वाचस्पत्यम्/देवगिरि

विकिस्रोतः तः
पृष्ठ ३६७८

देवगिरि पु० देवानां प्रियः गिरिः । १ पर्वतभेदे स च

भारतवर्षीयः स्वनामख्यातो गिरिः “भारतेऽप्यस्मिन्
वर्षे सरिच्छैलाः सन्ति बहवः इत्युपक्रमे “सह्यो देवगि-
रिरृष्यमुखः श्रीशैलः” भाग० ५ । १९ । १७ उक्तेः श्रीरागस्य
२ रागिणीविशेषे स्त्री ङीप् देवगान्धारीशब्दे दृश्यम् ।

देवगुरु पु० ६ त० । १ सुराचार्ये वृहस्पतौ हेमच० देवानां

पितरि २ कश्यपे च “अपश्यन् कश्यपं तत्र मुनिं दीप्तं
तपो निधिम् । आद्यं देवगुरुं देवम्” हरिवं० २५७ अ०

देवगुही स्त्री गुह--बा० कि ङीप् देववत् गुही गुह्या ।

सरस्वत्याम् “देवगुह्यां सरस्वत्यां सार्वभौम इति प्रभुः”
भाग० ८ । १३ । ८ ।

देवगुह्य त्रि० ६ त० । देवानामतिरहस्ये । “एकमासीनमे-

कान्ते देवगुह्यधरं प्रभुम्” हरिवं० ११६ अ० “श्रुतार्थो
देवगुह्यस्य भवान् यत्र वयं स्थिताः” तत्रैवाध्याये “तस्मिन्
भ्रातॄणां विग्रहे देवगुह्ये” भा० आ० १ अ० २ मरणे न० ।
शब्दार्थचि० । तद्धि प्राणिनां वैराग्यानुत्प्रादाय देवै-
र्गोप्यते इति तस्य तथात्वम् ।

देवगृह न० ६ त० । देवालये तल्लक्षणं गरुडपु० ४७ अ० यथा

“चतुःषष्टिपदं कृत्वा दिग्विदिक्षूपलक्षितम् ।
चतुष्कोणं चतुर्भित्ति द्वाराणि सूर्यसंख्यया । चत्वारिंशा-
ष्टभिश्चैव भित्तीनां क ल्पना भवेत् । ऊर्द्ध्वक्षेत्रसमा
जङ्घा जङ्घार्द्धद्विगुणं भवेत् । गर्भविस्तारविस्तीर्णा
शूकाग्रा च विधीयते । तत्त्रिभागेण कर्तव्या पञ्चभागेन
वा पुनः । निर्गमस्तु शुकाग्राया उच्छ्रयः शिखरार्द्धतः ।
चतुर्धा शिखरं कृत्वा त्रिभागे वेदिबन्धनम् । चतुर्थे
पुनरस्यैव कण्ठस्य मलसारकम् । अथ वापि समं वास्तुं
कृत्वा षोडशभागिकम् । तस्य मध्ये चतुर्भागमादौ
गर्भन्तु कारयेत् । भागद्वादशकां भित्तिं ततस्तु परिक-
ल्पयेत् । चतुर्भागेण भित्तीनामुच्छ्रयः स्यात् प्रमाणतः ।
द्विगुणः शिखरोच्छ्रायो भित्त्युच्छ्रायाच्च मानतः ।
शिखरार्द्धस्य चार्द्धेन विधेयास्तु प्रदक्षिणाः । चतुर्दिक्षु
तथा ज्ञेयो निर्गमस्तु तथा बुधैः । पञ्चभागेन संभज्य
गर्भमानं विचक्षणः । भागमेकं गृहीत्वा तु निर्गमं
कल्पयेत् पुनः । गर्भसूत्रसमो भागादग्रतो मुखमण्डपः ।
एतत् सामान्यमुद्दिष्टं प्रासादस्य हि लक्षणम् । लिङ्ग-
मानमथो वक्ष्ये पीठो लिङ्गसमो भवेत् । द्विगुणेन
भवेद्गर्भः समन्ताच्छौनक! ध्रुवम् । तद्विधा च भवेद्भित्ति-
र्जङ्घा तद्विस्तरार्द्धगा । द्विगुणं शिखरं प्रोक्तं जङ्घाया
श्चैव शौनक! । पीठं गर्भावरं कुर्यात् तन्मानेन शुका-
ग्रकाम् । निर्गमस्तु समाख्यातः शेषं मूलवदेव तु ।
लिङ्गमानं स्मृतं ह्येतद् द्वारमानमथोच्यते । कराग्रं वेदवत्
कृत्वा द्वारं भागाष्टकं भवेत् । विस्तरेण समाख्यातं
द्विगुणं वेच्छया भवेत् । द्वारवत् पीठमध्ये तु शेषं
शुषिरकं भवेत् । पादिकं शैषिकं भित्तिर्द्वारार्द्धेन
परिग्रहात् । तद्विस्तारसमा जङ्घा शिखरं द्विगुणं भवेत् ।
शुकाग्रा पूर्ववज्ज्ञेया निर्गमोच्छ्रायकं भवेत् । मण्डपे
मानमेतत्तु स्वरूपञ्चापरं वदे । त्रैवेदं कारयेत् क्षेत्रं
यत्र तिष्ठन्ति देवताः । इत्थं कृतेन मानेन बाह्यभाग
विनिर्गतम् । नेमिः पादेन विस्तीर्णा प्रासादस्य
समन्ततः । गर्भन्तु द्विगुणं कुर्यात् नेम्यामानं भवेदिह ।
स एव भित्तेरुत्सेधो द्विगुणः शिखरो मतः । प्रासादा-
नाञ्च वक्ष्यामि मानं योनिञ्च नामतः । वैराजः पुष्प-
काख्यश्च कैलासो मालकाह्वयः । त्रिपिष्टः पञ्च पञ्चैते
प्रासादाः सर्वयोनयः । प्रथमश्चतुरस्रो हि द्वितीयस्तु तदा
यतः । वृत्तो वृत्तायतश्चान्योऽष्टास्रश्चेह च पञ्चमः ।
एतेभ्य एव सम्भूताः प्रासादाः सुमनोहराः । सर्वप्रकृति
भूतेभ्यश्चत्वारिंशच्च पञ्च च । मेरुश्च मन्दरश्चैव विमानश्च
तथाऽपरः । भद्रकः सर्वतोभद्रो! रुचकोनन्दनस्तथा ।
नन्दिवर्द्धनसंज्ञश्च श्रीवत्सश्च नवेत्यमी । चतुरस्रात्
समुद्भुता वैराजादिति गम्यताम् । वडभी गृहराजश्च
शालागृहञ्च मन्दिरम । विशालश्च तथा ब्रह्ममन्दिरं
भवनं तथा । उत्तम्भं शिविका वेश्म नवैते पुष्पकोद्-
भवाः । बलयो दुन्दुभिः पद्मो महापद्मस्तथाऽपरः ।
बर्द्धनोऽप्यन्य उष्णीष शङ्खश्च कलसस्तथा । खपूरवृक्षका-
श्चान्यो वृत्ताः कैलाससम्भवाः । गजोऽथ वृषभो हंसो
गरुडः सिंहनामकः । भूमुखो भूधरश्चैव श्रीजयः
पृथिवीधरः । वृत्तायतसमुद्भूता नवैते मालकाह्वयात् ।
वज्रं चक्रं तथान्यच्च स्वस्तिकं वज्रसंज्ञितम् । चित्रस्व-
स्तिकखड्गौ च गदा श्रीवृक्ष एव च । विजयो
नामतश्चैते त्रिपिष्टपसमुद्भवाः । त्रिकोणपत्रमर्द्धेन्दु
चतुष्कोणं द्विरष्टकम् । यत्र तत्र विधातव्यं संस्थानं
मण्डपस्य तु । राज्यञ्च विजयश्चैवमायुर्बर्द्धनमेव च ।
पुत्रलाभः श्रियः पुष्टिस्त्रिकोणादिक्रमाद्भवेत् । कुर्य्यात्
ध्वजादिसंख्यां वा द्वारि गर्भगृहन्तथा । मण्डपः सम
संख्याभिर्गुणितः सूत्रतस्तथा । मण्डपस्य चतुर्थांशाद्-
भद्रः कार्यो विजानता । स्पर्द्धागवाक्षकोपेतो निर्ग-
वाक्षोऽथ वा भवेत् । सार्द्धभित्तिप्रमाणेन भित्तिमाने-
पृष्ठ ३६७९
न वा पुनः । भित्तेर्द्वैगुण्यतो वापि कर्तव्या मण्डपाः
क्वचित् । प्रासादे मञ्जुरी कार्य्या चित्रा विषममूमिका ।
परिमाणनिरोधेन रेखा वैषम्यभूमिका । आधारस्तु
चतुर्द्वारश्चतुर्मण्डप्रशोभितः । शतशृङ्गसमायुक्तो मेरुप्रा-
साद उत्तमः । मण्डपास्तस्य कर्तव्या भद्रैस्त्रिभिरल-
ङ्कृताः । घटनाकारमानानां भिन्ना भिन्ना भवन्ति ये ।
कियन्तोयेषु साधारानिराधाराश्च केचन । प्रतिच्छन्द-
कभेदन प्रासादाः सम्भवन्ति ते । अन्योन्यसङ्करा-
स्तेषां घटना नामभेदतः । देवतानां विशेषाय प्रासादा
बहवः स्मृताः । प्रासादे नियमो नास्ति देवानां च स्वय
म्भुवाम् । तान्येव देवतानाञ्च पूर्बमानेन कारयेत्
चतुरस्रायतास्तत्र चतुष्कोणसमन्विताः । चन्द्रशाला
न्विताः कार्य्या भेरीशिखरसंयुता । पुरतो वाहना-
नाञ्च कर्तव्या लघुमण्डपाः । नाट्यशाला च कर्तव्या
द्वारदेशसमाश्रया । प्रासादा देवतानाञ्च कार्या दिक्षु
विदिक्ष्वपि । द्वारपालाश्च कर्तव्या मुख्याङ्गत्वात् पृथक्
पृथक् । किञ्चिद्विदूरतः कार्य्या मठास्तत्रोपजीविनाम् ।
प्रावृता जगती कार्य्या फलपुष्पजलान्विता । प्रासादेषु
सुरान् स्थाप्य पूजभिः पूजयेन्नरः । वासुदेवे सर्वदेवान्
स्वर्गभाक् तद्गृहादिकृत्”
प्रासादसामान्यलक्षणमुक्तमग्निपुराणे १०४ अ० यथा
“ईश्वर उवाच वक्ष्येप्रासादसामान्यलक्षणं ते शिखि-
ध्वज! । चतुर्भागीकृते क्षेत्रे भित्तेर्भागेन विस्तरात् ।
अद्रिभागेण गर्भः स्यात् पिण्डिका पादविस्तरात् । पञ्च-
भागीकृतेक्षेत्रे ह्यन्तर्भागेतु पिण्डिका । सुषिरं भागवि-
स्तीर्णं भित्तयो भागविस्तरात् भागौ द्वौ मध्यमे गर्भे
ज्यष्ठनागद्वयेन तु । त्रिभिस्तु कन्यसोगर्भः येषो भित्ति
रिति क्वचित् । षोढाभक्तेऽथ वा क्षेत्रेभित्तिर्मागैकविस्त-
रात् । गर्भो भागेन विस्तीर्णो भागद्वयेन पिण्डिका ।
विस्ताराद् द्विगुणो वापि सपादद्विगुणोऽपि वा । अर्द्धा-
र्द्धद्विगुणो वापि त्रिगुणः क्वचिदुच्छ्रयः । जगती विस्त-
रार्द्धेन त्रिभागेण क्वचिद्भवेत् । गेमिः पादोनविस्तीर्णा
प्रासादस्य समन्ततः । परिधिस्त्र्यंशको मध्ये रथकां-
स्तत्र कारयेत् । चामुण्डभैरवं तेषु नाट्येशं च निवे-
शयेत् । प्रासादार्द्धेन देवानामष्टौ वा चतुरोऽपि वा ।
प्रदक्षिणं बहिः कुर्यात् प्रासादादिषु वा न वा ।
आदित्याः पूर्वतः स्थाप्याः स्कन्दोऽग्निर्वायुगोचरे । एवं
यमादयो न्यास्याः स्वस्यां स्वस्यां दिशि स्थिताः । चतुर्द्धा
शिखरं कृत्वा शुकनासा द्विभागिका । तृतीये वेदिका
त्वग्रे सकण्ठा मलसारकः । वैराजः पुष्पकश्चान्यः
कैलासो मालकस्तथा । त्रिविष्टपश्च पञ्चैव मेरुमूर्द्धनि
संस्थिताः । चतुरस्रस्तु तत्राद्यो द्वितीयोऽपि तदायतः ।
वृत्तो वृत्तायतश्चान्यो ह्यष्टास्रश्चापि पञ्चमः । एकैको
नवधा भेदैश्चत्वारिंशच्च पञ्च च । प्रासादः प्रथमो मेरु-
र्द्वितीयो मन्दरस्तथा । विमानश्च तथा भद्रः सर्वतोभद्र
एव च । रुचको नन्दको नन्दिवर्द्धनश्च तथापरः ।
श्रीवत्सश्चेति वैराजान्ववाये च समुत्थिताः । बलभी
गृहराजश्च शालागृहञ्च मन्दिरम् । विशालश्च तथा
ब्रह्ममन्दिरं भुवनन्तथा । उत्तम्भः शिविका वेश्म नवैते
पुष्पकोद्भवाः । बलयो दुन्दुभिः पद्मो महापद्मक एव च ।
बर्द्धनो वान्य उष्णीषः शङ्खश्च कलसस्तथा । खपूरवृक्ष-
कश्चान्योः वृत्ताः कैलाससम्भवाः । गजोऽथ वृषभो हंसो
गरुत्मान् सिंहनामकः । भूमुखो भूधरश्चान्यः श्रीजयः
पृथिवीधरः । वृत्तायतात् समुद्भूता नवैते मालकाह्वयात् ।
वज्रं चक्रं तथा चान्यत् स्वस्तिकं वज्रस्वस्तिकम् । चित्रं
स्वस्तिकखड्गञ्च गदा श्रीवृक्ष एव च । विजयो
नामतश्चैते त्रिविष्टपसमुद्भवाः । नगराणामिमाः सञ्ज्ञा
लाटादीनामिमास्तथा । ग्रीवार्द्धेनोन्नतञ्चूलं पृथुलञ्च
विभागतः । दशधा वेदिकां कृत्वा पञ्चभिः स्कन्धविस्तरः ।
त्रिभिः कण्ठं तु कर्तव्यं चतुर्भिस्तु तदण्डकम् । दिक्षु
द्वाराणि कार्याणि न विदिक्षु कदाचन । पिण्डिका
कोणविस्तीर्णा मध्यमान्ता ह्यदाहृता । क्वचित् पञ्चम-
भागेन महतां गर्भपादतः । उच्छ्राया द्विगुणास्तेषाम-
न्यथा वा निगद्यते । षष्ठ्याधिकात् समारभ्य अङ्गुलानां
शतादिह । उत्तमान्यपि चत्वारि द्वाराणि दशहानितः ।
त्रीण्येव मध्यमानि स्युस्त्रीण्येव कन्यसान्यतः । उच्छ्रा-
यार्द्धेन विस्तारो ह्युच्छ्रायोऽभ्यधिकस्त्रिधा । चतुर्भि-
रष्टभिर्वापि दशभिरङ्गुलैस्ततः । उच्छ्रायात् पादविस्तीणां
विशाखास्तदुदुम्बरे । विस्तरार्द्धेन बाहुल्यं सर्वेषामेव
कीर्तितम् । द्विपञ्चसप्तनवभिः शाखाभिर्द्वारमिष्टदम् ।
अघःशाखा चतुर्थांशे प्रतीहारो निवेशयेत् । मिथुनैरथ-
बल्लीभिः शाखाशेषं विभूषयेत् । स्तम्भविद्धेऽभृत्यता
स्यात् वृक्षविद्धे त्वभूतिता । कूपविद्धे भयं पूगवृक्ष
विद्धे धनक्षयः । प्रासादगृहशालादिमार्गविद्धेषु बन्ध-
नम् । सभाबिद्धे तु दारिद्र्यं वर्णविद्धे निराकृतिः ।
उलूखले च दारिद्र्यं शिलाविद्धे तु शत्रुता । छायाविद्धे
पृष्ठ ३६८०
तु दारिद्र्यं वेधदोषे हि जायते । छेदादुत्पाटनाद्वापि
तथा प्राकारलङ्घनात् । सीमाया द्विगुणत्यागाद्
वेधदोषी न जायते” ।
देवगृहरूपप्रासादे विशेषस्तत्र ४२ अ० उक्तो यथा
“मानेन प्रतिमाया वा प्रासादमपरं शृणु । प्रतिमायाः
प्रमाणेन कर्तव्या पिण्डिका शुभा । गर्भस्तु पिण्डिका-
र्द्धेन गर्भमानास्तु भित्तयः । भित्तेरायाममानेन उत्से-
धन्तु प्रकल्पयेत् । भित्त्युच्छ्रायात्तु द्विगुणं शिखरं कल्प-
येद् बुधः । शिखरस्य तु तुर्येण भ्रमणं परिकल्पयेत् ।
शिखरस्य चतुर्थेन अग्रतो मुखमण्डपम् । अष्टमांसेन
गर्भस्य रथकानान्तु निर्गमः । परिधेर्गुणभागेन रथकां-
स्तत्र कल्पयेत् । तत्तृतीयेन वा कुर्याद्रथकानान्तु निर्ग-
मम् । वामत्रयं स्थापनीयं रथकत्रितये सदा ।
शिखरार्थं हि सूत्राणि चत्वारि विनिपातयेत् । शुकनासो-
र्द्ध्वतः सूत्रं तिर्यग्भूतं निपातयेत् । शिखरस्यार्द्धभा-
गस्थं सिंहं तत्र तु कारयेत् । शुकनासां स्थिरीकृत्य
मध्यसन्धौ निधापयेत् । तदूर्द्ध्वन्तु भवेद्वेदी सकण्ठा
मलसारकम् । स्कन्धभग्नं न कर्तव्यं विकरालं तथैव च ।
ऊर्द्ध्वं च वेदिकामानात् कलसं परिकल्पयेत् । विस्ता-
राद्द्विगुणं द्वारं कर्तव्यं तु सुशोभनम् । उदुम्बरौ
तदूर्द्ध्वञ्च न्यसेच्छाखां सुमङ्गलैः । द्वारस्य तु चतुर्थांशे
कार्य्यौ चण्डप्रचण्डकौ । विश्वक्सेनवत्सदण्डौ शिखोर्द्ध्वोडु-
म्बरे श्रियम् । दिग्गजैः स्नाप्यमानान्तां घटैः साब्जां
सुरूपिकाम् । प्रासादस्य चतुर्थांशैः प्राकारस्योच्छ्रयो
भवेत् । प्रासादात् पादहीनस्तु गोपुरस्योच्छ्रयो भवेत् ।
पञ्चहस्तस्य देवस्य एकहस्ता तु पीठिका । गारुडं
मण्डपं चाग्रे एकं भौमादिधाम च । कुर्याद्धि प्रतिमा-
यान्तु दिक्षु चाष्टासु चोपरि । पूर्बं वराहं दक्षे च
नृसिंहं श्रीधरं जले । उत्तरे तु हयग्रीवमाग्नेय्यां
जामदग्न्यकम् । नैरृत्यां रामकं वायौ वामनं वासुदेव-
कम् । ईशे प्रासादरचना देया वस्वर्ककादिभिः । द्बा-
रस्य चाष्टमाद्यंशं त्यक्त्वा वेधो न दोषभाक्” ।
वृ० सं० ५७ अ० कश्चिद्विशेषोऽत्रोक्तो यथा
“कृत्वा प्रभूतं सलिलमारामान् विनिवेश्य च । देवता-
यतनं कुर्याद्यशोधर्माभिवृद्धये । इष्टापूर्तेन लभ्यन्ते ये
लोकास्तान् बुभूषता । देवानामालयः कार्यो द्वयमप्यत्र
दृश्यते । सलिलोद्यानयुक्तेषु कृतेष्वकृतकेषु च । स्थाने-
ष्वेतेषु सान्निध्यमुपगच्छन्ति देवताः । सरःसु नलिनोच्छ-
त्रनिरस्तरविरश्मिषु । हंसांसाक्षिप्तकह्लारवीचीविमल-
वारिषु । हंसकारण्डवक्रौञ्चचक्रवाकविराविषु । पर्य-
न्तनिचुलच्छायाविश्रान्तजलचारिषु । क्रौञ्चकाञ्चीक-
लापाश्च कलहंसकलस्वनाः । नद्यस्तोयांशुका यत्र
शफरीकृतमेखलाः । फुल्लतीरद्रुमोत्तंसाः सङ्गमश्रोणिम-
ण्डलाः । पुलिनाभ्युन्नता रम्या हंसहासाश्च निम्नगाः ।
वनोपान्तनदीशैलनिर्झरोपान्तभूमिषु । रमन्ते देवता
नित्यं पुरेषूद्यानवत्सु च । भूमयो ब्राह्मणादीनां याः
प्रोक्ता वास्तुकर्मणि । ता एव तेषां शस्यन्ते देवतायतने-
ष्वपि । चतुःषष्टिपदं कार्यं देवतायतनं सदा । द्वारं
च मध्यमं तत्र समदिक्स्थं प्रशस्यते । यो विस्तारो
भवेद्यस्य द्विगुणा तत्समुन्नतिः । उच्छ्रायाद् यस्तृतीयोऽश-
स्तेन तुल्या कटिर्भवेत् । विस्तारार्धं भवेद्गर्भो भित्तयो-
ऽन्याः समन्ततः । गर्मपादेन विस्तीर्णं द्वारद्विगुणमुच्छ्रि-
तम् । उच्छ्रायात्पादविस्तीर्णा शाखा तद्वदुदुम्बरः ।
विस्तारपादप्रतिमं बाहुल्यं शाखयोः स्मृतम् । त्रिपञ्चसप्त-
नवभिः शाखामिस्तत्प्रशस्यते । अधःशाखाचतुर्भागे
प्रतीहारौ निवेशयेत् । शेषं मङ्गल्यविहगैः श्रीवृक्षस्व-
स्तिकैर्घटैः । मिथुनैः पत्रवल्लीभिः प्रमथैश्चोपशोभयेत् ।
द्वारमानाष्टभागोना प्रतिमा स्यात्सपिण्डिका । द्वौ भागौ
प्रतिमा तत्र तृतीयांशश्च पिण्डिका । मेरुमन्दरकैलासवि-
मानच्छन्दनन्दनाः । समुद्गपद्मगरुडनन्दिवर्द्धनकुञ्जराः ।
गृहराजो वृषो हंसः सर्वतोभद्रको घटः । सिंहो वृत्त-
श्चतुष्कोणः षोडशाष्टाश्रयस्तथा । इत्येते विंशतिः प्रोक्ताः
प्रासादाः संज्ञया मया । यथोक्तानुक्रमेणैव लक्षणानि
वदाम्यतः । तत्र षडश्रिर्मेरुर्द्वादशभौमो विचित्रकुहरश्च ।
द्वारैर्युतश्चतुर्भिर्द्वात्रिंशद्धस्तविस्तीर्णः । त्रिंशद्धस्तायामो
दशभौमो मन्दरः शिखरयुक्तः । कैलासोऽपि
शिखरवान् अष्टाविंशोऽष्टभौमश्च । जालगवाक्षकयुक्तो विमा-
नसंज्ञस्त्रिसप्तकायामः । नन्दन इति षड्भौमो द्वात्रिंशः
षोडशाण्डयुतः । वृत्तः समुद्गनामा पद्मः पद्माकृतिः
शयानष्टौ । शृङ्गेणैकेन भवेदेकैव च भूमिका तस्य ।
गरुडाकृतिश्च गरुडो नन्दीति च षट्चतुष्कविस्तीर्णः ।
कार्यश्च सप्तभौमो विभूषितोऽण्डैश्च विंशत्या । कुञ्जर इति
गजपृष्ठः षोडशहस्तः समन्ततो मूलात् । गृहराजः
षोडशकस्त्रिचन्द्रशाला भवेद्वलभी । वृष एकभूमिशृङ्गो
द्वादशहस्तः समन्ततो वृत्तः । हंसो हंसाकारो
घटोऽष्टहस्तः कलसरूपः । द्वारैर्युतश्चतुर्भिर्बहुशिस्वरो भ-
पृष्ठ ३६८१
वति सर्वतोभद्रः । बहुरुचिरचन्द्रशालः षड्विंशः पञ्च-
भौमश्च । सिंहः सिंहाक्रान्तो द्वादशकोणोऽष्टहस्तवि-
स्तीर्णः । चत्वारोऽञ्जनरूपाः पञ्चाण्डयुतस्तु चतुरस्रः ।
भूमिकाङ्गुलमानेन मयस्याष्टीत्तरं शतम् । सार्धं हस्त-
त्रयं चैव कथितं विश्वकर्मणा । प्राहुः स्थपतयश्चात्र
मतमेकं विपश्चितः । कपोतपालिसंयुक्ता न्यूना गच्छन्ति
तुल्यताम् । प्रासादलक्षणमिदं कथितं समासाद्गर्गेण
यद्विरचितं तदिहास्ति सर्वम् । मन्वादिभिर्विरचितानि
पृथूनि यानि तत्सस्मृतिं प्रति मयात्र कृतोऽधिकारः” ।
तत्प्रतिष्ठाविधिश्च मठप्रतिष्ठाशब्दे वक्ष्यते ।

देवग्रह पु० देवगणशब्दे सुश्रुतोक्ते ग्रहभेदे ।

“यः पश्यति नरो देवान् जाग्रद्वा शयितोऽपि वा ।
उन्माद्यति स तु क्षिप्रं तन्तु देवग्रहं विदुः” भा० व० १४५ अ०

देवङ्गम त्रि० देवं गच्छति गम--वेदे ख । देवगामिनि “अस्यां

राध्नोतु होत्रायां देवङ्गमाय” शत० व्रा० १ । ९ । १ । १२
लोके तु णिनि देवगामीत्येव ।

देवचक्र न० सत्राङ्गे १ अभिप्लवभेदे “परि यद्वा एतद्देवचक्रं

यदभिप्लवः” ऐत० व्रा० ४ । १५ “देवचक्रे वा एते पृष्ठ्य-
प्रतिष्ठिते । यजमानस्य पाप्मानं तृं हतो परिप्लवेते
स यो हैवं विदुषां दीक्षितानां पापकं सत्रे कीर्तय-
त्येते हास्य देवचक्रे शिरश्छिन्नो दशरात्र उद्धिः पृष्ठ्या-
भिप्लवौ चक्रे” शत० व्रा० १२ । २ । २ । २ यामलोक्ते देवता-
भेदोपास्यताज्ञापके २ चक्रभेदे यथा
“पूर्वपश्चिमभेदेन षष्ठरेखां समालिखेत् । वामादि
दक्षिणान्तञ्च रेखा दश समालिखेत् । पञ्चगेहे पूरकाङ्कः
सर्वाधोहारकाङ्ककान् । तन्मध्ये रचयेदङ्कं देवतागृह-
संयुतम् । पूरकाङ्कमाद्यगेहे सप्तर्षियुतमालिखेत् । तद्द-
क्षिणे द्वादशञ्च दक्षे च नवमन्तथा । तद्दक्षेऽष्टादशकं
तद्दक्षे षोडशकं ततः । पूरकाङ्कं तले लेख्य इन्द्राद्यङ्कस्य
दक्षतः । इन्द्रगेहे च शतकं विधिविद्याफलप्रदम् ।
धर्मगेहे शून्यसप्तयुगलं विलिखेत् बुधः । अनन्तमन्दिरे
नाथ! शून्याष्टवसुरेव च । कालीगृहे शून्यवेदरामाङ्कं
विलिखेत्ततः । धूमावतीमन्दिरे च शून्यखेषुनिशापतीन् ।
इन्द्राधो दक्षतो लेख्या अङ्काश्चन्द्राधिदेवता । शून्यषष्ठच-
न्द्रयुक्तं सर्वत्र दक्षतो लिखेत् । तथाश्विनीकुमारौ च
शून्यान् नयुगमेरुकौ । तत्पश्चात् सूर्यगेहे च सहस्राक्ष
समन्वितम् । तारिणीमन्दिरस्थाङ्कं शून्यवेदपडात्म-
क्रम् । वगलामुखीगेहस्थं शून्याष्टचन्द्रसंयुतम् ।
ततश्चन्द्रगृहस्याधो वायुगेहं मनोरमम् । रन्घ्रवेदात्मकं
गेहं सर्वसिद्धिप्रदायकम् । राहुगेहं महापापं शून्य
शून्यमणिप्रियम् । पश्चादर्कगृहस्थञ्च खशून्ययुगला-
त्मकम् । षोडशीमन्दिरे शून्यषष्ठचन्द्रसमाहितम् ।
मातङ्गीमन्दिरे शून्यरन्ध्रचन्द्रसमन्वितम् । वायोरधोव-
रुणस्य गृहं सप्तशशिप्रियम् । तारिणीगेहमध्ये च
शून्याष्टकसमन्वितम् । बुधगेहस्थिताङ्कञ्च शून्यचन्द्र
युगात्मकम् । भुवनेशीमन्दिरस्थं शून्याष्टचन्द्रमण्ड-
लम् । प्रत्यङ्गिरामन्दिरस्थं शून्यषष्ठशशिप्रियम् ।
वरुणाधः कुवेरस्य गृहस्थं षष्ठयुम्मकम् । आनन्दभै-
रवीगेहे दशकं परिकीर्तितम् । धरणीगृहमध्ये च
शून्ययुग्मेन्दुसंयुतम् । भैरवीगृहमध्यस्थं शून्यं
युगलचन्द्रकम् । बालागृहस्थं शून्यर्षिचन्द्रमण्डलसंयु-
तम् । कुवेराधः सुखं चक्रस्थिताङ्कं सर्वसिद्धिदम् । ईश्व-
रस्य गृहस्थञ्च सप्तशून्ययुगात्मकम् । तिरस्करिण्या
गेहस्थं सहस्राङ्कसमन्वितम् । किङ्किणीमन्दिरं पश्चा-
दष्टचन्द्रसमन्वितम् । छिन्नमस्तागृहं पश्चात् शून्याष्टचन्द्र
मण्डलम् । वागीश्वरीगृहं पश्चात् खसप्तचन्द्रमण्ड-
लम् । महाफलप्रदातारं धर्मं क्षरति तस्य न । ईश्व-
रस्य ह्यधोगेहे वटुकस्य गृहं ततः । शून्याष्टमाद्यं
स्वगृहं धर्मार्थकाममोक्षदम् । तत्पश्चात् डाकिनीगेहं खशून्य
मुनिसंयुतम् । हन्ति साधकमुख्यं हि क्षणादेव न संशयः ।
स्वगृहे स्वीयमन्त्रस्य फलदं परिकीर्तितम् । भीमादेवी
गृहं पश्चात् खसप्तचन्द्रमण्डलम् । भयदं सर्वदेशे तु
वर्जयेत्तु गृहान्तरम् । लक्षवर्णं लिखेत् शेषगृहयोः
पण्डितोत्तमः । इन्द्रगेहावधि धीरो ककारादिकवर्ण-
कम् । क्षकारान्तं लिखेत् तत्र गणयेत् साधकोऽन्ततः ।
पूरकाङ्कमूर्द्ध्वदेशे हारकाङ्कमधोलिखेत् । निजनामा-
क्षरं यत्र तत्कोष्ठाङ्कं महेश्वर! । नीत्वा च पूरयेद्वि-
द्वान् स्वस्वगेहोर्द्ध्वदेशकैः । अङ्कैस्ततो हरेन्नाथ! अधोऽ-
ङ्के हार्यशेषकम् । विस्तारश्चेद्देवतानां तदङ्कः शुभदः
स्मृतः । अल्पस्त्वशुभदः प्रोक्तः साधकस्यासुखावहः ।
एकाक्षरे महासौख्यं तत्रापि गणयेन्न च । स्वीयाङ्कः
शून्यगामी च देवताङ्कं ततः प्रभो! । तदा नैव शुभं
विद्यादशुभाय प्रकल्प्यते । एके धनमवाप्नोति द्वितीये
राजवल्लभः । तृतीये जप्यसिद्धिः स्यात् चतुर्थे मरणं ध्रुवम् ।
पञ्चमे पञ्चवाणः स्यात् षष्ठे दुःखोत्कटानि च । देवानां
शक्तिवर्गाणामित्यङ्काः परिकीतिताः । वैष्णवानां विशेषो-
पृष्ठ ३६८२
ऽत्र पञ्चमाङ्को निषेधकः । येषां यासां देवतानामिच्छा
तिष्ठति चेतसि । तन्मन्त्रग्रहणादेव अष्टैश्वर्ययुतो भवेत् ।
यद्देवताश्रिताये तु तद्गृहाङ्कं हरन्ति ते । ऊर्द्ध्वाङ्केन
पूरयित्वाह्यधोङ्केन हरेत् सदा” ।

