धिस्थान न० तीर्थभेदे । “अतःपरं प्रवक्ष्यामि सिद्धि-

स्थानानि यानि तु । यस्मिन्नाराधिता देवी क्षिप्रं भवनि
सिद्धिदा । तुङ्गारं शतशृङ्गञ्च त्रिकूटं पर्वतं तथा
विन्ध्या गङ्गा सरिद् यत्र रेवातीरमथापि वा । पयाष्णी
असुराख्या तु अथ वा मण्डलेश्वरे । शङ्करेश्वररामेशे
अथवा अमरेश्वरे । वेत्रवत्यास्तटे रम्ये हरिश्चन्द्रे तथा
पुरे । सरस्वतीतटे पुण्ये सुगन्धायतनेऽपि वा । स्थाने-
व्वेषु जर्प कर्य्यात् नन्दाहे कृतमानसः । भैरवं शूलभेदञ्च
चण्डीश स्त्रिपुरान्तकम् । अष्टचक्रं चक्रोच्छासं
कपालाक्षाग्रनामकम् । अजाविकं खरोष्ट्राख्यं स्थानान्थे-
तानि वर्जयेत्” देवीपु० ।

सिद्धेश्वरी स्त्री देवीविशेषे । “सिद्धां सिद्धेश्वरीं सिद्ध

विद्याधरगणैर्युताम् । मन्त्रसिद्धिप्रदां योनिसिद्धिटां
लिङ्गशोनिताम्” मुण्डमालात० ११ पटले । “कृष्णेन
बलभद्रेण गोपैः कसजिघांसुभिः । सङ्केतकं कृतं तत्र
मन्त्रनि कारकम् । तदा सङ्केतकैः सा च सिद्धा देवी
प्रतिष्ठित । सिद्धिप्रदा भोगदा च तेन सिद्धेद्वरो-
स्मृता । सङ्केतकेश्वरीञ्चैव दृष्ट्वा सिद्धिमवाप्नुयात्”
इति वाराहपु० ।

सिद्धौघ पु० ६ त० । तारादेव्याः पूजान्ते पूज्ये गुरुभेदे

“दिव्यौघाः सिद्धिदा वत्स! सिद्धौघान् शृणु यत्नतः । वसिष्ठः
कूर्मनाथश्च मीननाथो महेश्वरः । हरिनाथो,
मानवौघान् शृणु वक्ष्यामि तद्गुरून” तन्त्रमा० ।

सिध्म न० सिध--मन् किच्च । किलासरोगे हेमच० ।

सिध्मन् न० सिध--मनिन् किच्च । १ किलासरोगे अमरः

२०५५ पृ० किलासलक्षणादि दृश्यम् ।
पृष्ठ ५२९८

सिध्मल त्रि० सिध्मन् + अस्त्यर्थे लच् । १ किलासरोगवति

अमरः । २ मीनविकारे स्त्री हेमच० ।

सिध्य पु० कार्य्यं साधयति सिध--णिच्--कर्त्तरि यत् नि० । पुष्यनक्षत्रे अमरः

सिध्र पु० सिध--रक् । १ साधौ २ वृक्षे च उणा० ।

सिध्रक पु० सेधति रोगान् सिध--रक् स्वार्थे क । वृक्षभेदे

“वनगिर्य्योः” पा० इत्यादिसूत्रेण सिध्रकशब्दस्य पाणि-
निना दीर्घस्य विधानात् पुंस्त्वमेवास्य युक्तम् अमरोक्तं
स्त्रीत्वन्त्वपाणिनीयम् ।

सिध्रकावण न० सिध्रकप्रधानं वनं णत्वम् दीर्घश्च । देवोद्याने त्रिका० ।

सिन पु० सीयते वध्यते सि--क्त ग्रासे तस्य नः । १ ग्रामे

तस्य बद्धत्वात्तथात्वम् ।

सिनी स्त्री सित + ङीप् तस्य नश्च । शुक्लवर्णयुतस्त्रियाम् व्याड़िः

सिनीवाली स्त्री सिनीं श्वेतां चन्द्रकलां वलति धारयति

बल--अण् ङीप् । १ चतुर्दशीयुक्तायाममावास्यायाम्
अमरः । कुहूशब्दे २१६२ पृ० दृश्यम् । २ दुर्गायां मेदि० ।

सिन्दु(न्धु)क पु० स्यन्दते स्यन्द--उ संप्रसारणञ्च पृषो० दस्य

वा धः स्वार्थे वा क । सिन्दुवारवृक्षे अमरः (न्धु)मध्य-
स्तत्रार्थे शब्दर० ।

सिन्दु(न्धु)वार पु० सिन्धुं गजमदं वारयति तिक्तत्वात्

वृअण् । १(निसिन्दा) वृक्षे अमरः “मुक्ताकलापीकृतसिन्धु-
वारम्” कुमारः । तस्य च श्वेतपुष्पत्वात् मुक्तातुल्यत्वम् ।
पृषो० न्धुमध्यस्तत्रार्थे रत्नको० २ हयोत्तमे त्रिका० ।

सिन्दूर न० स्यन्द--ऊरन् संप्रसारणम् । स्वनामख्याते रक्त-

वर्णे १ चूर्णभेदे अमरः २ वृक्षभेदे पु० मेदि० ।
“सीसोपधातुः सिन्दूरं गुणैस्तत् सीसवन्मतम् । संयोग-
जपभावेन तस्याप्यन्ये गुणाः स्मृताः । सिन्दूरमुष्णं
वीसर्पकुष्ठकण्डूविषापहम् । भग्नसन्धानजननं व्रणशो-
धनरोपणम्” “दुग्धाम्लयोगतस्तस्य विशुद्धिर्गदितो बुधैः”
भावप्र० । भर्तुरायुर्वृद्धये सधषया तद्धारणस्यावश्यकता
यषोक्तं काशीख० ४ अ० “हरिद्रां कुङ्कुमं चैव सिन्दूरं
कज्जलं तथा । कुर्पासकञ्च ताम्बूलं माङ्गल्याभरणं शुभम् ।
कशसस्कारकवरीकरकर्णविभूषणम् । भर्तुरायुष्यमि-
च्छन्ती दीरयेच्च पतिव्रता” ।

सिन्दूरकारण न० कृत० । सोसके हेमच० ।

सिन्दूरातलक पुंस्त्री० सिन्दूरवर्णास्तबकश्चिह्नगेदो यस्य ।

१ हस्तिनि मेदि० स्त्रियां ङीष् । २ सधवायाम् स्त्री ।

सिन्दूरी स्त्री सिन्दूरं नद्वर्णोऽस्त्वस्याः अच गौरा० । ङीष् ।

१ रोचन्यां २ धातक्याश्च मेदि० ।

सिन्धु पु० स्यन्द--उ सम्प्रसारणं दस्य धश्च । १ समुद्रे अमरः

२ रक्तचेलिलतायां ३ नदभेदे मेदि० ४ गजमदे हेमच० ।
५ सिन्धुवारवृक्षे शब्दच० । ६ श्वेतटङ्कणे राजनि० ।
७ रागभेदे सङ्गीत० । ८ नद्यां स्त्री मेदि० ९ नदीभेदे
राजनि० । “शतद्रोर्विपाशायुजः सिन्धुनद्याः सुशीतं
लघु स्वादु सर्वामयघ्नम् । जलं निर्मलं दीपनं पाचनञ्च
प्रदत्ते बलं बुद्धिमेधायुषञ्च” राजनि० तज्जलगुणाः ।
१० नैरृतीस्थे देशभेदे पु० कूर्मविभागशब्दे २१६ ८ पृ० दृश्यम् ।
सोऽभिजनोऽस्य तस्य राजा वा अण् । सैन्धव पित्रादि-
क्रमेण तद्देशवासिनि तन्नृपे च । बहुषु अणो लुक् ।

सिन्धुकफ पु० सिन्धोः कफ इव । समुद्रफेने शब्दर० ।

सिन्धुकर न० सिन्धुदेशे कीर्य्यते क्रियते वा कृ--कॄ--वा अप् ।

श्वेतष्टङ्कणे राजनि० ।

सिन्धुखेल पु० सिन्धुसमीपे खेलति खेल--अच् । सिन्धुदेशे शब्दर० ।

सिन्धुज न० सिन्धुदेशे समुद्रे वा जायते जन--ड । १ सैन्धव-

लवणे अमरः २ चन्द्रे ३ कर्पूरे पु० । ४ लक्ष्म्यां स्त्री जटा०
सिन्धुजातादयोऽप्यत्र ।

सिन्धुनन्दन पु० ६ त० । १ चन्द्रे २ कर्पूरे त्रिका० । सिन्धु-

सुतादयोऽप्यत्र । ३ लक्ष्म्यां स्त्री ।

सिन्धुपुष्प पु० सिन्धौ पुष्प्यति विकाशते पुष्प--अच् शङ्खेशब्दच० ।

सिन्धुमन्थज न० सिन्धुमन्थात् जायते जन--ड । १ सैन्धव-

लवणे रत्नमा० २ अमृते च ।

सिन्धुर पुंस्त्री० सिन्धुर्मदजलमस्यास्ति र । हस्तिनि हेमच०

स्त्रियां ङीष् “मदान्धसिन्धुरघटा” गङ्गास्तवः ।

सिन्धुलवण न० सिन्धुदेशजातं लवणम् । सैन्धवलवणे रत्नमा०

सिन्धुवारित पु० सिन्धुः मदजलं वारितस्तिरस्कृतो येन

अतितिक्तत्वात् । सिन्ध्रुवारवृक्षे । (निसिन्दा) शब्दर० ।

सिन्धुवेषण पु० विष--ल्यु ६ त० । गाम्भारीवृक्षे शब्दच० ।

सिन्धुसङ्गम पु० सिन्ध्वोः नद्योः नदीसमुद्रयोर्वा सङ्गमः ।

१ नद्याः नदीसमुद्रयोर्वा मेलने अमरः । स यत्र । २
तदाधारदेशे त्रि० ।

सिन्धूद्भव न० सिन्धोः उद्भवति उद् + भू--अच् ५ त० । सैन्धव-

लवणे रत्नमा० २ समुद्रजातमात्रे त्रि० ।

सिन्धूपल पु० सिन्धोरुपल इव । १ सैन्धवलवणे हारा० । क्लीवमित्यन्ये ।

सिप्र पु० सप--रक् पृषो० । १ सरोवरभेदे २ चन्द्रे त्रिका०

३निदाघजले ४ घर्म च पु० मेदि० । ५ उज्जयिनीसमीपस्थे
नदीभेदे स्त्री मेदि० “सिप्रातरङ्गानिलकम्पितासु” रघुः ।
वसिष्ठारुन्धत्योर्विवाहप्रसृतजलस्य सिप्रसरसि मेलनात्
पृष्ठ ५२९९
सिप्राप्रादुर्भावो यथा “तत्तोयं सप्तधा भूत्वा पतितं
मानसाचलात् । हेमाद्रेः कन्दरे सानौ सरस्याञ्च पृथक्
पृथक् । तत्तोयं पतितं सिप्रे देवभोग्ये सरोवरे । तेन
सिप्रा नदी जाता विष्णुना प्रेरिता क्षितिम्” कालिपु०
२३ अ० ।

सिम पु० सि--मन् किच्च । सर्वस्मिन् इत्यर्थे । तदर्घेऽस्य सर्वनामता ।

सिम्बा(म्बि) स्त्री शाम्यति वृद्धिरनया शम--अच् इन् वा

पृषो० । (छुटि) १ शिम्बायाम् द्विरूपको० इनन्तः । २
नखीनामगन्धद्रव्ये राजनि० वा ङीप् । ङीबन्तः । ३
निष्पाव्यां भावप्र० ।

