सामग्री पर जाएँ

वाचस्पत्यम्/वेदाङ्ग

विकिस्रोतः तः
पृष्ठ ४९६७

वेदाङ्ग न० वेदस्याङ्गमिव । “शिक्षा कल्पो व्याकरणं

निरुक्तं छन्दसां चयः । ज्योतिषामयनञ्चैव वेदाङ्गानि
षड़ेव तु” इत्युक्तेषु शिक्षादिषु षट्सु शास्त्रेषु । तेषाम-
ङ्गविशेषरूपत्वं शिक्षायामुक्तं यथा
“छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्यो-
तिषामयमं चक्षुर्निरुक्तं श्रोत्रमुच्यते । शिक्षा घ्राणं तु
वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात् साङ्गमधीत्यैव
ब्रह्मलोके महीयते” ।

वेदादि पु० वेदस्यादिरिव तत्पाठे प्रथमोचार्य्यमारत्वात् । प्रणवे

वेदाधिप पु० ६ त० । “ऋग्वेदाधिपतिर्जीवो यजुर्वेदाधिपो

भृगुः । सामवेदाधिपो भौमः शशिजोऽथर्ववेदपः”
इत्युक्तेषु जीवादिषु २ विष्णौ च विष्णुस० ।

वेदान्त पु० ६ त० । वेदशिरोभागे ब्रह्मप्रतिपादके उपनिष-

द्रूपे १ ग्रन्थभेदे तदुपकारके २ शारीरकसूत्रभाष्यादौ च
उत्तरामीमांसाशब्दे १०९७ पृ० दृश्यम् । शारीरकसूत्रञ्च
बहुभिसाचार्य्यैः स्वस्वमतानुसारेण व्याख्यातं तत्र
रामानुजपूर्णंप्रज्ञशब्दयोस्तत्तन्मतं प्रदर्शितं शाङ्करमतानुसारि
मतस्य सिद्धान्तविन्दुप्रदर्शितस्य सङ्क्षेपोऽत्र प्रदर्श्यते
“वेदान्तिमते सामान्यतः द्विवध एव पदार्थः दृग्दृश्यश्च
तत्रैव सर्वपदार्थान्तर्भावात् । तत्र दृक्पदार्थ आत्मा ।
स च सर्वदैकरूपोऽप्यौपाधिकभेदात् त्रिविधः ईश्वरः
जीवः साक्षी चेति । तत्र कारणीभूताज्ञानो पाधि-
रीश्वरः । अन्तःकरणतत्संस्कारावच्छिन्नाज्ञानोपहितो
जावः । जीवेश्वरानुगतसर्वानुसंधातृ चैतन्यं साक्षी ।
तत्रेश्वरोऽपि त्रिविधः स्वोपाधिभूताविद्यावृत्तिसत्त्वादि-
गुणत्रयभेदेन विष्णुब्रह्मरुद्रभेदात् । तत्र कारणीभूत-
सत्त्वगुणावच्छिन्नो विष्णुः पालयिता । तथा रज
उपहितो ब्रह्मा स्रष्टा । हिरण्यगर्भस्तु महाभूतकारण-
त्वाभावान्न ब्रह्मा । तथापि स्थूलभूतस्रष्टृत्वेन क्वचिद्
ब्रह्मेत्युपचर्य्यते । तथा तम उपहितो रुद्रः संहर्त्ता ।
एवञ्चैकस्यैव तस्य चतुर्भुजचतुर्मुखाद्याः पुमाकाराः श्री-
भारतीभवान्याद्याश्च स्त्र्याकारा मत्स्यकूर्मादयोऽप्यवतारा
लीलयैवाविर्भवन्ति । तथा जीवोऽपि त्रिविधः स्वोपाधि-
जाग्रदाद्यवस्थात्रयभेदेन विश्वतैजसप्राज्ञभेदात् । तत्रा-
विद्यान्तःकरणस्थूलशरीरावच्छिन्नो जाग्रदभिमानी विश्वः ।
स एव स्थूलशरीराभिमानरहित उपाधिद्वयोपहितः
स्वप्नावस्थाभिमानी तैजसः । अयमेव शरीरद्वयान्तःकरणो,
षाधिरहितोऽन्तःकरणसंस्कारावच्छिन्नोऽविढ्यामात्रोपहितः
सुषुप्त्यवस्थाभिमानी प्राज्ञः । साक्षी तु सर्वानुसन्धाता
सर्वानुगतस्तुरीयाख्य एकविध एव ।
अविद्यातत्कर्मात्मकप्रपञ्चो दृश्यपदार्थः तस्यापारमार्थि-
कत्वेऽपि व्यवहारिकत्वाभ्युपगमान्न स्वप्नादिवदतात्त्विक-
त्वम् । दृश्योऽपि त्रिविधः अव्याकृतमूर्त्तामूर्त्तभेदात् ।
तत्र चिदाभाससहिताऽविद्या मूर्त्तामूर्त्तप्रपञ्चस्थूलवीज-
शक्तिरनादिरव्याकृतमित्युच्यते । इयञ्चाव्याकृताख्याऽवि-
द्येश्वरोपाधिः । सा च स्वयं जड़ाप्यजड़ेन चिदाभासे-
नोज्वलिता पूर्वपूर्वसंस्कारजीवकर्मभ्यां प्रयुक्ता सती शब्द-
स्पर्शरूपरसगन्धाश्रयाण्याकाशवायुतेजोजलपृथिव्यात्म-
कानि पञ्च सृक्ष्ममहाभूतानि जनयति । तत्र पूर्वपूर्व-
भूतभावापन्नाया एवाविद्याया उत्तरोत्तरभूतं प्रति-
कारणत्वात् पूर्वपूर्वभूतगुणानामुत्तरोत्तरभूतेष्वनुप्रवेशा-
द्भूतानामेकैकवृद्धीभूतगुणशालित्वं तथा चाकाशस्य शब्दो
गुणः, वायोः शब्दस्पर्शौ, तेजसः शब्दस्पर्शरूपाणि, जल
तानि रसश्च, पृथिव्यास्तानि गन्धश्चेति । आकाशस्यैव
दिग्व्यवहारजनकत्वेन दिशो न पृथक् पदार्थता । कामस्य
चिज्जडसम्बन्धरूपतया तदाधाराविद्यात्मकतया च म
पार्थक्यम् । तानि च सूक्ष्माणि पञ्च भूतानि अमूर्त्ताख्यानि
कारणाभेदाच्च सत्त्वरजस्तमोगुणात्मकानि सत्त्वरजोऽं-
शप्राधान्येन ज्ञानक्रियाशक्त्यात्मकमेकं स्वच्छद्रव्यं
चित्ररूपमिव मिलित्वा जनयन्ति । तच्च समस्तं द्रव्यं ज्ञान-
शक्तिप्राधान्येऽन्तःकरणं तदपि द्विविधं मगोबुद्धिभेदात्’
चतुर्विधं मनोबुद्ध्यहङ्कारचित्तभेदादित्यन्ये । तदेव क्रि-
याशक्तिप्राधान्ये प्राणः । स च पञ्चधा प्राणादिभेदात् ।
एवमेकैकभूतेभ्योज्ञानक्रियाशक्तिमेदात् प्रत्येकं ज्ञानकर्मे-
न्द्रियद्वयं जायते । यथाकाशात् श्रोत्रवाचौ, वायोण्वक्
पाणी, तेजसश्चक्षुःपादौ, अद्भ्यो रसनापायू, पृथिव्या
ध्राणोपस्थौ चोत्पद्येते । तत्र शब्दस्पर्शरूपरसगन्धग्राह-
काणि श्रोत्रत्वक्चक्षुःरसनाघ्राणाख्यागि पञ्च ज्ञानेन्द्रि-
याणि वचनादानगतिविसर्गानन्दजनकानि वाक्पाणिपाद-
पायूपस्थाख्यानि पञ्च कमेन्द्रियाणि! एतच्च सर्वं
मिसित्वा सप्तदशकं लिङ्गशरीरम् । तच्च ज्ञानशक्तिप्राधान्येन
समष्टौ हिरण्यगर्भ इति क्रियाशक्तिप्राधान्येन समष्टौ
सूत्रमिति चोच्यते । अयं भूर्त्तपदार्थः कार्य्यत्वात् ।
मुमष्टिव्यष्टिजीवोपाधिसूक्ष्मभूतानि तु भोगायतनं
शरीरं भोग्यविषयञ्चान्तरेण भोगं जनयितुमसमर्थानीति
जीवकर्मप्रयक्तानि तानि स्थौल्यार्थं पञ्चोकृतानि म०
पृष्ठ ४९६८
वन्ति । तथा हि सर्वाणि भूतानि स्वस्वार्द्धांशे स्वेतरभू-
तानां चतुर्णामष्टमांशैश्चतुर्भिर्थोजनात् सर्वाण्येव पञ्चात्म-
कानि । स्वस्वांशाधिक्याच्चाकाशादिव्यवहारः । तानि च
पञ्चीकृतानि महाभूतानि मूर्त्ताख्यानि मिलित्वैकं कार्य्य-
मिन्द्रियाणामधिष्ठानं जनयन्ति । तदेव स्थूलशरीर
मित्युच्यते । तत्र सत्त्वप्रधानं दैवं शरीरं रजःप्रधानं
मानवं तमःप्रधानं तिर्य्यगादिस्थावरान्तानाम् । सर्वेषां
देहानां पाञ्चभौतिकत्वेऽपि चित्रे रूपाणामिव भूतानां
क्वचिन्न्यूनातिरेको न विरुद्ध्यते । विषया अपिं
चतुर्दशभुवनाख्या षटादयश्च सत्त्वरजस्तमोऽंशतारतम्येन
तेभ्य एव भूतेभ्यो जायन्ते । एतच्च सर्वं ब्रह्माण्डं विरा-
डिति चोच्यते । सर्वं च सृष्टिप्रलयादिकं स्वप्नसृष्टि
प्रलयवदवास्तवमपि अनादिवासनादार्ढ्यात् व्यवहारक्ष-
ममिति मायिकत्वेऽपि न तुच्छत्वप्रसङ्गः” । अन्यदाकरे
दृश्यम् ।

वेदान्तिन् त्रि० वेदान्तो ज्ञेयत्वेनास्त्यस्य इनि । वेदान्तशास्त्रज्ञे जटा० ।

वेदाभ्यास पु० ६ त० । “वेदस्वीकरणं पूर्बं विचारोऽभ्यसनं

जपः । तद्दानञ्चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा”
इत्युक्तेषु वेदपाठविचारानुशीलनतन्मन्त्रजपपाठनेषु ।

वेदि न० विद + इन् । १ अम्बष्ठायाम् (आकनादि) २ परिष्कृतायां

मूमौ स्त्री अमरः वा ङीप् । “मध्येन सा वेदिविल-
ग्नमध्या” कुमारः । ३ पण्डिते पु० ४ अङ्गुलिमुद्रायां स्त्री
मेदि० । ५ गृहस्थितपिण्डाकारमृत्तिकास्तूपे च “प्राग्-
द्वारवेदिविनिवेशितपूर्णकुम्भः” रघुः । ६ भूमिस्थे देशभेदे
यथा अन्तर्वेदि उत्तरवेदिः दक्षिणवेदिरित्यादि ।
वेदिश्च डमरुकाकारपिण्डिकावती पशुवन्धनार्थं होमी-
यद्रव्यासादानार्थं वा कृतसंस्कारा परिष्कृता चतुरस्रा-
दिरूपा भूमिः । तुलादानाद्यङ्गमण्डपस्थवेदिलक्षणं
हेमा० दा० उक्तं यथा “मध्यगोत्तमयोर्वेदी मण्डपस्य
त्रिभागतः । चतुर्थांशोच्छ्रितिस्तस्यास्त्रिसप्तपञ्चतोऽपि वा ।
नवैकादशहारा वा इष्टकाभिः प्रकल्पयेत्” । वैदिककर्मा-
ङ्गवेदिलक्षणादिकं कात्या० श्रौ० २ । ६ । १ सूत्रादौ उक्तं यथा
“अपरेणाहवनीयं वेदिं खनति” कात्या० श्रौ० “त्र्य-
ङ्गुलखाताम्” सू० “त्र्यङ्गलं ख्यातमस्याः” कर्क० । “व्याम-
मात्रां पश्चात्” सू० “अपरस्यां दिशि तिर्य्यक्प्रमाणेन
चतुररत्रिमात्रां कर्कः । “त्र्यरत्निं प्राचीम्” सू० “त्र्यरत्निं
प्राचीम् पूर्वापरायतां दीर्घाम् । पुरस्तात् (पूर्वपार्श्वे)
तिर्य्यक्प्रमाणं यद्यपि नोक्तम् । तथाप्यरत्नि यात्मक-
मेव दर्शनात् कर्कः । “अपरिमितां वा” सू० “अस्मिन् सूत्र
ग्रन्थे द्वावेवापरिमितशब्दौ श्रुतिवाक्यानुसरणादपरि-
माणवाचिनौ अपरिमिता वा अपरिमितेष्टका वेति च ।
अन्थे तु अपरिमितं प्रमाणाद्भूय इत्युक्तत्वात् पूर्व्वोक्त
परिमाणादतिशयेनाधिकपरिमाणवाचकः” कर्क० “प्राक्
प्रवणामुदग्वा” सू० “प्रवन्तेऽस्मिनापोऽनेन वेति प्रबणं
नीचम् प्रवर्त्तते वा वनमुदकमस्मिन्निति तदेव निम्नम्”
कर्क० । “मध्यसंगृहीताम्” सू० “तत्साधनप्रकारश्च परिशिष्टे
उक्तः “आनीय रज्जुं पूर्वार्द्धात् पश्चार्द्धं यावदेव तु ।
द्विगुणीकृत्य तां रज्जुमत्वे तस्यास्तु शङ्गुकौ । भ्रामयत्तेन
मानेन तया रज्ज्वाष्टभागया । वा पृथुत्वतुरीयेण भागेना-
लिख्यसंग्रहाविति” क्वचित् “वेदिश्रोण्यंसयोर्मध्ये तया
रज्ज्वाष्टभागयेति पाठ” कर्क० “अग्निमभितोऽंसौ” सू०
“अंसौ आग्नेयैशानकाणा आहवनीयमुभयतो भवतः
अंसयोर्मध्ये आहबनीयो भवतीत्यर्थः अतोऽंसावपि वेदे
रेवावयवौ श्रोणिवत् खननस्तरणादयश्च वेदिसम्बद्धाः
संस्कारास्तयोरपि प्रवर्त्तत्वे । षड़रत्निं रज्जुं मित्वा
द्वितीयारत्न्यन्ते लक्षणं श्रोणदकुतार्थम् ततोऽरत्नेश्चतुर्थे
भागे लक्षणमाकर्षणार्थम तृतीथारत्न्यन्ते प्राच्यन्ताङ्कना-
र्थम् ततश्चतुर्थभागोने(ऽरत्नौ) असाङ्कनार्थम् ततः सार्द्धे-
ऽरत्नौ पाश इति अयं च पाशोऽविपर्य्यामेन साधनोपायः
विपर्यासपक्षे तु षड़रत्निं रज्जुमभयतः पाशौ कृत्वा
प्रथमं सार्द्धारत्न्यन्ते असाङ्कनार्थम् ततोऽर्धारत्नौ श्रौण्य-
ङ्कनार्थम् ततोऽरत्नेश्चतुर्थे भागे आकर्षणाथम् अरत्नित्रये
च प्राच्यान्ताङ्कनार्थमिति । अपरिमितपक्षाश्रयणे च
प्राचीप्रमाणं पुरस्तात्तिर्य्यक्प्रमाणं च तुल्यम् पश्चात्ति-
र्य्यकप्रमाणं प्राचीप्रमाणं तृतीयभागेनाधिकमिति
युक्त्या कल्पनीयम् । तत्र च प्राचीप्रमाणां रज्जुंद्विगुणां
कृत्वा रज्जोर्मूलात् पुरस्तात्तिर्य्यक्प्रमाणा सर्द्धे मूलरज्जो-
श्चान्तिमचतु भागस्यादौ आकर्षणार्थं लक्षणमिति” ।
अथ खननप्रमाणे पक्षान्तरमाह “आमूलच्छेदनादोषधी-
माम्” सू० “प्राक् प्रवणामुदग्व त्यणात् । सूत्रान्म-
ण्डूकप्लुतिन्यायेन वाशब्दोऽत्रानुवर्त्तते अध्याह्रियते वा ।
अस्मिन् पञ्च एव विशेषमाह” कर्क० “ओषधीतां मूला-
न्युच्छेत्तवै ब्रूयात्” सू० “इमं प्रैषमध्वर्य्युरग्नीधं प्रति
व्रयात् । मूलानि च भूमिमध्ये दूरमपि यावत् प्रस-
रन्ति तावत्पर्य्यन्तम्” कर्क० । “आहार्य्यपुरीष राका-
मस्य” सू० “प्रागनुमार्जनाद्वेदेः सकाशाद्वेदि । पुरीषमप-
पृष्ठ ४९६९
श्चार्य्यान्यत् पुरीषमानीय वेदिमध्ये प्रक्षेपणीयम् एतच्च
पुरुषार्थम् प्रणयने कांस्यादिवत् अतश्च विकृतौ न भवति ।
निष्कामेणापि वेदिः पुरीषवत्येव कार्य्या वेदिपुरीषं
तत्रेव तिष्ठति न ततो निष्काश्यते वचनाभावात् ।
खाता वेदिः नाद्भिः श्लक्ष्णोकरणाया किन्तु पांशुलैव
कार्य्या” कर्कः । “वेदिं परिसमुह्य वितृतीयेऽग्नीदुत्तरत
उत्करं करोति” सू० “अन्वाहार्य्याधिश्रयणानन्तरं प्रथमं
वेदिमानमध्वंर्युः करोति यथोक्तम् “ततोऽग्नीद्दर्भैर्वेदि
मध्यपतितं तृणपुरीषादिकमपसार्य्य वेदेरुत्तरतः परिसमूह
नापसारितस्य तृणपुरीषादुत्करं राशिं करोति उत्की-
र्य्यत इत्युत्करः । वितृतीयं च वेदेः प्रकृतत्वात्तदीयमेव
गार्हपत्याहवनीयान्तरालं वितृतीयं च शुल्वकृतोक्तम्
गार्हपत्याहवनीययोरन्तरं षोढा सप्तधा वागन्तुसमं त्रेधा
विभज्यापरवितृतीयलक्षणेन दक्षिणायम्य तस्मिन्नग्निं
विपर्य्यस्योत्तरत उत्कर इत्येकः प्रकारः । अपि वान्तर
त्रिभागोनया रज्ज्वा पूर्वार्द्धे समचतुरस्रं कृत्वा श्रो-
ण्यामग्निविपर्य्यसोत्तरांस उत्कर इति विपर्य्यासश्चैवम्
पूर्वतृतीयलक्षणेनोत्तरत आयम्येति प्रथमे प्रकारे गार्हप-
त्याहवनीययोरन्तरत्रिभागोनया रज्ज्वापरार्द्धे समचतु-
रस्रं कृत्वा तस्य चतुरस्रस्योत्तरांसे उत्कर इति द्वितीय
प्रकारः । चात्वालोत्कराबन्तरेण सञ्चरः सन्निहितो हि
चात्वालोत्करः पूर्ववितृतीये भवतीति” कर्क० । तत्करण
प्रकारस्तत्रत्यपद्धतौ दृश्यः ।

वेदिका स्त्री वेदिरिव इवार्थे कन् । मङ्गलकर्मार्थं

गृहद्वारादौ चतुरम्लादिमृत्तिकास्तूपाकारेण निर्मिते भूखण्डे
वितर्द्दौ अमरः ।

वेदिजा स्त्री वेद्या होमवेदितो जायते जन--ड । द्रौपद्याम् हेमच० ।

वेदितृ त्रि० विद--तृच् इट् च । ज्ञातरि हेमच० ।

वेदिन् पु० विद--णिनि । १ पण्डिते शब्दर० । २ हिरण्यगर्भे

च । ३ ज्ञातरि त्रि० स्त्रियां ङीप् ।

वेध पु० विध--घञ् । (वेँदा) १ वेधने २ उन्माने (चाड़ा)

“परिधिनवमभागः शृकधान्येषु वेधः” इति लीला० ।
विवाहादौ वर्ज्ये नक्षत्रविशेषस्थितहभेदकृतसंसर्गे च
उपयमशब्दे ज्यो० त० च दृश्यम् “वेधं सर्वत्र वर्जयेत्” ।

वेधक पु० विध--ण्वुल् । १ कर्चूरे त्रिका० । २ अम्लवेतसे

३ धन्याके न० राजनि० ४ वेधकर्त्तरि त्रि० ।

वेधनी स्त्री विध्यतेऽनया विध--ल्युट् ङीप् । (भोमरी)

१ मणिरत्नादिवेधकारणे अस्त्रभेदे । स्वार्थे क । तत्रार्थे
२ मेथिकायां ३ हस्तिकर्णबेधनास्त्रे त्रिकाण्डशेषः ।

वेधमुख्य पु० ७ त० । १ कर्चूरे राजनि० । संज्ञायां क ।

२ ह। रद्रावृक्षे अमरः ।

वेधस् पु० वि + धा--असुन् गुणः । १ हिरण्यगर्भे जगत्स्रष्टरि

२ विष्णौ अमरः । ३ सूर्य्ये ४ श्वेतार्कवृक्षे शब्दच० ।
५ पण्डिते विश्वः ६ सूर्य्यवश्ये नृपभेदे वह्निपु० ।

वेधित त्रि० वेधो जातोऽस्य तार० इतच् । १ विद्धे २ छिद्रिते

अमरा ।

वेधिनी स्त्री विध--णिनि । १ जलौकायाम् (जोंक) शब्दर० । २ मेथिकायां राजनि० ।

वेन्ना स्त्री वन--न उपधाया इच्च । नदीभेदे “विनदीं पिञ्जलां

वेन्नां(णाम्)तुङ्गवेन्नां(णां) महानदीम्” भा० भी० ९ अ० ।

वेप कम्पने भ्वा० आत्म० सक० सेट् । वेषते अवेपिष्ट । ऋदित्

चङि न ह्रस्वः । ष्ट्वित् । वेपथुः ।

वेपथु पु० वेप--अथुच् । कम्पे अमरः ।

वेपन पु० वेप--ल्युट् । कम्पने शब्दच० ।

वेपस् ब० वेप--असुन् । अनवद्ये उणादिकोषः ।

वेम पु० वे--मन् न आत्वम् । वापदण्डे शब्दच० । मनिन् न

आत् । वेमन् अत्रैवार्थे पु० न० अमरः ।

वेर न० अज--रन् बीभावः । १ देहे २ वार्त्ताकौ ३ कुङ्कुमे च

अमरः । संज्ञायां कन् । ४ कर्चूरे हारा० ।

वेल चालने भ्वा० पर० सक० सेट् । वेलति अवेलीत् । ऋदित्

चङि न ह्रस्वः ।

वेल कालोपदेशे अ० चु० उ० अक० सेट् । वेलयति ते अविवेसत् त ।

वेल न० वेल--अच् । १ उपवने हेमच० । २ काले समये ३ मर्य्या-

दायां ४ समुद्रकूले च स्त्री “वेलामूले विभावरी
परिहीणा” भट्टिः । ५ होरात्मके कालभेदे “चतुर्विंशति
वेलाभिरहोरात्रं प्रचक्षते” अग्निपु० । ६ समुद्रजलवि
कारे ७ अक्लिष्टमरणे ८ खगे ९ ईश्वरभोजने च मेदि०
अस्योष्ट्यादित्वमित्यन्ये अत्रार्थे ।

वेलाकूल न० तामलिप्तदेशे त्रिका० ।

वेल्ल चालने भ्वा० पर० सक० सेट् ऋदित् अङि न ह्रस्वः । वेल्लति अवेल्लीत् ।

वेल्ल पु० न० वेल्ल--अच् । १ विड़ङ्गे अमरः । घञ् । २ चलने पु०

वेल्लज पु० वेल्ल--अच्--तथाभूतः सन् जायते जन--ड ।

मरिचे अमरः ।

वेल्लन न० वेल्ल--ल्युट् । १ अश्वादेर्भूमौ लुण्ठने २ काष्ठनिर्भिते

पदार्थे (वेलुत) भावप्र० ३ मालादूर्वायां स्त्री राजनि० ।
पृष्ठ ४९७०

वेल्लन्तर पु० वेल्लं तरति तॄ--अच् । वीरतरो “वेल्लन्तरोज

तति वीरतरुः प्रसिद्धः श्वेतासितारुणविलोहितनील-
पुष्पः । स्याज्जातितुल्यकुसुमः शमिसूक्ष्मपत्रः स्यात्क-
ण्ठकी च जलदेशज एष वृक्षः । वेल्लन्तरो रसे पाके
तिक्तस्तृष्णाकफापहः । मूत्राघाताश्मजित् ग्राही योनि
मूत्रानिलार्त्तिहृत्” भावप्र० ।

वेल्लहल पु० वेल्लं ह्वलयति ह्वल--अच्--पृषो० । केलिनागरे जटा० ।

वेल्लि स्त्री वेल्ल--इन् । लतायां शब्दर० ।

वेल्लित न० वेल्ल--भावे क्त । १ गमने मेदि० । कर्त्तरि क्त ।

२ कम्पिते ३ कुटिले च त्रि० अमरः ।

वेल्लि(ल्ली) स्त्री वेल्ल--इन् वा ङीप् । लतायाम् शब्दच० ।

संज्ञायां कन् वेल्लका । (वेलसुठ) वृक्षे शब्दच० ।

वेवी कान्तौ गतौ व्याप्तौ क्षेपे भोजने च सक० प्रजनने अक०

अदा० आत्म० सेट् जक्षादि० वैदिक एवायम् । वेवीते
अवेविष्ट । अस्य क्वचिदपि गुणवृद्धी न स्तः ।

वेश पु० विश--घञ् । अलङ्कारादिना कृतरूपान्तरे १ नेपथ्ये च

कर्मणि अमरः । २ वेश्यागृहे ३ गृहमात्रे मेदि० ४ प्रवेशे

वेशधारिन् पु० वेशं धारयति धृ--णिनि । छलेन रूपान्त-

रधारिणि १ छद्मतपस्विप्रभृतौ शब्दच० । २ वेशकारके
नटादौ च ।

वेशन्त पु० विश--झच् । १ क्षुद्रसरोवरे अमरः । २ अग्नौ उणादि० ।

वेशर पु० वेशं राति रा--क । अश्वतरे त्रिका० ।

वेश्मन् न० विश--मनिन् । गृहे अमरः ।

वेश्मभू स्त्री ६ त० । गृहकरणयोग्ये स्थाने अमरः ।

वेश्य न० विश--ण्यत् वेशाय हितं वा यत् । १ वेश्यालये मेदि०

२ पाठायाम् (आकनादि) ३ वारयोषिति च स्त्री अमरः ।
“पतिव्रता चैकपत्नी द्वितीये कुलटा स्मृता । तृतीये
वृषली ज्ञेया चतुर्थे पुंश्चली स्मृता । वेश्या च पञ्चमे
षष्ठे जुङ्गी च सप्तमेऽष्टमे । तत ऊर्द्ध्वं महावेश्या
साऽस्पृश्या सर्वजातिषु । यो द्विजः कुलटां गच्छे वृषलीं
पुंश्चलीमपि । जुङ्गीं वेश्यां महावेश्यामवटोदं
प्रयाति सः । शताव्दं कुलटागामी धृष्टागामी चतुर्यु
षम् । षड्गुणं पुश्चलीगामी वेश्यागामी गुणाष्टकम् ।
जुङ्गीगामो दशगुणं बसेत्तत्र न संशयः । महावेश्या
गामुकश्च ततः शतगुणं वसेत् । तदेव सर्वगामो चेत्येव-
माह पितामहः । तत्रैव यातनां भुङ्क्ते यमदूतेन
ताड़िः त तित्तिरिः कुलटागामी धृष्टागामी च वायसः ।
काकिलः पुं श्चसीगामो वेश्यानामी वृकस्तथा । जुङ्गी
गाना शूकरश्च सप्तजन्मस भारते । महावेश्यामामु-
कश्च जायते शाल्मलिस्त्ररुः” ब्रह्मवै० प्र० ख० २८ अ