देवचर्य्या स्त्री ६ त० । १ दवचरिते अद्भुते २ देवार्थं चरणे

होमादौ च “श्रिया युतमनिर्देश्यं देवचर्योपशोभितम्”
(आश्रमम्) मा० व० १४५ अ० ।

देवचिकित्सक पु० द्वि० व० ६ त० । स्वर्वैद्ययोरश्विनीकुमारयोः

हला० । आयुर्वेदशब्दे ७७९ पृ० तयोस्तथात्वकथा दृश्या ।
२ द्वित्वसंख्यायां तदधिष्ठातृके ३ अश्विनीनक्षत्रे च

देवच्छन्द पु० देवैश्छन्द्यते प्रार्थ्यते छन्द--कर्मणि घञ् ।

शतयष्टिके हारे अमरः । “शतमष्टयुतं हारो देवच्छ-
न्दोह्यशीतिरेकयुता” वृह० सं० उक्ते २ हारे च ।

देवच्छन्दस न० देवप्रियं छन्दः टच् समा० । वैदिके श्रोत्रिये

छन्दोभेदे ।

देवज त्रि० देवाज्जायते जन--ड । १ देवजाते २ सामभेदे न० ।

“तस्मादाहुः सत्यं साम देयजं सामेति” शत० ब्रा० ३ । ४ ।
२ । १६ । कृशाश्वसहोदरे सूर्यवंश्ये ३ संयमनृपपुत्रभेदे पु० ।
“तत्पुत्रात् संयमादासीत् कृशाश्वः सहदेवजः” भाग० ९ ।
२ । २२ देवजेन सह वर्त्तमानः कृशाश्वः । सूर्यसम्पादिते
४ ऋतौ पु० “सप्तथमाहुरेकजं षड़िद् यमा ऋषयो देवजाः”
ऋ० १ । १६४ । १५ । “सप्तानामृतूनां मध्ये सप्तथं सप्तम-
मृतुम् । “थट् च छन्दसि” पा० इति थट् । एकजमेके-
नोत्पन्नमाहुः कालतत्त्वविदः । चैत्रादीनां द्वादशानां
मासानां द्वयमेलनैन वसन्ताद्याः षडृतवो भवन्ति ।
अधिकमासेनैक उत्पद्यते सप्तमर्तुः । न च तादृशो मास
एव नास्तीति मन्तव्यम् । “अस्ति त्रयोदशो मास इत्या-
हुरिति” श्रुतेः । तदेवोच्यते । षड़िद् यमाः । इच्छब्द एव
कारार्थः । षडेव ऋतवो मासद्वयरूपा ऋषयो गन्तारः ।
ते च देवजाः । देवादादित्याज्जाता इत्येवमाहुः ।
सप्तमधारस्य त्रयोदशस्य मासस्य देवाभावः । “निः सूर्य्यो-
ऽधिकमासो हि मण्डलं तपते रवेरित्यादि” स्मृतेः । तस्मात्
षडेय देवजाः अदेवज एकः” भा० सूर्यसंक्रान्तिरहि-
तत्वान्निःसूर्यकत्वं तेन ऋतूनां चान्द्रत्वमपि गम्यते ।

देवजग्ध त्रि० ६ त० । १ देवभक्षिते २ कर्त्तृणे न० हेमच० अल्पार्थे

कन् । देवजग्धकम् अल्पकर्त्तृणे अमरः ।

देवजन पु० देवरूपोजनः । देवरूपे जने “भक्षयित्वाभ्यात्म-

मपः स्वुचा निनयते त्रिः सर्वदेवजनेभ्य । स्वाहेति” आश्व०
श्रौ० २ । ४ । १२ । देवानां जनः । २ उपदेवे तदुपकरणभूते
गन्धर्वादौ ।

देवजनविद्या स्त्री ६ त० । गन्धर्वविद्यायां नृत्यगीत्यादौ शब्दार्थचि० ।

देवजात त्रि० १ देवेभ्यो जातः । देवेभ्यो जाते “यद्वाजिनो

देवजातस्य सप्तेः” ऋ० । २६२ । १६ त० । २ देवानां गणे
न० “यान्येतानि देवजातानि गणश आख्यायन्ते वसवो
रुद्रा आदित्या विश्वेदेवा मरुतः इति” शत० ब्रा०
१४ । ४ । २ । २६

देवजामि स्त्री देवानां जामिरिव । १ देवबन्धौ “अयामि घोष

इन्द्र! देवजामिरिरज्यन्त” ऋ० ७ । २३ । २ “देवजामि-
र्देवानां बन्धुः” भा० । ६ त० । २ देवानां वध्वां च “विद्म
ते स्वप्न! जनित्रं देवजामीनां पुत्रोऽसि यमस्य करणः”
अथ० ६ । ४६ । २

देवट त्रि० दिव--अटन् । शिल्पिनि उणादिकोषः

देवट्टी स्त्री देवं देवशब्दमट्टते अतिक्रामति अट्ट--अण् उप० स०

शक० गौरा० ङीष् । गङ्गाचिल्ल्याम् हारा० ।

देवतर त्रि० अतिशयेन देवः दीप्तः देवको वा तरप् । १

अतिशयदीप्ते २ अतिदेवके च ततः शुभ्रा० ढक् । दैवतरेय
तदपत्ये पुंस्त्री० स्त्रियां ङीप् ।

देवतरु पु० देवप्रियस्तरुः । १ मन्दारादिवृक्षे “पञ्चैते

देवतरवः मन्दारः पारिजातकः । सन्तानः कल्पवृक्षश्च
पुंसि वा हरिचन्दनम्” अमरः २ चैत्यवृक्षे च शबार्थचि०

देवता स्त्री देव + स्वार्थे तल् “क्वचित् स्वार्थिका अपि प्रत्ययाः

प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते” भाष्योक्तेः पुंस्त्वाति-
क्रमेण स्त्रीत्वम् । देवे निर्जरे । देवतात्वञ्च “वेदमेयत्यागो-
द्देश्यत्वम् उद्देश्यत्वञ्च तस्येदमित्यारोपज्ञानविषययत्व-
मिति” श्राद्धविवेकः । तच्च मन्त्रस्तुत्यत्वं वा । तदुभयं पितॄ-
नामप्यस्तीति श्राद्धादौ तेषां देवतात्वम् । मन्त्रेण द्यो-
त्यत्वं वा देवतात्वं यथाह ऋग्वेद भाष्योपोद्घाते माधवः
“तथा देवनार्थदीव्यतिधातुनिमित्तो देवशब्द इत्येतदाम्ना-
यते । “देवनाद्वैदेवोऽभूदिति तद्देवानां देवत्वमिति” । अतो
दीव्यतीति देवः मन्त्रेण द्योत्यत इत्यर्थः । “यस्य यस्य
तु मन्त्रस्य उद्दिष्टा देवता तु या । तदाकारं
भवेत्तस्य देवत्वं देवतोच्यते” योगियाज्ञ० । वैदिकमन्त्रभेदे देवता-
भेदाः सर्वानुक्रमिकायामुक्तास्ततएवावसेयाः । तन्मूलं
हेमा० ब्र० ख० उक्तमिह विस्तरभयानोद्धृतम् । मन्त्राणां
तज्ज्ञाने फलमज्ञाने निन्दामाह हेमा० ब्र० योगियाज्ञ-
“आर्षं छन्दो दैवतञ्च विनियोगस्तथैव च । वेदितव्यं
पृष्ठ ३६८३
प्रयत्नेन व्राह्मणेन विशेषतः । अविदित्वा तु यः कुर्याद्
यजनाध्ययनं जपम् । होममन्तर्जले दानं तस्य चाल्प-
फलं भवेत्” । तथा “यो विजानाति मन्त्राणामार्षं
छन्दश्च दैवतम् । विनियोगं व्राह्मणञ्च मन्त्रार्थं ज्ञानकर्म
च । एकैकस्य ऋषेः सोऽपि वन्द्योह्यतिथिवद्भवेत् ।
देवतायाश्च सायुज्यं गच्छत्यत्र न संशयः । पूर्वोक्तेन
प्रकारेण ऋष्यादीन् वेत्ति यो द्विजः । अधिकारो भवेत्तस्य
रहस्यादिषु कर्मसु” । ब्राह्मणेन मन्त्रेतरवेदभागेन
सह वेदितव्यमित्यर्थः उत्तरत्र विनियोगव्राह्मण-
योर्ज्ञेयतया निर्देशात् । तन्निरुक्तिरपि तेनैवोत्तरत्र
दर्शिता यथा “नैरुक्त्यं यस्य मन्त्रस्य विनियोग
प्रयोजनम् । प्रतिष्ठानं स्तुतिश्चैव ब्राह्मणं तदिहोच्यते ।
एवं पञ्चविधं योगं जपकाले ह्यनुस्मरेत् । होमे चान्त-
र्जले योगे स्वाध्याये यजने तथा” इति । २ प्रदेयद्रव्य-
स्याधिपतौ च दानशब्दे ३५१९ पृ० तद्विशेषो दृश्यः ।
देवताभेदाश्च निरुक्ते दैवतकाण्डे उक्ता यथा
“अग्न्यादिदेवपत्न्यन्तं देवताकाण्डमुच्यते । वाय्वादयो
भगान्ताः स्युरन्तरिक्षस्थदेवताः । सूर्य्यादिदेवपत्न्यन्ता
द्युस्थाना देवता इति” । त्रयस्त्रिंशत्पतिशब्दे ३३५९ पृ०
देवतानां प्राधान्यतस्त्रयस्त्रिं शत्त्वमुक्तं किन्तु स्वस्वगण-
पत्नीसहितानां तासां त्रयस्त्रिंशत्कोटिसंख्यात्वं
यथोक्तं पद्मपु० उत्तरख० “सदारा विबुधाः सर्वे स्वानां स्वानां
गणैः सह । त्रैलोक्ये ते त्रयस्त्रिंशत्कोटिसंख्यतयाऽ-
भवन्” । तेषां गणभेदाश्च गणदेवताशब्दे २५०२ पृ० उक्ताः
दृश्याः । तन्मध्येऽधिकारिभेदेन देवताभेदा यथा “या
यस्याभिमता पुंसः सा हि तस्यैव देवता । किन्तु कार्य
विशेषेण पजिता चेष्टदा नृणाम् । विशेषात् सर्वदा नायं
नियमोह्यन्यथा नृप! । नृपाणां दैवतं विष्णुस्तथैव च
पुरन्दरः । विप्राणामग्निरादित्यो ब्रह्मा चैव पिनाक-
धृक् । देवानां दैवतं विष्णुर्दानवानां त्रिशूलभृत् ।
गन्धर्वाणां तथा सोमो यक्षाणामपि कथ्यते । बिद्याध-
राणां वाग्देवी साध्यानां भगवान् हरिः । रक्षसां
शङ्करो रुद्रः किन्नराणाञ्च पार्वती । ऋषीणां दैवतं
व्रह्मा महादेवश्च क्षूलभृत् । मनूनां स्यादुमा देवी तथा
विष्णुः समास्करः । गृहस्थानाञ्च सर्वे स्युर्ब्रह्मा वै
ब्रह्मचारिणाम् । वैखानसस्याम्बिका स्याद् यतीनाञ्ज
महेश्वरः । नतानां भगवान् रुद्रः कुष्माण्डानां विनायकः ।
सर्वेषां भगवान् ब्रह्मा देवदेवः प्रजापतिः । इत्येवं भग-
वान् व्रह्मा स्वयं देवोऽभ्यभावत” इति कूर्म० पु० । देवानां
वर्णभेदा भा० शा० मोक्षधर्मे
“आदित्याः क्षत्रियास्तेषां विशश्च मरुतस्तथा । अश्विनौ
च स्मृतौ शूद्रौ तपस्युग्रे समास्थितौ । स्मृतास्त्वाङ्गि
रसा देवा ब्राह्मणा इति निश्चयः । इत्येतत् सर्वदेवानां
चातुर्वर्ण्यं प्रकीर्तितम्” । वैष्णवानां गणेशाद्यनन्तरं
सनकादिवैष्णवानां पूज्यत्वेन देवतात्वमुक्तं यथा
“यत्र यत्र सुराः पूज्या गणेशाद्यास्तु कर्मिणाम् ।
विष्ण्वर्चने तत्र तत्र वैष्णवानां हि वैष्णवाः । विश्वक्
सेनं ससनकं सनातनमतःपरम् । सनन्दं सनत्कुमा-
रञ्च पञ्चैवं पूजयेत्ततः” पद्म० उत्तरख० । देवषट्कं यथा
“गणेशञ्च दिनेशञ्च वह्निं विष्णुं शिवं शिवाम् ।
देवषट्कञ्च संपूज्य नमस्कृत्य विचक्षणः” ब्रह्म० वै० प्रकृ० ।
मासविशेषे देवतामेदपूजा मन्त्रमहोदधावुक्ता यथा
“अन्येष्वप्युपरागार्द्धोदययाम्यायनादिषु । कुर्यादल-
भ्ययोगेषु विशेषाद्देवतार्चनम् । यथा यथेष्टदेवेषु नृणां
भक्तिः समेधते । प्राप्यते तैरयत्नेन मनोऽभीष्टं तथा
तथा । शुचौ तत्तदहे कुर्याद्देवप्रस्वपनोत्सवम् । ऊर्जे
तथैव देवानामुत्थापनविधिं सुधीः । माघकृष्णचतुर्दश्यां
विशेषाच्छिवपूजनम् । आश्विनाद्यनवाहेषु दुर्गा पूज्या
यथाविधि । गोपालं पूजयेद्विद्वान्नभःकृष्णाष्टमीदिने ।
रामं चैत्रे सिते पक्षे नवम्यामर्चयेत् सुधीः । वैशाखाद्य
चतुर्दश्यां नरसिंहं प्रपूजयेत् । यजेच्छुक्लचतुर्थ्यान्तु
गणेशं भाद्रमाघयोः । महालक्ष्मीं यजेद्विद्वान् भाद्र
कृष्णाष्टमीदिने । माघस्य शुक्लसप्तम्यां विशेषाद्दिनभा-
यकम् । या काचित् सप्तमी शुक्ला रविवारयुता यदि ।
तस्यां दिनेशं संपूज्य दद्यादर्घ्यं पुरोदितम् । तत्तत्-
कल्पोदितानन्यान् देवताप्रीतिवर्द्धनान् । विशेषनिग्र-
मान् कृत्वा भजेद्देवमनन्यधीः । आषाढीकार्त्तिकी-
मध्ये किञ्चिन्नियममाचरेत् । देवसम्प्रीतये विद्वान् जप
पूजादितत्परः । एवं यो भजते विष्णुं रुद्रं दुर्गां
गणाधिपम् । भास्करं श्रद्धया नित्यं स कदाचिन्न सीदति” ।
देशनादेशितचतुर्थ्यन्तपदनिर्देश्यत्वं देवतात्वम् अग्मये
स्वाहेत्यादिमन्त्रएव देवतेति मीमांसकाः । तन्मतञ्च
पूर्वपक्षविधया शब्दचि० उक्ता दूषितं तच्च अविग्रहशब्दे
४५६ पृ० दर्शितम् । देवतानां चैतन्ये विग्रहवत्वे वा
मन्त्राणामेव देवतात्वं श्राद्धवि० समर्थितं यथा
“विग्रहवत्वं चेन्द्रादीनामपि तिर्यगधिकरणे दर्शितं देत-
पृष्ठ ३६८४
तात्वं हि तथाविधानां नेष्टमिति । नन्विन्द्रादीनां
विग्रहवत्त्वे किं प्रमाणम्? अर्थवाद इति चेन्न तस्य सिद्धे-
ऽर्थेऽप्रामाण्यात् । कथं वा विग्रहवतामदेवतात्वम्? ऐन्द्रं
हविरित्यादौ तद्धितादिभिः प्रकृत्यर्थस्य देवतात्वबोधनात्
इन्द्रादिपदानि च सहस्रचक्षुरादिमतीषु व्यक्तिषु मुख्यानि
मन्त्रपरत्वे लक्षणाप्रसङ्गात् । उच्यते ऐन्द्रादिपदका-
माधिकारिकविधिवाक्यस्थकामिश्रुतिरत्र प्रमाणम् अन्यथा
स्वर्गिशरोरेऽप्यनाश्वासः स्यात् । यत्राप्यर्थवादादैन्द्रादिपद-
प्राप्त्यवगतिः तत्रापि तत्फलपरत्वे रात्रिसत्रन्यायएव
प्रमाणं विग्रहवतामिन्द्रादीनां सन्निधानस्य प्रत्यक्षबाधि-
तत्वेन तथाविधानां पूज्यत्वासम्भवात् अगत्या तदाकार-
तया ध्यातस्य मन्त्रस्य लक्षितस्य देवतात्वमिति रहस्यम् ।
इन्द्राकारतया ध्यानादिन्द्रप्रीतिरभ्युपपन्ना । तथा च
योगियाज्ञवल्क्यः “यस्य यस्य तु मन्त्रस्य उद्दिष्टा या च
देवता । तदाकारं भवेत्तस्य देवत्वं देवतोच्यते” इति ।
ननु देवानां विग्रहवत्त्वे तेषामेवाराधितानां फलदातृत्वं
कुतो न भवेत्? अलमपूर्वकल्पनया । तथा च भविष्यपुराणे
“यद्यद्द्रव्यं नरोऽमृष्टमादित्याय प्रयच्छति । तत्तस्य
शतसाहस्रमुत्पादयति भास्करः” याज्ञवल्क्यः “आयुः पूजां
घनं विद्यां स्वर्गं मोक्षं सुखानि च । प्रयच्छन्ति तथा
राज्यं प्रीता नृणां पितामहाः” । तथा च देवताधि-
मरणसिद्धान्तविरोधः स्यात् । उच्यते देवानामिन्द्रादीनां
पितॄणां वस्वादीनां युगमन्वन्तरादिभेदेन नानात्वावगमात्
फलोदयकाले पूर्वस्य च्युताधिकारत्वेन फलदातृत्वा-
शक्तेः । अन्यस्य चानाराधितत्वेन फलदातृत्वायोगात्
तत्रापूर्वे शब्दशक्तौ वाचकशब्दसद्भावात् सर्वत्रैव तदभि-
घानम् अतएव काम्ये कॢप्तशक्तिर्लिङादिर्नित्ये निषेधे
चापूर्वमाहेत्युक्तम् । एवञ्चापूर्बानुप्रवेशात् सहकारितया
यदि देवतापि फलदात्री न क्वचित् कोऽपि विरोधः” ।

देवताजित् पु० देवतां जयति जि--क्विप् । १ देवजयिनि

असुरादौ भरतपुत्रसुमतेः २ पुत्रभेदे च “भरतस्यात्मजः
मुमतिर्नाम” इत्युपक्रमे “तस्माद्वृद्धसेनायां देवताजिन्नाम
पुत्रोऽभूत्” भाग० ५ । १५ । २ ।

देवताड पु० देवः दीप्तः तालः डस्य लः । (देताड)

ख्याते १ वृक्षे अमरः । २ घोषकलतायाम् विश्वः । देवौ
आदित्यचन्द्रौ ताडयति ताडि अण उप० स० । ३ राहौ ।
देवनाय दीपनाय ताड्यतेऽसौ ताडि--कर्मणि अच् ।
४ वह्नौ च मोद० । तस्यीद्दीपनाय ताड्यमानत्वात् तथा-
त्वम् । देवताड़क स्वार्थे क । देवताडवृक्षे रत्नमाला ।

देवतात पु० तन--क्त वा ङा । ततएव तातः स्वार्थे अण् वा

देवार्थं तते १ यज्ञे निघ० “एवा देव देवताते पवस्व” ऋ०
९ । ९७ । २७ । ६ त० । २ देवजनके कश्यपे च । तेनादि-
त्यामादित्यादीनामुत्पादनात्तथात्वम् । ३ मरीच्यादिषु “एते
(मरीच्यादयः) मनूंस्तु सप्तान्यानसृजन् भूरितेजसः ।
देवान् देवनिकायांश्च महर्षींश्चामितौजसः” मनुः ।
४ हिरण्यगर्भे च “कर्भात्मनां च देवानां सोऽसृजत्
प्राणिनां प्रभुः । साध्यानाञ्च गणं सूक्ष्मम्” मनुः ।

देवताति पु० देव + स्वार्थे तातिल् । देवे “स आवह

देवतातिं यविष्ठ!” ऋ० ३ । ४९ । ४ देवतातिं देवं स्वार्थे
तातिल्” भा०

देवताधिकरण न० देवता कर्मसु तदधिकारित्वमनधिका-

रित्वं वाधिक्रियते विचार्यतेऽत्र अधि + कृ--आधारे ल्युट् ।
देवतानां यज्ञादावधिकारित्वतदभावयोरन्यतरसाधके
न्यायभेदे । यज्ञादौ देवतानामनधिकारः इति मीमां-
सकाः । तच्च जै० सू० भाष्ययोर्दर्शितं यथा
“फलार्थत्वात् कर्मणः शास्त्रं सर्वाधिकारं स्यात्” सू०
“इदमामनन्ति, दर्शपूणमासाभ्यां स्वर्गकामी यजेत, ज्यो-
तिष्टोमेन स्वर्गकामो यजेत” इत्येवमादि । तत्र सन्देहः
किं यावत्किञ्चित् सत्वं, तत् सर्वम् अधिकृत्य एतदु-
च्यते, उत समर्थम् अधिकृत्य? इति । किं प्राप्तम्?
सर्वाधिकारः, अविशेषात् । ननु वृक्षादयो न किञ्चित्
कामयन्ते, कथम् तेषाम् अधिकारः स्यात्? उच्यते,
मा भूत् अचेतनानाम्, तिरश्चस्तु अधिकृत्य यजेत इति
ब्रूयात् । ननु तिर्यञ्चोऽपि न किञ्चित् कामयन्ते । न
इति ब्रूमः, कामयन्ते सुखम्, एवं हि दृश्यते, घर्म्मो-
पतप्ताः छायाम् उपसर्पन्ति, शीतेन पीडिताः आतपम् ।
आह, ननु तिर्यञ्च आसन्नं फलं चेतयन्ते, न कालान्त-
रफलं प्रार्थयन्ते, कालान्तरफलानि च कर्माणि । उच्यते,
कालान्तरेऽपि फलं कामयमाना लक्ष्यन्ते, शुनः चतुर्द-
श्याम् उपवसतः पश्यामः, श्येनांश्च अष्टम्याम । न
चैषां व्याध्याशङ्का, नियतनिमित्तत्वात्, न अनाहाराणा-
मपि तस्मिन् काले दर्शनात्, समानाहाराणामपि अन्य-
स्मिन् काले अदर्शनात् । लिङ्गानि च वेदे भवन्ति, देवा
वै सत्रमासत इत्येवमादीनि “देवतानाम् ऋषीणां
वनस्पतीनाम् अधिकारं दर्शयन्ति । ननु कात्स्न्येन
विधिम् उपसंहर्तुम् न शक्नुवन्ति इति अनधिकृताः ।
पृष्ठ ३६८५
उच्यते, यागं कर्तुम् शक्नुवन्ति केचित्, तस्मात् यजेत
इत्येवमादीनि अधिकरिष्यन्ति शक्नुवतः, विष्णुक्रमादि-
वचनानि तु अशक्तान् न अधिकरिष्यन्ति । तत्र योऽनु-
पदिष्टविष्णुक्रमादिकः स केवलं यागं करिष्यति, कः
तस्य दोषः? । द्रव्यपरिग्रहोऽपि देवग्रामः, हस्ति-
ग्रामः, ऋषभस्य ग्रामः इति उपचारात् अस्त्येव तस्मात्
अमनुष्याणामपि शक्नुवताम् अधिकार इति” भा०
“कर्तुर्वा श्रुतिसंयोगाद्विधिः कात्स्न्येन गम्यते” सू०
वाशब्दः पक्षं व्यावर्तयति । न चैतदस्ति, तिर्यगादीना-
मपि अधिकारः इति । कस्य तर्हि? । यः समर्थः
कृत्स्नं कर्म अभिनिर्वर्त्तयितुम् । न चैते, शक्नुवन्ति
तिर्य्यगादयः कृत्स्नं कर्माभिनिर्वर्तयितुम्, तस्मात् एषां
न सुखस्याभ्युपायः कर्म इति, कथं यो न शक्यते
कर्तुम्, सोऽभ्युपायः स्यात्? इति । न देवानां, देवता-
न्तराभावात्, न हि आत्मानम्, उद्दिश्यत्यागः सम्भवति,
त्याग एवासौ न स्यात्, न ऋषीणाम्, आर्षेयाभावात्,
न भृग्वादयो भृग्वादिभिः सगोत्रा भवन्ति, न चैषां
सामर्थ्यं प्रत्यक्षम्” (देवानां देवतान्तरभावादिति येषां शब्द
एव देवताभिप्रेता, तेषामयमप्ययुक्तो ग्रन्थः, शक्यते
हीन्द्रेणापीन्द्रशब्दोच्चारणेन हविस्त्यक्तुम् । तस्मात्
अर्थमेव देवतामभिप्रेत्य एतद्भाष्यमिति तन्त्ररत्नम्) ।
यानि पुनर्लिङ्गानि, देवा वै सत्रमासत इत्येवमादीनि,
अर्थवादाः ते विधिप्ररोचनार्थाः । विद्यते हि विधिरन्यः
तेषु सर्वेषु, न च विधेर्विधिनैकवाक्यभावो भवति,
वचनव्यक्तिभेदात् । स्तुतिस्तु सा, इत्थं नाम सत्राणि
आसितव्यानि, यत् कृतकृत्या अपि आसते देवाः आसन्न-
चेतना अपि तिर्यञ्चः, अचेतना अपि वनस्पतयः,
किमङ्ग पुनर्विद्वांसो मनुष्याः” भा०
देवानामधिकारित्वं विशेषतो ब्रह्मविज्ञानेऽधिकारित्व-
मिति वेदान्तिनः तच्च शा० सू० भाष्याभ्यां समर्थितम्
तच्च अविग्रहशब्दे ४५५ पृ० दृश्यम् ।