सि(शि)म्बिजा स्त्री सि(शि)म्बेर्जायते जन--ड । शमीधान्ये कलायादौ भावप्र० ।

सिर पु० सि--रक् । १ पिप्पलीमूले हेमच० । २ नाड्याम्

३ अम्बुवाहिन्याञ्च स्त्री हेमच० ।

सिल्लकी स्त्री सि--क्विप् लक--अच् गौरा० ङीष् कर्म० । सल्लकीवृक्षे भरतः ।

सिवर पुंस्त्री० सि--क्वरप् । गजे जटा० स्त्रियां ङीष् ।

सिहुण्ड पु० सो--कि सिः छेदस्तं हुण्डते कण्टकावृतत्वात्

हुडि--अण् । स्नुहीवृक्षे शब्दर० ।

सिह्ल पु० स्निह--लक् पृषो० । वृकधूपाख्ये गन्धद्रव्ये अमरः स्वार्थे क तत्रैव ।

सिह्लकी स्त्री स्निह--लकक् पृषो० गौरा० ङीष् । सल्लकी-

वृक्षे शब्दर० ।

सिह्लभूमि स्त्री सिह्लस्य गन्धद्रव्यस्य भूमिः । सल्लकीवृक्षे शब्दर० ।

सीक सेचने भ्वा० आ० सक० सेट् । सीकते असेकिष्ट ।

ऋदित् चङि न ह्रस्वः । पर्युदासेन न गोपदेशः ।

सीक स्पर्शे वा चु० उभ० पक्षे भ्वा० प० सक० सेट् ।

सीकयति ते सीकति असीसिकत् त असीकीत् । पर्य्युदासान्न
षोपदेशः ।

सीकर पु० सीक्यते सिच्यतेऽनेन सीक--अरन् । जलकणे भरतः ।

सीता स्त्री सि--त पृषो० दीर्घः । १ लाङ्गलपद्धतौ अमरः

२ जनकराजदुहितरि ३ भद्राश्ववर्षस्थितगङ्गायाञ्च ।
“अथ मे कर्षतः क्षेत्रं लाङ्गलादुत्थिता ततः । क्षेत्रं
शोधयता लब्धा नाम्ना सीतति विश्रुता । भूतलादु-
त्थिता सा तु व्यवर्द्धत ममात्मजा” रामा० बाल० “अथ
लोकेश्वरो लक्ष्मीर्जनकस्य पुरे खतः । शुभक्षेत्रे
हलोत्खाते तारे चोत्तरफाल्गुने । अयोनिजा पद्मकरा
वालार्कशतसन्निभा । सीतामुखे समुत्पन्ना बालभावेन
सुन्दरी । सीतामुखोद्भवात् सीता इत्यख्या नाम
चाकरोत्” पद्मपु० । भद्राश्ववर्षनदीभेदश्च स्वर्गगङ्गाया धारा-
मेदः जम्बुद्वीपशब्दे ३०४६ पृ० दृश्यः । ४ सक्ष्म्याम्
५ उमायां ६ सस्याधिदेवतायां नानार्थमञ्जरी । ७
गदिरायां राजनि० ।

सीतापति पु० ६ त० । श्रीरामे शब्दर० ।

सीतायाःपति पु० ६ त० अलुक्समा० । श्रीरामे शब्दर० ।

“सीतायाः पतये नमः” इति पुराणम् असमस्तत्वे पत्ये
इत्येव स्यात् ।

सीत्कार पु० सीदित्यव्यक्तस्य कारः सीत् + कृ--घञ् ।

अनुरागजे शब्दे ।

सीत्कृत न० सीत् + कृ--भावे क्त । १ सीत्कारे २ अनुरागजशब्दे हेमच० ।

सीत्य न० सीतया लाङ्गलपद्धत्या निर्वृत्तं यत् । १ धान्ये

हेमच० । सीतामर्हति यत् । २ हलकर्षणयोग्ये क्षेत्रादौ त्रि०

सीधु पु० सिध--उ पृषो० । १ मद्ये २ मद्यभेदे च “इक्षोः पक्वै

रसैः स्निग्धः सीधुः पक्वरसश्च सः । आमैस्तैरेव यः सीधुः
(सेरका) स च शीतरसः स्मृतः । सीधुः पक्वरसः श्रेष्ठः
स्वराग्निबलवर्णकृत् । वातपित्तकरो हृद्यः स्नेहनो
रोचनो हरेत् । विबन्धमेदशोफार्शःशाफोदरकफा-
मयान् । तस्मादल्पगुणः शीतरसः संलेखनः स्मृतः”
राजनि० ।

सीधुगन्ध पु० सीधोरिव गन्धाऽस्य वा न इत्समा० । बकुले शब्दर० ।

सीधुपुष्प पु० सीधुगन्धयुक्तं पुष्पमस्य । १ कदम्बे २ बकुले च

३ धातक्यां स्त्री राजनि० ङीष् ।

सीधुरस पु० सीधोरिव रस आस्वादोऽस्य । आम्रवृक्षे राजनि०

सीमन्त पु० सीम्नोऽन्तः शक० । १ केशान्तर्गतवर्त्माकारे पदार्थे

(सिँति) हेमच० २ केशरचनाभेदे । “षष्ठेऽष्टमे वा सीमन्त”
इत्युक्ते गर्भावधिके षष्ठे अष्टमे वा मासि कर्त्तव्ये ३ गर्भ-
संस्कारभेदे च सीमन्तोन्नयनशब्दे दृश्यम् ।

सीमन्तक न० सीमन्ते कायति कै--क । १ सिन्दूरे राजनि०

सीमन्तिनी स्त्री सीमन्त + अस्त्यर्थे इनि । नार्य्याम् अमरः ।

सीमन्तोन्नयन न० सीमन्तस्य केशरचनाभेदस्य उन्नयनम्

उत्तोलननत्र । स्मनामख्याते गर्भसंस्कारभेदे ।
तत्कालादि संस्कारत० दर्शितं यथा
“यदि पुंसवनं न कृतं तदा तस्मिन्नेव दिने प्रायश्चित्ता-
त्मकमहाव्यहृतिहोमं कृत्वा पुंसवनं कृत्वा सीमन्तोन्न-
यनं कार्य्यम् । तथा च नारदः “येषान्तु न कृताः
पूर्वं संस्कारविधयः क्रमात् । कर्त्तव्या भ्रातृभिस्तेषां
पैतृकादेव तद्धनात् । अविद्यमाने पित्र्यर्थे स्मांशादुहृत्य
वा पुनः । अवश्यकार्य्याः संस्काराभ्रातृभिः पूर्वसंस्कृतः” ।
क्रमात् भ्रातॄणां संस्काराणाञ्च पौर्वापौर्य्यक्रमात् भ्रातृ-
पृष्ठ ५३००
क्रमस्तु सोदरविषयः विवाहे तथा दर्शनात् । छन्दो-
गपरिशिष्टम् “देवतानां विपर्य्यासे जुहोतिषु कथं
भवेत् । सर्वं प्रायश्चित्तं कृत्वा क्रमेण जुहुयात् पुनः ।
संस्कारा अतिपत्येरन् स्वकालाच्च कथञ्चन । हुत्वैत-
देव कुर्वीत ये तूपनयनादधः” । एतदित्यनेन सर्वं
प्रायश्चित्तमनुकृष्टं तच्च प्रागेव विवृतम् । उभयकरणे
तन्त्रेणैव मातृकापूजादि “गणशः क्रियमाणे तु मातृभ्यः
पूजनं सकृत् । सकृदेव भवेत् श्राद्धमादौ न पृथगादिषु”
इति छन्दोगपरिशिष्टात् गोभिलः “अथ सीमन्तकरणं
प्रथमे गर्भे चतुर्थे मासि षष्ठेऽष्टमे वा” । अथ पुंसवना-
तन्तरं सीमन्तः केशरचनाविशेषः । वाशब्दैक्यान्न-
चतुर्थादिमासानां तुल्यवद्विकल्पः किन्तु पूर्वः पूर्वः कालः
प्रशस्तः “समर्थस्य क्षेपायोगादिति” न्यायात् । ततो
नवममासादौ प्रायश्चित्तं कृत्वैव कर्त्तव्यम् प्रथमगर्भ
इत्युपादानात् यदि कथञ्चिदकृत एतस्मिन् संस्कारे
गर्भनाशे पुनर्गर्भोत्पत्तौ अयं कालनियमो न किन्तु
“गर्भस्पन्दने सीमन्तोन्नवनं यावन्न बालप्रसवः” इति शङ्ख-
लिखितोक्तकालो ग्राह्यः । वृहद्राजमार्त्तण्डे “या नार्य्य-
कृतसीमन्ता प्रसूते च कथञ्चन । अङ्के निधाय तं बालं
पुनः संस्कारमहंति” । “षष्ठे मासेऽष्टमेऽह्नीज्यकुजदिन-
कृतां नन्दभद्रे तिथो च मैत्रे १७ मूले मृगाङ्के ५ कर १३
पितृ १० पवने १५ पौष्ण २७ विष्णु २२ त्रियुग्मे ११ । १२ । २० ।
२१ । २५ । २६ । पुव्याश्वादित्य ७ रौद्रे ६ युवतिहरिझषे वृश्चिके
वापि लग्ने चन्द्रे तारानुकूले शुभमपि नियतं स्याच्च
सीमन्तकर्म । मृगाजरहिते लग्ने नवांशे पुंग्रहस्य
च । केचिद्वदन्ति सीमन्तं तथारिक्तेतरे तिथौ” ।
अथ सीमन्तमूर्द्ध्वं नयत्यत्रेति गोभिलोक्तेरस्यात्वर्थता ।

सीमन् स्त्री सि--इमनि पृषो० न गुणो दीर्घश्च । १ मर्य्यादायाम्

अवधौ जटा० २ स्थितौ ३ क्षेत्रे ४ अण्डकोषे मेदि० ।
“मीम्नि पुष्यलकोहतः” सि० कौ० ५ बेलायाञ्च विश्वः ।

