सामग्री पर जाएँ

वाचस्पत्यम्/प्राणप्रद

विकिस्रोतः तः
पृष्ठ ४५१५

प्राणप्रद त्रि० प्राणं बलं प्रददाति प्र + दा--क । १ बलदायके

२ ऋद्धिनामकौषधौ स्त्री रत्नमा० ।

प्राणभक्ष पु० प्राणेन घ्राणेन भक्षः ३ त० । घ्राणेनावघ्राण-

मात्रे कात्या० १० । २६ कर्कः ।

प्राणभास्वत् पु० प्राणेन वायुना भास्मान् उद्दीप्तः । समुद्रे शब्दच० ।

प्राणभृत् त्रि० प्राणं विवर्त्ति भृ--क्विप् ६ त० । १ प्राणिनि

जीवे जन्तमात्रे २ प्राणपोषके त्रि० ३ विष्णौ पु० “प्राणभृत्
प्राणजीवनः” विष्णुस० ।

प्राणमय पु० प्राण + प्राचुर्य्ये मयट् । “कर्मेन्द्रियैः पञ्चभिरञ्चि-

तोऽसौ प्राणो भवेत् प्राणमयस्तु कोषः” विवेकचू० उक्ते
जीवस्वरूपावरके कोषभेदे “नैवात्मापि प्राणमयो वायु-
विकारो गन्ताऽऽगन्ता वायुवदन्तर्बहिरेष । यस्मात्
किञ्चित् क्वापि न वेत्तीष्टमनिष्टं स्वं वाऽप्यं वा किञ्चन
नित्यं परतन्त्रः” तस्य तत्रैवात्मनोभेदे हेतुरुक्तः ।

प्राणयम पु० प्राणो यम्यतेऽनेन यम--करणे घञ् अवृद्धिः ।

प्राणायामे हेमच० प्राणरोधप्राणनियमप्राणसंयमादयो-
ऽप्यत्र ।

प्राणयात्रा स्त्री ६ त० । प्राणस्य श्वासप्रश्वासादिके १ प्यापारे

उपचारात् तत्साधने २ भोजमादौ । भोजनेन हि देहे
प्राणयात्रानिर्वाहोऽन्यथा मरणेनोत्क्रान्तिः प्राणस्य भोजनं
विना स्थित्यभावात् । प्राणयात्राऽस्त्यस्य प्रयोजनत्वेन
ठन् । प्राणयात्रिक प्राणधारणभोजनयुक्ते विशिष्टभो-
गपरे मनुः ६ । ५७

प्राणयोनि पु० ६ त० । १ परमेश्वरे जगत्प्राणे २ बायौ च ।

प्राणवत् त्रि० प्राण + मतुप् यस्य वः । प्राणिनि जीवे जन्तुमात्रे

प्राणशरीर पु० प्राणः शरीरं स्वरूपं यस्य । प्राणात्मत्वेन

ध्येये परमेश्वरे “स क्रतुं कुर्वीत मनोमयः प्राणशरीरः”
छा० उ० “प्राणो लिङ्गात्मा विज्ञानक्रियाशक्तिद्वययुतः
“योवै प्राणः सा प्रज्ञा या प्रज्ञा स प्राणः”
इतिश्रुतेः” स शरीरं यस्य सः” भाष्यम् ।

प्राणसंवाद पु० ६ त० । प्राणानामिन्द्रियाणां मुख्याप्राणस्य

च अहं श्रेष्ठत्वविषयत विबादे । स च छा० उ० “अथ
ह प्राणा अहं श्रेयसि व्यूदिरेऽहं श्रेयानम्यहं
श्रेयानस्वीत्युपक्रमे दर्शितः ।

प्राणसंशय पु० ६ त० । १ प्राणस्य स्थित्यस्तितिसन्देहे उपचा-

रात् २ मरणफलव्यापारमेदे च ।

प्राणसद्मन् न० ६ त० । प्राणायतने देहे ।

प्राणसम पु० ६ त० । १ प्राणतुल्ये प्रिये २ पत्यौ ३ पत्न्यां स्त्री ।

प्राणहर त्रि० प्राणं हरति देहात् देहान्तरं प्रापयति बलं

वा हरति हृ--अच् । १ प्राणस्य देहात् देहान्तरप्रापके
२ बलनाशके । “शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुणं
दधि । प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट्”
चाणक्यः । ३ विषादौ च याज्ञ० २ । २२७ ।

प्राणहारक त्रि० प्राणं हरति हृ--ण्वुल् । १ देहात् प्राणस्य

हारके २ नाशके ३ वत्सनाभविधे न० राजनि० ।

प्राणाग्निहोत्र न० प्राणरूपेऽग्नौ होत्रम् । १ वैश्वानरविदः

प्राणानां पञ्चाहुतिरूपेऽग्निहोत्रात्मके भोजने । तस्य
यथा कर्त्तव्यता तथा छा० उ० तद्यद्भक्तं प्रथम-
मागच्छेत् तद्धोमीयं स यां प्रथमामाहुतिं जुहुयात्
तां जुहुयात् प्राणाय स्वाहेति” इत्युपक्रम्य दर्शि-
तम् । तच्च प्राणाहुतिशब्दे दृस्यम् । तत्प्रतिपादके
२ कृष्णयजुर्वेदीयोपनिषद्भेदे च ।

प्राणात्यय पु० ६ त० । १ प्राणधारणाऽसम्भावनायाम् । ब० व० ।

२ तदुपलक्षिते काले च “प्राणात्यये च संप्राप्ते योऽन्न
मत्ति यतस्ततः । न स पापेन लिप्येत पद्मपत्रमिवाम्भसा”
स्मृतिः “सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात्” शा० सू० ।

प्राणाधिनाथ पु० ६ त० । पत्यौ हला० ।

प्राणान्त पु० ६ त० । मरणे । प्राणान्यः प्रयोजनमस्य ठञ् ।

प्राणान्तिक । मरणफलके प्रायश्चित्तादौ ।

प्राणापान पु० द्व० द्वि० व० । प्राणे अपाने च १ वायौ “प्राणापा-

नान्तरे देवी वाग्वै नित्यं प्रतिष्ठिता” मञ्जूषाधृतवाक्यम् ।
२ अश्विनीकुमारयो० “तस्यां त्वाष्ट्र्यामश्वरूप्यां मार्त्तण्ड-
स्तीव्रतेजमा । वीजं निर्वापयामास तज्जलं तद्द्विधा-
ऽपतत् । तत्र प्राणस्त्वपानश्च योनौ चात्मजितौ पुरा ।
वरदानेन च पुनर्मूर्त्तिमन्तौ बभूवतुः । तौ त्वाष्ट्र्या-
मश्वरूपिण्यां जातौ येन नरोत्तमौ । ततस्तावश्विनौ
देषौ कीर्त्त्येते रविनन्दनौ” वराहपु० ।

प्राणायतन न० ६ त० । “अक्षिणी कर्णरन्ध्रे च पायूषस्थास्य

नासिकाः । नवछिद्राणि तान्येव प्राणस्यायतनानि तु”
याज्ञ० उक्ते प्राणस्य छिद्ररूपमुख्यस्थानभेदे

प्राणायन पुंस्त्री० प्राणत्यापत्यं नडा० फक् । प्राणस्यापत्ये

प्राणायाम पु० प्राण आयम्यतेऽनेन आ + यम--करणे घञ ।

प्राणवायोर्गतिविच्छेदकारकव्यापारभेदे तद्विसिस्तन्त्रसा-
रोक्ता यथा “तत्र प्राणायामेऽङ्गुलिनियमो ज्ञानार्णये
“भूतशुद्धिं ततः कुर्य्यात् प्राणायामक्रमेण च । कति-
पृष्ठ ४५१६
ष्ठानामिकाङ्गुष्ठैर्यन्नासापुटधारणम् । प्राणायामः स
विज्ञेयस्तर्जनीमध्यमे विना” । प्राणायामो द्विविधः सगर्भो
निगर्भश्च । तथा च “सगर्भो मन्त्रजापेन निर्गर्भो
मात्रया भवेत्” । मात्रा च “वामजानुनि तद्धस्तभ्रामणं
यावता भवेत् । कालेन मात्रा सा ज्ञेया मुनिभिर्वेदपा-
रगैः” । तत्र च मूलमन्त्रस्व वीजस्य प्रणवस्य वा षोडश
वारादिजपेन वामनासापुटादिना वायुपूरकादिकं
कुर्य्यात् । तथा च कालीहृदये “प्राणायामत्रयं कुर्य्यात्
मूलेन प्रणवेन वा । अथ वा मन्त्रवीजेन यथोक्तवि-
धिना सुधीः” । यथा तस्य षोडशवारजपेन वायुं
रेचयेत् । तस्य चतुःषष्टिवारजपेन वायुं कुम्भयेत् । तस्य
द्वात्रिंशद्वारजपेन वायुं रेचयेत् । पुनर्दक्षिणेनापूर्य्य
उभाभ्यां कुम्भयित्वा वामेन रेचयेत् । पुनर्वामेनापूर्य्य
उभाभ्यां कुम्भयित्वा दक्षिणेन रेचयेत् । त्रिपुरासार
समुच्चये “विपरीतमतो विदधीत बुधः पुनरेव वा तद्विप-
रीतमिति” । यौगिके पुनर्मात्रानियमः । तथा च
गौतमीये “मन्त्रप्राणायामः प्रोक्तो यौगिकं कथयामि ते ।
पूरयेद्वामया विद्वान् भात्राषोड़शसंख्यया” इत्यादि ।
यद्वा चतुःषोड़शाष्टवारजपेन पूरकादिकं कुर्य्यात् । तथा
च तन्त्रान्तरे “पूरयेत् षोड़शभिर्वायुं धारयेत्तु
चतुर्गुणैः । रेचयेत् कुम्भकार्द्धेन अशक्त्या तत्तुरीयकम् ।
तदशक्तौ तच्चतुर्थमेवं प्राणस्य संयमः । अस्य नित्यता
माह “प्राणायामं विना मन्त्रपूजने न हि योग्यता”
सन्ध्याङ्गप्राणायामस्वरूपफलादिकं ब्राह्मणसर्वस्वे
दर्शितं यथा तत्राग्निपुराणे “गायत्रीं प्रति ब्रह्मवाक्यम्
“कुर्वन्तीऽपीह पापानि ये त्वां ध्यायन्ति पावनि! । उभे
सन्ध्ये न तेषां हि विद्यते तु विपातकम् । त्रिः पठेदा--
यतप्राणः प्राणायामेन यो द्विजः । वर्त्तते न स लिप्येत
पातकैरुपपातकैः” । वृहद्विष्णु “प्राणायामान् द्विजः
कुर्य्यात् सर्वपापापनुत्तये । दह्यन्ते सर्वपापानि प्राणाया-
मैर्द्विजस्य तु” । विष्णुधर्मोत्तराग्निपुराणयोः “सर्वदोष-
हरः प्रोक्तः प्राणायामो द्विजन्मनाम् । ततस्त्वभ्यभिकं
नास्ति प्रापप्रशमकारणम्” । अत्रिः “कर्मणा मनसा
बाचा अह्ना पापं कृतञ्च यत् । आसीनः पश्चिमां सन्ध्यां
प्राणायामैर्व्यपोहति” । अग्निपु० “प्राणायामत्रयं कृत्वा
प्राणायामैस्त्रिमिर्निशि । अहोरात्रकृतात् पापान्मुच्यते
नात्र संशयः” । बशिष्ठः “प्राणायामान् धारयेत् त्रीन्
यथाविधि सुयन्त्रितः । अहोरात्रकृतं पापं तत्क्षणादेव
नश्यति” । वृद्धापस्तम्बः “पूर्वमुक्तेषु चैतेषु तथान्येष्वपि
सर्वशः । प्राणायामास्त्रयोऽभ्यस्ताः सूर्यस्योदयनं प्रति ।
जायन्ते तद्विनाशाय तमसामिव भास्क्रः । सूर्यस्योद-
यनं प्राप्य निर्मला धूतकलमषाः । भवन्ति भास्कराकारा
विधूमा इव पावकाः” । योगियाज्ञवल्क्यः “यदह्ना
कुरुते पापं कर्मणा मनसापि वा । त्रिकालसन्द्याचर-
णात् प्राणायामैर्थ्यपोहति” । वृहस्पतिः “प्राणायामैर्दहेद्
दोषात् मनोवादेहसम्भवान्” । प्राणायामानुवृत्तौ
बौधायनः “एतदाद्यं तपः श्रेष्ठमेतद्धर्मस्य लक्षणम् ।
सर्वदोषोपघातार्थमेतदेव विशिष्यते” । अत्रिवशिष्ठौ
“आवर्त्तयेत् सदा युक्तः प्राणायामान् पुनःपुनः । आकेशाग्रा-
न्नखाग्राच्च तपस्तप्यत उत्तमम्” । विष्णुधर्मोत्तराग्निपुराणयोः
“आकेशाग्रान्नखाग्राच्च तपस्तप्ये सुदारुणम् ।
आत्मानं शोधयत्येव प्राणायामः पुनःपुनः । दह्यन्त ध्माय-
मानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते
दोषाः प्राणस्य निग्रहात् । प्राणायामैदहेद्दोषान् प्रा-
खायामः परं तपः” । वृहद्यमः “यथा हि शैलधातूना
धमतां धम्यते रजः । इन्द्रियाणां तथा दोषान् प्राणा-
यामैश्च निर्दहेत्” । वृहस्पतिः “धम्यमानं यथा ह्येतद्धा-
तूनां संस्कृतं मलम् । तथेन्द्रियकृतो दोषः प्राणायामेन
दह्यते” । योगियाज्ञवलक्यः “यथा पर्वतधातूनां दोषान्
दहति पावकः । एवमन्तर्गतञ्चैनः प्राणायामेन दह्यते” ।
अत्रिवशिष्ठौ “निरोधाज्जायते वायुर्वायोरग्निः प्रजा-
यते । अग्नेरापो व्यजायन्त तैरन्तः शुध्यते त्रिभिः” ।
विष्णुधर्मोत्तराग्निपुराणयोः “निरोधाज्जायते बायुस्तस्मा-
दग्निस्ततो जलम् । त्रिभिः शरीरं सकलं प्राणायामै-
र्विशुध्यति” । योगियाज्ञवल्क्यः “तथा निरोधसंयोगात्
देवतात्रयचिन्तनात् । अग्नेर्वायोरपां योगादात्मा शुध्यति
वै त्रिभिः” । मनुः “प्राणायामाव्राह्मणस्य त्रयोऽपि
विधिवत् कृताः । व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं
तपः” विष्णुधर्मोत्तरमग्निपुराणञ्च “प्राणसंधारणं मासं
कुशाग्रच्युतविन्दुना । यः कुर्य्यादम्भसा राजन्! प्राण-
यामसु तत्समः” । वृहद्विष्णुः “सव्यार्हातिं सप्रणवां
पायर्तौ शिरसा सह । त्रिः पठेदाबतप्राणः प्राक्षायामः
स उच्यते । गायत्रीं शिरसा सार्द्धं जपेद्व्याहृतिपू-
र्विकास । प्रतिप्रणवर्सयुक्तां त्रिरयं प्राणसंयमः” ।
योगियाज्ञवल्क्यः “भूर्भुवः खर्महर्जनस्तपःसत्यं
तथैव च । प्रत्योऽङ्कारसमायुक्तं तत्सवितुर्वरेण्यमा ।
पृष्ठ ४५१७
ओमापोज्योतिरित्येतच्छिरः पश्चात् प्रयोजयेत् । एवं
मन्त्रप्रयोगस्तु प्राणायामनिवेशने । त्रिरावर्त्तनयोगेन
प्राणायामस्तु शव्दितः” । योगियाज्ञवल्क्यः “षोडशा-
क्षरकं ब्रह्म गायत्र्यास्तच्छिरः स्मृतम् । ओमापोज्याति-
रित्येष मन्त्रा यस्तु प्रकीर्त्त्यते । तस्य प्रजापतिरृषि-
र्यजुष्ट्वाच्छन्दसा विना । व्रह्माग्निवायुसूर्य्याश्च देवताः
समुदाहृताः । प्राणस्यायमने चैव विनियोग उदाहृतः ।
गायत्रीशिरसा सार्द्धमेवं श्रुतिनिदर्शनम् । प्रणव
व्याहृतियुतां गायत्रीं शिरसा सह । त्रिःपठेदायतप्राणः
प्राणायामः स उच्यते । आदानं रोधसंसर्गं वायोस्त्रि
स्त्रिः समभ्यसेत् । ब्रह्माणं केशवं शम्भुं ध्यायेदेताननु
क्रमात् । रक्तं प्रजापतिं ध्यायेत् विष्णुं नीलोत्पलप्र-
भम् । शङ्करं त्र्यम्बकं श्वेतं ध्यायन्मुच्येत बन्धनात् ।
पूरके व्रह्मसायुज्यं कुम्भके व्रह्मणोऽन्तिकम् । रेचकेना-
द्वितीयन्तु प्राप्नुयादैश्वरं पदम्” अथ प्राणायामविधिः
तत्र व्यासपद्यम् “आदौ छन्द ऋषिदेवताविनियोगान्नि-
रूप्यते “गायत्रीं शिरसा सार्द्धं सप्तव्याहृतिपूर्विकाम् ।
प्राणायामेन त्रिरावर्त्तयेत् ततः शनैः प्रश्वमेच्च प्राणाया-
मैदग्धदोषोऽयं यत् श्रेयः तत् सकलं भवति” । व्यासः
“गायत्रुष्टिगनुष्टुप् च वृहती पङक्तिरेव च । त्रिष्टुप् च
जगती चेति छन्दांस्याहुरनुक्रमात् । अग्निवाय्यर्कवरुणा
वृहस्थतिशतक्रतू । विश्वेदेवाः व्याहृतीनां दैवतानि
यथाक्रमम् । विनियोगः स्मृतस्तासां प्राणायामे महर्षिभिः” ।
योगियाज्ञवल्क्यः “व्याहृतीनाञ्च सर्वासामार्षञ्चैव
प्रजापतिः । सप्त छन्दांसि प्रोक्तानि छादनानि तु सर्वशः ।
गायत्र्युष्टिगनुष्टुप् च वृहती तृष्टुबेव च । पङ्क्तिश्च
जगती चैव सप्त छन्दांसि तानि वै । अग्निवायुस्तथादित्यो
वृहस्पत्याप एव च । इन्द्रश्च विश्वदेवाश्च देवताः समुदा-
हृताः । अनाम्नातेषु नित्येषु प्रायश्चित्तेष्र सर्वदा ।
प्राणायामप्रयोगे च विनियोग उदाहृतः” । वृहस्पतिः
“बद्ध्वासनं नियम्यासून् स्मृत्वा ब्रह्मादिकं तथा ।
संनिमीलितदृङ् मौनी प्राणायामं समभ्यसेत्” । विष्णु-
धर्मोत्तरे “सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते । आदानं
रोधमुत्सर्गं मनसा त्रिः समभ्यमेत् । ब्रह्माणं केशवं
शम्भुं ध्याबन्मुच्येत बन्धनात् । रक्तं पितामहं
ध्याबेद्विष्णुं नीणोत्पलप्रभम् । सुश्वेतं त्र्यम्बकश्चैव
तंसारार्णवतरिञ्चम्” । योगियाज्ञवल्क्यः “बाह्यस्थितं
नासपुटेन वायुमाकृष्य तेनैव शनैः समस्तम् । नाड़ीश्च
सर्वाः प्रतिपूरेयुः स पूरको नाम महान्नरोधः । न
रेचकोनैव च पूरको वा नासाग्रचारी स्थित एव वायुः ।
अनिश्चलं धारयति क्रमेण कुम्भाख्यमेतं प्रवदन्ति
तज्ज्ञाः । निष्क्रम्य नासाविवरादशेषं प्राणं बहिः
शून्यमिवानिलेन । निरुच्छ संस्तिष्ठति चोर्द्ध्ववायुः स
रेचको नाम महान्निरोधः । नासिकयाऽऽकृष्योच्छासं
ध्यान पूरक उच्यते । कुम्भोनिश्चलनिश्वासी रिच्यमा-
नस्तु रेचकः” । योगियाज्ञवल्क्यः “प्राणेनाप्यपयानेन
वेगवायुं समुत्सृजेत् । येन शत्रूनधस्थाँश्च निश्वासेन
च चालयेत् । शनैर्नासापुटे वायुमुत्सृजेन्न तु वेगतः” ।
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽ-
ष्टावङ्गानि” पात० सू० तस्य योगाङ्गतोक्ता । तस्य च
योगाङ्गप्राणायामस्य लक्षणादिः पात० सू० भा० विवरणेषूक्तं
यथा “तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणा-
यामः” सू० । “सत्यासनजये बाह्यस्य वायोराचमनं
श्वासः । कोष्ठ्यस्य वायोर्निःसारणं प्रश्वासः, तयोर्गतिवि-
च्छेद उभयाभावः प्राणाधामः” भा० । स तु “बाह्याभ्यन्त-
रस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः” सू० ।
“यत्रा प्रश्वासपूर्वको गत्यभावः स बाह्यः यत्र श्वासपूर्वको
गत्यभावः स आभ्यन्तरः तृतीयस्तम्भवृत्तिर्यत्रोभयाभावः
सकृत्प्रयत्नाद् भवति यथा तप्ते न्यस्तमुपले जलं सर्वतः
सङ्कोचमापद्यते । तथा द्वयोर्युगपद्गत्यभाव इति
त्रयोऽप्येते देशेन परिदृष्टाः इयानस्य विषयो देश इति ।
कालेन परिदृष्टाः क्षणानामियत्तावधारणेनावच्छिन्ना
इत्यर्थः । सङ्ख्याभिः परिदृष्टाः, एतावद्भिः श्वासप्रश्वासैः
प्रथम उद्घातस्तद्वन्निगृहीतस्यैतावद्भिः द्वितीय
उद्घातः एवं तृतीयः एवं मृदुरेवं मध्य एवं तीव्र इति
सङ्ख्यापरिदृष्टः स खल्वयमेवमभ्यस्तो दीर्घसूक्ष्मः” भा०
“बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः” सू० । “देशकालसङ्क्या-
भिर्बाह्यविषयः परिदृष्ट आक्षिप्तः तथाभ्यन्तरविषयः
परिदृष्ट आक्षिप्त उमयथा दीर्घसूक्ष्मः तत्पूर्वको भूमिजयात्
क्रमेणोभयोर्गत्यभावश्चतुर्थः प्राणायामः । तृतीयस्तु
विषयानालोचितो गत्यभावः सकृदारब्ध एव देशकाल-
सङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मश्चतुर्थस्तु श्वासप्रश्वासयो-
र्विषयावधारणात् क्रमेण भूमिजयादुभयाक्षेपपूर्वको गत्य-
भावश्चतुर्थः प्राणायामः इत्ययं विशेष इति” भा० । “ततः
क्षीयते प्रकाशावरणम्” सू० । “प्राणायामानभ्यस्यतोऽस्य
पृष्ठ ४५१८
योगिनः क्षीयते विवेकज्ञानावरणीयं यत्तदाचक्षते
महामोहमयेन इन्द्रजालेन प्रकाशशीलं सत्त्वमावृन्य
तदेवाकार्य्ये नियुड्क्ते इति तदस्य प्रकाशावरणं कर्म
संसारनिबन्धनं प्राणायामाभ्यासात् दुर्बलं भवति प्रतिक्षणं
च क्षीयते । तथा चोक्तम् “तपो न परं प्राणायामात्ततो
विशुद्धिमलानां दीप्तिश्च ज्ञानस्येति” । किञ्च धारणासु च
योग्यता मनसः प्राणायामाभ्यासादेव । “प्रच्छर्दन-
विधारणाभ्यां वा प्राणास्येति” वचनात्” भा० ।
“प्राणायामविशेषत्रयलक्षणपरं सूत्रमवतारयति
सत्विति । वृत्तिशब्दः प्रत्येकं संवध्यते । रेचकमाह
यत्र प्रश्वामेति । पूरकमाह यत्र श्वामेति । कुम्भकमाह
गृतीय इति । तदेव स्फुटयति यत्रोभयोः श्वासप्रश्वासयोः
सकृदेव विधारकात् प्रयत्नादभावो भवति न पुनः पूर्व-
वदापूरणप्रयत्नौघप्रविधारकः प्रयत्नो नापि रेचकप्रय-
त्नौघविधारण्य्रयत्नोऽपेक्ष्यते किन्तु यथा तप्ते उपले
निहितं जलं परिशुष्यत् सर्वतः सङोचमापद्यते एव
मयमपि मारुतो वहनशीलो बलबद्विधारकप्रयत्न
निरुद्धक्रियः शरीर एव सूक्ष्मीभूतोऽवतिष्ठते न तु
रेचयति येन रेचक इति । इयानस्य देशो विषयः प्रा-
देशवितस्तिहस्तादिपरिमितो निवाते प्रदेशे ईषिका
तूलादिक्रियानुमितो बाह्य एवमान्तरोऽप्यापादतलमाम-
स्तकं पिपीलिकास्पर्शसदृशेनानुमितः । स्पर्शननिमेषक्रिया-
वच्छिन्नस्य कालस्य चतुर्थो भागः क्षणस्तेषामियत्तावधा-
रणेनावच्छिन्नः स्वजानुमण्डलं पाणिना त्रिः
परामृश्य च्छोटिकावच्छिन्नः कालो मात्रा ताभिः षट्त्रिंश
न्मात्राभिः परिमितः प्रथम उद्घातो मन्दः । स एव द्वि-
गुणीकृतो द्वितीयो मध्यमः स एव त्रिगुणीकृतस्तृतीय
स्तीव्रस्तमिमं सङ्ख्यापरिदृष्टं प्राणायाममाह सङ्ख्याभि-
रिति । स्वस्थस्य हि पुंसः श्वासप्रश्वासक्रियावञ्छिन्नेन
कालेन यथोक्तच्छोटिकाकालः समानः प्रथमोथात
कर्मतां नीतः उद्घातो विजितो वशीकृतो निगृहीतः
क्षणानामियत्ताकालो विवक्षितः श्वासप्रश्वासेयत्ता संख्येति
कथञ्चिद्भेदः । स खल्वयं प्रत्यहमभ्यस्ती दिवसपक्षमासादि-
कमेण देशकालप्रचयव्यापितया दीर्घः परमनैपुण्यं स
भधिगमनीयः तया च सूक्ष्मो न तु मन्दतया” विवृतिः ।
भोगाङप्राणायामविधिः दत्तात्रेयसंहितायामुक्तो यथा
“तस्मिन् शस्तं समास्तीर्य्य आसनं विष्टरादिकम् ।
तत्रो पविश्य मेधावी पद्मासनसमन्वितः । समकायः प्राञ्ज-
लिश्च प्रणम्य चेष्टदेवताम् । ततो दक्षिणहस्तस्याप्यङ्गुष्ठेन
तु पिङ्गलाम् । निरुध्य पूरयेद्वायुमिडया तु शनैः
शनेः । यथाशक्त्यानिरोधेन ततः कुर्य्याच्च कुम्भकम् ।
ततस्त्वजेत् पिङ्गलया शनैरेव न बेगतः । पुनःपिङ्गलया-
ऽऽकृत्य पूरयेदुदरं शनैः । धारयित्वा यथाशक्ति रेचये-
न्मारुतं शनैः । यथा त्यजेतयाऽपूर्व्व घारयेदविरोघतः ।
एवं प्रातः समासीनः कुर्य्याद्विंशातकुम्भकान् । कुम्भकः
सहितो नाम सर्वग्रहविवर्जितः । मध्याह्नेऽपि तथा
कुर्य्यात् पुनर्विंशतिकुम्भकान् । एवं सायं प्रकुर्वीत
पुनर्विंशतिकुम्भकान् । कुर्वीत रेककुम्भाभ्यां
सहीतान् प्रतिवासरम् । कुर्य्यादेवं चतुर्वारमनालस्यो दिने
दिने । एव मासत्रयं कुर्य्यान्नाडीशुद्धिस्ततो भवेत्” ।
ग्रहजामले त्रयोदशपटले “प्राणायामस्त्रिधा प्रोक्तो
रेचकुम्भकपूरकैः । सहितः केवलश्चेति कुम्भको द्विविधो
मतः । रेचपूरणयुक्तो यः स वै सहितकुम्भकः ।
यावत् केवलसिद्धिः स्यात् सहितं तावदभ्यसेत् । रेचकं
पूरकं त्यक्त्वा सुखं यद्वायुधारणम् । प्राणायामोऽय-
मित्युक्तः स वै केवलकुम्भकः । गुरूपदिष्टमार्नेण प्राणा-
यामं समाचरेत् । यावद्वायुः स्थितो देहे तावज्जीवित-
मुच्यते । मरणं तस्य निषक्रान्तिस्ततो वायुं निबन्धयेत् ।
मलाकुलासु नाडोषु मासता नैव मध्यगः । कथं स्यात्
निर्मलीभावः कायशुद्धिः कथं भवेत् । शुद्धिमेति यदा
सर्वं नाडीचक्रं मलाकलम् । तदैव जायते योगो
प्राणसंग्रहणे क्षमः । प्राणायामं ततः कुर्य्यान्नित्यं
सात्त्विकया धिया । तथा सुषुम्णापार्श्वस्था मलाः
शोषं प्रयान्ति हि । बद्धपद्मासनोयोगी प्राणं चन्द्रेण
पूरयेत् । धारयित्वा यथाशक्ति पुनः सूर्य्येण रेचयेत् ।
प्राणं सूर्य्येण चाकृत्य पूरयेदुदरं शनैः । विधिवत
कुम्भकं कृत्वा पुनश्चन्द्रेण रेचयेत् । येन त्यजेच्च तेनैव
पूरयेदविरोधतः । रेचयेच्च ततोऽन्येन रेचयेच्च न वेगतः”
चन्द्रेण वामनासया सूर्य्येण दक्षिणनासया । “प्राणं
चेदिडया पिवेन्नियमितं भूयोऽन्यया रेचयेत् पीत्वा
पिङ्गलया समीरणमथो बद्ध्वा त्यजेद्वामया । सूर्था-
चन्द्रमसोरनेन विधिना विम्बद्वयं ध्यायतः शुद्धा नाडि-
गणा भवन्ति मलिना मासत्रयाद्रर्द्धतः । प्रातर्मध्यन्दिनं
सायं मध्यरात्रे च कुम्भकान् । चतुरशीतिपर्य्यन्गं
चतुर्बारं समभ्यसेत् । प्राणायामे महान् धर्मो बोगिनो
मोक्षदायिनि । प्राणायामे दिवारात्रौ देहचालं परि-
पृष्ठ ४५१९
त्यजेत् । अधमे द्वादशी मात्रा मध्यमे द्विगुणा स्मृता ।
उत्तमे त्रिगुणा ज्ञेया प्राणायामस्य निर्णये । कनीयसि
भवेत् स्वेदः कम्पो भवति मध्यमे । उत्तिष्ठत्युत्तमे प्राणी
बद्धपद्मासनो मुहुः । जलेन श्रमजातेन गात्रमार्जन-
माचरेत् । दृढ़ता लघुता दीप्तिस्तेन गात्रस्य जायते ।
यदा तु नाडीशुद्धिः स्यात्तदा चिह्नानि बाह्यतः ।
जायन्ते योगिनो देहे तानि वक्ष्याम्यशेषतः । शरीर-
लघुता दीप्तिर्जठराग्निविवर्द्धनम् । कृशत्वञ्च शरीरस्य
तस्य जायेत निश्चितम् । पूर्वोक्तकाले कुर्वीत परमाभ्यास-
मेव च । ततःपरं यथेष्टन्तु शक्तिः स्याद् वायुधारणे ।
यथेष्टधारणाद्वायोः सिद्धिः कुम्भस्यकेवला । केवले कुम्भके
सिद्धे रेचपूरकवर्जिते । न तस्य दुर्लभं किञ्चित् त्रिषु
लोकेषु विद्यते” ।

प्राणावाय न० प्राणेनावैति अव--इ अच । क्रियाविशाले हेमच० ।

प्राणासन न० “एतत् प्राणासनं नाम सर्वमिद्धिप्रदाय-

कम् । वायुं मूले समारोप्य ध्यात्वाऽऽकुञ्च्य प्रसारयेत् ।
केवलं पादमेकञ्च स्कन्धे चारोप्य यत्नतः । एकपादेन
गगने तिष्ठेत् स दण्डवत् प्रभो! । आपानासनमेतत् हि
सर्वेषां पूरकाश्रयम्” । कृत्वा सूक्ष्मशीर्षपद्मे
समारोप्याथ वायुभिः । तदासिद्धो भवेत् मर्त्यः प्राणापान-
समागमम् । अपानासनयोगेन कृत्वा योगेश्वरो भुविं
रुद्रयामकोक्ते पूजाङ्गे आसनभेदे ।

प्राणाहुति स्त्री प्राणरूपेभ्योऽग्निभ्य आहुतिः । भोजनात्

प्राक् गृहस्थकर्त्तव्ये प्राणरूपाग्न्युद्देश्यकाहुतौ
तत्प्रकारच आह्नि० त० दर्शितो यथा
छन्दोगपरिशिष्टे “प्राणेभ्यस्त्वथ पञ्चभ्यः स्वाहा प्रण-
वसंयुताः । पञ्चाहुतीस्तु जुहुयात् प्रलयाग्निनिभेषु
च” । प्राणांहुतिमुद्रामाह शौनकः “तर्जनीमध्यमाङ्गु-
ष्ठैर्लग्ना प्राणाहुतिर्भवेत् । मध्यमानामिकाङ्गुष्ठैरपाने
जुहुयात्ततः । कनिष्ठानामिकाङ्गुष्ठैर्व्याने च जुहुया-
द्धविः । तर्जनीन्तु बहिष्कृत्वा उदाने जुहुयात्ततः ।
समाने सर्बहस्तेन समुदायाहुतिर्भवेत्” । स्मृत्यर्थसारे
“प्राणाहुतौ घृताभावे पश्चात् भुञ्जीत नो घृतम्” अत्र
पाठक्रमेण प्राणापानव्यानोदानसमानरूपेभ्य आहुति-
रुक्ता । वैश्वानरविदस्तु छान्दो० उ० अन्यक्रम उक्तो यथा
“तद्यद्भक्त प्रथममागच्छे त्तद्धोमीयं, स यां प्रथमामाहुतिं
जुहुयात्तां जुहुवात् प्रणाय स्वाहेति प्राणस्तुप्यति” ।
अथ यां द्वितीयां जुहुयात्तां जुहुयाद्व्यानाय स्वाहेति
व्यानस्तृप्यति” । “अथ यां तृतीयां जुहुयात्ता जुहुया-
दषनाय स्वाहेत्यपानस्तृप्यति” । “अथ यां चतुर्थीं जुहु-
यात्तां जुहुयात् समानाय स्वाहेति समानस्तृप्यति” ।
“अथ यां पञ्चमीं जुहुयात्तां जुहुयादुदानाय स्वाहेत्यु-
दानस्तृप्यति” ।