देवतानुक्रम ६ त० । देवानामुद्देशे “नामधेयानि मन्त्रश्च

दक्षिणाश्च व्रतानि च । देवतानुक्रमः कल्पः संकल्पस्तन्त्र-
मेव च” भाग० २ । ६ । २६

देवताप्रतिमा स्त्री ६ त० । देवतानां प्रतिमूर्त्तौ तदङ्गमान-

भेदादिकं सामान्यविशेषतः वृ० स०५८ अ० उक्तं यथा
“देवागारद्वारस्याष्टांशोनस्य यस्तृतीयोऽंशः । तत्पिण्डिका
प्रमाणं प्रतिमा तद्द्विगुणपरिमाणा । स्वैरङ्गलप्रमाणैर्द्वा-
दशविस्तीर्णमायतं च मुखम् । नग्नजिता तु चतुर्दश
दैर्घ्येण द्राविडं कथितम् । नासाललाटचिबुकग्रीवाश्चतुर-
ङ्गुलास्तथा कर्णौ । द्वे अङ्गुले च हनुके चिबुकं द्व्यङ्गुलं
विस्तृतम् । अष्टाङ्गुलं ललाटं विस्ताराद् द्व्यङ्गुलात्परे
शङ्खौ । चतुरङ्गुलौ तु शङ्खौ कर्णौ तु द्व्यङ्गुलं पृथुलौ ।
कर्णोपान्तः कार्योऽर्द्धपञ्चमे भ्रूसमेन सूत्रेण । कर्णस्रोतः
सुकुमारकं च नयनप्रबन्धसमम् । चतुरङ्गुलं वसिष्ठः
कथयति नेत्रान्तकर्णयोर्विवरम् । अधरोऽङ्गुलप्रमाणस्त-
स्यार्धेनोत्तरोष्ठश्च । अर्धाङ्गुला तु गोच्छा वक्त्रं चतुरङ्गु-
लायतं कार्यम् । विपुलं तु सार्द्धमङ्गुलं मध्यात्तत्त्र्यङ्गुलं
व्यात्तम् । द्व्यङ्गुलतुल्यौ नासापुटौ च नासा पुटाग्रतो
ज्ञेया । स्याद् द्व्यङ्गुलमुच्छ्रायश्चतुरङ्गुलमन्तरं चाक्ष्णोः ।
द्व्यङ्गुलमितोऽक्षिकोशो द्वे नेत्रे तत्त्रिभागिका तारा ।
दृक् तारापञ्चांशोनेत्रविकाशोऽङ्गुलं भवति । पर्य्य-
न्तात्पर्यन्तं दश भ्रुवोऽर्द्धाङ्गुलं भ्रुवोर्लेखा । भ्रूमध्यं
द्व्यङ्गुलकं भ्रूर्दैर्घ्येणाङ्गुलचतुष्कम् । कार्या तु
केशरेखा भ्रूबन्धसमाङ्गुलार्द्धविस्तीर्णा । नेत्रान्ते करवीर-
कमुपन्यसेदङ्गुलप्रमितम् । द्वात्रिंशत्परिणाहाच्चतुर्दशा-
यामतोऽङ्गुलानि शिरः । द्वादश तु चित्रकर्मणि दृश्यन्ते
विंशतिरदृश्याः । आस्यं सकेशनिचयं षोडश दैर्घ्येण
नग्नजित्प्रोक्तम् । ग्रीवा दशविस्तीर्णा परिणाहाद्विंशतिः
सैका । कण्ठाद्द्वादश हृदयं हृदयान्नाभिश्च तत्प्रमाणेन ।
नाभीमध्यान्मेढ्रान्तरं च तत्तुल्यमेवोक्तम् । उरू
चाङ्गुलमानैश्चतुर्युता विंशतिस्तथा जङ्घे । जानुकपिच्छे
चतुरङ्गुले च पादौ च तत्तुल्यौ । द्वादशदीर्घौ षट्
पृथुतया च पादौ त्रिकायताङ्गुष्ठौ । पञ्चाङ्गुलपरि-
णाहौ प्रदेशिनी त्र्यङ्गुलं दीर्घा । अष्टांशाष्टांशोनाः शेषा-
ङ्गुलयः क्रमेण कर्तव्याः । स चतुर्थभागमङ्गुलमुत्सेघोऽ-
ङ्गुष्ठकस्योक्तः । अङ्गुलस्य नखः कथितश्चतुर्थभागोनमङ्गुलं
तज्ज्ञैः । शेषनखानामर्द्धाङ्गुलं क्रमात् किञ्चिदूनं वा ।
जङ्घाग्रे परिणाहश्चतुर्दशोक्तस्तु विस्तरः पञ्च । मध्ये
तु सप्त विपुला परिणाहात्त्रिगुणिताः सप्त । अष्टौ तु
जानुमध्ये वैपुल्यं त्र्यष्टकं तु परिणाहः । विपुलौ
चतुर्दशोरू मध्ये द्विगुणश्च तत्परिधिः । कटिरष्टादशवि-
पुला चत्वारिंशच्चतुर्युता परिधौ । अङ्गुलमेकं नामि-
र्वेधेन तथा प्रमाणेन । चत्वारिंशद् द्वियुता नामी
मध्येन मध्यपरिणाहः । स्तनयोः षोडश चान्तरमूर्द्ध्वं कक्षे
षडङ्गलिके । कार्यावष्टावंसौ द्वादश बाहू तथा प्रबाहू
पृष्ठ ३६८६
च । बाहूषड्विस्तीर्णौ प्रतिबाहू त्वङ्गुलचतुष्कम् । षोडश
बाहू मूले परिणाहाद्द्वादशाग्रहस्ते च । विस्तारेण
करतलं षडङ्गुलं सप्त दैर्घ्येण । पञ्चाङ्गुलानि मध्या प्रदेशिनी
मध्यपर्वदलहीना । अनया तुल्या चानामिका कनिष्ठा तु
पर्वोना । पर्वद्वयमङ्गुष्ठः शेषाङ्गुलयस्त्रिभिस्त्रिभिः कार्याः ।
नखपरिमाणं कार्यं सर्वासां पर्वणोऽर्धेन । देशानुरूप-
भूषणवेषालङ्कारमूर्तिभिः कार्या । प्रतिमा लक्षणयुक्ता
सन्निहिता वृद्धिदा भवति । दथरथतनयो रामोबलिश्च
वैरोचनिः शतं विंशम् । द्वादशहान्या शेषाः प्रवरसम-
न्यूनपरिमाणाः । कार्योऽष्टभुजी भगवांश्चतुर्भुजो द्वि-
भुज एव वा विष्णुः । श्रीवत्साङ्कितवक्षाः कौस्तुभम-
णिभूषितोरस्कः । अतसीकुसुमश्यामः पीताम्बरनिव-
सनः प्रसन्नमुखः । कुण्डलकिरीटधारी पीनगलोरःस्थ-
लांसभुजः । खड्गगदाशरपाणिर्दक्षिणतः शान्तिदचतु-
र्थकरः । वामकरेषु च कार्मुकखेटकचक्राणि शङ्खश्च ।
अथ च चतुर्भुजमिच्छति शान्तिद एको गदाधरश्चान्यः ।
दक्षिणपार्श्वे ह्येवं वामे शङ्खश्च चक्रञ्च । द्विभुजस्य तु
शान्तिकरो दक्षिणहस्तोऽपरश्च शङ्खधरः । एवं विष्णोः
प्रतिमा कर्तव्या भूतिमिच्छद्भिः । बलदेवो हलपाणिर्म-
दविभ्रमलोचनश्च कर्तव्यः । बिभ्रत् कुण्डलमेकं शङ्खे-
न्दुमृणालगौरवपुः । एकोनांशा कार्या देवी बलदेवकृ-
ष्णयोर्मध्ये । कटिसंस्थितवामकरा सरोजमितरेण
चोद्वहती । कार्या चतुर्भुजा सा वामकराभ्यां सपुस्तकं
कमलम् । द्वाभ्यां दक्षिणपार्श्वे वरमर्थिष्वक्षसूत्रं च ।
वामेष्वष्टभुजायाः कमण्डलुश्चापमम्बुजं शास्त्रम् ।
वरशरदर्पणयुक्ताः सव्यभुजाः साक्षसूत्राश्च । शाम्बश्च
गदाहस्तः प्रद्युम्नश्चापभृत् सुरूपश्च । अनयोः स्त्रियौ
च कार्ये स्वेटकनिस्त्रिंशधारिण्यौ । ब्रह्मा कमण्डलुकर-
श्चतुर्मुखः पङ्कजासनस्थश्च । स्कन्दः कुमाररूपः शक्ति-
धरो बर्हिकेतुश्च । शुक्लश्चतुर्विषाणो द्विपो महेन्द्रस्य वज्र-
पाणित्वञ्च । तिर्यग्ललाटसंस्थं तृतीयमपि लोचनं
चिह्नम् । शम्भोः शिरसीन्दुकला वृषध्वजोऽक्षि च
तृतीयमप्यूर्द्ध्वम् । शूलं धनुः पिनाकं वामार्द्धे वा
गिरिसुतार्धम् । पद्माङ्कितकरचरणः प्रसन्नमूर्तिः सुनी-
चकेशश्च । पद्मासनोपविष्टः पितेव जगतो भवेद्बुद्धः ।
आजानुसम्बबाहुः श्रीवत्साङ्कः प्रशान्तमूर्तिश्च । दिग्वा-
सास्तरुणो रूपवांश्च कार्योऽर्हतां देवः । नासाललाट-
जङ्घोरुगण्डवक्षांसि चोन्नतानि रवेः । कुर्यादुदीच्यवेषं
गूढं पादादुरो यावत् । बिभ्राणः स्वकररुहे पाणिभ्यां
पङ्कजे मुकुटधारी । कुण्डलभूषितवदनः प्रलम्बहारो
वियद्गवृतः । कमलोदरद्युतिमुखः कञ्चुकगुप्तः स्मितप्र-
सन्नमुखः । रत्नोज्ज्वलप्रभामण्डलश्च कर्तुः शुभकरोऽर्कः ।
सौम्या तु हस्तमात्रा वसुदा हस्तद्वयोच्छ्रिता प्रतिमा ।
क्षेमसुभिक्षाय भवेत् त्रिचतुर्हस्तप्रमाणायाम् । नृपम-
यमत्यङ्गायां हीनाङ्गायामकल्यता कर्तुः । शातोदर्यां
क्षुद्भयम् अर्थविनाशः कृशायां च । मरणं तु सक्षतायां
शस्त्रनिपातेन निर्दिशेत्कर्तुः । वामावनता पत्नीं
दक्षिणविनता हिनस्त्यायुः । अन्धत्वमूर्द्ध्वदृष्ट्या करोति
चिन्तामधीमुखी दृष्टिः । सर्वप्रतिमास्वेवं शुभाशुभं
भास्करोक्तसमम् । लिङ्गस्य वृत्तपरिधिं दैर्घ्येणासूत्र्य
तत् त्रिघा विभजेत् । मूले तच्चतुरस्रं मध्ये त्वष्टास्रि
वृत्तमतः । चतुरस्रमवनिखाते मध्यं कार्यं तु पिण्डि-
काश्वभ्रे । दृश्योच्छ्रायेण समा समन्ततः पिण्डिका
श्वम्रात् । कृशदीर्घं देशघ्नं पार्श्वविहीनं पुरस्य नाशाय ।
यस्य क्षतं भवेन्मस्तके विनाशाय तल्लिङ्गम् । मातृगणः
कर्तव्यः स्वनामदेवानुरूपकृतचिह्नः । रेवन्तोऽश्वारूढ़ो
मृगयाक्रीडादिपरिवारः । दण्डी यमो महिषगो हंसा-
रूढश्च पाशभृद्वरुणः । नरवाहनः कुवेरो वामः किरीटी
वृहत्कुक्षिः । प्रमथाधिपो गजमुखः प्रलम्बजठरः कुठार
धारी स्यात् । एकविषाणो विभ्रन्मूलककन्दं सुनीलद-
लकन्दम्” ।
  • देवभेदेन मूर्त्तिभेदलक्षणानि अग्निपु० १०४ अ० उक्तानि
तत्राङ्गभेदमनानि यथा
“भगवानुवाच । वासुदेवादिप्रतिमालक्षणं प्रवदामि ते ।
प्रासादस्योत्तरे पूर्वमुखीं वा चोत्तराननाम् । संस्थाप्य
पूज्य च बलिं दत्त्वाथो मध्यसूत्रकम् । शिलां शिल्पी
तु नबधा विभज्य नवमेऽंशके । सूर्यभक्तैः शिलायां
तु भागं स्वाङ्गुलमुच्यते । द्व्यङ्गुलं गोलकं नाम्ना
कालनेत्रं तदुच्यते । भागमेकं त्रिधा भक्त्वा पार्ष्णिभागं
प्रकल्पयेत् । भागमेकं तथा जानौ ग्रीवायां भागमेव च ।
मुकुटं तालमात्रं स्यात्तालमात्रं तथा मुखम् । ताले-
नैकेन कण्ठन्तु तालेन हृदयं तथा । नाभिमेढ्रान्तरन्तालं
द्वितालावूरुकौ तथा । तालद्वयेन जङ्घा स्यात् सूत्राणि
शृणु साम्प्रतम् । कार्य्यं सूत्रद्वयं पादे जङ्गामध्ये
तथापरम् । जानौ सूत्रद्वयं कार्य्यमूरुमध्ये तथापरम् ।
मेढ्रे तथापरं कार्य्यं कट्यां सूत्रन्तथापरम् । मेखला
पृष्ठ ३६८७
बन्धसिद्ध्यर्थं नाभ्यां चैवापरन्तथा । हृदये च तथा
कार्य्यं कण्ठे सूत्रद्वयं तथा । ललाटे चापरं कार्य्यं
मस्तके च तथापरम् । मुकुटोपरि कर्त्तव्यं सूत्रमेकं
विचक्षणैः । सूत्राण्यूर्द्ध्वं प्रदेयानि सप्तैब कमलीद्भव! ।
कक्षात्रिकान्तरेणैव षट् सूत्राणि प्रदापयेत् । मध्यसूत्रं
तु सन्त्यज्य सूत्राण्येव निवेशयेत् । ललाटं नासिका
वक्त्रं कर्त्तव्यञ्चतुरङ्गुलम् । ग्रीवाकर्णौ तु कर्त्तव्यौ
आयामाच्चतुरङ्गुलौ । द्व्यङ्गुले हनुके कार्य्ये विस्ता-
राच्चिवुकन्तथा । अष्टाङ्गुलं ललाटन्तु विस्तारेण प्रकी-
र्त्तितम् । परेण द्व्यङ्गुलौ शङ्खौ कर्त्तव्यावलकान्वितौ ।
चतुरङ्गुलभाख्यातमन्तरं कर्णनेत्रयोः । द्व्यङ्गुलौ
पृथुकौ कर्णौ कर्णापाङ्गार्द्धपञ्चमे । भ्रूसमेन तु सूत्रेण
कर्णस्रोतः प्रकीर्त्तितम् । विद्धं षड़ङ्गुलं कर्णमविद्धञ्च-
तुरङ्गुलम् । चिवुकेन समं विद्धमविद्धं वा षडङ्गुलम् ।
गन्धपात्रं तथाबर्त्तं शष्कुलीं कल्पयेत्तथा । द्व्यङ्गुले-
नाधरः कार्यस्तस्यार्द्ध्वेनोत्तराधरः । अर्द्धाङ्गुलं तथा
नेत्रं वक्त्रन्तु चतुरङ्गुलम् । आयामेन तु वैपुल्यात्
सार्द्धमङ्गुलमुच्यते । अव्यात्तमेवं स्याद्वक्तं व्यात्तं त्वङ्गु-
लमुच्यते । नासावंशसमुच्छ्रायं मूले त्वेकाङ्गुलं मतम् ।
उच्छ्रायो द्व्यङ्गुलं चाग्रे करवीरोपमा स्मृता । अन्तरं
चक्षुषोः कार्यं चतुरङ्गुलमानतः । द्व्यङ्गुलं चाक्षिकोणं
च द्व्यङ्गुलं चान्तरं तयोः । तारा नेत्रत्रिभागेण दृक्
तारापञ्चमांशिका । त्र्यङ्गुलं नेत्रविस्तारं द्रोणी
चार्द्धाङ्गुला मता । तत्प्रमाणा भ्रुवोर्लेखा भ्रुवौ चैव समे
मते । भ्रूमध्यं द्व्यङ्गुलं कार्यं भ्रूदैर्घ्यं चतुरङ्गलम् ।
षट्त्रिंशदङ्गुलायामम्मस्तकस्य तु वेष्टनम् । मूर्त्तीनां
केशवादीनां द्वात्रिंशद्वेष्टनं भवेत् । पञ्चनेत्रा त्वधोग्रीवा
विस्ताराद्वेष्टनं पुनः । त्रिगुणं तु भवेदूर्द्ध्वंविस्तृताष्टाङ्गुलं
पुनः । ग्रीवात्रिगुणमायामं ग्रीवाबाह्वन्तरं भवेत् ।
स्कन्घावष्टाङ्गुलौ कार्यौ त्रिकलावंसकौ शुभौ । सप्त-
नेत्रौ स्मृतौ बाहू प्रबाहू षोड़शाङ्गुलौ । त्रिकलौ
विस्तृतौ बाहू प्रबाहू चापि तत्समौ । बाहुदण्डो-
र्द्ध्वतो ज्ञेयः परिणाहः कला नव । सप्तदशाङ्गुलो
मध्ये कूर्परीर्द्धे च षोड़श । कूर्परस्य भवेन्नाहः
त्रिगुणः कमलोद्भव! । नाहः प्रबाहुमध्ये तु षोड़शा-
ङ्गुल उच्यते । अग्रहस्ते परीणाहो द्वादशाङ्गुल
उच्यते । विस्तारेण करतलं कीर्त्तितं तु षड़ङ्गुलम् ।
दैर्घ्यं सप्ताङ्गुलं कार्यं मध्या पञ्चाङ्गुला मता । तर्ज-
न्यनामिका चैव तस्मादर्द्धाङ्गुलं विना । कनिष्ठाङ्गुष्ठकौ
कार्यौ चतुरङ्गुलसम्मितौ । द्विपर्वाङ्गुष्ठकः कार्यः
शेषाङ्गुल्यस्त्रिपर्विकाः । सर्वासां पर्वणोऽर्द्धेन नखमानं
विधीयते । वक्षसो यत् प्रमाणन्तु जठरं तत्प्रमाणतः ।
अङ्गुलैकं भवेन्नाभी वेधेन च प्रमाणतः । ततो मेत्रा-
न्तरं कार्यं तालमात्रं प्रमाणतः । नाभिमध्ये
परीणाहो द्विचत्वारिशदङ्गुलैः । अन्तरं स्तनयोः कार्य्यं
तालमात्रं प्रमाणतः । चिवुकौ यवमानौ तु मङ्गलं
द्विपदं भवेत् । चतुःषष्ट्यङ्गुलं कार्यं वेष्टनं वक्षसः
स्फुटम् । चतुर्मुखञ्च तदधीवेष्टनं परिकीर्त्तितम् ।
परिणाहस्तथा कट्यां चतुःपञ्चाशदङ्गुलैः । विस्तार-
श्चीरुमूले तु प्रोच्यते द्वादशाङ्गुलः । तस्मादभ्यधिकं
मध्ये ततो निम्नतरं क्रमात् । विस्तृताष्टाङ्गुलं जानु-
त्रिगुणा परिणाहतः । जङ्घामध्ये तु विस्तारः सप्ता-
ङ्गुल उदाहृतः । त्रिगुणः परिधिश्चास्य जङ्घाग्रं पञ्च-
विस्तरम् । त्रिगुणः परिधिश्चास्य पादौ तालप्रमा-
णकौ । आयामादुत्थितौ पादौ चतुरङ्गुलमेव च ।
गुल्फात् पूर्वं तु कर्त्तव्यं प्रमाणाच्चतुरङ्गुलम् । त्रिकलं
विस्तृतौ पादौ त्र्यङ्गुलो गुह्यकः स्मृतः । पञ्चाङ्गु
लस्तु नाहोऽस्य दीर्घा तद्वत् प्रदेशिनी । अष्टमाष्टांशतो-
न्यूनाः शेषाङ्गुल्यः क्रमेण तु । सपादाङ्गुलमुत्सेध-
मङ्गुष्ठस्य प्रकीर्त्तितम् । यबोनमङ्गुलं कार्यमङ्गुष्ठस्य
नखं तथा । अर्द्धाङ्गुलं तथान्यासां क्रमान् न्यूनं तु
कारयेत् । त्र्यङ्गुलौ वृषणौ कार्यौ मेढ्रं तु चतुर-
ङ्गुलम् । परिणाहोऽत्र कोषाग्रं कर्तव्यञ्चतुरङ्गुलम् ।
षड़ङ्गुलपरीणाहौ वृषणौ परिकीर्त्तितौ । प्रतिमा
भूषणाढ्या स्यादेतदुद्देशलक्षणम् । अनयैव दिशा कार्यं
लोके दृष्ट्वा तु लक्षणम्” ।
  • वासुदेवस्य “दक्षिणे तु करे चक्रमधस्तात् पद्ममेव च ।
वामे शङ्खं गदाधस्ताद्वासुदेवस्य लक्षणम् । श्रीपुष्टी
चापि कर्त्तव्ये पद्मवीणाकरान्विते । ऊरुमात्रोच्छिता-
यामे मालाविद्याधरौ तथा । प्रभामण्डलसंस्थौ तौ
प्रभा हस्त्यादिभूषणौ । पद्माभं पादपीठन्तु प्रतिमास्वव-
माचरेत्” ।
मत्स्यादिलक्षणानि तत्र ४९ अ० उक्तानि यथा
  • भगवानुवाच “दशावतारं मत्स्यादिलक्षणं प्रबदामि ते ।
मत्स्याकारस्तु मत्स्यः स्यात् कूर्मः कूर्म्माकृतिर्भवेत् ।
नराङ्गो वाथ कर्त्तव्यो भूथराहो गदादिभृत् । दक्षिणे
पृष्ठ ३६८८
वामके शङ्खं लक्ष्मीर्वा पद्ममेव वा । श्रीर्वामकूर्प्परस्था
तु क्ष्नानन्तौ चरणानुगौ । वराहस्थापनादूज्यं
भवाब्धितरणं भवेत् । नरसिंहो विवृत्तास्यो वामोरुक्षतदानवः ।
तद्वक्षोदारयन्माली स्फुरच्चक्रगदाधरः । छत्री दण्डी
वामनः स्यादथ वा स्याच्चतुर्भुजः । रामश्चापेषुहस्तः स्यात्
खड्गी परशुनान्वितः । रामश्चापी शरी खड्गी शङ्खी
वा द्विभुजः स्मृतः । गदालाङ्गलधारी च रामो वाथ
चतुर्भुजः । वामीर्द्ध्वे लाङ्गलं दद्यादधः शङ्खं सुशोभनम् ।
मुषलं दक्षिणोर्द्ध्वे तु चक्रञ्चाधः सुशोभनम् । शान्तात्मा
लम्बकर्णश्च गौराङ्गश्चाम्बरावृतः । ऊर्द्ध्वपद्मस्थितो बुद्धो
वरदाभयदायकः । धनुस्तूणान्वितः कल्की म्लेच्छो-
त्सादकरो द्विजः । अथवाश्वस्थितः खङ्गी शङ्खचक्र-
शरान्वितः” । “लक्षणं वासुदेवादिनवकस्य वदामि ते ।
दक्षिणोर्द्ध्वे गदा वामे वामोर्द्ध्वे चक्रमुत्तमम् । ब्रह्मेशो
पार्श्वगौ नित्यं वासुदेवोऽस्ति पूर्ववत् । शङ्खी स वरदो
वाथ द्विभुजो वा चतुर्भुजः । लाङ्गली मुषली रामो
गदापद्मधरः स्मृतः । प्रद्युम्नो दक्षिणे वज्रं शङ्खं भागे
धनुः करे । गदानाभ्यावृतः प्रीत्या प्रद्युम्नो वा धनुः-
शरी । चतुर्भुजोऽनिरुद्धः स्यात्तथा नारायणो विभुः ।
चतुर्मुखश्चतुर्बाहुर्वृहज्जठरमण्डलः । लम्बकूर्च्चोजटा-
युक्तो ब्रह्मा हंसाग्रवाहनः । दक्षिणे चाक्षसूत्रञ्च
स्रुवं वामे तु कुण्डिकाम् । आज्यस्थाली सरस्वती
सावित्री वामदक्षिणे । विष्णुरष्टभुजस्तार्क्ष्ये करे खड्गस्तु
दक्षिणे । गदा शरश्च वरदो वामे कार्मुकखेटके ।
चक्रशङ्खौ चतुर्बाहुर्न्नरसिंहश्चतुर्भुजः । शङ्खचक्र-
धरो वापि विदारितमहासुरः । चतुर्वाहुर्वराहस्तु शेषः
पाणितले धृतः । धारयन् बाहुना पृथ्वीं वामेन कमला-
धरः । पादलग्ना धरा कार्य्या पदा लक्ष्मीर्व्यवस्थिता ।
त्रैलोक्यमोहनस्तार्क्ष्येअष्टबाहुस्तु दक्षिणे । चक्रं
खड्गं च मुषलं अङ्कुशं वामके करे । शङ्कशार्ङ्ग-
गदापाशा पद्मवीणासमन्विते । लक्ष्मीः सरस्वती
कार्य्ये विश्वरूपोऽघ दक्षिणे । मुद्गरं च तथा पाशं
शक्तिशूलं शरं करे । वामे शङ्खञ्च शार्ङ्गञ्च गदां पाशं
च तोमरम् । लाङ्गलं परशुं दण्डं छुरिकां चर्म-
क्षेपणम् । विंशद्वाहुश्चतुर्वक्त्रो दक्षिणस्थोऽथ वामके ।
त्रिनेत्रो वामपार्श्वेन शयितो जलशाय्यपि । श्रिया
धृतैकचरणो विमलाद्याभिरीडितः । नाभिपद्मचतु-
र्वक्त्रो हरिशङ्करको हरिः । शूलर्ष्टिधारी दक्षे च
गदाचक्रधरः पदे । रुद्रकेशवलक्ष्माङ्गो गौरीलक्ष्मी-
समन्वितः । शङ्खचक्रगदावेदपाणिश्चाश्वशिरा हरिः ।
वामपादधृतः शेषो दक्षिणः कूर्मपृष्ठगः । दत्तात्रेयो
द्विबाहुः स्याद्वामोत्सङ्गे श्रिया सह । विश्वक्सेनश्चक्र-
गदी हली शङ्खी हरेर्गणः” ।
  • देवीप्रतिमालक्षणानि तत्रैव ५० अ० उक्तानि यथा
  • “भगवानुवाच चण्डी विंशतिबाहुः स्यद्बिभ्रती दक्षिणैः
करैः । शूलासिशक्तिचक्राणि पाशं खेटायुधाभयम् ।
डमरुं शक्तिकां वामैर्न्नागपाशञ्च खेटकम् । कुठारा-
ङ्कुशचापांश्च घण्टाध्वजगदास्तथा । आदर्शमुद्गरान्
हस्तैश्चण्डी वा दशबाहुका । तदधो महिषश्छिन्नमूर्द्धा
पातितमस्तकः । शस्त्रोद्यतकरः क्रुद्धस्तद्ग्रीवासम्भवः
पुमान् । शूलहस्तो वमद्रक्तो रक्तभ्रूमूर्द्धजेक्षणः ।
सिंहेनास्वाद्यमानस्तु पाशबद्धो गले भृशम् । याम्याडु-
घ्य्राक्रान्तसिंहा च सव्याङ्ध्रिर्नीचगासुरे । चण्डिकेयं
त्रिनेत्रा च सशस्त्रा रिपुमर्द्दिनी । नवपद्मात्मके ख्याते
पूज्या दुर्गा स्वमूर्त्तितः । आदौ मध्ये च तन्त्रादौ
नवतत्त्वात्मभिः क्रमात् । अष्टादशभुजैका तु दक्षे मुण्डं च
खेटकम् । आदर्शतर्जनीचापं ध्वजं डमरुकं तथा । पाशं
वामे बिभ्रती च शक्तिमुद्गरशूलकम् । वज्रखड्गाङ्कुश-
शरान् चक्रन्देवी शलाकया । एतैरेवायुधैर्युक्ता शेषाः
षोड़शबाहुकाः । डमरुं तर्जनीं त्यक्त्रा रुद्रचण्डादयो
नव । रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चण्डा चण्डवती चैव चण्डरूपातिचण्डिका । उग्र-
चण्डा च मध्यस्था रोचनाभाऽरुणाऽसिता । नीला
शुक्ला धूम्रिका च पीता श्वेता च सिंहगाः ।
महिषोऽथ पुमान् शस्त्री तत्कचग्रहमुष्टिकाः । आलीढ़ा नव
दुर्गाः स्युः स्थाप्याः पुत्रादिवृद्धये । तथा गौरी चण्डि-
काद्या कुण्ड्यक्षररदाग्निधृक् । सैव रम्भावने सिद्धाऽ-
ग्निहीना ललिता तथा । स्कन्धमूर्द्धकरा वामे द्वितीये
धृतदर्प्पणा । याम्ये फलाञ्जलिहस्ता सौभाग्या तत्र
चोर्द्द्विका । लक्ष्मीर्याम्यकराम्भोजा वामे श्रीफल-
संयुता । पुस्ताक्षमालिकाहस्ता वीणाहस्ता सरस्वती ।
कुम्भाब्जहस्ता श्वेताभा मकरोपरि जाह्नवी । कूर्मगा
यमुना कुम्भकरा श्यामा च पूज्यते । सवीणस्तुम्बुरुः
शुक्लः शूली मात्रग्रतो वृषे । गौरी चतुर्मुखी ब्राह्मी
अक्षमालासुरान्विता । कुण्डाक्षपात्रिणी वामे हंसगा
शाङ्करी सिता । शरचापौ दक्षिणेऽस्या वामे चक्रं
पृष्ठ ३६८९
धनुर्वृषे । कौमारी शिखिगा रक्ता शक्तिहस्ता
द्विबाहुका । चक्रशङ्खधरा सव्ये वामे लक्ष्मीर्गदाब्ज-
धृक् । दण्डशङ्खासिगदया वाराही महिषस्थिता ।
ऐन्द्री वामे वज्रहस्था सहस्राक्षी तु सिद्धये । चामुण्डा
कोटराक्षी स्यान्निर्मांसा तु त्रिलोचना । निर्मांसा
अस्थिसारा वा ऊर्ध्वकेशी कृशोदरी । द्वीपिचर्मधरा
वामे कपालं पट्टिशं करे । शूलं कर्त्री दक्षिणेऽस्याः
शवारूढास्थिभूषणा । विनायको नराकारो वृहत्कुक्षि-
र्जाननः । वृहच्छुण्डो ह्युपवीति मुखं सप्तकलं
भवेत् । विस्ताराद्दैर्घ्यतश्चैव शुण्डं षट्त्रिंशदङ्गुलम् ।
कला द्वादश नाडी तु ग्रीवा सार्द्धकलोच्छ्रिता ।
षट्त्रिंशदङ्गुलं कण्ठं गुह्यमध्यर्द्धमङ्गुलम् । नाभिरूरू
द्वादश च जङ्घे पादे तु दक्षिणे । स्वदन्तं परशुं वामे
लड्डुकञ्चोत्पलं शये । सुमुखी च विडालाक्षी पार्श्वे
स्कन्दो मयूरगः । स्वामी शाखी विशाखश्च द्विभुजो
बालरूपधृक् । दक्षे शक्तिः कुक्कुटोऽथ एकवक्त्रोऽथ
षण्मुखः । षड्भुजो वा द्वादशभिर्ग्रामेऽरण्ये द्विबाहुकः ।
शक्तीषुपाशनिस्त्रिंशतोत्रदोस्तर्जनीयुतः । शक्त्या दक्षि-
णहस्तेषु षट्सु वामे करे तथा । शिखिपिच्छन्घनुः
स्वेटं पताकाभयकुक्कुटे । कपालकर्तरीशूलपाशभृद्
याम्यसौम्ययोः । गजचर्मभृदूर्ध्वास्यपादा स्यात् रुद्रच-
ण्डिका । सैव चाष्टभजा देवी शिरोडमरुकाग्विता ।
तेन सा रुद्रचामुण्डा नाटेश्वर्यथ नृत्यती । इयमेव
महालक्ष्मीरुपविष्टा चतुर्मुखी । नृवाजिमहिषेभांश्च
खादन्ती च करे स्थितान् । दशबाहुस्त्रिनेत्रा च शस्त्रासि-
डमरुत्रिकम् । बिभ्रती दक्षिणे हस्ते वामे घण्टां च
खेटकम् । खट्वाङ्गं च त्रिशूलञ्च सिद्धचामुण्डकाह्वया ।
सिद्धयोगेश्वरी देवी सर्वसिद्धिप्रदायिका । एतद्रूपा
भवेदन्या पाशाङ्कुशयुतारुणा । भैरवीरूपविद्या तु भुजै-
र्द्वादशभिर्युता । एताः श्मशानजा रौद्र्योह्यम्बाष्टकमि-
दं स्मृतम् । क्षमा शिवावृता वृद्धा द्विभुजा विवृतानना ।