सीमा स्त्री + सीमन् + वा ढाप् । १ मर्य्यादायां २ ग्रामादेरन्त

मागे ३ सीमन्शब्दार्ये च ।

सीमाविवाद पु० सीमायां विवादः । अष्टादशसु विवादेषु

सध्ये स्वनामख्याते विवादभेदे
तत्स्वरूपादिकं वीरमि० दर्शितं यथा
“अथ सीमाविवादाख्यव्यवहारपदम् तत्स्वरूपमाह
नारदः “सेतुकेदारमर्य्यादाविकृष्टाकृष्टनिश्चयः । क्षेत्रा-
घिकारो यत्र स्वादु विवादः क्षेत्रजस्तु सः” । अस्यार्थः
सेतुर्जलप्रवाहबन्धः । केदारः क्षेत्रम् । मर्य्यादा
सीमा । विकृष्टो लाङ्गलप्रहतो देशः अकृष्टस्तद्रहितः
एतेषां निश्चयो यत्र विवादे स्यात् स क्षेत्राधिकारः
क्षेत्रविषयको विवादः क्षेत्रज उच्यत इति । अयं
विवादः षड्विधः तथा च कात्यायनः “आधिक्यं न्यू-
नता चांशे अस्तिनास्तित्वमेव च । अभोगभुक्तिः
शीमा च षड् भूवादस्य हेतवः” । ममैषाधिका भूरस्ती-
त्युक्तेनेति विवाद आधिक्यविवादः । एतावती भूस्तव
नेत्युक्ते ममैतावतीति यो विवादिः स न्यूनताविवादः
अत्र ममांशोऽस्तीत्युक्ते यो विवादः सोऽस्तित्वविवादः
अत्र तवांशो नास्तीत्युक्ते मम विद्यते इत्येवविधो
विवादो नास्तित्वविवादः । सीमाविवाद इति षड्विधो विवाद
इत्यर्थः । तत्र सीमा चतुर्विधा । देशसीमा ग्रामसीमा
क्षेत्रसीमा गृहसीमा चेति । तस्याश्चतुर्बिधाया अपि
यथासम्भवं पञ्चविधत्वमाह नारदः “ध्वजिनी
मत्सिनी चैव नैधानी भयवर्जिता । राजशासननीता च
सीमा पञ्चविधा स्मृता” । ध्वजिनी वृक्षादिचिह्निता
वृक्षाश्च न्यग्रोधादयः । तदाह मनुः “सीमावृक्षांस्तु
कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् । शाल्मलीन् सालता-
लांश्च क्षीरिणश्चैव पादपान्” इति । मत्सिनी
जलचिह्निता । नैधानी निखाततुषाङ्गारादिलक्षिता ।
भयवर्जिता अर्थिप्रत्यर्थिपरस्परसम्प्रतिपत्तिनिर्मिता । तथा
च व्यासः “ग्रामयोरुभयोः सीम्रि वृक्षा यत्र
समुन्नताः । समुच्छ्रिता ध्वजाकारा ध्वजिनी सा प्रकी-
र्त्तिता । स्वच्छन्दगा बहुजला झषकूर्मसमन्विता । नित्य-
प्रवाहिणी यत्र सीमा सा मत्सिनी मता । तुषाङ्गार-
कपालैस्तु कुम्भैरायतनैस्तथा । सीमा प्रचिह्निता कार्य्या
नैधानी सा निगद्यते” इति । नित्यप्रवाहिणीत्यनेन
कूपवाप्यादीनि प्रकाशचिह्नान्युपलक्ष्यन्ते । तानि च
वृहस्पतिना दर्शितानि “वापीकूपतड़ागानि चैत्या-
रामसुरालयाः । स्थलं निम्नं नदीस्रोतः शरगुल्मन-
गादयः । प्रकाशचिह्नान्येतानि सीमायां कारयेत् सदा ।
निहितानि तथान्यानि यानि भूमिर्न भक्षयेत् । अश्म-
नोऽस्थीनि गोबालांस्तुषान् भस्मकपालिकाः । करीष-
मिष्टकाङ्गारशर्करावालुकास्तथा । तानि सन्धिपु
सीमाया अपकाशानि कारयेत्” । चैत्यं इष्टकादिभिः
रचितञ्चत्वरादिकम् । स्थलम् उन्नतः भूप्रदेशः । निम्रं
परिखा । नगा अश्वत्थादयो वृक्षाः । आदिशब्देन
पृष्ठ ५३०१
मार्गादीनां कार्पासवीजानाञ्च ग्रहणम् । अस्थीनि
पशुमनुष्याद्यस्थीनि । तुषाङ्गारकपालैरिति करीषादा-
नामन्येषां लिङ्गानामप्युपलक्षणम् तानि निधापयेत्
“तत्र योगन्तु वालानां प्रयत्नेन प्रदर्शयेत् । वार्द्धके च
शिशूनान्ते दर्शयेयुस्तथैव च । एवं परम्पराज्ञाने सीमा-
भ्रान्तिर्न व्यायते” इति । प्रदर्शयेदिदन्तु छान्दसं बहूत्वे
गवकवचनम् । एतेषां लिङ्गानां कथञ्चिदभावे निश्चयो-
पायमाह नारदः “निम्रगापहृतोत्सृष्टनष्टचिह्रासु
भूमिषु । तत्प्रदेशानुमानैश्च प्रमाणैर्भोगदर्शनैः” ।
निम्नगाया नद्या अपगृतेन अपहरणेन उत्सृष्टानि-
स्वस्थानान्नष्टानि चिह्रानि यासान्तास्तथीक्ताः । प्रमाणैः
साक्षिसामन्तादिभिः एवं निरूपितैर्लिंङ्गैर्निर्णयं कुर्य्या-
दित्याह मनुः “एतैर्लिङ्गैर्नयेत् सीमां राजा विवद-
मानयोः । यदि संशय एव स्याल्लिङ्गानामपि दर्शने ।
साक्षिप्रत्यय एव स्यात् सीमावादविनिर्णयः” । साक्षि-
प्रत्ययः साक्षिहेतुकः । लिङ्गाभावपक्षपरिग्रहार्थो-
ऽपिशब्दः ते च साक्षिणः सीमाविषयाः सीमालिङ्गवि-
मया वा । साक्षिषु विशेषमाह वृहस्पतिः “आगमं च
प्रमाणं च भोगकालञ्च नाम च । भूभागलक्षणञ्चैव ये
विदुस्तेऽत्र साक्षिणः” प्रमाणमियत्ता । उभयेषामपि
साक्षिणामभावे सामन्तवशान्निर्णयं कुर्य्यादित्याह मनुः
“साक्ष्यभावे तु चत्वारो ग्रामाः सामन्तवासिनः ।
सीमाविनिर्णयं कुर्य्युः प्रयता राजसन्निधौः” । यदा पुनं-
लिंङ्गानि न सन्ति वर्त्तमानानि वा सन्दिग्धानि तदा
निसयोपायमाह याज्ञवल्क्यः “सामन्ता वा समग्रामा-
श्चत्वारोऽष्टौ दशापि वा । रक्तस्रग्वसनाः सीमान्नयेयुः
क्षितिधारिणः” । सामन्ताः सन्निहितग्रामक्षेत्राद्युप-
भोक्तारः । समग्रामाश्चत्वारोऽष्टौ इत्यादि प्रकारेण
समसङ्ख्याकाः । तथा च कात्यायनः “ग्रामो ग्रामस्य
सामन्तः क्षेत्रं क्षेत्रस्य कीर्त्तितम् । गृंहं गृहस्य
निर्दिष्टं समन्तात्परिरभ्य हि” । ग्रामस्य समन्ताच्चतसृषु
दिक्षुपरिरभ्य सम्बध्य स्थितो ग्रामः सामन्तः क्षेत्रादप्येवं
ज्ञेयम् । सामन्तानां यदा रागद्वेषादिना प्रकटदोपसद्भाव-
स्तदा सामन्तसामन्तवशान्निर्णयः कार्य्यः तदाह कात्या-
यनः “स्वार्थसिद्धौ प्रदुष्टेषु सामन्तेष्वर्थगौरवात् । तत्सं
सक्तैस्तु कर्त्तव्य उद्धारो नात्र संशयः” । तत्संसक्तैः
सामन्तसंसक्तैः । सोमाया लद्धारः सीमायानिर्णय
इत्यर्थः । तथा चैतदुक्त भवनि । चतसृषुं दिस्रु स्थित-
सामन्तग्रामादिभ्योऽनन्तरत्वेन तद्दिशिस्थितग्रामादिभो-
क्तारस्तत्संसक्तास्तत्प्रदर्शितसीमालिङ्गैर्ग्रांमादेः सीमा-
न्निर्णयेयुरिति । यदा तु सामन्तसामन्तानामपि प्रकट-
दोषस्तदा तत्सामन्तैर्निर्णयस्तदाह कात्यायनः “संर्सक्त
सक्तदोषे तु तत्संसक्ताः प्रकीर्त्तिता” इति । तत्
संसक्ताः संसक्तसक्तसं सक्ता इत्यर्थः । एवं चैतदुक्तं भवति
चतसृषु दिक्ष स्थितसंसक्तग्रामादिभ्योऽनन्तरत्वेन तद्दि-
शिस्थितग्रामादिनाक्तारः संसक्तास्तैः प्रदर्शितसीमा-
लिङ्गैर्ग्रामादेः सीमान्निर्णयेयुरिति । यदा पुनरेते-
षामपि प्रकटदोषत्वन्तदा मौलादवशान्निणयः कार्य्य
इत्यप्याह स एव “कर्त्तव्या न प्रदुष्टास्तु राज्ञा धर्मं
विजानता । त्यक्त्वा दुष्टांस्तु सामन्तानन्यां मौलादिभिः
सह । सम्मिश्र्य कारगेत् सीमामेवं धर्मविदो विदुः” ।
अन्यान् सामन्तव्यतिरिक्तान् सीमालिङ्गाभिज्ञान्
नगरादोनित्यर्थः । नगरादयश्च दर्शिता नारदेन “नगर-
ग्रामगणतोये च वृद्धतमा नराः” । सीमालिङ्गज्ञातार
इति शेषः । मौलादिभिः मौलवृद्धोद्ध्वृतैः । सम्मिश्र्य
मेलयित्वा । मौलादीनाञ्च लक्षणं दर्शितं कात्यायनेन
“ये तत्र पूर्वं सामन्ताः पश्चाद्देशान्तरङ्गताः । तन्मूल-
त्वात् तु ते मौली ऋषिभिः षरिकीर्त्तिताः । निष्पाद्य-
मानं यैर्दृष्टं तत् कार्य्यं नृगुणान्वितैः । वृद्धा वा
यदि वाऽवृद्धास्ते च वृद्धाः प्रकीर्त्तिताः” । नृगुणान्वितैः
पुरुषगुणान्वितैः । वाकारोऽनास्थायां वयोवृद्धत्वस्या-
प्रयोजकत्वात् । ये परम्परया कार्य्यज्ञातारस्ते उद्धर्त्तार
इत्याशयः । तथा च संसक्तसक्तेषु स्फुटदोषदुष्टेषु
पूबसामन्ताद्युपेतनागरिकग्राम्यजनश्रेणिवयोवृद्धदर्शितैः
सम्यक् लिङ्गैः सीमानिर्णयः कार्य्यः । यदा तु प्रति-
वादिना सामन्तेषु कश्चिद्दोष उद्भावितः ते च न प्रकटदोष-
युक्तास्तदोक्तो विशेषो मनुना “सामन्ताः साधनं पूर्वम-
निष्टोक्तौ गुणात्विताः । द्विगुणास्तूत्तरा ज्ञेयास्ततो-
ऽन्ये त्रिगुणा मताः” । अनिष्टोक्तौ प्रतिवादिना गुप्त-
दोषाभिधाने तत्सामन्तास्ततो द्विगुणग्राह्याः । तत्रापि
तथात्वे मौलवृद्धादयः सामन्तत्रिगुणाग्राह्या इत्यर्थः ।
सास्थादीनामेतेषां यदा अभावस्तदा त्वाह मनः “साम-
त्तानामभावे तु मौलानां सीम्नि साक्षिणाम् ।
इमानप्यनुयुञ्जीत पुरुषान् वनगोचरान । व्याधान् शाकुनि-
कान् गोपान् कैवर्त्तान् मलखानकान् । व्यालग्राहानु-
ञ्छवृत्तीनन्यांश्च वनगोचरान्” । वनगोचराणां ग्रहणं
पृष्ठ ५३०२
सीमासन्निहितदेशकर्षकाणामसत्त्वे विज्ञेयम् ।
अतएवोक्तं नारदेन “सीमासु च बहिर्य्ये स्युर्य्येऽपि तत्
कृषिजीविनः । गोपाः शाकुनिका व्याधा ये चान्ये
वनगोचराः” इति । अत्र च सर्वत्र स्थावरविवादे
सेत्वादिविवादे च सामन्तादयो निर्णायकाः तथा च
कात्यायनः “तेषामभावे सामन्ता मौलवृद्धोद्धृतादयः ।
स्थावरे षट्प्रकारेऽपि कार्य्या नात्र विचारणा । क्षेत्र
वास्तुतड़ागेषु आरामवनसेतुषु । समेतभावात्
सामन्तैः कुर्य्यादत्र विनिर्णयम् । ग्रामसीमासु च तथा
तद्वन्नगरसेशयोः” । तेषां साक्षिणाम् । याज्ञवल्क्यो-
ऽपि “आरामायतनग्रामनिपानीद्यानवेश्मसु । एष
एव विधिर्ज्ञेयो वर्षाम्बुप्रवहादिषु” । आयतनन्निवेश-
नन्निपानं पानीयस्थानं वर्षाम्बुप्रवहो वृष्ट्युद्भूत
जलप्रवाहः । पुनः कात्यायनोऽषि “क्षेत्रकूपतड़ागनां केदा-
रारामयोरपि । गृहप्रसदावसथनृपदेवगृह्णेषु च” ।
केदारः क्षुद्रसेतुयुक्तः क्षेत्रविशेषः । गोवलीवर्दन्यायेन
भिन्नोक्तिः प्रसदः प्रासादः । वृहस्पतिरपि “सर्वत्र स्थाव-
रे वादे विधिरेष प्रकीर्त्तितुः” । राज्ञा ग्रामीणानां वादि-
प्रतिवादिनोश्च समक्षं सामन्तादयः प्रष्टव्याः तैर्यदुक्तं
तत्पत्रे लेखनीयमित्याह मनुः “ग्रामीयककुलानान्तु
समक्षं सीम्नि साक्षिणः । प्रष्टव्याः सीमलिङ्गानि
तयोश्चैव विवादिनोः । ते पृष्टास्तु यथा ब्रूयुः समस्ताः
सीम्नि निर्णयम् । निवघ्नीयात्तथा सीमां सर्वास्तांश्चैव
नामतः” । साक्ष्यभिप्रायेण सीमलिङ्गानीत्युक्तम् ।
सीमासाक्षिणस्तु सीमां ब्रूयुः । तथा च वृहस्पतिः
“शपथैः शापिताः स्वैः स्वैर्ब्रूयुः सीमाविनिर्ण-
यम् । दर्शयेयुश्च लिङ्गानि तत्प्रमाणमिति स्थितिः” ।
स्वैः स्वैः । सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः”
इत्यादिनोक्तव्यवस्थानतिक्रमेणेत्यर्थः । यदा तु