वेष पु० विष--अच् घञ् वा । भूषणादिना १ रूपान्तरकरणे

२ वेश्याजनालये च भरतः ।

वेषण पु० विष--करणे ल्युट् । १ कासमर्दे (कालकासुन्दे)

हारा० । २ धन्याकवृक्षे स्त्री रत्नमा० ।

वेष्ट वेष्टने भ्वा० आत्म० स क० सेट् । वेष्टते अवेष्टिष्ट । चङि तु अवि(व)वेष्टत् त ।

वेष्ट पु० वेष्ट--घञ् अच् वा । १ वेष्टने २ श्रीयेष्टे राजनि०

३ वृक्षनिर्यासे च (आटा) वैद्यकम् ।

वेष्टक न० वेष्ट--ण्वुल् । (पागड़ी) १ उष्णीषे शब्दर० । २ कुष्माण्डे

राजनि० । ३ प्राचीरे पु० हेमच० । ४ वेष्टनकारके त्रि० ।

वेष्टन न० वेष्ट--करणे ल्युट् । १ कर्णशष्कुल्याम् २ उष्णीषे

२ मुकुटे च ४ गुग्गुलौ शब्दच० । भावे ल्युट् । ५ वृतौ
मेदि० ।

वेष्टवंश पु० वेष्ट--अच् कर्म० । (वेड़वाँश) वंशभेदे शब्दच० ।

वेष्टसार पु० वेष्टस्य सारः । श्रीवेष्टे राजनि० ।

वेष्टित त्रि० वेष्ट--क्त । प्राचोरादिना १ आवृते अमरः । २ रुद्धे

४ लासके ५ करणान्तरे न० मेदि० ।

वेस गतौ भ्वा० पर० सक० सेट् ऋदित् चङि न ह्रस्वः । वेसति अवेसीत् ।

वेसन न० वेस--ल्युट् । “दालयश्चणकानान्तु निस्तुषा यन्त्र-

पेषिताः । तच्चूर्णं वेसनं प्रोक्तम्” इत्युक्ते १
चणकादिद्विदलचूर्णे २ गमने च ।

वेसर पु० वेस--अरन् । अश्वतरे हेमच० ।

वेसवार पु० वेसं वारयति वृ--अच् । (वाटना) पिष्टधन्या-

कसर्षपादौ अमरः । “निरस्थि पिशितं पिष्टं सिद्धं
गुडघृतान्वितम् । कृष्णमरिचसंयुक्तं वेसवार इति स्मृतम्”
इत्युक्ते २ भक्ष्यभेदे अस्य गुणाः “वेसवारो गुरुः स्निग्धो
बलोपचयवर्द्धनंः” राजवल्लभः । अस्य शमध्यत्वं षमध्यत्वं
वा रायमुकुट आह ।

वेह यत्ने भ्वा० आत्म० अक० सेट् चङि न ह्रस्वः । वेहते अवेहिष्ट ।

वेहत् स्त्री वि + हन अति नलापः । गर्भोपघातिन्यां स्त्रि-

याम् अमरः । जात्मा समासे परनि० । गोवेहत् सि० कौ०

वेहार पु० वि + हृ--घञ् पृषो० । स्वनामख्याते देशभेदे

वेह्ल गतौ भ्वा० पर० सक० सेट् । वेह्लति अवेह्लीत् चङि न ह्रस्वः

वै शोषे भ्वा० पर० सक० सेट् अनिट् । वायति अवासीत् ।

ओदित् निष्ठातस्य नः । वानः निर्वाणः ।

वै अव्य० वा--डै । १ पादपूरणे २ अनुनये ३ सम्बोधने अमरः ।

वैकक्ष न० विशेषेण कक्षति व्याप्नोति अण् । तिर्य्यक्कक्षाव-

लम्बिनि हारभेदे हेमच० । वुन् । वैकक्षक उरसि
अपवीताकारेण धृते माल्यभेदे अमरः ।
पृष्ठ ४९७१

वैकङ्कत पु० विकङ्कत + स्वार्थेऽण् । (वैँचि) १ वृक्षभेदे । तस्ये-

दमण् । २ विकङ्कतसम्बन्धिनि त्रि० ।

वैकल्पिक त्रि० विकल्पेन प्राप्तः तत्र भवो वाठक् । १ पक्षप्राप्ते २ पक्षभवे च ।

वैकल्य न० विकलस्य भावः ष्यञ् । विकलत्वे ।

वैकुण्ठ पु० विकुण्ठायां भवः अण् विविधा कुण्ठा माया यस्य

स्वार्थेऽण्वा । १ विष्णौ २ इन्द्रे मेदि० । ३ सितार्जके राजनि०
“चाक्षुषस्यान्तरे देवो वैकुण्ठः पुरुषोत्तमः । विकुण्टाया-
मसौ जज्ञे दैवतैः सह” विष्णुपु० “विविधा कुण्ठा गतेः
प्रतिहतिस्तस्याः कर्त्ता इति वैकुण्ठः । जगदारम्भे
विशिष्टानि भूतानि परस्परं संश्लेषयन् तेषां गतिं प्रत्य-
बघ्नादिति वा वैकुण्ठः । “माया संश्लेषिताभूमिरद्भि-
र्व्योम्ना च वायुना । वायुश्च तेजसा सार्द्धं बैकुण्ठत्वं
ततो मम” भा० शान्तिप० । विष्णुस० भा० । “कुण्ठं जड़ञ्च
विश्वौघं विशिष्टञ्च करोति या । विकुण्ठां प्रकृतिं
वेदाश्चत्वारश्च वदन्ति ताम् । गुणाश्रयेन भगवान् तस्यां
जातः स्वसृष्टये । परिपूर्णतमं तेन वैकण्ठञ्च विदु-
र्बुधाः” । ४ विष्णुधामभेदे “उपरिष्टात् क्षितेरष्टौ
कोठयः सत्यमीरितम् । सत्यादुपरि वैकुण्ठो योजनानां
प्रमाणतः । भूर्लोकात् परिसंख्यातः कोटिरष्टादश
प्रभो! । यत्रास्ते श्रीपतिः साक्षात् सर्वेषामभयप्रदः”
पद्मपु० स्व० ६ अ० ।

वैकृत न० विकृतस्य भावः अण् । १ विकारे २ वीभत्सरसे तदा

लम्बनमांसशोणितादौ विकृतित आगतः अण् । ३
विकृतितो जाते त्रि० “वैकृतास्तु तथा देवाः” ।

वैक्रान्त न० स्वार्थे अण् । मणिभेदे विक्रान्तशब्दे दृश्यम् ।

वैखरी स्त्री विशेषेण खं राति रा--क स्वार्थे अण् । अर्थ-

बोधके कण्ठादिषूच्चार्य्यमाणे वर्णात्मके शब्दविशेषे । वर्ण-
शब्दे ४८५० पृ० दृश्यम् ।

वैखानस पु० वि + खन--ड अन--असुन् कर्म० स्वार्थे अण् ।

वानप्रस्थे तापसभेदे “वैखानसेभ्यः श्रुतरामवार्त्ताः” भट्टिः

वैगुण्य न० विगतो विरुद्धो वा गुणोऽस्य तस्य भावः ष्यञ् ।

यत्र यदुचितं तस्य १ रूपान्तरतापादने २ अन्यायत्वे
३ असम्पन्नत्वे च ।

वैचित्र्य न० विचित्रस्य भावः ष्यञ् । १ नानारूपत्वे २ विलक्षणत्वे च ।

वैजयन्त पु० विजयते वि + जि--झ स्वार्थे अण् । १ इन्द्रप्रा-

सादे अमरः । २ इन्द्रे मेदि० । ३ गृहे शब्दच० । ४ इन्द्र-
ध्वजे मेदि० । ५ अग्निमन्थवृक्षे राजनि० ६ पताकायाम्
स्त्री अमरः । ७ वैजन्तीवृक्षे च स्त्री मेदि० ।

वैजिक न० वीजेन निर्वृत्तं ठक् । १ शिग्रुतैले मेदि० ।

वीजाय हितम् स्वार्थे ठक् वा । २ कारणे । ३ आत्मनि
शब्दमा० तस्येदं वीजादागतं वा ठञ् । ४ सद्योजाता-
ङ्कुरे मेदि० ५ वीजसम्बन्धिनि त्रि० ।

वैज्ञानिक पु० विज्ञानाय साधु ठक् । १ निपुणे अमरः । वि

ज्ञानमधिकृत्य कृतो ग्रन्थः ठक् । २ बौद्धागमे ३ तदध्ये-
तरि ४ तत्सम्बन्धिनि च त्रि० ।

वैडालव्रत न० विड़ालस्येदम् अण् तदिव व्रतम् “यस्य धर्म्म-

ध्वजो नित्यं शक्रध्वज इवोच्छ्रितः । प्रच्छन्नानि च
पापानि वैडालं नाम तद्व्रतम्” इत्युक्ते प्रकाशेन धर्म्मा-
चरणेन गुप्तपापाचारे ।

वैडालव्रतिक पु० वैडालव्रतमस्त्यस्य ठन् । छलेन धर्मचा-

रिणि छद्मतापसे त्रिका० । इनि । वैड़ालव्रतिन् तत्रार्थे
“छद्मना चरितं तच्च व्रतं रक्षसि गच्छति । अलिङ्गी
लिङ्गवेशेन यो लिङ्गमुपजीवति । स लिङ्गिनां हरेत् पापं
तिर्य्यग्योनौ च जायते” । वैड़ालव्रतिनः पापाः सर्वध-
र्मविनाशकाः । सद्यः पतन्ति पापेषु कर्मणस्तस्य तत्
फलम्” कूर्मपु० ५ अ० ।

वैणव न० वेणूनां फलम् अण्, तस्य न लुप् तस्येदं वा अण् । १ वेणु-

फले वेणुयवे अमरः । २ वेणुसम्बन्धिनि त्रि० स्त्रियां ङीप् ।

वैणविक त्रि० वेणोर्विकारः अण् वैणवं वेणुवाद्यं शिल्प-

मस्य ठक् । वंशीवादके अमरः ।

वैणिक त्रि० वीणा तद्वादनं शिल्पमस्य ठक् । वीणावादके अमरः ।

वैणुक न० वेणोर्विकारः ठक् । १ गजचालनार्थे लौहमुखे

वंशदण्डे अमरः । वेणुस्तद्वादनं शिल्यमस्य ठक् । २ वेणु-
वादके त्रि० शब्दच० ।

वैण्य(न्य) पु० वेण(न)स्यापत्यम् यञ् । १ वेणसुते पृथुनामवे नृपभेदे जटा० ।

वैतंसिक त्रि० वितंसेन मृगंपक्ष्यादिबन्धनोपायेन चरति ठक्

मांसविक्रयोपजीवके व्याधे अमरः ।

वैतनिक त्रि० वेतनेन जीवति ठक् । वेतनोपजीवके कर्मकरे भृत्यादो अमरः ।

वैतरणि(णी) स्त्री वितरणेन दानेन लङ्घ्यते अण् ङीप्

वा पृषो० ह्रस्वः । यमद्वारस्थे नदीभेदे “नदी वैतरणी
नाम दुर्गन्धा रुधिरावहा । उष्णतोया महावेगा
अस्थिकेशतरङ्गिणी” प्रा० वि० जमदग्निः । तस्या
उतपत्त्यादि कालिकापु० १८ अ० उक्तं यथा
“शनैश्चरोऽपि भूतेशमासाद्यान्तर्हितस्तदा । वाष्पवृष्टिं
दुराधर्षामवजग्राह मायया । यदा स नाशकत् वाष्पान्
सन्धारयितुमर्कजः । तदा महागिरौ क्षिप्ता वाष्पास्ते
पृष्ठ ४९७२
जलधारके । लोकालोकस्य निकटेजलधाराह्वयो गिरिः ।
पुष्करद्वोपपृष्ठस्थस्तोयसागरपश्चिमे । स तु सर्वप्रमाणेन
मेरुपर्वतसन्निभः । तस्मिन् विन्यस्तवान् वाष्पान् न धर्त्तुं
क्षम ईशितुः । विदीर्णस्तैस्तु वाष्पोघैर्मग्नमध्योऽभवद्-
दुतम् । ते वाष्पाः पर्वतं भित्त्वा विविशुस्तोयसागरम् ।
सागरोऽपि ग्रहीतुं तान्न शशाक खरानति । ततस्तु
सागरं मध्ये भित्त्वा वाष्पाः समागताः । तोयधेः प्राग्-
भवां वेलां स्पर्शमात्राद्बिभेद ताम् । विभिद्यं वेलां ते
वाष्पाः पुस्करद्वीपमध्यगाः । नदी वैतरणी भूत्वा पूर्व-
सागरगाऽभवत् । जलधारस्य वेगेन संसर्गात् सागरस्य
च । अवाप्य सौम्यतां किञ्चिद् वाष्पास्ते नाभिदन् क्षि-
तिम् । तद्वाष्पव्याकुला पृथ्वी विदीर्णा स्यान्न चेच्छनिः ।
अवजग्राह तान् वाष्पान् सोऽपि कृष्णोऽभवद्धठात् ।
शनैश्चरेण तं वोढुमसमर्थेन लोतकैः । क्षिप्तैर्विदारितः
सोऽसौ जलधारो महागिरिः । विभिद्य पर्वतं शम्भोर्वा-
ष्पास्ते सागरं ययुः । वैवस्वतपुरद्वारे योजनद्वयविस्तृता ।
अद्यापि तिष्ठत्यापगा हरलोतकसम्भवा । भित्त्वा वेलां
ततः पृथ्वीं विभिद्याशु तरङ्गिणीम् । चक्रुर्वैतरणीं नाम्न
पूर्वसागरगामिनीम् । नानायानविमानेन न द्रौण्या
स्यन्दनेन च । तर्त्तुंशक्या सा तु नदी तप्ततोया विभी-
षणा । दुःखेन तां तु पृथिवी बिभर्त्ति महताधुना । सदा
चोर्द्ध्वगतैर्वाष्पैर्विक्षिपन्ति नभश्चरान् । तस्या उपरि नो
यान्ति देवा अपि भयाद्धरात् । यमद्वारं समावृत्य योजन
द्वयविस्तृता । निम्नं वहति संपूर्णा भीषयन्ती जगत्त्रयम्”
२ पितृकन्याभेदे “अयज्वानश्च यज्वानः पितरो ब्रह्मणः
स्मृताः । अग्निष्वात्ता बर्हिषदो द्विधा तेर्षा व्यवस्थितिः ।
तेभ्यः स्वधा, स्वधा जज्ञे मेनां वैतरणीं तथा” कूर्म्मपु०
१२ अ० । वितरत्यनया तॄ--करणे ल्युट् ङीप् । आसन्न
मृत्युकाले दातव्यायां ३ गवि च “आसन्नमृत्युना देया गौः
सवत्सा च पूर्ववत् । तदभावे च गौरेका नरकोद्धारणाय
वे । तदा यदि न शक्नोति दातुं वैतरणीञ्च गाम् ।
शक्तोऽन्योऽरुक् तदा दत्त्वा श्रेयो दद्यान्मृतस्य च” ।
पूर्ववत् हेमशृङ्गादिना अत्र मृतस्य सेति चकारश्रवणात्
एकादशाहेऽपि वैतरणीदानाचारः” शु० त० रघु० ।
“यमद्वारे महाघोरे तप्ता वैतरणी नदी । ताञ्च तर्त्तुं
ददाम्येनां कृष्णां वैतरणीञ्च गाम्” शु० त० ।

वैतस पु० वेतस एव स्वार्थे अण् । अम्लवेतसे जटा० ।

वैतानिक पु० वितानस्यायम् ठक् । १ श्रौतविधिनाऽग्निस्था-

पने २ वितानसम्बन्धिनि च “दाहादूर्द्ध्वमशौचं स्यात् यस्य
वैतानिको विधिः” स्मृतिः । वितानशब्दे ४८९९ दृश्यम् ।

वैतालिक त्रि० विविधस्तालः मङ्गलगीतादिशब्दस्तेन व्यव

हरति ठक् । मङ्गलस्तुत्यादिभिः राज्ञां प्रवोधकारके
मागधादौ अमरः ।

वैतालीय पु० मात्रावृत्तभेदे । “षड्विषमेऽष्टौ समे

कलास्ताश्च समे स्युर्नो निरन्तराः । न समाऽत्र पराश्रिता
कला वैतालीयेऽन्ते रलौ गुरुः” वृ० र० ।

वैदग्ध न० स्त्री विदग्धस्य चतुरस्य भावः अण् वा स्त्रोत्वं पक्षे

ङीप् । १ चातुर्य्ये २ भङ्गो च । ष्यञ् । वैदग्ध्यमप्यत्र न०

वैदर्भ पु० विदर्भाणां जनपदानां राजा अण् । १ विदर्भदेशा-

धिपे २ वाक्यस्य कौटिल्ये न० “माधुर्य्यव्यञ्जकैर्वर्णै रचना
ललितात्मिका । अवृत्तिरल्पवृत्तिर्वा वैदर्मी रीतिरुच्यते”
इत्युक्ते ३ काव्यचरनाभेदे स्त्री सा० द० ङीप् । विदर्भे
भवा अण् । ४ नलराजपत्न्यां दमयन्त्याम् स्त्री ङीप् ।
५ अगस्त्यपत्न्यां ६ श्रीकृष्णमहिषीभेदे च स्त्री हरिव० ।

वैदल न० विदलस्य विकारः अण् । १ भिक्षुकस्य भिक्षापात्र

भेदे अमरः । २ पिष्टकभेदे पु० शब्दच० ।

वैदिक पु० वेदं वेत्त्यधीते वा ठञ् । १ वेदज्ञे ब्राह्मणे वेदेषु

विहितः ठक् । २ वेदोक्ते कर्मणि त्रि० । स्त्रियां ङीप्
“वेदिकी तान्त्रिकी सन्ध्या यथानुक्रमयोगतः” तन्त्रम् ।

वैदुष्य न० विदुषो भावः विद्वस + ष्यञ् सम्प्र० । पाण्डित्ये ।

वैदूर्य्य न० विदूरे गिरौ भवः ष्यञ् । कृष्णपीतवर्णे विड़ाल-

नेत्रतुल्य वर्णे मणिभेदे केतुरत्ने (लसुनिया) राजनि० ।
“मुक्ताविद्रुमवज्रेन्द्रवैदूर्य्यस्फटिकादिकम् । मणिरत्नं
सरं शीतं कषायं स्वादु लेखनम् । चाक्षुष्यं धारणा-
त्तच्च पापालक्ष्मीविनाशनम्” राजवल्लभः । तच्छाया-
लक्षणं यथा “एकं वेणुपलाशकोमलरुचा मायूरकण्ठ-
त्विषा मार्जारेक्षणपिङ्गलच्छविजुषा ज्ञेयं त्रिधा च्छायया ।
यद्गात्रं गुरुतां दधाति नितरां स्निग्धन्तु दोषोज्वितं
वैदुर्य्यं विशदं वदन्ति सुधियः स्वच्छञ्च तच्छोभनम् ।
तस्य कुलक्षणं यथा “विच्छायं मृच्छिलागर्भं लघु रूक्षञ्च
सक्षतम् । सत्रासं परुषं कृष्णं वैदूर्य्यं दूरतो नयेत्” ।
तत्परीक्षा यथा । “घृष्टं यदात्मना स्वच्छं स्वच्छायां
निकषाश्मनि । स्फुटं प्रदर्शयेदेतद्विअदूर्य्यं जात्यमुच्यते” ।
राजनि० “वैदूर्य्यपुष्परागाणां कर्केतभीष्मके वदे ।
परीक्षां ब्रह्मणा प्रोक्तां व्यासेन कथितां द्विज! । कल्पा-
न्तकालक्षुभिताम्बुराशिनिर्ह्रादकल्पाद्दितिक्षस्य नादात् ।
पृष्ठ ४९७३
वैदूर्य्यमुत्पन्नमनेकवर्णं शोभाभिरामं द्यूतिवर्णवीजम् ।
अविदूरे विदूरस्य गिरेरुत्तङ्गरोधसः । कामभूतिकसीमान-
मनु तस्याकरोऽभवत् । तस्य नादसमुत्थत्वादाकरः
सुमहागुणः । अभूदुत्तरितो लोके लोकत्रयविभूषणः ।
तस्यैव दानवपतेर्निनदानुरूपप्रावृट्पयोदरवदर्शितचारु-
रूपाः । वैदूर्य्यरत्नमणयो विविधावभासास्तस्मात् स्फुलि-
ङ्गनिवहा इव संबभूवुः । पद्मरागमुपादाय मणिवर्णा
हि ये क्षितौ । सर्वांस्तान् वर्णः शोभाभिर्वैदूर्यमनुगच्छति ।
तेषां प्रधानं शिखिकण्ठनीलं यद्वा भवेद्वेणुदलप्र-
काशम् । चाषाग्रपक्षप्रतिमश्रियो ये न ते प्रशस्ता
मणिशास्त्रविद्भिः । गुणवान् वैदूर्य्यमणिर्योजयति स्वा-
मिनं वरभाग्यै । दोषैर्युक्तोदोषैस्तस्माद् यत्नात्परी-
क्षेत । गिरिकाचशिशुपालौ काचस्फटिकाश्च भूमि-
निर्भिन्नाः । वैदूर्य्यमणेरेते विजातयः सन्निभाः सन्ति ।
लिक्षाभावात् काचं लघुभावाच्छैशुपालकं विद्यात् ।
गिरिकाचमदीप्तित्वात् स्फटिकं वर्णोज्ज्वलत्वेन ।
यदिन्द्रनीलस्य महागुणस्य सुवर्णसंख्याकलितस्य मूल्यम् ।
तदेव वैदूर्य्यमणेः प्रदिष्टं पलद्वयोन्मापितं गौरवस्य ।
जात्यस्य सर्वेऽपि मणेस्तु यादृक् विजातयः सन्ति समान-
वर्णाः । तथापि नानाकरणानुमेयभेदप्रकारः परमः
प्रदिष्टः । सुखोपलक्ष्यश्च सदा विचार्य्यो ह्ययं प्रभेदो विदुषा
नवेन । स्नेहप्रभेदो लघुता मृदुत्वं विजातिलिङ्गं खलु
सार्वजन्यम् । कुशलाकुशलैः प्रयुज्यमानाः प्रतिवद्धाः प्रति-
सत्क्रिया प्रयोगैः । गुणदोषसमुद्भवं लभन्ते मणयोऽर्था-
न्तरमूल्यमेव मिन्नाः । क्रमशः समतीतवर्त्तमानाः प्रतिवद्धा
मणिबन्धकेन यस्मात् । यदि नाम भवन्ति दाषहीना
मणयः षड्गुणमाप्नुवन्ति मूल्यम् । आकरान् समती-
तानामुदधेस्तीरसन्निधौ । मूल्यमेतत् खनीनान्तु न सर्वत्र
महीतले । सुवर्णो मनुना यस्तु प्रोक्तः षोड़शमाषकः ।
तस्य सप्ततिमोभागः संज्ञारूपं करिष्यति । शाणश्चतु-
मांषमानो माषकः पञ्चकृष्णलः । पलस्य दशमोभागो
धरणः परिकीर्त्तितः । इति मानविधिः प्रोक्तो
रत्नानां मूल्यनिश्चये” । गारुड़े ७३ अ० । “सितञ्च
धूम्रसङ्काशमीषत्कृष्णसितं भवेत् । वैदूर्व्यनाम तद्रत्नं
रत्नविद्भिरुदाहृतम् । ब्रह्मक्षत्रियविट्शूद्रजातिभेदा-
श्चतुर्विधाः । सितनीलो भवेद्विपः सितरक्तस्तु
वाहुजः । पीतनीलस्तु वैश्यः स्यात् नील एव हि
शूदूकः” । अथ गुणाः “मार्ज्जारनयनप्रख्यं रसोनप्र-
तिमं हि वा । कलिलं निर्मलं व्यङ्गं वैदूर्य्यं देवभूष-
णम् । सुतारं घनमत्यच्छं कलिलं व्यङ्गमेव च ।
वैदूर्य्याणां समाख्याता एते पञ्च महागुणाः” ।
“उद्गिरन्निव दीप्तिं योऽसौ सुतार इतीर्य्यते ।
प्रमाणतोऽल्पं गुरु यद् घनमित्यभिधीयते । कलङ्कादि-
विहीनं तदत्यच्छमिति कीर्त्तितम् । ब्रह्मशस्त्रकलाकार-
श्चञ्चलो यत्र दृश्यते । कलिलं नाम तद्राज्ञः सर्वसम्पत्ति-
कारकम् । विश्लिष्टाङ्गन्तु वैदूर्य्यं व्यङ्गमित्यभिधीयते ।
कर्करं कर्कशं त्रासः कलङ्का देह इत्यपि । एते पञ्च
महादोषा वैदूर्य्याणामुदीरिताः । शर्करायुक्तमिव यत्
प्रतिभाति च कर्करम् । स्पर्शेऽपि यत्तज्ज्ञेय च कर्कशं
बन्धुनाशनम् । भिन्नभ्रान्तिकरस्त्रासः स कुर्य्यात् कुलसं-
क्षयम् । बिरुद्धवर्णो यस्याङ्के कलङ्कः क्षयकारकः ।
मलदिग्ध इवाभाति देहो देहविनाशनः । जयति यदि
सुवर्णत्यागहीनो यदा वा बहुविधमणिहारी भूपति
र्वा यति र्वा । दधदपि धृतदोषं जातु वैदूर्य्यरत्नं प्रतिह-
तफलरूपः पातमेष्यत्यवश्यम्” । युक्तिकल्पतरुः ।

वैदेह पु० विशेषेण देह उपचयो यस्य स्वार्थे प्रज्ञाद्यण

विदेहे भवः अण् वा । १ वणिग्जने मरतः । शूद्रात्
वैश्यजाते २ जातिभेदे पुंस्त्री० मेदि० स्त्रियां ङीष् । ठक् ।
वैदेहिकोऽपि वणिजि । विदेहानां राजा अण् ।
३ विदेहराजे जनके नृपे ।