दन्तुरा क्षेमकारी स्याद्भूमौ जानुकरा स्थिता । यक्षिण्य-
स्तब्धदीर्घाक्षाः शाकिन्यो वक्रदृष्टयः । पिङ्गाक्ष्यः स्यु-
र्महारम्या रूपिण्योप्सरसः सदा । साक्षमाली त्रिशूली
च नन्दीशो द्बारपालकः । महाकालासिमुण्डी स्या-
च्छूलखेटकवांस्तथा । कृशो भृङ्गी च नृत्यन् वै कुष्मा-
ण्डस्थूलखर्ववान् । गजगोकर्णवक्त्राद्या वीरभद्रादयो
गणाः । घण्टाकर्णोद्वादशदोः पापरोगं विदारयन् ।
वज्रासिदण्डचक्रेषुमुषलाङ्कुशमुद्गरान् । दक्षिणे तर्जनीं
खेटं शक्तिं मुण्डञ्च पाशकम् । चापं घण्टां कुठारञ्च
द्वाभ्याञ्चैव त्रिशूलकम् । घण्टामालाकुलो देवो विस्फो-
टकविमर्दनः” ।
  • सूर्य्यादिप्रतिमालक्षणानि ५१ अ० तत्रोक्तानि यथा
“भगवानुवाच । ससप्ताश्वे सैकचक्रे रथे सूर्यो द्विपद्मधृक् ।
मसीभाजनलेखन्यौ बिभ्रत् कुण्डी तु दक्षिणे । वाम तु
पिङ्गलो द्वारि दण्डभृत् स रवेर्गणः । बालव्यजनधा-
रिण्यौ पार्श्वे राज्ञी च निष्प्रभा । अथवाश्वसमारूदः
कार्य एकस्तु भास्करः । वरदा द्व्यब्जिनः सर्वे दिक्पा-
लास्त्रकराः क्रमात् । मुद्गरशूलचक्राब्जभृतोऽग्न्यादिवि-
दिक्स्थिताः । सूर्याद्यमादिरक्षोन्ताश्चतुर्हस्ता द्विषड्दले ।
वरुणः सूर्यनामा च सहस्रांशुस्तथापरः । घाता
तपनसंज्ञश्च सविताथ गभस्तिमान् । रविश्चैवाथ पर्जन्यस्त्वष्टा
मित्रोऽथ विष्णुकः । मेषादिराशिसंस्थाश्च मार्गादिकार्ति-
कान्तगाः । कृष्णी रक्तो मनाग्रक्तः पीतः पाण्डुरकः
सितः । कपिलः पीतवर्णश्च शुकाभो धवलस्तथा । धूम्रो
नीलः क्रमाद्वर्णाः शक्तयः केशराग्रगाः । इडा सुषुम्णा
विश्वार्चिरिन्दुसंज्ञा प्रमर्दिनी । प्रहर्षणी महाकाली
कपिला च प्रबोधनी । नीलाम्बरा घनान्ता च
अमृताख्या च शक्तयः । वरुणादेश्च तद्वर्णाः केशराग्रेषु
विन्यसेत् । तेजश्चण्डो महावक्रो द्विभुजः पद्मखड्गभृत् ।
कुण्डिकाजप्यमालीन्दुः कुजः शक्त्यक्षमालिकः । बुधश्चा-
पाक्षपाणिः स्याज्जीवः कुण्ड्यक्षमालिकः । शुक्रः
कुण्ड्यक्षमाली स्यात् किङ्किणीसूत्रवाञ्छनिः । अर्द्धचन्द्रघरो
राहुः केतुः स्वड्गी च दीपभृत् । अनन्तस्तक्षकः कर्क्कः
पद्मो महाब्जः शङ्खकः । कुलिकः सूत्रिणः सर्वे
फणवक्त्रा महाप्रभाः । इन्द्रो बज्री गजारूढश्छागगोऽग्निश्च
शक्तिमान् । यमो दण्डी च महिषे नैरृतः खड़गवान्
खरे । मकरे वरुणः पाशी वायुर्ध्वजधरो मृगे । गदी
कुवेरो मेषस्थ ईशानश्च जटी वृषे । द्विबाहवो
लोकपाला विश्वकर्माक्षसूत्रभृत् । हनूमान् यज्रहस्तः स्यात्
पद्भ्यां सम्पीडिताश्रयः । वीणाहस्ताः किन्नराः स्युर्मा-
लाविद्याधराश्च खे । दुर्बलाङ्गाः पिशाचाः स्युर्वेताला
विकृताननाः । क्षेत्रपालाः शूलवन्तः प्रेता महोदरा-
कृशाः” ।
६४ योगिनी प्रतिमालक्षणं ५२ अ०
“भगवानुवाच योगिन्यष्टाष्टकं वक्ष्ये ऐन्द्रादीशान्ततः क्र-
पृष्ठ ३६९०
मात् । अक्षोभ्या ऋक्षकर्णी च राक्षसी क्षपणा क्षया ।
पिङ्गाक्षी चाक्षया क्षेमा वाला लीला लया तथा । लोला
लङ्का च लङ्केशी लालसा विमला पुनः । हुताशा च
विशालाक्षी हुङ्कारा वडवामुखी । हाहारवा महाक्रूरा
क्रोधना तु भयानना । सर्वज्ञा तरला तारा कृष्णा
चैव हयानना । तथैव रससङ्ग्राही शवरा तालु-
जिह्विका । रक्ताक्षी सुप्रसिद्धा तु विद्युज्जिह्वा
करङ्किणी । मेघनादा प्रचण्डोग्रा कालकर्णी वरप्रदा ।
चन्द्रावली चन्द्रहासा प्रपञ्चा प्रलयान्तिका । शिशुवक्त्रा
पिशाची च पिशिताशा च लीलुपा । धमनी तपनी
चैव वामनी बिकृतानना । वायुवेगा वृहत्कुक्षिर्वि-
कृता विश्वरूपिका । यमजिह्वा जयन्ती च दुर्जया च
यमान्तिका । विडाली रेवती चैव पूतना विजयन्तिका ।
अष्टहस्ताश्चतुर्हस्ता इच्छास्त्राः सर्वसिद्धिदाः” ।
भैरवप्रतिमालक्षणानि यथा ५२ अ०
“भैरवश्चार्कहस्तः स्यात् कूर्परास्यो जटेन्दुभृत् । खड़्गा-
ङ्कुशकृठारेषुविश्वाभयभृदेकतः । चापत्रिशूलखट्वाङ्गपाश-
कार्द्धवरोद्यतः । गजचर्मधरो द्वाभ्यां कृत्तिवासोहिभू-
षितः । प्रेतासनी मातृमध्ये पूज्यः पञ्चाननोऽथ वा ।
अविलोमाग्निपर्यन्तं दीर्घाष्टकैकभेदितम् । तत् षडङ्गानि
जात्यन्तैरन्वितं च क्रमाद् यजेत् । मन्दिराग्निदला-
रूढं सुवर्णरसकान्वितम् । नादविन्द्विन्दुसंयुक्तं मातृ-
नाथाङ्गदीपितम् । वीरभद्रो वृषारूढो मात्रग्रे स
चतुर्मुखः । गौरी तु द्विभुजा त्र्यक्षा शूलिनी दर्पणा-
न्विता । शूलं गलन्तिका कुण्डी वरदा च चतुर्भुजा ।
अब्जस्था ललिता स्कन्दगणादर्शशलाकया । चण्डिका
दशहस्ता स्यात् खड़्गशूलारिशक्तिधृक् । दक्षे वामे
नागपाशं चर्माङ्कुशकुठारकम् । धनुः सिंहे च महिषः
शूलेन प्रहतोग्रतः” ।
लिङ्गलक्षणमुक्तं तत्र ५३ अ०
  • “भगवानुवाच । लिङ्गादिलक्षणं वक्ष्ये कमलोद्भव! तच्छृणु ।
दैर्घ्यार्द्धं वसुभिर्भक्त्वा त्यक्त्वा भागत्रयं ततः । विष्कम्भं
भूतभागैस्तु चतुरस्रन्तु कारयेत् । आयामं मूर्तिभिर्भक्त्वा
एकद्वित्रिक्रमान् न्यसेत् । ब्रह्मविष्णुशिवांशेषु वर्द्धमानोऽ-
यमुच्यते । चतुरस्रेऽस्य वर्णार्द्धं गुह्यकोणेषु लाञ्छयेत् ।
अष्टाग्रं वैष्णवं भागं सिध्यत्येव न संशयः । षोडशास्रं
ततः कुर्याद्वात्रिंशास्रं ततः पुनः । चतुःषष्ट्यस्रकं कृत्वा
वर्तुलं साधयेत्तगः । कर्तयेदथ लिङ्गस्य शिरो वै देशि-
कोत्तमः । विस्तारमथ लिङ्गस्य अष्टधा संविभाजयेत् ।
भागार्द्धार्द्धन्तु सन्त्यज्य छत्राकारं शिरो भवेत् । त्रिषु
भागेषु सदृशमायामं यस्य विस्तरम् । तद्विभागसमं लिङ्गं
सर्वकामफलप्रदम् । दैर्घ्यस्य तु चतुर्थेन विष्कम्भं
देवपूजिते । सर्वेषामेव लिङ्गानां लक्षणं शृणु साम्प्रतम् ।
मध्यसूत्रं समासाद्य ब्रह्मरुद्रान्तिके बुधः । षोडशा-
ङ्गुललिङ्गस्य षड्भागैर्भाजितो यथा । तद्वै यमनसू-
त्राभ्यां मानमन्तरमुच्यते । यवाष्टमुत्तरे कार्यं शेषाणां
यवहानितः । अधोभागं त्रिधा कृत्वा त्वर्द्धमेकं
परित्यजेत् । अष्टधा तद्द्वयं कृत्वा ऊर्ध्वभागत्रयं
त्यजेत् । ऊर्द्धञ्च पञ्चमाद्भागाद् भ्राम्य रेखां प्रलम्बयेत् ।
भागमेकं परित्यज्य सङ्गमं कारयेत्तयोः । एतत् साधा-
रणं प्रोक्तं लिङ्गानां लक्षणं मया । सर्वसाधारणं वक्ष्ये
पिण्डिकान्तां निबोध मे । ब्रह्ममागप्रवेशञ्च ज्ञात्वा
लिङ्गस्य चोच्छ्रयम् । न्यसेद् ब्रह्मशिलां विद्वान् सम्य-
क्कर्मशिलोपरि । तथा समुच्छ्रयं ज्ञात्वा पिण्डिकां प्रवि-
भाजयेत् । द्विभागमुच्छ्रितं पीठं विस्तरं लिङ्गसम्मि-
तम् । त्रिभागं मध्यतः खातं कृत्वा पीठं विभाजयेत् ।
स्वमानार्द्धत्रिभागेण बाहुल्यं परिकल्पयेत् । बाहुल्यस्य
त्रिभागेण मेखलामथ कल्पयेत् । खातं स्यान्मेखलातुल्यं
क्रमान्निम्नन्तु कारयेत् । मेखला षोडशांशेन खातं वा
तत्प्रमाणतः । उच्छ्रायं तस्य पीठस्य विकाराङ्गं तु
कारयेत् । भूमौ प्रविष्टमेकं तु भागैकैकेन पिण्डिका ।
कण्ठं भागैस्त्रिभिः कार्यं भागेनैकेन पट्टिका । द्व्यंशेन
चोर्द्धपट्टन्तु एकांशाः शेषपट्टिकाः । भागं भागं प्रवि-
ष्टन्तु यावत् कण्ठं ततः पुनः । निर्गमं भागमेकं तु
यावद्वै शेषपट्टिका । प्रणालस्य त्रिभागेण निर्गमस्तु त्रि-
भागतः । मूलेऽङ्गुल्यग्रविस्तारमग्रे त्र्यंशेन चार्द्धतः ।
ईषन्निम्नन्तु कुर्वीत खातं तच्चोत्तरेण वै । पिण्डिकास-
हितं लिङ्गमेतत् साधारणं स्मृतम्” ।
लिङ्गभेदादिकथनं तत्रैव ५४ अ०
  • ‘भगवानुवाच । वक्ष्याम्यन्यप्रकारेण लिङ्गमानादिकं शृणु ।
बक्ष्ये लबणजं लिङ्गं घृतजं बुद्धिवर्द्धनम् । भूतये
वस्त्रलिङ्गन्तु लिङ्गन्तात्कालिकं विदुः । पक्वापक्वं
मृण्मयं स्यादपक्वात् पक्वजं वरम् । ततो दारुमयं पुण्यं
दारुजात् शैलजं वरम् । शैलाद्वरं तु मुक्ताजं ततो
लौहं सुवर्णजम् । राजतं कीर्तितं ताम्रं पैत्तलं भुक्ति-
मुक्तिदम् । रङ्गजं रसलिङ्गञ्च भुक्तिमुक्तिप्रदं वरम् ।
पृष्ठ ३६९१
रसज रसलोहादिरत्नागर्भन्तु वर्द्धयेत् । मानादि नेष्टं
सिद्धादि स्थापितेऽथ स्वयम्भुवि । वामे च स्वेच्छया तेषां
पीठप्रासादकल्पना । पूजयेत् सूर्यविम्बस्थं दर्पणे प्रति-
विम्बितम् । पूज्यो हरस्तु सर्वत्र लिङ्गे पूर्णार्चनं
भवेत् । हस्तोत्तरविधं शैलं दारुजं तद्वदेव हि ।
चलमङ्गुलमानेन द्वारगर्भकरैः स्थितम् । अङ्गुलाद्
गृहलिङ्गं स्याद् यावत् पञ्चदशाङ्गुलम् । द्वारमानात् त्रिस-
ङ्ख्याकं नवधा गर्भमानतः । नवधा गर्भमानेन लिङ्गं
धाम्नि च पूजयेत् । एवं लिङ्गानि षट्त्रिंशत् ज्ञेयानि
ज्येष्ठमानतः । मध्यमानेन षट्त्रिंशत् षट्त्रिंशदधमेन
च । इत्थमैक्येन लिङ्गानां शतमष्टोत्तरं भवेत् ।
एकाङ्गुलादिपञ्चान्तं कन्यसञ्चलमुच्यते । षडादिदशपर्यन्तञ्चलं
लिङ्गञ्च मध्यमम् । एकादशाङ्गुलादि स्यात् ज्येष्ठं
पञ्चदशान्तकम् । षडङ्गुलं महारत्ने रत्नैरन्यैर्नवाङ्गु-
लम् । रविभिर्हेमसारोत्थं लिङ्गं शेषैस्त्रिपञ्चभिः ।
पोडशांशे च वेदांशे युगं लुप्तोर्ध्वदेशतः । द्वात्रिंशत्
षोडशांशांश्च कोणयोस्तु विलोपयेत् । चतुर्निवेशनात्
कण्ठो विंशतिस्त्रियुगैस्तथा । पार्श्वाभ्यां तु विलुप्ताभ्यां
चललिङ्गं भवेद्वरम् । धाम्नो युगर्तुनागांशैर्द्वारं
हीनादितः क्रमात् । लिङ्गद्वारोच्छ्रयादर्वाग् भवेत् पादोनतः
क्रमात् । गर्भार्द्धेनाधमं लिङ्गं भूतांशैः स्यात् त्रिभि-
र्वरम् । तयोर्मध्ये च सूत्राणि सप्त सम्पातयेत् समम् ।
एवं स्युर्नव सूत्राणि भूतसूत्रैश्च मध्यमम् । द्व्यन्तरो
वामवामश्च लिङ्गानां दीर्घता नव । हस्ताद्विवर्द्धते हस्तो
यावत् स्युर्नव पाणयः । हीनमध्योत्तमं लिङ्गं त्रिविधं
त्रिविधात्मकम् । एकैकलिङ्गमध्येषु त्रीणि त्रीणि च
पादशः । लिङ्गानि घटयेद्वीमान् षट्सु चाष्टोत्तरेषु च ।
स्थिरदीर्घप्रभेदात्तु द्वारगर्भकरात्मिका । भाग्येशञ्चाप्य-
नीशञ्च देवेज्यन्तुल्यसंज्ञितम् । चत्वारि लिङ्गरूपाणि
विष्कम्भेण तु लक्षयेत् । दीर्घमायान्वितं कृत्वा लिङ्गं
कुर्यात् त्रिरूपकम् । चतुरष्टाष्टवृत्तञ्च तत्त्वत्रयगुणात्म-
कम् । लिङ्गानामीप्सितं दैर्घ्यं तेन कृत्वाङ्गुलानि
वै । ध्वजाद्यायैः स्वरैर्भूतैः शिखिभिर्वा हरेत् कृतिम् ।
तान्याङ्गुलानि यच्छेषं लक्षयेच्च शुभाशुभम् । ध्वजाद्य
ध्वजसिंहेभवृषाः श्रेष्ठाः परे शुभाः । स्वरेषु षड्ज-
गान्धारपञ्चमाः शुभदायकाः । भूतेषु च शुभा भूः
स्यादग्निष्वाहवनीयकः । उक्तायामस्य चार्धांशे नागां
शैर्भाजिते क्रमात् । रसभूतांशषढांशत्यंशाविकशरेर्भ-
वेत् । आढ्यानाढ्यसुरेज्याख्यतुल्यानाञ्चतुरस्रता ।
पञ्चमं वर्द्धमानाख्यं व्यासान्नाहप्रवृद्धितः । द्विधा भेदो
बहून्यत्र वक्ष्यन्ते विश्वकर्मतः । आढ्यादीनां त्रिधा
स्थौल्याद्यवधूतं तदष्टधा । त्रिधा हस्ताज्जिनाख्यञ्च
युक्तं सर्वसमेन च । पञ्चविंशतिलिङ्गानि नाद्ये देवा-
र्चिते तथा । पञ्चसप्तभिरेकत्वाज्जिनैर्भक्तैर्भवन्ति हि ।
चतुर्दश सहस्राणि चतुर्दश शतानि च । इत्यष्टाङ्गुलवि-
स्तारो नवैककरगर्भतः । तेषां कोणार्द्धकोणस्थैश्चिह्नेत्
कोणानि सूत्रकैः । विस्तारं मध्यतः कृत्वा स्थाप्यं
वा मध्यतस्त्रयम् । विभागादूर्द्धमष्टास्रो द्व्यष्टास्रः स्या-
च्छिवांशकः । पादाज्जान्वन्तको व्रह्मा नाभ्यन्ती विष्णुरि-
त्यतः । मूर्ध्वान्तो भूतभागेशो व्यक्तेऽव्यक्ते च तद्वति ।
पञ्चलिङ्गव्यवस्थायां शिरो वर्तुलमुच्यते । छत्राभं कुक्कु-
टाभं वा बालेन्दुप्रतिमाकृति । एकैकस्य चतुर्भेर्दैः
काम्यभेदात् फलं वदे । लिङ्गमस्तकविस्तारं वसुभक्तन्तु
कारयेत् । अर्द्धभागं चतुर्द्धा तु विस्तारोच्छ्रायतो
भजेत् । चत्वारि तत्र सूत्राणि भागभागानुपातनात् ।
पुण्डरीकन्तु भागेन विशालाख्यं द्विलोपनात् । त्रिशा-
तनात्तु श्रीवत्सं शत्रुकृद्वेदलोपनात् । शिरः सर्वसमे
श्रेष्ठं कुक्वुटाभं सुराह्वये । चतुर्भागात्मके लिङ्गे त्रापूषं
द्वयलोपनात् । अनाद्यस्य शिरः प्रोक्तमर्द्धचन्द्रं शिरः
शृणु । अंशात् प्रान्ते युगांशैश्च त्वेकहान्यामृताक्ष-
कम् । पूर्वबालेन्दुकुमुदं द्वित्रिवेदक्षयात् क्रमात् ।
चतुस्त्रिरेकवदनं मुखलिङ्गमतः शृणु । पूजाभागं प्रक-
र्तव्यं मूर्त्त्यग्निपदकल्पितम् । अर्कांशं पूर्ववत् त्यक्त्वा
षट् स्थानानि विवर्तयेत् । शिरीन्नतिः प्रकर्तव्या ललाटं
नासिका ततः । वदनं चिबुकं ग्रीवा युगभागैर्भुजा-
क्षिभिः । कराभ्यां मुकुलीकृत्य प्रतिमायाः प्रमाणतः ।
मुखं प्रति समः कार्यो विस्तारादष्टमांशतः । चतुर्मुखं
मया प्रोक्तं त्रिमुखञ्चोच्यते शृणु । कर्णपादाधिका-
स्तस्य ललाटादीनि निर्दिशेत् । भुजौ चतुर्भिर्भागैस्तु
कर्तव्यौ पश्चिमोर्जितम् । विस्तारादष्टमांशेन मुखानां
प्रतिनिर्गमः । एकवक्त्रं तथा कार्यं पूर्वस्यां सौम्यलोच-
नम् । ललाटनामिकावक्त्रग्रीवायाञ्च विवर्तयेत् । भुजाच्च
पञ्चमांशेन भजहोन” विर्तयेत् । विस्तारस्य षड़ंशेन
मुखैर्निर्गमनं हितम । सर्वेषां मुखलिङ्गानां त्रापुषं वाथ
कुक्कुटम्”
विशेषेण देवतादीनां मूर्तिलक्षणं हेमाद्रिव्रतखण्डे विष्णुध
पृष्ठ ३६९२
  • गणेशस्य “विनायकस्तु कर्त्तव्यो गजवक्त्रश्चतुर्भुजः । स्थल-
कञ्चाक्षमाला च तस्य दक्षिणहस्तयोः । पात्रञ्चोदक-
पूर्णञ्च परशुश्चैव वामतः । दन्तश्चास्य न कर्त्तव्यो
वामे रिपुनिसूदन! । पादपीठकृतः पाद एक
आसनगो भवेत् । पूर्णे चोदकपात्रे च कराग्रन्तस्य
कारयेत् । लम्बोदरस्तथाकार्य्यस्तब्धकर्णश्च यादव ।
व्याघ्रचर्माम्बरधरः सर्पयज्ञोपवीतवान्” । स्थलकं,
गजदन्ताकारम् ।
  • सरस्वत्याः “देवी सरस्वती कार्य्या सर्वाभरणभूषिता । चतुर्भु-
जा सा कर्त्तव्या तथैव च समुत्थिता” । (समुत्थिता, ऊर्द्ध्वा)
पुस्तकञ्चाक्षमाला च तस्या दक्षिणहस्तयोः । वामयोश्च
तथा कार्य्या वैणवी च कमण्डलुः । समपादपतिष्ठा च
कार्या सौम्यमुखी तथा” । वैणवी, वीणा
  • लक्ष्म्याः “हरेः समीपे कर्तव्या लक्ष्मीस्तु द्विभुजा नृप! ।
दिव्यरूपाम्बरधरा सर्वाभरणभूषिता । गौरी शुक्लाम्बरा
देवी रूपेणाप्रतिमा भुवि । पृथक् चतुर्भुजा कार्य्या
देवी सिंहासना शुभा । सिंहासनस्था कर्तव्यं
कमलञ्चारुकर्णिकम् । अष्टपत्रं महाभाग! कर्णिकायान्तु सा
स्थिता । विनायकवद्रासीना देवी कार्य्या महाभुजा ।
वृहन्नालङ्करे कार्य्यं तस्याश्च कमलं शुभम् । दक्षिणे
यादवश्रेष्ठ! केयूरं प्रान्तसंस्थितम् । वामेऽमृतघटः
कार्यस्तथा राजन्! मनहोरः । तस्याश्च द्वौ करौ कार्यौ
विल्वशङ्खधरौ द्विज! । आवर्जितघटं कार्यं तत्पृष्ठे-
कुञ्जरद्वयम् । देव्याश्च मस्तके पद्मं तथा कार्यं मनो
हरम्” ।
  • श्रियः “पद्मस्था पद्महस्ता च गजोत्क्षिप्तघटप्लुता ।
श्रीः पद्ममालिनी चैव कालिकाकृतिरेव च” ।
  • महालक्ष्म्याः विश्वकर्मशास्त्रे “क्षेत्रे कोलापुरादन्ते
महालक्ष्मीर्य्यदोच्यते । लक्ष्मीवत् सा तदा कार्य्या” रूपाभ-
रणभूषिता । दक्षिणाधःकरे पात्रमूर्द्धे कौमोदकी ततः ।
वामोर्द्धे खेटकं वत्ते श्रीफलन्तदधः करे । बिभ्रती
मस्तके लिङ्गं पूजनीया विभूतये” ।
  • भद्रकाल्याः विष्णुधर्मोत्तरे “अष्टादशभुजा कार्य्या भद्रकाली
मनोहरा । आलीढस्वासनस्था च चतुःसिंहे रथे स्थिता ।
अक्षमाला त्रिशूलञ्च खड़्गश्चन्द्रश्च यादव! । वाणचापे
च कर्तव्ये शङ्खपद्मे तथैव च । स्रुक्स्रुवौ च तथा
कार्यौ तथोदककमण्डलू । दण्डशक्ती च कर्तव्ये कृष्णा-
जिनहुताशनौ । हस्तानां भद्रकाल्यास्तु भवेत् शा-
न्तिकरः करः । एकश्चैव महाभाग रत्नपात्रधरो
भवेत्” ।
  • चण्डिकायाः “निगद्यते ह्यथो चण्डी हेमाभा सा सुरू-
पिणी । त्रिनेत्रा यौवनस्था च क्रुद्धा चोर्द्धस्थिता
मता । कृशमध्या विशालाक्षी चारुपीनपयोधरा ।
एकवक्त्रा तु सुग्रीवा वाहुविंशतिसंयुता । शूलासिशङ्ख-
चक्राणि बाणशक्तिपवीनपि । अभयण्डमरुञ्चैव
छत्रिकां दक्षिणे करे । ऊर्ध्वादिक्रमयोगेन बिभ्रती
सा सदा शुभा । नागपाशन्तथा खेटं कुठाराङ्कुशका-
र्मुकम् । घण्टा, ध्वज, गदादर्शं, मुद्गरं वाम एव
च । तदधोमहिषश्छिन्नमूर्द्ध्वा पतितमस्तकः । शस्त्रो-
द्यतकरस्तब्धः तद्ग्रीवासम्भवः पुमान् । शूलभिन्नो
वमद्रक्तोरक्तभ्रूमूर्द्ध्वजेक्षणः । सिंहेन खाद्यमानश्च
पाशवद्धो गले भृशम् । याम्याङ्घ्य्राक्रान्तसिंहा च सव्या-
ङ्घ्र्यालीढगासुरे । चण्डी चोद्यतशस्त्रेयञ्चाशेषरिपुना-
शिनी” (असुरे, महिषे)
  • दुर्गायाः “शक्तिं वाणं तथा शूलं खड़्गञ्चक्रञ्च दक्षिणे ।
चन्द्रविम्यमधो वामे खेटमूर्द्धे कपालकम् । शूलं चक्रञ्च
विभ्राणा सिंहारूढ़ा च दिग्भुजा । एषा देवी
समुद्दिष्टा दुर्गा दुर्गापहारिणी” । दिग्भुजा, दशभुजा
  • नन्दायाः “नन्दा भगवती देवी भारद्वाजाभिनन्दजा ।
वरपाशा ङ्कुशा--ब्जानि बिभ्रती च चतुर्भुजा” ।
“गौरवर्णा गजस्था वा खड्ग खेट वराभया” ।
  • अम्बायाः “अम्बा कुमुदवर्णाभा पाशाब्जाभीतिपात्रिणी” ।
  • सर्वमङ्गलायाः “चतुर्बाहुः प्रकर्तव्या सिंहस्था सर्वमङ्गला
अक्षसूत्रं कजं दक्षे शूलकुण्डीधरोत्तरे” ।
  • कालरात्रेः “एकवीणा जया कर्णपूरा नग्ना खरस्थिता ।
वङ्गोत्था कर्णिकाकर्णी तैलाभ्यक्तशरीरिणी । वामपादे
लसल्लोहकृत्यकण्टकभूषणा । वर्द्धयन्मूर्द्धजाकृष्टा
कालरात्रिर्भयङ्करी” ।
  • ललितायाः “शङ्खमुग्धकरादर्शं बिभ्रती वामपार्श्वतः । याम्ये
फलाञ्जनीहस्ता ललितोर्द्धा सुभूषणा” ।
  • ज्येष्ठायाः “तुङ्गनासा च लम्बोष्ठी लम्बमानस्तनोदरी ।
आलोहिता स्मृता ह्येषा ज्येष्ठा लक्ष्मीरिति श्रिये ।
उत्पलाभयहस्तेयं द्विभुजा वीरवन्दिता” ।
  • ज्येष्ठाभेदस्य “रक्तज्येष्ठा च नीला च भूतलार्पितपा-
दिका । भूतलं स्पृशते दोर्भ्यां द्विभुजा वीरवन्दिता” ।
  • गौर्य्याः “गौरी कुमारिकारूपा ध्यायमाना महेश्वरैः ।
पृष्ठ ३६९३
वरदाभयहस्ता सा द्विभुजा श्रेयसे सदा । अक्षसूत्रा-
भये पद्मं तस्याधश्च कमण्डलुः । गौर्य्या मूर्तिश्चतुर्वाहुः
कर्तव्या कमलासना” ।
  • भूतमातुः “श्यामवर्णा विशालाक्षी क्षीरारुणनिभानना । द्वि-
भुजा बिभ्रती लिङ्गं चर्म शस्त्रन्तु दक्षिणे । सिंहा-
सनोपविष्टेयं मुक्ताभरणमूर्द्धजा । भूतप्रेत पिशाचाद्यैः
सेविता तु विशेषतः । इन्द्रयक्षैश्च गन्धर्वैः सिद्धविद्या-
धरादिभिः । अश्वत्थस्याप्यधो देवी भूतमातेति विश्रुता” ।
  • मुरभेः “सुरभिर्गोमुखी देवी सुरूपा सर्वभूषणा ।
घासमुष्टिं तथा कुण्डीं बिभ्राणा भूतिपुष्टिदा” ।
  • योगनिद्रायाः “निद्रा तु शयनारूढा सुसौम्या मुकुलेक्षणा ।
पानपात्रधरा चेयं द्विभुजा परिकीर्तिता” ।
  • मातॄणाम् “अथातः सम्प्रवक्ष्यामि मातृरूपाणि ते जय” ।
  • ब्राह्म्याः “तत्र ब्राह्मी चतुर्वक्त्रा षड्भुजा हंससंस्थिता ।
पिङ्गला भूषणोपेता भृगचर्मोत्तरीयका । वरं सूत्रं
स्रुवं धत्ते दक्षवाहुत्रये क्रमात् । वामे तु पुस्तकं कुण्डीं
बिभ्रती चाभयप्रदा” ।
  • माहेश्वर्य्याः “माहेश्वरी वृषारूढ़ा पञ्चवक्त्रा त्रिलोचना ।
शुक्लेन्दुभृज्जटाजूटा शुक्ला सर्वसुखप्रदा । षड्मूजा वरदा
दक्षे सूत्रं डमरुकं तथा । शूलघण्टाऽभयं वामे सैव
धत्ते महाभुजा ।
  • कौर्मार्य्याः “कौमारी रक्तवर्णा स्यात् षड्वक्त्रा साऽर्कलोचना ।
रविबाहुर्मयूरस्था वरदा शक्तिधारिणी । पताकां बिभ्रती
दण्डञ्चापं वाणं च दक्षिणे । वामे चापमथी घण्टां
कमलं कुक्कुटं त्वधः । परशुं विभ्रती तीक्ष्णं
तदधस्त्वभयान्विता” ।
  • वैष्णव्याः “वैष्णवी तार्क्ष्यगा श्यामा षड्भुजा वनमा-
लिनी । वरदा गदिनी दक्षे विभ्रती चाम्बुजस्रजम् ।
शङ्खचक्राभया वामे सा चेयं विलसद्भुजा” ।
  • वाराह्याः “कृष्णवर्णा तु वाराही शूकरास्या महीदरी ।
वरदा दण्डिनी खड्गं बिभ्रती दक्षिणे सदा ।
खेटपाशांभया वामे सैव चापि लसद्भुजा” ।
  • “ऐन्द्र्याः ऐन्द्री सहस्रदृक् सौम्यहेमाभा गजसंस्थिता ।
वरदा सुत्रिणी वज्रं बिभ्रत्यूर्द्धन्तु दक्षिणे । वामे तु
कलसं पात्रं त्वभयं तदधः करे” ।
  • चामुण्डायाः “चामुण्डा प्रेतगा रक्ता विकृतास्याहि-
भूपणा । दशाग्रा क्षीणदेहा च गर्त्ताक्षी भीमरूपिणी ।
दिग्वाहुः क्षन्भकुक्षिश्च मुसलं कवचं शरम् । अङ्कुशं
बिभ्रती खड्गं दक्षिणे त्वथ वामतः । खेटं पाशन्धनु-
र्दण्डं कुठारं चेति बिभ्रती” ।