सीमालिङ्गसाक्षिणः सीमाचिह्नानि दर्शयितुन्न शक्नु-
वन्ति केवलं सीमामात्रं जानन्ति तदा ते कथं ब्रूयु-
रित्याकाङ्क्षायामाह मनुः “शिरोभिस्ते गृहीत्वोर्वी
स्रग्विणो रक्तवाससः । सुकृतैः शापिताः स्वैः स्रैर्नये-
युस्ते समञ्जसम्” इति । उर्वीं मृदम् । सीमाक्रम-
माणा इति शेषः । नयेयुरिदं द्वयोर्निरासार्थं बहुवचन-
न्नत्वेकस्य, नारदेन “एकश्चेदुन्नयेत् सीमां सोपवासः
समुन्नयेत् । रक्तमाल्याम्बरधरो भूमिमादाय मूर्द्धनि”
इति एकस्याभ्यनुज्ञानात् । वृहस्यतिरपि “ज्ञातृचिह्नै-
र्विना साधुरेकोऽप्युभयसम्मतः । रक्तमाल्याम्बरधरो
मृदमादाय मूर्द्ध्वनि । सत्यव्रतः सोपवासः सीमां तां दर्श-
येन्नरः” । ज्ञातृचिह्नैर्विना सीमायाः ज्ञातॄणां लिङ्गा-
नाञ्चासत्त्वे । ननु कथमेकस्य सीमानिर्णायकत्वम् “नैकः
समुन्नयेत् सीमान्नरः प्रत्ययवानपि । गुरुत्वादस्य कार्य्यस्य
क्रियैषा बहुषु स्थिता” इत्येकस्य नारदेन निषेधा-
दिति चेन्मैवम् स उभयानुमतधमेविद्व्यतिरिक्तविषय
इति न काप्यनुपपत्तिः । अयञ्च निर्णयः सीमाक्रमण-
दिनादारभ्य पक्षत्रयपर्य्यन्तं साक्षिसामन्तादीनान्दैचिक-
राजिकोपद्रवाभावे अवसेयः न तु सीमाक्रमणाव्यवाह-
तोत्तरमेव । तथा च कात्यायनः “सीमाचङ्क्रमणे क्रोशे
पादस्पर्शे तथैव च । त्रिपक्षपक्षसप्ताहं दैवराजिक-
मिष्यते” । यथासङ्ख्यमिति शेषः । यदा तु साक्ष्या-
दीनां पक्षत्रयाभ्यन्तरे दैविकराजिकोपद्रवः अन्यथा वा
मिथ्यावादित्वनिश्चयस्तदा ते पणशतद्वयं दण्डं प्रत्येकं
दाप्याः । तथा च मनुः “यथोक्तेन नयन्तस्ते पूयन्ते
सत्यसाक्षिणः । विपरीतन्नयन्तस्तु दाप्याः स्युर्द्विशतं
दमम्” । यथोक्तेन शिरोमिस्ते गृहीत्वोर्वीमित्यादि-
नोक्तप्रकारेण नयन्तो निर्णयं कुर्वन्तः यथाभूतेनार्थे-
नेति शेषः । द्विशतं पणशतद्वयम् प्रत्येकम् दाप्या
इत्यर्थः । सामन्तानां मिथ्यावादित्वे राज्ञा ते मध्यमसा-
हसाख्येन दण्डेन दण्डनीयाः । तथा चाह याज्ञ-
वल्क्यः “अनृते तु पृथक् दण्ड्याराज्ञा मध्यमसाह-
सम्” । सामन्ता यद्यनृतं मिथ्याभूतं सीमानिर्णयं कुर्य्यु
तदा मध्यमसाहसं कार्षापणानां चत्वारिंशदधि-
कानि पञ्च शतानि दण्डनीयाः । नारदोऽपि “अथ
चेदनृतं ब्रूयुः सामन्ताः सीम्रे निर्णये । सर्वे पृथक्
पृथक् दण्ड्या राज्ञा मध्यमसाहसम्” । सामन्तव्यति-
रिक्तानां तत्संसक्तादीनां मिथ्यावादित्वे पूर्वसाहसाख्येन
दण्डेन प्रत्येकं ते दण्डनीयाः । तथा च नारदः
“शेषाश्चेदनृतं ब्रूयुर्नियुक्ता भूमिकर्मणि । प्रत्येकन्तु
जघन्यास्ते विनेयाः पूर्वसाहसम्” इति । मौलादी-
नामनृतवादित्वे तमेव दण्डं स एवाह “मौलवृद्धा-
दयश्चान्ये दण्डनीयाः पृथक् पृथक् । विनेयाः प्रथ-
मेनैव साहसेनानृते स्थिताः” इति । आदिग्रहणेन
गोपशाकुनकादिवनगोचराणां ग्रहणम् । दण्डनीयाः
मिथ्यावादित्वेन दण्डयितुमर्हाः मैलवृद्धादयः पृथक्
पृथक् प्रथमेन साहसेन विनेया दण्ड्या इत्यर्थः ।
पृष्ठ ५३०३
यद्यपि सामन्तादीनां साक्ष्यपेक्षया दण्डाल्पत्वमुक्तं
मथापि तेषां वाचनिकं दण्डाधिक्यमिति न कोऽपि
दोषः । यद्यपि शाकुनिकादयो बहुधा पापरतत्वात् लिङ्ग
प्रदर्शनोपयोगेनान्यथा सिद्धा न साक्षात् सीमानिर्णये
उपयुज्यन्ते तथापि वृक्षादिलिङ्गप्रदर्शन एव मिथ्या-
भाषित्वसम्भवात्तदभिप्रायेणैव दण्डविधानम् । लोभा-
दिना भेदेनोक्तौ अनुक्तौ च साक्ष्यादीनां दण्डमाह
कात्यायनः “बहूनान्तु गृहीतानां न सर्वे निर्णयं
यदि । कुर्युर्भयाद् वा लोभाद् वा दाप्यास्तूत्तमसाह-
सम्” । एवमज्ञानादिना अनृतवचने साक्षादीन्
दण्डयित्वा पुनः सीमाविचारः प्रवर्त्तयितव्यः तथा च
स एवाह “अज्ञानोक्तौ दण्डयित्वा पुनः सीमां विचा-
रयेत् । कीर्त्तिते यदि भेदः स्याद्दण्ड्यास्तूत्तमसाह-
सम्” । साक्ष्यादीनां सर्वेषाम् अज्ञानोक्तौ भेदेनोक्तौ च
पुनर्विचारणं लेख्यप्रमाणेन कर्त्तव्यम् । अतएव शङ्ख-
लिखितावपि “सामन्तविरोधे लेख्यप्रत्ययः” इति । यदा
पुनः सामन्तप्रभृतयो ज्ञातारश्चिह्नानि च न सन्ति तदा
राजा स्वेच्छया निर्णयं कुर्य्यात् तथा च याज्ञवल्क्यः
“अभावे ज्ञातृचिह्नानां राजा सीम्नः प्रवर्त्तिता” । ज्ञा-
तॄणां सामन्तादीनां लिङ्गादीनाञ्च वृक्षादीनामभावे
राजैव स्वातन्त्र्येण सीमानं प्रवर्त्तयेत् । नारदोऽपि
“यदा च न स्युर्ज्ञातारः सीमाया न च लक्षणम् । तदा
राजा द्वयोः सीमामुन्नयेदिष्टतः स्वयम्” । इष्टतः इच्छया
सार्वविभक्तिकस्तसिः । ग्रामद्वयमध्यवर्त्तिनीं विवादा-
स्पदीभूताम्भुवं समं प्रविभज्यास्येयम्भूरित्युभयोः
समर्प्य तन्मध्ये सीमालिङ्गानि कुर्य्यात् । यदा तस्यां
भूमावुपकारातिशयो यत्र दृश्यते तदा तत्रैव सा सकला
भूर्योजनीया न तूभयत्र । तथा च मनुः “सीमाया-
मविषह्याया स्वयं राजैव धर्मवित् । प्रदिशेद्धूमिमेतेषा-
मुपकारादिति स्थितिः” इति । अविषह्यायां ज्ञातृचिह्न-
रहितायाम् । प्रदिशेत् प्रवेशयेदित्यर्थः । अयञ्च निर्णयो
राज्ञा निर्णयान्तरवदव्यवहितोत्तरमेव न कर्त्तव्यः किन्तु
सीमालिङ्गानि यदा आवरकाद्यभावात् स्थूटं दृश्यन्ते
तदा कर्त्तव्यः । तथा च मनुः “सीमां प्रति समुत्पन्ने
विवादे ग्रामयोर्द्वयोः । ज्यैष्ठे मासि नयेत् सीमां सुप्र-
काशेषु सेतुषु । द्वयोर्ग्रामाधिपयोर्विवादे सीमां प्रति-
समुत्पन्ने ज्यैष्ठे मासीत्युपलक्षणं मासान्तरेऽपि सेतु
वृतिषु सीमालिङ्गेषु व्यक्तेषु विवादाध्यासितां सीमा-
न्निर्णयेदित्यर्थः । ग्रामग्रहणं नगरादेरुपलक्षणार्थम् ।
अतएव कात्यायनः “सामन्ताश्चेत्तु सामन्तैः कुर्य्यात्
क्षेत्रादिनिर्णयम् । ग्रमसीमादिषु तथा तद्वन्नगरदेशयोः”
इति । यदा पुनः ग्रामादीनां सीमात्वेन परिकल्पिता
नदी कदाचित् ग्रामान्तरं भित्त्वा प्रवहन्ती दक्षिणभागे
स्थितां पूर्वं काञ्चिद् भूमिं वामभागनिविष्टां करोति
तथा तत्रैकग्रामसम्बन्धिनी भूरन्यत्र राज्ञा योज्यते तत्र
निर्णयोपायमाह वृहस्पतिः “अन्यग्रामात् समाहृत्य
दत्ताऽन्यस्य यदा मही । महानद्यथ राज्ञा च
कथन्तत्र विचारणा । नद्योत्सृष्टा राजदत्ता यस्य तस्यैव
सा मही । अन्यथा न भवेल्लाभो नराणां राजदैविकः ।
क्षयोदयौ जीवनञ्च दैवराजवशान्नृणाम् । तस्मात् सर्वेषु
कार्य्येषु तत्कृतन्न विचालयेत्” । न च नदीकृतस्य
दैवकृतत्वाभावः शङ्कनीयः दैवशब्दस्य भाग्यवाचित्वान्नदी-
कृतमपि दैवकृतं भवत्येव । तथा चाह स एव “ग्रामयो
रुभयोर्यत्र मर्य्यादा कल्पिता नदी । कुरुते दानहरणं
भाग्याभाग्यवशान्नृणाम् । एकत्र कूलपातन्तु भूमेरन्यत्र
संस्थितिम् । नदी तीरे प्रकुरुते तस्य तान्न विचालयेत्” ।
तस्य नदीवशात् प्राप्तभूमिकस्य तां प्राप्तां भूमिन्न विचा-
लयेत् नान्यया कुर्य्यात् पूर्वस्वामी नापच्छिन्द्यादित्यर्थः ।
एतदनुप्तशस्यतीरविषयम् । उप्तशस्यविपये पुनः स
एवाह “क्षेत्रं सशस्यमुल्लङ्घ्य भूमिश्छिन्ना यदा भवेत् ।
नदीस्रोतःप्रवाहेण पूर्वस्वामी लभेत ताम्” । तां
सशस्यां भूमिं पूर्वस्वामी यावदुत्पन्नस्य शस्यफलप्राप्ति-
स्तावल्लभेतेत्यर्थः । फलप्राप्तेरूर्द्ध्वं पुनः पूर्वचनविषय
समानता । राजदत्तविषये क्वचित् प्रतिप्रसवमाह स
एव “या राज्ञा क्रोधलोभेन छलन्यायेन वा हृता ।
वदत्ताऽन्यस्य दुष्टेन न सा सिद्धिमवाप्नुयात्” । स्वत्व-
हेतुप्रतिग्रहादिलब्धक्षेत्रविषयथेतत् । स्वत्वहेतुप्रति-
ग्रहादिप्रमाणाभावे पुनः स एवाह “प्रमाणरहितां
भूमिं भुञ्जानो यस्य या हृता । गुणाधिकाय वै दत्ता
तस्य तान्न विचालयेत् । प्रमाणरहितां स्वत्वहेतुप्रति-
ग्रहादिप्रमाणरहिताम् । गृहादिविषयकं निर्णयमाह
स एव “निवेशकालादारभ्य गृहचर्य्यापणादिकम् ।
येन यावद्यथा भुक्तं तस्य तन्न विचालयेत” । येन
स्वामिना यावत् प्रचारभूम्यादियुक्तं तथा येन पूर्वादि-
दिगभिमुखद्वारादियुक्तत्वादिरूपेणोपभुक्तं तत्तस्य स्वा-
मिनः सकाशान्न बिचालयेत् नान्यथा कुर्य्यादित्यर्थः
पृष्ठ ५३०४
अत्र नियेशकालादारभ्येत्यभिघानान्मध्ये कृताया व्यव-
स्थाया निवर्त्त्यत्वं दर्शितम् । निवेशकालादारभ्य स्थि-
तानि गवाक्षादिकानि प्रातिवेशिकाद्यनिष्टकारीण्यपि
न निवर्त्त्यन्ते इत्युक्तं तेनैव “वातायनं प्रणालीं च
तथा निर्व्यूहवेदिकाम् । चतुःशालस्यन्दनिकां प्राङ्नि-
विष्टां न चालयेत्” । वातायनं गवाक्षः । प्रणाली
पाषाणादिनिर्मित जलनिर्गमोपायः । निर्य्यूहो द्वार-
निर्गतकाष्ठविशेष इति कृत्यकल्पतरौ । निर्य्यूहो
गृहकोण इति स्मृतिचन्द्रिकायाम् । वेदिका रथ्यादिप्रदेश
संस्कृतोत्तरा भूमिः । चतसृणां शालानां समाहारः
चतुशालम् । तस्मात् स्यन्दनिका वृष्टिजलनिपातः ।
कात्यायनोऽपि “मेखलाभ्रमनिष्काशगवाक्षान्नोपरो-
धयेत् । प्रणालीं गृहवास्तुञ्च पीड़यन् दण्डभाग्भवेत्” ।
मेखला कुड़वमूलबन्धः । भ्रमोजलनिर्गमः । निष्काशः
हर्म्यादिभित्तिषु निर्गतं काष्ठादिनिर्मितमस्पृष्टभूमिक-
मुपवेशनस्थानम् । नोपरोधयेत् न निरुन्ध्यात् ।
गृहवास्तुः वासभूमिः । पूर्वमविद्यमानाः परानिष्टकारिण
एते न कर्त्तव्या इत्यप्याह स एव “निवेशनभयादूर्द्ध्व-
न्नैते योज्याः कदाचन । दृष्टिपातं प्रणालीञ्च न कुर्य्यात्
परवेश्मसु” । दृष्टिपातो गवाक्षः । परवेश्मसु
परवेश्मामिमुख्येन । परकुड्यनिकटे पुरीषोत्सर्गादिकमपि
त कर्त्तव्यम् तथा च वृहस्पतिः “वर्चःस्थानं वह्नि
चयङ्गर्त्तोच्छष्टाम्बुसेचनम् । अत्यारात् परकुड्यस्य
न कर्त्तव्यं कथञ्चन” । वर्चःस्थानम् पुरीषोत्सर्ग-
स्यानम् । अत्यारादतिसर्गीपे अरत्निद्वयसम्मितप्रदेश
इत्यर्थः । तथा च कात्यायनः “विण्मूत्रोदकसेकञ्च
वह्निश्वभ्रनिवेशनम् । अरत्निद्वयमुतसृज्य परकुड्यान्नि-