वैदेही स्त्री विदेहेषु मिथिलादेशेषु भवा अण् । १ सीतायाम्

जनकात्मजायाम् २ हरिद्रायाम् ३पिप्पल्यां ४ वणिक्
स्त्रियाञ्च मेदि० ।

वैद्य पु० विद्याऽस्त्यस्य अण् । १ पण्डिते “नाविद्यानान्तु वैद्येन

देयं विद्याधनात् क्वचित्” दायभा० । २ भिषजि अमरः ।
तदुपकारके ३ वासकवृक्षे च शब्दच० । वैद्योत्पत्तिश्च
“वैद्योऽश्विनीकुमारेण जातश्च विप्रयोषिति । वैद्यवी-
र्य्येण शूद्रायां बभूवुर्बहवो जनाः । ते च ग्रामगुण-
ज्ञाश्च मन्त्रोषधिपरायणाः । तेभ्यश्च जाताः शूद्रायां
ते व्यालग्राहिणो भुवि” । शौनक उवाच “कथं ब्रा-
ह्मणपत्न्यान्तु सूर्य्यपुत्रोऽश्विनीसुतः । अहो केन विपा-
केन वीर्य्याधानं चकार सः” । सौतिरुवाच “गच्छन्तीं
तीर्थयात्रायां ब्राह्मणीं रविनन्दनः । ददर्श कामुकीं
कान्तः पुष्पोद्याने मनोहरे । तया निवारितो यत्नात्
बलेन बलवान् सुरः । अतीव सुन्दरीं दृष्ट्वा वीर्य्यातानं
चकार सः । द्रुतं तत्याज गर्भं सा पुष्पाद्याने ममोरमे
पृष्ठ ४९७४
सद्यो बभूव पुत्रश्च तप्तकाञ्चनसन्निमः । सपुत्रा स्वा-
मिनो गेहं जगाम व्रीड़िता तदा । स्वामिनं कथया-
मास यस्माद्दैवादिसङ्कटम् । विप्रोरोषेण तत्याज तञ्च
पुत्रं स्वकामिनीम् । सरिद् बभूव योगेन सा च गोदा-
वरी स्मृता । पुत्रं चिकित्साशास्त्रञ्च पाठयामास
यत्नतः । नानाशिल्पञ्च शस्त्रञ्च स्वयं स रविनन्दनः ।
विप्रश्च ज्योतिर्गणनात् वेदनाच्च निरन्तरम् । वेदधर्मप-
रित्यक्तो बभूव गणको भुवि” । ब्रह्मवै० पु० १० अ० ।
नरकभोगान्ते वैद्यजन्म यथा “यः करोत्यपहारञ्च देव
ब्राह्मणयोर्धनम् । पातयित्वा स्वपुरुषान् दश पूर्वान् दशा
परान् । स्वयं याति च धूमान्धं धूमध्वान्तसम-
न्वितम् । धूमक्लिष्टो धूमभोगी वसेत्तत्र चतुर्युगम् ।
ततो मूषिकजातिश्च शतजन्मानि भारते । ततो नाना-
विधाः पक्षिजातयः कृमिजातयः । ततो नानाविधाः
वृक्षजातयश्च ततो नरः । भार्य्याहीनो वंशहीनः शवरो
व्याधिसंयुतः । ततो भवेत् स्वर्णकारः स सुवर्णवणिक्
ततः । ततो जवनसेवी च ब्राह्मणो गणकस्ततः ।
विप्रो दैवज्ञोपजीवी वैद्यजीवी चिकित्सकः” ।
“लाक्षालोहादिव्यापारी रसादिविक्रयी च यः ।
सयाति नागवेष्टञ्च सर्पैर्वेष्टित एव च । वसेत् सलोममा-
नाव्द तत्रैव नागदंशितः । ततो भवेत् स गणकी वैद्यश्च
सप्तजन्मसु । गोपश्च कर्मकारश्च रङ्गकारस्ततः शुचिः” ।
ब्रह्मवै० पु० २८ अ० । राजवैद्यस्य लक्षणं यथा “परं
पारङ्गतो यः स्यादष्टाङ्गे तु चिकित्सिते । अनाहार्य्यः स
वैद्यः स्याद्धर्मात्मा च कुलोद्गतः । प्राणावार्य्यः स
विज्ञेयो वचनं तस्य भूभुजः । राजन्! राज्ञा सदा कार्य्यं
यथाकार्य्यं पृथग्जनैः” । मात्स्ये १८९ अ० ।
“चिकित्सां कुरुते यस्तु स चिकित्सक उच्यते । स च
यादृक् समीचीनस्तादृशोऽपि निगद्यते । तत्त्वा-
धिगतशास्त्रार्थो दृष्टकर्मा स्वयं कृती । लघुहस्तः शुचिः
शूरः स्वच्छोपस्करभेषजः । प्रत्युत्पन्नमतिर्धीमान् व्यव-
सायी प्रियंवदः । सत्यधर्मपरोयश्च वैद्य ईदृक् प्रशस्यते” ।
दृष्टकर्मा दृष्टा परेण कृता चिकित्सा येन सः । स्वयं
कृती स्वयं चिकित्साकुशलः । लघुहस्तः सिद्धिमद्धस्तः ।
निषिद्धवैद्यो यथा “कुचेलः कर्कशः स्तब्धः ग्रामीणः
स्वयमागतः । पञ्च वैद्या न पूज्यन्ते धन्वन्तरिसमा अपि” ।
वर्कशः अपियवादी । स्तब्धः साभिमानः । ग्रामीणः
व्यवहाराचतुरः । अथ वैद्यस्य कर्म आह “व्याधेस्तत्त्व-
परिज्ञानं वेदनायाश्च निग्रहः । एतद्वैद्यस्य वैद्यत्वं न
वैद्यः प्रभुरायुषः” भावप्र० “सत्यत्रेताद्वापरेषु युगेषु ब्रा-
ह्मणाः किल । ब्रह्मक्षत्रियविट्शूद्रकन्यका उपयेमिरे ।
तत्र वैश्यसुतायां ये जज्ञिरे तनया अमी । सर्वे ते मुनयः
ख्याता वेदवेदाङ्गपारगाः । तेषां मुख्योऽमृताचार्य्य-
स्तस्थावम्बाकुले हि यत् । अम्बष्ठ इत्यसाव्क्तस्ततो जाति
प्रवर्त्तनाद् । परे सर्वेऽपि चाम्बष्ठा वैश्याब्राह्मणस-
म्भवाः । जननीतो जनुर्लब्धा यज्जाता वेदसंस्कृतैः ।
अम्बष्ठास्तेन ते सर्वे द्विजा वैद्याः प्रकीर्त्तिताः । अथ
रुक् प्रतिकारित्वाद्भिषजस्ते प्रकीर्त्तिताः । सत्ये वैद्याः
पितुस्तुल्यास्त्रेतायाञ्च तथा स्मृताः । द्वापरे क्षत्रवत्
प्रोक्ताः कलौ वैश्योपमाः स्मृताः” कुलच० । आयुर्वेद-
शब्दे दृश्यम् ।

वैद्यक न० वैद्यं चिकित्सकमधिकृत्य कृतो ग्रन्थः कन् । आयुर्वेदे

“ऋग्यजुःसामाथर्वाख्यान् दृष्ट्वा वेदान् प्रजापतिः ।
विचिन्त्य तेषामर्थञ्चैवायुर्वेदं चकार सः । कृत्वा तु
पञ्चमं वेदं भास्कराय ददौ विभुः । स्वतन्त्रां संहितां
तस्माद् भास्करश्च चकार सः । भास्करश्च स्वशिष्येभ्य
आयुर्वेदं स्वसंहिताम् । प्रददौ पाठयामास ते चक्रुः
संहितास्ततः । तेषां नामानि विदुषां तन्त्राणि तत्कृ-
तानि च । व्याधिप्रणाशवीजानि साध्वि! मत्तो निशा-
मय । धनन्तरिर्दिवोदासः काशीराजस्तथाश्विनौ ।
नकुलः सहदेवार्की च्यवो जनको बुधः । जाबालो
जाजलिः पैलः कवथोऽगस्त्य एव च एते वेदाङ्गवेदज्ञाः
षोड़श व्याधिनाशकाः । चिकित्सातत्त्वविज्ञानं नाम
तन्त्रं मनोरमम् । धन्वन्तरिश्च भववांश्चकार प्रथमे
सति! । चिकित्सादर्पणं नाम दिवोदासश्चकार सः ।
चिकित्साकौनुदीं दिव्यां काशीराजश्चकार सः ।
चिकित्सासारतन्त्रञ्च भ्रमघ्नं चाश्विनीसुतौ । तन्त्रं वैद्यक
सर्वस्वं नकुलश्च चकार सः । चकार सहदेवश्च व्याधि-
सिन्धुविमर्दनम् । ज्ञानार्णवं महातन्त्रं यमराजश्चकार
सः । च्यवनो जीवदानञ्च चकार भगवानृषिः ।
चकार जनको योगी वैद्यसन्देहमञ्जनम् । सर्वसारं
चन्द्रसुतो जावालस्तन्त्रसारकम् । वेदाङ्गसारं तन्त्रञ्च
चकार जाजलिर्मुनिः । पैलो निदानं कवथस्तन्त्रं
सर्वधरं परम् । द्वैधनिर्णयतन्त्रञ्च चकार कुम्भसम्भवः ।
चिकित्साशास्त्रवीजानि तन्त्राण्येतानि षोड़श । व्या-
धिप्रणाशवीजानि वलाधानकराणि च । मथित्वा
पृष्ठ ४९७५
ज्ञानमन्थानैरायुर्वेदपयोनिधिम् । ततस्तन्त्राण्युदहरन्
नवनीतानि कोविदाः । एतानि क्रमशो दृष्ट्वा दिव्यां
भास्करसंहिताम् । आयुर्वेदसर्ववीजं सर्वं जानामि
सुन्दरि!” ब्रह्मवै० पु० १६ अ० ।

वैद्यनाथ पु० देशविशेषे “करवीरे महालक्ष्मीरुमा देवी

विनायके । अरोगा वैद्यनाथे तु महाकाले महेश्वरो”
मात्स्ये । “वैद्यनाथं समारभ्य भुवनेशान्तगं शिवे! ।
तावदङ्गाभिधो देशो यात्रायां न हि दुष्यति” शक्ति-
सङ्गमतन्त्रे ७ प० । २ भैरवविशेषे “हार्दपीठं वैद्यनाथे
वैद्यनाथस्तु भैरवः । देवता जयदुर्गाख्या नेपाले जानुनी
मम” तन्त्रचूड़ा० । ३ शिवलिङ्गभेदे “हरिद्रानमरे यत्र
वैद्यनाथो महेश्वरः । तत्राक्षयो विल्ववृक्षः स्वर्णवृक्षः
उदाहृतः” वृहद्धर्मपु० ११ अ० । “झारखण्डे वैद्यनाथो
वक्रेश्वरस्तथैव च । वीरभूमौ सिद्धिनाथो राढ़े च
तारकेश्वरः” इति महालिङ्गेश्वरतन्त्रे ।

वैद्यबन्धु पु० ६ त० । आरग्बधवृक्षं शब्दर० ।

वैद्यमातृ स्त्री वैद्यस्य मातेव । १ वासके अमरः तस्य वैद्य-

जीविकाप्रयोजकरोगशान्तिकरत्वेन तत्पीषकत्वात् तन्मा-
तृतुल्यत्वम् ।

वैद्यसिंही स्त्री वैद्यस्य सिंहीव । वासकवृक्षे शब्द च० ।

वैद्या स्त्री वैद्यः पाल्यत्वेनास्त्यस्याः अच् । काकोल्याम्

शब्दच० ।

वैध त्रि० विधित आगतः अण् । विधिप्रतिपाद्ये ।

वैधहिंसा स्त्री कर्म० । वेदविहितहिंसायाम् “या वेदवि-

हिता हिंसा नियताऽस्मिंश्चराचरे । अहिंसामेव तां
विद्यात् वेदात् धर्मो हि निर्बभौ” मनुः । अत्र नियते-
त्युपादानात् नित्ये पश्विष्ट्यादौ हिंसाया अहिंसात्वं न
तु काम्येऽपीति सम्प्रदायविदः । पिष्टपशुमीमांसायाञ्च
तथैवोक्तं “कुर्य्यात् घृतपशुं सङ्गे कुर्य्यात् पिष्टपशुं तथा”
मनुना सङ्गे कामनायां पिष्टपशूनामेव विधानात् ।
विशेषतः कलौ “मांसदानं तथा श्राद्धे” “अश्वालम्भं
गवालम्भम्” इति च कलिवर्ज्येषूक्तेः काम्यबलिदानादि
निषेधः । हिसाया अनर्थसाधनत्वेऽपि वैधहिंसाया अर्थ-
साधनत्वम् वैद्यकोक्तसंस्कारभेदेन विषस्येवेति बोध्यम् ।
ति० त० मतभेदेन च वैधहिंसा उभयरूपत्वं निरूपितं यथा
“मा हिंस्यात् सर्वाभूतानि” इत्यत्र सर्वशब्दस्य व्याप-
कार्थपरतया एतद्विधिमनुलङ्घ्य “वायव्यं श्वेतमाल-
भेत्” इत्यादिविधेर्विषयाप्राप्तेरगत्या वैधातिरिक्त-
विषयत्वं सर्वा सर्वाणि छन्दसि वेत्यनेन तत्पद
सिद्धम् । यदपि नानादर्शनटीकाकृद्भिर्वाचस्पतिमिश्रैस्त-
त्त्वकौमुद्यामभिहितं “न च मा हिंस्यात् सर्वा
भूतानि” इति सामान्यशास्त्रं विशेषशास्त्रेण “अग्नीषो-
मीयं पशुमालभेत” इत्यनेन बाध्यते इति वाच्यं विरो-
धाभावात् विरोधे हि बलीयसा दुर्बलं बाध्यते । न
चास्ति विरोधः भिन्नविषयत्वात् । तथा हि मा
हिंस्यादिति निषेधेन हिंसाया अनर्थहेतुभावो ज्ञाप्यते
न पुनरक्रत्वर्थत्वमपि । अग्नीषोमीयं पशुमालभेतेत्यनेन तु
पशुहिंसायाः क्रत्वर्थत्वमुच्यते न त्वनर्थहेतुभावस्तथा सति
वाक्यभेदप्रसङ्गात् । न चानर्थहेतुत्वक्रतूपकारकत्वयोः
कश्चिदस्ति विरोधः । हिंसा हि पुरुषस्य दोषमावक्ष्यति
क्रतोश्चोपकरिष्यतीत्यन्तेन, तदपि सांख्यनये । मीमां-
सकमते तु विरोध एव तथा हि गुरुनये न खलु सर्व-
भूतहिंसाभावविषयकं कार्य्यम् इति निषेधविध्यर्थस्य बाधं
विना अग्नीषोमीयपश्वालम्मनविषयकं कार्य्यमिति
भावविध्यर्थ उपपद्यते । भट्टनये तु अङ्गे यथा तथास्तु ।
न च मुख्यपशुयागे पुरुषार्थपशुहिंसनस्यार्थसाधनत्व-
मनर्थसाधनत्वञ्चोपपद्यते विरोधात् । वस्तुतस्तु अङ्गेऽपि
विरोधोऽस्त्येव कुतो? विधेरेष स्वभावो यत् स्ववि-
षयस्य साक्षात् परम्परया वा पुरुषार्थसाधनत्वमवगम-
यति अन्यथाऽङ्गानां प्रधानोपकारकत्वमपि नाङ्गो-
क्रियेत । अर्थसाधनत्वं बलवदनिष्टामनूबन्धीष्टसाधनत्वम्
अनर्थसाधनत्वं बलवदनिष्टसाधनत्वं न चानयोरेकत्र
समावेश इति । अतएवोक्तं “तस्माद्यज्ञे बधोऽबधः”
इति । नन्वेवं “श्येनेनाभिचरन् यजेत” इत्यत्र श्ये-
नस्य शत्रुबधरूपेष्टसाध वमवगतम “अभिचारो
मूलकर्म च” इति मनूना उपपातकगणमध्य पाठादनिष्ट-
सावनत्वमवगतम् । तदेतत् कथमुपपद्यतामिति चेन्मैवं
“आततायिनमायान्तं हन्यादेवाविचारयन्” इत्येक०
वाक्यतया आततायिस्थले इष्टसाधनत्वम् अनाततायि-
स्थले तूपपातकत्वेन बलवदनिष्टसाधनत्वमित्यविरोध इति
गुरुचरणाः” ।

वैधात्र पु० विधातुरपत्यम् अण् । सनत्कुमारादौ १ मुनिभेदे

अमरः । २ व्राह्यां (वामनहाटि) स्त्री राजनि० ।

वैधृति पु० विगता धृतिर्यस्मात् पृषो० वृद्धिः । विष्कम्भादिषु

मध्ये १ अन्तिमे योगे । सूर्य्यचन्द्रयोः क्रान्तिसास्येना-
नीते अशुभसूचके २ वह्निभेदे तत्र वैधृतशब्दोऽपि यथोक्तं
पृष्ठ ४९७६
सू० सि० “एकायनगतौ स्यातां सूर्य्यावन्द्रमसौ यदा ।
तद्युते मण्डले क्रान्त्योस्तुल्यत्वे वैधृताभिधः” । पातशब्दे
४३८९ पृ० विस्तरा दृश्यः । उपयमशब्दे १२६५ पृ०
दृश्यम् ।

वैधेय त्रि० विधीयतेऽसौ वि + धा--यत् ततः स्वार्थे अण् । मूर्खे अमरः ।

वैधर्म्य न० विरुद्धो धर्मो यस्य तस्य भावः ष्यञ् । १ विरुद्धध ।

र्मत्वे २ अन्यलक्षणे च ।

वैधव्य न० विधवाया भावः ष्यञ् । पतिविरहे “नववैधव्यमसह्यवेदनम्” इति कुमारः ।

वैनतेय पु० विनतायाः अपत्यं ढक् । १ गरुड़े अमरः

२ अरुणे च मत्स्यपु० ।

वैनयिक त्रि० विनये रतः ठक् । शास्त्रज्ञानादिना विनयरते हेमच० ।

वैनायिक पु० विनायं खण्डनमधिकृत्य कृतो ग्रन्थः ठक् ।

१ वौद्धागमे त्रिका० उपचारात् २ तदभिज्ञे त्रि० ।

वैनाशिक पु० विनाशमधिकृत्य कृतो ग्रन्थः ठक् । सर्वेषां

क्षणभङ्गुरताप्रतिपादके १ बौद्धागमे २ तदभिज्ञे त्रि० ।
विनाशाय हितम् ठक् । ज्यातिषोक्ते षङ्गाड़ीचक्रस्थे
जन्मनक्षत्रावधित्रयोविंशे ३ नक्षत्रे ४ क्षणिके ५ परतन्त्रे
च त्रि० ६ उर्णनाभे पु० मेदि० ।

वैनीतक पु० न० । विशेषेण नीतं नयनं तेन कायति कै--क

स्वार्थ अण् । परम्परया वाहने शिविकादौ अमरः ।

वैपरीत्य न० विपरीतस्य भावः ष्यञ् । १ विपर्य्यये हेमच० ।

२ लज्जालौ लतायां स्त्री राजनि० ।

वैभव न० विभोर्भावः अण् । १ विभुत्वे २ विभूतौ ।

वैभ्राज न० विभ्राज इदम् अण् । देवोद्यानभेदे त्रिका० ।

तच्च मेरोः पश्चिमविष्कम्भविपुलपर्वतस्थं विपुलशब्दे
४९१२ पृ० दृश्यम् ।

वैमात्र पु० विमातुरपत्यम् अण् । १ सापत्ने भ्रातरि अमर २ तथाभूतभगिन्यां स्त्री ङीप् ।

वैमात्रेय पु० विमातुरपत्यं ढक् । १ सापत्ने भ्रातरि अमरः

२ तथामूतभगिन्यां स्त्री ङीप् ।

वैमुख्य न० विमुखस्य भावः ष्यञ् । विमुखत्वे ।

वैमेय पु० वि + मि--यत् स्वार्थे अण् । विनिमये हेमच० ।

वैयधिकरण्य न० व्यधिकरणस्य भावः ष्यञ् । असमाना-

धिकरणत्वे ।

वैयाकरण त्रि० व्याकरणं वेत्त्यधीते वा अण् । व्याकरणाभिज्ञे ।

वैयाघ्र पु० व्याघ्रचमणा फरिवृतो रथः अण् । व्याघ्रचर्म्म-

परिवृते रथे अमरः ।

वैयाघ्रपद्य पु० व्याघ्रपदस्यापत्यं यञ । गोत्रकारके मुनि-

भेद “वैयात्रपद्यगात्रायेति” भीष्मतपेणमन्त्रः ।

वैयात्य न० वियातस्य भावः ष्यञ् । निर्लज्जत्वे “वैयात्यं

सुरतेष्वपि” माघः ।

वैयासकि पु० व्यासस्यापत्यम् इञ् कुक्च । व्यासस्यापत्ये शुक्रदेवे ।

वैयासिकी स्त्री व्यासेन प्राक्ता ठञ् ङीप् । व्यासप्रणी-

तायां संहितायाम् ।

वैर न० वीरस्य भावः अण् । विरोधे विद्वेषे अमरः ।

“वैरं पञ्चसमुत्थानं मुनिभिः परिकीर्त्तितम् । स्त्रोकृतं
वास्तुजं वाग्ज ससापत्नापराधजम्” । तत्र स्त्रोकृत
कृष्णचेदिपयोः । वास्तुजं कुरुपाण्डवयोः । वाग्जं
द्रोणद्रुपदयोः । सापत्नं नैसगिकमहिनकुलयोः ।
अपराधजं पूजनीब्रह्मदत्तयोः ।

वैरकर त्रि० वैरं करोति कृ--ट । विरोघकारके ।

वैरक्त्य न० विरक्तस्य भावः ष्यञ् । विरागे ।

वैरङ्गिक त्रि० विरङ्गं विरागं नित्यमर्हति ठञ् । विरा-

गार्हे हेमच० । वैरागिक तत्रार्थे सि० कौ० ।

वैरनिर्यातन न० वैरस्य वैरकृतापकारस्य निर्यातनम् निर +

यत--णिच् ल्युट् । वैरकृतापकारप्रतीकारे अमरः ।

वैरप्रतीकार पु० ६ त० । वैरकृतापकारस्य तुल्यरूपापकार-

करणेन तस्य शोधने वैरप्रतिक्रियाप्यत्र स्त्री ।

वैरशुद्धि स्त्री ६ त० । वैरप्रतीकारे अमरः ।

वैराग्य न० विरागस्य भावः ष्यञ । विषयवासनाराहित्ये

ऐहिकामुष्मिकविषयरागराहित्ये च ।
वैराग्यस्य मोक्षहेतुत्वादि विवेकचूड़ामणौ दर्शितं यथा
“मोक्षस्य हेतुः प्रथमो निगद्यते वैराग्यमत्यन्तमनित्यव-
स्तुषुं ततः शमश्चापि दमस्तितिक्षा न्यासः प्रसक्ता-
खिलकर्मणां भृशम् । ततः श्रुतिस्तन्मननं सतत्त्वध्यानं
चिरं नित्यनिरन्तरं मुनेः । ततो विकल्पं परमेत्य
विद्वानिहैव निर्वाणमुखं समृच्छति । यद्बाद्धव्यं
तवेदाणिमात्मानात्मविवेचनम् । तदुच्यते मया सम्यक् श्रुत्वा-
त्मन्यवधारय । मज्जास्थिमेदःपलरक्तचर्मत्वगाह्वयैर्धा-
तुभिरेभिरन्वितम् । पादोरुवक्षोभुजपृष्ठमस्तकैरङ्गैरुपा-
ङ्गैरुपयुक्तमेतत् । अहं ममेति प्रथितं शरीरं मोहास्पदं
स्थूलमितीर्य्यते बुधेः । नभोनभस्वद्दहनाम्बुमूमयः
सूक्ष्माणि भूताति भवन्ति तानि । परस्परांशैर्मिलितानि
भूत्वा स्थूलानि च स्थूलशरीरहेतवः । मात्रास्तदीया
विषया भवन्ति शब्दादयः पञ्च सुखाय भोक्तुः । य
एषु मूढ़ा विषयेषु बद्ध्वा रागोरुपाशेन सुदुर्दमेन ।
आयान्ति निर्य्यान्त्यध ऊर्द्ध्वमुच्चैः स्वकर्मदूतेन जवेन
पृष्ठ ४९७७
नीताः । शब्दादिभिः पञ्चभिरेव पञ्च पञ्चत्वमापुः स्व
गुणेन बद्धाः । कुरङ्गमातङ्गपतङ्गमीनभृङ्गा, नरः पञ्च-
भिरञ्चितः किम्? । दोषेण तीव्रा विषयः कृष्णसर्प-
विषादपि । विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाप्य-
यम् । विषयाशा महापाशात् यो विमुक्तः सुदुस्त्यजात् ।
स एव कल्पते मुक्त्यै नान्यः षट्शास्त्रवेद्यपि । आपात-
वैराग्यवतो मुमुक्षून् भवाब्धिपारं प्रतियातुमुद्यतान् ।
आशाग्रहो मज्जयतेऽन्तराले निगृह्य कण्ठे विनिवर्त्य
वेगात् । विषयाख्यग्रहो येन सुविरक्त्यसिना हतः ।
स गच्छति भवाम्भाधेः पारं प्रत्यूहवर्जितः । विषम-
विषयमार्गैर्गच्छतो नष्टबुद्धेः प्रतिपदमभियातो मृत्यु
रप्येष सिद्धिः । हितसुजनगुरूक्त्या गच्छतः स्वस्य
युक्त्या प्रभवति फलसिद्धिः सत्यमित्येव विद्धि ।
मोक्षस्य काङ्क्षा यदि वै तवास्ति त्यजातिदूराद्विषयान्
विषं यथा । पीयूषवत्तोषदयाक्षमार्जवप्रशान्तिदान्तीर्भज
नित्यमादरात्” ।

वैराट त्रि० विराटस्येदम् अण् । १ विराटसम्बन्धिनि । वीर इ

वाटति अट--अच् स्वार्थे अण् । २ इन्द्रगोपकीटे हेमच० ।

वैरातङ्क पु० वीरस्य अर्जुनस्यातङ्कायै शङ्कायै साधु--अण् ।

अर्जुनवृक्षे राजनि० ।

वैरानुबन्धिन् त्रि० वैरं विद्वेषमनुबध्नाति णिनि । १ विद्वेषा नुरूपकारके २ वैरानुगते च ।

वैरिन् त्रि० वैरमस्त्यस्य इनि । शत्रौ अमरः ।

वैरूप्य न० विरूपस्य भावः ष्यञ् । १ विरूपत्वे २ अननुरू-

पत्वे ३ अयथाभावे ४ वस्तुनोविकारभेदे च ।

वैरोच(न)नि पु० विरोचनस्यापत्यम् शिवाद्यण् इञ् वा ।

१ अग्निपुत्रे २ सूर्य्यपुत्रे ३ वलिराजपुत्रे दानवभदे च
४ बुद्धभेदे ५ सिद्धगणे शब्दर० ।

वैलक्षण्य न० विलक्षणस्य भावः ष्यञ् । विलक्षणत्वे वैशिष्ट्ये

वैलक्ष्य न० विलक्षस्य भावः ष्यञ् । १ लज्जायाम् अमरः

२ स्वभाववैलक्षण्ये च “वैलक्ष्यहेतोर्गतिमेतदीयाम्” नैष० ।

वै(ब)वधिक त्रि० वी(ब)वधेन धान्यादिसंग्रहेण व्यवहरति

ठक् । वार्त्तावहे नैगमे (दोकानि) अमरः ।

वैवर्ण्य न० विवर्णस्य भावः ष्यञ् । विवर्णत्वे मालिन्ये ।

वैवस्वत पु० विवस्वतोऽपत्यम् तस्येदं वा अण । १ यमे

अमर२ अग्नौ ३ रुद्रभेदे च जटा० । ४ तत्सम्बन्धिनि त्रि० “वैव-
स्वतकरक्रिया” इत्युद्भटः । ५ दक्षिणदिशि स्त्री ङीप् ।
६ सप्तमे मनुभेदे “मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः ।
सप्तमो वर्त्तमानोऽयस्तदपत्यानि मे शृणु! । इक्ष्वाकुर्न
भसश्चैव धृष्टः शर्यातिरेव च । नरिष्यन्तोऽथ नाभागः
सप्तमो दिष्ट उच्यते । वृषणश्च पृषध्रश्च दशमो बसुमान्
स्मृतः । मनोर्वैवस्वतस्यैते दश पुत्राः परन्तप! । आदित्या
वसवो रुद्रा विश्वे देवा मरुद्गणाः । अश्विनी वृषभो
राजन्! इन्द्रस्तेषां पुरन्दरः । कश्यपोऽत्रिर्वशिष्ठश्च
विश्वामित्रश्च गोतमः । यमदग्निर्भरद्वाज इति सप्तर्षयः
स्मृताः । अत्रापि भगवज्जन्म कश्यपाददितेरभूत् ।
आदित्यानामवरजो विष्णुर्वामनरूपधृक् । संक्षेपतो
मयोक्तानि सप्त मन्वन्तराणि ते” भाग० ८ १२ अ० ।

वैवाहिक त्रि० विवाहाय हितं साधु बा ठक् । १ विवा-

हयोग्ये “वैवाहिकीं तिथिं पृष्टाः” इति कुमारः ।
२ विवाहेन सम्बद्धे कन्यापुत्रयोः श्वशुरे ३ विवाहसम्ब
न्धिनि च त्रि० “पञ्चमे सप्तमे वापि येषां वैवाहिकी
क्रिया” स्मृतिः ।

वैशम्पायन पु० व्यासशिष्ये भारतवक्तरि मुनिभेदे । स च

व्यासादिष्टः जनमेजयाय भारतं श्रावितवान् यथोक्तं
भा० आ० १ अ० “जनमेजयेन पृष्टः सन् ब्राह्मणैश्च सहस्रशः ।
शशास शिष्यमासीनं वैशम्पायनमन्तिके । स सदस्यैः
सहासीनः श्रावयामास भारतम् । कर्मान्तरेषु यज्ञस्य
चोद्यमानः पुनःपुनः” । स च यजुर्वेदे तस्य शिष्यः यथाह
“अथ शिष्यान् प्रजग्राह चतुरो वेदपारगान् । जैमि-
निञ्च सुमन्तुञ्च वैशम्पायनमेव च । पैलं तेषां चतुर्थञ्च
पञ्चमं मां महामुमिः । ऋग्वेदश्रावकं पैलं जग्राह
स महामुने! । यजुर्वेदप्रवक्तारं वैशम्पायनमेव च”
कौर्मपु० ४९ अ० ।