  • चण्डिकायाः “चण्डिका श्वेतवर्णा स्यात् शवारूढा च
षड्भुजा । जटिला वर्तुलत्र्यक्षा वरदा शूलधारिणी ।
बर्ण्णिकां बिभ्रती दक्षे पानपात्राभयान्यतः । इत्येवं
मातरः प्रोक्ता रूपभेदव्यवस्थया” ।
  • नान्दीमुखमातॄणाम् गौर्य्यादिमातरस्तु भविष्यत्पुराणे
निरूपिताः । “गौरी पद्मा--शची--मेधा सावित्री विजया
जया । देवमाता स्वधा स्वाहा तथान्या लोकमातृका ।
धृतिः पुष्टिस्तथा तुष्टिरात्मदेवतया सह । पूज्या
श्चित्रेऽथवार्च्चायां वरदाऽभयपाणयः” ।
  • नवदुर्गाणाम् “नवपद्मान्विते स्थाने पूज्या दुर्गाः स्वमूर्त्तितः ।
आदौ मध्ये तथेन्द्रादौ नवतत्त्वाक्षरैः क्रमात् । अष्टाद-
शभुजैका तु पीनवक्षोरुहोरुका । सर्वालङ्कारसंयुक्ता
सर्वसिद्धिप्रदायिनी । मूर्द्धजं खेटकं घण्टामादर्शं
तर्जनीं धनुः । ध्वजं डमरुकं पाशं बिभ्रती
वामपाणिभिः । शक्तिमुद्गर शूलानि वज्रं शङ्खमथाङ्कु-
शम् । शलाकां मार्गणं चक्रं दधाना दक्षिणैः करैः ।
जयमिच्छ्वद्भिरित्येताः पूजनीया महात्मभिः । शेषाः
षोड़शहस्ताश्च शलाकां मार्गर्ण विना । रुद्रचण्डा
प्रचण्डा च चण्डोग्रा चण्डनायिका । चण्डा चण्ड-
वती चैव चण्डरूपातिचण्डिका । नवमी चोग्रचण्डा
च मध्यस्था वह्निसन्निभा । रोचनाभाऽरुणा कृष्णा नीला
शुक्ला च धूम्रिका । पीता च पाण्डुरा ज्ञेया
आलीदस्था हरिस्थिता । महिषस्था सशस्त्रीका दैत्यमूर्द्धज-
मुष्टिका । पद्माकृती रथ स्थाप्या इत्युक्तं स्कन्दयामले” ।
  • वामायाः “वृत्तस्था जटिला त्र्यक्षा वह्निज्वालासमप्रभा ।
कपालाभयहस्तोग्रा वामा वामफलप्रदा । द्विवाहुरेक-
वक्त्रैषा विधातव्या विपश्चिता” ।
  • ज्येष्ठायाः “पाठलाभा भवेदष्टाकपालशरधारिणी । उग्रा
महाबला भूत्यै शत्रुघ्नी शेषपूर्वजा” ।
  • रौद्र्याः “रक्तवस्त्रा तथा रौद्री कपालचमरीकरा ।
शेषपूर्वा तु विज्ञेया कृष्णवक्त्रा सुभीषणा” ।
  • काल्याः “घनश्यामा ततः काली ताम्ररक्तनिभानना । कपाल
कर्णिकाहस्ता विज्ञेया भयनाशिनी” ।
  • कलविकर्णिकायाः “नीलशुभ्रा महादेवी विकर्णी कलपूर्विका ।
कपालशक्तिहस्तेयं भयहृच्च शुभप्रदा” ।
  • वलविकर्णिकायाः “बभ्रुवर्णा विशालाक्षी कपालं जपमालिकाम् ।
पृष्ठ ३६९४
बिभ्राणा शान्तिदा भूत्यै बलपूर्वा विकर्णिका” ।
  • बलप्रमथन्याः “ताम्राभा श्वेतवर्णा स्यात् बलप्रमथनी
शुभा । कपालपाशिनी चेयं सर्वशत्रुक्षयङ्करी” ।
  • सर्वभूतदमन्याः “जवाकुसुमबर्णाभा दंष्ट्रिणी च महोदरी ।
कपालवज्रिणी भूतदमनी सर्वपूर्विका” ।
  • मनोन्मन्याः विश्वकर्मशास्त्रात् “नीलताम्रारुणाभासा पृथुवक्त्रा
मनोन्मनी । कपालखड्गिनी भूत्यै शत्रूणां
भयवर्द्धनी” ।
  • कृष्णायाः मार्कण्डेयपुराणे “अक्षसूत्रञ्च कुण्डीं च हृदयाग्रे
पुटाञ्जलिम् । पञ्चाग्निकुण्डमध्यस्था कृष्णान्तामनुधारयेत्”
  • उमायाः “अक्षसूत्रञ्च कमलं दर्पणञ्च कमण्डलुम् । उमा
विभर्त्ति हस्तैस्तु पूजिता त्रिदशैरपि” ।
  • पार्वत्याः “अक्षसूत्रं शिवं देवगणाध्यक्षं कमण्डलुम् । अग्नि-
गुण्डद्वयं पार्श्वे पार्वती पर्वतोद्भवा” ।
  • महाकाल्याः विष्णुधर्मोत्तरात् “सा भिन्नाञ्जनसङ्काशा
दंष्ट्राङ्कितवरानना । विशाललोचना नारी बभूव
तनुमध्यमा । खड्ग, पात्र--शिरः खेटैरलङ्कृतचतुर्भुजा ।
कबन्धहारंशिरसा बिभ्राणां हि शिरःस्रजम्” ।
  • वारुणीचामुण्डायाः विष्णुधर्मोत्तरे “लम्बोदरी तु कर्त्तव्या
रक्ताम्बरपयोधरा । शूलहस्ता महाभागा भुजप्रहरणा
तथा । कार्पासकलुषा देवी वारुणी चातिसुन्दरी ।
वृहन्नखा च कर्त्तव्या बहुवाहुस्तथैव च । चामुण्डा
कथिता चैव सर्वसत्ववशङ्करी” ।
  • शिवदूत्याः मत्स्यपुराणे “तथैवार्त्तमुखी शुष्का शुष्ककाया
विशेषतः । बहुबाहुयुता देवी भुजगैः परिवेष्टिता ।
कपालमालिनी भीमा तथा खट्वाङ्गधारिणी । शिवदूती
तु कर्त्तव्या शृगालवदना शुभा । आलीढासनसंस्थाना
तथा राजंश्चतुर्भुजा । असृक्षात्रधरा देवी खड्ग-
शूलधरा तथा । चतुर्थस्तु करस्तस्यास्तथाकार्यस्तु सामिषः”
  • कात्यायन्याः मयदीपिकायाम् “कात्यायन्याः प्रवक्ष्यामि रूपं
दशभुजं तथा । त्रयाणामपि देवानामनुकारानुकारिणीम् ।
जटाजूटसमायुक्तामर्धेन्दुकृतलक्षणाम् । लोचनत्रयसंयुक्तां
पूर्णेन्दुसदृशाननाम् । अतसीपुष्पसङ्काशां सुप्रतिष्ठां
सुलोचनाम् । नवयौवनसम्पन्नां सर्वाभरणभूषिताम् ।
सुचारुदर्शनां, तद्वत्पीनोन्नतपयोधराम् । त्रिभङ्गस्थान-
संस्थानां महिषासुरमर्द्दिनीम् । त्रिशूलं दक्षिणे दध्यात्
खडगञ्चक्रं तथैव च । तीक्ष्णवाणं तथा शक्तिं वामतो
विनिबोधत । खेटकं पूर्णपात्रञ्च पाशमङ्गुशमेव च ।
घण्टाञ्च परशुञ्चापि चामरं सन्निवेशयेत् । अधस्ताम्म-
हिषं विद्याद्द्विशिरस्कं प्रदर्शयेत् । शिरश्छेदोद्भवं
तद्वद्दानवं खड्गपाणिनम् । हृदि शूलेन निर्भिन्नं
निर्यदन्त्र विभूषणम् । रक्तरक्तीकृताङ्गञ्च रक्तविस्तारि-
तेक्षणम् । वेष्टितं नागपाशेन भृकुटीभीषणाननम् ।
सपाशवामहस्तेन धृतकेशञ्च दुर्गया । वमद्रुधिरव-
क्त्रञ्च देव्याः सिंहं प्रदर्शयेत्” ।
  • अम्बिकायाः लक्षणसमुच्चये “सिंहारूढाम्बिका त्र्यक्षा भूषिता
दर्पणोद्वहा” । (वामभुजे दर्पणोद्वहा दक्षिणे वरयुक्ता
यदुक्तम् । “दक्षिणे तु करे प्रोक्तोवरः साधारणः सदा”)
खड्गखेटधरा द्वाभ्यां कर्तव्या च चतुर्भुजा” ।
  • योगेश्वर्य्याः “दशबाहुस्त्रिनेत्रा च शस्त्रशक्त्यसिडामरुम् ।
बिभ्रती दक्षिणे हस्ते वामे घण्टाञ्च खेटकम् । खट्वा-
ङ्गञ्च त्रिशूलञ्च देवी योगेश्वरी मता” ।
  • भैरव्याः विश्वकर्मशास्त्रात् “एवंरूपा भवेदन्या पाशाङ्कुश-
युतारुणा । भैरव्याख्या यदीष्टा तु भुजैर्द्वादशभिर्युता”
  • रम्भायाः देवीपुराणे “कमण्डल्वक्षसूत्रे च बिभ्रती वज्र-
मङ्कुशम् । गजासनस्थिता रम्भा सुरूपा सर्वकामदा” ।
  • शिवायाः “शिवा वृषासना कार्या त्रिनेत्रा वरपाणिका ।
डमरूरगधारी च त्रिशूलाऽभयदायिका” ।
  • कीर्तेः “सुमध्याङ्कारयेत् कीर्तिं नीलोत्पलव्यवस्थिताम् ।
सर्वाभरणभूषाङ्गीं कलसोत्पलधारिणीम् । मदिरौदन-
गन्धाढ्या महार्घमणिभूषणा” ।
  • सिद्धेः “सिद्धिर्देवी प्रकर्तव्या सिद्धार्थकवरप्रदा ।
सितचन्दनगन्धाढ्या सितपङ्कजभूषिता । सितासनस्थिता
देवी प्रतिहारोपशोभिता ।
  • ऋद्धेः “सुन्दरीङ्कारयेदृद्धिं पर्यङ्कासनसंस्थिताम् । दर्पणा-
लोकसुरतां तिलकालकभूषिताम् । मालाचामरशोभाढ्यां
वेणुवीणासदाप्रियाम्” ।
  • क्षमायाः “क्षमा तु सुमुखी कार्य्या योगपट्टोत्तरीयका ।
पद्मासनकृताधारा वरदोद्यतपाणिका । शूलमेखलसंयुक्ता
प्रशान्ता योगसंस्थिता” ।
  • वैष्णव्याः “सुसिद्धा वैष्णवी कार्य्या शङ्खचक्रगदाम्बुजा ।
वनमालाकृतापीडा पीतवस्त्रा सुशोभिता” ।
  • ऐन्द्र्याः “ऐन्द्री सुरवराध्यक्षा गजराजोपरिस्थिता ।
वज्राङ्कुशधरा देवी हारकेयूरभूषिता” ।
  • याम्यायाः “वैवस्वती प्रकर्तव्या दुर्द्धरा महिषोपरि ।
शूकरास्या कपालेऽसृक् पिबन्ती दण्डधारिणी” ।
पृष्ठ ३६९५
  • दीप्तेः “तेजोऽधिका प्रकर्तव्या दीप्तिश्चन्द्रासनस्थिता” ।
  • रतेः “कमनीया रतिः कार्या वसन्तोज्ज्वलभूषणा । नृत्य-
माना शुभा देवी समस्ताभरणैर्युता । वीणावादनशीला
च मदकर्पूरचर्चिता । दण्डाक्षसूत्रधरा च व्रतस्था-
योगसंस्थिता” ।
  • श्वेतायाः “श्वेता पूर्णेन्दुसदृशा श्वेतपङ्कजसंस्थिता” ।
  • भद्रायाः “भद्रा सुभद्रा कर्तव्या भद्रासनव्यवस्थिता । नीलो-
त्पलफलहस्ता शूलसूत्राक्षधारिणी” ।
  • मङ्गलायाः “सिंहासनस्थिता देवी जटामुकुटमण्डिता ।
शूलाक्षसूत्रधरा च वरदाभयचापधृक् । दर्पणं शरखेटञ्च
खड्गचन्द्रधरा शिवा । सुरूपा लक्षणोपेता सुस्तनी
चारुहासिनी । सर्वाभरणभूषाङ्गी सर्वशोभासमन्विता” ।
  • जयाविजययोः “जयाञ्च विजयां कुर्यात् शूलपद्माक्षधारि-
णीम् । वरोद्यताञ्च सिंहस्थां सर्वकर्मप्रसाधिनीम्” ।
  • काल्याः “काली करालरूपा च चण्डपाशोद्यता भवेत्” ।
  • घण्टाकर्ण्याः “घण्टाकर्णी प्रकर्तव्या घण्टात्रिशूलधारिणी” ।
  • जयन्त्याः “जयन्ती सुन्दरी कार्य्या कुन्तशूलासिधारिणी ।
खेटकव्यग्रहस्ता च पूजनीया शुभान्वितैः” ।
  • दितेः “दितिर्दैत्यनुता देवी सदा पूज्या महामुने! । दण्डा-
सनस्थिता भद्रा सर्वाभरणभूषिता । फलनीलोत्पलकरा
चोत्सङ्गशिशुभूषिता” ।
  • अरुन्घत्याः “अक्रोधाऽरुन्घती देवी सितवस्त्रा व्रतस्थिता ।
पत्रपुष्पोदककरा चन्दनेन सुचर्चिता” ।
  • अपराजितायाः “अपराजिता च कर्तव्या सिंहारूढा
महाबला । पिनाकेषुकरा चैव खड्गखेटकधारिणी ।
त्रिनेत्रेन्दुजटाभारा कृतवासुकिकङ्कणा” ।
  • कौमार्य्याः “कौमारी चैव कर्तव्या मयूरासनशक्तिभृत् ।
त्रिदण्डीकालरूपा च रक्तमाल्या सकुक्कुटा” ।
चतुःषष्टियोगिनीरूपाणि मयदीपिकायां
  • १ अक्षोभ्यायाः “वज्रास्याऽभयभृद्याम्ये करे सा खेटभृत्ततः ।
हेमभूषणभूषा स्यादक्षोभ्या करिसंस्थिता” ।
  • २ ऋक्षकर्ण्याः “ऋक्षकर्णी तु गौराङ्गी कम्बुवाणाभयावहा ।
धनुःकपालभृत् सौम्ये ऋक्षस्था तर्जनीस्थिता” ।
  • ३ राक्षस्याः “राक्षसी हेमवर्णा स्याच्चारुगात्री वृषस्थिता ।
कुठाराशनिभृद्याम्ये वामे पाशाङ्कुशान्विता” ।
  • ४ क्षपणायाः “क्षपणा चम्पकच्छाया दक्षिणे मुद्गराङ्कुशो ।
कपालञ्च फलं सव्ये धत्ते कुञ्जास्थिसंस्थिता” ।
  • ५ क्षयायाः “क्षया कूर्मस्थिता गौरी जपस्था सा घटान्विता । वामे
कपालपिण्डाभृत्सर्वालङ्कारभूषिता” । (जपस्था जपपरा)
  • ६ पिङ्गाक्ष्याः “पिङ्गाक्षी स्याद्बभ्रुवर्णा त्रिनेत्रा च
हयस्थिता । कौशेयपाशभृद्याम्ये वामे चाङ्कुशखेटिनी” ।
  • ७ अक्षयायाः “अक्षया हेमवर्णा स्याच्चारुगात्री वृकस्थिता ।
कुठारखड्गभृद्याम्ये वामे पाशाङ्कुशान्विता” ।
  • ८ क्षेमायाः “क्षेमा तु शवगा पीता शक्तिभिन्दीधनुःकरा ।
याम्ये डमरुशूलेषुवस्तभृत् मृगसंस्थिता” ।
  • ९ बालायाः “शक्तिखड्गधरा त्र्यक्षा खेटपाशकपालिनी ।
रक्ता वह्निस्थिता वाला क्रीड़न्ती दहनैः सह” ।
  • १० लीलायाः “लीला लीलावती रक्ता दक्षपाणिजयान्विता ।
बिभ्राणा पट्टिशम्पाशं वामे मस्तार्द्धमम्बुजम्” ।
  • ११ लयायाः “वृषारूढा जया रक्ता याम्ये दण्डासिधा-
रिणी । कर्त्तरीकार्द्धभृद्वामे तर्जन्यासक्तसिक्थका” ।
  • १२ लोलायाः “कर्तरी मार्जनी याम्ये सौम्ये पीडनकङ्करे ।
शूलं रुरुयुतं धत्ते लोला तु खरगा सदा” ।
  • १३ लङ्कायाः “वामे लुलापमुण्डञ्च तत् पिवन्त्यसृक्रक्तिका ।
लङ्केशोरःस्थिता लङ्का खादन्ती पिशितङ्घनम्” ।
  • १४ लङ्केश्वर्य्याः “त्रिफलाशाकखोटोदामोदकाशी च दक्षिणे ।
शोणा लङ्केश्वरी कुम्भे डिम्बस्रुचौ बिभ्रती” ।
  • १५ लालसायाः “दक्षिणे वरदं चक्रं वामे कङ्कणकङ्करे ।
बिभ्राणा कोलगा रक्ता लालासृग्लालसा मता” ।
  • १६ विमलायाः “द्वीपिस्था विमला रक्ता त्र्यक्षाऽलङ्कारभू-
पिता । कर्तरीकुम्भभृद्याम्ये वामे पाशकपालिनी” ।
  • १७ हुताशनायाः “कृष्णा हुताशनाब्जस्था ज्वालिनी दक्षिणे
शुभा । वामे त्वभयहस्ता स्याद्विष्टराज्यघटान्विता” ।
  • १८ विशालाक्ष्याः “शूकरास्या विशालाक्षी त्रिसन्ध्यस्था सिते-
तरा । घण्टावाद्यधरा सौम्ये याम्ये कर्तरिकाभया”
  • १९ हुङ्कारायाः “हुङ्कारा मीनवक्त्रा स्यात् मीनगा साक्षमा-
लिनी । मुषलं बिभ्रती वामे सौम्ये तु फलपल्लवौ” ।
  • २० बडवामुख्याः “अङ्काभ्यां बिभ्रती बालौ पर्यङ्के बडवा-
मुखी । समत्स्यकूर्मभृद्याम्ये कृष्णा नीलधरान्यतः” ।
  • २१ हाहारवायाः “तर्ज्जन्यभयभृत्सौम्ये याम्ये दण्डकपा-
लिनी । कृष्णा हाहारवा क्रूरा रासभस्था खरस्मिता” ।
  • २२ महाक्रूरायाः “लुलापास्या लुलापस्था महाक्रूरा सिते-
तरा । वामेऽस्याः पाशमालाब्जं दक्षिणे दण्डलेखनी” ।
  • २३ क्रोधनायाः “असिता क्रोधना याम्ये खादन्ती मांसम-
ण्डकम् । वामे विद्युज्जिह्वा क्रूरा सव्ये सीरकपालिनी”
चक्रस्थाऽऽकण्ठमदिरां बिभ्रती जम्बुकस्थिता” ।
पृष्ठ ३६९६
  • २४ भयाननायाः “कृष्णा भयानना गृध्रीदंष्ट्रोग्रास्थिविभू-
षणा । याम्ये स्यात् शिखरं शूलं घर्घरं लेलिहान्यतः” ।
  • २५ सर्वज्ञायाः “त्रिशूलपृष्ठभृद्वामे मुण्डं डमरुकं शवम् ।
विभ्राणा भाजनं द्वाभ्यां सर्वज्ञा प्रेतगाऽसिता” ।
  • २६ तरलायाः “जानुक्षिप्तौ करौ कृत्वा उद्यन्ती तरलायते ।
शूलडमरुहस्ता च गोधास्था तरलाऽसिता” ।
  • २७ तारायाः “तारा तारगुणैर्युक्ता कौशिकस्था सितेतरा ।
धत्ते शवार्द्धके सौम्ये शूलमुद्गरमन्यतः” ।
  • २८ कृष्णायाः “कृष्णा पद्मस्थिता दक्षे ज्ञानमुद्राक्षमालिनी ।
ऋग्वेदं वामतो धत्ते पुस्तकञ्च कमण्डलुम्” ।
  • २९ हयाननायाः “रौद्रा कृष्णा तुरङ्गास्या कबन्धस्था
हयानना । मुण्डशूर्पधरा याम्ये सौम्ये संहारिकाङ्कभृत्” ।
  • ३० रससंग्राह्याः “छिन्नहस्ता शवाकृष्टा सारा स्थूला
जटाधरा । खट्वाङ्गं डमरुं सौम्ये शूलोल्के बिभ्रती ततः ।
शवस्था रससंग्राही नृत्यन्ती जटिलाऽसिता । कुशूलान्
चक्रकङ्कालान् बिभ्रती चर्मवासिनी” ।
  • ३१ शबरायाः “सवेदनद्विजासक्ता वरिष्ठा शवराऽलिभा ।
वामे करोपधानासिधारा उल्काधरान्यतः” ।
  • ३२ तालुजिह्विकायाः “स्फटिकाभा गरुत्मस्था सुकान्ता तालु-
जिह्विका । शङ्खखेटकहस्ताग्रा याम्ये स्वस्तिकखड्गभृत्”।
  • ३३ रक्ताक्ष्याः “रक्ताक्षी वाहमारूढा रक्तपाना शशिप्रभा ।
गदाखड्गधरा याम्ये वामे पाशकपालभृत्” ।
  • ३४ सुप्रसिद्धायारूपवाक्यं मुद्रितपुस्तके पतितं मयदीपिकायां दृश्यम् ।
  • ३५ विद्युज्जिह्वायाः “विद्युज्जिह्वाऽसिता क्रूरा सव्ये सीरक-
पालिनी । चक्रस्था चक्रकर्तरीधारिणी दक्षिणे करे” ।
  • ३६ करङ्किण्याः “ग्राहस्था चामरच्छत्रभृद्दृतिद्वयसंयुता ।
कुम्भपाशधरा श्वेता क्रोधयुक्ता करङ्किणी” ।
  • ३७ मेघनादायाः “मेघनादा तु चन्द्राभा खड्गखेटकधा-
रिणी । जालैर्वृता घनारूढा तड़िन्मण्डसन्निभा” ।
  • ३८ प्रचण्डोग्रायाः “प्रचण्डोग्रा तु नक्रस्था याम्येऽस्याः कर्त्त-
रीफलम् । कपालं मुण्डमन्यत्र शत्रुघ्नी स्फटिकप्रभा” ।
  • ३९ कालकर्ण्याः “शुक्ला वृषासना रौद्रा बिभ्रत्यब्जाक्षसूत्रकम् ।
कालकर्णी जगत्ख्याता कर्णिकारविभूषणा” ।
  • ४० चन्द्रावल्याः “चन्द्रावली तु हेमाभा हेमसिंहासनस्थिता ।
याम्येऽक्षमाला मालाभृत् शेषेऽब्ज--ध्वजधारिणी” ।
  • ४१ चन्द्रहासायाः “चन्द्रहासा स्थिता गौरी वेदास्या दोर्द्वयोः
क्रमात् । कमण्डल्वङ्कुशव्यग्रा मन्त्रमालास्रु चान्विता” ।
  • ४२ वरप्रदायाः “कर्त्तरीमभयं याम्ये धत्ते श्वेता वरप्रदा ।
वृषदंशसमारूढा पूर्णपात्रधरान्यतः” ।
  • ४३ प्रपञ्चिकायाः “फलस्रगन्विता याम्ये कुन्त--कुण्डीधरा-
न्यतः । रौक्ममाला प्रपञ्चास्या गौरी विश्वप्रपञ्चिका ।
  • ४४ प्रलयान्तायाः “मर्कटस्था प्रलयान्ता बिभ्रती करयोर्द्वयोः ।
खादन्त्याम्रफलं हृष्टा गौराङ्गी वानरानना” ।
  • ४५ शिशुवक्त्रायाः “शिशुवक्त्रा मृगालीढा पिङ्गाभा याम्यसौ-
म्ययोः । भिन्दीपालकखेटाभ्यां पाशासिभ्याञ्च संयुता ।
  • ४६ पिशाच्याः “काकास्या श्येनगा गौरी पिशाची रक्तम-
ण्डिता । कङ्काल--कर्त्तरीखड़्गं विभ्रती याम्यसौ-
म्ययोः” ।
  • ४७ पिशिताशायाः “फल--तूणधरा वामे सौम्ये--शस्त्रासि-
धारिणी । खड्गस्था बभ्रुवर्णा स्यात् पिशिताशाति-
दुर्बला” ।
  • ४८ लोलुपायाः “नृत्यन्ती लोलुपा पीना खरस्था याम्यसौ-
म्ययोः । खड्गडमरुकर्त्तरीः पाशञ्चैव तु बिभ्रती” ।
  • ४९ धमन्थाः “धमनी पुष्पकस्था स्यात् गौरी यक्षगणान्विता ।
गदापट्टिशमृत्सौम्ये स्थूलतोमरिणी ततः” ।
  • ५० तपन्याः “तपनी सर्पगा गौरी वराङ्गी पन्नगानना ।
स्वकर्णयानयोर्भोगे न्यस्तहस्तोग्ररूपिणी” ।
  • ५१ वामन्याः “पीता महाखुगा सा स्यात् वामनी बिभ्रती
करे । कुठारं लगुडं वामेऽक्षमालां पनसन्ततः” ।
  • ५२ विकृताननायाः “शूलभिन्नलुलापास्या सिंहाकृष्टशरीरिणी ।
जिह्वे द्वे बिभ्रती चैव चतुर्दोर्विकृतानना” ।
  • ५३ वायुवेगायाः “शङ्खपूरणिका द्वाभ्यां वृकाभयधरा
द्वयोः । द्विसिंहरथसंस्था स्यात्तालाभा वायुवेगिका” ।
  • ५४ वृहत्कुक्षेः “भासस्थिता वृहत्कुक्षिः सौम्ये मुण्डकपाल-
भृत् । गौरी महातनुर्याम्ये कर्त्तरीपट्टिकाधरा” ।
  • ५५ विकृतायाः “उष्ट्रस्था विकृता गौरी भयकृद्विकृतानना ।
तूणञ्च डमरुं याम्ये सौम्ये खड्गार्द्धमस्तकम्” ।
  • ५६ विश्वरूपिकायाः “खेटक खड्भृद्वामे गदा--चक्रास्त्रभृ-
त्ततः । वनमालावती पोता तार्क्ष्यस्था विश्वरूपिका” ।
  • ५७ यमजिह्वायाः “मुसलं मुद्गरं याम्ये परशुम्बन्धनं ततः ।
बिभ्रती यमजिह्वा स्यात् कराला महिषस्थिता” ।
  • ५८ जयन्त्याः “नृत्यन्ती खरगा श्वेता याम्ये डमरुतूणभृत् ।
सदैत्यशैलमुण्डोग्रा जयन्ती वामहस्तयोः” ।
  • ५९ ८ दुर्जयायाः “श्वारूढा दुर्जया श्वेता रौद्री भूतगणावृता ।
खड गकुन्तोद्यतकरा दुर्गकाननवासिनी” ।
पृष्ठ ३६९७
  • ६० यमान्तिकायाः “असकृत् खेटिनी दोर्भ्यां चतुर्दोर्य्याम्यसौ-
म्ययोः । शूलवाणधरा याम्ये धनुःशक्तिकरान्यतः ।
शकटस्थातिघोरास्या क्षीरवर्णा यमान्तिका” ।
  • ६१ विडाल्याः “मार्ज्जारस्था विडाली च विडालाक्षी भवेत्
सिता” ।
  • ६२ रेवत्याः “वामे तूणञ्च खट्वाङ्गं शूलं टङ्कञ्च बिभ्रती । कृशा
पिशाचवक्त्रोग्रा कपालस्था च रेवती” ।
  • ६३ पूतनायाः “कुशूलयष्टिभृद्वामे मिन्दीपालकपालभृत् ।
कुण्डाभा पूतना त्र्यक्षा विकृतास्या शवस्थिता” ।
  • ६४ विजयन्तिकायाः “कर्त्तरीशूलभृद्याम्ये वामे मुण्डकपा-
लिनी । श्वेतवर्णा वृषारूढा विजया विजयप्रदा” ।
  • ब्रह्मणः विष्णुधर्मोत्तरात् “ब्रह्माणं कारयेद्विद्वान् देवं सौम्यं
चतुर्भुजम् । बद्धपद्मासनन्तुष्टं तथा कृष्णाजिनाम्बरम् ।
जटाधरं चतुर्बाहुं सप्तहंसरथस्थितम् । वामे न्यस्ते-
तरकरन्तस्यैकन्दोर्युगं भवेत् । एतस्मिन् दक्षिणे पाणा-
वक्षमाला तथा शुभा । कमण्डलुं द्वितीये च सर्वाभरण-
धारिणम् । सर्वलक्षणयुक्तस्य शान्तिरूपस्य पार्थिव! ।
प्रद्मपत्रदलाग्राभं ध्यानसंमीलितेक्षणम् । अर्च्चायाङ्का-
रयेदेवं चित्रे वा वास्तुकर्मणि” ।
  • आदित्यपुराणे तु “पद्मपत्रासनस्थश्च ब्रह्मा कार्यश्चतुर्मुखः ।
साव्रित्री तस्य कर्तव्या वामोत्सङ्गगता तथा” ।
  • प्रजापतेः “आदित्यवर्णं धर्मज्ञ! साक्षमालाकरं तथा । रूपं
पूर्वोदितं कार्यं रूपमन्यज्जगत्पतेः” ।
  • लोकपालब्रह्मणः “हंसयानेन कर्तव्यो न कार्यश्च चतुर्मुखः ।
ब्रह्माख्यमपरं रूपं सर्वकार्ये प्रजापतेः । अक्षसूत्रं
पुस्तकञ्च धत्ते पद्मं कमण्डलुम् । चतुर्वक्त्रा तु सावित्री
श्रोत्रियाणां गृहे हिता” ।
  • विश्वकर्मणः “विश्वकर्मा तु कर्तव्यः सुरसूत्रधरः प्रभुः । सन्दं-
शपाणिर्द्विभुजस्तेजोमूर्तिधरो महान्” ।
  • घर्मस्य “चतुर्वक्त्रश्चतुष्पादश्चतुर्बाहुः सिताम्बरः । सर्वाभरण-
वान् श्वेती धर्मः कार्यो विजानता । दक्षिणे चाक्षमाला
च तस्य वामे च पुस्तकम् । मूर्तिमान् व्यवसायस्तु कार्यो
दक्षिणभागतः । वामभागे ततः कार्यो वृषः परमरूप-
वान् । कार्यौ पद्मकरौ मूर्धि विन्यस्तौ तु तथा तयोः” ।
  • ऋग्वेदस्य विश्वकर्मशास्त्रात् “ऋग्वेदः श्वेतवर्णः स्यात् द्विभुजो
रासभाननः । अक्षमालाधरः सौम्यः प्रीतश्चाध्ययनोद्यतः” ।
  • सामवेदस्य “नोलोत्पलदलाभासः सामवेदो हयाननः ।
अक्षमालान्वितो दक्षे वामे कम्बूधरः स्मृतः” ।
  • यजुर्वेदस्य “अजास्यः पीतवर्णः स्यात् यजुर्वेदोऽक्षसूत्रधृक् ।
वामे कुलिशपाणिस्तु भूतिदो मङ्गलप्रदः” ।
  • अथर्ववेदस्य “आथर्वणाभिधो वेदो धवलो मर्कटाननः । अक्ष-
सूत्रञ्च खट्वाङ्गं विभ्राणोऽयं जयप्रियः” ।
  • शिक्षायाः “शिक्षा शुभ्राभयकरा ज्ञानमुद्रान्विता शुभा ।
साक्षसूत्रा सकुण्डीका द्विभुजा दण्डपङ्कजा” ।
  • कल्पस्य “कल्पस्तु कुमुदाभासो वायसास्यो महोदरः । दण्डी
कुण्डीधरीऽब्जस्थो मेखलाकुण्डलान्वितः” ।
  • व्याकरणस्य “सितं व्याकरणं ज्ञेयं मयूरास्यं धटोदरम् ।
वीणाकजान्वितं दिव्यं दिव्यवस्त्रविभूषितम्”
  • निरुक्तस्य “इन्दुवन्निर्मलं शान्तं वकवक्त्रं कृशोदरम् ।