प्राणिद्यूत न० ६ त० । समाह्वयाख्ये विवादपदभेदे अमरः ।

द्यूतशब्दे ३७७३ पृ० दृश्यम् “एष एव बिधिर्ज्ञेयः प्रा-
णिद्यूते समाह्वये” याज्ञ० द्यूतधर्मोऽतिदिष्टः ।

प्राणिन् नित्यम् त्रि० प्राणोऽस्त्यस्य इनि । जीवे चेतने जनुमात्रे ।

प्राणिमातृ स्त्री प्राणिनो मातेव । गर्भदात्रीक्षुपे राजनि० ।

प्राणिहित त्रि० ६ त० । १ प्राणिनो हितसाधने २ पादुकायां

स्त्रीं त्रिका० ।

प्राणीत्य न० प्रणीतस्य प्रयुक्तस्य भावः ष्यञ् । ऋणे त्रिका० प्रामीत्य तत्रार्थे पाठान्तरम् ।

प्राणेश पु० ६ त० । १ पत्यौ जटा० । २ भार्य्यायां स्त्री हेमच० ।

३ वायौ पु० त्रिका० । प्राणेश्वरादयोऽप्यत्र ।

प्राण्यङ्ग न० ६ त० । प्राणिनोऽङ्गे अवयवे हस्तपादादौ

तत्र उपसर्जने “अद्रवं मूर्तिमत् स्वाङ्गं प्राणिस्थमवि-
कारिजम् । अतत्स्थं तत्र दृष्टञ्च तेन तद्वत् तथा युतम्”
इत्युक्तलक्षणस्वाङ्गरूपकत्वे असंयोगोपधत्वे ङीष् । तत्र
क्रोड़ादिबह्ववो नासिकोदरजङ्घादन्तशृङ्गाणाम् उच्छस्य
च विशेषोक्तेः संयोगोपधत्वेऽपि ङीष् स्यात् ।

प्रातःकृत्य न० ७ त० । शास्त्रविहिते प्रातःकर्त्तव्ये कर्मणि

तच्च आचारशब्दे ६३३ पृ० दर्शितम् । एवमन्यत्रापि
यथायथं नानाशास्त्रे उक्तं दृश्यम् ।

प्रातःकाल पु० कर्म० । १ प्रभातकाले “प्रातःकालो मुहूर्त्तां

स्त्रीन् सङ्गवस्तावदेव तु” स्मृतिपरिभाषिते सूर्य्योदया-
वधि मुहूर्त्तत्रयमिते २ काले च ।

प्रातःसन्ध्या स्त्री सन्धौ भवः यत् सन्ध्या ७ त० । १ गतरात्रेर-

नन्तरं मुहूर्त्तात्मके भाविसूर्य्योदयस्य मध्यवर्तिनि २ दण्डच-
तुष्टयात्मके वा काले “त्रियामां रजनीं प्राहुस्त्यक्त्वाद्यन्तचतु-
ष्टयम् । नाड़ीनां तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञिते” ति० त० ।
सन्ध्या च ब्रह्मणो मनोजाता कन्या सा च वसिष्ठोपदेशेन
तपः कृत्वा पूर्वप्रतिज्ञातस्याग्नौ शरीरत्यागस्य सम्पाद-
नार्थं विष्णुवरेण पुरोडाशमयं देहमवाप्य मेधातिथि-
यज्ञाग्नौ शरीरं जुहाव । तस्याः पूर्वार्द्धं प्रातःसन्ध्या ।
३ तस्याञ्च तत्कथा कालिकाप० २२ अ० यथा
“तदा विष्णोः प्रसादेन सा विवेश विधेः सुता । बह्नि-
स्तस्याः शरीरं तद्दग्ध्वा सूर्य्यस्त मण्डले । शुद्धं प्रवेश-
पृष्ठ ४५२०
यामास विष्णोरेवाज्ञया पुनः । सूर्य्यो द्विधा विभज्याथ
तच्छरीरं तदा रथे । स्वके संस्थापयामास प्रीतये पितृ-
देवयोः । यदर्द्ध्वभागस्तस्यास्तु शरीरस्य द्विजोत्तमाः! ।
प्रातःसन्ध्याभवत् सा तु अहोरात्रान्तमध्यगा । यः
शेषभागस्तस्यास्तु अहोरात्रान्तमध्यगः । स सायमभवत्
सन्ध्या पितृप्रीतिप्रिया सदा । सूर्य्योदयाच्च प्रथमं
यदा स्यादरुणादयः । प्रातःसन्ध्या तदोदति देवानां
प्रीतिकारिणी । अस्तं गते ततः सूर्य्ये शोणपद्मनिभा
सदा । उदेति सायसन्ध्यापि पितॄणां मोदकारिणी” ।
सन्धौ काले उपास्या सन्ध्या ७ त० । पूर्वसन्ध्याकाले
उपास्यायां गायत्रीप्रतिपाद्यपरमेश्वररूपायां ३ देवता-
याञ्च यथोक्तं भरद्वाजस्मृतौ ७ अ० यथा
“गायन्तं त्रायते यस्मात् गायत्रीति स्मृता ततः । प्राणा
गया इति प्रोक्तास्त्रायते तानथापि वा । गायत्रीति
भवेन्नाम केवलं त्रायतीति वा । व्यानशे प्राणजिह्वासु
सदा वाग्रसवर्तनात् । सरस्वतीति नाम्ना च
समाख्याता महर्षिभिः । सवितृप्रकाशकरणात् सावित्री-
त्यभिधा भवेत् । जगतः प्रसवित्रीति हेतुनानेन वापि
च । तस्मादियं सदोपास्या निशादिवसयोर्द्विजैः ।
गायत्री सन्धिवेलायां सैव सन्ध्येति कीर्त्तिता । यो
जपेद्वदनं ज्ञात्वा नश्यन्त्यंहांसि तत्क्षणात् । ऋषिच्छन्दो
देवताश्च जपेत्ताश्चान्विताः क्रमात् । ज्ञात्वा पदानि
श्रुत्वाथ तुरीयं पादमव्ययम् । ब्रह्मणा याति तत्साम्य
पदं ज्ञात्वा तुरीयकम् । या गायत्री त्रिचरणा सा
त्रिमूर्त्तिस्वरूपिणी । उपास्यानन्तरं विप्रैस्त्रिसन्ध्यासु
त्रिमूर्त्तिषु । तुरीयपादमेतस्या ज्ञात्वा योपास्तिमाचरेत् ।
सा रत्नपूर्णां पृथिवीं गृह्णन्नो दोषभाग्भवेत् । ब्रह्म-
केशवरुद्रादिदेवताभिरुपासिता । सन्ध्यान्तां कोन सेवेत
विप्रः स्यादभिलाषुकः । प्रातः सतारकां सन्ध्यां सायं
सन्ध्यां सभाष्कराम् । स्नानकर्मणि तन्मध्यामुपासीत
यथाविधि । प्रातरेवमुपास्यैव प्रकुर्य्यात् हवनं जपम् ।
स्नानस्याननतरं कुर्य्यात् तर्पणञ्च महाक्रतून् । सायं
सन्ध्यामुपासीत होमं कुर्वीत शासनात् । सन्ध्योपा-
सनहीनो यो न योग्यः सर्वकर्मसु । तस्मादुपास्य विधिना
सन्ध्यामन्यक्रियाश्चरेत् । नोपासयेद्द्विजः । सन्ध्यां
योऽसौ शूद्रत्वमाप्नुयात् । कर्माण्यन्यानि संत्यज्य सन्ध्यां
यः केवलं द्विजः । उपास्ते, सर्वपुण्यानि कृतवान् स
भवेदसम् । सन्ध्योपास्तिं विनाविप्रः पुण्यान्यन्यानि
चाचरेत् । यस्तस्य तानि पापानि भवन्त्येव न संशयः ।
नाशयेत् जन्मजनितं पापं दशजपादनु । पुराकृतं
शतजपाद्गायत्र्यास्तु द्विजन्मनः । कृतं युगेऽपि चैकस्मिन्
सहस्रेण जपेन तु । सद्भक्त्या जपतस्तस्माद्गायत्रीं
सर्वदा जपेत् । समस्तसप्ततन्तुभ्यो जपयज्ञः परं स्मृतः ।
हिंसया ते प्रवर्तन्ते जपयज्ञो न हिंसया । यावन्तः
कर्मयज्ञाश्च दानानि च तपांसि च । ते सर्वे जपथज्ञस्य
कलां नार्हन्ति षोडशीम् । जपेन देवता नित्यं
स्तूयमाना प्रसीदति । प्रसन्ना विपुलान् भोगान्
दद्यान्मुक्तिञ्च शाश्वतीम् । यक्षराक्षसवेतालप्रेतभूतपिशा-
चकाः । जपाश्रयं द्विजं दृष्ट्वा दूरन्ते यान्ति भीतितः ।
तस्माज्जपः सदा श्रेष्ठः सर्वस्मात् पुण्यसाधनात् । इत्येवं
सर्वथा ज्ञात्वा विप्रो जपरो भवेत् । एवं जपपरः
सन्ध्यां भक्त्योपासीत यो द्विजः । नियमेन सदा गच्छे-
दृषित्वं नात्र संशयः । तस्माज्जितेन्द्रियो नित्यं सन्ध्यो-
पास्तिं समाचरेत् । स सर्वलोकान् जित्वाऽथ विप्रः
स्ववशमानयेत् । तदन्ते ब्रह्मभावेन यावदाभूतसंप्लवम् ।
तावन्नित्यो निरातङ्को भवेदत्र न संशयः । एवं सन्ध्या-
विधिं सर्वं यो विप्रोऽध्यापयेत् द्विजः । अध्यापको
यथावस्थः । श्रोता चैकाग्रमानसः । स सर्वपापनिर्मुक्तः
सर्वविद्याविशारदः । अथ धान्यधनोपेतो जीवेद्वर्षशतं
सुखी । एतद्विधानंयोऽधीत्य श्रावयेत् ब्राह्मणोत्तमान् ।
प्रीतिपूर्वं प्रयत्नेन ब्राह्मणो नियमेन च । अज्ञानेन
प्रमादेन दुरितं यत् समुत्थितम् । तस्य तत् सकलं नाशं
व्रजेदत्र न संशयः । याः सन्ध्योपास्तयस्तिस्रो यस्य
स्नानं विधीयते । पर्वणि श्रावणी यस्य तत् सर्वं पूर्ण-
तामियात् । कामान्मोहाच्च लोभाच्च सन्ध्यां नाति०
क्रमेद् द्विजः । सन्ध्यातिक्रमणाद्विप्रो ब्राह्मण्याच्च्यवते
यतः । अनागतां तु ये पूर्वामनतीताञ्च पश्चिमाम् ।
सन्ध्यां नोपासते विप्राः कथं ते ब्राह्मणाः । स्मृताः? ।
सायं प्रातः सदा सन्ध्यां ये न विप्रा उपासते ।
कामन्तान् धार्मिको राजा शूद्रकर्मसु योजयेत् । विधान-
मेतन्नो देयं रहस्यं यस्य कस्यचित् । वेदाध्यायाभिजा०
ताय प्रदेयं स द्विजन्मने” । ब्राह्मणस० योगियाज्ञवल्क्यः
“अतःपरं प्रवक्ष्यामि सन्ध्योपासनमुत्तमम् । अहोरात्र-
कृतैः पापैर्यामुपास्य प्रमुच्यते” । तथा “यावन्तोऽस्यां
पृथिव्यां हि विकर्मस्थास्त वै द्विजाः । तेषां वै षावनार्थाय
सन्ध्या सृष्टा स्वयम्भुवा । या सन्ध्या सा तु गायत्रीं
पृष्ठ ४५२१
द्विधा भूता प्रतिष्ठिता” । तथा “सा सत्यं कर्म विप्राणाम-
होरात्रकृतस्य तु । पापापनुत्तये यस्मात् तस्मान्नित्यं
समाचरेत्” यमः “सन्ध्यामुपासते ये तु सततं संशित-
व्रताः । विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम्” ।
शातातपः “अनृत्तं मद्यगन्धञ्च दिवामैथुनमेव च । पुनाति
वृषलस्यान्नं बहिः सन्ध्या ह्युपासिता” । याज्ञवल्क्यः
निशायां वा दिवा वापि यदज्ञानकृतं भवेत् । त्रिकाल-
सन्ध्याचरणात् तत्सर्वं विप्रणश्यति” । देवलः “सायं प्रातः
सदा सन्ध्यामुपासीत शुचिर्बहिः” । विष्णुपु० “सर्वकाल-
मुपस्थान सन्ध्यायांः पार्थिवेष्यते । अन्यत्र सूतकाशौ च
विभ्रमातुरभीतितः” । योगियाज्ञवलक्यः “सर्वावस्थो-
ऽपि यो विप्रः सन्ध्योपसनतत्परः । ब्राह्मण्यान्न स हीयेत
अन्यजन्मगतोऽपि सन् । सन्ध्या तूपसिता येन तेन
विष्णुरुपासितः । दोर्घमायुः स बिन्देत सर्वपापैः प्रमु-
च्यते । तथा “सायं प्रातस्तु यः सन्ध्यां सऋचां पर्यु-
पासिते । जप्त्वैव पाबनीं देवीं सावित्रीं लोकमात-
रम् । स तया पावितो देव्या ब्राह्मणो धूतकिल्विषः ।
न सीदेत् प्रतिगृह्णानोह्यपि पृथ्वीं ससागराम्” । अग्नि-
पुराणे मुनय ऊन्वुः कथं मुने! दिवं याति ब्राह्मणो
मुक्तकिल्विषः । अनाग्नको हि नो ब्रूहि यदुक्तं वह्निना
वुरा” सूत उवाच “सायं प्रातश्च यः सन्ध्यामुपास्तेऽक्षुण्ण
मानसः । जपते पावनीं देवीं गायत्रीं वेदमातरम् ।
तया स भावितो देव्या ब्राह्मणः धूतकिल्विषः । न
सीदेत् प्रतिगृह्णानः पृथिवीञ्च ससामराम् । ये चान्ये
दारुणाः केचिद्ग्रहाः सूर्य्यादयो दिवि । ते चास्य
सौम्यतां यान्ति शिवाः शिवतरास्तथा । यत्र तत्र मतञ्चैनं
दारुणाः पिशिताशनाः । धोररूपा महाकायाः प्रभवन्ति
न राक्षसाः । यावन्तश्च पृथिव्यां हि चीर्णवेदव्रता
द्विजाः । अचीर्णव्रतवेदा वा विकर्मपथमाश्रिताः ।
तेषान्तु पावनार्थाय गायत्री नित्यमेव हि । द्वेसन्ध्ये
ह्युपतिष्ठेत तदन्वर्थं महाव्रतम्” । तथा “द्वे सन्ध्ये
ह्युपतिष्ठेत गायत्रीं प्रयतः शुविः । यस्तस्य दुष्कृति
र्नास्ति पूर्वतः परतोऽपि वा । एवं किल्विषयुक्तो हि
विनिर्दहति पातकम् । उभे सन्ध्ये ह्युपासीत तस्मा-
न्नित्यं द्विजोत्तमः” । तथा “सन्ध्या येन न विज्ञाता सन्ध्या
नेवाप्युपासिता । जीवन्नेव भवेत् शूद्रो मृतः श्वा चाभि
जायते” । मनुः “न तिष्ठति तु यः पूर्वां नोपास्ते यश्च
पश्चिमाम् । स साधुभिर्बहिष्कार्य्यः सर्वस्मातु द्विजक-
र्मणः” । व्यासः बहिः सन्ध्या दशगुणा गोष्ठप्रस्रवणा-
दिषु । खाते तीर्थे दशगुणा साहस्री जाह्नवीजले” ।
बहिरिति अनाच्छादितस्थाने प्राङ्गणादौ । शातातपः
“गृहेषु प्राकृती सन्ध्या गोष्ठे शतगुणा स्मृता । नदीषु
शतसाहस्रा अनन्ता शिवसनिधौ” । गृहेषु गृहवीथ्यादौ ।
योगियाज्ञवल्क्यः “सन्धौ सन्ध्यामुपासीत नास्तगे नोद्-
गते रवौ । सन्ध्यात्रयन्तु कर्त्तव्यं द्विजेनात्मविदा
सदा” । संवर्त्तः “प्रातःसन्ध्यां सनक्षत्रामुपासीत
यथाविधि । सादित्यां पश्चिमां सन्ध्यामर्द्धास्तमितमा-
स्कराम्” । नरसिंहषुराणे “पूर्वां सन्ध्यां सनक्षत्रामु-
पक्रम्य यथाविधि । गायत्रीमभ्यमेत्तावद्यावदादित्य-
दर्शनम्” । मनुः “ऋषयो दीर्घसन्ध्यत्वात् दीर्घमायुरवा-
प्नुयुः । पूजां यशश्च कीर्त्तिञ्च ब्रह्मवर्चसमेव च ।
उपास्ते यस्तु नो सन्ध्यां ब्राह्मणो हि विशेषतः । सजीव-
न्नेव शूद्रः स्यान्मृतःश्वा चाभिधीयते” । तथा “सन्ध्याहीनो
ऽशुचिर्नित्यमनर्हः सर्वकर्ममु । यदन्यत् कुरुते किञ्चित् न
तस्य फलवाग्भवेत्” । यमः “अनागतान्तु ये पूर्वामतीतां
चापि पश्विमाम् । ये विप्रा नानुतिष्ठन्ति सन्ध्यां ते वृषलाः
स्मृताः” । छन्दोगपरिशिष्टे कात्यायनः “सन्ध्यां नोपास्य
चाकर्त्ता स्नानदानस्य यः सदा । तं दोषा नोपसर्पन्ति
वैनतेयमिवोरगाः” तथा “एतत् सन्ध्यात्रयं प्रोक्तं ब्राह्मण्यं
यदधिष्ठितम् । यस्य नास्त्यादरस्तत्र न स ब्राह्मण
उच्यते” । कूर्मपुराणे “न तिष्ठति तु यः पूर्वां नोपास्ते यस्तु
पश्चिमाम् । स शूद्रेण समो लोके सर्वधर्मविवर्जितः” ।
मुख्यकाले सन्ध्यावन्दनाकरणे प्रायश्चित्तमाह । व्यासः
“आदित्योऽभ्युदियाद्यस्य सन्ध्योपास्तिमकुर्वतः ।
स्नात्वा प्राणांस्त्रिराचभ्य गायत्र्यष्टशतं सपेत्” पारि-
जाते तु “कालातिकमणे चैव चतुर्थ्यार्घ्यं प्रदापयेत्”
इत्युक्तम् । मलमामुतत्त्वे तु “कालातीता वृथा सन्ध्या
बन्ध्यस्त्रामैथुने यथा । गायत्रीं दशधा जप्त्वा पुनः सन्ध्यां
समाचरेत्” काशीखण्डोक्तं प्रायश्चित्तान्तरमुक्तम् । अत्र
यथाचारं व्यवस्था । सङ्गवपर्य्यन्तप्रातः सन्ध्याया
गौणकालः आप्रदोषावसानं सायंसन्ध्यायाः इति मण्डनः ।
“उदयास्तमयादूर्द्ध्वं यावत् स्याद्घटिकात्रयम् । तावत्
सन्ध्यामुपासीत प्रायश्चित्तमतःपरम्” इति स्कान्दे
विशेष उक्तेः । मध्याह्ने तु दक्षः “आध्यर्द्धयामादासायं
सन्ध्या माध्याह्निकीष्यते । अर्घ्यप्रदानतः पूर्वमुदया-
स्तमयेऽपि वा । गायत्यष्टशतं जप्यं प्रायश्चित्तं द्विजा-
पृष्ठ ४५२२
तिभिः” इति । गौणकालेऽप्यसम्भवे यमः “दिवोदितानि
कर्माणि प्रमादादकृतानि चेत् । शर्वर्य्याः प्रथमे यामे
तावत् कुर्य्याद्यथाक्रमम्” । अत्र मुख्यकालानुरोधात्
सायंसन्ध्योपासनं पूर्वं कृत्वा “आगन्तूनामन्ते निवेशः”
इति न्यायेनातीतकालं कर्म पश्चात् कार्य्यमिति न्यायतः
प्राप्वं तस्य निषेधार्थं यथाक्रममिति वचनमिति । “दि
वोदिनानि कर्माणि प्राप्नुवन्तीतराणि च । दिवोदितानि
कृत्वैव विदध्यादुत्तराणि तु” मदनपरिजाते वसिष्ठोक्तेः ।
सूतके विशेषः सूतके इत्यनुवृत्तौ “अवगाहं ब्रह्मयज्ञं
सौरजप्यञ्च वर्जयेत्” इति “स्नानं सन्ध्यां त्यजन् विप्रः
सप्ताहाच्छूद्रतां व्रजेत् । तस्मात् स्नानञ्च सन्ध्याञ्च
सूतकेऽपि न सन्त्यजेत् । सूतके मृतके चैव सन्ध्याकर्म
समाचरेत् । मनसोच्चारयेन्मन्त्रान् प्राणायाममृते द्विजः”
इत्यनयोरविरोधाय न मानससन्ध्यानिषेध इति
कल्प्याम् । किन्तु प्राणायाममन्त्रा मनसापि नोच्चार्य्या
इत्यर्थः । पैठिनसिस्तु “सूतके सावित्र्याञ्जलिं प्रक्षिप्य
प्रदक्षिणं कृत्वा सूर्यन्ध्यायन्नमस्कुर्य्यात्” इत्यर्घ्यदानान्तां
सन्ध्यामाह । अन्ये तु उच्चार्य्य याचा गायत्रीं दद्याद-
र्ष्याञ्जीनपि । अष्टविंशतिकृत्वोऽत्र गायत्रीं मनसा
जपेत्” इति गायत्रीजपमप्याहुः । “सूतके कर्मणा-
न्त्यागः सन्ध्यादीनां बिधीयते” इति यद्यपि सन्ध्या-
यानिवृत्तिः श्रूयते तथाप्यञ्जलिप्रक्षेपादिकं कार्य्यम् ।
“सूतके सावित्र्या चाञ्जलिम्प्रक्षिप्य प्रदक्षिणं कृत्वा
सूर्य्यं ध्यायन्नमस्कुर्य्यादिति” पैठिनसिस्मरणात् इति
मिताक्षरा सन्ध्यादीनामप्यपवादमाहापरार्के पुलस्त्यः
“सन्ध्यामिष्टिं चरुं होमं यावज्जीवं समाचरेत् ।
न त्यजेत् सूतके वापि त्यजन् गच्छेदधो द्विजः । सूतके
मृतके चैव सन्ध्याकर्म समाचरेत् । मनसोच्चारयेन्मन्त्रान्
प्राणायाममृते द्विजः”? । यत्तु चन्द्रिकायां जावालः
“सन्ध्यां पञ्च महायज्ञान् नैत्यिकं स्मृतिकर्म च । तन्मध्ये
हापयेत्तेषां दशाहान्ते पुनः क्रिया” यच्च संवर्त्तः
“सूतके कर्मणां त्याग सन्ध्यादीनां विधीयते” यच्च
विष्णुपु० “सर्वकालमुपसा तु सन्ध्ययोः पार्थिवेष्यते ।
अन्यत्र सूतकाशौचविभ्रमातुरभीतितः” इति । तत्
संपर्ण्णसन्ध्यानिषेधपरम् । “अर्घ्यान्ता मानसी सन्ध्या
कुशवारिविवर्जिता” इति शुद्धिद्वीपे च्यवनोक्तेः । पैठीनसि-
ख्यत्व मन्त्रोच्चारणमप्याह” सूतके सावित्र्याञ्जलिं प्रक्षिप्य
सूर्य्यंध्यायन्नमस्कुर्य्यात्” । प्रयोगपरिजाते भरद्वाजोपि
“सूतके मृतके कुर्य्यात् प्राणायामममन्त्रकम् । तथा
मार्जनमन्त्रांस्तु मनसोच्चार्य मार्जयेत् । गायत्रीं सम्यगु-
च्चार्य्य सूर्य्यार्घ्यं निवेदयेत् । मार्जनं तु न वा कार्य्य-
मुपस्थानं न चैव हि” । इत्येवं मिताक्षरापरिजातादौ
अशौचे सन्ध्याकरणविशेषस्योक्तेः गौड़ानां तदनाचर-
णमनाचार एव तस्य श्रीतत्वेन स्मृत्या बाधानुचितत्वा-
दपि मिताक्षराद्युक्तं युक्तभिति द्रष्टव्यम् ।

प्रातःसवेन न० सवनं यज्ञाङ्गकर्मभेदः सोमाभिषवादि प्रातः

कर्त्तव्यम् सवनम् । प्रातःकर्त्तव्ये यज्ञाङ्गकर्मभेदे । अप
प्रातःसव तत्रार्थे पु० ।

प्रातःस्नान ७ त० । प्रातःकर्त्तव्ये जलावगाहनादिरूपे स्नाने

तस्य कर्माङ्गताद्युक्तं गरुड़पु० “ऊषः काले तु संपाप्ते
कृत्वा चावश्यकं बुधः । स्नायान्नदीषु शुद्धासु शौचं
कृत्वा यथाविधि । प्रातःस्नानेन पूयन्ते येऽपि पापकृतो
जनाः । तस्मात् सर्वप्रयत्नेन प्रातःस्नानं समाचरेत् ।
प्रातःस्नान प्रशंसन्ति दृष्टादृष्टशुभं हि तत् । सुखसुप्तस्य
सततं लालाद्याः संस्रवन्ति हि । अतो नैवाचरेत्
कर्माण्यकृत्वा स्नानमादितः । अलक्ष्मीः कालकर्णी च
दुःस्वप्नं दुविचिन्तितम् । प्रातःस्नानेन पापानि धूयन्ते
नात्र संशयः । न च स्नानं विना पुंसां प्राशस्त्यं कर्म
संस्मृतम् । होमे जप्ये विशेषेण तस्मात् स्नानं समाच-
रेत् । अशक्तावशिरस्कन्तु स्नानमस्य विधीयते” ।

प्रातःस्मरणीय त्रि० ७ त० । प्रातःकीर्त्तनीये देवादौ पुण्य-

चरिते । प्रभातशब्दे ४४७५ पृ० दृश्यम् ।

प्रातर् अव्य० प्र + अत--अरु । १ प्रभाते अमरः “प्रातःकालो

मुहूर्त्तां स्त्रीनि” ति स्मृत्युक्ते २ सूर्य्योदयावधिबिहूर्त्तकाले च

प्रातर त्रि० प्रकृष्ट आतरो यत्र । प्रकृष्टातररूपतरणपण्ययुक्त

देशे ततः कृशाश्वा० चतुरर्थ्यां छण् । प्रातरीय तस्यादूर-
देशादौ त्रि० ।

प्रातरचक पु० सर्पभेदे भा० आ० ५७ अ० ।

प्रातरनुवाक पु० प्रातःपाठ्ये अनुवाके वेदांशभेदे शस्त्रे

“प्रातरनुवाकं जाग्रदुपासीत” कात्या० श्रौ० ९ । १ । १३
“पुरा प्रातरनुवाकस्य” छा० उ० “प्रातरनुवाकस्य प्रार-
म्भात्” भा० “अप्रगीतमृग्जातं शस्त्रं यत् प्रातःकाले
शस्यते प्रातरनुवाकस्तस्येति यावत्” आनन्द० ।

प्रातराश पु० अश + भावे घञ् ७ त० । प्रातःकालिके भोजने त्रिका०

प्रातर्गेय पु० प्रातर्गेयमस्य । १ स्तुतिपाठके त्रिका० २ प्रातः-

काले गातके सामादौ च त्रि० ।
पृष्ठ ४५२३

प्रातर्दिन न० कर्म० । पूर्ववर्त्तिनि दिवसे त्रिकाण्डशेषः ।

प्रातर्भोक्तृ पु० ७ त० । काके शब्दच० ।

प्रातर्भोजन न० ७ त० । प्रातराशे जटाध० ।

प्रातस्तरा(मा)म् अव्य० प्रातर् + तरप् तमप् वा आमु ।

अत्यन्तप्रातःकाले “प्रातस्तरां पतत्त्रिभ्यः” भट्टिः ।

प्रातस्त्रिवर्गा स्त्री प्रातः प्रातःस्नानेन त्रिवर्गो यस्याः ।

गङ्गायां भा० अनु० २६ अ० ।

प्राति स्त्री प्रा + भावे क्तिन् । १ पूर्त्तौ २ लाभे च मेदि० ।

प्रातिकण्ठिक त्रि० प्रतिकण्ठं गृह्णाति प्रतिकण्ठ + ठक् ।

प्रतिकण्ठग्राहके ।

प्रातिका स्त्री प्र + अत--ण्वुल् टाप् । जवावृक्षे राजनि० ।

प्रातिकामिन् दुर्य्योधनस्य दूतभेदे भा० भी० ६५ अ० ।

प्रातिकूलिक त्रि० प्रतिकूलं वर्त्तते प्रतिकूल । ठञ् । प्रतिकूलं

वर्त्तमाने स्त्रियां ङीप् “तां प्रातिकूलिकीं मत्वा” भट्टिः

प्रातिक्य न० प्रतिकस्य भावः पुरोहिता० यक् । प्रतिकभावे

प्रातिजनीन त्रि० प्रतिजनं साधु प्रतिजना० खञ् । प्रति-

जनं साधौ ।

प्रातिनिधिक पु० प्रतिधि + स्वार्थे ठक् । प्रतिनिधौ कात्या० श्रौ० २५ । १३ । ४

प्रातिपथिक त्रि० प्रतिपथमेति ठञ् । प्रतिपथं गन्तरि स्त्रियां

ङीप् ।

प्रातिपद त्रि० प्रतिपदि भवः सन्धिवेला० अण् । प्रतिपदितिथौ भवे ।

प्रातिपदिक त्रि० प्रतिपदायां तिथौ भवः “कालाट् ठञ्”

पा० ठञ् । १ प्रतिपदायां तिथौ भवे २ तत्राविर्भूते वह्नौ पु०
“आदौ प्रतिपदा येन त्वमुत्पन्नोऽसि पावक! । त्वत्पदात्
प्रातिपदिकं संभविष्यन्ति देवताः” वराहपु० । ३ नाम्नि
शब्दभेदे “यत् प्रातिपदिकं नाम तन्नाम्नो नातिरिच्यते”
शब्दश० । तल्लक्षणन्तु “अर्थवदघातरप्रत्ययः प्रातिपदिकम्”
“कृत्तद्धितससासाश्च” पा० व्याख्याते चैते सरलायामस्माभिः
“अधातुरप्रत्यय इति पुंलिङ्गनिर्देशस्त परवल्लिङ्गं द्वन्द्व
तत्पुरुषयोरित्यभिधानात् । एतत्सूत्रे परसूत्रे चार्थव-
त्त्वमेतत्सज्ञाफलीभूतबिभक्तीतरसमभिव्याहारानपेक्षया
लोकेऽर्थबोधजनकत्वम् अन्थथाऽधातुरिति पर्युदासेन
व्याख्यानाद्वाऽर्थवत्त्वे सादृश्यग्रहणेन सिद्धे उत्तरसूत्रे
कृदादीनामनर्थकानामसिद्धेश्चार्थवत्त्वग्रहणं व्यर्थं स्यात् ।
अहन्निति धातौ काण्डे इत्यादि प्रत्ययान्ते च एतत्-
साद्यविभक्त्यनपेक्षत्वेऽपि तदितरानपेक्षत्वसत्त्वेऽपि
अधातुरप्रत्यय इति तत्पर्युदासः । एकदेशवर्णेऽर्थबोध-
जनकत्वाबावान्नातिप्रसङ्गः । अत्र प्रत्ययपदं प्रत्ययप्रत्य-
यान्तपरं तन्त्रावृत्त्यैवोभयग्रहणादित्याह (प्रत्ययं प्रत्य-
यान्तञ्चेति) सि० कौ०) । अतएव भाष्ये “न लोके केवलेन
प्रत्ययेनार्थोऽवगम्यते केन तर्हि सप्रकृतिकेन” इत्युक्तम्
हरिणाप्युक्तम् । “धात्वादीनां विशुद्धानां लौकिकार्थो न
विद्यते । कृत्तद्धितानामर्थश्च केवलानामलौकिकः । प्रा-
ग्विभक्तेस्तदन्तस्य तथैवार्थो न विद्यते” इति । भू सत्ता-
यामित्यादौ कर्मण्यणित्यादौ चार्थकथनन्तु अलौकिकार्थ-
कथनमात्रं प्रक्रियादशायामिति वेदितव्यम् “ब्राह्मणार्थो
यथा नास्ति कश्चिद् ब्राह्मणकम्बले । देवदत्तादयो वाक्ये
तथैव स्युर्निरर्थकाः” इत्युक्तेरखण्डवाक्यस्यापि बोधकत्वा-
त्तस्यापि प्रातिपदिकत्वापत्त्या तदुत्तरं स्वादिप्रसङ्ग इति
तन्निवारणायेदं नियमसूत्रमित्याह “पूर्वसूत्रेणेति” सि० कौ० ।
प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य ग्रहणमिति
न्यायादेव प्रत्ययान्तत्वलाभात् कृत्तद्धितादीनामपि प्रत्यय-
त्वात् पूर्वसूत्रेण संज्ञासिद्धेरिति भावः । पदमिति स्वा-
तन्त्र्येण प्रयोगार्हमर्थवदित्यर्थः । अनुकरणस्य शब्दमात्र
परतया न प्रातिपदिकत्वमनुकरणस्यानितिपरस्य प्रयोगा-
सत्त्वेऽपि इतिपरस्य पृथक् प्रयोगार्हत्वादिति
गवित्ययमाहेत्यादौ न प्रसङ्गः” हरिणाप्युक्तम् । अतएव
“गवित्याह भू सत्तायामितीदृशम् । न प्रातिपदिकं नापि
पदं साधु तु तत् स्मृतम्” । प्रातिपदिकार्थे द्योत्ये प्रथ-
मेव । तदर्थश्च नामार्थाः “स्वार्थो द्रव्यञ्च लिङ्गञ्च संख्या
कर्मादिरेव च । अमी पञ्चैव नामार्थास्त्रवः कोषाञ्चिद-
ग्निमाः” इत्युक्ताः । तत्र अलिङ्गा, नियतलिङ्गाश्च प्राति-
पदिकार्थे प्रथमाया उदाहरणम्” सि० कौ० ।