वैशस न० विशसस्य भावः स्वार्थे वा अण् । १ हिंसने २ हिंसके च ।

वैशाख पु० विशाखानक्षत्रयुक्ता पौर्णमासी वैशाखी सा

यत्र मासे पुनः अण् । स्वनामख्याते चैत्रतो द्वितीये
१ चान्द्रमासे २ गुरुवर्षभेदे च कार्त्तिकशब्दे १९४९ पृ०
दृश्यम् । चान्द्रवैशाखलक्षणं तु मेषस्थरव्याव्धशुल्क-
प्रतिपदादिदर्शान्तत्रिंशत्तिथित्वम् । मेषस्थरविके ३
सौरतन्मासे “तुलामकरमेषेषु प्रातःस्नानं विधीयते ।
हविष्यं ब्रह्मचर्य्यञ्च महापातकनाशनम्” । तन्मा-
सस्य ४ पौर्णमास्यां स्त्री ङीप् । विशाखा प्रयोज-
नमस्य अञ् । ५ मन्थानदण्डे पु० ६ धनुर्द्धराणामवस्था-
नभेदे न० अमरः ।

वैशिक पु० वेशे वेश्यालये उपचारात् वेश्यायां प्रसृतः ठक् । वश्याभिषक्ते नायकभेदे रसम० ।

वैशिष्टा न० विशिष्टस्य भावः ष्यञ् । विशेष्यविशेषण-

सम्बन्धिनि विशिष्टबुद्धिनियामके १ सम्बन्धे २ भेदे च ।
पृष्ठ ४९७८

वैशेषिक न० विशेषं पदार्थभेदमधिकृत्य कृतो ग्रन्थः ठञ् ।

कणादप्रणीते १ शास्त्रभेदे । तदधीते अण् । २ काणाद-
शास्त्राभिज्ञे त्रि० । तस्येदम् अण् । ३ काणादशास्त्रसम्ब-
न्धिनि त्रि० ।

वैशेष्य न० विशेषस्य भावः ष्यञ् । १ वैशिष्ट्ये २ भेदे च “वैशेष्यात्तद्वादः” शा० सू० ।

वैश्य पुंस्त्री विशति उपभुङ्क्ते विश--क्विप् स्वार्थे ष्यञ् ।

वर्णभेदे ब्रह्मण ऊरुजाते जातिभेदे अमरः स्त्रियां टाप् ।
“विशत्याशु पशुभ्यश्च कृष्यादानरुचिः शुचिः । वेदाध्य०
यनसम्पन्नः स वैश्य इति सज्ञितः” पद्मपु० स्व० २६ अ० ।

वैश्यवृत्ति स्त्री ६ त० । कृषिवाणिज्यादौ

“वैश्यस्तु कृतसंस्कारः कृत्वा दारपरिग्रहम् । वार्त्तायां
नित्ययुक्तः स्यात् पशूनाञ्चैव रक्षणे । प्रजापतिर्हि
वैश्याय सृष्ट्वा परिददे पशून् । ब्राह्मणाय च राज्ञे च
सर्वाः परिददे प्रजाः । न च वैश्यस्य कामः स्यान्न रक्षेयं
पशूनिति । वैश्ये चेच्छति नान्येन रक्षितव्याः
कथञ्चन । मणिमुक्तप्रवालानां लोहानां तान्तवस्य च ।
गन्धानाञ्च रसानाञ्च विद्यादर्घबलाबलम् । वीजाना-
मुप्तिविच्च स्यात् क्षेत्रदोषगुणस्य च । मानयोगञ्च
जानीयात् तुलायोगांश्च सर्वशः । सारासारञ्च भाण्डानां
देशानाञ्च गुणागुणान् । लाभालाभञ्च पण्यानां पशूनां
परिवर्द्धनम् । भृत्यानाञ्च भृतिं विद्याद् भाषाश्च विवि-
धानृणाम् । दूव्याणां स्थानयोगांश्च क्रयविक्रयमेव च ।
धर्मेण च द्रव्यवृद्धावातिष्ठेद् यत्नमुत्तमम् । दद्याच्च
सर्वभूतानामन्नमेव प्रयत्नतः” मनुः । “वैश्यस्य च प्रव
क्ष्यामि यो धर्मो वेदसम्मतः । दानमध्ययनं शौचं
यज्ञश्च धनसञ्चयः । पालयेच्च पशून् वैश्यः पितृवद्धर्म-
मर्जयन् । विकर्म तद्भवेदन्यत् कर्म यत् स समाचरेत् ।
रक्षया स हि तेषां वै महत् सुखमवाप्नुयात् । प्रजा-
पतिर्हि वैश्याय सृष्ट्वा परिददे प्रजाः । ब्राह्मणेभ्यश्च
राज्ञे च सर्वाः परिददे प्रजाः । तस्य वृत्तिं प्रवक्ष्यामि
यच्च तस्योपजीवनम् । षण्णामेका पिबेद्धेनुं शताच्च
मिथुनं भवेत् । लब्धाच्च सप्तमं भागं तथा शृङ्गैकल-
क्षुरे । शस्यानां सर्ववीजानि एषा सांवत्सरी भृतिः”
पाद्मस्व० २६ अ० ।

वैश्रवण पु० विश्रवसोऽपत्यम् अण् विश्रवणादेशः । कुवेरे

अमरः ।

वैश्रवणालय पु० ६ त० । १ वटवृक्षे हेमच० २ कुवेरपुर्य्याञ्च । वैश्रवणावासादयोऽप्यत्र ।

वैश्वदेव पु० विश्वेभ्यो देवेभ्यो देयो बलिः अण् । वैश्वदेवो

द्देशेन दीयमाने बलौ ।

वैश्वानर पु० विश्वेषां नराणामयम् कुक्षिस्थत्वात् अण् पूर्व-

दीर्घः । १ वह्नौ २ चित्रकवृक्षे । ३ चेतने च विश्वानरस्याप-
त्यमण् । अग्निलोकाधिपे ४ वह्नौ काशीख० १० अ० तत्कथा
दृश्या । सर्वदेहाभिमानिनि ५ सर्वात्मयांमिनि परमेश्वरे
तदुपासनप्रकारः छान्दो० ६ प्र० दर्शितो यथा “एष
वैरयिरात्मा वैश्वानरः” इत्युपक्रमे “तान् होवाचैते वै खलु
यूयं पृथगिवेममात्मानं वैश्वानरं विद्वांसोऽन्नमत्थ यस्त्वेत-
मेव’ प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स
सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति” “तान्
यथोक्तवैश्वानरदर्शनवतो ह उवाच । एतेयूयं वै खल्वित्य-
नर्थकौ यूयं पृथगिवापृथक् सन्तमिममेकं वैश्वानरं
विद्वांसोऽन्नमत्थ परिच्छिन्नात्मबुद्ध्या एतद्धस्तिदर्शन इव
जात्यन्धाः । यस्त्वेतमेवं यथोक्तावयवैर्द्युमूर्द्धादिभि-
र्विशिष्टमेवं प्रादेशमात्रं प्रादेशैर्द्युमूर्द्धादिभिः पृथिवी-
पादान्तैरध्यात्मं मीयते ज्ञायत इति प्रादेशमात्रम् ।
मुखादिषु वा करणेष्वकर्तृत्वेन मीयत इति प्रादेशमात्रः ।
द्युलोकादिपृथिव्यन्तप्रदेशपरिमाणो वा प्रादेशमात्रः ।
प्रकर्षेण शास्त्रेणादिश्यन्त इति प्रादेशा द्युलोकादय
एव तत्परिमाणः प्रादेशमात्रः । शाखान्तरे तु “मूर्द्धा-
दिश्चिवुकप्रतिष्ठः” इति प्रादेशमात्रं कल्पयन्ति । इह तु
न तथाभिप्रेतः । “तस्य ह वा एतस्यात्मनः” इत्याद्युप-
संहारात् । प्रत्यगात्मतयाऽभिविमीयतेऽहमिति ज्ञायत
इत्यभिविमानस्तमेतमात्मानं वैश्वानरं विश्वान्नरान्नयति
पुण्यपापानुरूपां गतिम । सर्वात्मैष ईश्वरो वैश्वानरो”
विश्वो नर एव वा सर्वात्मत्वात् । विश्वैर्वा नरैः प्रत्य-
गात्मतया प्रविभज्य नीयत इति वैश्वानरः । तमेव-
मुपास्ते यः सोऽदन्नमन्नादी सर्वेषु लोकेषु द्युलोकादिषु
सर्वेषु भूतेषु चराचरेषु सर्वेष्वात्मसु शरीरेन्द्रियमनो-
बुद्धिषु तेषु ह्यात्मकल्पनाव्यपदेशः प्राणिनामन्नमत्ति ।
वैश्वानरवित् सर्वात्मा सन्नन्नमत्ति । न यथाज्ञः पिण्ड-
मात्राभिमानः सन्नित्यर्थः” ।

वैषम्य न० विषमस्य भावः ष्यञ् । विषमत्वे वैलक्षण्ये ।

वैषयिक त्रि० विषयेण निर्वृत्तः ठक् । विषयर्निवृत्ते सुखादौ

वैष्टुत न० विष्टुत्या निर्वृत्तम् अण् । १ होमभस्मनि हेमच० ।

२ विष्टुतिसाध्ये यागादौ त्रि० ।

वैष्ट्र न० विष--ष्ट्रन् णिच्च । १ पिष्टपे उणादि० २ स्वर्गे ३ वायौ ४ विष्णौ च संक्षिप्रसा० ।

पृष्ठ ४९७९

वैष्णव त्रि० विष्णुर्देवताऽस्य तस्येदं वा अण् । १ विष्णू-

पासके २ विष्णुसम्बन्धिनि च स्त्रियां ङीप् । ३ वैष्णव्यां
शक्तौ “वैष्णवो समरे चैनम्” देवीमा० । “गायत्री
वैष्णवी ह्येषा” स्मृतिः । ४ विष्णुधामनि न० । विष्णु-
मधिकृत्य कृतो ग्रन्थः अण् । ५ महापुराणभेदे न० विष्णु-
पुराणशब्दे ४९३६ पृ० दृश्यम् ।

वैसारिण पुंस्त्री० विसरति वि + सृ--णिनि स्वार्थे अण् ।

मत्स्ये अमरः स्त्रियां जातित्वात् ङीष् ।

वैहार्य्य त्रि० विहारं परिहासमर्हति ष्यञ् । परिहासार्हे

श्यालकादौ “यथा बालेषु नारीषु वैहार्य्येषु तक्षैव च ।
सङ्करेषु निपातेषु तथापद्व्यसनेषु च । अनृतं नोक्तपूर्वं
मे” भा० उ० १२१ अ० ।

वैहासिक पु० विहासेऽभिरतस्तं करोति वा ठक् ।

नाटकादौ प्रसिद्धे शृङ्गाररसनायकसहचरे १ विदूषके हेमच०
(भांड़) इति २ ख्याते लोके च ।

वोड्र पुंस्त्री० वा--बा० उड्र । १ गोनससर्पे (वोडासाप) विक्र-

मादि० । २ मत्स्यभेदे मेदि० । स्त्रियां जातित्वात् ङीष् ।
सा च ३ पलचतुर्थांशे (वुडि) मेदि० ।

वोढु पु० वह--तुन् । मुनिभेदे “वोढुः पञ्चशिकस्तथा” तर्पणमन्त्रः ।

वोढृ त्रि० वह--तृच् । १ वाहके २ स्थानान्तरप्रापके “भागी-

रथी निर्झरशीकरार्णा वोढा” कुमारः । ३ पाणिग्रा-
हके पु० “पिण्डदा वोढुरेव ते” स्मृतिः । ४ भारवाहके
५ मूढ़े च त्रि० शब्दच० । ६ वृषभे पु० राजनि० । ७ सुते
पु० मेदि० ।

वोद त्रि० अवसिक्तमुदकं यत्र पा० ब० उदकस्योदादेशः अवस्यातोलोपः । आर्द्रे त्रिका० ।

वोदाल पुंस्त्री० वोद आर्द्रः सन्नलति अल--अच् । मत्स्यभेदे

(वोओयाल) शब्दर० स्त्रियां ङीष् ।

वोरक पु० अवनतं लेखनकाले उरो यस्य प्रा० ब० कप् अवस्यातो

लोपः पृषो० सलोपः । लेखके त्रिका० ।

वोरट पु० वोइति रटन्ति भृङ्गा अत्र रट--घञर्थे क । कुन्दवृक्षे त्रिका० ।

वोरव पु० वा--उर वोरं वाति वा--क । (वोरो) धान्यभेदे

“वोरवस्तु बुधैः प्रोक्तस्त्रिदोषस्य प्रकोपणः । मधुरश्चा-
ल्पपाकश्च व्रीहिः पित्तकरो गुरुः” राभवल्लभ० ।

वोल पु० वा--उलच् । गन्धरसे गन्धद्रव्यभेदे । “वोलस्तु

कटुतिक्तोष्णः कषायो रक्तदोषनुत् । कफपित्तामयान्
हन्ति प्रदरादिरुजापहः” राजवल्लभः । स्वार्थे क ।
तत्रार्थे पु० अमरः ।

वोल्लाह पुंस्त्री० श्वेतकेशरलाङ्गूलयुते अश्वे हेमच० ।

वोशि स्त्री उभयचरशब्दे १३६३ पृ० दर्शिते जन्मकाले सूर्य्यात्

द्वितीयस्थे विचन्द्रग्रहे । तदपेक्षया द्वादशस्थे तु वेशी ।

वौषट् अव्य० वह--डौषट् । देवोद्देशेन हविस्त्यागे अमरः ।

व्यंशक पु० विशिष्टोऽंशोऽवयवोऽस्य । पर्वते त्रिका० ।

व्यंसक पु० विगतोऽंसः स्कन्धो यस्य कप् । १ धूर्त्ते हेमच०

२ स्कन्धशून्ये । “मयूरव्यंसकादयश्च” पाणिनिसूत्रम् ।

व्यंसित त्रि० वि + अंस--क्त । १ वञ्चिते २ प्रतारिते त्रिका० ।

व्यक्त त्रि० वि + अन्ज--क्त । १ स्फुटे २ प्रकाशिते मेदि० । ३ प्राज्ञे

अमरः । ४ स्थूले “व्यक्ताव्यक्तज्ञविज्ञानात्” सा० का० ।
५ विष्णौ पु० विष्णुम० ।

व्यक्तदृष्टार्थ पु० व्यक्तं स्फुटं दृष्टोऽर्थो येन । साक्षाद्द्रष्टरि साक्षिणि त्रिका० ।

व्यक्तरूप पु० व्यक्तानि स्थूलानि भूतान्येव रूपं यस्य । विष्णौ

विष्णुस० । तस्य विवाड्रूपेण सर्वभूतात्मकत्वात्तथात्वम् ।

व्यक्ति स्त्री वि + अन्ज--क्तिन् । १ प्रकाशे क्तिच् । २ जने हेम० ।

पृथगात्मतारूपे एकैकविशेषे च अमरः । अभिव्यक्तिशब्दे
दृश्यम् ।

व्यग्र त्रि० विगतमग्रं यस्य । १ व्याकुले २ व्यासक्ते च अमरः ।

विशिष्टमग्रं यस्य । ३ विष्णौ पु० विष्णुस० ।

व्यङ्ग न० विगतं विकलं वाङ्गं प्रादि कर्म० । १ विकलाङ्गे

विगतमङ्गं यस्य । २ अङ्गहीने त्रि० ३ भेके पुंस्त्री० मेदि०
स्त्रियां ङीष् । ४ मुखरोगभेदे तन्निदानादि माधवनिदाने
उक्तं यथा “क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः ।
मुखमागम्य सहसा मण्डलं विसृजत्यतः । नीरुजं
तनुकं श्यावं मुखे व्यङ्गं तमादिशेत्” ।

व्यङ्ग्य त्रि० वि + अन्ज--ण्यत् । १ व्यञ्जनया वृत्त्या बोध्येऽर्थे

“वाच्योऽर्थोऽभिधया बोध्यो लक्ष्यो लक्षणया मतः ।
व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्रः शब्दस्य शक्तयः” सा० द० ।
२ प्रकाश्ये च ।

व्यच व्याजे अक० सम्बन्धे सक० तु० कु० पर० सेट् । विचति अविचीत् विध्याच विविचतुः व्यचाः ।

व्यजन न० वि + अज--ल्युट् न व्यादेशः । तालवृन्तके अमरः ।

“मूर्च्छादाहतृषाधर्मश्रमनुत् व्यजनानिलः । तालव्य-
जनजो वायुस्त्रिदोषशमनो लघुः । वंशव्यजनजो वायु
रूक्षाष्णो वातपित्तकृत् । वेत्रवस्त्रकेकिपुच्छव्यजनोत्थ-
स्त्रिदोषहृत् । बालव्यजनजो वायुर्मक्षिकादिनिवारकः ।
तेजस्करोऽसौ विज्ञेयो विद्वद्भिर्भिषजां वरैः” राजव० ।

व्यञ्जक पु० वि + अन्ज--णिच्--ण्वुल् । १ हृद्गतभावादिप्रका-

शके अभिगये अमरः । २ व्यञ्जनयार्थबोधके शब्दे च
सा० द० व्यञ्जनशब्दे दृश्यम् । ३ प्रकाशकमात्रे त्रि० ।
पृष्ठ ४९८०

व्यञ्जन न० विशेषेणाज्यते वि + अन्ज--ल्युट १ सूपशाकादौ

ओदनभोजनोपकरणे राजनि० । “व्यञ्जनं शाकमत्-
स्याद्यं हृद्यं वृष्यञ्च पुष्टिदम् । द्रव्येण येन येनेह व्यञ्जनं
मत्स्यमांसयोः । तस्य तस्य तयोश्चैतद्गुणदोषैर्विभावयेत्”
राजव० । वि + अन्ज--णिच्--ल्युट् । २ चिह्ने ३
श्मश्रुणि ४ अवयवे ५ दिने मेदि० । ६ उपस्थे ७ अर्द्धमात्राका-
लेनीच्चार्य्ये हल्वर्णे च धरणिः “व्यञ्जनं चार्द्धमात्रकम्”
शिक्षा० । ८ अलङ्कारप्रसिद्धे शब्दस्य वृत्तिभेदे च युच् ।
९ उक्तार्थे स्त्री “विरतास्रभिधाद्यासु ययार्थो बोध्यतेऽ-
परः । सा वृत्तिर्व्वञ्जना नाम शब्दस्यार्थादिकस्य च ।
अभिधासक्षणामूलाशब्दस्य व्यञ्जना द्विधा” सा० द० ।
तत्र अभिधामूला तच्छब्दे २९० पृ० दृश्या ।
“लक्षणामूलामाह “लक्षणोपास्यते यस्य कृते तत्तु
प्रयोजनम् । यया प्रत्याय्यते सा स्याद् व्यञ्जना लक्षणा-
श्रया” । (गङ्कायां घोषः) इत्यादौ जलमयाद्यर्थ-
बोधनादभिधायां विरतायां तदाद्यर्थबोधनाच्च लक्षणायां
विरतायां यथा शीतत्वपावनत्वाष्द्यविशयादिर्बोध्यते सा
लक्षणामूला व्यञ्जना । एवं शाब्दीं व्यञ्जनामुक्त्वाऽऽर्थीं
व्यञ्जनामाह “वक्तृबोद्धवाक्यानाकन्यसन्निधिवाच्ययोः ।
प्रस्तावदेशकालानां कालोञ्चेष्टादिकस्य च । वैशिष्ट्या-
दन्यमर्थं या बोधयेत् साऽर्थलम्भवा” । व्यञ्जनेति सम्ब-
ध्यते । तत्र वक्तृवाक्यवोस्तावद्देशकालवैशिष्ट्ये यथा मम
“कालो मधुः कुपित एष च पुष्पधन्वा धीरा वहन्ति
रतिखेदहराः अमीराः । केलीवनीयमपि वञ्जुलकुञ्ज-
मञ्जुर्दूरे पतिः कथय किं करणीयमद्य” । अत्रैतं देशं
प्रति शीघ्रं प्रच्छन्नकामुकस्त्यया प्रेष्यताम्” इति सखीं
प्रति कयाचित् द्योत्यते । बोद्ध्वव्यवैशिष्ट्ये यथा “निः-
शेषषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो नेत्रे
दूरमनञ्जने पुलकिता तन्धी तवेयं तनुः । मिथ्यावादिनि!
दूति! बान्धवजनस्याज्ञातपीड़ागमे वाषीं आतुमितो
गतासि न पुनस्तस्याधमस्यान्तिकम्” । अत्र तदन्तिकमेव
गतासीति विपरीतलक्षणया लक्ष्यम् । तस्य च रन्तु-
मिति व्यङ्गां प्रतिपाद्यदूतावैशिष्ट्याद्बोध्यते । अ{??}
सिणीपत्तम्मि रेहै बलाआ । {??}
णपरिठ्ठि{??} सं{??} । {??}
वेम विश्वस्तत्वं तेनास्य देशस्य विजनत्वमतः सङ्केतः
स्थानमेतदिति कयापि सन्निहितप्रच्छन्नकासुकं प्रत्यु-
च्यते। अत्रैव स्थाननिर्जनत्व व्यङ्गार्थ वैशिष्ट्यं प्रयो
जनम् । “भिन्नकण्ठध्वनिर्धीरैः काकुरित्यभिधीयते” ।
इत्युक्तप्रकारायाः काकोर्भेदा आकारादिभ्यो ज्ञातव्याः ।
एतद्वौशिष्ट्य यथा “गुरुपरन्त्रतया वत दूरतरं देशमुद्यतो
गन्तुम् । अलिकुलकोकिलललिते नैष्यति सखि!
सुरभिसलयेऽसौ” । अत्र नैष्यति अपि तु एव्यत्येवेति
काक्वा व्यज्यते । चेष्टावैशिष्ट्ये यथा “सङ्केतकालमनसं
विटं ज्ञात्वा विदग्धया । हसन्नेत्रार्पिताकूतं लीला-
पद्मं निमीलितम्” । अत्र सन्ध्या सङ्केतकाल इति
पद्मनिमीलनादिचेष्टया कयाचित् द्योत्यते । एवं वक्त्रा-
दीनां व्यस्तसमस्तानां वैशिष्ट्ये बोध्यम् । “त्रैविध्यादि-
यमर्थानां प्रत्येकं त्रिविधा मता” । अर्थानां वाच्यलक्ष्य-
व्यङ्ग्यत्वेन त्रिरूपतया सर्वा अप्यनन्तरोक्ता व्यञ्जनास्त्रि-
विधाः । तत्र वाच्यार्थस्य व्यञ्जना यथा “काली मघुः”
इत्यादि । लक्ष्यार्थस्य यथा “निःशेषच्युतचन्दनम्”
इत्यादि । व्यङ्ग्यार्थस्य यथा “उअ णिच्चमेत्यादि” ।
प्रकृतिप्रत्ययव्यञ्जनत्वन्तु प्रपञ्चयिष्यते “शब्दोबोध्यो व्यन-
क्त्यर्थं शब्दोऽप्यर्थान्तराचयः । एकस्य व्यञ्जकत्वे
तदन्यस्य सहकारिता” । यतः शब्दो व्यञ्जकत्वेऽर्थान्तरम-
पेक्षते अर्थोऽपि शब्द, तदेकस्य व्यङ्जकत्वे अन्यस्य
सहकारिताऽवश्यमङ्गीकार्य्या । “अभिधादित्रयोप्राधिवैशिष्ट्या-
त्त्रिविधो मतः । शब्दोऽपि वाचकस्तद्वल्लक्षको व्यञ्जक-
स्तथा” । अभिधोपाधिको वाचकः । लक्षणोपाधिको
लक्षकः । व्यञ्जनोपाधिको व्यञ्जकः” सा० द० २

व्यञ्जित त्रि० वि + अन्ज--णिच्--क्त । १ प्रकाशिते “अव्यञ्जित-

हर्षलक्षणः” कुमारः । २ व्यञ्जनावृत्त्या बोधितेऽर्थे च ।

व्यडम्बक पु० डवि--ण्वुल् विशेषेण न डम्बकः । एरण्डवृक्षे

अमरः ।

व्यतिकर पु० वि + अति--कॄ--अप् । व्यतिसम्बन्धे २ व्यसमे च मेदि० ।

व्यतिक्रम पु० वि + अति + क्रम--घञ् न वृद्धिः । १ विपर्य्यये

“विवाहे च व्यतिक्रमः” उ० त० । २ विशेषतोऽतिक्रमे च ।

व्यतिरिक्त त्रि० वि + अति + रिच--क्त । भिन्ने “न वृक्षवृत्ति-

व्यतिरिक्तसाथनम्” इति अमारः ।

व्यतिरेक पु० वि + अति + रिच--घञ् । १ विशेषेण अतिक्रमे

३ अभावे ४ विनेवर्थे ५ अर्थालङ्कारभेदे च अलङ्कारशब्दे
४०४ पृ० दृश्यम्। न्यायोक्ते ६ तदसत्त्वे तदसत्त्वरूपे
कारणताजाहके पदार्थभेदे काव्याभावव्यापकीभूता-
भावप्रतियोगित्वरूपे व्याप्तभेदे च ।
पृष्ठ ४९८१

व्यतिरेकिन् न० वि + अति + रिच--घिमुण् । न्यायोक्ते बा-

ध्याभावव्यापकीभूताभावपतियागित्वरूपव्याप्तिहेतुके
१ अनुमानभेदे “तच्चानुमानं त्रिविधं केवलान्वयिकवलव्यति-
तेक्यन्वयव्यतिरेकिभेदात्” चिन्तामणिः । यथा पृथिवी
इतरभिन्ना गन्धवत्त्वात् इत्यादि । व्यतिरेकिदृष्टान्तश्च
यन्नैवं तन्नैवमित्यादि । २ अतिक्रामके च स्त्रिया ङीप् ।

व्यतिषक्त त्रि० वि + अति + सन्ज--क्त । १ मिलिते २ ग्रथिते च

व्यतिषङ्ग पु० वि + अति + सन्ज--घञ् । परस्परमेलने ।

व्यति(ती)हार पु० वि + अति + हृ--घञ् वा दीर्घः ।

परीवर्त्ते हेमच० । २ परस्परैकजातीयक्रियाकरणे ।

व्यतीत त्रि० वि + अति + इण्--क्त । अताते “व्यतीतकालस्त्व-

हमभ्युपेतः” इति रघुः ।

व्यतीपात पु० वि + अति + पत--घञ् दीर्घः । १ महोत्पातभेदे

२ अपमाने मेदि० विष्कम्भादिषु मध्ये ३ योगभेदे ज्यो० त०
“श्रवणाश्विधनिष्ठार्द्रानागदैवतमस्तके । यद्यमा रविवारेण
व्यतीपातः स उच्यते” वृद्धममूक्ते ४ तिथ्यादियोगभेदे च
पातशब्दे ४२९७ पृ० दर्शिते रसि० उक्ते क्रान्तिसा-
व्यात्मके यागवियोगरूपे ५ वाह्नभेदे
“व्यतीपातत्रयं धारं गण्डान्तत्रितय तथा । एतद्
भसन्धित्रितयं सवकर्मसु वर्जयेत्” सू० सि० “व्यतीपा-
तानां त्रयं योगवियोगात्मको क्रान्तिलाम्बरूपौ द्वौ
व्यतीपातौ विषुवत्सन्निधौ क्रान्तिसाम्यान्तरेण व्यतीपात-
स्तबोरेव भेदः न पृथक् । पश्चाङ्गान्तर्गतयोगान्तर्गत
व्यतीपातश्चेति त्रयम्” रङ्ग० । भविष्यपु० “चतुर्दश्यां
यदा योगो व्यतीपातेन चार्द्रया । तदा पुण्यतमः कालो
देवानामपि दुर्लभः । तदा यः स्नाति गङ्गायां भक्त्या तत्
फलमाप्नुयात् । यत्र तत्र विपन्नो हि मङ्गामरणजन्तु सः”
प्रा० त० उक्ते ६ तिथ्यादियोगभेदे । “निरंशं दिवसं विष्टिं
व्यतीपातञ्च वैधृतिम् । केन्द्रं वापि शुभैर्हीनं पापाह-
मपि वजयेत् । परिघस्य त्यजेदर्द्धं शुभकर्म ततःपरम् ।
गण्डव्याघातयोः षट् च नव हषणवज्रयोः । वैधृति
व्यतीपातौ च समस्तं परिवर्जयेत्” । अस्य प्रतिप्रसव-
माह भीमपराक्रमे “न विष्कम्भो न वा गण्डो न
व्यताषातवैधृती । चन्द्रताराबले प्राप्ते दोषागच्छन्त्यसं-
मुखा । नवम्यङ्गारको विष्टिः शनैचरदिनं तथा ।
व्यतीपातो न दुष्येच्च यस्यार्को दक्षिणे स्थितः । यदि
विष्टिव्यतापाता दिन वाप्यशुभं उवेत् । हन्यतेऽमृत-
यीगेन भास्करेण तमो यथा” ज्यो० त० ।