पाशपङ्कजहस्तं स्याच्चाक्षसूत्रं सपुस्तकम् । नरुक्तमिति
निर्णीतं छन्दोनिर्णीयतेऽधुना” ।
  • छन्दसः “जवाकुसुमसंकाशं छन्दो ज्ञेयं विपश्चिता । चकोरा-
स्यञ्जपाक्षन्तु शक्तिं बिभ्रच्छिखान्विताम् । लोहकुण्डल-
कोपेतं प्रवालकृतकुण्डलम्” ।
  • ज्योतिषस्य “ज्योतिषं तु विड़ालास्यमिन्द्रगोपनिभं शुभम् ।
अक्षसूत्रं कजं बिभ्रद्धस्तयोर्दक्षवामयोः” ।
  • मीमांसायाः “सोमकान्तिसमाभासं मीमांसाशास्त्रमुत्तमम् ।
अक्षसूत्रं दधद्दक्षे सुधापूर्णघटं करे” ।
  • न्यायस्य “अतसीपुष्पसङ्काशो न्यायो ज्ञेयो विपश्चिता ।
सिंहास्यो दक्षिणे सूत्रं ध्वजं वामकरे दघत्” ।
  • धर्मशास्त्रस्य “धर्मशास्त्रं सितं शान्तं चाषवक्त्रं कजासनम् ।
मुक्ताजपाक्षभृद्दक्षे तुलाहस्तन्तु वामतः” ।
  • पुराणस्य “पुराणं चम्पकाभासं शुकवक्त्रं चतुर्दलम् । अक्ष-
सूत्रं द्वये ज्ञेयं नानाभरणभूषितम्” ।
  • इतिहासस्य “इतिहासः कजाभासः शूकरास्यो महोदरः ।
अक्षसूत्रं घटं बिभ्रत् पञ्चजाभरणान्वितः” ।
  • घनुर्वेदस्य “पीतवर्णो धनुर्वेदः पिकवक्त्री महातनुः । रत्न-
मालावलिं धत्ते मस्तके भूषिता जटा” ।
  • आयुर्वेदस्य “आयुर्वेदो हरिद्राभो वानरास्यो विशालदृक् ।
अक्षसूत्रं सुधाकुम्भं बिभ्रदारोग्यदो भृशम्” ।
  • नृत्यशास्त्रस्य “नृत्यशास्त्रं सितं रम्यं मृगवक्त्रं जटाध-
रम् । अक्षसूत्रं त्रिशूलञ्च बिभ्राणञ्च त्रिलीचनम्” ।
  • पञ्चरात्रस्य “पञ्चरात्राभिधं शास्त्रं धबलं वृषभाननम् । अक्ष-
सूत्रं हलं घत्ते वनमालाविभूषितम्” ।
  • पाशुपतस्य “शास्त्रं पाशुपतं शुभ्रं व्यालवक्त्रं कृशोदरम् ।
सूत्रपात्रधरं भीमं व्याघ्रचर्माम्बरावृतम्” ।
पृष्ठ ३६९८
पातञ्जलस्य “पातञ्जलाभिधं रक्तं सर्पवक्त्रं सुतेजसम् ।
अक्षसूत्रं पृदाकुञ्च धारयन् कुण्डलान्वितम्” । (पृदाकुः
सर्पः) ।
  • साङ्ख्यस्य “साङ्ख्यं तत् कपिलं बभ्रुवक्त्रमुज्वलतुन्दिलम् ।
जाप्यदण्डधरं दीर्घनखलोमजटाघरम्” ।
  • अर्थशास्त्रस्य “अर्थशास्त्रं भवेद्गौरं सारिकावदनं शुभम् ।
अक्षसूत्रं फलं बिभ्रदन्नहारं कमण्डलुम्” ।
  • प्रसङ्गाद्वेदादीनामधिदेवताः तत्रोक्ताः प्रदर्श्यन्ते विष्णुधर्मो-
त्तरात् “ऋग्वेदस्तु स्मृतो ब्रह्मा यजुर्वेदस्तु वासवः ।
सामवेदस्तथा विष्णुः शम्भुश्चाथर्वणो भवेत् । शिक्षा
प्रजापतिर्ज्ञेयः कल्पो ब्रह्मा प्रकीर्तितः । सरस्वती व्या-
करणं निरुक्तं वरुणः प्रभुः । छन्दो विष्णुस्तथैवाग्नि-
र्ज्योतिषं भगवान् रविः । मीमांसा भगवान् सोमी
न्यायदेवः समीरणः । घर्म्मश्च धर्म्मशास्त्राणि पुरा-
णञ्च तथा मनुः । इतिहासः प्रजाध्यक्षो धनुर्वेदः
शतक्रतुः । आयुर्वेदस्तथा साक्षाद्देवो धन्वन्तरिः प्रभुः ।
कलावेदो मही देवी नृत्यशास्त्रं महेश्वरः । सङ्कर्षणः
पञ्चरात्रं रुद्रः पाशुपतं तथा । पातञ्जलमनन्तश्च
साङ्ख्यञ्च कपिलो मुनिः । अर्थशास्त्राणि सर्वाणि
धनाध्यक्षः प्रकीर्तितः । कलाशास्त्राणि सर्वाणि कामदेवो
जगद्गुरुः । अन्यानि यानि शास्त्राणि यत् कर्म्माणि
प्रचक्षते । स एव देवता तस्य शास्त्रं कार्यञ्च देववत्” ।
  • ऋषीणाम् मयसंग्रहे “उदासीना सोपवीताः कमण्डल्वक्षसू-
त्रिणः । जटिलाः श्मश्रुलाः शान्ताः आसीना ध्यानतत्
पराः । सप्तर्षयो वसिष्ठश्च काया भार्य्यासमन्वितः ।
गौतमश्च भरद्वाजो विश्वामित्रश्च कश्यपः । जमदग्निर्वसिष्ठोऽत्रिः
सप्त वैवस्वतेऽन्तरे । मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः
क्रतुः । प्रचेताश्च वसिष्ठश्च भृगुर्नारद एव च । जटिलाः
श्मश्रुलाः शान्ताः कृशा धमनिसन्तताः । कुसुम्भाक्षधराः
कार्य्या मुनयो द्विभुजा दश” ।
  • नारदस्य “नारदो देवगन्घर्वः साक्षसूत्रकमण्डलुः । सेव्यो वै
वीणया वामभुजमूलीपगूढया” ।
  • मुनीनाम् भविष्योत्तरात् “प्रकृत्या काञ्चनं कृत्वा यथा शक्त्या
तु शीभितम् । पुरुषाकृतिं प्रशान्तञ्च जटामञ्जुल-
धारिणम् । कमण्डलुकरं शिष्यैर्मृगैश्च परिवारितम् ।
मृत्युध्रुग्विषहन्तारं दर्भहस्तं वरं मुनिम” ।
  • भृगूणाम् “कर्तव्याः शक्ररूपेण भृगवो नाम देवताः । भुवनो
भावनश्चैव सुजन्यः सुजनस्तथा । क्रतुः सुवः स्वसुर्नाम
व्यजश्च व्यमुनस्तथा । प्रसवश्चाव्ययश्चैव दक्षो द्वादशक-
स्तथा । भृगवो नामनिर्दिष्टा देवा द्वादश यज्ञियाः” ।
  • अङ्गिरसः “जीवरूपेण कर्तव्या देवाश्चाङ्गिरसस्तथा ।
आत्मा ह्यायुर्मनो दक्षः परप्राणस्तथैव च । हविष्यश्च
गविष्ठश्च ऋतः सत्यश्च तेजसः” ।
  • विष्णोः विष्णुधर्म्मोत्तरात् “देवदेवं यथा विष्णुं कारयेद्गरु-
डस्थितम् । कौस्तभोद्भासितोरस्कं सर्वाभरणघारिणम् ।
सजलाम्बुदसच्छायं पीतदिव्याम्बरं तथा । मुखानि
चास्य चत्वारि बाहवो द्विगुंणास्तथा । सौम्येन्दु-
वदनं पूर्वं नारसिंहन्तु दक्षिणम् । कपिलं पश्चिमं
वक्त्रं तथा वाराहमुत्तमम् । तस्य दक्षिणहस्तेषु वाणा-
रिमुसलाभयम् । चर्मसीरवराविन्दुर्वामे च वनमा-
लिनः । कार्य्याणि विष्णोर्द्धर्मज्ञ! वामहस्तेष्वनुक्रमात्” ।
(अरि, चक्रं इन्दुः शङ्खः) ।
  • लोकपालविष्णोः “एकवक्त्री द्विवाहुश्च गदाचक्रधरः प्रभुः ।
  • वासुदेवस्य “एकवक्त्रश्चतुर्बाहुः मौम्यरूपः सुदर्शनः । पीता-
म्बरश्च मेघाभः सर्वाभरणभूषितः । कण्ठेन शुभदे-
शेन कम्बुतुल्येन राजता । वराभरणयुक्तेन कुण्डलो-
त्तरभूषिणा । अङ्गदी वद्धकेयूरो वनमालाविभूषणः ।
उरसा कौस्तुभं बिभ्रत् किरीटं शिरसा तथा । शिरः-
पद्मस्तथैवास्य कर्तव्यश्चारुकर्णिकः । पुष्टिश्लिष्टायतभुज-
स्तनुस्ताम्रनखाङ्गुलिः । मध्येन त्रिवलीभङ्गशोभितेन
सुचारुणा । स्त्रीरूपधारिणी क्षौणो कार्य्या तत्पादम-
ध्यगा । तत्करस्थाङ्घ्रियुगला देवः कार्य्यो जनार्दनः ।
तालान्तरपदन्यासः किञ्चिन्निष्क्रान्तदक्षिणः । अनुदृश्या
मही कार्या देवदर्शितविस्मिता । देवश्च कटिवासेन कार्यो
जान्ववलम्बिना । वनमाला च कर्त्तव्या देवजान्ववल-
म्बिनी । यज्ञोपवीतं कर्तव्यं नाभिदेशमुपागतम् ।
उत्फुल्लकमलं पाणौ कुर्याद्देवस्य दक्षिणे । वामपाणि-
गतं शङ्खं शङ्खाकारन्तु कारयेत् । दक्षिणे तु गदा
देवी तनुमध्या सुलोचना । स्त्रीरूपधारिणी मुग्धा
सर्वाभरणभूषिता । पश्यन्ती देवदेवेशं कार्या चामरधा-
रिणी । कुर्यात्तन्मूर्ध्नि विन्यस्तं देवहस्तन्तु दक्षिणम् ।
वामभागगतश्चक्रः कार्यो लम्बोदरस्तथा । सर्वामरण-
संयुक्तो वृत्तविष्फारितेक्षणः । कर्त्तव्यश्चामरकरो
देववीक्षणतत्परः । कुर्यात् देवकरं वामं विन्यस्त तस्य
मूर्द्ध्वनि ।
  • सङ्कर्षणस्य “वासुदेवस्वरूपेण कार्यः सङ्कर्षणः प्रभुः । स तु
पृष्ठ ३६९९
शुक्लवपुः कार्यो नीलबासा यदूचम! । गदास्थाने च
मुसलञ्चक्रस्थाने च लाङ्गलम् । कर्त्तव्यौ तनुमध्यौ तु
नृरूपौ रूपसंयुतौ” ।
  • द्युम्नस्य “वासुदेवस्वरूपेण प्रद्युम्नश्च तथा भवेत् । स तु
दूर्वाङ्कुरश्यामः सितवासा विधीयते । चक्रस्थाने
भवेच्चापो गदास्थाने तथा शरः । तथाविधौ तौ कर्त्तव्यौ
यथा मुसललाङ्गलौ” ।
  • अनिरुद्धस्य “एतदेव तथा रूपमनिरुद्धस्य कारयेत् । पद्मपत्रा-
भवपुषो रक्ताम्बरधरस्य तु । चक्रस्थाने भवेच्चर्म
गदास्थानेऽसिरेव च । चर्म स्याच्चक्ररूपेण प्रांशुः खड्गो
विधीयते । चक्रादीनां स्वरूपाणि किञ्चित्पूर्वं सुदर्श-
येत् । रम्याण्यायुधरूपाणि चक्रादीन्येव यादव! ।
वामपार्श्वगताः कार्या देवानां प्रवराध्वजाः । सुपताका-
युता राजन्! यष्टिस्थास्ते यथेरितम्” ।
  • लक्ष्मीनारायणयोः विश्वकर्मशास्त्रात् “लक्ष्मीनारायणौ कार्यौ
संयुक्तौ दिव्यरूपिणौ । दक्षिणस्था विमोर्मूर्त्तिर्लक्ष्मी-
मूर्तिस्तु वामतः । दक्षिणः कण्ठलग्नोऽस्या वामो हस्तः
सरोजभृत् । विभोर्वामकरो लक्ष्म्याः कुक्षिभागस्थितः
सदा । सर्वावयवसंपूर्णा सर्वालङ्कारभूषिता । सुष्ठु-
नेत्रकपोलास्या रूपयौवनसंयुता । सिद्धिः कार्या
समीपस्था चामरग्राहिणी शुभा । कर्तव्यं वाहनं सव्ये
देवाधीभागगं सदा । शङ्खचक्रधरौ तस्य द्वौ कार्य्यौ
पुरुषौ पुरः । वामनौ हारकेयूरकिरीटमणिभूषणौ ।
उपासकौ समीपस्थौ प्रभोर्व्रह्मशिवात्मकौ । रशनां
योगपट्टञ्च शिखामञ्जलिमास्थितौ” ।
  • योगेश्वरस्य सिद्धार्थसंहितायाम् “पद्मासनसमासीनः किञ्चिन्मी-
लितलोचनः । घोणाग्रे दत्तदृष्टिश्च श्वेतपद्मोपरिस्थितः ।
वामदक्षिणगौ हस्तौ उत्तानावेकभागगौ । तत्करद्वय-
पार्श्वस्थे पङ्केरुहमहागदे । ऊर्द्धे करद्वये तस्य पाञ्च-
जन्यः सुदर्शनः । योगस्वामी स विज्ञेयः पूज्यो मोक्षा-
र्थियोगिभिः” ।
  • चतुर्विंशतिमूर्त्तीनां लक्ष्माणि विष्णुधर्मोत्तरे उक्तानि
चतुर्विंशतिभूर्त्तिशब्दे २८७८ पृ० दर्शितानि
  • हंसमत्स्यकूर्माणाम् “हंसोमत्स्यस्तथा कूर्मः कार्यास्तद्रूपधा
रिणः । शृङ्गी मत्स्यस्तु कर्त्तव्यो देवदेवो जनार्दनः” ।
  • “वराहस्य “ऐश्वर्यसंनिरुद्धश्च वराहो भगवान् हरिः । ऐश्व-
र्यशक्त्या दंष्ट्राग्रसमुद्धृतवसुन्धरः । नृवराहोऽथ वा
कार्य्यः शेषोपरिगतः प्रभुः । शेषश्चतुर्भुजः कार्य्यः
चारुरत्नफणान्वितः । आश्चर्योत्फुल्लनयनो देववीक्षण-
तत्परः । कर्त्तव्यौ सीरमुसलौ करयोस्तस्य यादव! ।
सर्पभोगश्च कर्त्तव्यस्तथैव रविताञ्जलिः । आलीढस्था-
नसंस्थानस्तत्पृष्ठे भगवान् भवेत् । वामारत्निगता
तस्य योषिद्रूपा वसुन्धरा । नमस्कारपरा तस्य कर्त्तव्या
द्विभुजा शुभा । यस्मिन् भुजे धरा देवी तत्र शङ्ख-
करो भवेत् । अन्ये तस्य कराः कार्य्याः पद्मचक्रगदा-
धराः । हिरण्याक्षशिरश्छेदचक्रोद्वृत्तकरोऽथ वा ।
मृतोद्धृतहिरण्याक्षः सुमुखो भगवान् भवेत् । मूर्त्तिम-
न्तमनैश्वर्य्यं हिरण्याक्षं विदुर्बुधाः । ऐश्वर्येणाविनाशेन
स निरस्तोऽरिमर्दनः । नृवराहोऽथ वा कार्यो ध्याने
कपिलवत् स्थितः । द्विभुजस्त्वथ वा कार्यः पिण्डनि-
र्वपनोद्यतः । समग्रक्रोडरूपेण बहुदानवमध्यगः ।
नृवराहोवराहश्च कर्त्तव्यः क्ष्माविदारणः” ।
  • नरसिंहस्य “य एवं भगवान्विष्णुर्नरसिंहवपुर्द्धरः । ध्यान-
विधिः स एवोक्तः परमज्ञानवर्द्धनः । पीनस्कन्धकटि-
ग्रीवः कृशमध्यः कृशोदरः । सिंहाननो नृदेहश्च
नीलवासाः प्रभान्वितः । आलीढस्थानसंस्थानः सर्वाभरण-
भूषितः । ज्वालामालाकुलगुखो ज्वालाकेसरमण्डलः ।
हिरण्यकशिपोर्वक्षःपाटयन्नखरैः खरैः । नोलोत्पलाभः
कर्तव्यो देवजानुगतस्तथा । हिरण्यकशिपुर्दैत्यस्तमज्ञानं
विदुर्बुधाः” ।
  • वामनस्य “कर्त्तव्यो वामनो देवः सङ्कटैर्गात्रपर्वभिः । पीनगा-
त्रश्च कर्तव्यो दण्डी चाध्ययनोद्यतः । दूर्वाश्यामश्च कर्तव्यः
कृष्णाजिनघरस्तथा” ।
  • त्रिविक्रमस्य “सजलाम्बुदसङ्काशस्तथा कार्य्यस्त्रिविक्रमः । दण्ड-
पाशधरः कार्य्यः शङ्खचक्रगदाधरः । शङ्खचक्र-
गदापद्माः कार्य्यास्तस्य सरूपिणः । निर्देहास्ते न कर्तव्या
शेषं कार्यन्तु पूर्ववत् । एकोर्द्धवदनः कार्य्यो देवो विस्फा-
रितेक्षणः” ।
  • परशुरामस्य “कार्य्यस्तु भार्गवो रामो जटामण्डलदुर्दृशः ।
हस्तेऽस्य परशुः कार्य्यः कृष्णाजिनधरस्य तु” ।
  • रामादीनाम् “रामो दाशरथिः कार्यो राजलक्षणलालितः ।
भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महायशाः । तथैव सर्वे
कर्तव्याः किन्तु मौलिविवर्जिताः” ।
  • कृष्णस्य “कृष्णश्चक्रधरः कार्यो नो लोत्पलदलच्छविः । इन्द्रीवर-
धरा कार्या तस्य साक्षा च्च रूक्मिणी” ।
  • बलभद्रस्य “सीरपाणिर्बलः कार्यो मुसली चैव कुण्डली ।
श्वेतोऽतिनीलवसनो मदादञ्चितलोचनः” ।
पृष्ठ ३७००
  • प्रद्युम्नस्य “चापवाणधरः कार्यः प्रद्युम्नश्च सुदर्शनः ।
राजन्निन्द्रमणिश्यामः श्वेतवासा मदोत्कटः” ।
  • कामस्य “कामदेवस्तु कर्तव्यो रूपेणाप्रतिमो भुवि । अष्ट-
बाहुः प्रकर्त्तव्यः शङ्खपद्मविभूषणः । चापवाणकर-
श्चैव मदादञ्चितलोचनः । रतिः प्रीतिस्तथा शक्तिर्मद-
शक्तिस्तथोज्ज्वला । चतस्रस्तस्य कर्त्तव्याः पत्न्यो
रूपमनोहराः । चत्वारश्च करास्तस्य कार्या भार्यास्तनो-
पगाः । केतुश्च मकरः कार्यः पञ्चवाणमुखोमहान्” ।
  • अनिरुद्धसाम्बयोः “कर्त्तव्यश्चानिरुद्धोऽपि खड्गचर्मधरः
प्रभुः । साम्बः कार्यो गदाहस्तः सुरूपश्च विशेषतः ।
साम्बानिरुद्धौ कर्तव्यौ पद्माभौ रक्तवाससौ” ।
  • देवक्याः “पद्मपत्राग्रगौराभा कर्तव्या देवकी तथा” ।
  • यशोदायाः “मधूकपुष्पसच्छाया यशोदापि सदा भवेत्” ।
  • गोपालस्य “गोपालप्रतिमां कुर्यात् वेणुवादनतत्पराम् ।
वर्हापीड़ां घनश्यामां द्विभुजामूर्द्ध्वसंस्थिताम्” ।
  • बुद्धस्य “काषायवस्त्रसंवीतः स्कन्धसंसक्तचीवरः । पद्मास-
नस्थो द्विभुजो ध्यायी बुद्धः प्रकीर्तितः” ।
  • कल्किनः “खड्गोद्यतकरः क्रुद्धो हयारूढो महाबलः ।
म्लेच्छोच्छेदकरः कल्की द्विभुजः परिकीर्तितः” ।
  • नरनारायणहरिकृष्णानाम् “दूर्वाश्यामो नरः कार्यो द्विभु-
जश्च महाबलः । नारायणश्चतुर्बाहुर्नीलोत्पलदलच्छविः ।
तयोर्मध्ये तु वदरी कार्या फलविभूषणा । वदर्यामवनौ
कार्यावक्षमालाधरावुमौ । अष्टचक्रे स्थितौ याने
मूतयुक्ते मनोरमे । कृष्णाजिनधरौ दान्तौ जटामण्डल-
धारिणौ । पादेन चैकेन रथस्थितेन पादेन चैकेन
च जानुगेन । कार्यो हरिश्चात्र नरेण तुल्यः कृष्णोऽपि
नारायणतुल्यमूर्तिः” ।
  • हयग्रीवस्य “मूर्तिमान् पृथिवीहस्तन्यस्तपादः सितच्छविः ।
नीलाम्बरधरः कार्यो देवी हयशिरोधरः । विन्द्यात्
सङ्कर्षणांशेन देवो हयशिरोधरः । कर्तव्योऽष्टभुजो देवः
तत्करेषु चतुर्ष्वथ । शङ्खं चक्रं गदां पद्मं स्वाका-
रङ्कारयेद्बुघः । चत्वारश्च कराः कार्या वेदानां देहधा-
रिणाम् । देवेन मूर्ध्नि विन्यस्ताः सर्वाभरणधारिणः” ।
  • कपिलस्य “प्रद्युम्नं विद्धि वैराग्यात् कापिलीं तनुमास्थितः ।
मध्ये तु करकः वार्यस्तस्योत्सङ्गगतः परः । दोर्युगं
चापरं तस्य शङ्वुचक्रधरं भवेत् । पद्मासनोपविष्टश्च
ध्यानसंमीलितेक्षणः । कर्तव्यः कपिलो देवो जटाम-
ण्डलमण्डितः । वायुसंरोधपीनांसः पद्माङ्कचरणद्वयः ।
मृगाजिनधरो राजन्! श्मश्रुयज्ञीपवीतवान् । बिभु-
र्मन्त्रमहापद्मकलिकासंस्थितः प्रभुः । वैराग्यभावेन
महानुभावी ध्यानस्थितः स्वम्परमं पदन्तत् । ध्यायंस्तथास्ते
भुवनस्य गोप्ता शाङ्ख्यप्रवक्ता पुरुषः पुराणः” ।
  • व्यासस्य “कृशः कृष्णतनुर्व्यासः पिङ्गलोऽतिजटाधरः । सुमन्तु-
र्जैमिनिः पैलो वैशम्पायन एव च । तस्य शिष्याश्च कर्त-
व्याश्चत्वारः पारिशार्श्विकाः” ।
  • वाल्मीकेः “गौरस्तु कार्यो बाल्मीकिस्तेजोमण्डलदुर्दृशः ।
तपस्यभिरतः शान्तो न कृशो न च पीवरः” ।
  • दत्तात्रेयस्य “बाल्मीकिरूपं सकलं दत्तात्रेयस्य कारयेत्” ।
  • धन्वन्तरेः “धन्वन्तरिः सुकर्तव्यः सुरूपः प्रियदर्शनः ।
करद्वयगतश्चास्य सामृतः कलसो भवेत् ।
  • जलशायिनः “जलमध्यगतः कार्य्यः शेषपन्नगतल्पगः ।
फणापुञ्जमहारत्नदुर्निरीक्ष्यशिरोधरः । देवदेवस्तु कर्त-
व्यस्तत्र गुप्तश्चतुर्भुजः । तथापरश्च कर्तव्यः शेषभो-
गाङ्कसंस्थितः । एकपादोऽस्य कर्तव्यो लक्ष्म्यु-
त्सङ्गगतः प्रभोः । तथापरश्च कर्तव्यस्तत्र जानौ प्रसा-
धितः । कर्तव्यो नाभिदेशस्थस्तथा तस्यापरः करः ।
तथैवान्यः करः कार्यो देवस्य तु शिरोधरः । सन्तान-
मञ्जरीधारी तथैवास्यापरो भवेत् । नाभीसरसिसम्भूते
कमले तस्य यादव! । सर्वपृथ्वीमयो देवः प्राग्वत्कार्यः
पितामहः । नाललग्नौ च कर्तव्यौ पद्मस्य मधुकैटभौ ।
नृरूपधारीणि भुजङ्गमस्य कार्याण्यथास्त्राणि तथा
समीपे । एतत्तवाग्रे यदुपुङ्गवोक्तं देवस्य रूपं
परमस्य तस्य” ।
  • गरुड़स्य विष्णुधर्मोत्तरात् “तार्क्ष्यो मरकतप्रख्यः कौशिकाका-
रनासिकः । चतुर्भुजस्तु कर्तव्यो वृत्तनेत्रमुखस्तथा ।
गृध्रोरुजानुचरणः पक्षद्वयविभूषितः । प्रभासंस्थानसौ-
वर्णकलापेन विराजितः । छत्रन्तु पूर्णकुम्भञ्च करयो-
स्तस्य कारयेत् । करद्वयन्तु कर्तव्यं तथा विरचिता-
ञ्जलि । यदास्य भगवान् पृष्ठे छत्रकुम्भधरौ करौ ।
न कर्तव्यौ तु कर्तव्यौ देवपादधरौ शुभौ । किञ्चिल्ल-
म्बोदरः कार्यः सर्वाभरणभूषितः” ।
  • रुद्रस्य “देवदेवं महादेवं वृषारूढ़न्तु कारयेत् । तस्य वक्त्राणि
कार्याणि पञ्च यादवनन्दन! । सर्वाणि सौम्यरूपाणि
दक्षिणं विकटं मुखम् । कपालमालिकं भीमं जगत्संहा-
रकारकम् । त्रिनेत्राणि तु सर्वाणि वदनं तूत्तरं विना ।
जटाकलापे महति तस्य चन्द्रकला भवेत् । तस्योपरि-
पृष्ठ ३७०१
ष्टाद्वदनं पञ्चमन्तु विधीयते । यज्ञोपवीतं च तथा
वासुकिं तस्य कारयेत् । दशबाहुस्तथा कार्यो देवदेवो
महेश्वरः । अक्षमालात्रिशूलञ्च चर्मदण्डमथोत्पलम् ।
तस्य दक्षिणहस्तेषु कर्तव्यानि महाभुज! । वामे च
मातुलाङ्गञ्च चापादर्शं कमण्डलुम् । तथा चर्म च
कर्तव्यं देवदेवस्य शूलिनः । वर्णस्तथास्य कर्तव्यश्चन्द्रांशु
सदृशप्रभः” ।
  • ईशानादीनाम् “ईशस्तत्पुरुषाघोरवामजातक्रमेण तु ।
सितपीतकृष्णरक्ताश्चतुर्वर्णाः प्रकीर्तिताः । पञ्चवक्ताः स्मृताः
सर्वे दशदोर्दण्डभूषिताः । खड्गखेटधनुर्बाणकमण्डल्व-
क्षसूत्रिणः । वराभयकरोपेताः शूलपङ्कजपाणयः” ।
वामो, वामदेवः । जातः, सद्योजातः ।
  • मूर्त्त्यष्टकस्य “शर्वो भीमो महादेवः रुद्रः पशुपतिर्भवः ।
उग्र ईशान इत्यष्टौ मूर्तयः शिवसन्निभाः । मृगा-
ङ्कचूड़ामणयो जटामण्डलमण्डिताः । त्रिनेत्रा
वरखट्वाङ्गत्रिशूलवरपाणयः” ।
  • अर्द्धनारीश्वरस्य “अर्द्धं देवस्य नारी तु कर्तव्या शुभल-
क्षणा । अर्द्धन्तु पुरुषः कार्यः सर्वलक्षणभूषितः ।
ईश्वरार्द्धे जटाजूटं कर्तव्यं चन्द्रभूषितम् । उमार्द्धे
तिलकं कुर्य्यात् सीमन्तमलकं वथा । भस्मोद्धूलितमर्द्धन्तु
अर्द्धं कुङ्कुमभूषितम् । नागोपवीतिनं चार्द्धमर्द्धं
हारविभूषितम् । वामार्द्धे तु स्तनं कुर्यात् घनं
पीनं सुवर्त्तुलम् । उमार्द्धे तु प्रकर्तव्यं सुवस्त्रेण
च वेष्टितम् । मेखलां दापयेत्तत्र वज्रवैदूर्यभूषिताम् ।
ऊर्द्ध्वलिङ्गं महेशार्द्धं सर्पमेखलमण्डितम् । पादञ्च
देवदेवस्य समपद्मोपरिस्थितम् । सालक्तकं स्मृतं
वाममञ्जनेन विभूषितम् । त्रिशूलमक्षसूत्रञ्च भुजयोः सव्ययोः
स्मृतम् । दर्पणञ्चोत्पलं कार्यं भुजयोरपसव्ययोः” ।
  • दक्षिणामूर्तेः “दक्षेण मुद्रां प्रतिपादयन्तं सिताक्षसूत्रं च
तथोर्द्धभागे । वामे च पुस्तामखिलागमाद्यां विभ्राण-
मूर्द्धेन सुधाधरं च । सिताम्बुजस्थं सितवर्णमीशं सिता-
म्बरालेपनमिन्दुमौलिम् । ज्ञानं मुनिभ्यः प्रतिपादयन्तं
तं दक्षिणाभूर्तिमुदाहरन्ति” ।
  • उमामहेश्वरयोः “युग्मं स्त्रीपुरुषं कार्यं उमेशौ दिव्यरूपिणौ ।
अष्टवक्त्रं तु देवेशं जटाचन्द्रार्द्धभूषितम् । द्विपाणिं
द्विभुजां देवी सुमध्यां सुपयोधराम् । वामपाणिन्तु
देवस्य देव्याः स्कन्धे नियोजयेत् । दक्षिणन्तु करं शम्भो-
रुत्पलेन विभूषितम् । देव्यास्तु दक्षिणं पाणिं स्कन्धे
देवस्य कल्पयेत् । वामपाणौ तथा देव्या दर्पणं
दापयेच्छुभम्” ।
  • हरिहरस्य “कार्यं हरिहरस्यापि दक्षिणार्द्धं सदा शिवः ।
वाममर्द्धं हृषीकेशः श्वेतनीलाकृतिः क्रमात् । वरत्रिशूल-
चक्राब्जधारिणो बाहवः क्रमात् । दक्षिणे वृषभः पार्श्वे
वामभागे विहङ्गराडिति” ।
  • विद्येश्वराणाम् विश्वकर्मशास्त्रात् “दिग्वर्णा जटिलाः त्र्यक्षाः
शरत्रिशूलधारिणः । पुटाञ्जलिकराः सर्वे विश्वेशाश्चैक
वक्त्रकाः । अनन्तश्च त्रिमूर्तिश्च सूक्ष्मः श्रीकण्ठ एव
च । शिवः शिखण्ड्येकनेत्र एकरुद्रश्च ते क्रमात्” ।
  • १ रुद्रभेदानां तत्राजस्य “अथ रुद्रान् प्रवक्ष्यामि बाहुषोड़शका-
न्वितान् । अजनामा महारुद्रो धत्ते शूलमथाङ्कुशम् ।
कपालं डमरुं सर्पं मुद्गरञ्च सुदर्शनम् । अक्षसूत्रमथो
दक्षे तथा वामे कराष्टके । तर्जनीमूर्द्ध्वतस्तत्र खट्वाङ्गन्तदधः
करे । गदां च पट्टिशं घण्टां शक्तिपरशुकुण्डिकाः” ।
  • २ एकपादस्य “एकपादाभिधो बिभ्रत् क्ष्वेडादः स्याद्वहन् शरम् ।
चक्रं डमरुकं शूलं मुद्गरं तदधोवरम् । अक्षसू-
त्रमधो वामे खट्वाङ्गञ्चोर्द्धहस्तके । धनुर्घण्टां कपालञ्च
कौमुदीं तर्जनीं घटम् । परशुञ्चक्रमाधत्ते क्रमाद्
वाह्वष्टके त्विति । अनेकभोगसम्पर्त्ति कुरुते यजनात् सदा” ।