प्रातिपीय पु० १ नृपभेदे भा० द्रो० १५७ अ० । २ गोत्रप्रवरर्षिभेदे

च प्रवराध्यायः ।

प्रातिपेय पु० नृपभेदे भा० स० ६९ अ० ।

प्रातिभ त्रि० प्रनिभाऽस्त्यस्य प्राज्ञा० अण् । १ प्रतिभान्विते

योगिनां योगविघ्नकारके २ उपसर्गभेदे मार्कण्डेयपु० ४०
अ० यथा “प्रातिभः श्रावणो दैवो भ्रमावर्त्तौ तथापरौ ।
पञ्चैते योगिनां योगविघ्नाय कटुकोदयाः । वेदार्थाः
काव्यशास्त्रार्थाः विद्याः शिल्पान्यशेषतः । प्रतिभान्ति
यदस्येति प्रातिभः १ स तु योगिनः । शब्दार्थानखिलान्
बेत्ति शब्दं गृह्णाति चैव यत् । योजनानां सहस्रेभ्यः
श्रावणः २ सोऽभिधीयते । समन्ताद्वीक्षते चासौ स यदा
देवतोपमः । उपसर्गन्तमप्याहुर्दैव ३ मुन्मवत्तवद् बुधाः ।
भ्राम्यते यन्निरालम्बं मनो दोषेण योगिनः । समस्ता-
पृष्ठ ४५२४
चारविभ्रंशाद् भ्रमः ४ स परिकीर्त्तितः । आवर्त्त इव
तोयस्य ज्ञानावर्त्तो यदाकुलः । नाशयेच्चित्तमावर्त्त ५
उपसर्गः स उच्यते । एतैर्नाशितयोगास्तु सकला देवयो-
नयः । उपसर्गैर्महाघोरैरावर्त्तन्ते पुनःपुनः” ।

प्रातिभाव्य न० प्रतिभुयो भावः ष्यञ् द्विपदवृद्धिः ।

(जामिनि) १ प्रतिभूभावे प्रतिभूत्वेन देये २ धने च मनुः ८ । १५ ।
५९ दर्शनप्रतिभूशब्दे ३४७५ पृ० दृश्यम् ।

प्रातिभासिक त्रि० प्रतिभासादागतः ठक् । प्रतिभासाधीन

सत्त्ववति मिथ्यारजतादौ वेदान्तमते हि सत्त्वं त्रिविधं
पारमार्थिकं व्यवहारिकं प्रातिभासिकं च तत्र ब्रह्मणः
सत्त्वं पारमार्थिकं त्रिकालाबाध्यत्वात्, घटादीनां सत्त्वं
व्यवहारिकं व्यवहारकालेऽवाध्यत्वात्, शुक्तौ रजतादेः
सत्त्वं प्रातिभासिकम् अधिष्ठानज्ञानबाध्यत्वात् प्रतिभास-
कालमात्रसत्त्वाच्चेति वेदान्तपरिभाषायां स्थितम् ।

प्रातिशाख्य त्रि० प्रतिशाखं भवः परिमुखा० ञ्य । प्रति-

शाखं भवे व्याकरणभेदे न० ।

प्रातिश्रुत्क पु० प्रतिश्रुति तत्समये भवः ठञ् । प्रतिश्रवण-

वेलायां भवे पुरुषे “यत्र वायं श्रौत्रः प्रातिश्रुत्कः
पुरुषः” वृ० उ० ।

प्रातिस्विक त्रि० प्रतिस्वं भवः ठक् । १ असाधरणधर्मे त्रिका० । २ प्रतिव्यक्तिभवे च ।

प्रातिहर्त्त्र न० प्रतिहर्तुर्भावः कर्म वा उद्गात्रा० अञ् ।

प्रतिहर्तृरूपस्य ऋत्विग्मेदस्य कर्मणि १ प्रतिहरणे
२ तद्भावे च ।

प्रातिहारक पु० प्रतिहारक एव स्वार्थे अण् । प्रति-

हारकशब्दार्थे अमरः ।

प्रातिहारिक त्रि० प्रतिहारः प्रयोजनमस्य ठक् । सायाकारके अमरः ।

प्रातीतिक त्रि० प्रतीत्या निर्वृत्तः ठञ् । प्रातिभासिके पदार्थे

प्रातीप प्रतीपस्यायम् अण् । प्रतीपनृपस्यापत्ये शान्तनौ

नृपे त्रिका० ।

प्रातीपिक त्रि० प्रतीपं वर्त्तते ठञ् । प्रतीपं वर्त्तमाने प्रतिकूलाचारिणि ।

प्रातृद पु० ऋषिभेदे शत० ब्रा० १४ । ८ । १३ । २

प्रात्ययिक त्रि० प्रत्ययाय स्थितः ठक् । प्रतिभूभेदे “दर्शनप्र-

तिभूर्यत्र मृतः प्रात्ययिकोऽपि वा याज्ञ० । दर्शनप्रतिभू-
शब्दे ३४७८ पृ० दृश्यम् ।

प्राथमकल्पिक त्रि० प्रथकल्पे भवः ठक् । १ प्रथमारम्भोचिते

वेदाध्ययनादौ । प्रथमं कल्पमधीते कल्पान्तत्वात् ठक् ।
३ प्रथमकल्परूपशिक्षाग्रन्थाध्यायिनि अमरः ।

प्राथमिक त्रि० प्रथमे भवः ठञ् । १ प्रथमभवे स्त्रियां ङीप् ।

प्रथममधीते प्रथम + ठक् । वेदादेः २ प्रथमाध्येतरि च ।

प्रादि पु० उपसर्गसंज्ञार्थं पा० उक्ते शब्दभेदे स च गणः पा०

ग० उक्तो यथा “प्र परा अप सम् अनु अव निस् निर् दुस्
दुर् वि आङ् नि अधि अपि अति सु उत्(द्) अभि प्रति
परि उप” एते प्रादयः । निस् दुस् सान्तौ “निसस्तपतावना
सेवने इति (८ । ३ । १२०) सूत्रे निस इति निर्देशात्
निष्कृतं दुष्कृतमित्युदाहृत्य “इदुदुपधस्य यो विसर्जनीयः”
इति भाष्योक्तेश्च । निरः कुषः इति (७ । २ । ४६)
“सुदुरोरधिकरणे” इति च निर्देशात् रान्तावपि मनो० ।
उदिति दान्तोऽपि “उदोऽनूर्ध्वध्वेष्टायामिति” ।
“उपसर्गाः क्रियायोगे” पा० “गतिश्च” पा० प्रादयः क्रिया
योगे उपसर्गसंज्ञा गतिसंज्ञाश्च स्युः” सि० कौ० ।

प्रादुराक्षि पु० गोत्रप्रवरर्षिभेदे प्रवराध्यायः ।

प्रादुर्भाव पु० प्रादुस् + भू--भावे घञ् । आविर्भावे प्रथमप्रकाशे

प्रादुस् अव्य० प्र + अद--उसि । प्राकाश्ये ऊर्य्या० अस्य क्रिया-

योगे गतिसंज्ञा प्रादुष्कृत्य प्रादुर्भूय । स्वार्थे यत् न दि०
लोपः प्रादुष्य प्रादुर्भावे न० उज्ज्वलदत्तः ।

प्रादेश पु० प्र + दिश--घञ् द्रीर्घः । १ तर्जनीसहितविस्तृताङ्गुद्वे

अमरः २ देशमात्रे मेदि० “अङ्गुष्ठस्य प्रदेशिन्या व्यासः
प्रादेश उच्यते” इत्युक्ते ३ परिसाणभेदे च देवीपु० ।

प्रादेशन न० प्र + आ + दिश--ल्युट् । दाने अमरः ।

प्रादेशिक त्रि० प्रदेशे भवः ठक् । प्रदेशभवे

प्रादोष(षि)क त्रि० प्रदोषे भवः वा अण्ठञौ । प्रदोषभवे स्त्रियां ङीप् ।

प्रादोहनि पु० स्त्री प्रदोहनस्यापत्यम् इञ् । तदपत्ये । ततः

यूनि फञ् तौल्व० तस्य न लुक् । प्रादोहनायनि तदीये
यून्यपत्ये पुंस्त्री० ।

प्राधनिक त्रि० प्रधनं संग्रामः प्रयोजनमस्य ठक् । युद्धोपकरणे भाग० ३ । ८ । ३१ ।

प्राधा स्त्री प्रधैव स्वार्थे ण । दक्षकन्याभेदे काश्यवकलत्रभेदे

हरिवं० २२६ अ० । तस्याः अपत्यं ठक् । प्राधेय तदपत्ये
पुंस्त्री० तदपत्यानि च देवगन्धर्वादयः भा० आ० ६५ अ० ।
अग्निपुराणे प्राधेया इत्येव पाठः शब्दकल्पद्रुमे प्रापेय
शब्दकल्पनं लिपिकरप्रमादकृतपाठदर्शनात् इति बौध्यम् ।

प्राधानिक त्रि० प्रधान + स्वार्थे ठक् तस्येदं ठक् वा ।

१ प्रधानशब्दार्थे २ प्रधानसम्बन्धिनि च “प्राधानिकरहस्यञ्च”
इत्यादि देवीमाहात्म्यव्याख्यायां गुप्तवत्यां स्थितम् ।

प्राधान्य न० प्रधानस्य भावः ष्यञ् । श्रेष्ठत्वे । भावे त्वप्रधा-

नत्व न० तल् प्रधानता स्त्री तत्रार्थे । “अप्राधान्यं विधे-
र्यत्र प्रतिषेधे प्रधानता” शाब्दिककारिका ।
पृष्ठ ४५२५

प्राध्व त्रि० प्रकृष्टोऽध्वा अच्समा० । १ दूरपथे २ प्रह्वे नम्रे

३ बद्धे च हेमच० ब० व्री० । ४ वहुदूरगामिनि रथादौ च ।

प्राध्वम् अव्य० प्र + आ + ध्वन--डमि । १ आनुकूल्ये २ बन्धने

३ नम्रतायाञ्च अमरः ।

प्रान्त पु० प्रकृष्टोऽन्तः । १ शेषसीमायाम् हेमच० । २ ऋपिभेदे

पु० । ततः गोत्रापत्ये कृण्वा० फञ् । प्रान्तायन तदपत्ये
पुंस्त्री० ।

प्रान्तदुर्ग न० प्रान्ते दुर्गं नृपाश्रयस्थानभेदः । दुर्गभेदे शब्दार्थक० ।

प्रान्तर न० प्रकृष्टमन्तरं व्यवधानं यत्र । १ दूरगम्ये पथि ।

२ वृक्षादिछायाशून्ये पथि ३ वने ४ कोटरे च मेदि० ।

प्रान्तशून्य पु० प्रान्ते शून्यमस्य । छायादिरहिते पथि शब्दर०

प्रापणिक पु० प्र + आ + पण--“प्राङि पणिकषः” उणा०

किकन् । पण्यविक्रेतरि उज्ज्वलद० ।

प्राप्त त्रि० प्र + आप--कर्मणि कर्त्तरि वा क्त । १ लब्धे २

आसादिते ३ भूते अमरः । ४ उपस्थिते च ।

प्राप्तकाल पु० प्राप्तः कालोऽस्य । करणयोग्ये काले ३ । ३ ।

१३३ पा० सूत्रे दृश्यम् ।

प्राप्तपञ्चत्व त्रि० प्राप्तं पञ्चत्वं मरणं येन । मृते अमरः ।

सरणे देहस्य पञ्चभूतात्मकताप्राप्तेस्तस्य तथात्वम् ।
प्रेतशब्दे दृश्यम् ।

प्राप्तभार पु० प्राप्तः भारः तद्वहनकालोऽस्य । भारसहवृषादौ शब्दरत्ना० ।

प्राप्तरूप त्रि० प्राप्तं रूपं येन । १ मनोहरे २ पण्डिते

अमरः । ३ रूपवति च ।

प्राप्ति स्त्री प्र + आप--भावे क्तिन् । १ उदये २ धनादिवृद्धौ

३ लाभे च अमरः । ४ प्रापणे ५ संहतौ शब्दरत्ना०
अणिमाद्यष्टविधैश्वर्य्यमध्ये ६ ऐश्वर्य्यभेदे ऐश्वर्य्यशब्दे दृश्यम् ।
बार्हद्रथजरासन्ध्यनृपसुताभेदे ७ कंसकलत्रभेदे भा० स०
१३ अ० । हरिवं० ९१ अ० “अप्राप्तस्यैव या प्राप्तिः सैव
संयोग उच्यते” भामा० उक्ते ८ संयोगस्वरूपे द्रव्यगुणमेदे
च । सा० द० उक्ते ९ मुखाङ्गभेदे “युक्तिः प्राप्तिः समाधान-
मिति” मुखाङ्गान्युद्दिश्य “संप्रधारणा चार्थानां युक्तिः,
प्राप्तिः सुखागमः” लक्षिता । कामस्य भार्य्याभेदे भा०
आ० ३६ अ० । नील० ता० उक्ते ८ सहमभेदे ।

प्राप्तिसम न० गौ० उक्ते जात्युत्तरभेदे “प्राप्य साध्यमप्राप्य

वा हेतोः प्राप्त्या विशिष्टत्वात् प्राप्तिसमः” सृ० । “हेतुः
प्राप्य वा साध्यं साधयेदप्राप्य वा? । न तावत् प्राप्य ।
प्राप्त्यामविशिष्टत्वादसाधकः द्वयोर्विद्यमानयोः प्राप्तौ
सत्यां किं कस्य साधकं साध्यं वा? । अप्राप्यसाधकं न
भवति । नाप्राप्तः प्रदीपः प्रकाशयतीति । प्राप्त्या प्रत्य-
वस्थानं प्राप्तिसमः” वात्स्था० “प्राप्त्या विशेषादनिष्टा
पादनेन प्रत्यवस्थानम्” गौ० वृ० ५ । ७ यथा आत्मा स
क्रियः क्रियाहेतुगुणवत्त्वादित्यादौ क्रियाहेतुगुणवत्त्वेनैव
किमिति क्रियावत्त्वं साध्यते । किमिति क्रियावत्त्वेन
तादृशगुणवत्त्वं न? उभयोरविशेषादिति” ।

प्राप्त्याशा स्त्री ६ त० । १ लाभेच्छायाम् २ प्रारब्धकार्यस्यावस्था-

भेदे “अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः ।
आरम्भो यत्न प्रत्याशा नियतापि फलाशया” इत्युद्दिश्य
“उपायापायशङ्काभ्यां प्राप्त्याशा प्राप्तिसम्भवा” इति
सा० द० लक्षिता ।

प्राप्य त्रि० प्र + आप--ण्यत् । १ गम्ये २ लभ्ये च ३ व्याकर-

णोक्ते “क्रियाकृतविशेषाणां सिद्धिर्यत्र न विद्यते ।
दर्शनादनुमानाद्वा तत्प्राप्यमिह कथ्यते” इत्युक्ते ४ कर्म-
भेदे कर्मन्शब्दे १७३० पृ० दृश्यम् । प्र + आप--ल्यप् ।
लब्ध्वेत्यर्थे अव्य० ।

प्राप्यकारिन् त्रि० प्राप्य विषयदेशं गत्वा करोति विषयप्रका-

शम् कृ--णिनि । विषयदेशं गत्वा विषयप्रकाशकारके
चक्षुरादौ इन्द्रिये । तत्र न्यायमते चक्षुष एव प्राप्य-
कारिता नान्यस्य । वेदान्तमते श्रवणस्यापीति भेदः ।

प्राबोधिक पु० प्रबोधाय हितं ठक् । १ ऊषःकाले शब्दमा०

प्रबोधः प्रवोधनं तत्र नियुक्तः तत्प्रयोजनमस्य वा ठञ् ।
२ मागधे प्रातःस्तुतिपाठकभेदे ।

प्राभञ्जन न० प्रभञ्जनो देवताऽस्य अण् । स्वातिनक्षत्रे

तस्य तद्देवताकत्वात् तथात्वम् । तस्यापत्यम् इञ् । प्राभ-
ञ्जनि हनूमति “आयूंषि त्वक्षु निर्भिद्य प्राभञ्जनिरमोच-
यत्” भट्टिः ।

प्राभव न० प्रभोर्भावः अण् । १ प्रभुत्वे २ श्रेष्ठत्वे च ।

प्राभवत्य न० प्रभवतो भावः ष्यञ् । विभुत्वे मनुः ८ । ४१२

प्राभाकर न० प्रभाकरस्य इदम् तन्मातं येत्ति वा अण् ।

१ मीमांसकभेदप्रभाकरसम्बन्धिनि २ तन्मतज्ञे च ।

प्राभृत न० प्र + आ + भृ--कर्मणि क्त । उपढौकनद्रव्ये अमरः ।

स्वार्थे क । २ प्राभृतक तत्रार्थे हारा० ।

प्रामधि पु० पौलस्त्ये सप्तर्षिमध्ये ऋषिभेदे हरिवं० ७ अ० ।

प्रामाणिक त्रि० प्रमाणेन निर्वृत्तः सिद्धः ठञ् । १ प्रत्यक्षादि-

प्रसाणसिद्धे २ शास्त्रसिद्धे च स्त्रियां ङीप् । ३ हैतुके
४ मर्य्यादाभिज्ञे ५ शास्त्रज्ञे ६ परिच्छे दके ७ प्रमाणकर्त्तरि च ।
पृष्ठ ४५२६

प्रामाण्य न० प्रमाणस्य भावः । तद्वति तत्प्रकारकत्वरूपे

ज्ञानधर्मभेदे तच्च न्यायमते परतोग्राह्यं मोमांसकादिमते
स्वतः, स्वमामग्र्या वा ग्राह्यमिति भेदः । प्रमात्वशब्दे
दृश्यम् ।

प्रामाद्य पु० प्रमाद्यत्यनेन प्र + मद बा० करणेण्यत् ।

१ वासकवृक्षे शब्दच० । भावे ण्यत् । २ प्रमादे न० ।

प्रामीत्य न० प्र + मी--भावे क्तिन् तत्र साधु ष्यञ् । १ ऋणे

त्रिका० पाठान्तरम् । प्रमीतस्य भावः ष्यञ् । २ मरणे न० ।

प्राय पु० प्र + अय--इण्--वा घञ्--अच् वा । १ मृत्यौ २

अनशनमृत्यौ ३ बाहुल्ये च मेदि० “प्रायेण सामग्र्यविधौ
गुणानाम्” कुमारः । ततः प्रकृत्यादि० सर्वविभक्त्य-
पवादस्तृतीया प्रायेण गार्ग्यः सि० कौ० ।

प्रायण न० प्र + अय--भावे ल्युट् । १ देहत्यागेन स्थानान्तरगमने

मनुः ९ । ३२३ श्लो० उदा० । २ प्रारम्भे च “सैषा त्रि-
वृत्प्रायणा” ताण्ड्य० ब्रा० २ । १५ । ३ “त्रिवृत् ऋग्स्तवकः
प्रायणे प्रारम्भे यस्याः” भा० ।

प्रायणीय त्रि० प्रायणं आरम्भदिनं तत्र विहितः छ ।

१ प्रारम्भदिने २ गवामयनप्रथमाहादौ च विहिते अतिरात्रे
यागभेदे च “प्रायणीयेऽद्य सुत्यामेके” कात्या० श्रौ०
१२ । ६ । २६ “प्रायणीयोऽतिरात्र एवाह साध्यः”
देवनाथः । ताण्ड्य० ब्रा० ४ । २ । १ । २ भाष्ये द्वितीयाह-
स्यैव प्रायणीयसंज्ञा तन्निरुक्तिश्च दर्शिता यथा
“प्रायणीयमेतदहर्भवति” मू० । “एतद्वक्ष्यमाणमहः प्रा-
यणीयं प्रकर्षेण यान्ति गच्छन्ति स्वर्गमनेनोत व्युत्-
पत्तेः । एतत्संज्ञं गवामयनस्य द्वितीयमहरनुष्ठेयं
भवति । यद्यपि श्रुत्यन्तरे प्रथमविहितस्थातिरात्रस्थैव
प्रायणीय इति संज्ञा प्रसिद्धा तथापि प्रथमोत्तमयोरति-
रात्रयोः सर्वत्र साधारणत्वादस्यैवाह्नो गवामयने
असाधारणं प्राथम्यमिति कृत्वा एतदादिकं गवायनस्वरूप-
मित्यस्मिन् द्वितीयेऽहनि प्रायणीयशब्दोऽत्र प्रयुज्यते ।
उक्तमहन्नौमनिर्वचनद्वरा प्रशंसति” भा० “प्रायणीयेन वा
अह्ना देवाः स्वर्गं लोकं प्रायन् यत् प्रायंस्तत् प्रायणीयस्य
प्रायणीयत्वम्” मू० “पुरा देवाः प्रायणीयेन प्रायणीया-
ख्येन खल्वह्ना स्वर्गं लोकं प्रायन् प्राप्ताः यद्यस्मात्
प्रायन् स्वर्गं प्रागमन् तस्मादस्याह्नः प्रायणीयत्वं प्राय-
णीयसाधारणत्वात् प्रायणीयमिति नाम सम्पन्नम्” भा० ।
तदहः कर्त्तव्यत्वादतिरात्रस्य प्रायणीयसंज्ञेति बोध्यम् ।

प्रायश्चित्त न० पापक्षयमात्रसाधनत्वेन विधिवोधिते कर्म-

भेदे यघोक्तं प्रा० वि०
तत्राङ्गिराः “पायो नाम तपः पोक्तं चिर्त्तः” निश्चय
उच्यते । तपो निश्चयसंयुक्तं प्रायश्चित्तमिति स्मृतम् ।
निश्चयसंयुक्तं पापक्षयसाधनत्वेन निश्चितमित्यर्थः । तथा
हारीतः “प्रयतत्वाद्वापचितमशुभं नाशयतीति प्राय-
श्चित्तम्” । एतेन पापक्षयमात्रसाधनं कर्म प्रायश्चित्त-
मिति तल्लक्षणम् । मात्रशब्दात् तुलापुरुषाश्वमेधादिव्या-
वृत्तिः । तत्र पापविशेषस्यैव कामाकामकृतस्य शक्तिविशेषस्य
ततो नाशः मतभेदेन अव्यवहार्य्यशब्दे ४७० । ७१ दर्शितः ।
“प्रायश्चित्तैरपेत्येनो यदज्ञानं कृतं भवेत् । कामतो
व्यवहार्य्यस्तु वचनादिह जायते” याज्ञ० वचनस्य प्रा० वि०
व्याख्यानं मतभेदेन दर्शितं यथा
“कामत इति अज्ञानकृतपापप्रायश्चित्तेन कामकृतपापाप-
गमो न भवति । किन्तु व्यवहार्य्य तामात्रम् । ननु सति
पापे कथं व्यवहर्य्यतामात्रम् अत्राह वचनादिति ।
अयमभिप्रायः अर्द्धप्रायश्चित्तानुष्ठानेनार्द्धपापक्षयात् सम्भा-
षणस्पर्शनदर्शनादिलघुव्यवहारो न दुष्टः न तु भोजन-
परिणयनव्यवहारोऽपि वचनादेव यथा कुनखित्वादि-
सूचितमहापापशेषसद्भावे व्यवहार्य्यतेति । अथ वा
अकारप्रश्लेषादुयथोक्तेन प्रायश्चित्तेन कामतोऽषि पापक्षयो
भवत्येव किन्त्वव्यवहार्य्यः पापाभावेऽपि वचनात् । अत
एव मनुः “बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः ।
शरणागतहन्तृंश्च स्त्रीहन्तृंश्च न संवसेत्” । याज्ञवल्क्यः
“शरणागतबालस्त्रीहिंसकान् संवसेन्न तु । चीर्णव्रतानपि
सदा कृतघ्नसहितानिमान् । कृतनिर्णेजनांश्चैव न जुगु-
पसेत कर्हिचित्” इति मनुवचनं त्वज्ञानकृतमहापापे
बोद्धव्यमिति । भवदेवस्तु सर्वत्र “मृतः शुद्धिमवाप्नुयादिति”
दर्शनादत्राव्यवहार्य्यतावचन निन्दार्थनित्याह ।
जिकनस्तु पापकर्मणा हि द्वयं जन्यते शरीरततमप्रायत्यमात्म-
मतञ्च पापं तच्च स्पर्शादौ वैटिककर्मणि चानर्हत्वलक्षणं
तेनात्र कामनाकृते केवलशरीरदोषः प्रायश्चित्तेनापनीयते
जन्मान्तरकृतदुरितस्येवात्मनः शरीरान्तरस्य व्यवहारा-
धिकारित्वम् आत्मगतञ्च पापं भोगादेव क्षीयते” तन्न
कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् इति मनुवचनादुक्त-
श्रुतिविरोधाच्च” । मिताक्षरामतन्तु अवहार्य्य शब्दे दर्शितम् ।
प्रायत्तिश्चस्य काम्यत्वं नैमित्तिकत्वं नित्यत्वञ्च यथाह
जावालः “काम्यानां सफलार्थञ्च दोषधातार्थमेव च ।
अतः काम्यं नैमित्तिकञ्च प्रायश्चित्तमिति स्थितिः ।
चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये । निन्द्यैश्च
लक्षणैर्युक्ता जाथन्तेऽनिष्क्रतैनसः” । ज्ञानाज्ञानन्नत-
पृष्ठ ४५२७
पापयोः प्रायश्चित्तभेदो यथा अङ्गिराः “अकामतः कृते
पापे प्रायश्चित्तं, न कामतः । स्यात्त्वकामकृते यत्तु द्वि-
गुणं बुद्धिपूर्वके” । प्रायश्चित्ताकथने दोषो यथा
“आर्त्तानां मार्गमाणानां प्रायश्चित्तानि ये द्विजाः ।
जानन्तो न प्रयच्छन्ति तेऽपि तद्दोषभागिनः । अनर्च्चितै-
रनाहुतैरपृष्टैश्चैव संसदि । प्रायश्चित्तं न वक्तव्यं
जानद्भिरपि जल्पतः । न्यायतो मार्गमाणस्य क्षत्रियादेः
प्रणामिनः । अन्तरा ब्राह्मणं कृत्वा व्रतमेतत् समादिशेत्”
हारोतः “यथावयो यथाकालं यथाप्राणञ्च ब्राह्मणे ।
प्रायश्चित्तं प्रदातव्यं ब्राह्मणैर्धर्मपाठकैः । तस्मात् कृच्छ्रम-
थाप्यर्द्धं पादं वापि (पादमेव नातो न्थूनम्) विधानतः ।
ज्ञात्वा बलाबलं कालं प्रायश्चित्तं प्रकल्पयेत् । अशक्ता-
वनुग्रहमाह पराशरः । “दुर्वलेऽनुग्रहः कार्य्यस्तथा वै
शिशुवृद्धयोः । अतोऽन्यथा भवेद्दोषस्तस्यान्नानुग्रही भवेत्” ।
स्नेहादिनानुग्रहे दोषो यथा “स्नेहाद्वा यदि वा
लोभात् मोहादज्ञानतोऽपि वा । कुर्वन्त्यनुग्रहं ये तु तत्
पापं तेषु गच्छति । शास्त्रीयप्रायश्चित्तमुदाहृत्य पश्चा-
दनुग्रहः कार्य्य इत्याहाङ्गिराः “कृत्वा पूर्वमुदाहारं
यथोक्तं धर्मवक्तृभिः । पश्चात् कार्य्यानुसारेण शक्त्या
कुर्वन्त्यनुग्रहम्” । वृद्धत्वादिभेदात् प्रायश्चित्तं यथा
“अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोड़शः । प्रायश्चित्तार्द्ध-
मर्हन्ति स्त्रियो रोगिण एव च” । पापनिष्क्रमणोपाया-
नाह मनुः “ख्यापनेनानुतापेन तपसाऽध्ययनेन
च । पापकृन्मुच्यते पापात्तथा दानेन चापदि” ।
आपदीत्यनेन अध्ययनतपसोर्दानमनुकल्प इत्युक्तम् ।
एतद्धिंसाव्यतिरिक्तविषयम् । हिंसायान्तु दानं मुख्यम् ।
यथा भविष्ये “हिंसात्मकानां सर्वेषां कीर्त्तितानां
मनीषिभिः । प्रायश्चित्तकदम्बानां दानं प्रथममुच्यते” । तथा
मनुः “दानेन ब्रधनिर्णेकं सर्पादीनामशक्नुवन् । एकैकश-
श्चरेत् कृच्छ्रं द्विजः पापापनुत्तये” । समान्यप्रायश्चित्ता-
न्याह संवर्त्तः “हिरण्यदानं गोदानं भूमिदानं तथैव च ।
नाशयन्त्याशु पापानि भहापातकजान्यपि” । यमः
“शोषणेन शरीरस्य तपसाऽध्ययनेन च । पापकृन्मुच्यते
धावात् दानेन च दमनेच” । मनुः “कृत्वा पापं हि
सन्तप्य तस्मात् पापात् प्रमुच्यते । नैतत् कुर्य्यां पुनरिति
निवृत्त्या पूयते नरः” । विष्णुपुराणम् “प्रायश्चित्तान्यशे-
षाणां कृष्णानुस्मरणं परम्” । यमः “गवाह्निकं देवपूजा
वैदभ्यासः सरित्प्लवः । नाशयन्माशु० पापानि महा-
पातकजान्यपि” । गोतमः “हिरण्यं गौर्वासोऽश्वो भूमि-
स्तिला घृतमन्नमिति देयानि” । एनान्येवानादेशे
विकल्पेन क्रियेरन् एनसि लघुनि लघूनि गुरुणि गुरूणि” ।
विष्णुपुराणम् “एवं विषयभेदाद्वैव्यवस्थाप्यानि पुत्रक! ।
प्रायश्चित्तानि सर्वाणि गुरूणि च लथूनि च ।
अन्यथा हि महावाहो! लघूनामुपदेशतः । गुरूणा-
मुपदेशो हि निषप्रयोजनतां व्रजेत्” । महाभारते
“यद्यकार्य्यशतं कृत्वा कृतं गङ्गाभिषेचनम् । सर्वं
दहति गङ्गाम्भस्तूलराशिमिवानलः” । शुद्धिकारणानि
व्रतान्याह विश्वामित्रः “कृच्छ्रचान्द्रायणादीनि शुद्ध्यभ्यु-
दयकारणम् । प्रकाशे वा रहस्ये वा संशयेऽनुक्तके
स्फुटे । प्राजापत्यं सान्तपनं शिशुकृच्छ्रं पराककः ।
अतिकृच्छ्रः पर्णकृच्छ्रः सौम्यकृच्छोऽतिकृच्छ्रकः ।
भहासान्तपनः शुद्ध्यै तप्तकृच्छ्रस्तु पावनः । जलोपवास
कृच्छ्रश्च ब्रह्मकूर्चस्तु शोधकः । एते समस्ता व्यस्ता वा
प्रत्येकमेकशोऽपि वा । पातकादिषु सर्वेषु पापकेषु प्रय-
त्नतः । कार्य्याश्चान्द्रायणैर्युक्ताः केवला वा विशुद्धये ।
शिशुचान्द्रायणं प्रोक्तं यतिचान्द्रायणं तथा । यवमध्यं
तथा प्रोक्तं तथा पिपीलिकाकृति । उपवासस्त्रिरात्रं
वा मासं पक्ष तदर्द्धकम् । षडहद्वादशाहादि कार्य्यं
शुद्धिफलार्थिना । उपपातकयुक्तानामनादिष्टेषु चैव
हि । प्रकाशे च रहस्ये च अभिसन्ध्याद्यपेक्षया । जाति-
शक्तिगुणान् दृष्ट्वा सकृदुबुद्धिकृतं तथा । अनुबन्धादिकं
दृष्ट्वा सर्वं कार्य्यं यथाक्रमम्” । प्रकाशकृते पापे व्रतानि
मुख्यानि रहस्यकृते जपादीनि यथा प्राजापत्या-
दीन्यभिधाय मनुः “एतैर्द्विजातयः शोध्या व्रतैरावि-
ष्कृतैनसः । अनाविष्कृतपापांस्तु मन्त्रैर्होमैस्तु
शोधयेत्” । देवलः “प्रकाश उक्तं यत्किञ्चित् विंशभागो
रहस्यके । त्रिंशभागः षष्टिभागः कल्प्यो जात्याद्य-
पेक्षया” प्रा० वि० । क्वचिद्विषयभेदे प्रायश्चित्ताभावः
यथोक्तं प्रा० त०
अथ गोवधाद्यपवादः । पराशरः “धूर्य्येषु वहमानेषु
दण्डेनाभिहतस्य च । काष्ठेन लेष्टुना वापि पाषाणेन
तु ताड़ितः । मूर्च्छितः पतितश्चैव मृतो वा सद्य एव
च । एवं गतानां धूर्य्याणां प्रवक्ष्यामि यथाविधि ।
उत्थितस्तु पदं गच्छेत् पञ्च सप्त दशाथ वा । ग्रासं वा यदि
गृह्णाति तोयं वा पिनति स्वयम् । पूर्वव्याधिविनष्टानां
प्रायश्चित्तं न विद्यते” यदि व्याधिप्रयुक्तानां वृषाणां
पृष्ठ ४५२८
हलयोजनमात्रेण स्वल्पतरदण्डाघातेन वा मूर्च्छया
पतनं भवति अनन्तरं गमनं ग्रासादौ कृते मरणं भवति
तदा गमनग्रासग्रहणतोयपानैस्तदानीन्तनमरणे हेत्वभावं
निश्चित्य पूर्वव्याधिविनष्टत्वं ज्ञायते । यदि तु पूर्व-
व्याधिरहित एव प्रहारजनितव्याधिना ग्रासादि कृत्वापि
म्रियते तदा प्रायश्चित्तमस्त्येव । संवर्त्तः “यन्त्रणे
गोचिकित्सायां मूढ़गर्भविमोचने । यत्ने कृते विपत्तिः
स्यात् प्रायश्चित्तं न विद्यते । औषधं स्नेहमाहारान्
दद्याद् गोब्राह्मणेषु च । प्राणिनां प्राणवृत्त्यर्थं प्राय-
श्चित्तं न विद्यते । दाहच्छेदशिराभेदप्रयत्नैरुपकुवताम् ।
द्विजानां गोहितार्थं वा प्रायश्चित्तं न विद्यते” मूढगर्भः
अन्तर्मृतगर्भः मुह वैचित्त्ये इत्थनेन तथार्थत्वात् ।
याज्ञवल्क्यः “क्रियमाणोपकारे तु मृते विप्रे न
पातकम् । विपाके गोवृषाणाञ्च भेषजाग्निक्रियासु च” ।
विशेषमाहाङ्गिराः “शृङ्गभङ्गेऽस्थिभङ्गे च चर्मनिर्मो-
चनेऽपि वा । दशरात्रं चरेत् कृच्छ्रं सुस्था सा यदि
गौर्भवेत्” । द्विजानां गवाञ्च हितार्थमित्यर्थः । अत्र
प्राणरक्षार्थमाहारादिदानैर्मरणे दोषाभावस्य वाचनिक-
त्वात् गललग्नान्न मरणे नात्मघातादि । एवं “गोपालको
गवां गोष्ठे धूमं यस्तु न कारयेत् । मक्षिकालीननरके
मक्षिकाभिः स भक्ष्यते” इति देवीपुराणानुसारादग्निं
प्रज्वाल्य तत्रैव स्थितस्य दैवात्तदग्निना मरणे दोषा-
भावः । तत्रास्थितस्य तु अपालननिमित्तगोबधजन्य-
दोषः । मिताक्षरायां पराशरः “कूपे स्वाते च
धर्मार्थे गृहदाहे च ये मृताः । ग्रामदाहे तथा घोरे
प्रायश्चित्तं न विद्यते” इदन्तु बन्धनरहितस्य पशोः
कदाचित् दाहादिना मृतविषयम् । इतरत्रापस्तम्बोक्तं
“कान्तारेष्वथ वा दुर्गे गृहदाहावटादिषु । यदि तत्र
विपत्तिः स्यात् पाद एको विधीयते” । इति ज्ञेयम् ।
एतदुवचनं यमस्येति भवदेवभट्टः । चिकित्सायां पापाभावो
यथावदुपचारे बोध्यः । न पुनः सन्निपाताभिभूतस्योदक-
पानादिना । णतएव मनुः “चिकित्सायाञ्च सर्वेषां
मिथ्याप्रचरतां दमः” । काश्यपोऽप्यत्र प्रायश्चित्तमाह
“दोग्ध्री दमनातिदोहान्नासापाशदामघण्टाभरणयोज-
नात् तेलपानौषधविनियोगाद्व्यापन्नानां प्रायश्चित्तं
ब्राह्मणेभ्यो विनिवेद्य सशिखवपनं कृत्वा प्राजापत्यकृच्छ्र-
माचरेत् । चोर्णान्ते गां दक्षिणां ब्राह्मणाय दद्यात्
धेनुं तिलधेनुं वेति” ।
प्रायश्चित्तपूर्वाहकृत्यम् । शङ्खलिखितौ “वाप्य केशन-
खान् पूर्वं घृतं प्राश्य बहिनिशि । प्रत्येकं नियतं
कालमात्मनो ब्रतमादिशेत् । प्रायश्चित्तमुपासीनो वाग्-
यतस्त्रिसवनं स्पृशेत्” । केशधारणेच्छायां द्विगुणव्र-
तांदिकमाह हारीतः “राजा वा राजपुत्रो वा ब्रा-
ह्मणो वा बहुश्रुतः । केशानां वपनं कृत्वा प्राय-
श्चित्तं समाचरेत् । केशानां धारणार्थं तु द्विगुणं
व्रतमाचरेत् । द्विगुणे तु व्रते चीर्णे द्विगुणा दक्षिणा
भवेत् । विद्वद्विप्रनृपस्त्रीणां नेष्यते केशवापनम् ।
ऋते महापातकिनो गोहन्तुश्चापकीर्णिनः” । सधवा-
स्त्रीणां विशेषमाह भवदेवभट्टधृतं वचनम । “वपनं
नैव नारीणां नानुव्रज्या जप्राद्रिकम् । न गोष्ठे शयनं
तासां न च दध्याद्गवाजिनम् । सर्वान् केशान्
समुद्धृत्य छेदयेदङ्गुलिद्वयम् । सर्वत्रैवं हि नारीणां शिरसो
मुण्डनं स्मृतम्” । पापभेदेषु प्रायश्चित्तभेदाः प्रायश्चित्तवि-
वेविवेकादौ दृश्याः विस्तरभयान्नोक्ताः । तस्येदं छ ।
प्रायश्चित्तीय तदाचरणे न० ।