व्यत्यय पु० वि + अति + इण्--अच् । १ व्यतिक्रमे २ विषर्य्यये च अमरः ।

व्यत्यास पु० वि + अति + अस--घञ् । विपर्य्यये अमरः ।

व्यथ भये चलने दुःस्यानुभवे च भ्वा० आत्म० अक० सेट् । व्यथते

अव्यथिष्ट मित् घटा० । व्यथयति पित् अङ् व्यथा ।

व्यथा स्त्री व्यथ--भावे अङ् । १ पीडायाम् २ दुःखे च अमरः ।

व्यध ताड़ने दि० पर० सक० अनिट् । विध्यति अव्यात्सीत् ।

विव्याद विविधतुः ।

व्यध पु० व्यध--अच् । १ वेधे अमरः भावे अप् । २ छिद्रीकरणे ३ भेदने च ।

व्यध्व पु० विरुद्धः अध्वा अच्समा० । कुपथे अमरः ।

व्यप क्षये चुरा० उभ० सक० सेट् । व्यापयति--ते अविव्यपत्--त ।

व्यपदेश पु० वि + अप + दिश--घञ् । १ कथने २ संज्ञायां त्रिका० ।

३ कापट्ये हेमच० । ४ मुख्यव्यवहारे च ।

व्यपदेशिन् त्रि० निमित्तसद्भावाद् विशिष्टोऽपदेशा मुख्यो

व्यवहारोऽस्यास्ति इनि । मुख्यव्यवहारविषये पदार्थे
“व्यपदेशिवदेकस्मिन्” व्या० प० । व्यपदेशेन तुल्यं
पर्त्तते इति वति । कार्य्यं प्रति एकास्मन्नसहायेऽपि
तत् कार्य्यं कर्त्तव्यमिति तदर्थः ।

व्यपरोपण न० वि + अप + रुह--णिच्--ल्युट् हस्य पः । १ छेदने २ उत्पाटने ।

व्यपरोपित त्रि० वि + अप + रुह--णिच्--क्त हस्य पः । १ छिन्ने

२ उत्पाटिते च ।

व्यपाकृति स्त्री वि + अप + आ + कृ--क्तिन् । १ निराकरणे २ अस्वीकारे ३ निह्नवे च ।

व्यपाश्रय पु० वि + अप + आ श्रि--अच् । आश्रये ।

व्यपेक्षा स्त्रा वि + अप + ईक्ष--अ । अपेक्षायां व्याकरणोक्ते

अवयपार्थापेक्षणे च ।

व्यभिचार पु० वि + अभि + चर--घञ् । १ निन्दिताचारे

२ स्त्रियाः परपुरुषसंर्गे ३ पुंसश्च परस्त्रासङ्गमे न्यायादि-
प्रसिद्धे ४ हेतुदोषभेदे च ।
हेतुदोषभेदश्च अनैकान्तरूपः । “साधारणासाधारणानु-
पसंहारिणामप्यतमत्व च अनैकान्तिकत्वम्” सि० मु०
“आद्यः लाधारणस्तु स्यादन्योऽलाधारणो मतः ।
तथैवानुपसंहारी त्रिधा नैकान्तिको भवेत्” माषा० ।
“साधारणः साध्यवदनन्यवृत्तिर्हेतुः । तेन च व्याप्ति-
ग्रहप्रतिबन्धः क्रियते । असाधारणः साध्यासमा-
नाधिकरणो हेतुः । तेन साध्यसामानाथिकरण्यग्रहः
प्रतिबध्यते । सत्प्रतिपक्षे तु प्रतिहेतुः साध्याभाव-
साधका अत्र तु हेतुरेवेति विशषः । साध्याभावसा-
धक एव साध्यसाधकत्वेन उपन्यस्त इत्यशक्तिविशेषोप-
स्थापकत्वाच्च विशेषः । सत्प्रतिपक्षः साध्याभापव्याव्य-
वान् पक्षः । अमृहाताप्रामाण्यकसाध्यवाप्यवत्त्वेनोप-
पृष्ठ ४९८२
स्थितिकालीनसाध्याभावव्याप्यवत्त्वेनोपस्थितिविषयस्तथा
इत्यन्ये । अत्र च परस्पराभावव्याप्यवत्ताज्ञानात्
परस्परानुमितिप्रतिवन्धः फलम्” सि० मु० । मणिकृता तु
साध्यवन्मात्रवृत्त्यन्यत्वे सति साध्याभावन्मात्रवृत्त्यन्यत्वम्”
अनैकान्तिकत्वमिति लक्षितम् ।

व्यभिचारिन् पु० वि + अभि + चर--णिनि । १ अलङ्कारोक्ते

रसप्रादुर्भवाङ्गे निर्वेदादौ सञ्चारिभावे तल्लक्षणभेदा-
दिकं सा० द० उक्तं यथा “विशेषादाभिमुख्येन चरन्तो
व्यभिचारिणः । स्थायिन्युनग्ननिरंग्नास्त्रयस्त्रिंशत्तु
तद्भिदाः । निर्वेदावेगदैन्यश्रममदजड़ता औग्र्यमौहौ
विबोधः स्वप्नाषस्मारगर्वामरणमलसतामर्षनिद्राव हित्थाः ।
ओत्सुक्योन्मादशङ्का स्मृतिमतिसहिता व्याधिसन्त्रास-
लज्जा हर्मासूयाविषादाः सधृतिचपलता ग्लानिचि
न्तावितर्काः” इति विभज्य लक्षिता यथा “तत्त्वज्ञानापदी-
र्ष्यादेर्निर्वेदः १ स्वावमानना । दैन्यचिन्ताश्रुनिश्वासवैवर्ण्यो-
च्छसितादिकृत् । आवेगः २ सम्भ्रमस्तत्र वर्षजे पीड़िताङ्गता ।
उत्पातजे स्रस्तताङ्गे धूमाद्याकुलताग्निजे । राजविद्र-
वजादेस्तु शस्त्रनागादियोजनम् । गजादेःस्तम्भकम्पादिः
पांश्वाद्याकुलतानिलात् । इष्टाद्धर्षाः शुचोऽनिष्टाज्ज्ञे-
याश्चान्ये यथायथम् । दौर्गत्याद्यैरनौजस्यं दैन्यं ३
मलिन तादिकृत् । खेदोरत्यध्वगत्यादेः श्वासनिद्रादिकृच्छ्रमः ४ ।
सम्मोहानन्दसम्भेदो मदो ५ मद्योपयोगजः । अमुना
चोत्तमः शेते मध्या हसति गायति । अधमप्रकृतिश्चापि
परुषं वक्ति रोदिति । अप्रतिपत्तिर्जड़ता ६ स्यादिष्टा-
निष्टदर्शनश्रुतिभिः । अनिमिषनयननिरीक्षणतूष्णींभा-
वादयस्तत्र । शौर्य्यापराधादिभवं मवेच्चण्डत्वमुग्रता ७ ।
तत्र स्वेदा शिरःकम्पतर्जनाताड़नादयः । मोहो ८ विचि-
त्तता भीतिदुःखावेगानुचिन्तनैः । घूर्णनामात्रपतनभ्रम-
णादर्शनादिकृत् । निद्रापगमहेतुभ्यो विबोध ९ श्चेतनागमः ।
जृम्भाङ्गभङ्गनयनमीलनाङ्गावलोककृत् । स्वप्नो १० निद्रा-
मुपेतस्य विषयानुभवस्तु यः । कोपावेगभयग्लानिसुख-
दुःखादिकारकः । मनःक्षेपस्त्वपस्मारो ११ ग्रहाद्याकेशना-
दिन्नः । भूपातकम्पप्रस्वेदफेनलालादिकारकः । गर्वो १२
मदः प्रभावश्रीविद्यासत्कुलतादिजः । अवज्ञासविला-
लाङ्गदर्शनाविनयादिकृत् । शराद्यैर्मरणं १३ जीवत्यागोऽ-
ङ्गपतनादिकृत् । आलस्यं १४ श्रमगर्भाद्यैर्जाड्यं जृम्भा-
क्षुतादिकृत् । निन्दाक्षेपापमानादेरमर्षो १५ ऽभिनिवि-
ष्टता । नेत्ररागशिरःकम्पभ्रू भङ्गोत्तर्जनादिकृत् । चेतः-
सम्मीलनं निद्रा १६ श्रमक्लममदादिजम् । जृम्भाक्षिमी-
लनोच्छासगात्रभङ्गादिकारकम् । भयनीरवलज्जादेर्हर्षा-
द्याकारगुप्तिरवहित्था १७ । व्यापारान्तरसक्त्यन्यथाभा-
षणविलोकनादिकरी । इष्टानवाप्ते रौत्सुक्यं १८ कालक्षे-
पासहिष्णुता । चित्ततापत्वरास्वेददीर्घनिश्वसितादिकृत् ।
चित्तसम्मोह उन्मादः १९ कामशोकभयादिभिः । अस्था-
नहासरुदितगीतप्रलपनादिकृत् । परक्रौर्य्यात्मदोषाद्यैः
शङ्का २० ऽनर्थस्य तर्कणम् । वैवर्ण्यकम्पवैस्वर्य्यपार्श्वालो-
कास्यशोषकृत् । सदृशज्ञानचिन्ताद्यैंर्भ्रूसमुन्नमनादिकृत् ।
स्मृतिः २१ पूर्वानुभूतार्थविषयज्ञानमुच्यते । नीतिमार्गा-
नुसृत्यादेरर्थनिर्द्धारणं मतिः २२ । स्मेरता धृतिसन्तोषौ
बहुमानश्च तद्भवाः । व्याधि २३ र्ज्वरादिर्वाताद्यैर्भूमीच्छो-
त्कम्पनादिकृत् । निर्घातविद्युदुल्कादैस्त्रासः २४ कम्पा-
दिकारकः । धार्ष्ट्याभावो व्रीड़ा २५ वदनानमनादिकृद्
दुराचारात् । हर्ष २६ स्त्विष्टाव्याप्तेर्मनःप्रसादाऽश्रुग-
द्गदादिकरः । असूया २७ ऽन्यगुणर्द्धीनामौद्धत्यादसहि-
ष्णुता । दोषोद्वोषभ्रूविभेदावज्ञाक्रोधेङ्गितादिकृत् ।
उपायाभावजन्मा तु विषादः २८ सत्त्वसङ्क्षयः ।
निःश्वासोच्छासहृत्तापसहायान्वेषणादिकृत् । ज्ञानाभीष्टा-
गमाद्यैस्तु सम्पूर्णस्पृहता धृतिः २९ । सौहित्यवचनोल्ला-
ससहासप्रतिभादिकृत् । मात्सर्य्यद्वेषरागादेश्चापल्यं ३०
त्वनवस्थितिः । तत्र भत्र्सनपारुष्यस्वच्छन्दाचरणादयः ।
रत्यायासमनस्तापक्षुत्पिपासादिसम्भवा । ग्लानि ३१ र्गिष्प्रा-
णताकम्पकार्श्यानुत्साहतादिकृत् । ध्यानं चिन्ता ३२
हितानाप्तेः शून्यताश्वासतापकृत् । तर्को ३३ विचारः
सन्देहाद् भ्रूशिरोऽङ्गुलिनर्त्तकः । रत्यादयोऽप्यनियते
रसे स्युर्व्यभिचारिणः । शृङ्गारवीरयोर्हासो वीरे
क्रोधस्तथा मतः । शान्ते जुगुप्सा कथिता व्यभिचारि-
तया पुनः । इत्याद्यन्यत्समुन्नेयं स्वयम्भावितबुद्धिभिः” ।
न्यायोक्ते २ व्यभिचाररूपदोषवति हेतुपदार्थे च ।
३ परपुरुषगामिन्यां स्त्रियां स्त्री ङीप् । “हृताधिकारां
मलिनां पिण्डमात्रोपजीविनीम् । परिभूतामधः-
शय्यां वासयेद्व्यभिचारिणीम्” । “सोमः शौचं ददौ
तासां गन्धर्वश्च शुभां गिरम् । पावकः सर्वभ-
क्षत्वं मेध्या वै योषितो ह्यतः” इति तु स्त्रीसामा-
न्यविषयम् । “व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधी-
यते । गर्भभर्तृवधे तासां तथा महति पातके”
गरुड़े ९५ अ० । तस्याः परित्यागादि हेतुमाह हारीतः
पृष्ठ ४९८३
“गर्भिणीमधोवर्णगां शिष्यसुतगामिनीं पापव्यसनासक्तां
धनधान्यक्षयकरीं वर्जयेत्” । यमः “स्वच्छन्दगा हि
या नारी तस्यास्त्यागो विधीयते । न चैव स्त्रीवधः
कार्य्यो न चैवाङ्गवियोजनम्” । वृहस्पतिः “हीनव
र्णोपभुक्ता या त्याज्या बध्यापि वा भवेत्” । विशेषयति
मिताक्षरायां स्मृतिः “ब्राह्मणक्षत्रियविशां भार्य्याः
शूद्रेण सङ्गताः । अप्रजास्ताविशुद्ध्यन्ति प्रायश्चित्तेन
नेतराः” । एतत् बलात्कारविषयम् उद्वा० त० ।

व्यय गतौ त्यागे अद० चु० उभ० सक० सेट् । व्यवयति ते

अवव्ययत् त ।

व्यय गतौ भ्वा० उभ० सक० सेट् । व्ययति ते अव्ययीत् अव्ययिष्ट अव्ययिढ्वम् (ध्वस) ।

व्यय नादे चु० उभ० सक० सेट् । व्याययति ते अविव्ययत् त ।

व्यय पु० वि + इण--अच् । १ विगमे २ धनादेस्त्यागे शब्दर० ।

ज्योतिषोक्ते लग्नात् ३ द्वादशस्थाने च ज्यो० त० ।

व्यर्थ त्रि० विगतोऽर्थः प्रयोजनं वाऽस्य । १ निष्पयोजने २

विफले जटा० ३ अर्थशून्ये च ।

व्यलीक न० वि + अल--ईकक् । १ अकार्य्ये २ वैलक्ष्ये मेदि०

३ अपराधे हेमच० ४ अप्रिये ५ अनृते च अमरः । ६ तद्वति
त्रि० । ७ प्रतारणायां हला० ८ गतिविपर्य्यये भरतः ।

व्यवकलन न० वि + अव--कल--ल्युट् । १ वियोजने हेमच०

२ विगमने ३ हीनतासम्पादने च “व्यवकलनमार्गेऽसि ।
कुशला” लीला० ।

व्यवकलित त्रि० वि + अव + कल--क्त । वियोजित ।

व्यवच्छिन्न त्रि० वि + अव + छिद--क्त । १ छिन्ने २ विशेषि त्रिका० ।

व्यवच्छेद पु० वि + अव + छिद--घञ् । १ पृथक्करणे २ विशेष-

करणे ३ मोचने च ४ वाणमुक्तौ हेमच० ।

व्यवधा स्त्री वि + अव + धा--अ । व्यवधाने अमरः ।

व्यवधान न० वि + अव + धा--ल्युट् । १ तिरोधाने २ द्रव्या

न्तरेण द्रव्यान्तरस्याच्छादने च हेमच० ।

व्यवधायक त्रि० वि + अव + धा--ण्वुलु । १ व्यवधानकर्त्तरि २ आच्छादके च

व्यवधि पु० वि + अव + धा--कि । व्यवधाने शब्दच० ।

व्यवसाय पु० वि + अव + सो--घञ् । १ उद्यमे “मरणव्यवमायबु-

द्धिम्” कुमारः । ३ उपजीविकायाम् ३ अनुष्ठाने ४ अवधारणे
च “व्यवसायात्मिका बुद्धिः” गीता । ५ विष्णौ विष्णुस० ।

व्यवस्था स्त्री वि + अव + स्था--ङ । १ शास्त्रविहितस्य विषया-

न्तरपरिहारेण विपयविशिषे स्थापने २ शास्त्रमर्य्यादाया

व्यवस्थान न० वि + अव + स्था--ल्युट् । १ व्यवस्थायाम् । कर्त्तरि

ल्यु । २ विष्णौ पु० विष्णुस० ।

व्यवस्थित त्रि० वि + अव + स्था--क्त । विषयान्तरपरिहारेण

विषयविशेषे अवस्थिते १ शास्त्रविहिते पदार्थे २ अवस्थित-
मात्रे च ।

व्यवस्थितविभाषा स्त्री कर्म० । व्याकरणोक्ते विषयान्तर

परिहारेण विषयविशेषेऽवस्थितरूपे विकल्पे ।

व्यवहर्तृ त्रि० वि + अव + हृ--तृच् । व्यवहारकर्त्तरि ।

व्यवहार पु० वि + अव + हृ--घञ् । १ अर्थविशेषवाधनाय शब्द-

विशेषप्रयोगे २ ऋणादानादिष्वष्टादशसु विवादेषु ३
सहासनभोजनादौ च
विवादरूपव्यवहारलक्षणं वीर० मि० उक्तं यथा
“अथ कोऽयं व्यवहारः प्रमाणतर्कोप्रष्टव्यः पक्षप्रतिप-
क्षपरिग्रहः इति चेन्न वादादेरपि तत्त्वापत्तेः ।
लिखितादिः प्रमाणविशेषः परिगृह्यत इति चेत् तत्रापि
तत्प्रवृत्त्यविरोधात् । अनुमानाद्यवहिर्भावाच्च तेषाम-
व्यावर्त्तकत्वात् । अतएवान्यविरोधेन स्वसम्बन्धितया
कथनमित्यपि परास्तम् । प्रमाणान्तर्भावेण स्वरूपनिरू-
पणानौचित्याच्च कथनादेर्व्यवहारपदवाच्यत्वे “व्यवहारा-
न्नृपः पश्येदित्याद्यनन्वयाच्च । उच्यते । ऋणादानादि-
लौकिकार्थविमया कथैव व्यवहारः । कथाव्यपदेशा-
भावस्तु शास्त्रीयपदार्थाविषयत्वात् अधिकरणादिव्यप-
देशो यथा वैदिकार्थविषयककथायान्तथात्वव्यवहारव्यप-
देशः । अतएव यथायथं हेत्वाभासनिग्रहस्थानादि-
योजनमपि युक्तम् । तच्च तत्र तत्र प्रदशयिष्यते ।
चतुष्पात्त्वमपि तस्य तदविरोध्येवेत्युपपादयिष्यते ।
यत् तु गोपालेन तत्त्वनिर्णयेषु कथात्वाद्वादत्वमेवास्येति
मिश्रमतत्वेनोपन्यस्य जयभङ्गफलकत्वात् स्थापनावसान-
त्वाच्च जल्पएवायमिति तन्निरस्तम् । तस्यैकविधत्वमयु-
क्तम् । शङ्कातत्त्वाभियोगभेदेन उभयरूपत्वस्यैव युक्तत्वात् ।
वैतण्डिकस्य व्यवहारायोग्यत्वादस्य वितण्डत्वम्परमस-
म्मवि । अन्यविरोधेन स्वसम्बन्धितया कथनमिति विज्ञा-
नयोगिवचोऽप्येवं सति नायुक्तम् । न च पश्येदित्यनन्व-
यः निर्णयार्थकथनतया सर्वनिबन्धृभिस्तद्व्याख्यानात् ।
“स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः । आवेदयति
चेद्राज्ञे व्यवहारपदं हि तत्” याज्ञवल्क्यवचनं
यद्यपि व्यवहारपदान्यृणादानादीनि सामान्येन लक्ष-
यति तथापि व्यवहारसामान्यलक्षणमपि समानसम्बन्धि-
संबेद्यतया ततः प्रतीयते । तस्याह्ययमर्थः स्मृत्या-
चारादिधर्मप्रमाणातिक्रान्तरीत्याऽन्यैरभिभूतः पुरुषो-
पृष्ठ ४९८४
राजादिभ्यो व्यवहारदर्शिभ्यो यद्यावैदयति तर्हि तदाऽऽ-
वेद्यमानञ्चतुष्पाद्व्यवहारस्य पदं विषयः । हीति प्रसि-
द्धमृणादानादिलक्ष्यत्वेन मन्वाद्युक्तमुपक्षिप्तमिति ।
एवञ्चाधर्षितस्यार्थित्वमाधर्षकस्य प्रत्यर्थित्वन्तयोर्विवादश्च
व्यवहार इति प्रतीयते । इदमेव च मिताक्षराया-
मन्यविरोधेनेत्यादिना निष्कृष्टमुक्तम् । अन्यविरोधे-
नेत्थनुक्ते प्रश्नोत्तरादिरूपेण स्वसम्बन्धिकथनमपि
व्यवहारः स्यात् । स्वसम्बन्धितयेत्यनुक्ते एकसम्बन्धितया
साक्षिणा कथनमन्यविरोधि भवत्येवेत्यस्याप्यर्थित्वापत्ति-
रतः स्वसम्बन्धितयेति । इदं चोत्तरचतुष्टयेऽप्यनुगतम् ।
न च सम्प्रतिपत्तावव्याप्तिः तत्रापि साध्यतया
वादिना निर्दिष्टस्य सिद्धतया निर्देशे तद्विरोघपर्य्यवसा-
नात् अन्यथोत्तरत्वभङ्गप्रसङ्गात् । यत्रापि द्वावपि
भाषावादिनौ तत्रापि परस्परविरोधावश्यम्भावान्ना-
व्याप्तिः । इदं चाग्रे व्यक्तीभविष्यति । यच्च कात्या-
यनेनोक्तम् “प्रयत्नसाध्ये विच्छिन्ने धर्माख्ये न्यायवि-
स्तरे । साध्यमूलस्तु यो वादो व्यवहारः स उच्यते”
इति एतच्च व्यवहारहेतुव्यवहारस्वरूपोक्तिपरतया,
माधवीयपारिजातादिष्वेवं व्याख्यातम् “विहिताच
रणनिषिद्धवर्जनादिप्रयत्नसाध्ये धर्माख्ये वस्तुनि विच्छिन्ने
विप्लुते सतीति व्यवहारहेतुरुक्तः धर्मावर्मविप्लव-
स्यैव व्यवहारहेतुत्वात् । तथा च नारदः “मनुः
प्रजापतिर्यस्मिन् काले राज्यमबूभुजत् । धर्मैकतानाः पुरु-
षास्तदासन् सत्यवादिनः । तदा न व्यवहारोऽभून्न
द्वेषो नापि मत्सरः । नष्टे धर्मे मनुष्येषु व्यवहारः
प्रवर्त्तते” इति । वृहस्पतिरपि “धर्मप्रधानाः पुरुषाः
पूर्वमासन्न हिंसकाः । लोभद्वेषाभिभूतानां व्यवहारः
प्रवर्त्तते” इति । न्यायेत्यादिना व्यवहारस्वरूवमुक्तम् ।
तत्र माधवीयव्याख्यानम् । न्यायः शिष्टसम्प्रतिपन्नं
लौकिकमाचरणं तस्य विस्तरः इदं युक्तमिदमयुक्तमिति
उपपत्तिपुरः सरो निर्णयः । तस्मिन् विषयभूते तत्प्रवर्त्त-
कोऽर्थिप्रत्यर्थिनोः साध्यमूलःसाध्यमृणादानादिपदं तन्मू-
लस्तद्विषयको यो विवादः स व्यवहार इति ।
मदमरत्ने तु न्यथिः प्रमाणन्तस्य विस्तरः प्रवृत्तिर्यत्र तस्मिन्
विषय इति । स्मध्यमूलेतादि तुल्यम् । मदनरत्नाकर-
स्मृतिचन्द्रिकाकल्पतरुकारैः सर्वमेवेदं वचनं व्यव-
हास्यरूपपरतयापि व्याख्यातम् । प्रयत्नसाध्ये
कष्टसाध्ये पराभिभवेन स्वेच्छय । भोक्तुमशक्ये गृह-
क्षेत्रादौ सति न्यायः प्रमाणं विस्तार्य्यते प्रपञ्च्यते
यस्मिन् तस्मिन् धर्माधिकरण सदसि साध्यमूलेत्यादि
पूर्ववत् । तेनापि प्रागुक्तमेव विवक्षितमतस्तत्रत्यपदकृत्ये
नातीव यतितव्यम् । वयन्तु सर्वं सप्तम्यन्तसामानाधि-
करण्येन व्याचक्ष्महे! विहितानुष्ठानादिगोचरप्रयत्न-
साध्ये धर्माख्ये न्यायविस्तरे नीयतेऽर्थोऽनेनेति न्यायः
प्रमाणं श्रुतिस्मृत्यादि विस्तार्य्यते प्रवर्त्ततेऽस्मिन श्रुत्य
दिप्रमेय इत्यर्थः । विच्छिन्ने प्रमाणापरिज्ञानतात्-
पर्य्यानवधारणादिना दुज्ञेये सति । यद्वा । धर्म
आख्यायतेऽनेनेति धर्माख्यो धर्मप्रतिपादक इति वापत् ।
न्यायविस्तरे प्रमाणसमूहे श्रुतिस्मृत्यादौ प्रमादादिना
विच्छिन्ने लुप्तप्राये सति साध्यमूलेत्यादि गतार्थमिति ।
हारोतः “स्वधर्मस्य यथा प्राप्तिः परधर्मस्य वर्जनम् ।
न्यायेन क्रियते यत् तु व्यवहारः स उच्यत” इति ।
न्यायेन प्रमाणेन । एतस्यापि पूर्वोक्त एव तात्पर्य्यम्” ।
तन्निरुक्तिर्मेदाश्च तत्र दर्शिता यथा
“निरुक्तिमपि व्यवहारपदस्याऽमुमेवार्थमुपलक्षयति । सा
च कात्यायनेनोक्ता “विना नार्थेन सन्दहो हरणं
हार उच्यते । नानासन्देहहरणाद् व्यवहार इति
स्मृत” इति । अथ व्यवहारभेदानाह नारदः “सोत्तरो-
नुत्तरश्चेति स विज्ञेयो द्विलक्षणः । सोत्तरोऽभ्यधिको यत्र
विलेखपूर्वकः पणः” इति । यदि पराजयेऽह तदा
पराजयदण्डाभ्यधिकमेतावद्राज्ञे दास्यामीति यत्र
लेखनपूर्वक प्रतिज्ञ यते स सात्तर इत्यर्यः । तद्रहिताऽनु-
त्तर इत्यर्थादुक्तं भवति । स एव त्रयादशप्रकारनि-
वन्धनानवान्तरभेदानुद्दिश्य विवृतवान् यथा “चतु-
ष्पाश्च चतुःस्थानश्चतुःसाधन एव च । चतुर्हितश्चतु-
र्व्यापी चतुष्कारी च कीर्त्तितः । त्रियोनिर्द्ध्यभियोगश्च
द्विद्वारोद्विगतिस्तथा । अष्टाङ्गोऽष्टादशपदः शतश
खस्तथैव च । धर्मश्च व्यवहारश्च चरित्रं राजशासनम्!
चतुष्पाद् व्यवहारोऽयमुत्तरः पूर्वबाधकः । तत्र सत्ये
स्थितो धर्मो व्यवहारस्तु साक्षिषु । चरित्रं तु स्वीक-
रणे राजाज्ञायान्तु शासनम् । साम्याद्युपायसाध्यत्वा-
च्चतुःसाधन उच्यते । चतुर्णामपि वर्णानां रक्षणाच्च
चतुर्हितः । कर्त्तृनथो साक्षिणश्च सभ्यान् राजानमेव
च । व्याप्नोति तादृशो यस्माच्चतुर्व्यापी ततः स्मृतः ।
धर्मस्यार्थस्य यशलोलोकपङक्तेस्तथैव च । चतुर्णाङ्कर
णादेव चतुःकारी प्रकीर्त्तितः । कामात् क्रोधाच्च लोभाच्च
पृष्ठ ४९८५
त्रिभ्यो यस्मात् प्रवर्त्तते । त्रियोनिः कीर्त्यते तेन त्रय-
मेतद्विवादकृत् । द्व्यभियोगस्तु विज्ञेयः शङ्कातत्त्वाभि-
योगतः । शङ्काऽसतान्तु संसर्गात्तत्वं होडाभिदर्शनात् ।
पक्षद्वयाभिसम्बन्धात् द्विगतिः समुदाहृतः । पूर्ववाद-
स्तयोः पक्षः प्रतिपक्षस्तदुत्तरः । भूतच्छलानुसारित्वात्
द्विगतिः समुदाहृतः । भूतन्तत्त्वार्थसंयुक्तं प्रमादाभिहितं
छलम् । राजा १ सपुरुषः सभ्यः २ शास्त्रं ३ गणकलेख-
कौ ४ ५ । हिरण्य ६ मग्नि ७ रुदक ८ मष्टाङ्गः समुदाहृतः ।
ऋणादानं १ ह्युपनिधिः २ सम्भूयोत्थान ३ मेव च । दत्तस्य
पुनरादान ४ मशुश्रूषा ५ भ्युपेत्य च । येतनस्यानपाकर्म ६
तथैवास्वामिविक्रयः ७ । विक्रीयासम्प्रदानं ८ च क्रीत्वानु-
शय ९ एव च । समयस्यानपाकम १० विवादः क्षेत्रज ११
स्तथा । स्त्रीपुंसयोश्च सम्बन्धो १२ दायभागो १३ ऽथ
साहसः १४ । वाक्पारुष्यं १५ तथैवोक्तं दण्डपारुष्य १६ मेव
च । द्यूत १७ म्प्रकीर्णक १८ ञ्चैवे त्यष्टादशपदः स्मृतः ।
क्रियाभेदान्मनुष्याणां शतशाखो निगद्यते” इति ।