  • ३ अहिर्बुध्नस्य “अहिर्बुध्नो गदां चक्रं चासिं डमरुमुद्गरौ ।
शूलाङ्कुशाक्षमालाश्च दक्षोर्द्ध्वाधःकरैः क्रमात् । तोमरं
पट्टिशं चर्म कपालं तर्जनीं घटम् । शक्तिं परशुकं
वामे दक्षवद्धारयत्यसिम्” ।
  • ४ विरूपाक्षस्य “विरूपाक्षस्ततः खड्गं शूलं डमरुकाङ्कुशौ ।
सर्पं चक्रं गदामक्षसूत्रं बिभ्रत् कराष्टके । खेटं खट्वा-
ङ्गकं शक्तिं परशुं तर्जनीं घटम् । घण्टाकपोलकौ
चेति वामोर्द्धादिकराष्टके” ।
  • ५ रेवतस्य “रेवतो दक्षिणे चापं खड्गशूलं गदामहिम् ।
चक्राङ्कुशाक्षमालास्तु धारयन्नूर्द्धमादितः । धनुः खेटञ्च
खष्ट्वाङ्गं घण्टातर्जनिकां ततः । परशुं पट्टिशं पात्रं
वामबाह्वकेऽर्कवत् । सर्वसम्पत्करोत्येष जायते वार्च्चना-
द्भृशम्” ।
  • ६ हरस्य “हराख्यो मुद्गरञ्चैव डमरुं शूलमङ्कुशम् ।
गदासर्पाक्षसूत्राणि धारयन् दक्षिणोर्द्धतः । पट्टिशन्तोमरं
शक्तिं प्ररशुं तर्जनीं घटम् । खट्टाङ्गं पट्टिकाञ्चेति
वामोर्द्धादिक्रमेण तु” ।
  • ७ बहुरूपस्य “बहुरूपोदधद्दक्षे डमरुञ्च सुदर्शनम् । सर्पं
पृष्ठ ३७०२
शूलाङ्कुशौ चैव कौमुदीं जपमालिकाम् । घण्टाकपाल-
खट्वाङ्गं तर्जनीं कुण्डिकां घनुः । परशुं पट्टिशं चैव
वामोर्द्धादिकराष्टके” ।
  • ८ त्र्यम्बकस्य “त्र्यम्बकोऽपि दधच्चक्रं डमरुं मुद्गरं शरम् ।
शूलाङ्कुशाहिजाप्यञ्च दक्षोर्द्धादिक्रमेण हि । गदाख-
ट्वाङ्कपात्राणि कार्मुकं तर्जनीघटौ । परशुं पट्टिशं
चेति वामोर्द्धादिकराष्टके” ।
  • ९ सुरेश्वरस्य “सुरेश्वरोहि डमरुं चक्रं शूलाङ्कुशावपि ।
शरञ्च मुद्गरं चापं दक्षबाह्वष्टके त्विति । पङ्कजं परशुं
घण्टां पट्टिशं तर्जनीं घनुः । खट्वाङ्गं कारयेत्पात्रं
वामेऽष्टकरपल्लवे” ।
  • १० जयन्तस्य “जयन्तो दशमो रुद्रोऽप्यङ्कुशं चक्रमुद्गरौ । शूला
हिडमरुं वाणमक्षसूत्रं यमे त्विति । गदा--खट्वाङ्ग-
परशुं कपालं शक्तिं तर्जनीम् । घनुः कुण्डी--मथोर्द्ध्वादि
वामवाह्वष्टके दधत्” ।
  • ११ अपराजितस्य “अथापराजितो दक्षे तोमरं खड्गमङ्कु-
शम् । शूलाहिचक्रडमरुमक्षमालां दधत् क्रमात् ।
शक्तिं खेटं गदां पात्रं तर्जनीं पट्टिशङ्कजम् । घण्टामु-
त्तरतश्चाथ धारयन्नूर्द्ध्वमादितः । अजैकपादहिर्ब्रध्नः
विरूपाक्षश्च रेवतः । हरश्च बहुरूपश्च त्र्यम्बकश्च सुरे-
श्वरः । रुद्रा एकादश प्रोक्ता जयन्तश्चापराजितः” ।
  • स्कन्दस्य विष्णुधर्मोत्तरात् “कुमारः षण्मुखः कार्यः
शिखण्डकविभूषणः । रक्ताम्बरधरः कार्यो मयूरवरवाहनः ।
कुक्कुटश्च तथा घण्टा तस्य दक्षिणहस्तयोः । पताका
वैजयन्ती च शक्तिः कार्या च वामयोः” ।
  • भैरवस्य “अथातो रूपनिर्माणं वक्ष्येऽहं भैरवस्य तु । लम्बो-
दरन्तु कर्तव्यं वृत्तपिङ्गललोचनम् । दंष्ट्राकरालवदनं
फुल्लनासापुटन्तथा । कपालमालिनं रौद्रं सर्वतः सर्प-
भूषणम् । व्यालेन त्रासयन्तञ्च देवीं पर्वतनन्दिनीम् ।
सजलाम्बुदसङ्काशं गजचर्मोत्तरच्छदम् । बहुभिर्बाहु-
भिर्व्याप्तं सर्वायुधविभूषणम् । वृहत् सालप्रतीकाशैस्तथा
तीक्ष्णनखैः शुभैः । साचीकृतमिदं रूपं भैरवस्य प्रकी-
र्तितम्” ।
  • महाकालस्य “महाकालस्य कथितमेतद्वै भैरवं मुखम् ।
देवीत्रासनकश्चास्य करे कार्यश्च पन्नगः । न चास्य
पुरतः कार्या देवी पर्वतनन्दिनी । शुक्ला न कार्य्यास्य
तथा न रक्ता समीपतो मातृगणप्रधाने । कार्यं तथा
यत् परिबर्हमस्य गणाश्चकार्या बहुरूपरूपकाः” ।
  • नन्दिनः “नन्दी कार्यस्त्रिनेत्रस्तु चतुर्बाहुर्महाभुजः ।
सिन्दूरारुणसङ्काशो व्याघ्रचर्मपरिच्छदः । त्रिशूलभिन्दि-
पालौ च करयोस्तस्य कारयेत् । शिरोगतं तृतीयन्तु
तर्जयन्तं तथापरम् । आलोकयानं कर्तव्यं दूरादागमि-
र्नञ्जनम्” ।
  • वीरभद्रस्य “अनेनैव तु रूपेण वीरभद्रं विदुर्बुधाः” ।
  • ज्वरस्य विश्वकर्मशास्त्रात् “ज्वरस्त्रिपादः कर्तव्यस्त्रिनेत्रैर्वदनै-
स्त्रिभिः । भस्मप्रहरणो रुद्रस्त्रिबाहुर्व्याकुलेक्षणः” ।
  • १ वसूनां विश्वकर्मशास्त्रात् तत्र धरस्य “अथातः संप्रवक्ष्यामि
वसुरूपाणि ते जय! । पद्माक्ष--मालिके तस्य दक्षवामक-
रद्वये । सीरशक्ती दधानीऽयं धराख्यो वसुरादिमः ।
  • २ ध्रुवस्य “मालां पुष्करवीजोत्थां चक्रं शक्तिं कमण्डलुम् ।
दक्षाधरादिसिक्येन यस्य स्युः स ध्रुवो मतः” ।
  • ३ सोमस्य “मुक्ताफलकृतामाला पङ्कजं शक्तिरङ्कुशः । स
वसुः कीर्तितो वत्स सोमनामेति वै बुधैः” ।
  • ४ आपस्य “सव्यवामोर्द्धगौ यस्य करौ स्तः शक्तिसंयुतौ ।
सीराङ्कुशान्वितौ चाधः स भवेदापसंज्ञकः” ।
  • ५ अनिलस्य “अक्षमालोपवीत्यूर्द्ध्वे शृणिशक्तिकरावधः । यस्य
स्तः सोऽनिलाख्यः स्याच्छुभदः पञ्चमो वसुः” ।
  • ६ नलस्य “स्रुवाक्षमालिके दक्षे वामे शक्तिकपालभृत् । सव्यो-
र्द्धादिक्रमाद्योऽसौ नलाख्यस्तु वसुः स्मृतः” ।
  • ७ प्रत्यूषस्य “खट्वाङ्कुशधरः सव्ये शक्तिखेटकरोऽन्यतः ।
प्रत्यूषाख्यो वसुश्चायं सप्तमः परिकीर्तितः” ।
  • ८ प्रभासस्य “सव्ये दण्डकपालोऽसौ वामे तु शृणिशक्तिकः ।
शुभदः कीर्तितश्चायं प्रभासो--वसुरष्टमः । एते सर्वे
समाख्याता नवकाञ्चनसन्निभाः । धरोध्रुवश्च सोमः स्या-
दापश्चैवानिलो नलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ
प्रकीर्तिताः” ।
  • द्वादशादित्यानाम् “शृणु वत्स! प्रवक्ष्यामि सूर्यभेदांस्तु ते
जय! । यावत् प्रकाशकः सूर्यो जायते मूर्तिभिर्यथा” ।
  • १ धातुः “दक्षिणे पौष्करी माला करे वामे कमण्डलुः ।
पद्माभ्यां शोभितकरा सा धात्री प्रथमा स्मृता” ।
  • २ मित्रस्य “शूलं वामकरे चास्याः दक्षिणे सोम एव च । मैत्री
नाम त्रिनयना कुशेशयविभूषिता” ।
  • ३ अर्यम्णः “प्रथमे तु करे चक्रं तथा वामे च कौमुदी ।
मूर्तिरार्यमणी ज्ञेया सपद्मैः पाणिपल्लवैः” ।
  • ६ रुद्रस्य “अक्षमाला करे सव्ये चक्रं वामे प्रतिष्ठितम् । सा
मूर्त्ती रौद्री ज्ञातव्या प्रधाना पद्मभूषिता” ।
पृष्ठ ३७०३
  • ५ वरुणस्य “चक्रं तु दक्षिणे यस्या वामे पाशः सुशोभनः ।
सा वारुणी भवेन्मूर्तिः पद्मव्यग्रकरद्वया” ।
  • ६ सूर्यस्य “कमण्डलुर्दक्षिणतो माला चाक्षमयी भवेत् । सा
भवेत् सम्मता सूर्यमूर्तिः पद्मविभूषिता” ।
  • ७ भगस्य “यस्या दक्षिणतः शूलं वामहस्ते सुदर्शनः ।
भगमूर्तिः समाख्याता पद्महस्ता शुभा जय!” ।
  • ८ विवस्वतः “अथ वामकरे माला त्रिशूलं दक्षिणे स्मृतम् ।
विवस्वन्मूर्तिरेषा स्यात् पद्मलाञ्छनलक्षिता” ।
  • ९ पूष्णः “पूषाख्यस्य भवेन्मूर्त्तिर्द्विभुजा पद्मलाञ्छिता । सर्व
पापहरा ज्ञेया सर्वलक्षणलक्षिता” ।
  • १० सवितुः “दक्षिणे तु गदा यस्या वामे चैव सुदर्शनः । पद्म-
व्यग्रा तु सावित्री मूर्तिः सर्वार्थसाधनौ” ।
  • ११ त्वष्टुः “स्रुचं च दक्षिणे हस्ते वामे होमजकालिकाम् ।
मूर्तिस्त्वाष्ट्री भजेत् सा स्यात् पद्मरुद्धकरद्वया” ।
  • १२ विष्णोः “सुदर्शनकरा सव्ये पद्महस्ता तु वामतः । एषा
स्यात् द्वादशी मूर्तिर्विष्णोरमिततेजसः । धाता मित्रो-
ऽर्यमा रुद्रो वरुणः सूर्य एव च । भगो विवस्वान्
पूषा च सविता दशमः स्मृतः । एकादशस्तथा त्वष्ट्वा
विष्णुर्द्वादश उच्यते” ।
  • मरुताम् “अथातः संप्रवक्ष्यामि रूपाणि मरुतां तव” ।
  • १ श्वसनस्य “अक्षमालाम्बुजे दक्षे वामे कुण्डीध्वजान्वितः ।
श्वसनाख्यो भवेदेवं साधकानां सुसिद्धिदः” ।
  • २ स्पर्शनस्य “चक्राक्षमालिकापात्रध्वजयुक् स्पर्शनाभिधः” ।
  • ३ वायोः “कपालध्वजपाशाब्जधारको वायुनामकः” ।
  • ४ मातरिश्वनः “मातरिश्वा कपालाब्जध्वजपात्रकरो मतः” ।
  • ५ सदागतेः “ध्वजाक्षसूत्रपात्राब्जं बिभ्राणः स्यात्सदागतिः ।
  • ६ महाबलस्य “ध्वजासिखेटपात्राणि धारयंस्तु महाबलः” ।
  • ७ बलवर्द्धनस्य “ध्वजपाशकपालाहिसंयुतो बलवर्द्धनः” ।
  • ८ पृषदश्वस्य “पात्राक्षसूत्रपाशाब्जधारकः पृषदश्वकः” ।
  • ९ गन्धवहस्य “अक्षसूत्रगदाकम्बुध्वजी गन्धवहाभिधः” ।
  • १० गन्धवाहकस्य “कपालध्वजपात्राब्जहस्तको गन्धवाहकः”
  • ११ अनिलस्य “ज्ञानमुद्राक्षसूत्राब्जध्वजहस्तोऽनिलो मतः” ।
  • १२ आशुगस्य “अक्षमालासुनीलाब्ज--ध्वज--कम्बुधृगाशुगः” ।
  • १३ सुमुखस्य “ध्वजबाणधनुःकुण्डीकरयुक् सुमुखी भवेत्” ।
  • १४ कर्करस्य “ध्वजाब्जपात्रमुद्राश्च धारयेत् कर्कराभिधः” ।
  • १५ समीरणस्य “अब्जाक्षमालिकापात्रध्वजहस्तः समीरणः” ।
  • १६ समीरकस्य “ध्वजपात्रधनाब्जानि बिभ्राणस्तु समीरकः” ।
  • १७ अनुत्तमस्य “अक्षसूत्रध्वजाब्जानि मुण्डं बिभ्रत्यनुत्तमः ।
  • १८ मारुतस्य “अक्षमालाध्वजाब्जानि धारयन्मारुताभिधः” ।
  • १९ नागयोनिजस्य “पव्यक्षसूत्रपाशाब्जसंयुतो नागयोनिजः” ।
  • २० जगत्प्राणस्य “ध्वजमुण्डाक्षपात्री स्याज्जगत्प्राणाभिधः
स्मृतः” ।
  • २१ पवनस्य “ध्वजसूत्रसपाशाब्जसंयुतः पवनाभिधः” ।
  • २२ वातस्य “खट्वाङ्गध्वजखेटानि बिभ्राणो वातसंज्ञकः” ।
  • २३ प्रभञ्जनस्य “ध्वजाक्षमृगपात्राणि धारयंस्तु प्रभञ्जनः” ।
  • २४ पवस्य “अक्षसूत्रध्वजाब्जाहिपाणियुक् पवनामकः” ।
  • २५ नभस्वतः “शूलाब्जध्वजपात्राणि नमस्वानिति धारयन्”
  • २६ अतिबलस्य “ध्वजाङ्कुशाक्षमुण्डानि बिभ्राणोऽतिबलो मतः”
  • २७ तरस्विनः “सध्वजाम्बुजपात्राङ्कस्तरस्वी नाम कीर्त्तितः” ।
  • २८ द्रावणस्य “दण्डमुण्डध्वजाब्जानि धारयन् द्रावणो मतः” ।
  • २९ देवयक्षकस्य “ध्वजाक्षतर्जनीपात्रपाणियुग् देवयक्षकः” ।
  • ३० गात्रजाहस्य “अक्षमालाकुठाराब्जध्वजयुग्गात्रजाहकः” ।
  • ३१ अधरस्य “घण्ठाक्षध्वजमुण्डानि धारयन्नधराभिधः” ।
  • ३२ ऊर्द्ध्वदृशः “बोधिपल्लवसूत्राब्जध्वजहस्तः सदोर्द्धदृक्” ।
  • ३३ गतिरोधनस्य “अक्षसूत्रध्वजाशोकपात्रयुक्गतिरोधनः” ।
  • ३४ पाणिकस्य “पाणिको नाम विज्ञेयो वाणाक्षध्वजमुण्डयुक्” ।
  • ३५ साधकस्य “ध्वजाक्षवटपात्राणि धारयन् साधको मतः” ।
  • ३६ विश्वपूरकस्य “वीजपूरध्वजाब्जाक्षसंयुतो विश्वपूरकः” ।
  • ३७ जगदाश्रयस्य “घण्टाक्षध्वजमालाभिः संयुतो जगदाश्रयः”
  • ३८ विश्वातिरिक्तस्य “विश्वातिरिक्तकोनाम ध्वजलाञ्छनपाशयुक्”
  • ३९ कुजागरस्य “अक्षमालाकजे घण्टाध्वजौ बिभ्रत् कुजागरः”
  • ४० विश्वोदरस्य “विश्वोदरो भवेदेष शङ्खशूलघटध्वजी” ।
  • ४१ अग्रहस्य “अग्रहो नाम विज्ञेयो ह्यक्षबाणधनुर्घटी” ।
  • ४२ तीव्रकस्य “श्रीफलाब्जाक्षपात्राणि धारयंस्तीव्रको मतः” ।
  • ४३ सुवहस्य “शक्तिमुण्डध्वजपाशी सुवहोऽयं प्रकीर्तितः” ।
  • ४४ वीजवर्द्धनस्य “अक्षसूत्रध्वजपाशपात्रयुक् वीजवर्द्धनः” ।
  • ४५ भदजवस्य “ध्वजपाश--कपालाब्जैर्युतो भद्रजवो मतः” ।
  • ४६ पुष्करोद्भवस्य “टङ्कपाश--ध्वजाब्जानि धारयन् पुष्करोद्भवः” ।
  • ४७ अब्जिनीपतेः “पलाशपत्रपाशाब्जध्वजहस्तोऽब्जिनीपतिः” ।
  • ४८ व्यक्तमूर्त्तेः “जम्बुवीज--ध्वजा--ब्जाक्षपाणियुग्व्यक्तमूर्तिकः” ।
  • ४९ विश्वगत्य “परिघाक्षध्वजाब्जानि धारयन् विश्वगो मतः ।
सर्वे चतुर्भुजा ज्ञेया युवानः कुटिलभ्रुवः । सव्योर्द्धा-
द्युत्तरोर्द्धान्तक्रमेणायुधधारिणः । रक्ताक्षाश्च महावीर्याः
सर्वभूषणभूषिताः । धूम्रवर्णा मृगारूढ़ाः सर्वे ते शवलां-
शुकाः । इति तेऽत्र समाख्याता शुभदास्तु मरुद्गणाः ।
संख्ययैकोनपञ्चाशत् सर्वरोगापनुत्तये” । स्कन्दपुरा०
पृष्ठ ३७०४
  • साध्यानां ब्रह्माण्डपुराणे “साध्याः पद्मासनगताः कमण्ड-
ल्वक्षसूत्रिणः । धर्मपुत्रा महात्मानो द्वादशामरपूजिताः”
  • विष्णुधर्मोत्तरे “मनोनुमन्ता प्राणश्च नरयानश्च वीर्यवान् ।
वित्तिर्हर्यो, नयश्चैव हंसो नारयणस्तथा । प्रभवो
विष्णुर्विश्वश्च साध्या द्वादश जग्मिरे” ।
  • अश्विनोः “पद्मपत्रसवर्णाभौ पद्मपत्रसमाम्बरौ । द्विभुजौ
देवभिषजौ कर्तव्यौ देहसंयुतौ । सर्वाभरणसम्पन्नौ विशे-
षाच्चारुलोचनौ । तयोरौषधयः कार्या दिव्या दक्षिण-
हस्तयोः । वामयोः पुस्तके कार्ये दर्शनीये तथा नृप! ।
एकस्य दक्षिणे पार्श्वे वागे चान्यस्य यादव! । नारीयुगं
प्रकर्तव्यं सुरूपञ्चारुदर्शनम् । तयोश्च नामनी प्रोक्ते
रूपसम्पत् तथाकृतिः । मधूकपुष्पसङ्काशा रूपसम्पत् प्रकी-
र्तिता । आकृतिः कथिता लोके शरकाण्डनिभा तथा ।
रत्नभाण्डकरे कार्ये चन्द्रशुक्लाम्बरे तथा” ।
  • रेवन्तस्य “पृष्ठस्थः सूर्यवत् कार्यो रेवन्तश्च तथा प्रभुः” ।
  • यक्षाणां मयसंग्रहे “तुन्दिला द्विभुजाः कार्या निधि-
र्हस्तो मदोत्कटः । गदी वैश्रवणः प्रेष्ठो नृपालस्त्व-
ष्टमो वरः । सिद्धार्थो मणिभद्रश्च सुमना नन्दनो
यशाः । कण्डूतिः पाञ्चकः शङ्खो मणिमान् पद्म-
रामकौ । सर्वत्रभोजी पिङ्गाक्षश्चतुरो मन्दराश्रयः ।
शुभद्रचन्द्रप्रद्योतमेघवर्णजयावहाः । द्युतिमान् केतुमान्
श्वेतोमौलिमान् विजयाकृतिः । पद्मवर्ण--महाघास--पु-
ष्पदन्ताः सुदर्शनाः । पूर्णमास--हिरण्याक्ष--शतजिह्व
बलाहकाः । बलाकविपुलौ पद्मनाभः कुमुदवीरकौ ।
सुगन्ध इत्यमी यक्षास्तेषां राजा धनाधिपः” ।
  • राक्षसादीनां मयदीपिकायाम् “रक्तवस्त्रधराः कृष्णा
नखदीर्घाः सदंष्ट्रिकाः । कर्त्तीखट्वाङ्घहस्ताश्च राक्षसा
घोररूपिणः । हेतिः प्रहेतिः यज्ञघ्नः शङ्कुश्च सनिब-
न्धनः । विद्युत्सर्जमनुष्यादपौरुषेयसुकेशिनः । उग्र-
मालीत्यमी प्रोक्ताः प्रधाना राक्षसाः किल । भूता-
स्तथैव दानाश्च दीर्घवक्त्राः पिशाचकाः” ।
  • गन्धर्वरूपिमाह विश्वकर्मा “वरदो भक्तलोकानां किरीटी
कुण्डली गदी । कार्यस्तु रूपी गन्धर्वो वीणावाद्य-
रतस्तथा” ।
  • वासुकेस्तत्रैव “अनन्तो रक्तकायश्च सितपङ्कजमालिकः ।
शतसाहस्रभोगीऽहिः शिरःकुबलयान्वितः” ।
  • तक्षकादिनागरूपमाह मयः “श्वेतदेहश्च कर्तव्यः स्फुरन्मौ-
क्तिकसन्निभः । रक्ताङ्गः स्वस्तिकोपेतः सुतेजास्तक्षको
महान् । कृष्णः कर्कोटक कण्ठे शुक्लरेखात्रयान्वितः ।
रक्तपद्मनिभः पद्मः शिरःशुक्लः सविद्रुमः । शङ्खवर्णो
महापद्मो मस्तके कृष्णशूलधृक् । हेमाभः शङ्खपालः
स्यात् सितरेखाधरो गले । कुलिको रक्तदेहस्तु चन्द्रा-
र्द्धकृतमस्तकः । द्विजिह्वा बाहुवत्सप्तफणामणिसम-
न्विताः । अक्षसूत्रधराः सर्वे कुण्डिकापुच्छसंयुताः ।
एकभोगास्त्रिभोगावा ह्येतज्जाताः सुतादयः” ।
  • पितॄणाम् विष्णुधर्मोत्तरे कशपद्मविष्टरस्थाः पितरः पिण्ड-
पात्रिणः” । ते च वायुपुराणोक्ता यथा
“आभास्वरा बर्हिषदो अग्निष्वात्तास्तथैव च । क्रव्यादाः
श्चोष्मपाश्चैव आज्यपाश्च सुकालिनः”
  • विश्वदेवानाम् “क्रतुर्दक्षो वसुः सत्यः कालको धुरिलोचनौ ।
पुरूरवा माद्रवाश्च विश्वे देवा दश स्मृताः । विदेहास्तु
प्रकर्तव्या दक्षिणे वाणपाणयः । कर्तव्या वामभागे
तु शरासनपरायणाः” ।
  • प्रसङ्गादस्त्ररूपाण्यपि तत्र विश्वकर्मोक्तानि यथा
“षड्त्रिंशदङ्गुले खड्गशक्ती तालाधिकौ मतौ ।
शूलपाशौ पद्मशङ्खौ तालमात्रौ प्रकीर्तितौ । गदा द्वि-
ताला पाशश्च गोलकोऽष्टप्रमाणतः । वाणो द्वितालको
दण्डो द्विगुणो द्वादशाङ्गुलः । कपालं पङ्कजं चर्म पार्श्व
खड्गोऽङ्गुलो मतः । डमरुसुस्वना घण्टा छुरिका
षोड़शाङ्गुला । वज्रं तत् पुरुषस्थूलं पट्टिशोऽतिदृढ़ो
बली । शक्तिस्तु योषिदाकारा लोहिताङ्गी वृकाश्रिता ।
दण्डोऽपि पुरुषः कृष्णो घोरी लोहितलोचनः ।
खड्गश्च पुरुषः श्यामशरीरः क्रुद्धलोचनः । पाशः
सप्तफणः सर्पपुरुषः पुच्छसंयुतः । ध्वजस्तु पुरुषः पीतो
व्यावृतास्यो महाबलः । गदा पीतप्रभा कन्या सुपीन
जघनस्थला । त्रिशूलं पुरुषो दिव्यः सभ्रूः श्यामकले-
वरः । शङ्खोऽपि पुरुषो दिव्यः शुक्लाङ्गः शुभलोचनः ।
हेतिर्बहुतिथी सा स्त्री भिन्दिः श्यामतनुः पुमान् । शरः
स्यात् पुरुषो दिव्यो रक्ताङ्गो दिव्यलोचनः । धनुः स्त्री
पद्मरक्ताभा मूर्ध्नि पूरितचापभृत् । एवमस्त्राणि पूतानि
जानीयात् परमेश्वरे । उक्तानां चैव सर्वेषां मूर्ध्नि स्वायु-
धलाञ्छनम् । भुजौ द्वौ तु प्रकर्तव्यौ स्कन्धलग्नौ सदा
बुधैः ।
  • धर्मज्ञानवैराग्यैश्वर्याणाम् “धर्मं ज्ञानं च वैराग्यमैश्चर्यं च
तथैव हि । सितरक्तपीतकृष्णसिंहरूपाः प्रकीर्तिताः” ।
  • पृथ्व्याः विष्णुधर्मोत्तरे “शुक्लवर्णा मही कार्या दिव्याभर-
पृष्ठ ३७०५
णभूषिता । चतुर्भुजा सौम्यवपुश्चन्द्रांशुसदृशाम्बराः ।
रत्नपात्रं सस्यपात्रं पात्रमोषधिसंयुतम् । पद्मं करे च
कर्तव्यं भुवी यादवनन्दन! । दिग्गजानां चतुर्णाञ्च
कार्या पृष्ठंगता तथा । सर्वौषधियुता देवी शुक्लवर्णा ततः
स्मृता” ।
  • लवणोदस्य “लवणोदः प्रकर्तव्यी द्विभुजः सर्बसिद्धये । धत्तेऽ-
ब्जमालिकां दक्षे वामे पात्रं तु रत्नभृत् । सोत्तरीयो
पवती च पाटलाभः सुवस्त्रधृक् । बर्हिःपवित्रपाणिस्तु
लाभदो भूतिमण्डितः” ।
  • क्षीरोदस्य “क्षीरोदः श्वेतवर्णस्तु द्विभुजो रत्नकुण्डलः ।
मकरस्थोऽम्बुजन्दक्षे वामे तु कलसं दधत्” ।
  • दधिमण्डोदस्य “दधिमण्डोद एवात्र विज्ञेयो वारिजासनः ।
दण्डं शङ्खं च बिभ्राणो द्बिभुजोऽसौ जटायुतः” ।
  • घृतोदस्य “घृतोदः कपिलो ज्ञेयः कुलीरस्थो जटाधरः ।
कशेरुपीतं पात्रञ्च घटं बिभ्रत्तु दोर्द्वये” ।
  • इक्षूदस्य “इक्षुदोऽत्र प्रकर्तव्यो गोमूत्रसदृशच्छविः । दर्दुरस्थो
घटं दण्डं विभ्राणो नीलकुण्डलः” ।
  • सुरोदश्य “सुरोदो गण्डकान्तस्थो ज्ञेयो गोमेदसन्निभः ।
मुद्गरं कुण्डिकां बिभ्रत् द्विभुजो भूतिवर्द्धनः” ।
  • स्वादूदस्य “स्वादूदो मौक्तिकाभासो दर्दुरस्थो सुवेशधृक् ।
मुक्तासूत्रार्द्धपात्रे च धारयन् सर्पभूषणः । वैदूर्यसदृशाः
सर्वे द्विभुजाः कलसान्विताः । पङ्कजस्थाः प्रकर्तव्याः
देवतास्नपनाय तु” ।
  • द्वीपादीनाम् विष्णुधर्मोत्तरात् “द्वीपवर्षनगाः सर्वे कामरूपधरा
यतः । प्रेष्ठायुधान्विताः कार्याः स्वस्वचिह्नधरा नराः” ।
  • दिशाम् “पूर्बा १ गजगता बाला रक्तवर्णा तु दिग् भवेत् ।
पङ्कजस्था प्रतिज्ञेया करेणुकृतहस्तका । वृहद्वक्त्रा
वृहत्काया पद्माभा पूर्वदक्षिणा २ । रथस्था दक्षिणा ३
पीता तथा स्यात् प्राप्तयौवना । उष्ट्रगा कृष्ण-
पीता च तरुणी याम्यपश्चिमा ४ । यौवनाद्विच्युता
कृष्णा पश्चिमा ५ तुरगस्थिता । आसन्नपलिता नीला
मृगगा तदनन्तरा ६ । श्वेता नरगता वृद्धा तथा भवति
चोत्तरा ७ । अतिवृद्धा वृषस्था च शुक्ला पूर्वोत्तरा ८ भवेत् ।
अधस्तात् ९ पृथिवीतुल्या चोर्द्धा १० गगनसन्निभा” ।
  • १ दिक्पतीनाम् तत्रेन्द्रस्य “चतुर्दन्ते गजे सक्तः श्वेतः कार्यः
सुरेश्वरः । वामोत्सङ्गगता कार्या तस्य भार्य्या शची
नृप! । नीलवस्त्रा सुवर्णाभा सर्वाभरणवांस्तथा ।
तिर्यग् ललाटकस्तार्क्ष्यः कर्तव्यश्च विभूषितः । शक्रश्च-
तुर्भूजः कार्य्यो द्विभूजा च तथा शची । पद्माङ्कुशौ
च कर्तव्यौ वामदक्षिणहस्तयोः । वामं शचीपृष्ठगतं
द्वितीयं वज्रसंयुतम् । वामे शच्याः करे कार्या रम्याः
सन्तानमञ्जरी । दक्षिणं पृष्ठविन्यस्तं देवराजस्य
कारयेत्” ।
  • २ अग्नेः “रक्तं जटाधरं वह्निं कारयेद्धूम्रवाससम् । ज्वाला-
मालाकुलं सौम्यं त्रिनेत्रं श्मश्रुधारिणम् । चतुर्बाहु”
चतुर्दंष्ट्रं देवेशं वायुसारथिम् । चतुर्भिश्च शुकैर्युक्ते
धूमचिह्नरथे स्थितम् । वामोत्सङ्गगता स्वाहा शक्रस्येव
शची भवेत् । रत्नपात्रकरा देवी वह्नेर्दक्षिणहस्तयोः ।
ज्वालात्रिशूले कर्तव्ये त्वक्षमाल्यञ्च वामके” ।
  • ३ यमस्य “सजलाम्बुदसच्छायः तप्तत्वामीकराम्बरः । महिष-
स्थश्च कर्तव्यः सर्वाभरणवान् यमः । नीलोत्पलाभां
धूम्रोर्णां वामोत्सङ्गे च कारयेत् । धूम्रीर्णा द्विभुजा
कार्या यमः कार्यश्चतुर्भुजः । दण्डखड्गावुभौ कार्यौ
यमदक्षिणहस्तयोः । ज्वाला त्रिशूला कर्तव्या त्वक्ष-
माला च वामके । दण्डोपरि मुखं कार्यं ज्वालामाला-
विभूषणम् । धूम्रोर्णादक्षिणो हस्तो यमपृष्ठगतो भवेत् ।
वामे तस्याः करे कार्यं मातुलाङ्गं सुदर्शनम् । पार्श्वे तु
दक्षिणे तस्य चित्रगुप्तं तु कारयेत् । आपीच्यवेषं स्वा-
कारं द्विभुजं सौम्यदर्शनम् । दक्षिणे लेखनी तस्य वामे
पत्रं तु कारयेत् । वामे पाशधरः कार्यः कालो विकट-
दर्शनः” ।
  • निरृतेः “विरूपाक्षो विवृत्तास्यः प्रांशुदंष्ट्रोज्ज्वलाननः । ऊर्द्ध्व