प्रायश्चित्ति स्त्री प्रायः (अव्ययम्) । तपञ्चश्चित्तिः चित--भावे

क्तिन् ६ त० । प्रावश्चित्तशब्दार्थे

प्रायश्चित्तिन् त्रि० प्रायश्चित्तं कर्त्तव्यत्वेनास्त्यस्य इनि । प्राय-

श्चित्तार्हे स्त्रियां ङीप् । “प्रायश्चित्ती भवेत् पूतस्तत् पापं
तेषु गच्छति” प्रा० त० । ठन् प्रायश्चित्तिक तत्रार्थे

प्रायस् अव्य० प्र + अय--असि । १ बाहुल्ये २ तपसि ब्रतादौ

च “प्रायः प्रयोधरसमुन्नतिरत्र हेतुः” उद्भटः । “प्रायो
नाम तपः प्रोक्तम्” स्मृतिः ।

प्रायाणिक त्रि० प्रयाणाय हितं ठक् । यात्रिकद्रव्ये शङ्ख-

चामरादौ प्रायात्रिकादयोऽप्यत्र ।

प्रायिक त्रि० प्रायेण भवः ठक् । प्रायभवे ।

प्रायुद्धेषिन् पु० प्रायुधिप्रकृष्टयुद्धार्थं हेषते हेष--णिनि । अश्वे शब्दच० ।

प्रायोग पु० प्रयुज्यते शकटादौ प्र + युज--कर्मणि घञ् कुत्वम्

दीर्घः । शकटादौ नियोगार्हे वृषे ऋ० १० । १०६ । २ भा० ।

प्रायोगिक त्रि० प्रयोगं नित्यमर्हति छेदा० ठञ् । नित्य-

प्रयोगार्हे ।

प्रायोज्य न० प्र + आ + युज--णिच्--कर्मणि यत् । प्रयोजनीये

“प्रायोज्यं न विभज्येत” कात्था० स० । “प्रायोज्यम
प्रयोजनार्हं यथा पण्डितस्य पुस्तकादि न तन्मूर्खैर्वि
भजयोयमिति” दायभागः ।

प्रायोपविष्ट त्रि० प्रायाय अनशनमृत्यये उपविदः उप +

विश--क्त । अनशनेन मरणायोद्युक्ते भा० आश्व० ८० अ० ।
पृष्ठ ४५२९

प्रायोपवेश पु० प्रायाय अनशनमृत्यये उपवेशः स्थितिः ।

सङ्कल्पपूर्वकम् सकलकार्यत्यागेन अनशनमरणाथमुद्यमे
भा० व० २५० श्लो० । भावे ल्युट् । प्रायोपवेशन तत्रार्थे
न० । भा० व० १५१३८ श्लो० ।

प्रायोपेत त्रि० भीमो भीमसेन वत् प्रायः प्रायोपवेशः तेन

उपेतः । प्रायोपवेशनयुते भा० सौ० १६ ज० ।

प्रारब्ध न० प्र + आ + रभ--आरम्भे क्त प्रकृष्टमारब्धं स्वकार्य्यं

जननाय कृतारम्भं येन! १ देहाद्यारम्भके २ अदृष्टभेदे
तस्य च भोगेनैवक्षय इति शास्त्रे प्रसिद्धम् । “अवश्यमेव
भोक्तव्यं कृतं कर्म शुभाशुभम् । नाभुक्तं क्षीयते कर्म
कल्पकोटिशतैरपि” शास्त्रेण प्रारब्धकर्मणो भोगं विना
नाशाभावस्योक्तेः “ज्ञानानि सर्वकर्माणि भस्मसात् कुरु-
तेऽर्जुन!” गीतायां ज्ञानस्य सर्वकर्मनाशकत्वोक्तिः प्रार-
अकर्मातिरिक्तविषयेत्याकरे द्रष्टव्यम् । २ कृतारम्भे त्रि० ।

प्रारब्धि स्त्री प्र + आ + रभ--करणे क्तिच् । १ गजबन्धनदामनि

त्रिका० । भावे क्त । २ आरम्भे ।

प्रारम्भण न०प्र + आ + रभ--ल्युट् मुस् । प्रकर्षेणारम्भे । प्रार-

म्भणं प्रयोजनमस्य अनुप्र० छ । प्रारम्भणीय तत्प्रयोजनके
त्रि० । प्र + आ + रभ--भावे घञ् सुम् । प्रारम्भप्रकर्षेण
आरम्भे पु०

प्रारोह त्रि० प्ररोहः शीलमस्य छत्त्रा० ण । प्ररोहणशीले स्त्रियां टाप् ।

प्रार्ण न० प्रकृष्टमृणं वृद्धिः । १ प्रकृष्टे ऋणे प्रा० ब० । २ तद्युते त्रि०

प्रार्थना स्त्री प्र + अर्थ--युच् । १ याच्ञायां २ हिंसायाञ्च ।

३ गर्भाङभेदे सा० द० “संग्रहश्चानुमानञ्च प्रार्थना क्षिप्त-
रेव च” गर्भाङान्युद्दिश्य “रतिहर्षोत्सबानान्तु प्रार्थनं
प्रार्थना भवेत्” इति लक्षिता । ल्युट् । प्रार्थन याचने
हिसने च न० । ४ मुद्राभेदे “प्रसृताङ्गलिकौ हस्तौ
मिथःश्लिष्टौ च सम्मुखे । कुर्य्यात् स्वहृदये सेयं मुद्रा
स्यात् प्रार्थनाभिधा” तन्त्रसा० ।

प्रार्थनीय त्रि० प्र + अर्थ--कर्मणि अनीयर् । १ याचनीये

अर्थयतेर्याचनार्थत्वेन द्विकर्मकत्वात् गौणे कर्मणि
अनीयर् । यतोयाच्यते २ तस्मिन् तस्याविवक्षायां मुख्ये
याचनाकर्मणि इति बोध्यम् । ३ द्वापयुगे शब्दर० ।

प्रार्थित त्रि० प्र + अर्थ + क्त । १ याचिते २ अभिहिते मेदि०

३ शत्रुसंयते च त्रिका० ।

प्रालम्ब न० प्रश्वर्षेणालम्यते प्र + आ + लम्ब--अच् । १ ऋजुतया

कण्ठात् कम्यपाने माल्यादौ अमरः । २ प्रकर्षेण लम्ब-
मानमात्रे त्रि० । संज्ञायां कन् अत इत्त्वम् । प्रालम्बिका
स्वर्णादिरचितललन्तिकायां स्वर्णहारभेदे स्त्री अमरः ।

प्रालेय न० प्रकर्षेण लीयते प्र + आ--ली--यत् । आत्त्वे एत्त्वम्,

प्रलयाय हितम् अण् नि० एत्त्वम् वा । हिमे अमरः ।

प्रालेयांशु पु० प्रालेयमंशौ यस्य । १ चन्द्रे हला० । तन्नामना-

मके २ कर्पूरे च । प्रालेयकरादयोऽप्यत्र भयत्र पु० ।

प्रावट पु० प्र + अव--अट् । यवे जटा० ।

प्रावण न० प्र + आ + वन संभक्तौ करणे थ । प्रनिरित्यादि

णत्वम् । खनित्रे । प्रकर्षेणावन्यते संश्लिष्यते मृदनेन
ऋ० ३ । २२ । ४ भाष्ये दृश्यम् । वनं समासे अन्तोदात्ततास्थ

प्रावणि स्त्री प्र + अव--अनि । “हिनुमीनानि लोट्” च ८ । ४ ।

१५ । १६ । हिनुमीनानीति छित्त्वा उज्ज्वलदत्तेन पठित्वा
तत्र णत्वमुक्तम् । प्रकृष्टावनौ तस्यायमाशयः “हीनुमीना
आनि लोट्” सूत्रद्वये सन्ध्यक्षरेण हिनुमानीति जायते
हिनुमीना अनि इत्येषां णत्वम् । योगविभागाच्च आनि
लोट् इत्यस्यापीति ।

प्रावर पु० प्र + आ + वृ--करणे अप् । १ प्राचीरे शब्दरत्ना० ।

२ देशभेदे भा० भी० १२ अ० ।

प्रावरण न० प्र + आ + वृ--करणे ल्युट् । १ आच्छादनवस्त्रे २ उत्तरीयवस्त्रे हेमच० ।

प्रावार पु० प्र + आ + वृ--करणे घञ् । १ उत्तरीयवस्त्रे अमरः

भावे घञ् । २ प्रकर्षेण आवरणे पु० ।

प्रावारकर्ण पु० उलूकभेदे भा० व० १९८ अ० ।

प्रावारकीट पु० ७ त० । कीटभेदे जटाधरः ।

प्रावास त्रि० प्रवासे दीयते कार्यं वा व्युष्टा० अण् । १

प्रवासे दीयमाने २ तत्र कार्य्ये च ।

प्रावासिक त्रि० प्रवासाय प्रभवति सन्तापा० ठञ् । १ प्रवास-

साधने । प्रवासे साधु गुड़ा० ठञ् । प्रवासे साधौ च ।

प्रावृट्काल पु० कर्म० । ६ त० वा । वर्षाकाले प्रावृट्समयादयो-

ऽप्यत्र ।

प्रावृट्कालवहा स्त्री ७ त० । नदीभेदे मार्कण्डेयपु० ६७ अ० ।

प्रावृडत्यय पु० ६ त० । १ वर्षातिक्रमे वर्षापगमे ब० व० । २ शरत्-

काले राजनि० ।

प्रावृत न० प्र + आ + वृ--कर्मणि क्त ।

१ प्रकर्षेण आवृते वस्त्रे प्रकर्षेण २ आवृतमात्रे त्रि० ।

प्रावृति स्त्री प्र + आ + वृ--करणे क्तिन् । प्राचीरे शब्दर० ।

प्रावृत्तिक पु० प्रवृत्तौ तद्धरणे हितः ठक् । प्रवृत्तिवाहके

दूतभेदे हरिवं० १०४ अ० ।

प्रावृष्(षा) स्त्री प्रवृष्यतेऽत्र प्र + वृष--आधारे क्विप् दीर्घः

हलन्तत्वात् वा टाप् । वर्षाकाले स च श्रावणभाद्रात्मकः
“नभश्च नभस्यश्च वार्षिकावृतू” यजु० । ऋतुशब्दे १४३३
पृ० अस्य सौरचान्द्रत्वविकल्पश्च दृश्यः ।
पृष्ठ ४५३०

प्रावृषायणी स्त्री प्रावृषा अयनं यस्स्याः गौरा० ङीष् ।

कपिकच्छ्वाम् (आलकुशी) अमरः ।

प्रावृषिक पुं स्त्री प्रावृषि कायति शब्दायते कै--क अलुक्स० ।

१ मयूरे धरणिः । स्त्रियां जातित्वात् ङीष् । प्रावृषि
भवः ठञ् । २ वर्षाकालभवे त्रि० स्त्रीयां ङीप् ।

प्रावृषिज पु० प्रावृषि जायते जन--ड अलुक् स० । १ झञ्झा-

निले त्रिका० । २ वर्षाकालजाते त्रि० “जे विभाषा”
वा अलुक् स० । तेन प्रावृडज तत्रार्थे त्रि० ।

प्रावृषीण त्रि० प्रावृषि भवः बा० ख । वर्षाकालभवे ऋ० ७ ।

१०३ । ७ भाष्य ।

प्रावृषेण्य त्रि० प्रावृषि भवः एन्य । १ वर्षाकालजाते २

कदम्बवृक्षे पु० मेदि० । ३ कुठजवृक्षे ४ धाराकदम्बे च पु०
राजनि० । ५ कपिकच्छ्वाम् ६ रक्तपुनर्नवायां स्त्री राजनि० ।
प्रावृषि दीयते कार्यं वा एन्य । ७ वर्षाकाले देये करादौ
८ तत्र कार्ये च त्रि० । ९ प्राचुर्य्ये न० शब्दर० ।

प्रावृषेय पु० १ देशभेदे भा० भी० ९ अ० । प्रावृषार्यां भवः ढक् ।

२ वर्षाकालभवे त्रि० स्त्रियां ङीप् ।

प्रावृष्य पु० प्रावृषि मवः बा० यत् । १ धाराकदम्बे २ कुटजे

३ विकङ्कतवृक्षे च राजनि० ।

प्रावेशन त्रि० प्रवेशने दीयते कार्यं वा व्युष्टा० अण् ।

१ प्रवेशने दीयमाने २ तत्रकार्य्ये च ।

प्रावेशिक त्रि० प्रवेशाय साधुः ठञ् । प्रवेशसाधने स्त्रियां ङीप् ।

प्राशन न० प्र + अशा--भावे ल्युट् । अन्नादेः प्रकर्षेण

भोजने अन्नप्राशनम् ।

प्राशास्त्र न० प्रशास्तर्भावः कर्म वा उद्गा० अञ् । प्रशास्तु-

रृत्विजः कर्मणि १ शस्त्रशंसने २ तद्भावे च ।

प्राशित त्रि० प्र + अश--भोजन कर्मणि क्त । १ भक्षिते । भावे

क्त । २ भक्षणे न० ३ पितृयज्ञे तर्पणे जटा० “प्राशितं
पितृतर्पणम्” मनुना तत्रार्थे परिभाषितत्वात् ।

प्राशित्र न० यज्ञिये यवमात्रं पिप्पलमात्रं वाऽवत्ते ब्रह्मोद्दे-

श्यके भागे शिश्नांशभेदे “शिश्नात् प्राशित्रावदानम्” कात्या०
१११७ । “मित्रस्य त्वा चक्षुषा प्रतीक्ष इति प्राशित्रं
प्रतीक्षते” ३ । २ । १५ “प्राशित्रमवदीयमानमाह्रियमाणं च
प्राशित्रं ब्रह्मणो भागः यवमात्रं पिप्पलमात्रं वाऽवत्तः”
कर्कः “स यत् प्राशित्रमवद्यति” इत्युपक्रमे । अथास्म
महाभागं पर्य्याहरन्ति। ब्रह्मा वै यज्ञस्य दक्षिणत आ-
स्तेऽभिगोप्ता स एतं भागं प्रतिविदान आस्त यत् प्रा-
शित्रं तदस्मै पर्य्याहार्षुस्तत्प्राशीदथ यमस्यै ब्रह्मभावं
पर्याहरन्ति तेन भागी स यदतऊर्द्ध्वमसंस्थितं यज्ञस्य
तदभिगोपायति तस्माद्वा अस्मै ब्रह्मभागं पर्याहरन्ति”
शत० ब्रा० १ । ७ । ४ । १८

प्राशित्राहरण प्राशित्रं ह्रियतेऽनेन हृ--करणे ल्युट् ।

प्राशित्ररूपभागहरणसाधने गोकर्णाकृतिपात्रभेदे शत०
ब्रा० १ । ३ । १ । ६ भाष्यम् ।

प्राशु पु० प्र + अश--भोजने उण् । भक्षणे प्राशवे हितः यत् ।

प्राशव्य प्रकृष्टभक्षणहिते ऋ० ८ । ३१ । ६ भा० । प्रा० स० ।
२ प्रकृष्टशीघ्रे निहण्टुः ।

प्राशृङ्ग त्रि० प्रकृष्टं शृङ्गमस्य वेदे दीर्घः । प्रकृष्टशृङ्गयुक्ते यजु० २४ । ३७

प्राश्निक पु० प्रश्नाय तदुत्तरदानाय साधु ठक् । १ सन्ये त्रिका०

२ प्रश्नोत्तरदानाय काधौ त्रि० ।

प्राश्नीपुत्र पु० यजुर्वेदवंशस्थे ऋषिभेदे शत० ब्रा० १४ । ९ । ४ । ३३

प्राष्टवर्ण पु० प्रकर्षेण अष्टः प्राप्तो वर्णः । पृश्निवर्णे नानावर्णे

निरु० १० । ३९

प्रास पु० प्रास्यते प्र + अस--क्षेपे कर्मणि घञ् । कुन्तास्त्रे

अमरः । कुन्तशब्दे २००१८ पृ० दृश्यम् ।

प्रासक पु० प्रास + संज्ञायां कन् । पाशके हेमच० तस्य देवकैः

क्षिप्यमाणत्वात् तथात्वम् । स्वार्थे क । २ प्रासास्त्रे पु० ।

प्रासङ्ग पु० प्र + सनृज--कर्मणि घञ् दीर्घः । दम्यवत्सानां

स्कन्धे शिक्षार्थमासज्यमाने युगभेदेअमरः । तं वहति
यत् । प्रासङ्ग्य तद्वाहके दम्यवृषे अमरः ।

प्रासङ्गिक त्रि० प्रसङ्गादागतः ठञ् । प्रसङ्गागते स्त्रियां ङीप् ।

प्रासाद पु० प्रसीदत्यस्मिन् प्र + सद--आधारे घञ् दीर्घः ।

देवनृपयोर्गृहे अमरः देवगृहशब्दे ३६७८ पृ० दृश्यम्

प्रासादकुक्कुट पुंस्त्री० प्रासादे कुक्कुट इव । पारावते

त्रिका० स्त्रियां जातित्वात् ङीष् ।

प्रासिक पु० प्रासः प्रहरणमस्य ठक् । कुन्तेन योद्धरि अमरः

प्रास्तारिक त्रि० प्रस्तारे व्यवहरति ठक् । प्रस्तारे व्यव-

हारिणि ।

प्रास्थानिक त्रि० प्रस्थाने साधु ठञ् । यात्रिके शङ्कदध्यादौ मङ्गलद्रव्ये स्त्रियां ङीप् ।

प्रास्थिक त्रि० प्रस्थस्य वापः ठञ् । १ प्रस्थमितधान्यवपनाधार

क्षेत्रे २ भूमौ स्त्री ङीप् । प्रस्थं सम्भवति (स्वस्मिन्
समावेशयति) अवहरति पचति वा ठञ् । प्रस्थमितधान्यादे-
स्वस्मिन् ३ समावेशके ४ अवहारके ५ पाचके च त्रि० स्त्रियां
ङीप् । प्रस्यः परिमाणमस्य ठञ् । ६ प्रस्थपरिमाणयुक्त
पृष्ठ ४५३१
धान्यराश्यादौ त्रि० प्रस्थेन क्रीतम् ठञ् । ७ प्रस्थेन क्रीते
त्रि० स्त्रियां ङीप् । प्रस्थस्य निमित्तं संयोग उत्पातो
वा ठञ् । प्रस्थस्य ८ निमित्ते ९ संयोगे १० उत्पाते वा ।

प्राह पु० प्रकर्षेण आहेति शब्दोऽत्र । नृत्योपदेशे शब्दमा० ।

प्राह्ण पु० प्रारम्भोऽह्नः प्रा० स० अच् समा० अह्नादेशः णत्वञ्च ।

त्रिधाविभक्तदिनस्य पूर्वभागे १ पूर्वाह्णे अमरः । प्रकृष्टम-
हर्यत्र तिष्ठद्गु० अव्ययी० । २ प्रकृष्टदिनयुते अव्य० ।

प्राह्णेतन त्रि० प्राणे भवः ट्यु टृट् च निएदन्तत्वम् । पूर्वा-

ह्णभवे स्त्रियां ङीप् ।

प्राह्णेतरा(मा)म् अव्य० अतिशयेन प्राह्णे तरप् तमप् वा

आमु चकालेत्यादिना सप्तम्या अलुक् । अत्यन्तप्रातःकाले
इत्यर्थे ।

प्रिथ त्रि० प्रीणाति प्री--तर्पणे क । १ भर्त्तरि पत्यौ अमरः

२ भार्य्यायां स्त्री । ३ प्रियके मृगभेदे पु० स्त्री जटा० ४ ऋद्धि-
नामोषधौ ५ हृद्ये त्रि० मेदि० । ६ जीवकौषधौ राजनि० ।

प्रियवद त्रि० प्रियं वदति वद--णच् मुम् । १ प्रियकरवादिनि

मथुरबाषिणि । २ स्वेचरे ३ गन्धर्वभेदे पु० शब्दमा० वदेर-
न्तःस्थवादित्वात् प्रियम्वदेति मयुक्तशब्दकल्पनं प्रामा-
दिकमेव । “भुवि भवेन्नभजरैः प्रियंवदा” वृ० र० उक्ते
द्वादशाक्षरपादके ४ छन्दोभेदे स्त्री । ५ शक्लन्तलासहचरी-
भेदे स्त्री शकु० दृश्यम् ।

प्रियक पु० प्रिय + स्वार्थे क संश्नायां कन् वा । १ पीतसा-

लके (पियासाल) २ नीपे ३ चित्रमृगे ४ भ्रमरे ५ प्रियङ्गौ
६ कुङ्कुमे मेदि० ७ धाराकदम्ये ८ अस्वनवृक्षे राजनि० ।
९ स्कन्दाबुचरभेदे भा० श० ४६ अ० । तस्यापत्यं विदा०
अञ् । प्रैयक चित्वमृगापत्वे पुंस्त्री० ।

प्रियकृत् त्रि० प्रियं करोति क क्विप् तृच् । १ प्रियकारिणि

२ विष्णौ पु० “प्रियकृत् प्रोतिवर्द्धनः” विष्णुस० ।

प्रियङ्कर त्रि० प्रियं करोति कृ--राच् मुम् । १ प्रियकारिणि

२ श्वेतकण्टकार्य्यां ३ वृहज्जीवन्त्याम् ४ अश्वगन्धायाञ्च
रवी राजनि० गौरा० ङीष् ।

प्रियङ्करश त्रि० अप्रियं पियं करोत्यनेन कृ--करणे ख्युन् ।

ग्रप्रियस्य प्रियतासरणसाधने ।

प्रियङ्गु स्त्री प्रिय + गम--डु नि० मुम् च । १ स्पमामख्याते वृक्षे

अमरः प्रियङ्गः शीतला तिक्ता तुवरानिलपित्तहृत् ।
रक्तादियोमदौर्गन्ध्यस्वेददाहज्वरापहा । गुल्मतृड्-
विषमोहध्नी तद्वद्गन्धाप्रयङ्गका । तत्फलं मधुरं रूप्यं
{??} संग्राहि
कफपित्तजित्” भावप्र० । “प्रियङ्गकलिकारम्” इति
बुधप्रणाममन्त्रः । २ राजिकायां राजनि० ३ पिप्पल्याम् ४ कङ्गौ
(काङ्गनी) धान्ये मेदि० ५ कटुक्यां धरणिः ।

प्रियजन पु० कर्म० । १ हृद्ये जने । २ प्रौढभावानुविज्ञे उज्ज्वलमणिः ।

प्रियजीव पु० प्रियो जीवो यस्मिन् । श्योनाकवृक्षे राजनि० ।

प्रियतम पु० अतिशयेन प्रियः तमप् । १ मयूरशिखावृक्षे

२ अतिप्रिये त्रि० शब्दच० ।

प्रियता स्त्री प्रियस्य भावः तल् । १ स्नेहे २ प्रेमणि अमरः ।

त्व । प्रियत्व तत्रार्थे न० शब्दर० ।

प्रियतोषण त्रि० प्रियं तोषयति तुष--णिच ल्यु । १ प्रियस-

न्तोषकारके “नारीपादौ स्वहस्तेन धारयेत् जघनोपरि ।
स्तनापीड़करः कामी कामयेत् प्रियतोषणः” रतिमञ्ज-
र्य्युक्ते २ रतिबन्धभेदे ।

प्रियदत्ता स्त्री दीयमानपृथिव्याम् “नामास्याः प्रियदत्तेति

गुह्यं देव्याः सनातनम् । दाने वाऽप्यथ वाऽऽदाने
नामास्याः प्रथमं प्रियम् । य एतां विदुषे दद्यात् पृथिवीं
पृथिवीपतिः । पृथिव्यामेतदिष्टं स राज्ञा राज्यमितो
व्रजेत्” भा० अनु० ६२ अ० ।

प्रियदर्शन पु० प्रियं दर्शनमस्य । १ क्षीरिकावृक्षे २ शुकखगे

च जटा० ३ सुदृश्ये त्रि० ।

प्रियप्रायस् न० प्रियस्य प्रायः बाहुल्यं यत्र । प्रियवाक्ये हेमच० ।

प्रियप्रेप्सु त्रि० ७ त० । इष्टार्थोद्युक्ते जटा० ।

प्रियमधु पु० प्रियं मधु मद्यं यस्य । १ बलरामे हेमच० २ मद्यप्रिये त्रि० ।

प्रियमाल्यानुलेपन त्रि० प्रियं माल्यमनुलेपनं च यस्य ।

१ माल्यानुलेपनप्रिये २ स्कन्दानुचरभेदे पु० भा० श० ४६ अ० ।

प्रियमेध पु० १ अजमीढस्य पुत्रभेदे “अजमीढस्य वंशाः स्युः

प्रियमेधादयो द्विजाः” भाग० ९ । २१ । १७ श्लो० । २ यज्ञो-
पेते ऋषिभेदे ऋ० १ । ४५ । ४ भा० ।

प्रियम्भविष्णु त्रि० अप्रियः प्रियो भवति भू--कर्त्तरि खिष्णुच् ।

अप्रिये प्रिये भवितरि । खुकञ् प्रियस्मावुक् तत्रार्थे त्रि० ।

प्रियरूप त्रि० प्रियं रूपमस्य । १ हृद्यरूपे । तस्यभावः मनोज्ञा०

वुञ् । प्रैयरूपक तस्य भावे न० । कर्म० । २ हृद्ये रूपे न० ।

प्रियवचन त्रि० प्रियं वचनं वैद्यकवचनं वा यस्य । १ प्रियवा-

दिनि वैद्यकोक्तवाक्ये भक्तिभति २ रोगिणि राजनि० ।
कर्म० । ३ हृद्ये वाक्ये न० ।

प्रियवर्णी स्त्री प्रियो वर्णो यस्याः गौरा० ङीष् । प्रियङ्गौ

जटाधरः ।

प्रियवल्ली स्त्री नित्यकर्म० । १ प्रियङ्गौ राजनि० २ हृद्यायवं लतायाञ्च ।

पृष्ठ ४५३२

प्रियवादिन् त्रि० प्रियं वदति वद--णिनि । प्रियवाक्यभा-

षके स्वियां ङीप् “भार्य्या चाप्रियवादिनी” चाणक्यः ।

प्रियव्रत त्रि० प्रियं व्रतमस्य । १ व्रतप्रिये स्वायम्भुवमनोः

२ पुत्रभेदे पु० हरिवं० २ अ० ।

प्रियश्रवस् पु० प्रियं श्रवः श्रवणं यस्य । परमेश्वरे भाग० १ । ६ । ३३ ।

प्रियसख पु० कर्म० ६ त० । वा, अच्समा० । १ हृद्ये सख्यौ

२ प्रियस्य सख्यौ च । स्त्रियां ङीष् । ३ खदिरे शब्दच० ।

प्रियसङ्गमन त्रि० प्रिययोः सङ्गमनं यत्र । १ प्रिययोर्मेलन-

स्थाने २ कश्यपादित्योर्मेलनस्थाने देशभेदे पु० “यत्रादितिः
कश्यपश्च महात्मानौ दृढ़व्रतौ । प्रियसङ्गमनं नाम तं
देशं मुनयोऽवदन्” हरिवं० १३४ अ० ।

प्रियसत्य न० कर्म० । १ तथ्ये अथ च प्रिये सुनृतवाक्ये हेमच०

प्रिय सत्यं यस्य । २ सत्यप्रिये त्रि० ।

प्रियसन्देश पु० प्रियं सन्दिशति सम् + दिश्र--अण् उप० स० ।

१ चम्पकवृक्षे भावे घञ् ६ त० । २ प्रियसंवादे शब्दच० ।

प्रियसाल(क) पु० कर्म० स्वार्थे क वा । असनवृक्षे (प्रियासाल)

राजनि० ।

प्रियादि विशेष्यवाचिनि समानाधिकरणस्त्रीलिङ्गशब्दे परे

ब० ब्री० पूर्वस्य पुंवद्भावे पर्युदस्ते शब्दगणे व च गणः
या० ग० सृ० उक्तो यथा “प्रिया मनोज्ञा कल्याणी सुभगा
दुर्भगत् भक्ति सचिवा स्वा स्वसा कान्ता क्षान्ता सभा
चपला दुहिता वामना तनया” । सुन्दरी प्रिया यस्य ।
सुन्दरी प्रिय इत्यादि ।