व्यवहारपद न० ६ त० । व्यवहारविषये ।

व्यवहारमातृका स्त्री व्यवहारस्य विवादनिर्णयस्य मातेव

पोषकत्वात् परिच्छेदकत्वाद्वा इवार्थे कन् । व्यवहार-
निर्णयार्थं प्राड्विवाकादिकार्य्ये क्रियासमुदाये
“व्यवहारान्नृपः पश्येत्” इत्युक्तो व्यवहारः सोऽय-
मित्थं चतुष्याच्चतुरंशकल्पनया विवादेषु ऋणादानादि-
षूपदर्शितो वर्णितः “तत्र प्रत्यर्थिनोऽग्रतो लेख्यम्” इति
भाषापादः प्रथमः । “श्रुतार्थस्योत्तरं लेख्यम्” इत्युत्तर-
पादो द्वितीयः । “ततोऽर्थो लेखयेत्सद्य” इति क्रि-
यापादस्तृतीयः । “तत्सिद्धौ सिद्धिमाप्नोति” इति
साध्यसिद्धिपादश्चतुर्थः । यथोक्तम् “परस्परं मनुष्याणां
स्वार्थविप्रतिपत्तिषु । वाक्यान्न्यायाद्व्यवस्थानं व्यवहार
उदाहृतः । भाषोत्तरक्रियासाध्यसिद्धिभिः क्रमवृत्तिभिः ।
आक्षिप्तश्चतुरंशस्तु चतुष्पादभिधीयत” इति । सम्प्रति
प्रत्युत्तरे तु साधनानिर्देशाद्भाषार्थस्यासाध्यत्वाच्च न साध्य
सिद्धिलक्षणः पादोऽस्तीति द्विपात्त्वमेव । उत्तराभिधाना-
नन्तरं सभ्यानामर्थिप्रत्यर्थिनोः कस्य क्रिया स्यादिति
परामर्शलक्षणस्य प्रत्याकलितस्य योगीश्वरेण व्यवहारपादत्वे-
नानभिधानात् व्यवहर्तृसम्बन्धाभावाच्च न व्यवहारपाद-
त्वमिति स्थितम् इति व्यवहारमातृका । एवं सर्वव्य-
वहारोपयोगिनीं व्यवहारमातृकामभिधायाधुना क्वचित्
व्यवहारविशेषे कञ्चिद्विशेषं दर्शयितुमाह” मिता० ।

व्यवहारिक त्रि० व्यवहारः प्रयोजनतयाऽस्त्यस्य ठन् । १

व्यवहारयोग्ये लोकप्रसिद्धे घटपटादौ स्त्रियां ङीप् ।
२ इङ्गदवृक्षे ३ लोकयात्रायां ४ सम्मार्ज्जर्न्या स्त्री मेदि० ।

व्यवहारिकसत्ता स्त्री कर्म० । १ व्यवहारोपयिके सत्त्वे

वेदान्तकल्पिते ब्रह्मभिन्नपदार्थमात्रस्य वस्तुतोऽसत्त्वेऽपि
व्यवहारयोग्ये सत्त्वे येन घटादि व्याह्रियते । तत्का-
र्य्यकरणोपयोगित्वेन कल्पिते घटादेरर्थक्रियाकारित्व-
लक्षणे २ सत्त्वे च ।

व्यवहार्य्य त्रि० वि + अव + हृ--ण्यत् । इदमित्थमेवेत्येवंरूपेण

१ व्यवहारविषये येन सह भोजनादिकमेकपङ्क्तौ क्रि-
यते २ तस्मिंश्च जने ।

व्यवहित त्रि० वि + अव + धा--क्त । व्यवधानवति पदार्थे ।

व्यवाय पु० वि + अव + इण--घञ् । १ ग्राम्यधर्मे मैथुने अमरः ।

२ अन्तर्द्धाने च ३ तेजास न० मेदि० । ४ शुद्धौ पु० जटा० ।

व्यवायिन् त्रि० वि + अव + इण--णिनि । ग्राम्यधर्मकारके

स्त्रियां ङीप् ।

व्यसन न० वि + अस--ल्युट् । १ विपत्तौ २ भ्रंशे कामजाते

कोपजाते च स्त्रीभोगमद्यपानादौ ३ दोषे ४ दैवादिकृते
उपद्रवे च ५ पापे ६ निष्फलाद्यमे मेदि० ।
“व्यसनान्याह मनुः कामजेषु प्रसक्तो हि व्यसनेषु
महीपतिः । वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्व त्मनैव तु ।
मृगया १ क्षो २ दिवास्वप्नः ३ परीवाद ४ स्त्रियो ५ मदः ६ ।
“तौर्य्यत्रिकं ७ । ८ । ९ वृथाढ्या १० च कामजो दशकोगणः ।
पैशुन्यं १ साहसं २ द्रोह ३ ईर्षा ४ ऽसूया ५ र्थदूषणम् ६ ।
बाग्दण्डजञ्च पारुष्यं ७ । ८ क्राधजोऽपि गणोऽष्टकः” ।
तौर्य्यत्रिकं नृत्यगोतवाद्यानि त्रीणीति दश । पैशु
न्यमविज्ञातपरदोषाविष्करणम् । साहसं साधोर्बन्धना-
दिना निग्रहः । द्रोहो जिघांसा । ईर्षा अन्यगुणास-
हिष्णुता । असूया परगुणेष दोषाविष्करणम् । अर्थ-
दषणम् अर्थानामपहरणं देयानामदानञ्च” मल० रघु० ।

व्यसनार्त्त त्रि० व्यवसनेनार्त्तः । २ दैवाद्युपद्रवयुक्ते ।

व्यसनिन् त्रि० व्यसनमस्यास्ति इनि । १ व्यसनयुक्ते कामजा-

दिमद्यपानादिरूपदोषयुक्ते २ दैवाद्युपद्रुते च हेमच० ।

व्यसु त्रि० विगताः असवो यस्य । १ मृते “शेषे जातो भवेद्-

व्यसुः” ज्योतिषम् ।

व्यस्त त्रि० वि + अस--क्त। १ व्याकुले २ व्याप्ते मेदि० ३ विभक्ते

च “व्यस्तरात्रिंदिवस्य ते” कुमारः । ४ विपरीते “एतद्-
व्यस्तं महाघोरम्” ति० त० । “व्यस्तविधिर्विलोमे” लीला०
पृष्ठ ४९८६
५ ससुदितपदार्थमध्ये एकैकस्मिन् । “एते व्यस्ता समस्ता वा”
विश्वामित्रः । ६ समस्तभिन्ने च भावे क्त । ७ व्यतिक्रमे त्रि०

व्याकरण पु० व्याक्रियन्ते व्युत्पाद्यन्ते अर्थवत्तया प्रतिपा-

द्यन्ते शब्दा येन वि + आ + कृ--करणे ल्युट्! वेदाङ्गे
शब्दसाधुतावोधके १ शास्त्रभेदे वेदान्तोक्ते नामरूपाभ्यां
२ जगतोविकाशने च
“अथ व्याकरणं वक्ष्ये कात्यायन! समासतः । सिद्ध-
शब्दविवेकाय बालव्युत्पत्तिहेतवे । सुप्तिङ्न्तं पदं
ख्यातं सुपः सप्त विभक्तयः । स्वोजसः प्रथमा प्रोक्ता सा
प्रातिपदिकार्थके । सम्बोधने च लिङ्गादावुक्ते कर्मणि-
कर्त्तरि । अर्थवत् प्रातिपदिकं धातुप्रत्ययवर्ज्जितम् ।
अमौट्शसो द्वितीया स्यात् तत्कर्म क्रियते च यत् ।
द्वितीया कर्मणि प्रोक्ता उक्तानुक्ताविभेदतः । टाभ्या-
भिसस्तृतीया स्यात् करणे कर्त्तरीरिता । येन क्रियते
तत्करणं तत्कर्त्ता यः करोति सः । ङेभ्यांभ्यसश्चतुर्थी
स्यात् सम्प्रदाने च कारके । यस्मैदित्सा धारयते रोचते
सम्प्रदानकम् । पञ्चमी स्यात् ङसिभ्यांभ्योह्यपादाने च
कारके । यतोऽपैति समादत्ते अपादानं भयं यतः ।
ङसोसामश्च षष्ठी स्यात् स्वामिसम्बन्ध उख्यते । ङ्योस्
सुपश्च सप्तमी स्यात् सा चाधिकरणे भवेत् । आधारश्चा-
धिकरणं रक्षार्थानां प्रयोगतः । ईप्सितं चानीप्सितं
यत्तदपादानकं स्मृतम् । पञ्चमी पर्य्युपाङ् योग
इतरर्त्तेन्यदिङ्मुखे । एनब्योगे द्वितीया स्यात् कर्मप्रवच-
नीयकैः । लक्षणवीप्सेत्थंभूतेऽभिर्भागे च परिप्रती ।
अनुस्तेषु सहार्थे च हीनेऽनूपौ च कीर्त्ततौ । द्वितीया
च चतुर्थी स्याच्चेष्टायां गतिकर्मणि । अप्राणेहि विमक्ती
द्वेमन्यकर्मण्यनादरे । नमःस्वस्तिस्वधास्वाहालंवषट्-
योग ईरिता । चतुर्थी चैव तादर्थ्ये तुमर्थाद्भाववा-
चिनः । तृतीया सहयोगे स्यात् कुत्सितेऽङ्गे विशेषणे ।
काले भावे सप्तमी स्यादेतैर्योगे च षष्ठ्यपि । स्वामीश्वरा-
धिपतिभिः साक्षिदायादसूतकैः । निर्द्धारणे द्वे विभक्ती
षष्ठी हेतुप्रयोगके । स्मृत्यर्थकर्मणि तथा करोतेः प्रति-
यत्नके । हिंसार्थानां प्रयोगे च कृति कर्मणि कर्त्तरि ।
न कर्त्तृकर्मणोः षष्ठी निष्ठादौ प्रतिपादिता । द्विविधं
प्रातिपदिकं प्रातिपदिकमज्झलम् । भुवादिम्यस्तिङो लः
स्याल्लकारा दश वै स्मृताः । तिप्तसन्तयः प्रथमो मध्यः
सिप्थस्थास उत्तमः । मिब्वस्मसः परस्मै तु पदानाञ्चात्म-
नेपदम् । तामातामन्तां प्रथमो मध्यख्यासाथांध्वं तथा ।
उत्तम इर्वहिमही ङितः कर्त्तरि धातुतः । नाम्नि
प्रयुज्यमानेऽपि प्रथमः पुरुषो भवेत् । मध्यमो युस्मदि
प्रोक्त उत्तमः पुरुषोऽस्मदि । भुवाद्या धातवः प्रोक्ताः
सनाद्यन्तास्तु धातवः । लडीरितो वर्तमाने स्मेनातीते च
धातुतः । भूतानद्यतने लिट् च लिङाशिषि च
धातुतः । विध्यादावेवानुमतौ लिङ्विधिर्मन्त्रणे भवेत् ।
निमन्त्रणाधीष्ट संप्रश्न प्रार्थनेषु तथाऽऽशिषि । लिड़तीते
परोक्षे स्याल्लङ्लुङ्, ऌट् ऌङ् भविष्यति । स्यादद्य-
तने ऌट् च भविष्यति च धातुतः । धातोरॢङ्क्रिया-
तिपत्तौ लिङर्थे लोट् प्रकीर्त्तितः । कृतस्त्रिष्वपि वर्तन्ते
भावे कर्मणि कर्त्तरि । शतृ शानच् तव्यण्यद् यदनीयर्
क्य तृचादयः” गारुड़े २०९ अ० ।

व्याकुल त्रि० वि + आ + कुल--क । रोगादिना इतिकर्त्तव्य-

तानिश्चयविहीने अमरः ।

व्याकृत त्रि० वि + आ + कृ--क्त । १ प्रकाशिते २ नामरूपाभ्यां प्रकटीकृते ।

व्याकृति स्त्री वि + आ + कृ--क्तिन् । १ भङ्गौ हला० २ प्रकाशने ।

करणे क्तिन् । ३ व्याकरणे च । श व्याक्रिया तत्रार्थे
“व्याक्रियाव्यञ्जनीया वा जातिः कापीह साधुता” हरिका०

व्याकोश(ष) त्रि० वि + आ + कुश(ष) अच् व्यागतः कोशा-

(षा)त् प्रा० स० वा । १ प्रफुल्ले अमरः “व्याकोशे(षे)न्दी-
वराक्षी” इति तन्त्रम् ।

व्याख्या स्त्री वि + आ + ख्या--अच् । विवरणात्मके शब्दसमूहरूपे १ ग्रन्थभेदे २ कथने च ।

व्याख्यात त्रि० वि + आ + ख्या--क्त । १ कथिते २ विवृते च ।

व्याघात त्रि० वि + आ + हन--घञ् । १ अन्तराये २ प्रहारे

मेदि० ३ अर्थालङ्कारभेदे अलङ्कारशब्दे ४०५ पृ० दृश्यम् ।
४ प्रतिबन्धे “व्याघातावधिराशङ्का” कुसुञ्जलिः । विष्क-
म्भादिसप्तविंशतियोगमध्ये ५ त्रयोदशे योगे च ।

व्याघ्र पुंस्त्री० वि + आ + घ्ना--क । १ जन्तुभेदे अमरः स्त्रियां

ङीष् । २ रक्तैरण्डे ३ करञ्जे च पु० मेदि० ।

व्याघ्रदल पु० व्याघ्रस्तत्पाद इव दलमस्य । एरण्डवृक्षे शब्दच० ।

व्याघ्रनख न० व्याघ्रस्य नखोऽस्त्यस्य आकारे अच् ।

१ नखीनामगन्धद्रव्ये अमरः । व्याघ्रस्य नख इव दला०
न्यस्य । २ स्नुहीवृक्षे शब्द च० । ३ कन्दभेदे । ४ नखक्षते
च मेदि० ६ त० । ५ व्याघ्रस्य नखे ।

व्याघ्रनायक पुंस्त्री० व्याघ्रं नयति स्थानान्तरं प्रापयति

पश्चात् क्राशनेन नी--ण्वुल् । शृगाले (फेउ) राजनि०
तस्य पश्चात्क्रोशनेन व्याघ्रस्य स्थानान्तरप्रापकत्वेन
तधात्वं स्त्रियां ङीष् ।
पृष्ठ ४९८७

व्याघ्रपाद(द्) पु० व्याघ्रस्य पादैव मूलमस्य वा अन्त्यलोपः ।

१ विकङ्कतवृक्षे अमरः । २ मुनिभेदे च ३ विकङ्कटवृक्षे
राजनि० ।

व्याघ्रपुच्छ पु० व्याघ्रस्य पुच्छैव दलमस्य । १ एरण्डवृक्षे अमरः । ६ त० । २ व्यघ्रलाङ्गूले च ।

व्याघ्राट पुंस्त्री० व्यघ्र इवाटति अट--अच् । भरद्वाजखगे

अमरः स्त्रियां ङीष् ।

व्याघ्रादनी स्त्री व्याघ्रेणाद्यते अद--ल्युट् ङीप् । त्रिवृतायाम् अमरः ।

व्याघ्रास्य पुंस्त्री० व्याघ्रस्येवास्यं यस्य । विड़ाले शब्दच० ।

स्त्रियां टाप् ।

व्याघ्री स्त्री व्याघ्रस्तन्नखाकारः कण्टकोऽस्त्यस्याः अच् गौरा०

ङीष् । १ कण्ठकारिकायाम् अमरः । जातौ ङीष् ।
२ व्याघ्रयोषिति ।

व्याज पु० वि + अज + घञ् वीभावाभावः । १ कपटे बञ्चना-

फले २ असत्यव्यवहारे कारणान्तरेण ३ प्रवृत्तस्य कारणा-
न्तरत्वेनोद्भावनरूपे अपदेशे च अमरः ।

व्याजनिन्दा स्त्री ३ त० । १ कपटनिन्दायाम् २ अर्थालङ्कार-

भेदे च अलङ्कारशब्दे ४०४ पृ० दृश्यम् ।

व्याजस्तुति स्त्री० ३ त० । १ कपटस्तुतौ २ अर्थालङ्कारभेदे च

अलङ्कारशब्दे दृश्यम् ।

व्याजोक्ति स्त्री ३ त० । १ छलेनोक्तौ २ अर्थालङ्कारभेदे च अलङ्कारशब्दे ४०४ पृ० दृश्यम् ।

व्याड पु० वि + आ + अड--अच् । १ मांसभक्षके व्याघ्रादौ पशौ

२ सर्पे अमरः । ३ इन्द्रे शब्दच० । ४ वञ्चके त्रि० रायमु० ।

व्याडायुध न० व्याडस्य व्याघ्रस्यायुधं नख इवास्त्यम्य अच् ।

व्याघ्रनखाख्ये गन्धद्रव्ये अमरः ।

व्याडि पु० व्याकरणस्य संग्रहाख्यग्रन्थकारके १ कोषकारके च ३ मुनिभेदे त्रिका० ।

व्यात्युक्षी स्त्री वि + अति + उक्ष--भावे व्यतिरारे णच् स्वार्थे

अण् ङीप् । परस्परसेचनरूपे जलक्रीड़ाभेदे ।

व्यादिश पु० वि + आ + दिश--क । १ विष्णौ विष्णुस० २ विशे-

षेण आदेशके त्रि० ।

व्याध पुंस्त्री० व्यध--ण । मृगहिंसके क्षत्रियात् सर्वस्विपत्न्यां

जाते १ सङ्कीर्णजातिभेदे पुंस्त्री० स्त्रियां ङीष् ।
“नापितात् गोपकन्यायां सर्वस्वी तस्य योषिति । क्षत्त्राद्
बभूव व्याधश्च बलवान् मृगहिंसकः” ब्रह्मवै० व्र० १० अ० ।
२ दुष्टे त्रि० मेदि० । भावे घञ् । ३ वेधने ४ पीड़ने च ।

व्याधभीत पुंस्त्री० व्याधाद्भीतः भी--क्त । मृगे शब्दच० ।

स्त्रियां ङीष् ।

व्याधाम पु० व्याधेन पीड़नेन अमयति अम--णिच्--अच् । वज्रे हेमच० ।

व्याधि पु० वि + आ + धा--कि । १ रोगे व्याधिश्च योगान्तराय-

भेदः चित्तविक्षेपशब्दे २९४१ पृ० दृश्यम् । २ कुष्ठरोगे
अमरः । ३ कामकृते नायकयोरवस्थाभेदे सा० द० ।

व्याधिघात पु० व्याधिं हन्ति--हन--अण् । आरग्बधे

(सोन्दाल) अमरः ।

व्याधित त्रि० व्याधिर्जातोऽस्य तार० इतच् । व्याधियुक्ते अमरः ।

व्याधिहन्तृ पु० व्याधिं हन्ति हन--तृच् । १ वाराहीकन्दे

राजनि० २ रोगनाशके त्रि० स्त्रियां ङीप् ।

व्याधु(धू)त त्रि० वि + आ + धु--(धू)--क्त । कम्पिते शब्दर० ।

व्यान पु० वि + अन--घञ् । देहस्थे सर्वशरीरव्यापके प्राणा-

दिमध्ये वायुभेदे “विष्वगननवान् वायुर्व्यान इत्यभिधी-
यते” वेदान्तमतम् “व्यानो व्यानयत्यन्नं सर्वव्याधिप्रको-
पनः । महारजतसुप्रख्यो हानोपादानकारणम् । स
चाक्षिकर्णयोर्मध्ये कट्यां वै गुल्फयोरपि । ध्राणे
गलेस्फिगुद्देशे तिष्ठत्यत्र निरन्तरम् । स्कन्धयत्यधरं वक्त्रं
गात्रनेत्रे प्रकोपनः” पदार्थादर्शः ।

व्यापक त्रि० विशेषेणाप्नोति वि + आप--ण्वुल् । १ अधिक-

देशवृत्तौ “व्यापकत्वात् परापि स्यात्” भाषा० । न्यायोक्ते
स्वाधिकरणवृत्त्यभावाप्रतियोगिनि च २ पदार्थे ३ तन्त्रोक्ते
सर्वाङ्गसम्बन्धिनि न्यासभेदे पु० “अङ्गुलिव्यापकन्यासौ”
तन्त्रसा० । ४ आच्छादके त्रि० अमरः ।

व्यापन्न त्रि० वि + आ + पद--क्त । १ मृते हेमच० २ विपद्युक्ते च अमरः ।

व्यापाद पु० वि + आ + पद--घञ् । १ द्रोहचिन्तने हेमच० ।

व्यापादन न० वि + आ + पद--णिच्--ल्युट् । १ मारणे हेमच०

२ परानिष्टचिन्तने अमरः ।

व्यापार पु० वि + आ + पृ--घञ् । “व्यापारो भावना सैवोत्पा-

दना सैव च क्रिया” हर्य्युक्तायां १ भावयितुः उत्पादन-
क्रियायाम् । बणिजो २ व्यवसाये च ।
करणजन्ये करणजन्यक्रियाजनके ३ पदार्थे यथा
दात्ररूपकरणजन्यः तज्जन्यच्छेदजनकः छेद्यसंयोगादि
एवमिन्द्रियस्य व्यापारः विषयसंयोगा । “विषयेन्द्रिय-
संयोगो व्यापारः सोऽपि षड्विधः” भाषा० । एवं यागादेः
व्यापारः अदृष्टम् । व्यापारवत् कारणं करणमिति ।
“क्रियायाः परिनिष्पत्तिर्यड्यापारादनन्तरम् । विवक्ष्यते
यदा यत्र करणं तत्तदा स्मृतम्” हरिकारिका ।

व्यापारिन् त्रि० व्यापारोऽस्त्यस्य इनि । १ व्यापारवति कर

णादौ “न हि व्यापारेण व्यापारिणोऽन्यथा सिद्धि” ।
२ व्यवसायवति वणिग्जने पु० ।

व्यापिन् त्रि० वि + आप--णिनि । १ व्यापके स्त्रियां ङीप् । शवष्णौ पु० विष्णुस० ।

पृष्ठ ४९८८

व्यापृत त्रि० वि + आ + पृ--क्त । १ व्यापारयुक्ते २ कर्मसचिवे

हेमच० ।

व्याप्त त्रि० वि + आप + --क्त । १ पूर्णे हेमच० । २ समाक्रान्ते

२ ख्याते च मेदि० । ४ स्थापिते ५ व्याप्तियुते च “समेन
यदि नो व्याप्तः” उदयनाचार्य्यः ।

व्याप्ति स्त्री वि + आप--क्तिन् । १ ऐश्वर्य्यभेदे न्यायमते तद

भाववति अविद्यमानत्वरूपे २ पदार्थे यथा वह्नेरभाव-
वति जलादौ धूमो नास्तीति धूमादौ वह्नेर्व्याप्तिः ।
“व्याप्तिः साध्यवदन्यस्मिन्नसम्बन्ध उदाहृतः । अथ वा
हेतुवन्निष्ठविरहाप्रतियोगिना । साध्येन हेतोरैकाधि-
रण्यं व्याप्तिरुच्यते” भाषा० । प्रमेयत्ववद्भिन्नस्याप्रसिद्धे
द्वितीयलक्षणमुक्तम् । प्रतियोग्यनधिकरणीभूतहेत्वधिकर-
णवृत्त्यभावप्रतियोगितानच्छेदकसाध्यतावच्छेदावच्छिन्नसा-
मानाधिकरण्यं व्याप्तिरिति द्वितीयलक्षणार्थः । व्याप्तिश्च
द्विविधा अन्वयव्याप्तिर्व्यतिरेकव्याप्तिश्च तत्रान्वयव्याप्तिः
पूर्वोक्ता । “साध्याभावव्यापकत्वं हेत्वभावस्य यत् भवेत्”
भाषा० उक्ता अपरा सा च साध्याभावव्यापकीभूताभाव-
प्रतियोगितारूपा । तत्रान्वयव्याप्तिज्ञाने व्यभिचारज्ञा-
नाभावः सहकारज्ञानञ्च कारणम् । व्यतिरेकव्याप्ति
ज्ञाने च साध्याभावे हेत्वभावस्य सहचारज्ञानं व्यभि-
चारज्ञानभावश्च कारणम् । “व्यभिचारस्याग्रहोऽपि
सहचारग्रहस्तथा । हेतुर्व्याप्तिग्रहे, तर्कः क्वचिच्छङ्का-
निवर्त्तकः । द्वैविध्यन्तु भवेत् व्याप्तेरन्वयव्यतिरेकतः”
भाषा० । धूमो यदि वह्निव्यभिचारी स्यात् तदा वह्नि-
जन्यो न स्यादित्यादितर्केण व्यभिचारशङ्का निर्वर्त्त्यते
इत्याकरे दृश्यम् । उपाधिस्तु व्यभिचारोन्नायकतया
व्याप्तिज्ञानविघटकतया अनुमितिविरोधी उपाधिशब्दे
१३४८ पृ० दृश्यम् ।

व्याप्य त्रि० वि + आप--ण्यत् । १ व्याप्ते २ अल्पदेशवृत्तौ “व्या-

प्यत्वादपराऽपि च” भाषा० । ३ अनुमितिसाधने लिङ्गे
न० ४ साघनमात्रे ५ कुष्ठौषधौ च अमरः ।

व्याम पु० वि + अम--घञ् । तिर्य्यक्पार्श्वतो विस्तृतयोर्बाह्वो-

रन्तरालपरिमाणे हेमच० ।

व्यायत त्रि० वि + आ + यम--क्त । १ दीर्घे २ व्यापृते ३ दृढ़े

४ अतिशये च मेदि० । भावे--क्त । ५ दैर्घ्ये ६ आयामे च
न० मेदि० ।

व्यायाम पु० वि + आ + यम--घञ् । १ श्रमे २ श्रमसाधने व्यापारे

३ पौरुषे ४ दुर्गसस्कारे ५ विषमे मेदि० ६ मल्लानां श्रम-
कारके व्यापारे (कुस्ति) ७ व्यामपरिमाणे च हेमच० ।