येशयेत्” । संसरणशब्दार्थनिर्वचनपुरःसरन्तस्यानिरो-
द्धव्यत्वमाह वृहस्पतिः “यान्त्यायान्ति जना येन
पशवश्चानिवारिताः । तदुच्यतं संसरणन्नरोद्धव्यन्तु केनचित्” ।
तथा च सम्यगनिवारितं सरन्त्यस्मिन्निति संसरणनिर्व-
चनमित्यर्थः । चतुष्पथादयोऽपि न निरोद्धव्याः तथा
च नारदः “अवस्करस्थलश्वभ्रभ्रभ्रमस्यन्दनिकादिभिः ।
चतुष्पथसुरस्थानराजमार्गान्न रोधयेत्” । अवस्करः
पुरीषम् । गृहादिशोघनार्थं पांशुसमूह इति
हरिहरादयः । स्थलं येदिका श्वभ्रङ्गर्त्तः । भ्रमो जलनिर्ग
ममार्गः । स्यन्दनिका पदलप्रान्तः । अन्यदपि
आदिशब्देन ताद्दशं ग्राह्यम् । रथ्यामार्गो राजमार्गो न
तु चतुष्पथ इति कल्पतरुः । न च चतुष्पथराजमार्ग-
योरभेद इति शङ्कनीयं तयोर्भेदात् । तथा च कात्या-
यनः “सर्वे जनाः सदा येन प्रयान्ति स चतुष्पथः ।
अनिषिद्धा, यथाकालं राजमार्गः स उच्यते” ।
अनिषिद्धा इत्यस्य पूर्वेणान्वयः । यत्र राजकीयैरकाले
गमनं प्रतिषिध्यते स राजमाघं इत्यर्थः । क्षेत्रस्य
ससीपे मध्ये वा यस्य सर्वदा मार्गोऽस्ति तत्र निरोधो
न कर्त्तव्यः । तथा च शङ्खलिखितौ “मार्गक्षेत्रे
पथि विसर्गो राजमार्गे रथस्य परिवर्त्तनमिति” पथिवि-
सर्गः पथोविसर्गः । राजमार्गे यावता प्रदेशेन रथैः
परिवर्त्तते तावान् प्रदेशस्त्यक्तव्य इत्यर्थः । संसरणा-
नामवरोधकारिणान्तु दण्डो माषैको दाप्यः यथाह
वृहस्पतिः “यस्तत्र सङ्करं श्वभ्रं वृक्षारोपणमेव च ।
कामात् पुरीषं कुर्य्याच्च तस्य दण्डस्तु माषकः” । सङ्क-
रोऽत्र शकटादिसङ्कीर्णता वृक्षापादानं लतादीनामप्युप-
लक्षकम् । माषोऽत्र ताम्रिकः, दण्डस्य अपराधानु-
सारेण कल्पयितुमुचितत्वात् । ये तु राजमार्गे पुरी-
षोत्सर्गादिकं कुर्वते तेषामधिको दण्डः तथा च
मनुः “समुत्सृजेद्राजमर्गे यस्त्वमेध्यमनापदि । स द्वौ
कार्षापणौ दद्यादमेध्यं चाशु शोधयेत्” । आपद्गतादिषु
तु दण्डस्तेनैवोक्तः “आपद्गतस्तथा वृद्धो गर्भिणी बाल
एव च । परिभाषणमर्हन्ति तच्च शोध्यमिति स्थितिः” ।
परिभाषणं क्रूरभाषणम् । तड़ागादौ ततोऽप्यधिको
दण्डः । तथा च कात्यायनः “तड़ागोद्यानतीर्थानि
योऽमेध्येन विनाशयेत् । अमेध्यं शोधयित्वा तु दण्ड-
येत् पूर्वसाहसम्” । ये पुनर्मलिनवस्त्रप्रक्षालनादिना-
तीर्थानि दूषयन्ति तस्याप्ययमेव दण्ड इत्याह स एव
“दूषयेत् सिद्धतीर्थानि स्थापितानि महात्मभिः । पु०
ण्यानि पावनीयानि प्राप्नुयात् पूर्वसाहसम्” । मर्य्यादा
प्रभेदनादौ दण्डमाह याज्ञवल्क्यः “मर्य्यादायाः प्रभेदे
तु सीमातिक्रमणे तथा । क्षेत्रस्य हरणे दण्डाः अध
मोत्तममध्यमाः” । अनेकक्षेत्रव्यवच्छेदिका साधारणी
भूर्मर्य्यादा सीमा तस्याः प्रकर्षेण भेदन सामातिक्रमणे
सीमामतिलङ्घ्य कर्षणे क्षेत्रस्य च भयादिप्रदर्शनेन हरणे
यथाक्रमेणाधमोत्तममध्यमसाहसटण्डा वेदितव्याः । यत्
तु विष्णुवचनम् “सीमामेत्तारसुत्तमसाहसं टण्डयित्वा
पुनः सीमां कारयेदिति” । तत्र हि सीमामतिलङ्घ्य
कर्षतः पुनः सीमाकरणं पुनस्तत्र कर्षणस्याकरणमि
पृष्ठ ५३०५
त्येवं व्याख्येयम् । तेन न पूर्ववचनविरोधः क्षेत्रग्रहणं
गृहाद्युपलक्षणार्थम् । अज्ञानात् क्षेत्रादिहरणेऽधम
एव यथाह मनुः “गृहं तड़ागमारामं क्षेत्रं वा
भीषया हरन् । शतानि पञ्च दण्ड्यः स्यादज्ञानाद्द्विशतो
दमः” । वृद्धमनुः “स्थापितां चैव मर्य्यादामुभयो र्ग्रा-
मयोस्तथा । अतिक्रामन्ति ये पापास्ते दण्ड्या द्विशतं
दसम्” । अपह्रियमाणक्षेत्रादिभूयस्त्वे उत्तमोऽपि
दण्डः प्रयोक्तव्यः “बधः सर्वस्वहरणं पुरान्निर्वासना-
ङ्कने । तदङच्छेद इत्युक्तो दण्ड उत्तमसाहसम्” इति
स्मरणात् । यत् तु शङ्खलिखिताभ्याम् सीमातिक्रमणे
दण्डाधिक्यमुक्तम् “सीमाव्यतिक्रमे त्वष्टसहस्रमिति” तत्
सम्पूर्णसीमातिक्रमविषयम् । सीमासन्धिषूतपन्नवृक्षा-
दिफलं नैवैकेन ग्राह्यं यथाह कात्यायनः “सीमाभध्ये तु
जातानां वृक्षाणां क्षेत्रयोर्द्वयोः । फलं पुष्पञ्च सामान्यं
क्षेत्रस्वामिषु निदिशेत् । सामान्यं साधारणं क्षेत्रयोः
स्वामिषु क्षेत्रस्वामिषु । तथा चान्यतरेणैव तद्वृक्षीय-
फलादिग्रहणे तदनुरूपेण दण्ड इति ध्वनितम् । यदा
पुनरन्यक्षेत्रे वृक्षादिरुत्पन्नोऽन्यक्षेत्रे शाखाः
प्रसृताः तत्र कः स्वामीत्याकाङ्क्षायां स एवाह “अन्य
क्षेत्रे तु जातातां शाखा यत्रान्यसंस्थिताः । स्वामिनं
तं विजानीयाद् यस्य क्षेत्रे तु संश्रिताः । संश्रिताः
प्ररूढाः । परक्षेत्रे प्रार्थनया क्रियमाणं सेतुकूपा-
दिकं क्षेत्रस्वामिना न निषेद्धव्यं तथाह याज्ञवल्क्यः
“न निषेध्योऽल्पबाधस्तु सेतुः कल्याणकारकः ।
परभूमिं हरन् कूपः स्वल्पक्षेत्रो बहूदकः” । अल्पबाधः
अल्पपीड़ाकरः कल्याणकारको वहूपकारकः । स्वल्प
क्षेत्रः स्वल्पक्षेत्रवर्त्तो आभ्यां विशेषणाभ्यां यः सेतुः
क्षेत्रमध्यवर्त्तितया वहुपीड़ाकरस्तदा दिक्षु सन्नि-
हितक्षैत्रवर्त्तितया अल्पोपकारको वा तदा निषेद्धव्य
इति दर्शतम् । तत्र नारदोऽपि “परक्षेत्रस्य मध्ये तु
सेतुर्न प्रतिषिध्यते । महागुणोऽल्पदोधश्चेद् वृद्धि
रिष्टा क्षये सति” क्षये अल्पक्षेत्रक्षये सत्यपि वृद्धिर्यत
इष्टा अतो महागुणः स्वक्षेत्रेऽपि उपकारकरोऽल्प-
दाषश्चेत्तदा न प्रतिषेद्धव्य इत्यथं । अन्यक्षेत्रे सेतुकूपा-
दिपवर्त्तनं तत्स्वाम्याद्य ज्ञां लब्धा कर्त्तव्यमित्याह
याज्ञवल्क्यः स्वामिने योऽनिवेद्यैव क्षेत्रे सेतुं प्रव-
र्त्तवेत् । उत्पन्ने स्वामिनो भोगस्तदभावे मसीपदः” ।
यस्तु क्षत्रस्वामिनं तद्वंश्यं तदभावे राजानं वा प्रार्थ्य
अर्थादानेन वा तत्क्षेत्रे सेत्वादिकं करोति स सेत्वाद्युत्-
पन्नफलोपभोगं दृष्टमदृष्टेवा न लभते किन्तु तत्स्वाम्येव
तल्लभते तदभावे राजा । अतस्तदाज्ञां गृहीत्वा सेत्वा-
दिकं कर्त्तव्यमित्यर्थः । जीर्णानाम् अन्यदीयसेत्वादीनाम्
उद्धारोऽपि तत्स्वाम्याद्यनुज्ञां गृहीत्वा कार्य्य इत्याह
नारदः “पूर्वप्रवृत्तनुत्पन्नमपृष्ट्वा स्वामिनन्तु यः । सेतुं
प्रवर्त्तयेद् यस्तु न स तत्फलभाग्भवेत् । मृते तु स्वा-
मिनि पुनस्तद्वंश्ये वापि मानवे । राजानमामन्त्र्य ततः
कुर्य्यात् सेतुप्रवर्त्तनम् । अतोऽन्यथा क्लेशमायान्मृग-
व्याधनिदर्शनात्” । मृगव्याधदृष्टान्तः स्फुटीकृतस्तैनैव,
“इषवस्तस्य नश्यन्ति यो विद्धमनुविध्यति” । तस्य
मृगव्याधस्य । कात्यायनोऽपि “अस्वाम्यनुमतेनैव संस्कारं
कुरुते तु यः । गृहोद्यानतड़ागानां संस्कर्त्ता लभते
न तु । देयं स्वामिनि चायाते तन्निवेद्य नृपे यदि ।
अथावेद्य प्रयुक्तस्तु तद्गतं लभते व्ययम्” । नृपे अनावेद्य
कृतं यत्तड़ागादिसंस्कारार्थं व्ययन्तत् स्यामिनि ग्रामा-
न्तरादागते तेन देयमपि न प्राप्नोति । नृपे निवेद्य-
संस्करणे तदर्थं व्ययं प्राप्नोति । फलन्तु स्वाम्यनुमत्य-
लाभे न प्राप्नोतीत्यर्थः । यः परक्षेत्रमहमिदं कृषा-
मीत्यूरीकृत्य पश्चाद् न कृषति नाप्यन्येन कर्षयति तं
प्रत्याह याज्ञवल्क्यः “फालाहतमपि क्षेत्रं यो न
कुर्य्यान्न कारयेत् । स प्रदाप्यः कृष्टफलं क्षेत्रमन्येन
कारयेत्” । यद्यपि फालाहतं किञ्चिद् हलेन विदारितं
सम्यग्वोजावापयोग्यं न भवति तथाप्यकृष्टक्षेत्रस्य फलं
यावत् तत्रोत्पत्तियोग्यं स मन्तादिकल्पितं तावदसौ
स्वामिने दापनीयः तच्च पूर्वकर्षकादाच्छिद्याऽपरेण
कारयेत् । व्यासोऽपि “क्षेत्रं गृहीत्वा यः कश्चिन्न कुर्य्यान्न
च कारयेत् । स्वामिने स शदं दाप्यो राज्ञे दण्डञ्च
तत्समम्” । शदं क्षेत्रफलम् । तत्समं तदनुरूपमि-
त्यर्थः । स्वामिग्राह्यं क्षेत्रफलमपि कियदित्याका-
ङ्क्षायां स एवाह “चिरावसन्ने दशमं कृष्यमाणे
तथाष्टकम् । सुसंस्कृतेऽपि षष्ठं स्यात् परिकल्प्यं
यथास्थिति” इति । चिरावसन्ने चिरकालमकृष्टे क्षेत्रै
ऽहमिदं कृषामीत्यूरीकृत्योपेक्षिते सामन्तैर्य्यथास्थिति
क्षेत्रस्थित्यनुसारेणैतावदत्रोत्पत्तु योग्यमिति परि
कल्प्य क्षेत्रस्वामिने तस्य दशमभागं, कृष्यमाणे
अचिरावन्ने स्वीकृत्यानुपेक्षिते तु अष्टमं भ गं सुमंस्कते तूपे-
क्षित षष्ठं भागं दाप्य इत्यर्थः । यस्तु क्षेत्रस्वामिनः
पृष्ठ ५३०६
सामर्थ्यवैकल्यादिनाऽर्द्धखिलावस्थां प्राप्ते क्षेत्रे
स्वाम्यनिवारतः सन् स्वयमेव तत्कर्षणादिकं करोति
तदा स क्षेत्रस्वामिने फलं न दापनीयः । किन्तु तस्य
फलं स्वयमेव गृह्णीयादित्याह नारदः “अशक्तप्रेत-
नष्टेषु क्षेत्रिकेष्वनिवारितः । क्षेत्रं चेद्विकृषेत् कश्चि-
दश्नुवीत स तत्फलम्” । प्रेता मृताः नष्टाः कुत्रचिद्-
गता इति चिरमपरिचिताः । क्षेत्रिकेषु क्षेत्रस्वामिषु
तेन क्षत्रस्वामिना तत्पुत्रादिना वा समागतेनैव विधाय
कर्षादिखिलभञ्जनार्थं व्ययं दत्त्वैव स्वीयं क्षेत्रं ग्राह्यमिति
स एवाह “विकृष्यमाणे क्षेत्रे तु क्षेत्रिकः पुनराव्रजेत्
खिलोपचारं तत् सर्वं दत्त्वा क्षेत्रमवाप्नुयात्” । अर्द्ध
खिलाद्यवस्था कदा क्षेत्रस्य भवतीत्याकङ्क्षायां स एवाह
“संवत्सरेणार्द्धखिलमीहितं वत्सरैस्त्रिभिः । पञ्चवर्षा
वसन्नान्तु क्षेत्रं स्यादटवीसमम्” । कर्षणरहितं संवरे-
णाऽर्द्धखिलं भवति यत्नसाध्यं भवति वर्षत्रये तु ईहितं
खिलं महायत्नसाध्यं भवति । वर्षपञ्चके न ईहितं
क्षेत्रम् अटवीतुल्यं स्यात् अतिदुष्कर्षं भवदित्यर्थः ।
खिलभञ्चनार्थं ष्ययदानासामर्थ्ये क्षेत्रस्वामिनः
क्षेत्रफलस्याष्टमो भागः कर्षकेण वर्षाष्टकं स्वामिने देयः
अवशिष्टं सर्वं स्वयमेव ग्राह्यम् । क्षेत्रं च वर्षाष्टका-
नन्तरन्तत्स्वामिने देयम् । तथा च कात्यायनः
“अशक्तितो न दद्याच्च खिलाथें यः कृतो व्ययः । तदष्टभाग-
हीनन्तु कर्षकः फलमाप्नुयात्” इति । “वर्षाण्यष्टौ स
भोक्ता स्यात्परतः स्वामिने तु तत् इति” ।