प्रियाम्बु पु० प्रियं पितॄणां प्रियमम्बु मूले सिक्तं जलमस्य ।

१ आम्बवृक्षे राजनि० । २ जकप्रिये त्रि० ।

प्रियार्ह त्रि० प्रियभर्हति अर्ह--अण् उप० स० । १ प्रियवाक्यादि-

योग्ये २ विष्णौ पु० “अभिप्रायः प्रियार्होऽर्हः” विष्णु स० ।

प्रियाल पु० प्रियाय अलति पर्य्याप्नोति अण्--अच् । प्रिय-

साले (पियासाल) २ द्राक्षायां स्त्री राजनि० । भावप्र-
पियाल इत्येन पाठः “प्रियालस्तु खरस्कन्धश्चारो
बहुलवल्कलः । राजादनस्ताप्रसेष्टः सन्नकर्द्रूर्द्ध्वतष्पटः ।
चारः पित्तकफास्रघ्नस्तत् फलं सधुरं गुरु । खग्धं सरं
मरुत्पित्तदाहज्वरतृषापहम् । पियालमज्जा मधुरो
वृष्यः पित्तानिलापहः । हृद्योऽतिदुर्जरः स्निग्धो
विष्टम्भी चामवर्द्धनः” भावप्र० ।

प्रियोदित न० कर्म० । चाटुवाक्ये शब्दरत्ना० ।

प्री तर्पणे भ्वा० उभ० सक० अनिट् । प्रयति ते अप्तैपीत् अप्रैष्ट

पिप्राय पिप्रिये

प्री प्रीतौ कान्तौ (इच्छायाम्) सक० दिवा० आत्म० अनिट् ।

प्रीयते अपैष्ट पिप्रिये ।

प्री तर्पणे सक० कान्तौ तृप्तौ अक० क्र्या० उभ० अनिट् । प्री-

णाति प्रीणीते अप्रैषीत् अप्रैष्ट पिप्राय पिप्रिये । प्रीतः ।
णिच्बुक् । प्रीणयति ते ।

प्री तर्पणे सक० चु० उभ० अनिट् । प्राययति ते अपिप्रयत्--ते । अबापि नुक् प्रीणयतीत्येके ।

प्रीण त्रि० प्री--णिच् कर्त्तरि अच् । १ प्रीणनकारके करणे

अच् । २ नर्मणि मेदि० । पुरणार्थप्रशब्दात् भवार्थे
ख । २ पुराणे त्रि० त्रिका० ।

प्रीणन न० प्री--णिच्--नुक्--ल्युट् । तर्पणे अमरः ।

प्रीणस पु० प्रीणि--बा० असच् । गण्डके राजनि० ।

प्रीत त्रि० प्री--कर्त्तरि क्त । हृष्टे अमरः ।

प्रीति स्त्री प्री--भावे क्तिच् । १ हर्षे २ आनोदे ३ तृप्तौ च ।

विष्कुम्भादियोगेषु ४ द्वितीययोगे । ५ कामस्य पत्नीभेदे
रत्याः सपत्न्याञ्च “वेश्याऽभङ्गवती नाम विभूतिद्वादशी
व्रतम् । समाप्य माममासस्य द्वादश्यां लवणाचलम् ।
निवेदयन्ती गुरुवे शय्याञ्चोपस्करान्विताम् । अलङ्कृत्य
हृषीकेशं सौवर्णामरपादपम् । स चानङ्गवतो वेश्या
कामदेवस्य साम्प्रतम् । पत्नी, सपत्नी संजाता रन्याः
प्रीतिरिति श्रुता” मात्स्ये ८२ अ० ।

प्रीतिजुष त्रि० प्रीतिं जुषते जुष--क । १ प्रीतिभाजि २

अनिरुद्धपत्न्यामुषायां स्त्री शब्दरत्ना० “विश्वकेतुः प्रीतिजुषा
सुतः” त्रिका० तत्पुत्रोक्तौ ।

प्रीतिद त्रि० प्रीतिं ददाति दा--क । प्रीतिदायके (भाँड़) प्रहासिनि पु० हेमच० ।

प्रीतिदत्त त्रि० ३ त० । १ प्रीत्या दत्ते २ स्त्रीधनभेदे न० यथाह

मिता० कात्यायनः “प्रीत्या दत्तं तु यत्किञ्चित् श्वश्वा
वा श्वशुरेण वा । पादवन्दनिकं चैव प्रीतिदत्तं तदुच्यते” ।
भर्तृप्रीतदत्तस्थावरे तु विशेषः दाय० उक्तो यथा “मत्त्रा
प्रीतेन यदृत्तं स्त्रियै तस्मिन् मृते तत् । सा यथा
काममश्रीयात् दद्याद्वा स्थावरादृते” ।

प्रीतिदाय पु० व्रीत्या दायते दा--कर्मणि घञ् । प्रीत्या दत्ते

“श्वशुरात् प्रीतिदायं तु प्राप्य सा प्रीतमामसा” भा० आश्व०
८९ अ० ।

प्रीतिभोज्य पु० प्रीत्या भोग्यम् । प्रीव्यैव भोज्ये कन्नादौ

“अस्रानि प्रीतिमोज्यानि श्वापद्भोज्यानि वा पुनः । न
च संप्रीयसे राजन् । म चैवापद्गतावयम्” भा० उ० ९०
अ० । “संप्रीतिभोज्याज्यन्नानि” इति मुद्रितपुस्तके पाठः ।

प्रीतिवर्द्धन त्रि० प्रीति वर्द्धयति वृध--णित्--ल्यु । १ सन्तोष-

वर्द्धके २ विष्णौ पु० “प्रियकृत् प्रीतिवर्द्धनः” विष्णुस० ।
पृष्ठ ४५३३

प्रु सर्पणे म्बा० आत्म० सक० अनिट् । प्रवते अप्रोष्ट पुप्रुवे ।

प्रुट मर्दने भ्वा० पर० सक० सेट् । प्रोटति अप्रोटीत् पुप्रोट ।

अयं धातुपाठे पठितः ।

प्रुष भस्मीकरणे भ्वा० पर० सक० सेट् । प्रोषति अप्रोषीत्

पुप्रोष । उदित् क्त्वा वेट् । प्रुषित्वा पुष्ट्वा प्रुष्टः ।

प्रुष सेके पूर्त्तौ च सक० स्नेहे अक० क्र्या० पर० सेट् । प्रु-

ष्णाति अप्रोषीत् पुष्रोष ।

प्रुष्ट त्रि० प्रुष--क्त । दग्धे ।

प्रुष्व प्र० प्रुष--क्वन् । १ ऋतौ २ सूर्य्ये च उज्ज्वल० । ३ जलविन्दौ सि० कौ० ।

प्रेक्षा स्त्री प्र + ईक्ष--भावे अङ् । १ विषयशुभाशुभपर्य्यालोच-

नायां २ वृद्धिपूर्वककर्मकरणे ततः प्रेक्षादि० चतुरर्थ्याम्
इनि । प्रेक्षिन् आलोचनानिर्वृत्तादौ । अस्विन्शब्दे
परे घोषादि० पूर्वषदमुदात्तम ।

प्रेक्षागार न० ६ त० । राज्ञां मन्त्रणार्थगृहे हरिवं० ८५ अ० प्रेक्षागृहादयोऽप्यत्र ।

प्रेक्षादि चतुरर्थ्यामिति प्रत्ययनिमित्ते शब्दगणः स च गणः

पा० ग० उक्तो यथा “प्रेक्षा हलकां बन्धुका ध्रुवका
क्षिपका न्यग्रोध इक्कट कङ्कट सङ्कट कटकूप धुक पुक
पुट मह परिवाप यवास ध्रुवका गर्त्त कूपक हिरण्य” ।

प्रेक्षावत् त्रि० प्रेक्षा अस्त्यर्थे मतुप् मस्य वः । समीक्ष्यकारिणि ।

प्रेङ्खण न० प्र + इखि--ल्युट् णत्वम् । १ प्रकर्षेण चलने अष्टा-

दशरूपकान्तर्गते २ रूपकभेदे तल्लक्षणं सा० द० उक्तं यथा
“गर्भावमर्षरहितं प्रेङ्क्षणं हीननायकम् । असूत्र-
धारमेकाङ्कमविष्कम्भ प्रवेशकम् । नियुद्धसम्फोटयुतं सर्व-
वृत्तिसमाश्रितम् । नेपथ्ये गीयते नान्दी तथा तत्र
प्ररोचना” ।

प्रेङ्खा स्त्री प्र + इखि बा० आधारे अङ् । १ दोलायाम् अमरः

भावे अङ् । २ परिभ्रमणे ३ स्वार्थकगतौ अश्वगतौ इति
पाठान्तरम् । ४ गृहभेदे मेदि० ५ नृत्ये च धरणिः ।

प्रेङ्खित त्रि० प्र + इखि--क्त । कम्पिते अमरः ।

प्रेङ्खोल दोलने अद० चुरा० उभ० सक० सेट् । प्रोङ्खोलयति ते

अपिप्रेङ्खोलत् त । प्रस्योपसर्गत्वमपीच्छन्तीत्यन्ये तेन प्रा-
ञ्चिखोलत् त इत्येबरूपम् ।

प्रेण गतिप्रेरणाश्लेषणेषु भ्वा० पर० सक० सेट् माधवः । प्रे-

णति अप्रेणीत् ऋदित् अपिप्रेणत् त ।

प्रेणि त्रि० प्रेण--इन् । प्रेरके ऋ० १ । ११२ । १० मा० ।

प्रेत त्रि० प्र--इ--क्त । १ मृते अमरः । २ नरकस्थे जीवभेदे

३ प्रिशाक्षभेदे आतिवाहिकदेहोत्तरं ४ जायमानदेहभेद्र-
युते और्द्ध्वदेहिकक्रियाऽभावे तद्रूपप्राप्तिकथा पाद्मोत्त० ख०
१६ अ० यथा “ततो बहुतिथे काले स राजा पञ्चता-
ङ्गतः । वैदिकेन विधानेन न लेभे चौर्द्ध्वदोहकम् । विष्णु-
प्रद्वेषमात्रेण युगानां सप्तविंशतिम् । भुक्त्वा च यातनां
थामीं निस्तीर्णनरको नृपः । समया गिरिराजन्तु
पिशाचोऽभूत्तदा महान्” । तस्य रूपं यथा “देवद्युतिर-
धीयानः शुश्राव करुणस्वनम् । सभ्रागत्य ततस्तत्र त”
पिशाचं ददर्श सः । विकरालमुखं दीनं पिशङ्गनयनं
भृशम् । ऊर्द्ध्वमूर्द्ध्वजकृष्णाङ्गं यमदूतमिवापरम् ।
चलजिह्वञ्च लम्बोष्ठं दीर्घजङ्घसिराकुलम् । दीर्घाङ्घ्रि-
शुष्कतुण्डञ्च गर्त्ताक्षं शुष्कपञ्चरम्” ।
और्द्ध्वदेहिककरणेऽपि केषाञ्चित् कर्मविशेषेण प्रेतत्वप्रा-
प्तिस्तत्रोक्ता यथा “हविर्जुह्वति नाग्नौ ये गोविन्द”
वार्चयन्ति ये । लभन्ते नात्मविद्याञ्च सुतीर्थविमुखाश्च
ये । सुवर्णं वस्त्रताम्बूलं रत्नमन्नं फलं जलम् ।
आर्स्तेभ्यो न प्रयच्छन्ति सर्वेषु कृतदारकाः । ब्रह्मस्वञ्च
स्त्रीधनानि लोभादेव हरन्ति वे । बलेन छद्मना
वापि धूर्त्ताश्च परवञ्चकाः । नास्तिकाः कुहका-
श्चौरा ये चान्ये बकवृत्तयः । बालवृद्धातुरस्त्रीषु
निर्दयाः सत्यवर्जिताः । अग्निदा गरदा ये च ये चान्ये
कूटमाक्षिणः । अगम्यागामिनः सर्वे ये चान्ये ग्राम-
याजिनः । व्याधाचरणसम्पन्ना वर्णादिधर्मवर्जिताः ।
ये चोपदेवदनुजरक्षीयक्षादिसेविनः । सर्वदा मादकद्रव्य-
पानमत्ता हरिद्विषः । देवतोद्दिष्टपतितनृपश्राद्धान्नभो-
जिनः । असत्कर्मरता नित्यं सर्वपातकपापिनः ।
पाषण्दधर्माचरणाः पुरोधोवृत्तिजीविनः । पितृमातृ-
स्नषापत्यस्वदारत्यागिनश्च ये । ये कदर्य्याश्च लुब्धाश्च
नास्तिका धर्मदूषकाः । त्यजन्ति स्वामिनं युद्धे त्यजन्ति
शरणागतम् । गवां भूमेश्च हर्त्तारो ये चान्ये रत्न-
दूषकाः । महाक्षेत्रेषु सर्वेषु प्रतिग्रहरताश्च ये । पर
द्रोहरता ये च तथा ये प्राणिहिंसकाः । परापवा-
दिनः पापा देवतागुरुनिन्दकाः । कुप्रतिग्राहिणः सर्वे
सम्भवन्ति पुनःपुनः । प्रेतराक्षसपैशाच्यतिर्य्यग्वृक्षकुयो-
निषु । न तेषां सुखलेशोऽस्ति इह लोके परत्र च” ।
पाद्मोत्तरखण्डे १८ अ० । पञ्चप्रेतोपख्यानं तत्रैव यथा
“ब्राह्मण उवाच प्रेतानां नाम जातीनां युष्माकं सम्भवः
कथम् । किं तत् कारणमुद्दिश्य यूयमीदृशनामसाः” ।
प्रेता उचुः “अहं स्त्राद् सदा भुक्त्वा दद्यां पर्युषितं
पृष्ठ ४५३४
सदा । एतत्कारणमुद्दिश्य नाम पर्य्युषितं १ मम ।
सूचिता बहवोऽनेन विप्राद्या ह्यन्नकाङ्क्षिणः । एतत्-
कारणमुद्दिश्य सूचीमुख २ मिमं विदुः । शीघ्रं गच्छति
विप्रेण याचितः क्षुधितेन वै । पश्चाद्भुङ्क्ते द्विजः
शिष्टमेष शीघ्रक ३ उच्यते । गृहोपरि सदा भुङ्क्ते
स्वाद् द्विजभयेन हि । द्विजाय कुत्सितं दत्त्वा एष
रोहक ४ उच्यते । मौनेनापि स्थिरो नित्यं याचितो
विलिखन्महीम् । अस्माकमपि पापिष्ठो लेखको ५ नाम
एष वै । मेढ्रेण लेखको याति रोहकः पार्श्वतःशिराः ।
शीघ्रकः पङ्गुतां प्राप्तः सूची सूचीमुखोऽभवत्” । प्रेताः
हारस्तत्रोक्तो यथा “द्विज उवाच “ये जीवा भुवि तिष्ठन्ति
सर्वे आहारमूलकाः । युष्माकमपि चाहारं श्रोतु-
मिच्छामि तत्त्वतः” प्रेता ऊचुः “शृणु आहारमस्माकं
सर्वसत्त्वविगर्हितम् । श्लेष्ममूत्रपुरीषेण योषितान्तु मलेन
च । गृहाणि त्यक्तशौचानि प्रेता भुञ्जन्ति तत्र वै ।
स्त्रीभिर्जग्धानि जीर्णानि संकीर्णापहतानि च ।
मलेनातिजुगुप्सानि प्रेता भुञ्जन्ति तत्र वै । भयलज्जा-
बिहीनानि पतितैः सेवितानि च । अन्योन्यदस्यु युक्तानि
प्रेता भुञ्जन्ति तत्र वै । कलहान्वितशोकानि त्यक्तशो-
भानि मण्डनैः । सवर्चस्कानि भाण्डानि प्रेता भुञ्जन्ति
तत्र वै । बलिमन्त्रविहीनानि द्विजादृष्टानि यानि तु ।
नियमव्रतहीनानि प्रेता भुञ्जन्ति तत्र वै । गुरवो नैव
पूज्यन्ते स्त्रीजितानि मलानि च । सक्रोधान्यपवित्राणि
प्रेता भुञ्जन्ति तत्र वै । भुञ्जन्ति भिन्नभाण्डेषु मर्य्यादा-
रहितेषु च । अन्योन्योच्छिष्टयुक्तेषु तत्र प्रेतास्तु
भुञ्जते । सकेशमाक्षिकोच्छिष्टं पूति पर्युषितं तथा । सक्रो-
धञ्च सशोकञ्च तच्च प्रेतेषु भोजनम् । सनग्नं भोजनं
यच्च नोत्तरीयं पदासनम् । सोष्णीषं सासुरीकक्षं तच्च
प्रेतेषु भोजनम् । अर्द्धग्रासं महाग्रासं सोत्क्षिप्तं
पतितं तथा । दुर्भुक्तं गोष्ठिकञ्चैव तच्च प्रेतेषु भोजनम् ।
सौतिकं गृतकञ्चैव राजसं कलुषीकृतम् । निर्दीपं कृमि-
वच्चाग्रे यद्भुक्तं प्रैतिकन्तु तत् । एतत्ते कथित्त सर्वं
यत् प्रेतेष्येव भोजनम् । निर्वाणाः प्रेतजात्या बै
कृच्छामस्थां द्विजोत्तम” । प्रेतत्वाभावकारणं यथा
न षेतो जायते येन येन चैवेह जायते । एतत्सर्वं
समासेन प्रकूहि वदतां वर!” ब्राह्मण उवाच “एकरात्रं
त्रिरात्रं वा कृच्छ्रं चान्द्रायणादिकम् । व्रतेष्वप्यु षितो
यख क ऐतो जायते नरः । मिष्टान्नपानदाताथ सततं
श्रद्धयान्वितः । देवपूजापरो नित्यं न ष्रेतो जायते नरः ।
त्रिरग्निरेकपञ्चाग्निर्निरग्निर्वाप्युपासकः । सर्वभूतद-
यापन्नो न प्रेतो जायते नरः । तुल्यमानापमानश्च
तुल्यः काञ्चनलोष्टयोः । तुल्यः शत्रौ च मित्रे च न
प्रेतो जायते नरः । देवतातिथिपूजासु गुरुजातिषु
नित्यशः । वेदशास्त्ररतो नित्यं न प्रेतो जायते नरः ।
जितक्रोधो मदैश्वर्य्यतृष्णासङ्गविवर्जितः । क्षमाऽक्रोध
सुशीलश्च न प्रेतो जायते नरः । देवतातिथिपूजास्तु
पर्वतांश्च नदीस्तथा । पश्येद्देवालयांश्चैव न प्रेतो जायते
नरः” । प्रेतत्वकारणं यथा “शूद्रान्नं यो द्विजो भुङ्क्ते
यः क्रामति द्विजोत्तमम् । वृत्तिहा द्विजदेवेषु स प्रेतो
जायते नरः । मातरं पितरं वृद्धं ज्ञातिं साधुजनं तथा ।
लोभात् त्यजति यः स्निग्धं स प्रेतो जायते नरः ।
अयाज्ययाजकश्चैव याज्यञ्च परिवर्जयेत् । शूद्रानुग्रहकर्त्ता
च स प्रेतो जायते नरः । कुज्योतिषी कुविद्यस्तु
कुजनेषु कुदेशकः । शूद्रसेवाकरो राज्ञां स प्रेतो जायते
नरः । सेवनायापद्रुतो यः सेवकस्त्वपरिग्रहः । तावु-
भावपि जायेते प्रेतौ कालान्न किंप्रदौ । द्विजानुम-
न्त्रितो भुङ्क्ते शूद्रान्नं वा द्विजस्य तु । शूद्रेणैव द्विजः
पेतो निरयानुपगच्छति । गीतवाद्यरतो नित्यं मद्यप-
स्त्रीबिषेषणात् । द्यूतमांसप्रियो यस्तु स प्रेतो जायते
नरः । वृथारेता वृथामांसो वृथावादो वृथामतिः ।
निन्दको द्विजदेवानां स प्रेतो जायते नरः । वृद्धं बालं
गुरुं विप्रं योऽवमन्य भुनक्ति वै । कन्यां ददाति
शुल्केन स प्रेतो जायते नरः । न्यासापहर्त्ता मित्रध्रुक
परपाकरतस्तथा । विश्रम्भघाती कूटश्च स प्रेतो
जायते नरः । निर्दोषान् सुहृदो नारीस्त्यजेत् कालान्न
पाति यः । धनमीहेत यस्तेषां संप्रेतो जायते नरः ।
हस्त्यश्वरथयानानि मृतशय्यासनादि यः । कृष्णाजि-
नञ्च गृह्णानि अनापत्सुगतो द्विजः । तथोभयमुखीं
कालं सशैलां मेदिनीं द्विजः । कुरुक्षेत्रस्य यद्दानं
चाण्डालात् पतितात्तथा । मासिकेऽपि नवश्राद्धे भुञ्जन्
प्रेतान्नभुङ्मतः । ब्रह्महा गोबधी स्तेयी सुरापो गुरु-
तल्पगः । भूमिकन्यापहर्त्ता यः स प्रेतो जायते नरः ।
नानासङ्करकृन्नित्यं वर्णसङ्करकृत्तथा । योनिसङ्करकृ-
च्चापि स प्रेतो जायते नरः । विक्रीणाति विषं शङ्खं
तिलानां लवणस्य तु । गवा कशरिणां मोहात् विक्र-
यात् प्रेततां व्रजेत् । कूटमाप्येन तौल्येन क्रयं क्री-
पृष्ठ ४५३५
णाति विक्रयात् । मद्यतक्रपयोदध्नां स प्रेतो जायते
नरः । स्त्रीरक्तो मद्यपाने तु मृगयामनुधावति ।
नित्यनैमित्तिकेऽदाता स प्रेतो जायते नरः” अग्निपु० ।
मनुष्याणाञ्च दाहादिक्रिययाऽतिवाहिकदेहानन्तरं प्रेत-
देहो भवति यथाह विष्णुधर्मोत्तरे
“तत्क्षणादेव गृह्णाति शरीरमातिवाहिकम् ।
षातिवाहिकसंज्ञोऽसौ देहो भवति भार्गव! । केवलं
तन्मनुष्याणां नान्येषां प्राणिनां क्वचित् । प्रेतपिण्डै-
स्ततो दत्तैर्देहमाप्नोति भार्गव! । भोगदेहमिति प्रोक्तं
क्रमादेव न संशयः । प्रेतपिण्डा न दीयन्ते यस्य तस्य
विमोक्षणम् । श्माशानिकेभ्यो देवेभ्य आकल्पं नैव
विद्यते । तत्रास्य यातना घोराः शीतवातातपोद्भवाः ।
ततः सपिण्डीकरणे बान्धवैः स कृते नरः । पूर्णे संवत्सरे
देहमतोऽन्यं प्रतिपद्यते । ततः स नरके याति स्वर्गे
वा स्वेन कर्मणा” शु० त० । ५ प्राप्तपितृलोके “अत ऊर्द्ध्वं
संवत्सरे संवत्सरे प्रेतायान्नं दद्यात्” गोभिलः “प्रेतलोकं
परित्यज्य आगता ये महालये” ति० त० ।

प्रेतकर्म्मन् न० ६ त० । १ मृतोद्देशेन कर्त्तव्ये दाहादि

सपिण्डनान्तकर्मणि भा० द्रो० ५२ अ० । प्रेतकार्य्यादयोऽप्यत्र ।
२ प्राप्तपितृलोकोद्देश्यककार्य्ये श्राद्धादौ च “अकृत्वा
प्रेतकार्य्याणि प्रेतस्य धनहारकः । वर्णानां यद्बधे
प्रोक्तं तद्व्रतं नियतश्चरेत्” दाय० त० वचनम् ।

प्रेतगृह न० प्रेतस्य मृतस्य गृहमिव । मृतस्य शरीराधारे

श्मशाने हेमच० । प्रेतावासादयोऽप्यत्र ।

प्रेततर्पण न० ६ त० । मृगोद्देशेन् वर्षपर्य्यन्तं प्रेतशब्दोल्ले-

खेन कर्त्तव्ये तर्पणविशेषे तद्विधानं शु० ति० यथा
मिश्राचार्य्यपृथ्वीधरधृतविष्णुसूत्रम् “अतः सर्वे
शवस्पर्शिनो गत्वा पितृपदस्थाने प्रेतपदोहेन द्वितीयान्तं
तर्पयेयुः पितृशब्दोच्चारेण पितृहा भवति” । शाता-
तपः “प्रेतान्तनामगोत्राभ्यामुत्सृजेदुपतिष्ठताम्” इति
प्रेतान्तेति तत्पुरुषः न बहुव्रीहिः सर्वजघन्यत्वात्
तेन प्रेतान्तनाम--गोत्रञ्चेति समासः एतद्वचनाच्चितापि-
ण्डदाने उपतिष्ठतामिति पितृदयितायामप्युक्तम् । एतेन
प्रेतकार्ये समन्धार्थकपदप्रयोगो मैथिलोक्तो हेयः ।
एतेनामुकगोत्रममुकदेवशर्माणं तर्पयामीति मामगानां
प्रयोगः । अत्र प्रेततर्पणे सतिलांस्त्विति विशेषापादानात्
सूर्य्यादिवारेऽपि तिलैरेव तर्पणं प्रतीयते । व्यक्तमाह
कदमपारिजातधृता स्मृतिः “अयने विषुवे चैव संक्रान्त्यां
ग्रहणेषु च । उपाकर्मणि चोत्सर्गे युगादौ मृतवा-
सरे । सूर्य्यशुक्रादिवारे च न दोषस्तिलतर्पणे” । तथा
“तीर्थे तिथिविशेषे च कार्य्यं प्रेते च सर्वदा” । तिथिवि-
शेषे अमावस्यादशहरादौ । अत्र दक्षिणाङ्गुष्ठसहित-
मध्यमादिना वामहस्ते तिलदानं “वामहस्ते तिलान्
दत्त्वा जलमध्ये तु तर्पयेत् । मुक्तहस्तन्तु कर्त्तव्यं न
मुद्रां तत्र दर्शयेत्” इति विद्याकरधृतवचने वामहस्त
इति सप्तम्यन्तश्रवणात् “तिलान् संमिश्रयेज्जले” इति
तिलाधिकरणमुपक्रम्याभिधानाच्च । “सव्येन च तिलाः
ग्राह्याः” इत्यत्रापि वामहस्ते स्थाप्या इत्यर्थः । सव्येनेति
स्थाल्या पचतीतिवदधिकरणे तृतीया “विवक्षातो हि
कारकाणि भवन्ती” त्युक्तेः । मुद्रा अङ्गुष्ठतर्जन्यात्मकयोग-
रूपा तिलग्रहणायेति शेषः” ।

प्रेतधूम पु० ६ त० । चिताधूमे मनुः ४ । ६९ ।

प्रेतनदी स्त्री प्रेतगम्या नदी । यमद्वारस्थे वैतरणीनामके नदीभेदे शब्द च० ।

प्रेतनिर्हारक पु० प्रेतं निर्हरति गृहात् श्मशानभूमिं निर् +

हृ--ण्वुल् । शवहारके “प्रेतनिर्हारकाश्चैव वर्जनीयाः
प्रयत्नतः” तस्य अपाङ्क्तेयता मनुनोक्ता । तच्च कुल्लू
धनग्रहणपूर्वकहरणपरतया व्याख्यातं यथा
“प्रेतनिर्हारको धनग्रहणेन न तु धर्मार्थम् । “एतद्वै
परमन्तपो यत् प्रेतमरण्यं हरन्तीति” श्रुत्या विहितत्वात्”