व्यायोग पु० वि + आ + युज--घञ् । दृश्यकाव्यभेदे सा० द० तल्ल-

क्षणमुक्तं यथा “ख्यातेतिवृत्तोव्यायोगः स्वल्पस्त्रो-
जनसंयुतः । हीनोगर्भविमर्षाभ्यां नरैर्बहुभिराश्रितः ।
एकाङ्कश्च भवेदस्त्रीनिमित्तसमरोदयः । कौशिकीवृत्ति-
रहितः प्रख्यातस्तत्र नायकः । राजर्षिरथवा दिव्यो
भवेद्धोरोद्धतश्च सः । हास्यशृङ्गारशान्तेभ्य इतरेऽत्राङ्गिनो-
रसाः” यथा सौगन्धिकाहरणधनञ्जयविजयादि” ।

व्याल पुंस्त्री० वि + अड--घञ् डस्य लः । १ सर्पे २ हिंसकपशौ

अमरः । स्त्रियां ङीष् । ३ दुष्टगजे च मेदि० ४ चित्रके
व्याघ्रे पुंस्त्री० राजनि० स्त्रियां ङीष् । नृपे पु० ५
मथुरेशः । ६ शठे त्रि० अमरः ७ धूर्त्ते त्रि० ।

व्यालगन्धा स्त्री व्यालस्येव गन्धो लेशोऽस्याः । नाकुल्याम् राजनि० ।

व्यालग्राह पु० व्यालान् सर्पान् गृह्णाति ग्रह--अण् ।

(सापुड़े) सर्पधारिणी भरतः । णिनि । अत्रैव शब्दर० ।
“व्यालग्राही यथा व्यालं बलादुद्धरते बिलात्” शु० त०
काशीख० ।

व्यालजिह्वा स्त्री व्यालस्य सर्पस्य जिह्वेव पत्रमस्याः । महा । समङ्गायाम् राजनि० ।

व्यालदंष्ट्र पु० व्यालस्य व्याघ्रस्य दंष्ट्रेव कण्ठकमस्य । गोक्षुरे

राजनि० ।

व्यालनख पु० व्यालस्य व्याघ्रस्य नखैव । गन्धद्रव्यभेदे व्यालदलोऽप्यत्र ।

व्यालपत्रा स्त्री व्यालस्य पाद इव पत्त्रमस्याः । एवारो

कर्कटीभेदे राजनि० ।

व्यालम्ब पु० विशेषेण आलम्बते वि + आ + लवि--अच् ।

१ रक्तैरण्डे वैद्यकम् । विशेषेण २ लम्बमने त्रि० ।

व्यालायुध न० व्यालस्य व्याघ्रस्यायुधं नख इव । १ नखीनाम-

गन्धद्रव्ये मथुरेशः । २ व्यालनखाख्ये गन्धद्रव्ये पु० राजनि०

व्यावक्रोशी स्त्री वि + अव + क्रुश--णच् स्वार्थे अण् ङीप् ।

परस्पराक्रोशे ।

व्यावर्त्त पु० विशेषेण आवर्त्तते वि + आ + वृत--अच् । नाभिकण्टके शब्दर० ।

व्यावहारी स्त्री वि + अव + हृ--णच् स्वार्थे अण् ङीप् ।

परस्परहरणे ।

व्यावहासी स्त्री वि + अव + हस--णच् स्वार्थेऽण् ङीप् । परस्परहसने ।

व्यावृत्त त्रि० वि + आ + वृत--क्त । १ वृते हेमच० २ निवृत्ते

च “व्यावृत्तगतिरुद्याने” कुमारः ।

व्यावृत्ति स्त्री वि + आ + वृत--क्तिन् । निवारणे ।


पृष्ठ ४९८९

व्यास पु० व्यस्यति वेदान् वि + अस--घञ् । १ पराशरसुते

मुनिभेदे व्यासश्च नारायणस्य पञ्चकलावतारभेदः यथोक्तं
ब्रह्मवै० पु० ४ अ० “व्यासः पुराणसूत्रञ्च पप्रच्छ बाल्मिकं
यदा । मौनीभूतः स सस्मार त्वामेव जगदम्बिकाम् ।
तदा चकार सिद्धान्तं त्वद्वरेण मुनीश्वरः । संप्राप निर्मलं
ज्ञानं भ्रमान्धध्वंसदीपकम् । पुराणसूत्रं श्रुत्वा स
व्यासः पञ्चकलोद्भवः । त्वां सिषेवे प्रदध्यौ च शतवर्षञ्च
पुष्करे । तदा त्वत्तोवरं प्राप्य स कवीन्द्रो वभूव ह ।
तदी वेदविभागञ्च पुराणञ्च चकार ह” । स च कन्याकाले
सत्यवत्यां पराशराज्जातः कालीनशब्दे १९९३ पृ० दृश्यम्
वेदव्यासशब्दोक्तेषु मुनिभेदेषु च २ समासादिसमा-
नार्थके विग्रहवाक्ये ४ विस्वारे अमरः वृत्तक्षेत्रस्य
मध्यस्थरेखायाम् “व्यासे भनन्दाग्निहते” लीला० क्षेत्र-
शब्दे २४०१ पृ० दृश्यम् । “यएवं वाचयेद्विप्रा स
ब्रह्मन्! व्यास उच्यते” इत्युक्ते ५ पुराणपाठके विप्रे च
६ मानभेदे शब्दर० ।

व्यासक्त त्रि० वि + आ + सन्ज--क्त । १ आसक्ते तत्परे २ संलग्ने च ।

व्यासङ्ग पु० वि + आ + सन्ज--घञ् । १ कार्य्यान्तरत्यागेनैकपरत्वे

२ आसक्तौ च ।

व्यासिद्ध त्रि० वि + आ + सिध--क्त । १ राजाज्ञयावरुद्धे मेदि० २ निषिद्धे च ।

व्याहत त्रि० वि + आ + हन--क्त । व्याघातयुक्ते ।

व्याहार पु० वि + आ + हृ--घञ् । १ वाक्ये २ उक्तौ अमरः ।

व्याहृति स्त्री वि + आ + हृ--क्तिन् । १ उक्तौ २ भूर्भूवःस्वरा-

दिषु सप्तषु भूर्भूवःस्वरादिलोकसप्तात्मकेषु मन्त्रभेदेषु च
सप्त लोकाः पुनरेताः सप्त व्याहृतय एवेति योगियाज्ञ-
वल्क्येन प्रतिपादितम् यदाह “भूराद्याश्चैव सत्यान्ता
सप्त व्याहृतयस्तथा । लोकास्ता एव सप्तैते उपर्य्यु-
परिसंस्थिताः” । तथा “सप्त व्यहृतयः प्रोक्ताः पुरा य स्तु
स्वयम्भुवा । ता एव सप्त छन्दांसि लोकाः सप्त प्रकीर्त्तिताः”
यया च वासनया सप्त व्यहृतयः सप्त लोकाः सा च
वासना योगियाज्ञवलक्येनैव निरुक्त्या विविच्य प्रतिपा-
दिताः यदाह “भवन्ति चास्मिन् भूतानि स्थावराणि
चराणि च । तस्माद्भूरिति विंज्ञेया प्रथमा व्याहृतिः
स्मृता । भवन्ति भूयो भूतानि उपभोगक्षये पुनः ।
कल्पान्ते उपभागाय भुवस्तस्मात् प्रकीर्त्तिता । शीतो-
ष्णवृष्टितेजांसि जायन्ते तानि वै सदा । आलयः सुकृ-
तीनाञ्च स्वर्लोकः स उदाहृतः । अधरोत्तरलोकेभ्या
महांस्तु परिपालितः । हृदयं सर्वलोकानां
महस्तेन निगद्यते । कल्पदाहप्रलीनास्तु प्राणिनस्तु पुनः
पुनः । जायन्ते तु पुनः सर्गे जनस्तेन निगद्यते । सन-
काद्यास्तपःसिद्धा ये चान्ये ब्रह्मणः सुताः । अधिकार
निवृत्ताश्च तिष्ठन्त्यस्मिंस्ततस्तपः । सत्यन्तु सप्तमो लोको
ब्रह्मणस्तदनन्तरम् । सर्वेषाञ्चैव लोकानां मूर्ध्नि
सतिष्ठते सदा । ज्ञानकर्मसु निष्ठानां तथा सत्यस्य भाषणात् ।
प्राप्यते चोपभोगार्थं प्राप्य न च्यवते पुनः । तत्सत्यं
सप्तमो लोकस्तस्मादूर्द्ध्वं न विद्यते” ।

व्युत्क्रम पु० वि + उद् + क्रम--घञ् । १ क्रमवैपरीत्ये २ अतिक्रमे च हेमच० ।

व्युत्थान न० वि + उद् + स्था--ल्युट् । १ विराधकरणे २ स्वाति-

न्त्र्यकरणे मेदि० ३ प्रतिरोधने ४ योगशास्त्वाक्ते समाध्यव-
स्थाप्रच्यवे हेमच० ५ नृत्यभेदे शब्दच० । ६ विशेषेण उत्थाने
च । वि + उद् + स्था--क्तिन् । व्युत्थितिरप्यत्र स्त्री ।

व्युत्पत्ति स्त्री वि + उद् + पद--क्तिन् । १ विशेषेण उत्पत्तौ

शास्त्रजन्येशब्दार्थज्ञानादिसम्पाद्ये संस्कारभेदे ३ शब्दा०
नामर्थावबोधकशक्तौ च ।

व्युत्पन्न त्रि० वि + उद् + पद--क्त । १ व्युत्पत्तियुक्ते शब्दे

ततसंस्कारयुक्ते २ पुरुषे च । ३ विशेषेणोत्पन्ने च ।

व्युदस्त त्रि० वि + उद् + अस--क्त । निराकृते ।

व्युदास पु० वि + उद् + अस + घञ् । निराकरणे ।

व्युष्ट त्रि० वि + उष--क्त वा० इडभावः । १ दग्धे २ पर्युषिते

३ प्रभाते च ४ फले ५ दिवसे च न० हेमच० ।

व्युष्टि स्त्री वि + उष--क्तिन् । १ समृद्धौ २ स्तुतौ ३ फले च

मेदि० व्युष्टित्रिरात्रं यागभेदः युक्तरोह्यादि ।

व्यूढ़ त्रि० वि + वह--क्त । १ निवेशनविशेषेण स्थापितेव्यूहयुक्ते

सैन्यादौ “व्यूढां द्रुपदपुत्रेण” गीता । २ विन्यस्ते ३ सहते
अमरः “व्यूढ़ोरस्को वृषस्कन्धः” रघुः । ४ पृथुले त्रि०
मेदि० ५ परिहिते ६ विवाहिते च त्रि० “व्यूढ़ा काचन
कन्यका” प्रबोधचन्द्रोदयः ।

व्यूढ़कङ्कट त्रि० व्यूढ़ापरिहितः कङ्कटः वर्म येन । सन्नद्धकवचे अमरः ।

व्यूत त्रि० वि + वे--क्त । तन्तुभिर्ग्रथिते ।

व्यूति स्त्री वि + वे--क्तिन् । १ वस्त्रादिवपनकर्मणि २ तद्वेतने (वानि) पदार्थे अमरः ।

व्यूह पु० वि + जह--घञ् । १ समूहे २ निर्माणे च ३ सम्यक-

तर्के ४ देहे ५ सैन्ये ६ युद्धार्थं सैन्यसन्निवेशनविशेषे अमरः ।
“समग्रस्य तु सैन्यस्य विन्यासः स्थानभेदतः । स व्यूह
इति विख्यातो युद्धेषु पृथिवीभुजाम् । व्यूहभेदाश्च
चत्वारो दण्डोभोगस्तु मण्डलम् । असंहतश्च निर्णीता
नीतिसारादिसम्मताः । अन्येऽपि प्रकृतिव्यूहाः क्रौञ्च
चक्रादयः क्वचित् । तिर्य्यग्वृत्तिश्च दण्डः स्याद् भोगोऽ-
न्वावृत्तिरेव च । मण्डल सर्वतो वृत्तिः पृथग्वृत्तिरसं-
पृष्ठ ४९९०
हतः” शब्दर० । शुक्रनीतिसारे तद्भेदादिकमुक्तं यथा
“नद्यद्रिवनदुर्गषु यत्र यत्र भयं भवेत् । सेनापतिस्तत्र
यत्र तच्छेद् व्यूहकृतैर्वलैः । यायाद् व्यूहेन महता
मकरेण पुरोभये । श्येनेनोभयपक्षेण सूच्या वा
धीरवक्त्रया । पश्चाद्भये तु शकटं पार्श्वयोर्वज्रसंज्ञकम् ।
सर्वतः सर्वतोभद्रं चक्रं व्यालमथापि वा । यथादेर्श
कल्पयेद् वा शत्रुसेनाविभेदकम् । व्यूहरचनसङ्केतान्
वाद्यभाषासमीरितान् । स्वसैनिकैर्विना कोऽपि न
जःनीयात् तथाविधान् । नियोजयेच्च मतिमान् व्यूहान्
नानाविधान् सदा । अश्वानाञ्च गजानाञ्च पदातीनां पृथक्
पृथक् । उच्चैः संश्रावयेद् व्यूहसङ्केतान् सैनिकान्
नृपः । वामदक्षिणसंस्थो वा मध्यस्थो वाऽग्रसंस्थितः ।
श्रुत्वा तान् सैनिकैः कार्य्यमनुशिष्टं यथा तथा । सम्मी-
लनं प्रसरणं परिभ्रमणमेव च । आकुञ्चनं तथा यानं
प्रयाणमपयानकम् । पर्य्यायेण च साम्मुख्यं समुत्थानञ्च
लुण्ठनम् । संस्थानं चाष्टदलचच्चक्रवद्गोलतुल्यकम् ।
सूचोतुल्यं शकटवदर्द्धचन्द्रसमन्तु वा । पृथग्भवनमल्पाल्पैः
पर्य्यायैः पङ्क्तिवेशनम् । शस्त्रास्त्रयोर्धारणञ्च सन्धानं
लक्ष्यभेदनम् । मोक्षणञ्च तथाऽस्त्राणां शस्त्राणां
परिधातनम् । द्राक् सन्धानं पुनः पातो ग्रहो मोक्षः पुनः
पुनः । स्वगूहनं प्रतीघातः शस्त्रास्त्रपदविक्रमैः । द्वाभ्यां
त्रिभिश्चतुर्भिर्वा पङ्क्तितो गमनं ततः । तथा प्राग्-
भवनं चापसरणं तूपसर्जनम् । अपसृत्यास्त्रसिद्ध्यर्थ-
मुपसृत्य विमोक्षणम् । प्राग्भूत्वा मोचयेदस्त्रं व्यूहस्थः
सैनिकः सदा । आसीनः स्याद्विमुक्तास्त्रः प्राग्वा
चापसरेत् पुनः । प्रागासीनं तूपसृतो दृष्ट्वा स्वास्त्रं विमो-
चयेत् । एकैकशो द्विशो वापि सङ्घशो बोधितो यथा ।
क्रौञ्चानां खे गतिर्यादृक् पङ्क्तितः सम्प्रजायते । तादृक्
सञ्चारयेत् क्रौञ्चव्यूहं देशबलं यथा । सूक्ष्मग्रीवं
मध्यपुच्छं स्थूलपक्षन्तु पङ्क्तितः । वृहत्पक्षं मध्यगल-
पुच्छं श्येनं मुखे तनु । चतुष्पान्मकरो दीर्घस्थूल-
वक्त्रद्विरोष्ठकः । सूची सूक्ष्ममुखो दीर्घसमदण्डान्तर-
न्ध्रयुक् । चक्रव्यूहश्चैकमार्गो ह्यष्टधा कुण्डलीकृतः ।
चतुर्दिक्ष्वष्टपरिधिः सर्वतोभद्रसंज्ञकः । अमार्गश्चाष्टवलयी
गोलकः सर्वतोमुखः । शकटः शकटाकारो व्यालो
व्यालाकृतिः सदा । सैन्यमल्पं वृहद्वापि दृष्ट्वा मार्गं रण
स्थलम् । व्यूहैर्व्यूहेन व्यूहाभ्यां सङ्करेणापि कल्प-
येत” ।

व्यूहपार्ष्णि पु० ६ त० । युद्धार्थमवस्थानविशेषेण स्थितसैन्यानां

पश्चाद्भागे अमरः ।

व्यृद्धि स्त्री विरुद्धा ऋद्धिः । विरुद्धसम्पत्तौ तत्रार्थे अव्ययो० ।

दुर्य्यवनम् यवनानां विरुद्धसम्पत्तौ सि० कौ० ।

व्ये स्यूनौ वृतौ च भ्वा० उभ० सक० अनिट यजा० । व्ययति

ते अव्यासीत् अव्यास्त विव्याय विव्यतुः । क्तऊतः ।

व्यो अव्य० व्ये--डो । १ लौहे व्योकारः २ वीजे च

व्योकार पु० व्यो + कृ--अण् । लौहकारके अमरः ।

व्योमकेश पु० व्योमैव केशो यस्य । शिवे महादेवे अमरः ।

व्योमकेशिन् पु० व्योमाकारः केशोऽस्त्यस्य इनि । महादेवे

व्योमचारिन् पु० व्योम्नि चरति चर--णिनि । १ विहगे

२ देवे ३ ग्रहनक्षत्रादौ च ४ आकाशगामिनि त्रि० व्योम-
चारिपुरं शौभनगरम् ।

व्योमधूम पु० व्योम्नः धूमैव नीलत्वात् । मेघे त्रिका० ।

व्योमन् न० व्ये--मनिन् पृषो० । १ आकाशे अमरः । २ अभ्रके

(आव) राजनि० । ३ जले च ४ सूर्य्यार्च्चाश्रये मेदि० ।

व्योममण्डल न० व्याम मण्डलमिव । मण्डलाकारे

१ आकाशे । व्योम्नो मण्डलमिव । २ पताकायाम् शब्दच० ।

व्योममुद्गर पु० व्योम्नोमुद्गर इव आथातहेतुत्वात् ।

गगनात् अकस्मादुत्थिते वायोर्निर्घाते हारा० ।

व्योमयान न० ७ त० । आकाशगमनयोग्ये वाहने विमाने अमरः ।

व्योष न० वि + उष--अच् । शुण्ठीमरीचपिष्पलीरूपे त्रिक-

टुनि अमरः ।

व्रज गतौ भ्वा० पर० सक० सेट् । व्रजति अव्राजीत् ।

व्रज संस्कारे गतौ च चु० उ० सक० सेट् । ब्राजयति ते अविव्रजत् ।

व्रज पु० व्रज--घञर्थे क । १ समूहे अमरः । २ गोष्ठे ३ पथि

मेदि० मथुरासमीपस्थे देशभेदे च
मात्स्ये “व्रजमण्डलभूगोलं शेषनागफणाम्बरम् ।
कुमादाख्यं महाश्रेष्ठं सर्वेषां मध्यसंस्थितम् । तस्यो-
परिस्थितं लोकं सर्वस्थानं महाफलम् । कृष्णलीला
विहारार्थमुच्चस्थानविराजितम् । चतुरष्टक ८४ क्रोशेन
परिपूर्णविराजितम् । अस्य प्रदक्षिणां कुर्वन् धनधान्यसुखं
लभेत् । दानार्च्चावासतो लोको विष्णुलोकमवाप्नु-
यात् । आवसन् म्रियते चेत्तु पुनर्जन्म न विद्यते । पुण्यं
लक्षगुणं लब्ध्वा कृतेऽस्मिन् व्रजमण्डले । कृष्णेन
निर्मितास्तीर्थाः सार्द्धद्वयसहस्रकाः” । तत्रादौ वनोपवन
प्रतिवनाधिवनान्यष्टचत्वाविंशत् तानि चतुरष्टक्रोशपरि-
माणस्थितानि चतुर्भागशोऽभ्यन्तरस्थितानि क्रमश आह ।
पृष्ठ ४९९१
पाद्मे “वनानि द्वादशान्याहुर्यमुनोत्तरदक्षिणे । महावनं १
महाश्रेष्ठं वरं काम्यवनं २ शुभम् । कोकिलाख्यं
तृतीयञ्च ३ तुर्य्यं तालवनं ४ तथा । पञ्चमं कुमुदाख्यञ्च ५
षष्ठं भाण्डीरसंज्ञकम् ६ । नाम्ना छत्रवनं ७ श्रेष्टं स
प्तमं परिकीर्त्तितम् । अष्टमं खदिरं ८ प्रोक्तं नवमं
लीहजं वनम् ९ । नाम्ना भद्रवर्न १० श्रेष्ठं दशमं
बहुपुण्यदम् । एकादशं समाख्यातं बहुलावनसंज्ञकम् ११ ।
नाम्ना विल्ववनं १२ श्रेष्ठं द्वादशं कामनाप्रदम् । इति
द्वादशसंज्ञानि वनानि शुभदानि च” । द्वादशोपवना-
न्याह नाराहे “आदौ ब्रह्मवनं १ नाम द्वितीयं त्वप्स०
रोवनम् २ । तृतीयं विह्वलं ३ नाम कदम्बाख्यं ४
चतुर्थकम् । नाम्ना स्वर्णवनं ५ श्रेष्ठं पञ्चमं परिकीर्त्ति-
तम् । सुरभीवननामा ६ पि षष्ठमाह्लादवर्द्धनम् । श्रेष्ठं
प्रेमवनं ७ नाम सप्तमं शुभदं नृणाम् । मयूरवन
नामा ८ पि चाष्टमं परिकीर्त्तितम् । मानेङ्गितवनं ९
श्रेष्ठं नवमं मानबर्द्धनम् । शेषशायिवनं १० श्रेष्ठं दशमं
पापनाशनम् । एकादशं समाख्यातं नारदाख्यं ११
शुभोदितम् । द्वादशं परमानन्दवनं १२ सर्वार्थदायकम् ।
इति द्वादशसंज्ञानि वनान्युपवनानि च” । द्वादशप्रतिव-
नानि भविष्ये “आदौ रङ्गवनं १ श्रेष्ठं पुरसंज्ञाविरा-
जितम् । वार्त्तावनं २ द्वितीयञ्च २ करहाटं ३ तृतीयकम् ।
चतुर्थं काम्यनामापि ४ वनं कामप्रदं नृणाम् । वनमञ्जन-
नामापि ५ पञ्चमं स्त्रीशुभप्रदम् । नाम्ना कर्णवनं ६ श्रेष्ठं
षष्ठं स्वप्नवरप्रदम् । कृष्णाक्षिपलकं ७ नाम वनं सप्तस-
मीरितम् । नन्दप्रेक्षणकृष्णाख्यं वनं नन्दन ८ मष्टमम् ।
वनमिन्द्रवनं ९ नाम नवमं कृष्णपूजितम् । शिक्षावनं १०
शुभं प्रोक्तं दशमं नन्दभासितम् । चन्द्राबलीवनं ११
श्रेष्ठमेकादशमुदाहृतम् । नाम्ना लोहवनं १२ श्रेष्ठं
द्वादशं शुभदं नृणाम् । इति प्रतिवनान्याहुर्मार्गे
वामे च दक्षिणे । इति द्वादशसंज्ञास्ते देवावासफल-
प्रष्टाः” । द्वादशाधिवनान्याह विष्णुपु० “मथुरा १ प्रयमं
नाम राधाकुण्डं २ द्वितीयकम् । नन्दग्राम ३ स्तृतीयश्च
गूढ़स्थानं ४ चतुर्थकम् । पञ्चमं ललिताग्रामं ५ वृषभानुपुर ६ ञ्च
षट् । सप्तमं गोकुलं स्थान ७ मष्टमं बलदेवकम् ८ ।
गोवर्द्धनवनं ९ श्रेष्ठं नवमं कामनाप्रदम् । वनं जाववटं १०
नाम दशमं परिकीर्त्तितम् । मुख्यं वृन्दावनं ११ श्रेष्ठमे-
कादशं प्रकीर्त्तितम । सङ्केतवटकं १२ स्थानं वनं द्वादशं
कीर्त्तितम् । इति द्वादशसज्ञानि वनान्यधिवनानि च ।
वनानामधिपाः प्रोक्ता व्रजमण्डलमध्यगाः । एषां नैव
विलोकेन वनयात्रा च निष्फला एषाञ्च दर्शनेनैव
वनयात्रा धुभप्रदा । आदौ लोलां यदा पश्येद्वनयात्रां
ततश्चरेत् । सर्वान् कामानवाप्नोति विष्णुलोकमवाप्नु-
यात् । सर्वत्र विजयी भूयाद्वनयात्राप्रभावतः” ।