सीर पु० सि--रक् पृषो० । १ सूर्य्ये मेदि० २ अर्कवृक्षे ३ हले च

अमरः संज्ञायां कन् । ३ शिशुमारे शब्दमा० ।

सीरध्वज पु० सीरोगलः तच्चिह्नितो ध्वजो यस्य । चन्द्रवंश्ये २ जनकनृपे ।

सीरपाणि पु० सीरः हलः पाणौ यस्य । बलदेवे अमरः ।

सीरिन् पु० सीरोहलोऽस्त्यस्यायुधत्वेन इनि । बलरामे हला०

सीलन्द पु० मत्स्यभेदे (सीलिन्दा) “सीलन्धः श्लेष्मलो वृष्यो

विपाके मधुरो गुरुः । वातपित्तहरो हृद्य आमवात-
करश्च सः” भावप्र० ।

सी(से)वन न० सिव--ल्युट् नि० वा दीर्धः । सीवने तन्तु-

सन्ताने (सेओयान) अमरः २ लिङ्गमण्यधस्थसूत्रे स्त्री
हेमच० ङीप् ।

सीस न० सि--क्विप् पृषो० सो--क कर्म० । (सीमे) धातुभेदे

हेमच० नागशब्दे ४००९ पृ० तद्गुणादि दृश्यम् । स्वार्थ
क । तत्रार्थे अमरः ।

सीहुण्ड पु० सिहुण्ड + पृषो० दीर्घः । स्नुहीवृक्षे राजनि० ।

सु अव्य० सु--डु । १ पूजायाम् २ अतिशये अमरः । ३ कृच्छे

४ अनुमतौ ५ ममृद्धौ मेदि० ६ अनायासे च अनेकार्थको० ।
पूजायामस्य नोपसर्गत्वम् तेन सुस्तुतमित्यादौ न षत्वम् ।
अतिशयादौ तु सुष्टुत इत्यादि । गणरत्नेऽर्थविशेषा-
नुक्तक्रमेणोदाहृतम् यथा “सु प्रशंसानुमतिपूजाभृश-
कृच्छ्रशुभेषु । सुरूपः सुकृतं सुसाधुः सुतप्तः सुदुः करं
सुगन्धः” ।

सुकण्टका स्त्री सुष्ठु कण्टकोऽस्याः । घृतकुमार्य्याम् राजनि

सुकण्डु स्त्री सु + कण्डु + यक् डु । कण्डुरोगे (चुलकाना)

शब्दर० ।

सुकन्द पु० शोभनः कन्दोऽस्य । १ कशेरौ राजनि० २

शोभनकन्दयुक्ते त्रि० संज्ञायां क । ३ पलाण्डौ अमरः ।
४ वाराहीकन्दे ५ धरणीकन्दे राजनि० ।

सुकन्दिन् पु० शोभनः हितकरः कन्दोऽस्त्यस्य इनि । शूरणे

(ओल) राजनि० ।

सुकन्यका स्त्री शर्य्यातिनृपकन्यायां च्यवनर्षिपत्न्याम् भाग० ९ । ३ अ० ।

सुकरा स्त्री सुखेन क्रियते दुह्यते वा सु + कृ--खल् । १ सुशी-

लायां गवि अमरः २ सुखसाध्ये त्रि० ।

सुकर्णक पु० सुष्ठु कर्ण इव कन्दोऽस्य कप् । १ हस्तिकन्दे

राजनि० २ शोभनकर्णयुक्ते त्रि० ।

सुकर्णिका स्त्री सुष्ठु--कर्णाविव पर्णान्यस्याः कप् अत

इत्त्वम् । मूमिकपर्ण्याम् शब्दर० ।

सुकर्णी स्त्री सुष्ठु कर्णाविव पत्त्राण्यस्याः ङीप् । इन्द्रवारु-

ण्याम् (राखालशशा) राजनि० ।

सुकर्म्भन् पु० सुष्ठु कर्म यस्मात् ५ ब० । १ विष्कम्भादिषु मध्ये

सप्तमे योगे ज्यो० २ शोभनकृत्ययुते त्रि० ३ विश्वकर्मणि
पु० मेदि० । प्रा० स० । ५ शोभने कृत्ये न० ।

सुकल पु० सुष्ठु कल्यते ख्यायतेऽसौ सु + कनि + अच् । दातृत्व-

भोजयित्वादिना १ विख्याते जने अमरः । प्रा० ब० । २ सुन्दर-
मधुराव्यक्तशब्दयुक्ते त्रि० । प्रा० स० । सुन्दरे कलशब्दे पु० ।

सुकाण्ड पु० सुष्ठु काण्डोऽस्य । १ कारवेल्ले राजनि० २

सुन्दरकाण्डयुक्ते वृक्षे च ३ काण्डीरलतायां स्त्री ङीप् ।
स्वार्थ क अत इत्त्वम् । तत्रैव ।

सुकाण्डिन् पु० सुकाण्ड + अस्त्यर्थे इनि । भ्रमरे राजनि० ।

सुकामा स्त्रा सुष्ठु काम्यतऽसौ सु + कम--कर्मणि थञ् । १ त्राय-

माणालतायाम राजनि० । २ शोभनकामविषये त्रि० ।

सुकालुका स्त्री सु + कस--उण् स्नार्थे क । डोडीक्षुपे राजनि०

पृष्ठ ५३०७

सुकाष्ठ न० सुष्ठु काष्ठं यस्य प्रा० ब० । १ देवदारुकाष्ठे २ काष्ठक-

दल्याम् ३ कटुक्याञ्च स्त्री राजनि० । प्रा० स० । ४ शोभने
काष्ठे च ।

सुकुन्दक पु० सु + कुदि--ण्वुल् । पलाण्डौ शब्दर० ।

सुकुन्दन स्त्री० सु + कुदि--ल्यु । वर्वरे राजनि० ।

सुकुमारा न० सु + कुमार--अच् । १ जातीवृक्षे २

नवमालिकायाम् ३ कदल्यां ४ पृक्कायां ५ मांडत्याञ्च राजनि० ।
६ अतिकोमले त्रि० । प्रा० स० । ७ सुन्दरकुमारावस्थान्विते
त्रि० स्त्रियां ङीष् । ८ नवमालिकायां ९ पुण्ड्रेक्षौ पु० मेदि०
१० वनचम्पके ११ क्षवे १२ श्यामाके च पु० राजनि० संज्ञायां
कन् । सुकुमारक तमालपत्रे न० शालौ पु० राजनि० ।