प्रेतपक्ष पु० प्रेतानां पितॄणां प्रियः पक्षः शा० त० । गौणा-

श्विनकृष्णपक्षे अत्र मृतयोः पित्रोः पार्वणविधिना
त्रैपुरुषिकं श्राद्धं करणीयं यथाह श्रा० त० शङ्खः
“सपिण्डीकरणादूर्द्ध्वं यत्र यत्र प्रदीयते । तत्र तत्र
त्रयं कुर्य्यात् वर्जयित्वा मृताहनि । अमावस्यां क्षयो
यस्य प्रेतपक्षेऽथ वा पुनः । सपिण्डीकरणादूर्द्ध्वं
तस्योक्तः पार्वणो विधिः” । त्रयं सम्प्रदानानां त्रयं
कुर्य्यात् त्रिभ्यो दद्यादित्यर्थः । मृताहपर्युदस्तत्रिदै-
वतत्वस्य प्रतिप्रसवमाह अमावस्यामिति प्रेतपक्षोऽत्र
पितृपक्षः अश्वयुक्कृष्णपक्ष इति यावत् न तु कृष्ण-
पक्षमात्रं कृष्णपक्षसामान्यपरत्वेऽमावास्यापदवैयर्थापत्तेः
पितृपक्षं विशेषयति हेमाद्रिमाधवाचार्य्यधृतं
नागरखण्डम् “नभो वाऽथ नभस्यो वा मलमासो यदा
भवेत् । सप्नमः पितृपक्षः स्यादन्यत्रैव तु पञ्चमः” । अत्र
श्रावणभाद्रयोरन्यतरस्य मलमासत्वे आषाढ़ापेक्षया
सप्तमपक्षस्य पितृपक्षत्वात् अत्र मृतस्यैव प्रेतपक्षमृतत्वं
न तु मलमासभाद्रकृष्णबक्षे मृतस्य । ततश्च तत्र मृतस्य
पृष्ठ ४५३६
वर्षान्तरेऽश्वयुक्कृष्ण क्षेऽपि तच्छ्राद्धकरणे न पार्वणं
किन्त्वेकोद्दिष्टमिति । अत्र पार्वणो विधिः पार्वणेतिकर्त-
व्यताकैकोद्दिष्टविधिरिति नव्यवर्द्धमानप्रभृतयः । तन्न
पूर्यवचनोक्तत्रैपुरषिकस्य मृताहे पर्युदस्तस्य पार्वणोवि-
धिरित्यनेन प्रतिप्रसवात् । तस्मात् सदैकोद्दिष्टं त्रैपुरुषिकं
न तु षाट्पौरुषिकं “कर्षूसमन्वितं मुक्त्वा तथाद्यं श्राद्ध-
षोडशम् । प्रत्याव्दिकञ्च शेषेषु पिण्डाः स्युः षडिति
स्थितिः” इति छन्दोगपरिशिष्टवचनेन प्रत्याव्दिकव्यति
रेकेण षट्संख्यानियमात् एवममावस्यादिमरणनिमित्तेन
प्रातुरपि प्रत्याव्दिकं पार्वणविधिनैव “अपुत्रा ये
मृताः केचित् स्त्रियो वा पुरुषाश्च ये । तेषामपि च
देयं स्यादेकोद्दिष्टं न पार्वणम्” इति आपस्तम्बवचने
अपुत्रा इति विशेषणोपादनात् सपुत्राणां पार्वणाभ्यनु-
ज्ञानात् । एतच्च मात्रादित्रितयदैवतं कार्यम् । “मात्रे
पितामह्यै प्रपितामह्यै पूर्ववत् व्राह्मणान् भोजयित्वा”
इत्यन्वष्टकायां तथादर्शनात् अवसानदिननिमित्तत्वेन
पार्वणविधिना छन्दोगैरपि मात्रादित्रिकाणां श्राद्धं
कर्त्तव्यम् “न योषिद्भ्यः पृथग् दद्यादवसानदिनादृते” ।
इति छन्दोगपरिशिष्टवचने विशेषतः प्रतिप्रसवात् ।
एवं सपिण्डीकरणेऽपि । एतच्च मृताहपार्वणं माता-
पित्रोरेव । तथा च हेमाद्रिधृतकात्यायनवचनम् “सपि-
ण्डीकरणादूर्द्ध्वं पित्रोरेव हि पार्वणम् । पितृव्यभा-
तृमातृणामेकोद्दिष्टं सदैव तु” । मातृपदं सपत्नीमातृ-
परम् । सपत्नीमात्रित्यत्र मातृपदस्य राजदन्तादि-
त्वात् परनिपातः ततश्च वाक्ये मातृसपत्नीति न
प्रयोज्यं किन्तु सपत्नीमातरित्यादिकम् । एवं साग्नि-
कौरसक्षेत्रजाभ्यां मृताहे पार्वणं कर्त्तव्यम् “औरसक्षे-
त्रजौ पुत्रौ विधिना पार्वणेन तु । प्रत्यव्दमितरे कुर्युरे-
कोद्दिष्टं सुता दश” इति जावालवचनस्य “यत्र यत्र
प्रदातव्यं सपिण्डीकरणात् परम् । प्रार्वणेन विधानेन
देयमग्निमता सदा” इति मत्स्यपुराणवचनस्य चैकवा-
क्यत्वात् । उशना च “प्रत्यव्दं दर्शवच्छ्राद्धं साग्निः
कुर्वीत वै द्विजः । एकोद्दिष्टं सदा कुर्य्यान्निरग्निः
श्राद्धदः सुतः” । अत्र नि० सि० विशेषमाह
वृद्धपराशरः “संग्रामे संस्थितानाञ्च प्रेतपक्षे
शशिक्षये । तेषां पार्वणमेवोक्तं क्षयाहेऽपि च सत्तमैः” । “चन्द्र
क्षयानाशकंयुगेषु यः प्रेतपक्षे मृतवान् सपिण्डः ।
मपिमिद्धतानामपि चाव्दिकानि भवन्ति तेषानिह पार्ब-
णानि” । तथा “भ्रातुर्ज्येष्ठस्य कुर्वीत ज्येष्ठो भ्रातामु-
जस्य च । दैवहीनं तु तत्कुर्य्यादिति धर्मविदब्रवीत्” ।
दैवहीनमेकोद्दिष्टम् ज्येष्ठो भ्रातानाद्यगर्भजः तथा च
तत्रैवशातातपः “अनाद्यगर्भोज्येष्ठोऽपि भ्राता सद्भि-
र्निगद्यते । ऋते सपिण्डनात्तस्य नैव पार्वणमाचरेत्” ।
आद्यगर्भे तु पार्वणमेकोद्दिष्टं वेत्यर्थः । मातुस्तु हेमाद्रौ
कात्यायनः “प्रत्यव्दं यो यथा कुर्य्यात् पुत्रः पित्रे सदा
द्विजः । तथैव मातुः कर्त्तव्यं पार्वणं चान्यदेव वा” ।
यत्तु तेनैवोक्तम् “सपिण्डीकरणादूर्ध्वं पित्रोरेव हि
पार्वणम् । पितृव्यभ्रातृमातृणामेकोद्दिष्टं सदैव तु”
इति तत् सापत्नमातृपरम् । यत्तु वृद्धपराशरः “अपुत्रस्य
पितृव्यस्य तत्पुत्रो भ्रातृजो भवेत् । स एवास्य तु
कुर्वीत पिण्डदानादिकक्रियाम् । पार्वणं तेन कार्य्यं
स्यात् पुत्रवद्भ्रातृजेन तु । पितृस्थाने तु त कृत्वा शेषं
पूर्ववदाचरेत्” इति तत्पितृवद्देशाचारवद्व्यवस्थितमिति
पृथ्वी चन्द्रः । श्राद्धदीपकलिकायां चतुर्विंशतिंवते तु
“पितृव्यभ्रातृसातृणां ज्येष्ठानां पार्वणं भवेत् । एकोद्-
दिष्टं कनिष्ठानां दम्पत्योः पार्वणं मिथः । अपुत्रस्य
पितृध्यस्य भ्रातुश्चैवाग्रजन्मनः । मातामहस्य तत्पत्न्याः
श्राद्धं पार्वणवद्भवेत्” इत्युक्तं तत्पत्न्याः कर्तृत्वेऽपि पार्व-
णमेव “सर्वाभावे स्वयं पत्न्याः स्वभ्रातॄणाममन्त्रकम् ।
सपिण्डीकरणं कुर्युस्ततः पार्वणमेव च” इति लौगाक्षि
स्मृतेः । “ततः पत्न्यपि कुर्वीत सापिण्ड्यं पार्वणं तथेति”
सुमन्तूक्तेश्चेति निर्णयामृते उक्तम् । अन्ये त्वेतत्पाक्षिक
पार्वणपरमाहुः अतएव “भर्तुः श्राद्धं तु या नारी
मोहात्पार्वणमाचरेत् । न तेन तृप्यते भर्त्ता कृत्वा तु
नरकं व्रजेत्” इति वचनं क्षयाहे पाक्षिकैकोद्दिष्ट
प्रशंसार्थं न पार्वणनिषेधार्थमित्युक्तं त्रिस्थलीसेतौ भट्टच-
रणैः । स्वभर्तृप्रभृतित्रिभ्य इत्यनेन विरोधाच्च अपुत्राणामृ
चाह हेमाद्रावापस्तम्वः “अपुत्रा ये मृताः केचित्
स्त्रियो वा पुरुषाश्च गे । तेषामपि च देयं स्यादैकोद्-
दिष्टं न पार्वणम् । मित्रबन्धुसपिण्डेभ्यः स्त्रीकुमारीभ्य
एव च । दद्याद्वै मासिकं श्राद्धं सांवत्सरमतोऽन्यथा” ।
पारिजाते तु अन्यथा पार्वणमित्युक्त्वा सर्वत्र पार्वणमि-
त्युक्तम् एकोद्दिष्टवाक्यानि तु तीर्थमहालयपराणी-
त्युक्तम् । पृथ्वीचन्द्रोदये वृद्धगार्ग्यः “मातुः सहोदरा
या च पितुः सहभवा च या । तयोश्च नैव कुर्वीत्
पार्वणं पिण्डनादृते” प्रचेताः “सपिण्डीकरणादूर्ध्व-
पृष्ठ ४५३७
मेकोददिष्टं विधीयते । अपुत्राणां च सर्वेषामपत्नीनां
तथैव च” । अपत्नीनां ब्रह्मचर्य्यादीनाम् । मार्कण्डेयपु-
राणे “प्रतिसंवत्सरं कार्यमेकोद्दिष्टं नरैः स्त्रियाः ।
मृताहनि यथान्यायं नृणां यद्वदिहोदितम्” । नृणा-
मिति दृष्टान्तात् नोविप्रहतपाषण्ड्यादीनां सपिण्ड-
नाभायेऽपि सांवत्सरमेकोद्दिष्टं कार्यमेवेति शूलपाणिः ।
अत्रिवृद्धवसिष्ठौ “सपिण्डीकरणादूर्ध्वं यत्र यत्र प्रदी-
यते । भ्रात्रे भगिन्यै पुत्राय स्वामिने मातुलाय च ।
पितृव्यगुरवे श्राद्धमेकोद्दिष्टं न पार्वणम्” । यत्तु
जातूकर्ण्यः “पितृव्यभ्रातृमातॄणामपुत्राणां तथैव च ।
मातामहस्यासुतस्य श्राद्धादि पितृवद्भवेत्” इति तदाव-
श्यकत्वार्थं न तु पार्वणार्थमिति हेमाद्रिः । युक्तन्त्वेवम्
“मायः पितरमारभ्य त्रयो मातामहाः स्मृताः । तेषां
तु पितृवच्छाद्धं कुर्युर्दुहितृसूनवः” इति पुलस्त्योक्ते-
र्मातामहस्य पार्वणमेव तत्साहचर्य्यात् पितृव्यादौ तथा
“पितृव्यभ्रातृमातॄणामेकोद्दिष्टं च पार्वणमिति” क्षयाहो-
पक्रमे पुलस्त्योक्तेश्च विकल्पः । केचित्त्वापस्तम्बादिवा-
क्यानि “व्युत्क्रमाच्च प्रमीतानां नैव कायां सपिण्डता”
इत्यस्य पितृव्यादिपरत्वादकृतसपिण्ड न पितृव्यादिपराणी-
त्याहुः । माता सपत्नीमाता । एकोद्दिष्टं तु कनिष्टपर-
मिति पृथ्वीचन्द्रोदयेऽप्येवम् । विशेषस्मधिकारिनिर्णये
पागुक्तः । केवित्पुत्राभावेऽपि पितामहवार्षिकमप्याव-
श्यकम् “पुत्राभावे च तत्पुत्रः पत्नी माता तथा पिता ।
वित्तामानेऽपि सच्छिव्यः कुर्य्यात्तखौर्ध्वदेहिकम्” इति
मार्कण्डेयपुराणादित्याहुस्तत्र “पौत्रेणैकादशाहादि
कर्त्तव्यं श्राद्धषोड़शमिति” कातीये विशेषोक्तेः ।
प्रेतपक्षे श्राद्धकालादिनिरूपणम् श्वा० बि० यथा
ब्रह्मपुराणे “अश्वयुक्कृष्णपक्षे त श्राद्धं कुर्य्याद् दिने-
दिने । त्रिमागहीनं पक्षं बा त्रिभावं स्वर्द्धमेव वा ।
न सन्ति पितरश्चेति कृत्वा मनसि यो नरः । श्राद्धं
न कुरते तत्र तस्य रक्तं पिनन्ति ते । यावच्च कन्यातुलयोः
क्रमादास्ते दिवाकरः । तावत् श्रद्धस्य कालः स्या-
च्छून्यं प्रेतपुरं तदा” । दिने दिने इति वीप्सा पक्ष
श्राद्धार्था तेन पञ्चदश श्राद्धानि दर्शितानि । ननु तिथि-
ह्रामादेकस्विन्नेव वक्षे चतुर्दशत्वादह्नां चतुर्दश श्राद्धानि
प्राप्नुवन्ति । एवं तिथिवृद्याहर्वृद्धौ षोड़शस्युः । न पञ्च-
दशतिथ्यात्मकत्वाच्चान्द्रपक्षस्य दिने दिने पन्नदशतिथि-
ष्वित्यर्थः तथा च एकस्मिन् दिने श्रातयोग्यतिथिद्वय-
स्वाभे श्राद्धद्वयम् अहोरात्रवृद्धौ न श्राद्धवृद्धिः । तथा च
विष्णुधर्मोत्तरप्रथमकाण्डम् “तिथिनैकेन दिवसश्चान्द्र-
मानेन कीर्त्तितः । अहोरात्रेण चैकेन सावनो दिवसः
स्मृतः” । त्रिभामहीनं पक्षं वा इति षष्ठ्यादिकल्प उक्तः
त्रिभागमित्येकादश्यादिकल्प उक्तः अर्द्धमेवेति त्रयो-
दश्यादिकल्पः । न तु अर्द्धमिति पक्षार्द्धमिति व्याख्यानं
कल्पतरूक्तं० युक्तम् उत्तरोत्तरलघुकालोपदेशात् सन्नि-
धानाच्च त्रिभागार्द्धप्रतीतेः । त्रिभागहीनत्रिभागपदयो-
रपि पञ्चम्यादिविवेचनं कल्पतरोर्न युक्तमेव पक्षापेक्षया
पञ्चम्यादेस्त्रिभागहीनादिपदार्थत्वानुपपत्तेरमुख्यत्वात् ।
गोतमोक्तपञ्चम्यादिकल्पस्य सामान्योपक्रमान्नाश्वयुक्पर-
त्वम् । अतएव विष्णुधर्मोत्तरप्रथमकाण्डम् “उत्त-
रादयनात् श्राद्धे श्रेष्ठं स्याद्दक्षिणायनम् । चातुर्मास्यञ्च
तत्रापि प्रसुप्ते केशवे हितम् । प्रौष्ठपद्याः परः पक्ष-
स्तत्रापि च विशेमतः । पञ्चम्यूर्ध्वञ्च तत्रापि
दशम्यूर्ध्वमतोऽप्यति । मघायुक्ता च तत्रापि शस्ता राजं-
स्त्रयोदशी” । पञ्चव्यूर्ध्वदशम्यूर्ध्वमित्यनेन षष्ठ्याद्येकादश्या-
दिकल्पावुक्तौ । न सन्वीत्यनेनाकरणे प्रत्यवायदर्शनं
नित्यत्वज्ञापनार्थं तत्र च पक्षश्राद्धादिकल्पानां विषम-
शिष्टत्वेनेच्छाविकल्पाऽसम्भवादेकादेया तिस्रो देयाः
षड्देया इतिवत् फलभूमा कल्पनीयः । एतेषामेव
कल्पानां दर्शितत्वादाश्विने कृष्णपक्षे एकस्मिन्नपि दिने श्राद्धं
कर्त्तव्यमिति पक्षश्चिन्तनीयः सामान्यमासविहितन्तु
स्यादेव । अत्र संशयः प्रौष्ठपद्यूर्ध्वं यः कृष्णपक्षः स
पौर्णमास्यन्तमासव्यवस्थयाऽश्वयुक्कृष्णपक्षो भवति स यदा
कन्योपक्रमः कन्यासमाप्यश्च तदा तत्र पक्षश्राद्धमविवाद-
मेय यदा सिंहोपक्रमः कन्यासमाप्यश्च समस्त एव वा
सिंहसमाप्यः तदा कीदृशः शास्त्रार्थः । अत्र स्विकन-
प्रभृतयः ब्रह्मपुराणादिवचनैरेवात्र व्यवस्यां द्रष्टव्या-
माहुः । यथा ब्रह्मपुराणम् “यावच्च कन्यातुलयोः
क्रसादास्ते दिवाकरः । तावत् श्राद्धस्य कालः स्यात्
शून्यं प्रेतपुरं तदा” । तथा भविष्यपुराणे “कन्यां गते
सवितरि पितृराजानुशासनात् । तावत् प्रेतपुरी शून्या
यावद्वृश्चिकदर्शनम् । ततो वृश्चिक आधाते निराशाः
पितरो नृप! । पुनः स्वभवनं यान्ति शापं दत्त्वा सुदा-
रुणम् । हंसे वर्षासु कन्यास्थे शाकेनापि मृहे वसन् ।
पञ्चम्या उत्तरे दद्यादुभयोर्वंशयोरृणम् । सूर्ये कन्या-
स्थिते श्राद्धं यो न कुर्य्याद्गृहाश्रमी । कुतस्तस्म धनं
पृष्ठ ४५३८
पुत्राः पितृनिःश्वासपीड़नात्” । हंसे सूर्य्ये इति ।
ऋणमिव ऋणं पितृमातृकुलस्येदमवश्यं परिशोध्यम् इत्यर्थः
एवमादिवचनैः कन्यासम्बन्धेनैव श्राद्धप्रतिपादनात्
एतस्यापि वचनस्य तदेकवाक्यतया सौराश्विनपरत्वम् ।
सौरपरत्वे लक्षणा स्यादिति चेन्न पौर्णमास्यन्तेऽपि तथात्वात् ।
अतः सिंहोपक्रमे कृष्णपक्षे कन्यासम्बन्धिन्येव भागे
श्राद्धं स्यात् न सिंहसम्बन्धिनि अत पक्षश्राद्धं तत्र
निवर्त्तत एव त्रिभागहीनमित्यादयः पक्षास्तत्र
यथासम्भवं योजनीयाः । कन्यासम्बन्धिन्यपरपक्षे श्राद्ध-
विधानात् उपक्रमे सिंहसम्बन्धेऽपि पक्षस्य कन्यासम्ब-
न्धोऽस्त्येवेति चेन्न एकस्य पक्षावयविनः पञ्चदशतिथ्या-
त्मकस्याभावात् अत एव पञ्चदशब्राह्मणसमुदायमध्ये
एकस्य पुरुषोत्तमस्पर्शे न सर्वेषां पुण्यभागिता एतन्मूलमे
वेदं वचनं “कृत्तिकादिभरण्यन्तं वारा वा रविसप्तकाः ।
नैते संयोगमात्रेण पुनन्ति सकलां तिथिम्” । एकस्य
तिथ्यवयविनोऽभावादित्यर्थः इतरथा तु पूर्वदिने रात्रौ
चतुर्थीमौमवारयोगे बुधवारेऽपि भौमयुक्तचतुर्थी
विहितस्नानदानाद्यापत्तेः । यदा समस्त एवापरपक्षः
सिंहार्के निपतेत् तदा तं पक्षं विहाय कन्यागतापर-
पक्ष एव श्राद्धम् । नन्वेवं पञ्चमपक्षविरोधः । तथा
कार्ष्णाजिनिः “शक्रध्वजनिपाताङ्को यः स्यात् पक्षस्तु
पञ्चमः । स विज्ञेयोऽपरः पक्षः श्राद्धं तत्र विधीयते ।
पुत्रमायुर्धनं धान्यं भूतिमारोग्यमेव च । प्राप्नोति पञ्चमे
दत्त्वा श्राद्धं कामांस्तथा परान् । एतानेव हि हिंसन्ति
पञ्चमं यो व्यतिक्रमेत् । तस्मान्नातिक्रमेद् विद्वान् पञ्चमे
पैवृकं विधिम्” । तथा जातूकर्ण्यः “आषाढीमवधिं कृत्वा
यः स्यात् पक्षस्तु पञ्चमः । तत्र श्राद्धं प्रकुर्वीत कन्यां
गच्छतु वा न वा” । जावालः “अगतेऽपि रवौ कन्यां
श्राद्धं कुर्वीत यत्नतः । आषाद्याः पञ्चमः पक्षः प्रशस्तः
पिवृकर्मणि” । उच्यते एतेषां वचनानां भोजदेवप्रभृतिभि-
रलिस्यितत्वेन प्रामाण्याभावात् प्रत्युत पुत्रादिफलसम्ब-
न्धावगमात् काम्यं तद्भविष्यति । कन्यागतस्य च निन्यत्वं
प्रागेव दर्शितम् । न च काम्याधिकारनित्याधिकारयो-
रेकशास्त्रार्थत्वं यावज्जीवाधिकरणविरोधात् । तद्यदि
फलार्थितथा कन्यासम्बन्धरहित एव श्राद्धं कृतं
तथापि कन्यायामवश्यं कर्त्तव्यम् । वस्तुतस्तु श्राद्धभेदे
विधिगौरवापत्तेः कन्यागतश्राय एव फलार्थितया पञ्चम-
पक्षाख्यगुणफनविधिः तदा केवलं भ्रमपक्षे श्राद्ध-
मसङ्गतमेव “कन्यां गच्छतु वा नवेति” पञ्चमपक्षस्तुत्यर्थं
न तु कन्यासम्बन्धाभावेऽपि श्राद्धविधानपरं प्राप्ते कन्या-
गतश्राद्धे गुणफलविधित्वात् तदसङ्गतं ब्रह्मपुराणे
“पौर्णमास्यन्तमासेनैव समस्ततिथिकृत्याभिधानात् अश्वयुक्
शब्दस्यापि पौर्णमास्यान्तपरत्वात् न सौराश्विनपरत्वम्
“आश्वयुज्यां तु कृष्णायां त्रयोदश्यां मघासु च” इति
ब्रह्मपुराण एव अश्वयुक्शब्दस्यापि पौर्णमास्यन्तपरत्वावधा-
रणाच्च पौर्णमास्यन्ताश्विन एव मघा त्रयोदशी भवति न
दर्शान्ते, लक्षणा च सौरेऽप्यविशिष्टा । अतएव न मुख्य-
त्वाय दर्शान्तपरतापि क्लप्ततात्पर्य्यानुपपत्त्या लक्षणायां
धान्यमस्यधिकरणे दर्शितत्वात् । इदन्तु उच्यते उक्तयुक्तेः
पौर्णमास्यान्ताश्विनपरत्वे कन्यानिरपेक्षपञ्चमपक्षे पक्षश्रा-
द्धादिकल्पा नित्यतयाऽवगम्यन्ते न कन्याविशिष्टा निरपेक्ष-
श्रुतेः अत एव न गुणफलविधिः । अत एव कन्यासम्बन्धा-
नुद्भेदेनैव प्रौष्ठपद्यूर्ध्वं पञ्चमपक्षे कृष्णपक्षश्राद्धादिकं दर्श-
यति विष्णुधर्मोत्तरप्रथमकाण्डम् “उत्तरादयनात् श्राद्धे
श्रेष्ठं स्यात् दक्षिणायनम् । चातुर्मास्यञ्च तत्रापि
प्रसुप्ते केशवे हितम् । प्रौष्ठपद्याः परः पक्षस्तत्रापि च
विशेषतः । पञ्चम्यूर्द्धञ्च तत्रापि दशम्यूर्ध्वमतोऽप्यति ।
मघा युक्ता च तत्रापि शस्ता राजंस्त्रयोदशी । तत्राक्षयं
भवेत् श्राद्धं मधुना पायसेन तु । सर्वस्वेनावि कर्त्तव्यं
श्राद्धमत्र नराधिप! । परान्नभोजी त्वपचः श्राद्धमत्र
तु कारयेत्” । यानि च कन्याविषयाणि वचनानि
तानि पञ्चमपक्षानपेक्षश्राद्धान्तरविधायकान्येव । कन्या
प्रौष्ठपद्यूर्द्ध्वपञ्चमपक्षसमुच्चयेऽपि कन्थागतस्यापि श्राद्धस्य
नित्यत्वेनावगम्यमानस्य तन्त्रादेव सिद्धेर्न पृथक्करणम् ।
यदा न कन्यासमुच्चयस्तदा कन्यायामपि नित्यत्वात् कर्त्त
व्यमेव परन्तु पक्षश्राद्धादिकल्पेषु प्राभाणाभावात् सकृत्-
कृते कृतः शास्त्रार्थ इति न्यायात् सकृदेव श्राद्धं कर्त्त-
व्यम् न अधिमासपाते तत्र श्राद्धं न कर्त्तव्य यथा
लघुहारीतः “सपिण्डीकरणादूर्द्ध्वं यत्किञ्चित् श्राद्धिकं
भवेत् । इष्टं वाप्यथ वा पूर्त्तं तन्न कुर्य्यान्मलिम्लुचे” ।
एवमधिमासदोषेणापाटवादिना च तत्र श्राद्धाकरणे
तुलायां कर्त्तव्यतामाहं ब्रह्मपुराणे “यावच्च कन्यातुलयोः
कमादास्ते दिवाकरः । तावत् श्राद्धस्य कालः स्यात्
शून्यं प्रेतपुरं तदा” । अत्र कन्यातुलयोर्दिवाकरावस्थितेः
क्रमादेव प्राप्तत्वात् क्रमात् श्राद्धस्य कालः स्वादित्यम्बयः
मुख्यकल्पामुकल्पभावेनेत्यर्थः ।
पृष्ठ ४५३९
यस्य या मृततिथिस्तस्य प्रेतपक्षे तत्सजातीयतिथिः
पौर्णमासीमृतस्य तु प्रौष्ठपद्येव पार्वणश्राद्धकालः इति
हेमाद्रिप्रभृतिव्यवस्थेति पाश्चात्त्यदक्षिणात्यानां
तथाचारः । प्रा० वि० तन्मूलव बनानाममूलकत्वमुक्तमतोवङ्गानां
न तथाचार इति बोध्यम् । अधिकमपरपक्षशब्दे २३१
पृ० दृश्यम् ।

प्रेतपटह प्रेतस्य प्रेतत्वसूचकः पटहः । मरणकालवादनीये वाद्यभेदे त्रिका० ।

प्रेतपति पु० ६ त० । यमराजे

प्रेतपर्वत पु० प्रेतोद्धारणार्थः पर्वतः । गयातीर्थस्थे स्वना-

मख्याते पर्वते वायुपु० गयाप्र० ।

प्रेतपिण्ड पु० प्रेताय देयः पिण्डः । पूरकपिण्डे तस्य प्रेतस्य

पिण्डरूपदेहविशेषपूरकत्वात् पूरकसंज्ञा यथोक्तं ब्रह्मपु०
“शिरस्त्वाद्येन पिण्डेन प्रेतस्य क्रियते सदा । द्वितीयेन
तु कर्णाक्षिनासिकास्तु समासतः । गलांसभुजवक्षांसि
तृतीयेन तथा क्रमात् । चतुर्थेन तु पिण्डेन नाभि-
लिङ्गगुदानि च । जानुजङ्घे तथा पादौ प्रञ्चमेन तु
सर्वदा । सर्वमर्माणि षष्ठेन सप्तमेन तु नाड़यः । दन्त-
लोमाद्यष्टमेन वीर्य्यं च नवमेन तु । दशमेन तु पूर्णत्वं
तृप्तता क्षुद्विपर्य्ययः” ।

प्रेतपुर पु० ६ त० । यमालये “शून्यं प्रेतपुरं भवेत्” ब्रह्मपु०

प्रेतमेध पु० ६ त० । पित्र्युदेश्यके श्राद्धरूपे यज्ञे ।

प्रेतराक्षसी स्त्री प्रेतस्य भूतभेदस्य राक्षसीव दूरतोऽप-

सर्पणकारित्वात् । तुलस्यां रत्नमाला ।

प्रेतराज पु० ६ त० टच्समा० । यमे तस्य मृतस्य शुभाशुभफ-

लविभजनेन शासनात् तथात्वम् ।

प्रेतलोक पु० ६ त० । यमलोके “प्रेतलोकं परित्यज्य

आगता ये महालये” उल्कादानमन्त्रः ।

प्रेतवन न० प्रेतानां मृतानां वनमिवाधारत्वात् । श्मशाने

हेमच० । प्रेतकाननादयोऽप्यत्र ।

प्रेतवाहित त्रि० ३ त० । भूताविष्टे त्रिका० ।

प्रेतशिला स्त्री गयातीर्थस्थे प्रेतोद्धारणार्थे गुञ्जपृष्ठपर्वतादिस्थे

शिलाभेदेवायुपु० गयाप्र० । गरुडपु० ८५ अ० तन्माहात्म्यादि
यथा “येयं प्रेतशिला ख्याता गयायां सा त्रिधा स्थिता ।
प्रभासे प्रेतकुण्डे च गयासुरशिरस्यपि । धर्मेण
धारिता भूत्यै सर्वदेवमयी शिला । प्रेतत्वं ये गता नृणां
पित्राद्या बान्धवादयः । तेषामुद्धरणार्थाय यतः प्रेतः
शिला ततः । अतोऽत्र मुन्यो भूपा राजपात्रादयः
सदा । तन्यां शिकायां श्राद्धादिकर्त्तारो ब्रह्मलोकगाः ।
गयासुरस्य यन्मुण्डं तस्य वृष्ठे शिला यतः । मुण्डपृष्ठो
गिरिस्तस्मात् सर्वदेवमयो ह्ययम् । मुण्डपृष्ठस्य पादेषु
यतो ब्रह्मसरोमुखाः । अरविन्दवनन्तेषु तेन चैवो-
पलक्षितः । अरविन्दगिरिर्नाम क्रौञ्चपादाङ्कितो
यतः । तस्माद्गिरिः क्रौञ्चपादः पितॄणां ब्रह्मलोकदः ।
गदाधरादयो देवा आद्या आदौ व्यवस्थिताः । शिला-
रूपेण च व्यक्तास्तस्माद्देवमयी शिला । गयाशिरश्छा-
दयित्वा गुरुत्वादास्थिता शिला । स्नात्वा प्रेतशिलादौ
तु चरणाम्बुसृतेन च । पिण्डं दद्यादिमैर्मन्त्रैरा-
वाह्य च पितॄन् परान्” ।

प्रेतशुद्धि स्त्री प्रेते सति कालविशेषे शुद्धिः । विप्रादीनां

भृतानां मरणनिमित्तकाशौचापगमे शुद्धौ “प्रेतशुद्धिं
प्रवक्ष्यामि” मनुनोपक्रम्याशौधरूपतद्विरोधिनो दर्शनेन
तदपगमे शुद्धिः प्रतिपादिता ।

प्रेतशौच न० प्रेते सति शौचम् ६ त० । प्रेते सति तन्निमि-

त्ताशौचापगमे १ शौचे २ प्रेतसंस्कारभेदे च तत्प्रकारः
गरुड़पु० १०६ अ० उक्तो यथा
“प्रेतशौचं प्रवक्ष्यामि तच्छृणुध्वं यतव्रताः! ।
ऊनद्विवर्षं निखनेन्न कुर्य्यादुदकन्ततः । आश्मशानादनुव्रज्य
इतरो ज्ञातिभिर्मृतः । यमसूक्तं तथा जप्यं जपद्भि-
र्लौकिकाग्निना । स दग्धव्य उपेतश्चेदाहिताग्न्यावृ-
तार्थवत् । सप्तमाद्दशमाद्वापि ज्ञातयो ह्युपयन्त्यपः ।
अप नः शोशुचदवमनेन पितृदिङ्मुखाः । एवं माता-
महाचार्य्यप्रेतानाञ्चोदकक्रियाः । कामोदकाः
सखिपुत्रस्वस्रीयश्वशुरर्त्विजः । नामगोत्रेण ह्युदकं सकृत्
सिञ्चन्ति वाग्यताः । पाषण्डपतितस्तेभा न कुर्युरुदक-
क्रियाम् । न ब्रह्मचारिणो व्रात्या योषितः कामगा-
स्तथा । सुरापास्त्वात्मघातिनो नाशौचोदकभाजनाः ।
अतो न रोदितव्यं हि त्वनित्या जीवसंसृतिः । क्रिया
कार्य्या यथाशक्ति ततो गच्छेद् गृहान् प्रति । विदश्य
निम्बपत्राणि नियता द्वारि वेश्मनः । आचम्याथाग्निमुदकं
गोमयं गौरसर्षपान् । प्रविशेयुः समालभ्य कृत्वाश्मनि
पदं शनैः । प्रवेशनादिकं कर्म प्रेतसंस्पर्शिनांमपि । ईक्षतां
तत्क्षणाच्छुद्धिः परेषां स्नानसंयमात् । क्रीतलब्धाशना
भूमौ स्वपेयुस्ते पृथक् पृथक् । पिण्डयज्ञावृता देयं
प्रेतायान्नं दिनत्रयम् । जलमेकाहमाकाशे स्थाप्यं
क्षीरञ्च मृण्मये । वैतानोपासनाः कार्य्याः क्रियाश्च
श्रुतिषोदिताः” ।
पृष्ठ ४५४०

प्रेतश्राद्ध न० प्रेतोद्देश्यकं श्राद्धम् । प्रेतोद्देश्यके आद्यश्रा-

द्धादिसपिण्डीकरणान्तश्राद्धे तस्य गौणकालादि ति० त०
उक्तम् यथा “मासेऽन्यस्मिन् तिथौ तस्मिन् तदा दद्या-
द्विचक्षणः” । तथा श्रा० त० दर्शितं यथा
“षोडशश्राद्धानां यत्पतितं कृष्णैकादश्यां तत्कर्त्तव्यम् ।
तथा च लघुहारीतः “श्राद्धविघ्ने समुत्पन्ने मृताहा-
ऽविदिते तथा । एकादश्यां प्रकुर्वीत कृष्णपक्षे विशेषतः” ।
विशेषत इत्यमावस्यापेक्षया तस्यामपि विघ्नादौ विधानात् ।
यथा हेमाद्रिधृतं षट्त्रिंशन्मतम् “मासिके चाव्दिके
त्वह्नि संप्राप्ते मृतसूतके । वदन्ति शुद्धौ तत्कार्यं दर्शे
चापि विचक्षणैः” । राजमार्त्तण्डे “श्राद्धविघ्ने समुत्पन्ने
अन्तरा मृतसूतके । एकादश्यां प्रकुर्वीत कृष्णपक्षे विशे
षतः । श्राद्धविघ्ने समुत्पन्ने मृतस्याबिदिते तथा ।
अमावस्यां प्रकुर्वीत वदन्त्येके मनीषिणः” । अत्र मृतसू-
तकोपदानात् ऋष्यशृङ्गवचनेऽशौचपदमेतत्परम् । यत्त्व-
न्तरा मृतसूतकेऽप्येकादश्यां श्राद्धविधानं तत् “देये पितृणां
श्राद्धे तु अशौचं जायते यदि । तदशौचे व्यतीते तु
तेषां श्राद्धं विधीयते । शुचीभूतेन दातव्यं या तिथिः
प्रतिपद्यते । सा तिथिस्तस्य कर्त्तव्या नत्वन्या वै
कदाचन” इति ऋस्यशृङ्गवचन विरोधात् अशौचान्तदिने
मलमासादिरूपविघ्नान्तरेण तदकरणे । अतएव श्राद्धवि-
वेके अपाटवाद्यशौचाभ्यामपि पतितमेकोद्दिष्टमेकादश्या-
मशौचान्ते च मलमासे न कर्त्तव्यं किन्तु मलमासाव्या-
प्रकृष्णैकादश्यामेवेत्युक्तम्” ।

प्रेति पु० प्रकर्षेण इतिर्गमनं देहेऽस्य । १ अन्ने यजु० १५ । ६

वेददी० । प्र + इ--भावे क्तिन् । २ मरणे स्त्री ऋ० १ । ३३ । ४ भा

प्रेतीषणि त्रि० प्राप्तगमने ऋ० ६ । १ । ८

प्रेत्य अव्य० प्र + इ--ल्यप् । १ लोकान्तरे अमरः “प्रेत्य संज्ञा

नास्ति” श्रुतिः । २ मृत्वेत्यर्थे प्रकर्षेण देहत्यागेन
अन्यदेहं गत्वेन्यर्थे च । प्रेत्यजातिः प्रेत्यभावः ।

प्रेत्यजाति स्त्री प्रेत्य मृत्वा जातिर्जन्म । मृत्वा जन्मनि ।

प्रेत्यभाव पु० प्रेत्य मृत्वा भावः । मरणोत्तरं पुनर्जन्मनि ।

“पुनरुत्पत्तिः प्रेत्यभावः” गौ० सू० १ । १ । १९ “उत्पन्नस्य
क्वचित् सत्त्वनिकाये मृत्वा या पुनरुत्पत्तिः स प्रेत्य-
भावः । उत्पन्नस्य सम्बद्धस्य सम्बन्धस्तु देहेन्द्रियमनो-
बुद्धिवेदनाभिः पुनरुत्पत्तिः पुनर्देहादिभिः सम्बन्धः
पुनरित्यभावाभिधानम् यत्र क्वचित् प्राणभृन्निकाये
वर्त्तमानः पूर्वोपात्तान् देहादीन् जहाति तत् प्रैति
यत् ततोऽन्यत्र देहादीनन्यानुपादत्ते तद्भवति प्रेत्य-
भावो मृत्वा पुनर्जन्म सोऽयं जन्ममरणप्रबन्धाभ्यासोऽ-
नादिरपवर्गान्तः प्रेव्यभावो वेदितव्य इति” वात्स्या० ।
प्रवाहरूपेणानादिसम्बन्धः संसारः प्रेत्यभावः यथोक्तं
कणा० सू० उप० वृ० “इच्छाद्वेषपूर्विका धर्माधर्मप्रवृत्तिः”
“तत्संयोगो विभागः” सू० “इदानीं धर्माधर्मयोः प्रयोजनं
प्रेत्यभावमाह । ताभ्यां धर्माधर्माभ्यां संयोगोजन्म
अपूर्वाभिः शरीरेन्द्रियवेदनाभिः सम्बन्धः संयोग इहोच्यते
विभागस्तु शरीरमनोविभागो मरणम् तथा चायं
जन्ममरणप्रबन्धः संसारः प्रेत्यभावापरनामा धर्माधर्मा-
भ्यामित्यर्थः अस्यैव च प्रेत्यभावस्याजरञ्जरीभाव इति
वैदिकी संज्ञा” । “जातस्य च ध्रुवोमृत्युध्रुवं जन्म मृतस
च” गीतायां च जन्ममरणप्रवाहस्य ध्रुवत्वमुक्तम् ।

प्रेत्वन् पु० प्र + इ--क्वनिप् । १ इन्द्रे २ वाते मेदि० ।

प्रेमन् पु० न० प्रियस्य भाव इमनिच् प्रादेशः एकाच्कत्वात् न

टिलोपः । १ सौहार्दे २ स्नेहे ३ हर्षे मेदि० (वायौ इन्द्रे)
शब्दस्तोमोक्तिः प्रामादिकी । “यद्भावबन्धनं यूनोः स
प्रेमा परिकीर्त्तिता” उज्ज्वलमण्युक्ते ४ भावबन्धभेदे पु०