व्रजनाथ पु० ६ त० । श्रीकृष्णे व्रजपालादयोऽप्यत्र ।

व्रजमोहन पु० व्रजान् व्रजस्थान् माहयति मुह--णिच्--ल्यु । श्रीकृष्णे

व्रजवर पु० व्रजानां तत्स्थानां वरः प्रार्थनोयः । श्रीकृष्णे ।

व्रजवल्लभ पु० ६ त० । श्रोकृष्णे ।

व्रजाङ्गना स्त्री ६ त० । व्रजस्य स्त्रियां गोप्याम् ।

व्रज्या स्त्री व्रज--क्यप् । १ पर्य्यटने २ गमने ३ जिगीषोर्युद्धार्थं

प्रयाणे च अमरः ।

व्रण शब्दे भ्वा० पर० अक० सेट् । व्रणति अव्राणीत् अव्रणीत् ।

व्रण अङ्गक्षतौ अद० चु० उ० सक० सेट् । व्रणयति ते अवव्रणत् त

व्रण पु० न० चु० व्रण--अच् । क्षते अमरः । तत्स्वरूपनि-

दानादि भावप्र० उक्तं यथा “व्रणो द्विधा परिज्ञेयो दोष
जागन्तुभेदतः । दोषजो दुष्टदोषैः स्यादन्यः शस्त्रादि-
सम्भवः” । तत्र वातिकस्य लक्षणमाह “स्तब्धः
कठिनसंस्पर्शो मन्दस्रावो महारुजः । तद्युतः स्फु-
टितश्यावो व्रणो मारुतसम्भवः” । स्तब्धः अचलः ।
पैत्तिकमाह “तृष्णामोहज्वरक्लेददाहदुःखावदारणैः ।
व्रणं पित्तकृतं विद्यात् स्रावैर्मन्दैश्च पूतिकैः” । क्लेद
आर्द्रता । दुःखं व्यथारूपम् । अवदारणं व्रणे विदा-
रणवत् पीड़ा । श्लैष्मिकमाह “बहुपिच्छो गुरुः
स्निग्वस्तिमितो मन्दवेदनः । पाण्डुवर्णोऽल्पसंक्लेदश्चिर-
पाकी कफव्रणः” । बहुपिच्छः बहुपिच्छिलः । अल्प
संक्लेद ईषदार्द्रः । रौधिरं द्वन्द्वजं सान्निपातिकमाह
“रक्तो रक्तस्रुतीरक्ताद् द्वित्रिजः स्यात् तदन्वयः” ।
तदन्वयः द्वित्रिदोषलिङ्गसम्बन्धः । शुद्धव्रणलिङ्गमाह
“जिह्वातलाभोऽतिमृदुः स्वस्थः स्निग्धोऽल्पवेदनः ।
सुव्यवस्थो निरास्रावः शुद्धव्रण इति स्मृतः । जिह्वातलाभः
तलशब्दोऽत्र स्वरूपार्थः तेन जिह्वावद्रक्तः । सुव्य-
वस्थः उच्छूनतारहितः । दुष्टव्रणनिङ्गमाह “पूतिपू-
यादिदुष्टासृक्स्राव्यूतसङ्गी चिरस्थितिः । दुष्टव्रणो-
ऽतिगन्धादिः शुद्धलिङ्गविपर्य्ययः” । उत्सङ्गी कोटर-
वान् । अतिगन्धादिः आदिशब्देन स्राववेदनाविवर्ण-
तादयः संगृह्यन्ते । संरोहिव्रणस्य लिङ्गमाह “कपोत-
वर्णप्रतिमा यस्यां तालोदवर्जिताः । स्थिराश्च पिड़का-
पृष्ठ ४९९२
वन्तो रोहन्तीति तमादिशेत्” । कपोतवर्णप्रतिमः
पाण्डुघूसरः । स्थिराः विदीर्णतारहिताः । पिडका-
वन्तः संरोहणार्था ये मांसाङ्कुरास्तद्युक्ताः । संरूढ़-
लिङ्गमाह “रूढ़वर्त्मानमग्रन्थिमशूलमरुजं व्रणम् ।
त्वक्सवर्णं समतलं सम्यग्रूढं विनिर्दिशेत्” ।
रूढवर्त्मानं संरूढस्रावमार्गम् । समतलं अनिम्नम् ।
सुखसाध्यत्वादिकमाह “त्वङ्मांसजः सुखे देशे तरुण-
स्यानुपदुवः । धीमतोऽभिनवः काले सुखे साध्यः
सुखव्रणः” । सुखे देशे मर्मरहिते । अनुपद्रवः ज्वरतृष्णा
श्वासकासारोचकादिरहितः । धीमतः पथ्यसेविनः ।
सुखे काले हेमन्ते शिशिरे च । “गुणैरन्थतरैरेभिर्हीनः
कृच्छो व्रणः स्मृतः । सर्वैर्विहीनो विज्ञेयस्त्वसाध्यो
निरुपक्रमः” । एभिस्त्वङ्मांसजत्वादिभिः । निरुपमक्रमः
अनुपक्रान्तः चिरमुपेक्षित इति यावत् । “वसामेदोऽथ-
मज्जानं मस्तुलिङ्गञ्च यः स्रवेत् । आगन्तुजो व्रणः सि
ध्येन्न सिध्येद्दोषसम्भवः” । मस्तुलिङ्गं मस्तुकाभ्यन्तर-
स्नेहः “कुष्ठिनां विषजुष्टानां शौषिणां मधुमेहिनाम् ।
व्रणाः कृच्छ्रेण सिध्यन्ति येषां चापि व्रणे व्रणः” ।
अरिष्टमाह “दह्यन्ते चान्तरत्यर्थं वहिःशीताश्च ये
ब्रणाः । दह्यन्ते बहिरत्यर्थं भवन्त्यन्तश्च शीतलाः ।
प्राणमांसक्षयश्वासकासारोचकपीड़िताः । प्रवृद्धपूयरु-
धिरा व्रणा ये चापि मर्मसु । क्रियाभिः सम्यगारब्धा
न सिध्यन्ति च ये व्रणाः । चिकित्सेन्नैव तान् वैद्यः
संरक्षन्नात्मनो यशः । मद्यागुर्वाज्यसुमनः पद्मचन्दन-
चम्पकैः । सगन्धा दिव्यगन्धाश्च मुमूर्षूणां व्रणाः
स्मृताः” । मर्मसु पायुनाभिहृदयादिषु । सुमना
जातिः । दिव्यगन्धाः पारिजातादिगन्धाः । अथागन्तु-
व्रणस्य निदानमाह “नानाधारामुखैः शस्त्रैर्नानास्थान
निपातितैः । भवन्ति नानाकृतयो व्रणास्तांस्तान्नि-
बोध मे” । नाना धारा मुखानि येषां तैः शस्त्रैः अर्द्ध-
चन्द्र खङ्गभल्लकुन्तशूलशरादिभिः । नानाकृतयः षड़ा-
कृतयः । ता आकृतीराह “छिन्नं भिन्नं तथा विद्धं
क्षतं पिच्चितमेव च । घृष्टमाहुस्तथा षष्ठं तेषां वक्ष्या-
मि लक्षणम्” । तत्र छिन्नस्य लक्षणमाह “तिर्य्यक्-
किन्न ऋजुर्वापि यो व्रणस्त्वायतो भवेत् । गात्रस्य
पातरं तद्धि छिन्नमित्यभिधीयत” । यो व्रणः तिर्य्यक्छिन्नः
खड्गादिकृततिर्य्यक्छेदयुतः । ऋजुर्वापि अथवा
खड्गादिकृतरक्तो व्रणः आयतः दीर्घः । आयत इति
तिर्य्यक्छिन्नस्य ऋजोश्च विशेषणम् । गात्रस्य पातन
गात्रस्यैकदेशस्य छेदेन पृथक्करणं वा छिन्नमित्यभिधी-
यते । भिन्नमाह “शक्तिकुन्तेषुखड्गाग्रविषाणैराशयो
हतः । यत् किञ्चित् प्रसरेत्तद्धि भिन्नमित्यभिधीयते” ।
आशयः कोष्ठः । कोष्ठभेदस्य लक्षणमाह “स्थानान्य-
नग्निपक्वानां मूत्रस्य रुधिरस्य च । हृदुण्डुकः
फुफुसश्च कोष्ठ इत्यभिधीयते । तस्मिन् भिन्ने रक्तपूर्णे
ज्वरोदाहश्च जायते । मूत्रमार्गगुदास्येभ्यो रक्तं थ्राणाच्च
गच्छति । मूर्च्छा श्वासस्तृषाध्मानमभक्तच्छन्द एव च ।
विण्मूत्रवातसङ्गश्च स्वेदश्यावोऽक्षिरक्तता । लोहगन्धि
त्वमास्यस्य गात्रदौर्गन्ध्यमेव च । हृदि शूलं पार्श्व-
योश्च विशेषश्चाभिधीयते” । तस्मिन् कोष्ठे । मिन्ने
शक्त्यादिभिः । रक्तपूर्णे कोष्ठे तस्मादङ्गाद्भिन्नात् स्रु-
तेन रक्तेन पूर्णे वा ज्वरादयो जायन्ते । आमाशये
पक्वाशये च रक्तपूर्णे लक्षणभेदमाह “आमाशयस्थे
रुधिरे रुधिरं छर्दयत्यपि । आध्मानमतिमात्रञ्च
शूलञ्च भृशदारुणम् । पक्वाशयगते रक्ते रुजा गौरवमेव
च । अधःकाये विशेषेण शीतता च भवेदिह” । रुजा-
शूलम् । गौरवं पक्वाशये । अधःकाये नाभेरधोदेशे
विशेषेण गौरवमित्यन्वयः । शीतता च भवेदिह इह
नाभेरधोदेशे शीतता च स्यात् सा च व्याधिस्वभा-
वात् । विद्धमाह “सूक्ष्मास्यशल्याभिहतं पदं गत्वा-
शयं विना । उत्तुण्डितं निर्गतं वा तद्विद्धमिति
निर्दिशेत्” । आशयं विना कोष्ठं विना । उत्तुण्डितं
अनिर्गतशल्यम् । निर्गतं वा निर्गतशल्यं वा । सशल्यस्य
व्रणस्य लक्षणमाह । “श्यावं सशोथं पिड़कायुतञ्च मुहु-
र्मुहुःशोणितवाहनञ्च । मृदूद्गतं बुद्बुदतुल्यमांसं
व्रणं सशल्यं सरुजं वदन्ति” । मुहुर्मुहुःशोणितवाहनं
यदा यदा शल्यं चलितं तदा तदा रुधिरं वहति ।
उद्गतं उत्थितमुखम् । कोष्ठस्थितस्य शल्यस्य लक्षणमाह
“त्वचोऽतीत्य सिरादीनि भित्त्वाङ्गं परिहृत्य वा । कोष्ठे
प्रतिष्ठितं शल्यं कुर्य्यादुक्तानुपद्रवान्” । त्वचः सप्तापि
अतिक्रम्य उक्तानुपद्रवान् आटोपानाहौ व्रणमुखेनात्र
पुरीषदर्शनञ्च । असाध्यस्य कोष्ठस्थरक्तस्य पुरोषस्य लक्ष-
णमाह “कोष्ठान्तर्ल्लोहितं पाण्डु शीतपादकराननम् ।
शीतोच्छासं रक्तनेत्रमानद्धञ्च विवर्जयेत्” । आनद्धं
आनाहवन्तम् । क्षतमाह “नातिच्छिन्नं नातिभिन्नमुभयो-
र्लक्षणान्विनम् । विषमं व्रणमङ्गे यत्तत् क्षतं परिकी-
पृष्ठ ४९९३
र्त्तितम्” । नातिच्छिन्नं नातिदीर्घघातम् । नातिभिन्नं
नातिगम्भीरघातम् । उभयोश्छिन्नभिन्नयोः विषमं
प्रणमङ्गे यत् यद्व्रणमङ्गवैषम्यकरम् । पिच्चितमाह
“प्रहारपीड़नाभ्यान्तु यदङ्गं पृथुतां गतम् । सास्थि
तत् पिच्चितं विद्याद्रक्तमज्जपरिप्लुतम्” । प्रहारो
मुद्गरादिना । पीड़नं कपाटादिना । पृथुतां चिपि-
टताम् । घृष्टमाह “घर्षणादपि घाताद् वा यदङ्गं
विगतत्वचम् । ऊष्मस्रावान्वितं तत् तु घृष्टमित्यभिधी-
यते । घर्षणात् कर्कशेष्टिकापाषाणादिभिः । मांस
सिरास्नायुसन्ध्यस्थिमर्मसु क्षतेषु सामान्यलक्षणमाह
“भ्रमः प्रलापः पतनं प्रगोहो विचेष्टनं ग्लानिरथो-
ष्णता च । स्रस्ताङ्गता मूर्च्छनमूर्द्ध्ववातस्तीव्रा रुजो
वातकृताश्च तास्ताः । मांसोदकाभं रुधिरञ्च गच्छेत्
सर्वेन्द्रियार्थोपरमस्तथैव । दशार्द्धसंख्येष्पथ विक्षतेषु सामा-
न्यतो मर्मसु लिङ्गमुक्तम्” । पतनं भूमौ । विचेष्टनं
विरुद्धं चेष्टनं हस्तपादादिप्रक्षेपणादिकम् । मूर्च्छनं
इन्द्रियमोहः । प्रमोहो मनोमात्रमोहः । तीव्रा रुजो
वातकृताश्च तास्ताः दण्डापतानकादयः । रुधिरञ्च ग
च्छेत् मेहनभगगुदास्यघ्राणेध्यः स्रवेत् । सर्वेन्द्रियार्थो
परमः इन्द्रियाणां कार्य्यनाशः । अथ मर्मसिरास्नायु-
सन्ध्यस्थ्नां विद्धानां पृथग्लक्षणमाह “सुरेन्द्रगोप
प्रतिमं प्रभूतं रक्तं स्रवेत्तत्क्षयजश्च वायुः । करोति
रोगान् विविधान् यथोक्तान् सिरासु विद्धास्वथ वा
क्षतासु” । सुरेन्द्रगोपो वार्षिकोत्थितकीटविशेषः । (वीर-
बहुटी) इति लोके पुसिद्धः । प्रभूतं बहु । रोगान्
शिरोभितापान्धताक्षवकादीन् । विद्धासु शरादिना ।
क्षतान् खड्गादिना । “कौब्ज्यं शरीरावयवावसादः
क्रियास्वशक्तिस्तुमुला रुजा च । चिराद् व्रणो रोहति
यस्य चापि तं स्नायुविद्धं पुरुषं वदन्ति । कौब्ज्यं
विद्धस्याङ्गस्य वक्रता । तुमुला महती” । “शोथातिवृद्धि-
स्तुमुलारुजश्च बलक्षयः सर्वत एव शोथः । क्षतेषु
सन्धिष्वचलाबलेषु स्यात् सन्धिकर्मोपरमश्च लिङ्गम्” । सर्वत
एव शोथः सर्वसन्धीन् व्याप्य शोथः । उपरमः नाशः ।
“घोरारुजो यस्य निशादिनेषु सर्वास्ववस्थासु न चैति
शान्तिम् । भिषग्विपश्चिद्विदितार्थसूत्रस्तमस्थिविद्धं
पुरुषं प्रवक्ति” । सर्वास्वरस्थासु शयनासनादिकासु ।
विदितार्थसूत्रेः ज्ञातशल्यतन्त्रः । अथ ममेषिरादि
विद्धलिङ्गानि पृथगभिधाय सर्मसिरादीनां विद्धानां पृ-
थक्लिङ्गान्थतिदेशेनाह “यथास्वमेतानि विभावयेच्च
लिङ्गानि मर्मस्वपि ताडितेषु” । यथास्वं सिरादीनां
विद्धानाम् एतानि लिङ्गानि पृथगुक्तानि लिङ्गानि
चकारात् भ्रमप्रलापादीनि च । मर्मस्विव सिरादिषु
ताडितेषु विद्धेषु विभावयेत् जानीयात् । सर्वव्र-
णानामुपद्रवानाह “विसर्पः पक्षघातश्च सिरास्तम्भाऽप-
तानकः । मोहोन्मादौ ब्रणे पीड़ा ज्वरस्तृष्णाहनु-
ग्रहः । कासश्छर्दिरतीसारो हिक्का श्वासः सवेपथुः ।
षोडशोपद्रवाः प्रोक्ता व्रणानां व्रणचिन्तकैः” ।
अथाग्निदग्धस्य निदानमाह “तत्राग्निर्द्विविधो ज्ञेवः स्नेह-
रूक्षप्रभेदतः । स्नेहस्तत्र तु तैलादि रूक्षं लौहादि-
कथ्यते” । अग्निदग्धं चतुर्विधमाह “अग्निदग्धं
चतुर्द्धा स्यात् प्लुष्टं दुर्दग्धमेव च । सम्यग्दग्धं तथाती-
व्रदग्धञ्च परिकीर्त्तितम्” । तेषां लक्षणभाह “यद्विवर्ण-
मतिप्लुष्टं तत्प्लुष्टमभिधीयते । तीव्रदाहो व्यथावन्तो
यत्र स्फोटा भवन्ति हि । चिरेण ते प्रशाम्यन्ति तद्दु-
र्दग्धमुदाहृतम् । ताम्रवर्णमगम्भीरं दाहपीडासम-
न्वितम् । सुसस्थितञ्च कथितं सम्यगदग्धं भिषग्वरैः ।
त्वङ्मांसं यत्र दग्धं स्याद्विश्लेषो वपुषस्तथा । सिरा-
स्नाय्वस्थिसन्धीनां तं वदन्त्यतिदग्धकम् । अत्यर्थं
वेदनादाहो ज्वरस्तृण्मूर्च्छया सह । स्याद् व्रुणस्तु
चिराद् रोहेत् रूढ़ो याति विवर्णताम्” । दुष्टव्रणनाड़ी
व्रणशब्दयोस्तद्भेदौ दृश्यौ । व्रणशब्दनिरुक्तिः सुश्रुते
उक्ता यथा “वृणोति यस्माद्रूढ़ोऽपि व्रणवांस्तु न
नश्यति । आदेहधारणात्तस्मात् व्रण इत्युच्यते बुधैः” ।
सुश्रुतोक्ता विशेषाः द्विव्रणशब्दे व्रणास्रावशब्दे च दृश्याः ।

व्रणकृत् पु० व्रणं करोति कृ--क्विप् । १ मल्लातके रत्नमा० ।

२ व्रणकारके त्रि० ।

व्रणद्विष् पु० व्रणं द्वेष्टि द्विष--क्विप् । १ ब्राह्मणयष्टिकायाम् २ व्रणघातके त्रि० ।

व्रणशोथ पु० ६ त० । व्रणस्य स्फीतताकारके रोगभेदे तल्ल-

क्षणादि भावप्र० उक्तं यथा
“पृथक् समस्तदोषोत्था रक्तजागन्तुजौ तथा । व्रणशोथाः
षड़ेते स्युः संयुक्ताः शोथलक्षणैः” शीथलक्षणैः पूर्वोक्तैः ।
विशिष्टं रूपमाह “विषमं पच्यते वातात् पित्तोत्थश्चा-
चिरञ्चिरम् । कफजः पित्तवच्छोथो रक्तागन्तुसमुद्भवौ” ।
अपक्वस्य व्रणशोथस्य लक्षणमाह “मन्दोष्मताऽल्पशोथत्वं
काठिन्यं त्वक्सवर्णता । मन्दवेदनया चाऽपि
शोथस्यासस्य लक्षणम्” । तस्य पच्यमानस्य लक्षणमाह “द-
पृष्ठ ४९९४
ह्यते दहनेनेव क्षारेणेव प्रपच्यते । पिपीलिकागणेनेव
दश्यते छिद्यते तथा । भिद्यते चैव शस्त्रेण दण्डेनेव
च ताड्यते । पीड्यते पाणिनेवान्तःसूचीभिरिव तुद्यते ।
ऊषचोषी विवर्णः स्यादङ्गुल्येवावपीड्यते । आसने
शयने स्थाने शान्तिं वृश्चिकविद्धवत् । न गच्छेदाततः
शोथो भवेदाध्मातवस्तिवत् । ज्वरस्तृष्णाऽरुचिश्चैतत्
पच्यमानस्य लक्षणम्” । छिद्यते द्विधा क्रियत इव ।
भिद्यते विदार्य्यत इव । ऊषोदाहः । चोषः पार्श्वस्थाग्नि-
नेव सन्तापः ताभ्यां युक्तः आततः त्वक्सङ्कोचरहितः
वस्तिर्मूत्राशयश्चर्मपुटो वा । पक्वस्य लक्षणमाह “वेदनो-
पशमः शोथो लोहितोऽल्पो न चोन्नतः । प्रादुर्भावो
वलीनाञ्च तोदः कण्डूर्मुहुर्मुहुः । उपद्रवाणां प्रथमो
निम्नता स्फुटनन्त्वचाम् । वस्ताविवाम्बुसञ्चारः स्याच्छो-
थेऽङ्गुलिपीड़िते । पूयश्च पीड़येदेकमन्तमन्ते च पी
ड़िते । बुभुक्षा व्रणशोथस्य भवेत् पक्वस्य लक्षणम्” ।
वेदनोपशमः दाहादिदुःखोपशमः । अल्पलोहित
इत्यन्वयः । न चोन्नतः पच्यमानापेक्षया । उपद्रवाणा
ज्वरादीनाम् । निम्नता स्वरूपतोऽङ्गुलिपीड़नाद्वा
अवनतत्वम् । स्फुटनम् किञ्चिद्विदारणम् । वस्ताविवे-
त्यादि शोथेऽङ्गुलीपीड़िते सति अङ्गुलिपीड़ितदेशा-
दन्यदेशे अम्बुसञ्चारः किञ्चित् । वस्तौ चर्मपुटके । एवम्
अन्यैकदेशे पीड़िते एक मन्तमपरमन्तमापूर्य पीड़-
यति । एकदोषारब्धेऽपि शोथे पाककाले सर्वदोषसम्बन्ध
माह “ऋतेऽनिलान्नोष्म विना न पित्तं पाकः कफञ्चापि
विना न पूयः । तस्माद्धि सर्वे परिपाककाले पचन्ति
शोथास्त्रिभिरेव दोषैः” । पचन्ति पाकं प्राप्नुवन्ति ।
एवशब्दोऽत्राप्यर्थः अव्ययानामनेकार्थत्वात् । पाके
मतान्तरमाह “कालान्तरे नाभ्युदितन्तु पित्तं कृत्वा
वशे वातकफौ प्रसह्य पचत्यतः शोणितमेष पाको मतः
परेषां विदषां द्वितीयः” । वशे कृत्वा हीनीकृत्य
शोणितं कर्म पूर्वत्र कफात् पूयोऽत्र शोणितात् पूय इति
भेदः । गम्भीरपाके शोथे पाकज्ञानार्थलक्षणान्तरमाह
सुश्रुतः “कफजेषु च शोथेषु गम्भीरं पाकमेत्यसृक् ।
पक्वलिङ्गं ततः स्पष्टं यतः स्याच्छोथशीतता । त्वक्-
सावर्ण्यं रुजोऽल्पत्वं घनस्पर्शत्वमश्मवत्” । कफजेषु
च शोथेषु गम्भीरमसृक् पाकमेति तत्र कथं पाकज्ञा-
नमित्याह तत्र ततः कारणात् पक्वलिङ्गं स्पष्टम् ।
यतः पच्यमानावस्थान्तर्गतरागदाहव्यथाघनान्तरे शोथ
शीतादयो भवन्ति । घनस्पर्शत्वं स्पर्शे व्यथायुतत्वम् ।
अनिर्हतस्य पूयस्य दीषमाह “कक्षं समासाद्य यथैव वह्नि-
र्वातरितः सन्दहति प्रसह्य । तथैव पूवोह्यविनि सृतस्तु
मांसं सिराः स्नायुमपीह खादेत्” । कक्षं तृणवनम् ।
शोथस्यामपक्वलक्षणज्ञानाज्ञाने भिषजां गुणदोषावाह
“आमं विदह्यमानञ्च सम्यक्पक्वन्तु यो मिषक् । जानी-
यात् स भवेद् वैद्यः शेंषास्तस्करवृत्तयः” । विदह्यमानं
विपच्यमानम् । तस्करवृत्तयः तेषां तस्कराणामिव द्रव्य-
लाभमात्रप्रयोजनं भवति । न तु धर्मयशोमैत्रीलाभः
“यश्छिनत्त्याममज्ञानाद्यश्च पक्वमुपेक्षते । श्वपचाविव
विज्ञेयौ तावनिश्चित्यकारिणौ” ।

व्रणास्राव पु० ६ त० । सुश्रुतोक्ते व्रणस्य पूयादिक्षरणे ।

तद्विज्ञानं च तत्रोक्तं यथा
“अथातो व्रणास्रावविज्ञानीयमध्यायं व्याख्यास्यामः ।
“त्वङ्मांससिरास्नःय्वस्थिसन्धिकोष्ठमर्माणीत्यष्टौ व्रणस्था-
नानि । अत्र सर्वव्रणसन्निवेशः । तत्राद्यैकवास्तुसन्निवेशो
त्वग्भेदी व्रणः सूप्रचरः शेषाः स्वयमवदीर्य्यमाणा दुरु-
पचाराः । तन्नायतश्चतुरस्रो वृत्तस्त्रिपुटक इति व्रणा-
कृतिसमासः । शेषास्तु विकृताकृतयो दुरुपक्रमा
भवन्ति । सर्व एव व्रणाः क्षिप्रं संरोहन्त्यात्मवतां सुभि-
षग्भिश्चोपक्रान्ताः । अनात्मनामज्ञैश्चोपक्रान्ताः प्रवृद्धत्वा-
द्दोषाणाम् । तत्रातिसंवृतोऽतिविवृतोऽतिकठिनोऽति-
मृदुरुत्सन्नोऽवसन्नोऽतिशीतोऽत्युष्णः कृष्णरक्तपीतशुक्ला-
दीनां वर्णानामन्यतमवर्णो भैरवः पूतिपूयमांससिरा-
स्नायुप्रभृतिपूर्णः पूतिपूयस्राय्युन्मार्ग्युत्सङ्ग्यमनोज्ञ-
दर्शनगन्धोऽत्यर्थं वेदनावान् दाहपाकरागकण्डूशो-
थपिडकोपद्रुतोऽत्यर्थं दुष्टशीणितास्रावी दीर्घकाला-
नुबन्धी चेति दुष्टव्रणलिङ्गानि । तस्य दोषोच्छ्रायेण
षट्त्वं विभज्य यथास्वं प्रतीकारे प्रयतेत । अत ऊर्द्ध्वं
सर्वास्रावान् वक्ष्यामः । तत्र वृष्टासु छिन्नासु वा त्वक्षु
स्फोटेषु भिन्नेषु विदारितेषु वा सलिलप्रकाशो
भवत्यास्नावः किञ्चिद्विस्रः पीतावभासश्च । मांसगतः सर्पिः
प्रकाशः सान्द्रः श्वेतः पिच्छिलश्च । सिरागतः सद्य-
श्छिन्नासु सिरासु रक्तातिप्रवृत्तिः पक्वासु च तोयनाडी
भिरिव तोयागमनं पूयस्यास्रावश्चात्र तनुर्विच्छिन्नः
पिच्छिलोऽवलन्वो श्यावोऽवश्यायप्रतिमश्च । स्नायुगतः
स्निग्धो घनः सिंहाणकप्रतिमः सरक्तश्च । अस्थिगतो-
ऽस्थून्यभिहते स्फुटिते मिन्ने दोषावदारिते वा दोषाव-
क्षितत्वादस्थिनिःसारं शुक्तिधौतमिवाभाति । आस्राव-
श्चात्र मज्जमिश्रः सरुधिरः स्निग्धश्च । सन्धिगतश्च
पीड्यमानो न प्रवर्त्तते आकुञ्चनप्रसारणोन्नमनविनम-
नप्रधावनोत्कासनप्रवाहणैश्च स्रवति । आस्रावश्चात्र
पिच्छिलोऽवलम्बी सफेनपूयरुधिरोन्मथितश्च । कोष्ठगतोऽ-
सृङ्मूत्रपुरीषपूयोदकानि स्रवति । मर्मगतस्त्वगादिष्ववरु-
द्धत्वान्नाच्यते । तत्र त्वगादिगतानामास्रावाणां यथाक्रमं
पारुष्यश्यावावश्यायदधिसस्तुक्षारोदकमांसधावनपुलाकोद-
कसन्निभत्वानि मारुताद्भवन्ति । पित्ताद्गोमेदोगोमूत्रभस्म-
शङ्खकषायोदकमाध्वीकतैलसन्निभत्वानि । पित्तवद्रक्ताद-
तिविस्रत्वञ्च । कफान्नवनीतकासीसमज्जपिष्टतिलनारि-
केलोदकवराहवसासन्निमत्वानि । सन्निपातात्तिलनारि-
केलोदकेर्वारुकरसकाञ्जिकवसादारुकोदकप्रियङ्गुफलयकृ-
न्मुद्गयूषसवर्णत्वानीति । “श्लोकौ चात्र भवतः । पक्वा-
शयादसाध्यस्तु पुलाकोदकसन्निभः । क्षारोदकनिमः स्रावो
वर्ज्यो रक्ताशयात्स्रवन् । आमाशयात्कलायाम्भोनि-
भश्च त्रिकसन्धिजः । स्रावानेतान् परीक्ष्यादौ ततः
कर्माचरेद्भिषक्” । अत ऊर्द्ध्वं सर्वव्रणवेदना वक्ष्यामः ।
तोदनभेदनताडनच्छेदनायमनमन्थनविक्षेपणचुम्चुमायन-
निर्दहनावभञ्जनस्थोटनविदारणोत्पाटनकम्पनविविधशूल-
विश्लेषणविकिरणपूरणस्तम्भनस्वप्नावकुञ्चनाङ्गुशिकाः
सम्भवन्ति । अनिमित्तविविधवेदनाप्रादुर्भावो वा मुहुर्मुहु-
र्यत्रागच्छन्ति वेदनाविशेषास्तं वातिकमिति विद्यात् ।
ऊपचोषपरिदाहधूमायनानि यत्र गात्रमङ्गारावकीर्ण-
मिव पच्यते यत्र चोष्माभिवृद्धिः क्षते क्षारावसक्तिवच्च
वेदनाविशेषास्तं पैत्तिकमिति विद्यात् । पित्तवद्रक्तस-
मुत्थं जानीयात् । कण्डूर्गुरुत्वं सुप्तत्वमुपदेहोऽल्प-
वेदनत्वं स्तम्भः शैत्यञ्च यत्र तं श्लैष्मिकमिति विद्यात् ।
यत्र सर्वासां वेदनानां समुत्पत्तिस्तं सान्निपातिकमिति ।
अत ऊर्द्ध्वं व्रणवर्णान् वक्ष्यामः । भस्मकपोतास्थिवर्णः
परुषोऽरुणः कृष्ण इति मारुतजौक्तः । नीलः पीतो
हरितः श्यावः कृष्णो रक्तः कपिल इति रक्तपित्तसमु-
त्थयोः । श्वेतः स्निग्धः पाण्डुरिति श्लेष्मजस्य ।
सर्ववर्णोपेतः सान्निपातिकस्य इति । भवति चात्र “न
केवलं व्रणेषूक्तो वेदनावर्णसंग्रहः । सर्वशोथविकारेषु
व्रणवल्लक्षयेद्भिषक्” ।

व्रणह पु० व्रणं हन्ति हन--ड । १ एरण्डवृक्षे २ गुडूच्याम्

वी शब्दच० ।

व्रणाश पु० व्रणमश्नाति अश--अण् । १ वोले गन्धरसे २

अगख्यवृक्षे च राजनि० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/वेदाङ्ग&oldid=57846" इत्यस्माद् प्रतिप्राप्तम्