सुकृत् त्रि० सु + कृ--क्विप् । १ पुण्यकारके जटा० २ धर्मिके

जने त्रिका० ।

सुकृत न० सु + कृ--क्त । १ पुण्ये धर्मे अमरः २ शुभे

३ सुविहिते त्रि० मेदि० । ४ सुकर्मणि न० ।

सुकृति स्त्री सु + कृ--क्तिन् । १ पुण्ये २ मङ्गले २ सत्कर्मणि र

सुकृतिन् त्रि० सुकृतमनेन इष्टा० इनि । १ पुण्यशीले अगरः

२ शुभयुक्ते मेदि० । ३ सत्कर्मयुत च स्त्रियां ङीप् ।

सुकेसर पु० सुष्ठुकेसरो यस्य । वीजपूरे राजनि० ।

सुकोली स्त्री प्रा० स० । क्षीरकाकोल्याम् रत्नमा० ।

सुकोषक पु० सुष्ठुकोषाऽस्य कप् । कोषाम्रे राजनि० ।

सुख सुखसम्पादने अद० चु० उभ० सक० सेट् । सुखयति--ते

व्यतुसुखत--त । अनेकाच्कत्वेन न षोपदेशः ।

सुख न० सक्ष--अच् । १ पुण्यजन्ये आनन्दे गुणभेदे अमरः

२ अनुकूलवेदनीये यदनुभवाय चित्तमनुकूलं भवति तस्मिन्
अर्थे तच्च आत्मधर्म इति नैयायिकादयः । चित्त-
धर्म इति साङ्ख्य दयः । सुखयतीति अच् सुखमस्यास्ति
यम् वा । ३ सुखांरके ४ सुखिनि च त्रि०! ५ वरुणपूर्य्यां
स्त्री ६ खर्गे मेदि० । “यन्न दुःखेन सम्भिन्नं न च ग्रस्त-
मनन्तरम् । अभिलाषोपनीतं च तत्सुखं खःपदा-
स्पदम्” श्रुत्या दुःखासम्भिन्नसुखस्यैव स्वर्गपदार्थत्वेनाभि-
धानात् तस्य सुखविशेषात्मकत्वात् तथात्वम् । ७ वृद्धि-
नामोषधौ राजनि० । सुखत्वं तु जातिभेदः तल्लक्षणन्तु
काम्यभावत्वम् अन्येच्छानधीनच्छाविषयत्वे सति भावत्वमिति
यावत् दुःखाभावस्य काम्यत्वेऽपि तस्य भावत्वा-
भावान्नातिव्याप्तिः । “सुखं तु जगतामेव काम्यं
धर्मेण जन्यते” भाषा० । तथाच धर्मासमवायिकार-
णजन्यशुणत्वं तल्लक्षणमिति फतितोऽर्थः । सखदुःखयोः
परस्परभिन्नत्वे कारणादिकं कणा० सू० वृत्त्योर्दर्शितं यथा
“इष्टानिष्टकारणविशेषाद्विरोधांच्च मिथः सुखदुःयोरथा-
न्तरभावः” कणा० सू० । “आत्मगुणानां कारणतोभेद-
व्युत्पादनं दशमाध्यायार्थः, तत्र “आत्मशरीरेन्द्रियार्थ-
बुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्”
इति गौतमीये प्रमेयविभागसूत्रे सुखस्यानभिधानात्
दुःखाभिन्नमेव सुखमिति भ्रमनिरासार्थं सुखदुःणयो
रेब प्रथमं भेदमाह “सुखदुखयोर्मियः परस्परमर्था-
न्तरभावोभेदो वैजात्यमिति यावत् कुत इत्यत आह
इष्टानिष्टकारणविशेषात् इष्टं इष्यमाणं स्रक्चन्दंन-
वनितादि, अनिष्टमनिष्यमाणमहिकण्टकादि, तद्रूपं
यत्करणं तस्य विशेषाद्भेदात् कारणवैजात्याधीनं कार्य्य-
वैजात्यमावश्यकं यतः, भेदकान्तरमाह विरांधात्
सहानस्थानलक्षणात् नह्येकस्मिन्नात्मन्येकदा सुखदुःखयो-
रनुभवः चकारादनयाः कार्य्यभेदं भेदकं समुच्चिनोति,
तथा हि अनुग्रहाभिष्वङ्गनयनप्रसादादि सुखस्य, दैन्य-
मुखमालिन्यादि दुःखस्य कार्य्यमिति ततोऽप्यनयोर्भेदः ।
तदुक्तं प्रशस्ताचार्य्यैः “अनुग्रहलक्षणं सुखं स्रगा-
द्यभिप्रेतषिषयसान्निध्ये सति इष्टोत्पन्नधीन्द्रियार्थसन्नि-
कर्षाद्धर्माद्यपेक्षादात्ममनसोः संयोगाद्यद्यदनुग्रहाभि-
ष्वङ्गनयनादिप्रसादजनकमुत्पद्यते तत् सुखम्” इति ।
तदिदमतीतेषु स्रक्चन्दनादिषु स्मृतिजमनागतेषु सङ्क-
ल्पजम् । गौतमीये सूत्रे सुखापरिगणनं वैराग्याय
सुखमपि दुःखत्वेन भावयतो वैराग्यं स्यादेतदर्थमिति” उ० वृ० ।
“तच्च सुखं चतुर्विधं वैषयिकमाभिमानिकं मानोरथिकम्
आभ्यासिकंर्ञ्चेति” उप० वृत्ति० । आद्यं विषयेन्द्रियसा-
क्षात्कारजन्यं, द्वितीयं राजाधिपत्यपाण्डित्यगर्वांदिजन्यं,
तृतीयं विषयध्यानजन्यम् चतुर्थं सूर्य्यादिनमस्कारायामा-
दिजन्यं लाघवरूपमिति” ।
पात० सू० वैषयिकसुखानां परिणामदुःस्वत्वादिभिः
दुःखत्वं व्यवस्थापितं वैराग्यार्थं यथा
“परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव
सर्वं विवेकिनः” सू० । “सर्वस्यायं रागानुविद्धश्चेतना-
चेतनसाधनाधीनमखानुभव इति तत्रास्ति रागजः
कर्माशयः तथा च द्वेष्टि दुःखसाधनानि मुख्यति चेति
द्वेषमोहकृतोऽप्यस्ति । तथा चोक्तम् “नानुपहत्य भूता-
न्युपभोगः सम्भवतीति” हिंसाकृतोऽप्यस्ति शारीरः
कर्मागय इति विषयसुखं चाविद्येत्युक्तम् । या भोगे-
पृष्ठ ५३०८
ष्विन्द्रियाणां तृप्तेरुपशान्तिः तत् सुखं या लौल्याद-
नुवशान्तिस्तद् दुखम् । न चेन्द्रियाणां भोगाभ्यासेन
वैतृष्ण्यं कर्त्तुं शक्यं कस्माद् यतो भोगाभ्यास-
मनुविवर्द्धन्ते रागाः कौशलानि चेन्द्रियाणामिति
तस्मादनुपायः सुखस्य भोगाभ्यास इति स खल्वयं
वृश्चिकविषभीत इवाशीविषेण दष्टो यः सुखार्थी
विषयाननुवासितो महति दुःस्वपङ्के मग्न इति । एषा
परिणामदुःखता नाम प्रतिकूला सुखावस्थायामपि
योगिनमेव क्लिश्नाति । अथ का तापदुःखता सर्वस्य द्वे-
षानुविद्धश्चेतनाचेतनसाधनांधीनस्तापानुभव इति ।
तत्रास्ति द्वेषजः कर्माशयः सुखसाधनानि च प्रार्थ
मानः कायेन वाचा मनसा च परिस्पन्दते ततः
परमनुगृह्नात्युपहन्ति चेति परानुग्रहपीड़ाभ्यां धर्मा-
धर्मानुपचिनोति स कर्माशयो लोभान्मोहाच्च भवती-
त्येषा तापदुःखतोच्यते । का पुनः संस्कारदुःखता ।
सुखानुभवात् सुखसंस्काराशयो दुःखानुभवादपि दुःख-
संस्काराशय इति एवं कर्मभ्यो विपाकेऽनुभूयमाने सुखे
दुःखे वा पुनः कर्माशयप्रचय इति एवमिदमनादिदुःख-
स्रोतोविप्रसृतं योगिनमेव प्रतिकूलात्मकत्वादुद्वेजयति
कस्मात् अक्षिपत्रकल्पो हि विद्वानिति यथोर्णातन्तु
रक्षिपत्रे न्यस्तः स्पर्शेन दुःखयति नान्येषु गात्राव-
यवेषु एवमेतानि दुःखानि अक्षिपत्रकल्पं योगिन-
मेव क्लिश्नन्ति नेतरम् इतरन्तु स्वकर्मोपहृतं दुःखमुपा-
त्तमुपात्तं त्यजन्तं त्यक्तं त्यक्तमुपाददानम् अनादिवा-
सनाविचित्रया चित्तवृत्त्या समन्ततोऽनुविद्धमिवावि-
द्यया हातव्य एवाहङ्कारममकारानुपातितं जातं
जातं वाह्याध्यात्मिकोभयनिमित्तास्त्रिपर्वाणस्तापा
अनुप्लवन्ते तदेवमनादिदुःखस्रोतसा व्यूह्यमानमात्मानं
भूतग्रामञ्च दृष्ट्वा योगी सर्वदुःखक्षयकारिणं सम्यग्दर्शनं
शरणं प्रपद्यत इति गुणवृत्तिविरोधाच्च दुःस्वमेव
सर्वं विवेकिनः । प्रख्याप्रवृत्तिस्थितिरूपा बुद्धिगुणाः
परस्परानुग्रहतन्त्रीभूताः शान्तं षोरं सूढ़ं वा प्रत्ययं
त्रिगुणमेव प्रारभन्ते चलञ्च गुणवृत्तमिति क्षिप्रपरि-
णामि चित्तमुक्तरूपातिशयाद्वृत्त्यतिशयाश्च परस्परेण
विरुध्यन्ते सामान्यानि तु अतिशयैः सह प्रवर्त्तन्ते
एवमेते गुणा इतरेतराश्रयेणोपार्जितसुखदुखमोहप्रत्यया
इति सर्वे सर्वरूपा भवन्ति गुणप्रधानभावकृतस्तेषु
विशेष इति तस्मात् दु खमेव सर्व विवेकिन” वा० ।
“तच्च सुखं नित्यं जन्यञ्चेति बेदान्तिनः । तत्र विषय-
संपर्कात् वैषयिकं सुखं जन्यम्, ब्रह्मस्वरूपं सुखं नित्यमिति
तदेतन्मतं मुक्तिवादे मणिकता निराकृतम् यथा
“न च नित्यसुखाभिव्यक्तिर्मुक्तिः । सा हि न नित्या
मुक्तशरीरिणोरविशेषापातात् नोत्पाद्या तद्धेतुशंरी
राद्यभावात् ज्ञानमात्रे सुखमात्रे वा तद्धेतुत्वावधा
रणात् निःसंसारदशायां तद्धेतुसामान्ये वाधकाभा-
वात् । अतएव सर्गादौ शरीरकल्पना । किं वा तज्ज-
नकं न तावदात्ममनः सयोगः तस्यादृष्टादिनिरपेक्षस्यांजन-
कत्वात् विषयमात्रापेक्षणे तु संसारदशायामपि
तदमिव्यक्तिप्रसङ्गः नापि योगजोधर्मः सहकारी तस्योत्पन्न-
भावत्वेन विनाशित्वेऽपरत्र निवृत्त्यापत्तेः न च तज्ज-
न्याभिव्यक्तिरनन्ता तस्या अपि तत एव नाशात् । अथ
तत्त्वज्ञानात् सवासनमिथ्याज्ञाननाशे दोषाभावेन प्रवृ-
त्त्याद्यभावाद्धर्माधर्मयोरनुत्पादे प्राचीनधर्माधर्मक्षयाद्-
दुःखसाधनशरीरादिनाश एव तत्र हेतुः अतएव तस्या-
नन्त्येनाभिव्यक्तिप्रवाहोऽप्यनन्त इति चेन्न शरीरं विना
तदनुत्पत्तेः तस्य तद्धेतुत्वे मानाभावाच्च । न च मोक्षादि-
प्रवृत्तिरेवे मानं दुःखहानार्थितया तदुपपत्तेः । नच
नित्ये सुखे मानमस्ति “नित्यं विज्ञानमानन्दम् ब्रह्म”
“आनन्दं ब्रह्मणोरूपं तच्च मोक्षे प्रतिष्ठितमित्यादि”
णुतिमांनमिति चेन्न उपजननापायवतोर्ज्ञानसुखयो-
रहं जानाम्यहं सुखीति अभिन्नत्वेनानुभूयमानयो-
र्ब्रह्माभेदवोधने प्रत्यक्षबाधात् । अथ सुखस्य ब्रह्मा-
भेदबोधनादेवायाग्यतयाऽनित्यं सुख विहाय वाक्यार्थ-
त्वेन नित्यसुखसिद्धिः स्वर्गवत् न तु नित्यसुखे सिंद्धे
तदभेदवोधनं येनान्योन्याश्रयः, यद्वा नित्यं सुखं
बोधयित्वा तदमिन्नं ब्रोध्यते न च वाक्यभेष्टः वाक्यैक-
वाक्यत्वादिति चेन्न आत्ममनोऽनुभूयमानत्वेन तदभि-
न्नस्य नित्यसुखस्याप्यनुभवप्रसङ्गात् सुखमात्रस्य स्रगो-
चरसाक्षात्कारजनकत्वनियमात् तदनुमवे वात्मनोऽप्य-
नुभवो न स्यात् । अथात्माभिन्नं नित्यसुखमनुभूयत
एव सुखत्वं तु तत्र नानुभूयत इति चेन्न सुखानुभव-
सामग्र्या एव सुखत्वानुभावकत्वात् तस्मादानन्दं ब्रह्मेति
मत्वर्थीयाच्प्रत्ययान्तत्वेनानन्दं वोध्यते नाभेदः, अन्यधा
नपुं सकत्वानुपपत्तेः । एतेन ब्रह्माद्वैतत्त्वसाखात्कारा-
दविद्यानिवृत्तौ विज्ञानंसुखात्मकः केवलं आत्मापवर्गे
वर्त्तत इति वेदान्तिमतमपास्तम् स्वप्रकाशसुखात्मकब्र-
पृष्ठ ५३०९
ह्मलो नित्यत्वे मुक्तसंसारिणोरविशेषप्रसङ्गात् पुरुष-
प्रयत्नं विना तस्य सत्त्वादपुरुषार्थत्वाच्च अविद्या-
निवृत्तिः प्रयत्नसाध्येति चेत् अविद्या यदि मिथ्या-
ज्ञाननमर्थान्तरं वा उभयथापि सुखदुःखाभावसाधनेतर-
त्वेन तन्निवृत्तेरपुरुषार्थत्वात्” ।
तत्र दुःखाभावस्यैव परमप्रयोजनत्वं न सुखस्येति व्यव-
स्थापितं यया
“नंनु दुःखाभावो न पुरुषार्थः सुखस्यापि हानिस्तुल्या-
यव्ययत्वात् न च नहुतरदुःखानुविद्धतया सुखस्यारि
प्रेक्षावद्धेयत्वम् आवश्यकत्वेन दुःखस्यैव हेयत्वात्
सुखस्य निरुपधीच्छायिषयत्वात् अन्यथा दुःखाननुविद्ध-
तया तथात्वेन पुरुषार्थत्वविरोधादिति चेन्न सुखमनु-
द्दिश्यापि दुःखभीरूणां दुःखाभावदशायां सुखमस्ती-
त्युद्दिश्य दुःखाभावार्थं प्रवृत्तेः वैपरीत्यस्यापि सम्भवे
सुस्वस्याप्यपुरुषार्थतापत्तेः अतो दुःखाभावदशायां
सुखं नास्तीति ज्ञानं न दुःखाभाव्रार्थिप्रवृत्तिप्रतिबन्धकं
नस्मादवियेकिनः सुखमात्रलिप्सवो बहुतरदुःखानु-
विद्धमपि सुखमुद्दिश्य “शिरोमदीयं यदि यातु यात्विति,
कृत्वा परदारेष्वपि प्रवर्त्तमानाः “वरं वृन्दावनेऽरण्ये”
इत्यादि वदन्तोनात्राधिकारिणः । ये च विवेकिनोऽ-
स्मिन् संसारापारकान्तारे कियन्ति दुःखदुर्दिनान्लि
कियती सुखखद्योतिका कुपितफणिफणामण्डलच्छाया-
प्रतिममिदमिति मन्यमानाः सुखमपि हातुमिच्छन्ति
तेऽत्राधिकारिणः । न च भोगार्थिनामप्रवृत्तौ पुरुषा
र्थता हीयते कस्यचिदप्रवृत्तावपि चिकित्सादेः पुरु-
षार्थत्वात् । अथवा “दुःखाभावोऽपि नावेद्यः पुरुषार्थ
तयेष्यते । न हि मूर्च्छाद्यवस्थार्थं प्रवृत्तो दृश्यते सुधीः,
पुरुषार्थत्वं सुखवज्ज्ञायमानं नियर्मात् न च मुक्ति-
ज्ञानं सम्भवतीति न हि दुःखाभावं जानीयामित्यु
द्दिश्य प्रवृत्तिः किन्तु दुःखं मे मा भूदित्युदिश्य स्वतो
दुःखाभाव एव पुरुषार्थः तस्य ज्ञानन्तु स्वकारणाधीम
न तु पुरुषार्थतोपयोगि सुखी स्यामित्युद्दिश्य प्रव-
र्त्तते न तु सुखं जानीयामिति सुखमेव तथास्तु न
तदवगमः तस्यानावश्यकत्वेनान्यथासिद्धत्वात् गौरवाच्च ।
किञ्च बहुतरदुःखजर्जरकलेवरादुःखाभावमुद्दिश्य मरणे
ऽपि प्रवर्त्तमाना दृश्यन्ते न च मरणे तस्य ज्ञान-
मस्ति न ते विवेकिन इति चेन्न पुरुषार्थत्वे विवेकानु-
पयोगात्” ।
तच्च सुखं चित्तधर्मोऽपि अध्यस्ततया प्रतिविंम्बरूपेण वा
आत्मनि वर्त्तते इति सांख्या वेदान्तिनश्च । आत्मगुण
इति नैयायिकाः । ८ दुःखाभावे । भारवाहकस्य भाराप-
गमे सुखी संवृत्तोऽहमिति प्रत्ययस्य दुःखाभावविषय-
तयोपगमात् ।