प्रेमपातन न० प्रेम्णा स्नेहेन पातनं यस्य । १ नेत्रलने

२ तदुपलक्षिते लोचने शब्दच० ।

प्रेमबन्ध पु० ६ त० । गाढानुरागे ।

प्रेमभक्ति स्त्री प्रेम्णा भक्तिः । श्रीकृष्णे प्रेम्णा स्नेहेन

भक्तौ तल्लक्षणं नारदपञ्चरात्रे उक्तं यथा “अनन्य-
ममता बिष्णौ ममता प्रेमसप्लुता । भक्तिरित्युच्यते
मीष्मप्रह्लादोद्धवनारदैरिति” । प्रेमभक्तेश्च माहात्म्यं
भक्तेर्माहात्म्यतः परम् । सिद्धमेव यतो भक्तेः फलं
प्रेमैव निश्चितम्” । तच्चिह्नानि भाग० ७ स्क० उक्तानि
यथा “निशम्य कर्माणि गुणानतुल्यान् वीर्य्याणि
लीलातनुभिः कृतानि । यदाऽतिहर्षोत्पुलकाश्रुगद्गदं प्रोत्-
कण्ठ उद्गायति नृत्यते च । यदा ग्रहग्रस्त इव क्वचिच्च
हसति क्रन्दते ध्यायति वन्दते जनः । मुहुः श्वसन् वक्ति
हरे! जगत्पते! नारायणेत्यात्ममतिर्गतत्रपः । तदा
पुमान् मुक्तसमस्तबन्धनस्तद्भावभावानुशयाकृताकृतिः । निर्द-
ग्धवीजानुशयो महीयसा भक्तिप्रयोगेण समेत्यधोक्षजम्” ।

प्रेमिन् त्रि० प्रेमास्त्यस्य ब्रीह्या० इनि टिलोपः । प्रेमयुते

प्रेयस् त्रि० अतिशयेन प्रियः प्रिय + ईयसुन् प्रादेशः एका

च्कत्वात् न टिलोपः। प्रियतमे स्त्रियां ङीप् “प्रेयस्यपि
प्रोक्तिता” प्रबोधण० । १ पत्यौ पु० २ भार्य्यायां स्त्री हेम० ।
पृष्ठ ४५४१

प्रेरक त्रि० प्र + ईर--ण्वुल् । प्रयोजके प्रवृत्त्यनुकूलव्यापारसाधके ।

प्रेरण न० प्र + ईर--णिच्--ल्युट् । प्रेषणे निकृष्टस्य भृत्यादेः

कार्य्यादौ नियोगे । णिच्--युच् । प्रेरणाप्यत्र स्त्री ।

प्रेर्त्वन् पु० प्र + ईर--बनिप् तुट् च । १ सागरे २ नद्यां स्त्री

ङीप् वनोर च । प्रेर्तृरी उज्ज्वलद० ।

प्रेष गतौ भ्वा० पर० सक० सेट् । प्रेषति अप्रेषीत् । ऋदित्

चङि न ह्रस्वः । अपिप्रेषत् त ।

प्रे(प्रै)ष पु० प्र + इष--घञ् वृद्धिः ईष--वा घञ् गुणः ।

१ प्रेषणे २ पीडने च लटा० ।

प्रेषण न० प्र + इष--ल्युट् । प्रेरणे नियोगे । णिच्--युच् ।

प्रेषणाऽप्यत्र स्त्री । प्रेषणेन जीवति वेतना० ठक् ।
प्रैषणिक तदुपजीविनि त्रि० । प्रेषणं नित्यमर्हति छेदा०
ठक् । प्रैषणिक नित्यप्रेषणार्हे त्रि० ।

प्रेष्ठ त्रि० अतिशयेन प्रियः प्रिय + इष्टन् प्रादेशः एकाच्कत्वात्

न टिलोपः । १ प्रियतमे अमरः । स्त्रियां टाप् । सा च
२ प्रियतमायां ३ जङ्घायाञ्च शब्दच० ।

प्रे(प्रै)ष्य त्रि० प्र + इष--कर्मणि ण्यत् वृद्धिः ईष--वा ण्यत् गुणः ।

१ प्रेरणीये नियोज्ये २ दामे अमरः । भावे यत् । ३ प्रे-
रणे न० तत्करोति कृ--ट । प्रेष्यकर नियोगकारके
“यन्तुः षुएष्यकराहयः” भा० द्रो० २३ अ० ।

प्रेहिकटा स्त्री प्रेहि कट इत्युच्यते यस्यां क्रियायाम् मयू०

स० । कटसम्बाधनक प्रगमनार्थक्रियानियोगे ।

प्रेहिकर्दमा स्त्री प्रेहिकर्दम इत्युच्यते यस्यां क्रियायाम्

मयु० स० । कर्दमसम्बोधनकप्रगमननियोगे । एवं प्रेहि-
द्वितीया प्रेहिबाणिजा एतावपि शब्दौ मयू० समा० ।
द्वितयवाणिजसम्बोधनकप्रगमननियोगक्रिययोः ।

प्रैय न० प्रियस्य भावः पृथ्वा० इमनिचोऽभावे अण् । प्रियत्वे स्नेहे

प्रैयव्रत त्रि० प्रियव्रतस्येदम् अण् । प्रियव्रतसम्बन्धिनि

वैवस्वतमनोः पुत्रभेदे अपत्ये तु इञ् प्रैयव्रति तत्रार्थे पु०

प्रैष पु० प्र + इष घञ् वा पररूपाभावः । १ क्लेशे २ मर्दने

३ उन्मादे ४ प्रेरणे च मेदि० ।

प्रोक्त न० प्र + वच--गौणे कर्मण, तस्याविवक्षायां मुख्ये वा

कर्मणि क्त । १ कथिते यं प्रति किञ्चित् वस्तु कथ्यते
तस्मिन् २ वचेर्न्मुह्यकर्मणि पदार्थे च ।

प्रोक्षण्ण न० प्र + उक्ष--भावे ल्युट् । १ यज्ञार्थे पशुहनने

अमरः । २ बधे ३ सेचने च मेदि० । ४ उत्तानहस्तेन
जलादेः सेचने अभ्युक्षणशब्दे ३१३ पृ० दृश्यम् । प्रो-
क्ष्यतेऽनया करणे ल्युट् ङीप् । ५ प्रोक्षणसाधनेषु अप्सु ।
स्त्री “असञ्चरे प्रोक्षणीर्निधाय” कात्या० श्रौ० २ । ३४०
“याभिरद्भिर्हविषः पुरोडासानाञ्च प्रोक्षणं कृतं ताः
प्रोक्षण्यः” कर्कः । उपचारात् ७ तदारपात्र्याञ्च स्त्री ।

प्रोक्षित त्रि० प्र + उक्ष--कर्मणि क्त । १ सिक्ते २ निहते मेदि०

यज्ञार्थं संस्कृते ३ पश्वादौ च “भक्षयेत् प्रोक्षितं मांसम्” इति
स्मृतिः “आरण्याः सर्वदैवत्याः प्रोक्षितः सर्वशो मृगाः ।
अगस्त्येन पुरा राजन्! मृगया येन पूज्यते” ति० त० ।

प्रोज्जासन न० प्र + उद् + जस--णिच्--ल्युट् । मारणे हेमच०

प्रोञ्छन न० प्र + उञ्छ--ल्युट् । मार्जने (ष्ॐछा) ।

प्रोज्झित त्रि० प्र + उज्झ--कर्मणिक्त । प्रकर्षेण त्यक्ते

“धर्मः प्रोज्झितकैतवोऽत्र” भाग० १ । १ । ३ श्लो० “तत्र
प्रशब्देन मोक्षाभिसन्धिरपि निरासितः” श्रीधरः ।

प्रो(प्रौ)ढ त्रि० प्र + वह--क्त वा वृद्धिः । १ वृद्धे अमरः २ प्रग-

ल्भे हेमच० ३ निपुणे राजनि० । ४ प्रकर्षेण ऊढे च ।
स्त्रियां टाप् । सा च ५ नायिकाभेदे नायिकाशब्दे
४०४२ पृ० दृश्यम् । “त्रिंशद्वर्षादूर्ध्वं पञ्च पञ्चाशद्वर्षप-
र्यन्तं प्रौढ़ावस्था यथा “आ षोढशात् भवेद्वाला तरुणी
त्रिंशता मता । पञ्चपञ्चाशता प्रौढ़ा भवेद्वृद्धा ततःप-
रम्” । अस्या वश्यत्वकारणं यथा “अलङ्कारादिभिर्बाला
तरुणी रतियोगतः । प्रेमदानादिभिः प्रौढ़ा वृद्धा च
दृदताड़नात्” । तस्या रमणे दोषो यथा “बाला तु
प्राणदा प्रोक्ता तरुणी प्राणहारिणी । प्रौढ़ा करोति
वृद्धत्वं वृद्धा मरणदा भवेद्” रतिम० । चत्वारिंशद्वर्णयुक्ते
६ मन्त्रे “षोडशार्णो युवा प्रौढ़श्चत्वारिंशल्लिपिर्मनुः”
तन्त्रसा० । “अर्थवद् ग्रहणेनार्थकस्येति” परिभाषया
ऊढेः पृथग्ग्रहणाद्वा क्त वति न वृद्धिः किन्तु यथाह
तत्र प्रोढवान् इत्येव ।

प्रो(प्रौ)ढपाद त्रि० प्रौढ़ः पादो यस्य । आसनारोपितपादा-

दिके “आसनारूढ़पादस्तु जानुनीर्जङ्घयोस्तथा । कृताव
सक्थिको यस्तु प्रौढ़पादः स उच्यते । स्नानमाचमनं
होमं भोजनं देवतर्चनम् । प्रौढ़पादो न कुर्वीत स्वा-
ध्यायं पितृतर्पणम्” इति छन्दोगप० । “अनेकवाह्ये
दारुशिले भूमिसमे इष्टकाश्च संकीर्णीभूता” इति बौधा-
यनवचनात्तथाविधे आरूढ़पादोऽपि न कुर्य्यात्” आ० त० ।

प्रो(प्रौ)ढि स्त्री प्र + वह--क्तिन् वा वृद्धिः । १ सामर्थ्ये २ सामर्थ्यं

हेतुके क्रियासु योग्यताध्यवसाये ३ हठोक्तौ च प्रोढ़िवादः ।

प्रोण्ट पु० प्र + अठि--गतौ अच् पृषो० । पतद्गृहे हारा० ।

पृष्ठ ४५४२

प्रोत त्रि० प्र + वे--स्यूतौ क्त सम्प्रसारणम् । १ प्रकर्षेण स्यूते

२ ग्रथिते वस्त्रे न० जटा० । भावे क्त । ३ सीवने न० ।

प्रोतोत्सादन न० प्रोतं सद् उत्सादयति उत् + सादि-

ल्यु । १ वस्त्रकुट्टिमे ३ छत्रे च त्रिका० ।

प्रोत्फल पु० प्रकर्षेण उत्फलति प्र + उद्--फल--अच् ।

सिंहलाङ्गूलाकारपुष्पवति वृक्षभेदे शब्दमाला ।

प्रोत्फुल्ल त्रि० प्र + उत् + फुल्ल--विकाशे अच् । विकसिते ।

प्रोत्साहन न० प्रकर्षेण उत्साहनम् । प्रवृत्तस्य कर्त्तव्ये

कर्मणि १ प्रकर्षेण यत्नसम्पादने सा० द० उक्ते २ नाट्यालङ्का-
रभेदे । प्रोत्साहनञ्च इत्यादिना तान्युद्दिश्य “प्रोत्सा-
हनं स्यादुत्साहगिरा कर्मणि योजनम्” इति लक्षि-
तम् । यथा “कालरात्रिकरालेयं स्त्रीति किं विचितित्
ससि । तज्जगत्त्रितयं त्रातुं तात! ताड़य ताड़काम्” ।

प्रोथ परिपूर्णतायाम् सामर्थ्ये च भ्वा० उभ० अक० मेट् । प्रो-

थति ते अप्रोथीत् अप्रोथिष्ट पुप्रोथ थे । ऋदित् चङि
न ह्रस्वः । अपुप्रोथत् त ।

प्रोथ पु० न० प्रु + थक् । १ प्रस्थिते “वृक्षान्तसुदकान्तञ्च प्रियं

प्रोथमनुव्रजेत्” । २ अश्वनासिकायाम् अमरः । ३ कट्यां
पु० मेदि० ४ शाटके पु० त्रिका० । ५ स्त्रीगर्भे पु० विश्वः
६ गर्त्ते ७ भीषणे ८ स्फिग्देशे ९ अश्वमुखे च संक्षिप्तसारः
१० पथिके त्रि० ११ प्रथिते त्रि० त्रिका० १२ स्थापिते त्रि०
सि० कौ० ।

प्रोथथ पु० प्रोथ--बा० अथ । मुखशब्दे ऋ० १० । ९४ । ६ भा० ।

प्रोष पु० प्रुष--दाहे भावे थञ् । सन्तापे राजनि० ।

प्रोषक पु० देशभेदे भा० भी० ९ अ० ।

प्रोषित त्रि० प्र + वस--क्त इट् । प्रवासं गते विदेशं गते ।

“आर्त्तार्त्ते मुदिता हृष्टे प्रोषिते मलिना कृशा” काशीख०
पतिब्रतालक्षणम् ।

प्रोषितभर्तृका स्त्री प्रोषितः भर्त्ता यस्या कप् । यस्याः

पतिः विदेशं गतस्तस्यां स्त्रियाम् “नानाकार्य्यावशाद्
यस्यादूरदेशं गतः पतिः । सा मनोभवदुःखार्त्ता भवेत्
प्रोषितभर्तृका” सा० द० ।

प्रो(प्रौ)ष्ठ पु० प्रकृष्ट सोष्ठाऽस्य वा वृद्धिः । (पुँटि) मत्स्यभेदे

रायमुकुटः । स्त्रियां ङीष् । २ देशभेदे भा० भी० ९ अ० ।
३ गयि च पुंस्त्री० सि० सौ० । प्रोष्ठपदशब्दे दृश्यम् ।

प्रो(प्रौ)ष्ठपदा स्त्री प्रो(प्रौ)ष्ठो गौस्तस्येव पदं यस्याः ।

नक्षत्रविशेषे । तद्युक्ता पौर्णमासी अण् सा यत्र मासे
पुनरण् वा न दद्विः । १ चान्द्रभाद्रमासे अमरः । प्रोष्ठ-
पदासु जातः अण् उत्तरपदवृद्धिः । प्रोष्ठपाद तज्जे
३ माणवके । “जे प्रोष्ठपदानाम्” पा० उक्तेः भवादौ
नोत्तरपदवृद्धिः प्रौष्ठपद इत्येव ।
२ अश्विन्यादिषु पञ्चविंशषड्विंशनक्षत्रयोः स्त्री ब० व०
पूर्वोत्तरभाद्रपदयोः प्रत्येकं द्वित्वेन चतुष्कत्वात् बहुत्वम् ।
प्रोष्ठपदाभिर्युक्ता पौर्णमासी अण् । प्रौष्ठपदी चान्द्र-
३ भाद्रपौर्णमास्यां स्त्री ङीप् “प्रौष्ठपद्यामतीतायाम्” ।
प्रेतशब्दे दृश्यम् ।

प्रोष्य अव्य० प्र + वस--ल्यप् । विदेशं गत्वेत्यर्थे तस्य पापीयसा

सह मयू० समा० प्रोष्यपापीयस् । विदेशं गत्वा पापव-
त्तरे त्रि० स्त्रियां ङीप् । “राघवः प्रोष्यपापीयान्” भट्टिः

प्रो(प्रौ)ह पु० प्र + वह--क वा वृद्धिः । प्रकृष्टवाहके

प्रोहकरटा पु० प्रोह करट इत्युच्यते यस्यां क्रियायाम्

मयूर० समा० । करटंसम्बोधनकप्रकृष्टोहार्थनिदेशक्रि-
यायाम् । एवं प्रोहकर्दमा इत्यपि तत्र पाठान्तरे कर्द-
मसम्प्रदानकोहनिदेशक्रियायाम् ।

प्रोह्यपदि अव्य० प्रोह्यौ पादौ यत्र प्रहरणे द्विदण्ड्या०

स० इच् समा० पद्भावः । प्रकर्षेण द्वाभ्यां पादाभ्यां प्रहरणे

प्रौढमनोरमा प्रौढ़ानां प्रगल्भानां मनोरमयति रम०

णिच् अच् । भट्टोजिदीक्षितकृतायाम् सिद्धान्तकौमुदी-
व्याख्यायाम् ।

प्रौण त्रि० प्र + ओणृ--अपसारके अच् । १ प्रकर्षेण अपसारके २ निपुणे च धरणिः ।

प्रौष्ठिक त्रि० प्रोष्ठोऽस्त्यस्य ठन् । प्रकृष्टौष्ठयुते ततः शिवा०

अपत्ये अण् प्रौष्ठिक तदपत्ये ।

प्लक पु० प्र + कै--क रस्य लः । स्त्रीणामधोऽङ्गभेदे ऋ० ८ । ३३ । १९ भाष्यम् ।

प्लक्ष भक्षणे भ्वा० उभ० सक० सेट् । प्लक्षति ते अप्लक्षीत् अप्ल-

क्षिष्ट पप्लक्ष क्षे । प्लक्षः ।

प्लक्ष पु० प्लक्ष्यते कीटैः प्लक्ष--कर्मणि घञ् । (पाकुड़) १ वृक्षे

अमरः । प्रक्ष्लसमीपस्थानात् २ निःसृतायां धरस्वत्यां
च भा० व० ८४ अ० । तस्याः प्लक्षप्रस्रवणात् जातणात्
तथात्वम् “प्रभवश्च सरस्वत्याः प्लक्षप्रस्रवणं मतम्” भा० श०
५० अ० । ३ प्लक्षद्वीपचिह्निते द्वीपभेदे पु०
“प्लक्षो जम्बूप्रमाणो द्वीपः ख्यातिकरो हिरण्मय उत्थितो
यत्राग्निरुपास्ते सप्तजिह्वः । तस्याधिपतिः प्रियव्रता-
त्मज इध्वजिह्वः स्वं द्वीप्रं सप्त वर्षाणि विभज्य सप्तवर्ष-
नामभ्य आत्मजेभ्य आकलथ्य स्वयमात्मयोगेनोपरराम ।
शिवं यवस सुभद्रं शान्तं क्षेमममृतमभयमिति वर्षा-
णि । तेषु गिरयो नद्यश्च सप्तैवामिज्ञाताः मणिकूटो
पृष्ठ ४५४३
वज्रकूटः शतशृङ्ग इन्द्रसेनो ज्योतिष्मान् सुवर्णो
हिरण्यष्ठीवो मेघमाल इति सेतुशैलाः । अरुणा नृम्णाऽऽ-
ङ्गिरसी सावित्री सुप्रभाता ऋतम्भरा सत्यम्भरेति
महानद्यः । यासां जलोपस्पर्शनविधूतंरजस्तमसोहंस-
पतङ्गोर्ध्वायनसत्याङ्गसंज्ञाश्चत्वारो वर्णाः सहस्रायुषो
विबुधोपमसन्दर्शनप्रजननाः स्वर्गद्वारं त्रय्या विद्यया
भगवन्तं त्रयीमयं सूर्य्यमात्मानं यजन्ते” भाग० ५ । २० ।
“क्षारोदेन यथा द्वीपी जम्बुसंज्ञोऽभिवेष्टितः । संवेष्ट्य-
क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः । जम्बुद्वीपस्य विस्तारः
शतसाहस्रसस्मितः । स एव द्विगुणो व्रह्मन्! प्लक्षद्वीपो-
ऽप्युदाहृतः । सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै ।
ज्येष्ठः शान्तभयो नाम शैशिरस्तदनन्तरः । सुखोदय-
न्तथानन्दः शिवः क्षेमक एव च । ध्रुवश्च सप्तमस्तेषां
प्लक्षद्वीपेश्वरा इमे । पूर्वं शान्तभयं वर्षं शिशिरं सुखदं
तथा । आनन्दश्च शिवर्ञ्चैव क्षेमकः ध्रुवएव च । मर्य्यादा
कारकास्तेषां तथान्ये वर्षपर्बता । सप्तैव तेषां नामानि
शृणुष्व मुनिसत्तम! । गोमेदश्चैव चन्द्रश्च नारदो
दुन्दुभिस्तथा । सोमकः सुमनाः शैलो वैभ्राजश्चैव सप्तमः ।
वर्षाचलेषु रम्येषु सर्वेष्वेतेषु चानघाः । वसन्ति देवग-
न्धर्वसहिताः सततं प्रजाः । तेषु पुण्याः जनपदाश्चिराच्च
म्रियते जनः । नाधयो व्याधयो वापि सर्वकालसुखं
हि तत् । तेषां नद्यश्च सप्तैव वर्षाणान्तु समुद्रगाः ।
नामतस्ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः । अनुतप्ता
शिखा चैव विपापा दिविगा क्रमुः । अमृता सुकृता
चैव सप्तैतास्तत्र निम्नगाः । एते शैलास्तथा नद्यः
प्रधानाः कथितास्तव । क्षुद्रनद्यस्तथा शैलास्तत्र सन्ति
सहस्रशः । ताः पिवन्ति सदा हृष्टा नदीर्जनपदास्तु ते ।
अपसर्पिणी न तेषां वै न चैवोत्सर्पिणी प्रजा । न
तत्रास्ति युगावस्था तेषु स्थानेषु सप्तसु । त्रेतायुगसमः
कालः सर्वदैव महामुने!” विष्णुपु० । कल्पभेदान्नामभेदः ।
तदुत्तरं वनस्य णत्वम् प्लक्षवणम् । प्लक्षस्यादूरदेशादि छ
नडा० कुकुच् । प्लक्षकीय तत्समीपादौ त्रि० ।

प्लक्षजाता स्त्री प्लक्षात् तत्समीपस्थप्रस्रवणात् जाता ।

सरस्वत्यां नद्यां भा० आ० १७० अ० ।

प्लक्षतीर्थ न० प्लक्षमीपस्थं तीर्थं शाक० त० । तीर्थभेदे हरिवं० २६ अ० ।

प्लक्षप्रस्रवण न० प्लक्षस्य समीपस्थं प्रस्रवणम् । सरस्वत्युत्-

पत्तिस्थाने भा० श० ५० अ० ।

प्लक्षराज पु० ६ त० । सोमतीर्थस्थिते प्लक्षश्रेष्ठे भा० श० ४४ अ०

प्लक्षादि पु० फले अण्प्रत्ययलुगनिमित्ते शब्दगणे स च गणः

पा० ग० उक्तो यथा “प्लक्ष न्यग्रोध अश्वत्थ इङ्गुदी
शिग्रु रुरु कक्षतु वृहती” ।

प्लक्षावतरण न० अवतरत्यस्मात् अव--तॄं--अपादाने ल्युट्

प्लक्षः तन्निकटस्थितप्रस्रवणरूपमवतरणम् । सरम्नत्या
अवतरणस्थाने प्लक्षप्रस्ववण भा० व० ८९ अ० ।

प्लति पु० प्लु--बा० डति । ऋषिभेदे ऋ० १० । ८४ । १७

प्लव न० प्लु--अच् । १ कैवर्त्तीमुस्तके २ गन्धतृणे मेदि० । प्लुत्वा

३ गन्तरि त्रि० । भावे अप् । ४ प्लवने (भासा) कर्त्तरि
करणे वा अप् । ५ भेके ६ भेलके (भेला) ७ मेषे ८ श्वपचे
९ वानरे १० जलकाके ११ कुलके १२ प्रवणे १३ पर्कटीवृक्षे
१४ काररण्डवखगे १५ शब्दे १६ प्रतिगतौ च पु० मेदि० ।
जातित्वे स्त्रीत्वमपि स्त्रियां ङीष् । १७ प्रेरणे १८ शत्रौ
च पु० शब्दरत्ना० । १९ जालभेदे हेमच० २० पलये (पोलो)
मत्स्यधारणयन्त्रभेदे त्रिका० । २१ जलकुक्वुटे मिता०
२२ जलचरपक्षिगणभेदे यथोक्तं भावप्र०
“हंससारसकाचाक्षवकक्रौञ्चसरारिकाः । नान्दीमुखी
सकादम्बा बलाकाद्याः प्लवाः स्मृताः । प्लवन्ते सलिले
यस्मादेते तस्मात् प्लवाः स्मृताः” । एतेषां मांसगुणाः ।
“प्लवाः पित्तहराः स्निग्धा मधुरा गुरवो हिमाः ।
वातश्लेष्मप्रदाश्चापि बलशुक्रकराः सराः” ।

प्लवक त्रि० प्लु--बा० अक । १ प्लुतगतिकारके २ खग्धारादौ

नर्त्तके त्रिका० ३ चण्डाले हला० ४ भेके ६ प्लक्षे राजनि०

प्लवग पु० प्लवन् सन् गच्छति गम--ड नि० । १ वानरे २ भेके

३ सूर्य्यसरथौ मेदि० ४ प्लवस्ंज्ञखगे शब्दर० । ५ शिरीष-
वृक्षे राजनि० ।

प्लवगति पु० प्लवेन गतिरस्य । १ भेके शब्दच० । ६ त० । प्लवानां भेकानां गतौ स्त्री ।

प्लवङ्ग पु० प्लवन् सन् गच्छति गम--ड खच् मुम् नि० । १ वानरे

२ मृगे शब्दच० । ३ प्लक्षवृक्षे राजनि० ।

प्लवङ्गम पु० प्लवन् सन् गच्छति गम--खच् मुम् मि० । १ भेके । ३ वानरे अमरः ।

प्लवन त्रि० प्लु--ल्यु । १ निम्ने प्रबणे क्रमनिम्नतां गन्तरि

“प्रागुदक् प्लवनां भूमिं कारयेत् यत्नतो नरः” ति० त०
मत्स्यपु० । भावे ल्युट् । जलोपरि गतौ न० (भाणा) ।

प्लविक त्रि० प्लवेन तरति ठन् । प्लवेन तारिणि ।

प्लाक्ष न० प्लक्षस्य समूहः, तस्य विकारस्तस्य फलं वा अण् न

लुप् । १ प्लक्षवृक्षफले २ तद्विकारे ३ तत्समुदाये च ।

प्लायोगि पु० प्रयोगनाम्नः राज्ञः पुत्रः इञ् वेदे रस्य लः ।

प्रयोगनाम्नः राज्ञः पुत्रे ऋ० ८ । १ । ३३
पृष्ठ ४५४४

प्लावन न० प्लु--णिच्--ल्युट् । (उथ्लान) द्रवद्रव्यस्य समन्ता-

द्गत “तापनं घृततैलादेः प्लावनं गोरसस्य च । तन्मात्र-
मुद्धृतं कुर्य्यात् कठिनं तु पयोदधि” शु० त० । २ निमज्जनस-
म्पादने ३ बहुतरजलसंयोजने च । करणे ल्युट् ङीप् ।
४ भूतानां धारणाभेदे स्त्री “स्तम्भनी प्लावनी चैव शोषणी
भामनी तथा । म्लोचनी च भवन्त्येताः भूतानां पञ्च
धारणाः” काशीस्व० ४४ अ० ।

प्लावित त्रि० प्लु--णिच्--क्त । जलादिना समन्तात् व्याप्ते माघः १२२६ ।

प्लाशि स्त्री प्रकर्षेणाश्नाति भुङ्क्तेऽनया प्र + अश--करणेइ

वेदे रस्य लः । शिश्नमूलस्थनाड्याम् यजु० २५ । ७

प्लाशुक पु० प्रकर्षेण आशु कायति भवति कै--क वेदे अस्य लः ।

प्रकर्षेणाशु पच्यमाने व्रीहौ “प्लाशुकानां ब्रीहीणां
सविता वै देवानां प्रसविता सवितृप्रसूतः सूय इत्यथ
यत् प्लाशुकानां ब्रीहीणां क्षिप्रे मा प्रसुवानिति” शत०
व्रा० ५ । ३ । ३ । २ “प्लाशूनां श्रीर्वै गार्हपतं यावत् हृष्टे
तदेनमग्निरेव गृहपतिर्गार्हपतमभिपरिणयत्यथ यदा
शूनां क्षिप्रे मा परिणयानिति” ३ म० “प्लाशुकानाम्
प्रकर्षेण आशु शोघ्रं पच्यमानानां पुनः प्ररूढानां ब्रीही-
णाम्” रेफस्य छान्दसो लत्वनिर्देशः । प्रसुवान् प्रसुवन्तु
प्रेरयन्तु । प्लाशुकाः पुनःप्ररूढव्रीहय इत्युक्तम्
ततोऽप्यधिककाले पक्षत्रये पाच्यमानाः षष्टिका ब्रीहयःआ-
शवः तेषामाशुत्वं च त्रिचतुरमासनियतपरिपाकव्रीह्य-
पेक्षम्” भा० ।

प्लाशुचित् अ० शीघ्रे प्राशु इत्यत्र पाठान्तरं निघण्टः ।

प्लिह गतौ भ्वा० पर० सक० सेट् । प्लेहति अप्लेहीत् पिप्लेह ।

प्लि(प्ली)हन् पु० प्लि--कनिन् पृषो० वा दीर्घः । (पिला)

१ वामकुक्षिपार्श्वस्थे मांसखण्डे तद्वृद्धिहेतुके २ रोगभेदे
च तन्निदानादि भावप्र० उक्तं यथा
“विदाह्यभिष्यन्दिरसस्य जन्तोः प्रदुष्टमत्यर्थमसृक्कफश्च ।
प्लोहाभिवृद्धिं कुरुतः प्रवृद्धौ त प्लीहसंज्ञं गदमामनन्ति ।
वामे स पार्श्वे परिवृद्धिमेति विशेषतः सीदति चातुरो-
ऽत्र । मन्दज्वराग्निः कफपित्तलिङ्गैरुपद्रुतः क्षीण-
बलोऽतिपाण्डु” । विदाहि कुलत्थमाषसर्षपशाकादि ।
अभिषन्दि माहिषं दध्यादि । कफपित्तलिङ्गैरुपद्रुत
इत्यर्थः । प्रदुष्टमत्यर्थमसृक्कफश्चेति संप्राप्तिः असृजः
पित्तस्य च समानधर्मत्वात् । रक्तजमाह “क्लमो भ्रमो
बिदाहश्च वैवश्र्ण्यं गात्रगौरवम् । मोहो रक्तोदरत्वञ्च
ज्ञेयं रक्तजलक्षणम्” । पैतिकस्य लक्षणमाह “सज्वरः
सपिपासश्च सदाहो मोहसंयुतः । पीतगात्रो विशे-
षेण प्लोहा पैत्तिक उच्यते” । श्लैष्मिकलक्षणमाह
“प्लीहा मन्दव्यथास्थूल कठिनो गौरवान्वितः ।
अरोचकेन संयुक्तः प्लीहा कफज उच्यते” । वातिकमाह
“नित्यमानद्धकोष्ठः स्या(न्नित्योदावर्त्तपीडितः ।
वेदनाभिः परीतश्च प्लीहा वातिक उच्यते” । तमसाध्यमाह
“दोषत्रितयरूपोऽन्यः प्लीहाऽसाध्यो भवत्यपि” भावप्र० ।
तत्रैवान्यत्र तत्स्थानमुक्तं यथा “अथ शरीरावयवविशेषस्थ
यकृत्प्लीहस्वरूपमाह “अधो दक्षिणतश्चापि हृदयाद्यकृतः
स्थितिः । तत्तु रञ्जकपित्तस्य स्थानं शोणितजं मतम्”

प्ली गतौ क्र्या० पर० सक० अनिट् । प्लीनाति अप्लैषीत् ।

अयं धातुः कविकल्पद्रुमे न दृश्यतं धातुपाठे पाठान्त-
रेऽस्ति ।

प्लीहघ्न पु० प्लीहानं हन्ति हन--क । (रोडा) दाडिमतुल्यकुसुमवति वृक्षभेदे शब्द च० ।

प्लीहशत्रु पु० ६ त० । प्लीहघ्नवृक्षे अमरः ।

प्लीहा स्त्री प्लिह--क पृषो० दीर्घः । प्लीहरोगे भरतः ।

प्लीहारि पु० ६ म० । अश्वत्थवृक्षे शब्दच० ।

प्लीहोदर न० उदररोगभेदे उदरशब्दे ११४९ पृ० दृश्यम् ।

प्लु सर्पणे उत्प्लुत्य गतौ च भ्वा० आत्म० सक० अनिट् । प्लवते

अप्लोष्ट पुप्लुवे । अयं त्रिमात्रतयोच्चारणे च प्लुतशब्दे
सि० कौ० प्लवते इति निर्देशात् । गतौ निघण्टुः ।