सुखङ्करी स्त्री सुखङ्करोति। कृ--खट् सुम् च ङीप् । १

जीवन्तीव्र्क्षे राजनि० । २ सुखकारके त्रि० ।

सुखङ्घुण पु० घुण क--मुम् । शिवखट्टाङ्गे त्रिका० ।

सुखचार पु० सुख सुखकारक चारा यस्य । उत्तभाश्वे शब्दमा०

सुखजात त्रि० जात सुखमस्य परनिपातः । जातानन्दे

“सुखजातः सुरापीत” भट्टिः ।

सुखद पु० सुख ददाति दा--क । १ विष्णौ विष्णुस० । “विंशत्य-

क्षरसंयुक्तो ध्रवः सुखदसंज्ञकः । शृङ्गारवीरयोर्ज्ञेयो गुरु-
णैकेनं मण्डित” सं० गी० उक्ते २ ध्रुवभेदे । ३ सुखदातरि त्रि०
४ स्वर्गवेश्यायां स्त्री शब्दरत्ना० । ५ शमीवृक्षे स्त्री राजनि०

सुखदोह्या स्त्री सुखेन दोह्या दुह--ण्यत् । क्लेशं विना

दोहनीयायां गवि हेमच० सुखसंदोह्याप्यत्र ।

सुखभाज् त्रि० सुखं भजते भज--ण्वि । सुखयुक्ते ।

सुखमोदा स्त्री सुखः सुखकरो मादो यस्याः । सल्लकीवृक्षे राजनि०

सुखरात्रि स्त्री सुखा सुखकरी रात्रिर्यस्याम् । आश्विना-

मावास्यायाम् दीषान्वितामावास्यायाम् । उल्काशब्दे
१३७१ पृ० दृश्यम् ।

सुखरात्रिका स्त्री सुखा रात्रियस्याः ५ ब० कप् । दीपान्विता-

मास्यायां पूज्यायां लक्ष्म्याम दोपान्वितामुपक्रम्य “पूज-
नीया तदा लक्ष्मीर्विज्ञेया सुखरात्रिका” ज्योतिर्वचनम् ।
कष्ठभाये सुखरात्रिरप्यत्र “आख्याता भूतले देवि!
सुखरात्रि! नमोऽस्तुते” इति दीपान्वितामावस्यायां
लक्ष्मीपूजनमन्त्रः ।

सुखवर्चक पु० सुखं वर्चयति उद्दीपयति वर्च--णिच्--ण्वुल् ।

सार्जकाक्षारे (साजिमाटी) अमरः ।

सुखवर्चस् पु० सुखं सुखकरं वर्चो यस्य । सर्जिकाक्षारे

(साजिमाटि) राजनि० ।

सुखवास पु० सुखः सुखकरो वासो गन्धो यस्य । (तरसुज) फुलप्रधानवृक्षे रत्नमा० ।

सुखवासन पु० सुखं सुखकरं वासनं गन्धो यस्य ।

सुखवासनगन्धद्रव्ये शब्दर० ।

सुखाधार पु० सुखानामाधारः । स्वर्गे शब्दर० । कर्म० । सुखकरावांसे ।

सुखायतं पु० सुखेनायम्यते आ + यम--क्त । विनीताश्वे शब्दमा०

सुखायन पु० सुखेनायतेऽनेन अय--ल्युट् । सुविनीताश्वे शब्दमा०

पृष्ठ ५३१०

सुखावह त्रि० सुखमावहति जनधति आ + वह--अच् ।

सुखजनके ।

सुखाश पु० सुखा सुखकरी आशा यस्य । १ वरुणे सुखेना-

श्यते अश--घञ् । २ राजतिनिशे वृक्षे ३ सुणभोज्ये त्रि०
मेदि० भावे घञ् । सुखभोजने खार्थे क । सुणाशने,
(शशा) राजतिनिशवृक्षे च पु० ।

सुखाशन पु० सुखेनाश्यते अश--कर्मणि ल्युट् । (शशा) फलप्रधाने वृक्षे शब्दच०

सुखोत्सव पु० सुखस्तत्कर उत्सवे यस्मात् ५ व० । १ पत्यौ त्रिका०

कर्म० । २ आनन्दकारके उत्सवे पु० ।

सुखोदक न० कर्म० । सुखकरे उष्णोदके रत्रामा० ।

सुखोर्जिक पु० सुखस्य ऊर्जः वृद्धिरस्त्यस्य ठन् । सर्जिका-

क्षारे (साजिमाटि) राजनि० ।

सुग न० सुष्ठु च्छति निर्याति गम--ड । १ विष्ठायाम् शब्दच० २ सुगमे त्रि०

सुगत पु० सुष्ठु गच्छति जानाति गम--कर्त्तरि--क्त । १ बुद्धे

अमरः । २ सुगतियुते त्रि० ।

सुगन्ध पु० सुष्ठु गन्धोऽस्य न इत् । १ गन्धतृणे २ क्षुद्रजीरके

रत्नमा० ३ नीसोत्पले ४ चन्दमे राजनि० भावप्र० ।
५ ग्रन्धिपर्णे ६ रक्तशिग्रौ ७ गन्घके ८ चणके ९ भूतृणे च पु०
राजनि० । १० सद्गन्धद्रव्ययुक्ते आपणादौ त्रि० । “गन्ध-
स्येत्त्वं तदेवान्तग्रहणात्” उक्तेःसमवायेनैव गन्धवत्त्वे इत्
आपणस्य च गन्धयुक्तद्रव्याधारत्वात् तत्र न इत्” सि० कौ० ।

सुगन्धक न० सुष्ठु गन्धोऽस्य कप् । १ रक्तुलस्यां २ गन्घके

रत्नमा० ३ नागरङ्गे त्रिका० ४ कर्कट्याञ्च राजनि० ।

सुगन्धपत्रा स्त्री सुगन्धं पत्त्रमस्याः । रुद्रजटायाम् राजनि०

सुगन्धभूतृण न० कर्म० । गन्धतृणे राजनि० ।

सुगन्धमूला स्त्री सुगन्धं मूलं यस्माः । १ स्थलपद्मिन्याम्

२ रास्नायाञ्च राजनि० ।

सुगन्ध स्त्री सुष्ठु गन्धोऽस्त्यस्याः अच् । १ रास्नायां अमरः

२ शठ्यां शब्दर० ३ बन्ध्याकर्कोट्याम् ४ रुद्रजटायां ५
नाकुल्यां ६ शतपुष्पायां ७ नवमालिकायां ८ स्वर्णयूथिकायां
९ पृक्कायां १० सल्लक्यां गन्धपत्त्र्याम् १२ माधव्यां राजनि०
१३ अनन्तायां १४ तुलस्यां १५ मातुलङ्गके च रत्नमा० ।

सुगन्धामलक न० सुगन्धैः सर्वौषधिगणैर्युक्तमामलकम् ।

“सर्वौषधिसमायुक्ताः शुष्कास्त्वामलकत्वचः । यदा
नदायं योगः स्यात् सुगन्धामलकाभिधः” राजनि० उक्ते
सर्वौषधियुक्ते शुष्के आमलकवलकले ।

सुगन्धि पु० सुष्ठु गन्धः अस्य वा इत्समा० । इष्टगन्धे सुरभौ

अमरः । २ सुगन्धयुक्ते अमरः ३ एकवालुके ४ सुस्तायां
५ कशेरौ ६ गन्धतृणे ७ धान्यके ८ पिप्पलीमूले च राजनि० ।
स्वार्थे क । कह्लारे शब्दर० गौरस्वर्णे पुष्करमूले
सुरपर्ण उशीरे राजनि० । महाशालौ हेमच० । गन्धके
तुरस्के च पु० राजनि० ।

सुगन्धिकुसुम पु० मुगन्धि कुमुमं यस्य । १ पीतकरवीरे

राजनि० २ सद्गन्धयुक्तपुष्पयुत त्रि० ३ पृक्कायां स्त्री जटा०
कर्म० । ४ सुगन्धिनि पुष्पे न० ।

सुगन्धित्रिफला स्त्री त्र्यवयवं त्रिसिराकं वा फलं त्रिफलं

सुगान्ध त्रिफलमस्त्यस्याः सादृश्येन अच् । जातीफले
२ पूगफले ३ लवङ्गकलिकाफले च राजनि० ।

सुगन्धिमूल न० सुगन्धि मूलमस्य । उशीरे (वेना) राजनि०

सुगन्धिमूषिका स्त्री सुगन्धिः विराधिसक्षणया दुर्गन्धिः

मूषिका । छुछुन्दर्य्या (छुछ) राजनि० ।

सुगहन त्रि० पा० स० । १ अतिनिविडे कुम्बायां स्त्री रमानाथः ।

सुगहनावृति स्त्री कर्म० । यज्ञस्थाने श्वादिदर्शमवारणाय

निविड़े वेष्टने कुम्बायाम् अमरः ।

सुगृह पुंस्त्री सुष्ठु गृह यस्य । १ चञ्चुसूचिकखगे (वावुइ)

हेमच० स्त्री ङीष् कर्म० । २ सुन्दरे गृहे न० ।

सुगृहीतनामन् पु० सुगृहीतं प्रातःकाले स्मरणीयं नाम

यस्य । प्रातःस्मरणीयनामके पुण्यकीर्त्तौ जने त्रिका० ।

सुग्रन्थि पु० सुष्ठु ग्रन्थिर्यस्य । १ चोरकवृक्षे राजनि० २

सुन्दरग्रन्थियुते त्रि० ।

सुग्रीव पु० सुष्ठु ग्रीवाऽस्य । १ श्रीकृष्णस्याश्वे २ सूर्य्यपुत्रे

वानरेश्वरे च मेदि० । ३ सुन्दरग्रीवायुते त्रि० स्त्रियां
ङीष् २ कश्यपस्य पत्नीभेदे गरुडपु० ।

सुग्रीवेश पु० ६ त० । श्रीरामचन्द्रे शब्दरत्ना० ।

सुचक्षुस् पु० सुष्ठु चक्षुरिव फलमस्य । १ उडुम्बरे जटा०

२ शोभनलोचनयुक्ते त्रि० प्रा० स० । ३ शोभने नेत्रे न० ।

सुचञ्चुका स्त्री सुष्ठु चञ्चुरिव शिखा यस्याः कप ।

नहाचञ्चुशाके राजनि० ।

सुचरित्रा स्त्री सुष्ठु चरित्रं यस्याः । पतिव्रतायां स्त्रियाम्

अमरः २ मच्चरित्रयुते त्रि० प्रा० स० । ३ सच्चरित्रे न० ।

सुचर्म्मन् पु० सुष्ठु चर्मेव वलकलमस्य । १ भूजवृक्षे राजनि०

२ सुन्दरचर्मयुते त्रि० । प्रा० स० । ३ सुन्दरे चर्मणि न० ।

सुचित्रक पुंस्त्री सुचित्रेण कायति कै--क । सुष्ठुचित्रवर्णो यस्य

कप् वा । १ मत्स्यरङ्गखगे २ चित्रसर्पे च शब्दर० स्त्रियां
ङीष् । ३ सुचित्रवर्णयुते त्रि० स्त्रियां टाप् ।

सुचित्रवीजा स्त्री सुचित्रं विचित्रं वीजं यस्याः । विड़ङ्गायां राजनि० ।