प्लुक्षि पु० प्लुष--दाहे किस । १ वह्नौ उज्वलद० । २ स्नेहे

३ गृहदाहे संक्षिप्तसारः ।

प्लुत न० प्लु--भावे क्त । १ अश्वगतिभेदे अमरः । २ तिर्य्यग्-

गतौ ३ लम्फेन गतौ त्रिमात्रकालेनोक्कार्ये वर्णे पु०
“एकमात्रो भवेद् ह्रस्वो द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु
प्लुतो ज्ञेयो व्यञ्जनं चार्द्धमात्रकम्” प्रचीनकारिका । अस्य
ह्रस्वदीर्घाणामिवाकारभेदाभावेन तदुत्तरवर्त्तित्र्यङ्क नैव
तथात्वसूचनं न तु लेखनेऽस्याकारविशेषोऽस्ति । प्लुतत्व
विधायकानि पा० सूत्राणि सवृत्तिकानि सोदहरणान्यत्र
प्रदर्श्यन्ते “वाक्यस्य प्लुत उदात्तः” पा० इत्यधिकृत्य
“प्रत्यभिवादेऽशूद्रे” पा० “अशूद्रविषये प्रत्यभिवादे
यद्वाक्यं तस्य टेः प्लुतः स्यात् । अभिवादये देवदत्तोऽहम् ।
भो आयुष्मानेधि देवदत्त! ३ । स्त्रियान्न अभिवादये
गार्ग्वहं भो आयुष्मनेधि गार्घि! । नामगोत्रं वा यत्र
प्रत्यभिवादवाक्यान्ते प्रयुज्यते तत्रैव प्लुत इष्यते नेह
आयुष्मानेधि भोः । राजन्यविशाञ्चेति वाच्यम् । आयुष्मा-
नेधि भोः । आयुष्मानेधीन्द्रवर्म ३ आयुष्मानेधीन्द्रपालित २ ।
पृष्ठ ४५४५
सि० कौ० “दूराद्धूते च” पा० । “दूरात् सम्बोधने यद्वा-
क्यन्तस्य टेः प्लुतः स्यात् । सक्तून् पिब देवदत्त ३! “है हे
प्रयोगे हैहयोः” पा० । एतयोः प्रयोगे दूराद्धूते यद्वा-
क्यन्तत्र हैहयोरेव प्लुतः । स्यात् । है ३ राम! राम! है ३
“गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्” पा० दूराद्धूते
यद्वाक्यन्तस्य ऋद्भिन्नस्यानन्त्यस्यापि गुरोर्वा प्लुतः स्यात् ।
दे ३ वदत्त । देवद ३ त्त । देवदत्त ३ । गुरोः किम् । वकारात्
परस्य अकारस्य मा भूत् । अनृतः किम् । कृष्ण ३ । एकैक-
ग्रहणं पर्य्यायार्थम् । इह प्राचामिति योगो विभज्यते
तेन सर्वः प्लुतो विकल्प्यते “अप्लुतवदुपस्थिते” पा० ।
उपस्थितोऽनार्ष इतिशब्दस्तस्मिन् परे प्लुतोऽप्लु तवद्भ-
वति । अप्लुतकार्यं यणादिकङ्करोति । सुश्लोक ३ इति ।
सुश्लोकेति । वत् किम् अप्लुत इत्युक्ते प्लुत एव
निषिध्येत तथा च प्रगृह्याश्रये प्रकृतिभावे प्लुतस्य श्रवणन्न
स्यात् । अग्नी ३ इति । “इ २ चाक्रवर्मणस्य” पा० इ ३ प्लुतो-
ऽचि परेऽप्लुतवद्वा स्यात् । चिनुहीति चिनु हि ३
इति । चिनु हि ३ इदं चिनुहौदम् । उभयत्र विभा-
षेयम् “ओमभ्यादाने” पा० ओशिब्दस्य प्लुतः स्यात्
आरम्भे । ओ३म् अग्निमीले पुरोहितम् । अभ्यादाने
किम् ओमित्येकाक्षरम् “ये यज्ञकर्मणि” पा० ये ३
यजामहे । यज्ञेति किम् ये यजामहे ३ “प्रणवष्टेः” पा०
यज्ञकर्मणि टेरोमित्यादेशः स्यात् । अपां रेतांसि जिन्व-
तो३म् । टेः किम् हलन्ते अन्त्यस्य मा भूत् । “याज्यान्तः”
पा० ये याज्यान्ता मन्त्रास्तेषामन्त्यस्यटेः प्लु तो यज्ञ-
कर्मणि । जिह्वामग्ने! चकृषे हव्यवाह ३ । अन्तः किम् ।
याज्यानामृचां वाक्यससुदायरूपाणां प्रतिवाक्यं टेर्न
स्यात् । सर्वान्तस्य चेष्यते “ब्रूहिप्रेष्यश्रौषड्वौषडा-
वाहनामादेः” पा० एषासादेः प्लुतो यज्ञकर्मणि ।
अग्नयेऽनुब्रू३हि । अग्नये गोमयानि प्रे३ष्य । अस्तु श्रौ ३
षट् । सोमस्याग्ने ब्रूहि वौ ३ षट् । अग्निमा ३ वह
“अग्नीत् प्रेषणे परस्य च” पा० अग्नोधः प्रेषणे आदेर्यः
प्लुतस्मात् वरस्य च । ओ३ आवह नेह अग्नीदग्नीन्
विहर ३ । बर्हिस्तृणीहि ३ । “विभाषा पृष्टप्रतिवचने
हेः” पा० प्लुतः । अकार्णीः कटम् अकार्सं हि ३ । अकार्षं
हि । पृष्टेति किम् कटं करिष्यति हि ३ । हेः किम्
करोमि ननु “निगृह्यानुयोगे च” पा० अत्र यद्वा-
क्यन्तस्य टेः प्लुतो वा । अद्यामावास्येत्यात्य ३ । अद्य
अमावास्येत्येवंवादिनं युक्त्या स्वमयात प्रच्याव्य एवमनु-
युज्यत । “आम्रेडितम्भर्त्सने” पा० दस्यो दस्यो ३
घातमिष्यामि त्वाम् । आम्रेड़ितग्रहणं द्विरुक्तोपलक्षणम् ।
चौर ३ चौर । “अङ्गयुक्तन्तिङाकाङ्क्षम्” पा० अङ्गेत्य-
नेन युक्तन्तिङन्तं प्लवते । अङ्ग कूज ३ इदानीं ज्ञास्यसि
जाल्म! । तिङ किम्? अङ्ग देवदत्त! मिथ्या वदसि ३ ।
आकाङ्क्षं किम् अङ्ग पच नैतदपरमाकाङ्क्षति । भर्त्-
सन इत्येव । अङ्गाधीष्व भक्तन्तव दास्यामि ।
“विचार्य्यमाणानाम्” पा० वाक्यानां टेः प्लुतः । होतव्यं
दीक्षितस्य गृह ३ इ । (वक्ष्यमाणेन एतः स्थाने इः)
न होतव्य ३ मिति । होतव्यन्न होतव्यमिति विचार्यते ।
प्रमाणैर्वस्तुतत्त्वपरोक्षणं विचारः । “पूर्वन्तु भाषा-
याम्” पा० विचार्य्यमाणानां पूर्वमेव प्लवते । अहिर्नु ३
रज्जुर्नु । प्रयोगापेक्षत्वं पूर्वत्वम् । इह भाषाग्रह-
णात् पूर्वयोगश्छन्दसीति ज्ञायते । “प्रतिश्रवणे च” पा०
वाक्यस्य टेः प्लुतोऽभ्युपमे प्रतिज्ञाने श्रवणाभिमुख्ये
च! गां मेदेहि भो हन्त ३ ते ददामि ३ । नित्यः
शब्दो भवितुमर्हति ३ । देवदत्त! किमात्थ ३ । “अनुदात्तं
प्रश्नान्ताभिपूजितयोः” पा० अनुदात्तः प्लुतः स्यात् ।
दूराद्धूतादिषु सिद्धस्य प्लुतस्यानुदात्तत्वमात्रमनेन विधी-
यते । अग्निभूत ३ इ । पट ३ उ । अग्निभूते पटो एतयोः
प्रश्नान्ते टेरनुदात्तः प्लुतः । शोभनः खल्वसि २ माणवक ३ ।
“चिदिति चोपमार्थे प्रयुज्यमाने” पा० वाक्यस्य
टेरनुदात्तः प्लुतः । अग्निचिद्भाया३त् । अग्निचिदिव
भायात् उपमार्थे किम् कथञ्चिदाह । प्रयुज्यमाने किम्
अग्निर्माणयको भायात् “उपरिस्विदासीति च” पा०
टेः प्लुतोऽनुदात्तः स्यात् । उपरिस्विदासी३त् । अधः
स्विदादी ३ दित्यत्र तु विचार्य्यमाणानामित्युदात्तः प्लुतः ।
“स्वरितमाम्रेड़ितेऽसूयासम्मतिकोपकुत्सनेषु” पा०
स्वरितः प्लुतः स्यादाम्रेड़िते परेऽसूयादौ गम्ये ।
असूयायाम् अभिरूपक ३ अभिरूपक रिक्तन्त आभिरूप्यम् ।
सम्मतौ । अभिरूपक ३ अभिरूपक शोभनोऽसि । कोप ।
अविनीतक ३ अविनीतक इदानीं ज्ञास्यसि काल्म! ।
कुत्सने । शाक्तीक ३ शाक्तीक रिक्ता ते शक्तिः । “क्षि-
याशीःप्रैषेषु तिङाकाङ्क्षम्” पा० आकाङ्क्षस्य तिङन्तस्य
टेः स्वरितः प्लुतः स्यात् आचारभेदे आशिषि प्रैषेषु
गम्यमानेषु । स्वयं ह रथेन याति ३ उपाध्यः यं पदातिं
गमयति । प्रार्थनायाम् । पुर्त्रांश्च लप्सीष्ट ३ धनञ्च तात ।
व्यापारणे । कटं कुरु ३ ग्रामं गच्छ । आकाङ्क किम्
पृष्ठ ४५४६
दीर्घायुरसि अग्नीदग्नीन्विहर । “अनन्त्यस्यापि प्रश्ना-
ख्यानयोः” पा० अनन्त्यस्यान्त्यस्यापि पदस्य टेः
स्वरितः प्लुत एतयोः । प्रश्ने । अगम३ः पूर्वा३न् ग्रामा३न् ।
सर्वपदानामयम् । आख्याने अगम३म् पूर्वा३न् ग्रा-
मा३न् । “प्लुतावैचैदुतौ” पा० यत्र दूराद्धूतादिषु
प्लुतो विहितस्तत्रैव ऐचः प्लुतप्रसङ्गे तदवयवाविदुतौ
प्लवेते । ऐ ४ तिकायन! । औ ४ पग्व । चतुर्मात्रावत्र
ऐचौ सम्पद्यते । “एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्या-
दुत्तरस्येदुतौ” पा० अप्रगृह्यस्य एचोऽदूराद्धूते प्लुत-
विषये पूर्वस्यार्द्धस्याकारः प्लुतः स्यादुत्तरस्य त्वर्द्धस्य
इदुतौ स्तः । प्रश्नान्ताभिपूजितविचार्य्यमाणप्रत्यभिवाद
याज्यान्तेष्वेव । प्रश्नान्ते । अगम २ पूर्वा३न् ग्रामा३न्
अग्निभूत३ इ । अभिपूजिते । भद्रं करोषि पट३ उ ।
विचार्य्यमाणे । होतव्यन्दीक्षितस्य गृह३ इ । प्रत्यभि-
वादे । आयुष्मानेधि अग्निभूत३ इ । याज्यान्ते । स्तो-
मैर्विधेमाग्नय३ इ । परिगणनं किम् विष्णुभूते३
धातयिष्यामि त्वाम् । अदूराद्धूत इति न वक्तव्यम् ।
पदान्तग्रहणन्तु कर्त्तव्यम् । इह मा भूत् भद्रं करोषि गौ३
रिति । अप्रगृह्यस्य किम् शोभने माले३ । “आमन्त्रिते
छन्दसि प्लुतविकारोऽयं वक्तव्यः । अग्न३ इ पत्नीव” सि० कौ०

प्लुति स्त्री प्लु--भावे क्तिन् । प्लवने उत्प्लुत्यगमने । प्लुतिश्च

शशादीनामिव गतिः (छयलापि) समन्तात् जलादेर्गतिश्च ।
त्रिमात्रतयोच्चारणे च ।

प्लुष दाहे भ्वा० पर० सक० सेट् । प्लोषति अप्लोषीत् । पुप्लोष

उदित् क्त्वा वेट् । प्लुषित्वा प्लुष्ट्वा ।

प्लुष दाहे दिवा० पर० सक० सेट् । प्लुष्यति ऌदित् अप्लुषत् ।

प्लुष सेके पूर्त्तौ च सक० स्नेहे अक० क्र्या० पर० सेट् ।

प्लुष्णाति अप्लोषीत् पुप्लोष ।

प्लुषि पु० प्लुष--बा० कि । वकतुल्यतुण्डयुक्ते १ खगभेदे यजु०

२४ । २९ वेददीपः । २ दाहके सर्पभेदे ऋ० १ । ९१ । १ भा० ।
३ अल्पपरिमाणपुत्तिकादेहे शत० ब्रा० १४ । ४ । १ । २४ भाष्ये
दृश्यम् ।

प्लुष्ट त्रि० प्लुष--क्त । दग्धे अमरः । “द्रोण्यस्त्रविप्लुष्टमिदं मदङ्गम्” भाग०

प्लुस दाहे विभागे च दिवा० पर० सक० सेट् । प्लुस्यति इरित्

अप्लुसत् अप्लोसीत् पुप्लोस ।

प्लेङ्ख पु० प्र + उङ्ग--घञ् वेदे तस्य लः । प्रेङ्खणे प्रकृष्टकम्पने तैत्ति० ७ । ५ । ८ । ५

प्लेव सेवने भ्वा० आत्म० सक० सेट् । प्लेवते अप्लेविष्ट । पिप्लेवे

ऋदित् च ङ न ह्रस्वः ।

प्लोत न० प्र + वे--क्त संप्र० रस्य लः । सुश्रुतोक्ते शस्त्रकर्मोपक-

रणभेदे “अतोऽन्यतमं कर्म चिकीर्षता वैद्येन पूर्वमेवोप-
कल्पयितव्यानि तद्यथा यन्त्रशस्त्रक्षाराग्निशलाका
शृङ्गजलौकालाबूजाम्बबोष्ठपिचुप्लोतसूत्रपत्रपट्टमधुघृतव-
सापयस्तैलतर्पणकषायालेपनकल्कव्यजनशीतोष्णोदकाक-
टाहादीनि” ।

प्लोष पु० प्लु ष--भावे घञ् । दाहे अमरः । भावे ल्युट् । प्लोषण दाहे न०

प्सा भक्षणे अदा० पर० सक० अनिट् । प्साति अप्सासीत् ।

पप्सौ । गतौ निघण्टुः ।

प्सा स्त्री प्सा--भावे अङ् । भक्षणे त्रिका० ।

प्सात त्रि० प्सा--कर्मणि क्त । भक्षिते अमरः ।

प्सान न० प्सा--भावे ल्युट् । भोजने हेमच० ।

प्सु पु० प्सा--वा कु । रूपे निघण्ठुः ।

प्सुर त्रि० प्सु + बा० अस्त्यर्थे र । रूपवति ऋ० १० । २६ । ३ भाष्ये

इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यसंकलिते वाचस्पत्ये
पकारादिशब्दार्थसङ्कलनम् ।
पकारादिषु शब्देषु केचित् शब्दा न सङ्कांलता केषाञ्चिच्चार्थभेदा भ्रमान्नोक्तास्ते
इतःपरं परिशिष्टे प्रदर्श्यन्ते ।
पृष्ठ ४५४७
परिशिष्टम्
४२२५ पृष्ठस्थपद्मशब्दपरिशिष्टम्
“अष्टकासु भवेत् पद्म तत्र दत्तं तथाऽक्षयम्” हेमा०
श्रा० जातूकर्ण्योक्ते १५ अष्टकाश्राद्धे ।
४२२५ पृष्ठस्थ पद्मकशब्दपरिशिष्टम्
“यदा विष्टिर्व्यतीपातो भानुवारस्तथैव च । पद्मकं नाम
तत्प्रोक्तमयनाच्च चतुर्गुणम्” हेमा० श्रा० शङ्खोक्ते श्राद्ध-
५ कालभेदे न० ।
४३१४ पृ० पारावतशब्दस्य परिशिष्टम्
सर्वार्थचिन्तामण्युक्ते क्षेत्रहोरादृक्काणादिदशवर्गमध्ये
येषु केषु चित् षट्सु शुभांशेषु । प्रसङ्गात् क्षेत्रादिदशवर्ग-
निरूपणेन तत्र द्वित्रादिवर्गे एकैकस्य योये नव विशेष-
संज्ञाः तत्फलञ्च तत्रोक्तं प्रदर्श्यते तत क्षेत्रशब्दे
क्षेत्रपतय उक्ताः दृक्काणाद्यधीश्वराः सर्वार्थ० उक्ता यथा
“राशिं त्रिधाकृत्य दृक्काणमाहुस्तदीश १ पुत्रेश २ शुभाधि-
नाथाः ९ । युजीन्दुसूर्य्यौ भवने रवीन्दू नाथौ त्वयुग्मे
भवनस्य चार्द्धे । चरेऽंशकानामधिपात्तदंशा राशौ स्थिरे
तन्नवमेश्वराद्यः । द्विदेहभे तत्सुतराशिनाथाद्वदन्ति
शास्त्रार्थविदो महान्तः । तत् क्षेत्रपा द्वादशभागनाथा
लग्नस्य वर्गाधिपतिस्तदीशात् । त्रिशांशपा भौमशनीज्य
सौम्यशुक्रा भवन्त्योजगृहे समे तु । विलोमतः पञ्चश-
राष्टसप्तबाणाः क्रमादूचुरनेकशास्त्रैः । सप्तांशपास्त्वोज-
गृहे तदीशाद्युग्मे गृहे सप्तमराशिपात्तु । दशांशपा-
नामधिपास्तदीशादोजे समे तन्नवमेश्वराद्याः । अओजे
१५ कलानामधिपास्तदीशाश्चतुर्मुखो (अंश) विष्णु ४५ हरौ
दिनेशः ५० । युग्मे क्रमाद्व्यत्ययमेव राशौ षष्ठ्यंश ३० काना-
मधिपास्त्वयुग्भे । घोरांशको १ राक्षस २ देवभागौ ३ कुबेर ४
रक्षोगण ५ किन्नरांशाः ६ । भ्रष्टः ७ कुलघ्नो ८ गरला ९ ग्नि
संज्ञौ १० मायांशकः ११ प्रेतपुरीशभागः १२ । अपां
पति१३ र्देवगणेशभागः १४ काला १५ ऽहिभागा १६ वमृतांशु १७
चन्द्रौ १८ । मृद्वंशकः १९ कोमल २० पद्मभागौ २१ ल
क्ष्मोश २२ वागीश २३ दिगम्बरांशाः २४ । देवाद्रभागौ २५
२६ । कलिनाशभागः २७ क्षितोरश्वांशः २८ कमलाकरांशः
२९ । क्रमेण मन्दात्मज ३० मृत्यु ३१ काल ३२
दावाग्निधोराऽ ३४ मय ३५ कण्टकांश्च ३६ । सुधामृतांशुः ३८
परिपूर्णचन्द्र ३९ विषप्रदग्धो ४० कलिनाश ४१ मुख्यौ ४२ ।
वंशक्षयोत्पातककालरूपाः ४३ । ४४ । ४५ सौम्य ४६ श्च मृद्वंश
४७ सुशीतलांशू ४८ । दंष्ट्रा ४९ कराले ५० न्दुमुख ५१ प्रवीणाः
५२ कालाग्नि ५३ दण्डायुध ५४ निर्मलांशाः ५५ । शुभाशु-
भांशा ५६ । ५७ वतिशीतलांशः ५८ सुधापयोधिभ्रमणेन्द-
रेखाः ५९ । ६० । ज्ञेयाः क्रमाद्व्यत्ययमेव युग्मे शुभान्वि-
तांशो यदि शोभनाप्तिः । क्रूराः षष्ठ्यंश (३०) गाः सर्वे
नाशयन्ति खचारिणः । परिपूर्णवलैर्युक्ता स्वोच्चमूलत्रि-
कोणगाः । स्वर्क्षकेन्द्रोत्तमांशस्था मित्रक्षेत्रत्रिकोणगाः ।
सप्तवर्गोद्भवाः स्वांशाः स्वाधिमित्रांशकान्विताः । वर्गास्तु
ये दश प्रोक्ताः पूर्वाचार्यैर्महर्षिभिः । भवन्ति वर्गसंयोगे
पारिजातादिसंज्ञकाः १० दुःस्थारिनीचमूढस्था ग्नहा
बलविवर्जिताः । मरणाविस्थगाश्चेत्तु पारिजातादिनाश-
काः” । अयं पक्षो नादरणीयः । मुख्यपक्षतु स्वत्र्यंशे
स्वनवांशके स्वभवन इति ग्राह्याः । “उत्तमं १ तु त्रिवर्गेक्यं
चतुर्वर्गन्तु गोपुरम्२ । वर्गपञ्चकसंयोगे सिंहासन ३ मिहो-
च्यते । वर्गद्वयं पारिजातः ४ षण्णां पारावतांशकः ५ । सप्तमं
देवलोकः ६ स्यादष्टमं च तथा भवेत् । ऐरावतं ९ तु नवमं
फलं तेषां पृथक् पृथक् । दशवर्गस्य संयोगे विदुर्वेशेषिकां-
शकान् १० । ऐरावते सार्वभौमः सर्वैश्वर्य्यसमन्वितः ।
देवलोके ६ महादानकर्त्ता राजा क्षितीश्वरः । पारावते ५”
मातुलिकः सर्वशास्त्रविशारदः । सिंहासने ३ भयेद्भूमिपतिः
सर्वैः स्तुतो महान् । गोपुरे२ धनवान्नित्यं सर्बविद्याविशा-
रदः । उत्तमे १ सकला सम्पत् पारिजाते ४ धनान्वितः ।
स्वांशे १० यशस्वी मतिमान् सर्वसौख्यसमन्वितः” ।
४३२८ पृ० पिण्डशब्दपरिशिष्टम् ।
  • तत्र संहतश्च एकीकृतः यथा “षण्मनूर्नां तु संपिण्ड्य कालं
तत्सन्धिमिः सह” सू० सि० व्याख्याने “संपिण्ड्य
एकीकृत्य रङ्गनाथः । संपिण्डं मिश्रितं पिलितं कृत्वेत्यर्थः ।
तथा च अहर्गणानयने प्रथममव्दानां दृन्दमेकत्र कार्य-
मिति बोध्यम् । केरलशब्दे २२४१ पृ० पश्नमगोरमान-
र्शिते “वर्गवर्णप्रमाणञ्च सस्वरं ताड़ितं निथः । पिण्ड-
संज्ञा भवेत् तस्य यथाभागैस्तु कल्पना” इत्युक्ते २१ पदार्थे च ।
१३३४ पृ० पितृपक्षशब्दपरिशिष्टम्
  • गौणाश्विनकृष्णपक्षे ४ प्रेतपक्षे तच्छब्दे दृश्यम् ।
४३३६ पृष्ठख्यपित्तलशब्दपरिशिष्टम् ।
  • सुश्रुतोक्ते योगिरोगभेदे स्त्री स्वीणां ५ योगिरोगा विंश-
तिविधा उदावर्त्तशब्दे ११६३ पृ० सुश्रुतोक्ता दर्शिताः।
तेषां लक्षणान्यत्रोच्यन्ते “सफेमिलमुदावर्त्ता रजःकृच्छ्रेण
मुच्चति । बन्ध्यां नष्टार्त्तवां विद्याद्विप्लुतां२नित्यवेदनाम् ।
परिप्लुतायां ४ भवति ग्राम्यधर्मे रुजा भृशम् । वातला ५
पृष्ठ ४५४८
कर्कशत्वक्वा शूलनिस्तोदपीडिता । चतसृष्वपि चाद्यासु
भवन्त्यनिलवेदनाः । सदाहं प्रकिरत्यस्रं यस्याः सा
लोहितक्षरा ६ । सवातमुद्गिरेद्वीजं बामिनी ७ रजसा युतम् ।
प्रसंसिनी ८ स्पन्दते तु क्षोभिता दुःप्रसूश्च या । स्थितं स्थितं
हन्ति गर्भं पुत्रव्नी ९ रक्तसंस्रवात् । अत्यर्थं पित्तला १०
योनिर्दाहपाकज्वरान्विता । चतसृष्वपि चाद्यासु पित्तलि-
ङ्गोच्छ्रयो भवेत् । अत्यानन्दा ११ न सन्तोषं ग्राम्यधर्मेण
गच्छति कर्णिन्यां १२ कर्णिका योनौ श्लेष्मासृग्भ्यान्तु
जायते । मैथुनाचराणात् पूर्वा १३ पुरुषादतिरिच्यते ।
बहुशश्चातिचरणादन्या १४ वीजं न विन्दति । श्लेष्मला १५
पिच्छिला योनिः कण्डूयुक्तातिशीतला । चतसृस्वपि
चाद्यासु श्लेष्मलिङ्गोच्छ्रितिर्भवेत् । अनार्त्तवस्तना षण्डी
१६ खरस्पर्शा च मैथुने । अतिकायगृहीतायास्तरुण्याः
फलिनी १७ भवेत् । विवृता महती १८ योनिः सृचीवक्त्रा १९
ऽतिसंवृता । सर्वलिङ्गसमुत्थाना सर्वदोषप्रकोपजा २० ।
चतसृष्वपि चाद्यासु सर्वलिङ्गोच्छ्रितिर्भवेत्” ।
४३३९ पृ० पिष्टपचनशब्दात् परत्र परिशिष्टम्

पिष्टपशु पु० पिष्ठमयः पशुः । यज्ञे पशुस्थाने पिष्टमये

पशौ तथा हि पिष्टपशुमीमांसायाम् अनिष्टसाधनस्यापि
हिंसाया वैदिकमन्त्रद्वारा संस्कारविशेषे जनिते इष्टसा-
धनत्वं यथा विषादेरनिष्टसाधनस्यापि वैद्यकोक्तसंस्कारभेदे
कृते इष्टसाधनत्वम् । एवञ्च वैद्यकोक्तविषसंस्कारस्य
किञ्चिदङ्गवैगुण्ये यथा नेष्टसाधनत्वमेवं वैदिकप्रयोगे मन्त्रा-
दीनां यथोक्तस्वरादिवैगुण्येऽपि न हिंसाया इष्टसाधन-
त्वम् । विशेषतः सांख्यमते हिंसाया इष्टसाधनत्वेऽपि
अनिष्टान्तरसाधनत्वमुररीकृतम् । तथा च वेदोच्चारणादौ
सामर्थ्यहीनानामिदानीन्तनानां सुतरां पशुयागादौ पिष्ट-
पशुनैव यागो विधेयः न तु साक्षात् पशुनेति व्यवस्था-
पितम् । मनुनापि “कुर्य्यात् घृतपशुं सङ्गे कुर्य्यात् पिष्टपशुं
तथा इत्यनेन कामनारूपासत्तौ पिष्टपशोरेव विधानमु-
क्तम् । एतन्न्यायानुसारेणैव भा० आश्व० ९१ अ० “आलम्भसमये
तस्मिन् गृहीतेषु पशुष्वथ । सहर्षयो महाराज! बभूवुः
कृपयान्विताः । ततो दीनान् पशून् दृष्ट्वा ऋषयस्ते
तपोधनाः । ऊचुः शुक्रं समागम्य नायं यज्ञविधिः
शुभः । अपरिज्ञानमेनतत्ते महान्तं धर्ममिच्छतः । न
हि यज्ञे पशुगणा विधिदृष्टः पुरन्दर! । धर्मोपधा-
तकस्त्वेष समारम्भस्तव प्रभो! । नायं धर्मकृतो यज्ञो न
हिसा धमे उच्यये । आगमेनैव ते यज्ञं कुर्वन्तु यदि
चेच्छसि । विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान् भवेत् ।
यज वीजैः सहस्राक्ष! त्रिवर्षपरमोषितैः । एष धर्म्मो
महान् शक्र! महागुणफलोदयः” ।
४३९२ पृष्ठस्थपुष्यस्नानशब्दात् परत्र परिशिष्टम् ।

पुष्यानुग न० चक्रदत्तोक्ते चूर्णभेदे “अम्बष्ठकीमोचरसो

समङ्गापद्मकेशरान् । वाह्लीकातिविषामुस्तं विल्वं
लोध्रं सगैरिकम् । कट्फलं मरिचं शुण्ठीं मृद्वीकां
रक्तचन्दनम् । कष्ट्वङ्गवत्सकालान्तधातकीमधुकार्जुनम् ।
पुष्येणीद्धृत्य तुल्यानि श्लञ्जचूर्णानि कारयेत् । तानि
क्षौद्रेण संयुज्य पाययेत् तण्डुलाम्बुना । असृग्दरा-
तिसारेषु रक्तं यच्चोपवेश्यते । दोषागन्तुकृता ये च
बालानां तांश्च नाशयेत् । योनिदोषं रजोदोषं श्वेतं नीलं
सपीतकम् । स्त्रीणां श्यावारुणं यच्च तत् प्रसह्य
निवर्त्तयेत् । चूर्णं पुष्यानुगं नाम हितमात्रेयपूजितम्”।
४४२७ पृ० प्रकृतिशब्दस्य परिशिष्टम्


राज्ञां पुरोहितादिषु २१ दशसु सुमन्त्रादिषु २२ अष्टासु
च यथोक्तं शुक्रनीतिशास्त्रपरिशिष्टे
“पुरोधाश्च प्रतिनिधिः प्रधानः सचिवस्तथा । मन्त्री च
प्राड्विवाकश्च पण्डितश्च सुमन्त्रकः । अमात्यो दूत
इत्येता राज्ञः प्रकृतयो दश । दशमांशाधिकाः पूर्वा
दूतान्ताः क्रमशः स्मृताः । अष्टप्रकृतिभिर्युक्तो नृपः कैश्चित्
स्मृतः सदा । सुमन्त्रः पण्डितो मन्त्री प्रधानः सचिव-
स्तथा । अमात्यः प्राड्विवाकश्च तथा प्रतिनिधिः स्मृतः ।
एताभृतिसमास्त्वष्टौ राज्ञः प्रकृतयः सदा” । एतेषां
लक्षणानि तत्रैवोक्तानि दृश्यानि विस्तरभयान्नोक्तानि ।
४४३१ पृष्ठस्थप्रगन्धशब्दात् पूर्वत्र परिशिष्टम्

प्रगदिन् त्रि० प्रगदति बा० शीलार्थे इनि । प्रकर्षेण

कथनशीले स्त्रियां ङीप् ततः प्रगद्या० चतुरर्थ्यां ञ्य । प्रा-
गाद्य तददूरदेशादौ त्रि० ।

प्रगद्यादि पु० चतुरर्थ्यां ञ्यपत्ययनिमित्ते शब्दगणे स च

गणः पा० ग० उक्तो यथा “पगदिन् मगदिन् मगदिन्
कविल खण्ठित गदित चूड़ार मड़ार मन्दार कोविदार”
४४९९ पृष्ठस्थप्रसाधनशब्दस्य परिशिष्टम्
  • प्रसाधनीकरणप्रकारश्च युक्तिकल्पतरावुक्तो यथा
“प्रसाधनी दिङ्नवनागसप्तसंख्याभिरुक्ताङ्गुलिभिः
क्रमेण । चतुर्विधानां पृथिवीपतीनां सम्पत्तिसौभाग्य-
यशःसमृद्विदा । काष्ठजा घातुजा चैवा शृङ्गजा च
यथाक्रममु । जाङ्गलानूपसामान्यदेशजानां महीभुजाम् ।
पृष्ठ ४५४९
छत्रदण्डवदुन्नेयः काष्ठजाया विनिश्चयः । कनकं रजतं
ताम्रं पित्तलं सीसकं तथा । लौहं सर्वञ्च सर्वार्द्धमादि-
त्यादिदशाभुवाम् । राज्ञामेवोपयुज्येत कालकीर्त्ति-
प्रसाधनी । मृगाणां महिषाणाञ्च शृङ्गजाता प्रसा-
धनी । गजदन्तसमद्भूता राज्ञामेवोपयुज्यते । अत्रापि
रत्नविन्यासो ज्ञेयश्चामरदण्डवत्”
४५०४ पृष्ठस्थप्राकृतशब्दस्य परिशिष्टम्
  • प्राकृतभाषा च अष्टादशभाषामध्ये भाषाभेदः । ताश्चा
ष्टादश सा० द० उक्ता यथा “पुरुषाणामनीचानां
संस्कृता १ स्यात् कृतात्मनाम् । शौरसेनी २ प्रयोक्तव्या
तादृशीनाञ्च योषिताम् । आसामेव तु गाथासु
महाराष्ट्रीं ३ प्रयोजयेत् । अत्रोक्ता मागधी ४ भाषा राजान्ताः-
पुरचारिणाम् । चेटानां राजपुत्राणां श्रेष्ठिनां चार्द्र-
मागधी ५ । प्राच्या ६ विदूषकादीनां धूर्त्तानां स्यादवन्ति
का ७ । योधनागरिकादीनां दाक्षिणात्या ८ हि दीव्य-
ताम् । शकाराणां शकादीनां शाकारीं ९ सम्प्रयोजयेत् ।
बाह्लीकषाषा १० दिव्यानां द्राविड़ी ११ द्रविडादिषु ।
आभीरेषु तथाऽऽभीरी १२ चाण्डाली १२ पुक्कसादिषु ।
आभीरी शावरी १४ चापि काष्ठपत्रोपजीविषु । तथैवा-
ङ्गारकारादौ पैशाची १५ स्यात् पिशाचवाक् । चेटीनाम-
प्यनीचानामपि स्यात् शौरमेनिका १६ । बालानां षण्ड
कानाञ्च नीचग्रहविचारिणाम् । उन्मत्तानामातुराणां
सैव स्यात् संस्कृता क्वचित् । ऐश्वर्य्येण प्रमत्तस्य दारिद्र्यो-
पस्कृतस्य च । भिक्षुबन्धरादीनां प्राकृतां १७ सम्प्रयोज-
येत् । संस्कृतं सम्प्रयोक्तव्यं लिङ्गिनीषुत्तमासु च ।
देवीमन्त्रिसुतावेश्यास्वपि कैश्चित्तथोदितम् । यद्देशं नीच०
पात्रन्तु तद्देशं तस्य भाषितम् १८ । कार्य्यतश्चोत्तमा-
दीनां कार्य्यो भाषाविपर्य्ययः । योषिन्महीपालवेश्या
कितवाप्सरसां तथा । वैदग्ध्याथं प्रदातव्यं संस्कृतं
च्यन्तरान्तरा” । तत्तद्भाषालक्षणानि भाषार्णवे दृश्यानि ।
४५२२ पृष्ठस्थ प्रातर्शब्दस्य परिशिष्टं
  • “प्रहरोऽप्यर्द्धसंयुक्तः प्रातरित्यभिधीयते” नि० सि०
गार्म्योक्ते वृद्धिश्राद्धाङ्गे ३ सार्द्धप्रहरात्मके काले ।