केशी खरस्थश्च द्विबाहुर्भीषणाननः । कर्णेन कृष्णरक्ताङ्गः
कृष्णाम्बरधरस्तथा । सर्वाभरणवान् दंष्ट्रासङ्घैर्दण्ड-
धरस्तथा । भार्य्याश्चतस्रः कर्तव्या देवी च निरृतिस्तथा ।
कृष्णाङ्गी कृष्णवदना पाशहस्ता तु वामतः” ।
  • वरुणस्य “सप्तहंसे रथे कार्यो वरुणो यादसाम्पतिः । स्नि-
ग्धवैदूर्यसंकाशः श्वेताम्बरधरस्तथा । किञ्चित्प्रलम्बजठरो
मुक्ताहारविभूषितः । सर्वाभरणवान् राजन्!
महादेवश्चतुर्भुजः । वामभागगतं केतुं मकरं तस्य
कारयेत् । छत्रं तु सुसितं मूर्ध्नि भार्या सर्वाङ्गसुन्दरी ।
वामोत्सङ्गगता कार्या मध्ये तु द्विभुजा नृप! । उत्पलं
कारयेत् वामे दक्षिणे देवपृष्ठगम् । पद्मपाशौ करे कार्यौ
देवदक्षिणहस्तयोः । शङ्खञ्च रत्नपात्रञ्च वामयोस्तस्य
कारयेत् । भागे तु दक्षिणे गङ्गा मकरस्था सचामरा ।
देवी पद्मकरा कार्या चन्द्रगौरी वरानना । वामे तु
पृष्ठ ३७०६
यमुना कार्या कूर्मसंस्था सचामरा । नीलोत्पलकरा
सौम्या नीलनीरजसन्निभाः” ।
  • वायोः “वायुरम्बरवर्णस्तु तदाकाराम्बरो भवेत् । काष्ठपू-
रितचक्रस्तु द्विभुजो रूपसयुतः । गमनेच्छुः शिवा
भार्या तस्य कार्या च वामतः । कार्यो गृहीतचक्राङ्कः
कराभ्यां पवनो द्विजः । तथैव देवी कर्त्तव्या शिवा
परमसुन्दरी । व्यावृतास्यस्तथा कार्यो देवोव्याकुल-
मूर्द्धजः” ।
  • धनदस्य विष्णुधर्मोत्तरात् “कर्तव्यः पद्मपत्राभो वरदो
नरवाहनः । चामीकराभो वरदः सर्वाभरणभूषितः ।
लम्बोदरश्चतुर्बाहुर्वामपिङ्गललोचनः । आपीच्यवेषः कवची
हारभारी मनोहरः । द्वे च दंष्ट्रे मुखे तस्य कर्तव्ये
श्मश्रुधारिणः । वामेन विभवा कार्या मौलिस्तस्यारि-
मर्दन! । वामात्सङ्गगता कार्या वृद्धिर्देवी वरप्रदा ।
देवपृष्ठगतं पाणिं द्विभुजायास्तु दक्षिणम् । रत्नपात्र-
धरं कुर्यात् वामं रिपुनिसूदन! । गदाशक्ती च कर्तव्ये
तस्य दक्षिणहस्तयोः । सिंहार्कलक्षणं केतुं, शिविका-
मपि पादयोः । शङ्खपद्मनिधी कार्य्यौ सरूपौ निधि-
संस्थितौ । शङ्खपद्माञ्जलिक्रान्तं वदनं तस्य पार्श्वयोः”
  • आकाशस्य “नीलोत्पलाभं गगनं तद्वर्णाम्बरघारि च ।
चन्द्रार्कहस्तं कर्तव्यं द्विभुजं सौम्यदर्शनम्” ।
  • व्योम्नः “चतुरस्रं भवेन्मूलं ततो वृत्तं महाभुज । तत्तुल्य-
चतुरस्रञ्च मेरुवत् संस्थितं शुभम् । भद्रपीठमयः प्रोक्तो
व्योमभागस्तृतीयकः । स्तम्भवच्चतुरस्रश्च मध्यभागः
प्रकीर्तितः । भद्रपीठवदन्यच्च तत्र पद्मं निवेशयेत् ।
शुभाष्टपत्रं तन्मध्ये कर्णिकायां दिवाकरः । पत्राष्टके
न्यसेत्तस्य दिक्पालान् सर्वतोदिशः” ।
  • ध्रुवस्य “विष्णुरूपधरः कार्यो ध्रुवो ग्रहगणेश्वरः । चक्र-
रश्मिकरः श्रीमान् द्विभुजः सौम्यदर्शनः” ।
  • रवेः मत्स्यपुराणात् “रविः कार्यः शुभश्मश्रुः सिन्दूरारुण-
सुप्रभः । आपीच्यवेषः स्वाकारः सर्वाभरणभूषितः ।
चतुर्बाहुर्महातेजा कवचेनाभिसंवृतः । कर्तव्या रशना चास्य
पानीयाङ्गेति संज्ञिताः । रश्मयस्तस्य कर्तव्या वामद-
क्षिणहस्तयोः । ऊर्द्ध्वे स्रग्दामसंस्थाना सर्वपुष्पाचता
शुभा । स्वरूपरूपः स्वाकारो दण्डः कार्योऽस्य वामतः ।
दक्षिणे पिङ्गले भागे कर्तव्यश्चातिपिङ्गलः । आपीच्य-
वेषौ कर्तव्यौ तावुभावपि यादव! । तयोर्मुर्ध्नि च
विन्यस्तौ करौ कार्यौ विभावसोः । लेखनीपत्रके कार्ये
पिङ्गलश्चातिपिङ्गलः । चर्मशूलधरो देवस्तथा यत्नाद्वि-
धीयते । सिंहो ध्वजश्च कर्तव्यस्तथा सूर्यस्य वामतः ।
चत्वारश्चास्य कर्तव्यास्तनयास्तस्य पार्श्वयोः । रेवन्तश्च
यमश्चैव मनुद्वितयमेव च । ग्रहराजी रविः कार्यो
ग्रहैर्वा परिवारितः । राज्ञी सवर्णा छाया च तथा देवी
सुवर्च्चसा । चतस्रश्चास्य कर्तव्याः पत्न्यश्च परिपार्श्वयोः ।
एकचक्रे च सप्ताश्वे षडश्रे वा रथोत्तरे । उपविष्टस्तु
कर्तव्यो देवोह्यरुणसारथिः” ।
  • विष्णुधर्म्मोत्तरे तु “पद्मासनः पद्मकरः पद्मगर्भदलद्युतिः ।
सप्ताश्वरथसंस्थश्च द्विभुजश्च सदागतिः” ।
  • चन्द्रस्य मत्स्यपुराणे “चन्द्रः श्वेतवपुः कार्यः श्वेताम्बरधरः
प्रभुः । चतुर्बाहुर्महातेजाः सर्वाभरणभूषितः । कुमुदौ
च सितौ कार्यौ तस्य देवस्य हस्तयोः । कान्तिर्मूर्त्ति-
मती कार्या तस्य पार्श्वे तु दक्षिणे । वामे शोभा तथा
कार्या रूपेणाप्रतिमा भुवि । चिह्नं तथास्य सिंहाङ्कं
वामपार्श्वेऽर्कवद्भवेत् । दशाश्वे च रथे कार्योद्विचक्रे
वरसारथौ” । विष्णुधर्मोत्तरे तु
“श्वेतः श्वेताम्बरधरः श्वेताश्वः श्वेतभूषणः । गदापाणि-
र्द्विर्बाहुश्च कर्तव्यो वरदः शशी” ।
  • भौमस्य मत्स्यपुराणात् “भौमोऽग्नितुल्यः कर्त्तव्यस्त्वष्टास्वे
काञ्चने रथे” । विष्णुधर्मोत्तरे
“रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः । चतुर्भुजो
मेषगमो वरदः स्याद्धरासुतः” ।
  • बुधस्य “विष्णुतुल्यो बुधः कार्यो भौमतुल्ये तथा रथे” ।
  • “गुरोः “तप्तजाम्बूनदाकारो द्विभुजश्च वृहस्पतिः । पुस्तकं
चाक्षमालाञ्च करयोस्तस्य कारयेत् । सर्वाभरणयुक्तश्च
तथा पीताम्बरो गुरुः” ।
  • शुक्रस्य “अष्टाश्वे काञ्चने दिव्ये रथे दृष्टिमनीरमे । शुक्रः
श्वेतवपुः कार्यः श्वेताम्बरधरस्तथा । द्वौ करौ कथितौ
तस्य निधिपुस्तकसंयुतौ । दशाश्वे वा रथे कार्यो राजते
भृगुनन्दनः” ।
  • शनेः “कृष्णवासास्तथा कृष्णः शनिः कार्योऽसिताननः । दण्डा-
क्षमालासंयुक्तः करद्वितयभूषणः । कार्ष्णायसे रथे
कार्यस्तथैवाष्टतुरङ्गमे” ।
  • राहोः “रौप्ये रथे तथाष्टाश्वे राहुः कार्यो विचक्षणैः ।
कम्बलं पुस्तकं कार्यं भुजेनैकेन संयुतम् । करमेकन्तु
कुर्य्याच्च शस्यशून्यन्तु दक्षिणम्” ।
  • केतोः “विश्वकर्मशास्त्रात् “भौमवच्च तथा रूपं केतोः कार्यं
पृष्ठ ३७०७
विजानता । केबलं चास्य कर्तव्याः दश राजंस्तुरङ्गमाः” ।
  • शुक्लपक्षस्य प्रतिपदः “तिथयोह्यधुनोच्यन्ते प्रतिपद् द्विभुजा-
रुणा । मेषगा शक्तिपात्रा सा मितपक्षादिमा मता” ।
  • द्वितीयायाः “द्वितीया हंसगा शुभ्रा पात्रपुस्तकधारिणी” ।
  • तृतीयायाः “तृतीया वृषगा गौरी शूलपात्रधरा मता” ।
  • चतुर्थ्याः “नीलोत्पलदलाभासा चतुर्थी मूषकस्थिता । परशुं
बिभ्रती पात्रं पीतवस्त्राऽहिसंयुता” ।
  • पञ्चम्याः “पङ्गजस्था प्रबालाभा फणामस्तकभूषणा । शङ्खं
मुद्रां तथा पाशं बिभ्राणा पञ्चमी मता” ।
  • षष्ट्याः “मयूरगाऽरुणा षष्ठी पात्रकुक्कुटधारिणी” ।
  • सप्तम्याः “ताम्रवर्णाब्जपात्रा सा हयस्था सप्तमी मता” ।
  • अष्टम्याः “घण्टापात्रधरा गोस्था गोक्षीरधबलाऽष्टमी” ।
  • नवम्याः “नवमी सिंहगा शुभ्रा पाशपात्रधरा शुभा” ।
  • दशम्याः “कृष्णवर्णा लुलापस्था दशमी दण्डपात्रिणी” ।
  • एकादश्याः “एकादशी मृगाब्जस्था तुला--कर्त्तरिकायुता ।
मिंहाननाऽरुणगला--तुन्दिला लासिनी परा” ।
  • द्वादश्याः “द्वादशी गरुड़ारूढ़ा मेघबर्णारपात्रिणी” अरं, चक्रम्
  • त्रयोदश्याः “चापबाणधरा गौरी मकरस्था त्रयोदशी” ।
  • चतुर्दश्याः “अब्जस्था पाटलाभा सा पलपात्रसुरामृता ।
नीलकण्ठेन्द्रगोपाभलोचनेयं चतुर्दशी” ।
  • पौर्णमास्याः “शशगा पूर्णिमा शुभ्रा मौक्तिकाभरणान्विता ।
सुधापूर्णघटा धीर! वामदक्षिणबाहुका” ।
  • कृष्णप्रतिपदः “धूसरा कृष्णपक्षाद्या मारसंस्था चतुर्मुखा ।
अक्षसूत्रं स्रुवं पुस्तीं पात्रं धत्ते चतुर्भुजा” ।
  • कृष्णद्वितीयायाः “द्वितीया कुमुदाभासा ऋक्षस्था साक्षकुण्डिका” ।
  • कृष्णतृतीयायाः “तृतीया तार्क्ष्यगा नीला शङ्खपात्रधरा
द्विदोः” ।
  • कृष्णचतुर्थ्याः “चतुर्थी कज्जलाभा सा महिषस्था चतुर्भुजा ।
धत्तेऽक्षमालिकां दण्डं पाशं पात्रञ्च दंष्ट्रिणी” ।
  • कृष्णपञ्चम्याः “ग्राहस्था चन्द्रगौराभा पञ्चमी साक्षकुण्डिका” ।
  • कृष्णषष्ट्याः “त्र्यक्षी मयूरगा रक्ता शक्तिकुक्कुटधारिणी ।
राकास्या द्विभुजा षष्ठी रक्तवस्त्रा सुभूषणा । नीलकुण्डल-
कण्ठा सा जटाखण्डेन्दुभूषिता” ।
  • कृष्णसप्तम्याः “इभस्था सप्तमी गौरी द्विभुजा वज्रपात्रिणी” ।
  • कृष्णाष्टम्याः “प्रेतगा चाष्टमी रक्ता कृष्णग्रीवा सिताशुका ।
अक्षं खङ्गं तथा खेटं पात्रं धत्ते चतुर्भुजा” ।
  • कृष्णनवम्याः “सर्पगा नवमी नीला दंष्ट्रिणी पात्रतर्जनी” ।
  • कृष्णदशम्याः “सिंहासनस्थिता शुभ्रा दशमी पीतकुण्डला ।
ज्ञानमुद्राक्षपात्रेयं पीतवस्त्राब्जमालिनी” ।
  • कृष्णैकादश्याः “एकादशी वृषस्थाब्जनीलशुभ्रारशूलिनी” ।
  • कृष्णद्वादश्याः “ताम्रवर्णा रथारूढा पात्रखेटासिपङ्कजा ।
द्वादशी शुभ्रवस्त्रेयं नीलकुण्डलभूषिता” ।
  • कृष्णत्रयोदश्याः “अशोककलिकाबाणचापपात्रा त्रयोदशी ।
मेचकाब्जासना श्यामा हरिद्वस्त्रा मदालसा । गदापात्र-
धरा गौरी निधिस्था वा त्रयोदशी” ।
  • कृष्णचतुर्दश्याः “द्विभुजा तुरगारूढा कृष्णवर्णा चतुर्दशी ।
खड्गभल्लधरा नीलकुण्डलांशुकभूषणा” ।
  • अमावस्यायाः “अमावास्या विधातव्या द्विर्दोर्मरकतप्रभा ।
दर्भासनस्थिता चेयं दर्भपिण्डधरा कृशा” ।
  • नक्षत्राणाम् अश्विन्याः “अथ नक्षत्ररूपाणि कथयामि
समासतः । तत्रादावश्विनी ज्ञेया पद्मपत्रनिमा शुभा ।
अश्वबक्त्राम्बुजारूढा द्विभुजा च सिताम्बरा । दक्षे
दिव्यौषधीपात्रं बिभ्रती पुस्तकं करे” ।
  • भरण्याः “भरणी महिषारूढ़ा गजवक्त्वाञ्जनप्रभा । दण्ड-
पाशधरात्युग्रा रक्तदृक् परिकीर्तिता” ।
  • कृत्तिकायाः “छागस्था छागवक्त्रास्या पिङ्गभ्रूकेशलोचना । सूत्रं
शक्तिञ्च बिभ्राणा पीनाङ्गिजठराऽरुणा । कृत्तिका कीर्तिता
चेयं स्वर्णमालाबिभूषणा” ।
  • रोहिण्याः “रोहिणी तुहिनाभासा सर्पवक्त्रा तु हंसगा ।
सूत्रकुण्डीधरा देवी कीर्तिता हारभूषणा” ।
  • मृगशीर्षायाः “मृगानना हयास्या वा नागवक्त्वाऽऽग्रहायणी ।
गृध्रस्था चन्द्रगौराभकुण्डिकाजपमालिनी” ।
  • आर्द्रायाः “श्वमुखी कृष्णवर्णा तु रक्तार्द्रा शूलपाणिनी ।
नीलवस्त्रा वृषारूढ़ा चास्थिमालाविभूषणा” ।
  • पुनर्वसीः “शूकरास्यो विड़ालस्थो गौरवर्णः पुनर्वसुः । सूत्र-
वज्राङ्कुशाभीतीर्बिभ्राणः परिकीर्तितः” ।
  • पुष्यस्य “छागारूढ़श्च मेघाभः पुष्योऽयं मधुपिङ्गदृक् । अक्ष-
चण्डासनीकुण्डीं दधानोऽत्र चतुर्भुजः” ।
  • अश्लेषायाः “कोकास्या वा विडालास्या रक्ताऽश्लेषा चतुर्भुजा ।
अक्षकुण्डीधरा द्वाभ्यां सर्पालिङ्गनधारिणी” ।
  • मघायाः “कपिवक्त्रा मघा श्यामा कृशाङ्गी च महोदरा ।
दर्भपिण्डधराऽब्जस्था द्विभुजेयमुदीरिता” ।
  • पूर्वफाल्गुन्याः “पूर्वा हस्तिमुखा स्फस्था शुकनासाद्वयाऽ-
रुणा” । स्फुः खड्गः चक्रं वा ।
  • उत्तरफाल्गुन्याः “व्याघ्राननोत्तरा गोस्था शुभ्रवर्णा चतुर्भुजा ।
द्व्यक्षिणी सूत्र० खट्टाङ्गधारिणी परिकीर्तिता” ।
  • हस्तस्य “गौरारुणी लुलापास्यो हस्तनामा हयस्थितः ।
पृष्ठ ३७०८
अक्षवज्रभुजद्वन्द्वी भूषितः परिकीर्तितः” । लुलापो महिषः
  • चित्रायाः “व्याघ्रास्या महिषारूढा चित्रा गौरी
चतुर्भुजा । अक्षकुण्डी सपुस्ती च सुधापूर्णघटान्विताः” ।
  • स्वात्याः “महिषस्था मृगारूढ़ा गौरी श्यामाथवा मता ।
पीना चतुर्भुजा स्वात्यक्षाङ्कुशध्वजपात्रिणी” ।
  • विशाखायाः हर्यक्षवदना रक्ता नाभिपादान्तहेमभा ।
मेषच्छागस्थिता सेयं विशाखाङ्कुशवज्रिणी । वामे, शक्ति-
मधः पात्रं विभ्राणा हेमभूषणा” ।
  • अनुराधायाः “हरिस्था च विडालास्या द्विभुजाम्बुजव-
ज्रिणी । मूर्द्ध्वादिनाभिपादान्तश्यामगौरी क्रमेण तु ।
अनुराधा परिज्ञेया पद्मरागविभूषणा” ।
  • ज्येष्ठायाः “पीतवर्णा गजारूढ़ा भल्लास्या वा मृगानना ।
अक्षसूत्रं पविन्धत्ते वामे ज्येष्ठाङ्कुशं शये” ।
  • मूलस्य “मूलरूपं विधातव्यं श्यामं कुणपवाहनम् । खड्ग-
खेटधरं चोग्रं द्विभुजञ्च वृकाननम्” ।
  • पूर्वाषाढ़ायाः “कुम्भीरवदना नीला मर्कटस्था चतुर्भुजा ।
अक्षसूत्रं कजं पाशं पात्रं या बिभ्रती सदा । पूर्वा-
षाढ़ा समुद्दिष्टा पीतवस्त्राब्जभूषणा” ।
  • उत्तराषाढ़ायाः “सर्पगा चोत्तराषाढ़ा गौरवर्णा सुरू-
पिणी । नागबद्धजटाजूट--स्वर्णकुण्डलभूषिता । अक्ष-
नागधरा दक्षे वामे पुस्ती सकुण्डिका” ।
  • अभिजितः “अभिजित् कुमुदाभासा नक्रवक्त्रा तु हंसगा ।
वरस्रुक्पुस्तकाभीतिसंयुतेयं चतुर्भुजा” ।
  • प्रवणस्य “नीलरुक् तुरगारूढः प्रवणो मर्कटाननः । शङ्ख-
चक्रगदाब्जानि बिभ्राणः स्वर्णभूषणः” ।
  • धनिष्ठायाः “तप्तचामीकराभासा निधिस्था पङ्कजासना ।
पक्कविम्बाधरा तन्वो पीनोन्नतपयोघरा । दीर्घवेणी
सपुष्पा सा मौक्तिकाभरणान्विता । चारुनेत्रा सुवे-
षाढ्या द्विभुजा वसनारुणा । चराभयान्विता सौम्या
धनिष्ठा परिकीर्तिता” ।
  • शततारायाः “शुभ्रा मकरगाऽश्वास्या द्विभुजा पाशपात्रिणी ।
पाटला वस्त्रसंयुक्ता कीर्तिता शततारका” ।
  • पूर्वभाद्रपदायाः “पूर्वा भाद्रपदा शुभ्रा गोवक्त्रा छागगा-
मिनी । मेषशीर्षधरा सेयं सीधुपात्रञ्च बिभ्रती” ।
  • उत्तरभाद्रपदायाः “गर्द्धभास्या वृषारूढा सिता भाद्रपदो-
त्तरा । पात्रञ्च डमरुन्धत्ते द्विमुजेयमुदीरिता” ।
  • रेवत्याः “रेवती करभास्या स्यात् द्विभुजा हस्तिगामिनी ।
कमलं कुण्डिकां धत्ते शेतवर्णा महास्वना” ।
  • योगानां विष्कुम्भस्य “विष्कुम्भः प्रथमो ज्ञेयः पीतवर्णस्तु
षड्भुजः । रक्तास्यो नीलकण्ठस्तु वृत्तनेत्रः सुभीषणः ।
विशालभालो दीर्घाङ्गस्तुङ्गनासो जटाधरः । लम्बकर्णे-
न्द्रनीलोत्थस्वणरत्नजकुण्डलः । शुभ्रनीलेन्द्रगोपाभवसनः
स्वर्णभूषणः । मुद्गरं प्रथमे दक्षे द्वितीये कर्त्तरीमिह ।
तृतीये कुलिशं पाणौ वामाद्ये टङ्कमेव च । श्वेतपुच्छं
द्वितीये च तृतीये चामृतं धटम् । विभ्राणः पूजनी-
योऽयं पीतपुष्पैः सुगन्धिभिः । कार्य्यनिष्पत्तये
नूनमन्यथा विघ्नदायकः” ।
  • प्रीतेः “प्रीतिनामा द्वितीयस्तु जवाकुसुमसन्निभः । श्वेतवक्त्रो
विशालाक्षी लम्बकर्णेन्दुकुण्डलः । भालेऽलितिलकोपेतः
सौम्यो मुक्ताविभूषणः । श्वेतवस्त्री जटामौलिरष्टबाहु-
र्वृकोदरः । बन्धुजीवोत्थपुष्पाङ्कमल्लिकामादिमे यमे ।
द्वितीये मोदकं पाणौ तृतीये कदलीफलम् । चतुर्थे
षङ्कजञ्चैव वामाद्ये चामृतं घटम् । द्वितीये चात्र बै
पात्रं सोमपूर्णं मनोहरम् । तृतीये कुलिशं हम्वे चतुर्थे
चात्रवैध्वजम् । दधानो भूतये प्रीत्यै सर्वतापनिवृत्तये” ।
  • आयुष्मतः “आयुष्मांस्तु तृतीयोऽयं मौक्तिकाभोऽरुणोदरः ।
क्षौमवस्त्रान्वितश्चैव मुक्तासौवर्णभूषणः । दिग्भुजः
प्रथमे दक्षे चाक्षसूत्रञ्च मौक्तिकम् । दूर्वामत्र द्वितीये वै
तृतीये चूतपल्लवम् । चतुर्थे पङ्कजञ्चैव पञ्चमे चातपत्र-
कम् । सुधाकुम्भन्तु वामाद्ये वीजपूरपिधानकम् । पात्रं
दध्यक्षतोपेतं द्वितीये करपल्लवे । तृतीये श्रीफलं हस्ते
चतुर्थे पविमेव च । पञ्चमे चामरं हस्ते स्वर्णदण्डं
सितं शुभम् । धारयन्नेष वै पूज्यो भोगायुष्यविवृद्धये” ।
  • सौभाग्यस्य “सौभाग्याख्यश्चतुर्थोऽत्र स्फटिकाभस्त्रिलोचनः ।
स्कन्धारुणो महासत्वः सुन्दरः कुमुद्राम्बरः । दशबाहु
रयञ्चार्कौ (यमे) प्रथमे श्रीफलं करे । अक्षसूत्रं प्रवा-
लोत्थं द्वितीये करपल्लवे । तृतीये कमलं हस्ते चतुर्थे
वाणवारकम् । पञ्चमे शक्तिमत्रैव वामाद्ये पात्रमेव च ।
द्वितीये चामृतं कुम्भं तृतीये तु प्रकीर्णकम् । चतुर्थे
दर्पणं हस्ते वेणुदण्डञ्च पञ्चमे । बिभ्राणः सौम्य
सौभाग्यवृद्धये चायुषे श्रिये” । (पूजनीय इति शेषः)
  • शोभनस्य “शोभनः पञ्चमो योगः श्वेतबक्त्वो वशी बली ।
शेषारुणः कृशाङ्गश्च प्रवालकृतकुण्डलः । शोणशुक्लाम्बर-
श्चैव मुक्ताविद्रुमभूषणः । अक्षसूत्रं सुहेमोत्थं प्रथमे
दक्षिणे करे । द्वितीये पङ्कजं हस्ते तृतीये श्रीफलं
शये । तुर्ये शक्तिं कराम्भोजे वामाद्ये वै कमण्डलुम् ।
पृष्ठ ३७०९
द्वितीये स्वर्णजं पात्रं तृतीये चैव दर्पणम् । चतुर्थे
चामरं पाणौ धारयन्नष्टदोरिति । पूजनीयो महाभक्त्या
सौख्यसौभाग्यवृद्धये” ।
  • अतिगण्डस्य “अतिगण्डाभिधश्चाथ षष्ठो योगः प्रतीयते ।
गण्डारुणसितः क्रूरः कृष्णवक्त्रोऽर्कभूषणः । स्थूलो
विद्धश्रुतिस्तुङ्गनासिकोऽरुणभूषणः । पिङ्गश्मश्रुजटामौलिः
षड्भुजः कटिसूत्रवान् । अक्षसूत्रं यमादिस्थेलोहजं
करपल्लवे । एणं मृगं द्वितीये च तृतीये चैव वारिजम् ।
पात्रं वामादिमे पाणौ द्वितीये शक्तिमेव च । पताकान्तु
तृतीये वैदधानः कृष्णलोहिताम् । पूजनीयो महाभक्त्या
दुष्टभीतिनिवृत्तये” ।
  • सुकर्मणः “चतुर्भुजः सुकर्मा वै श्वेतबाहूदरश्रुतिः ।
नीलशुभ्रांशुकोपेतः स्वर्णनीलविभूषणः । रुद्राक्षमालिका-
मार्कौ (यमे दक्षे) प्रथमे करपल्लवे । द्वितीये कमलं पाणौ
वामादौ दण्डमेव च । पताकामत्र वै हस्ते द्वितीये
सुमनोहरा । बिभ्रत्सुवृद्धये नॄणां कर्मारम्भशुभप्रदः” ।
  • धृतेः “धृत्याख्यश्चाष्टमो योगः कथ्यते वसुबाहुकः । भाला-
रुणस्तु सर्वाङ्गे श्वेतवर्णोऽरुणाम्बरः । स्वर्णमुक्तेन्द्रनी-
लाढ्यो विद्रुमान्वितभूषणः । भुक्ताक्षमालिकां दक्षे
प्रथमे रत्नमुद्रिके । द्वितीये श्रीफलं पाणौ तृतीयेऽशो-
कपल्लवम् । चतुर्थे हेमजं दण्डं वामाद्ये वै कमण्ड-
लुम् । द्वितीये चामृतं पात्रं तृतीये चाम्बुजं करे ।
पताकासत्र वै तुर्ये बिभ्राणः श्चीविवृद्धये” ।
  • शूलस्य “नवमः शूलनामाथ कथ्यते व्यक्तभागतः । ताम्रा-
रुणगलश्चैव श्वेतवर्णः कृशोदरः । भालरेखात्रयश्चैव
त्रिजटो नोलकुन्तलः । अर्कहस्तो यमादिस्थे त्रिशूलं
चातिभीषणम् । द्वितीये मुद्गरं पाणौ तृतीये चाक्ष-
सूत्रकम् । चतुर्थे शृङ्खलामत्र पञ्चमे दण्डमेव च ।
मष्ठे चैवाम्बुजं पाणौ कपालं चोत्तरादिमे । टङ्कं
द्वितीयके चैव तृतीये वै कमण्डलुम् । सन्दंशन्तु करे तुर्ये
पञ्चमे चैव दर्पणम् । पताकामत्र वै षष्ठे धारयन्नेष
पूजितः । भवेदनिष्टनाशाय वैरिविध्वस्तये नृणाम्” ।
  • गण्डस्य “गण्डाख्यः कथ्यते योगो दशमः सोऽयमत्र हि ।
गण्डः शुभ्रारुणाङ्गस्तु षड्भुजो मेचकाम्बरः ।
हरिन्मणिविभूषाढ्यो नीलविद्रुमकुण्डलः । अक्षसूत्रं
यमादिस्थं द्वितीये चन्द्रहासकम् । तृतीये वारिजं नीलं
वामाद्ये वै कमण्डलुम् । द्वितीये खेटकं हस्ते पताकाञ्च
तृतीयके । दधानो यज्वनस्तुष्ट्यै रोगानिष्टनिवृत्तये” ।
  • वृद्धेः “एकादशस्तु वृद्ध्याख्यः कथ्यते १६ रसचन्द्रदोः । पादा-
रुणोऽपरश्वेतो भालविस्तीर्णमण्डलः । विचित्रवसनो-
पेतो मुक्तासौवर्णभूषणः । अक्षसूत्रं यमादिस्थे द्वि-
तीये चामृतं घटम् । तृतीये नन्दकं पाणौ चतुर्थे
बाणमेव च । पञ्चमे मुद्गरञ्चैव षष्ठे सन्दंशमेव च ।
सप्तमे कम्बुमत्रैव पङ्कजञ्चाष्टमे शये । कुण्डिकामादिमे
वामे द्वितीये पात्रमेव च । तृतीये खेटकं हस्ते चतुर्थे
चैव कार्मुकम् । पञ्चमे टङ्कमत्रैव षष्ठेचैणविषाणकम् ।
सप्तमे चापमत्रैव पताकामष्टमे करे । बिभ्राणः श्रेयसो
वृद्ध्यै चायुर्गोत्रधनस्य च” ।
  • ध्रुवस्य “द्वादशी ध्रुवनामा वै योगश्चात्रैव कथ्यते । वक्षः-
स्थलारुणश्चैव श्वेतसर्वाङ्ग एव च । माञ्जिष्ठवसनोपेतो
हेममुक्ताविभूषणः । चतुर्दशभुजोपेतो दक्षिणाद्येऽ-
क्षसूत्रकम् । द्वितीये तु कजं खड्गं तृतीये चैव मुद्ग-
रम् । चतुर्थे सायकं हस्ते पञ्चमे चैव पङ्कजम् । षष्ठे
मनोहरं शङ्खं सप्तमे चामरं शये । पात्रं सौम्यादिमे
पाणौ द्वितीये चैव खेटकम् । टङ्कं तृतीयके हस्ते
चतुर्थे चैव कार्मुकम् । पताकामत्र वै हस्ते पञ्चमे
वरलक्षणे । षष्ठे मनोहरादर्शं सप्तमे चक्रमादधत् ।
पूजनीयो महाभक्त्या लक्ष्मीस्थैर्य्यादिहेतवे” ।
  • व्याघातस्य “कय्यते चाधुना योगो व्याघाताख्यस्त्रयोदशः ।
नाभ्यूर्द्धं लोहितश्चायं श्वेतपूर्वस्त्रिलोचनः । अन्त-
श्वेतारुणप्रान्तवसनः सूर्यकुण्डलः । गले स्फटिकमालो-
ऽसौ शेषरुद्राक्षभूषणः । मणिबन्धेऽलिवर्णस्तु षड्भुजः
कुटिलाननः । पङ्कजं प्रथमे दक्षे द्वितीये परशुं शये ।
तृतीये चात्र वै पाशं वामे पात्रमिहादिमे । द्वितीये
चामृतं कुम्भं तृतीये चाङ्कुशं शये । बिभ्राणोऽयं
महापूज्यः कार्यभ्रंशनिवृत्तये” ।
  • हर्षणस्य “अधुना कथ्यते योगो हर्षणाख्यश्चतुर्दशः । जानूर्द्ध्वे
लोहितश्चायं तत्पूर्वं श्वेतएव च । पाटलाभांशुकोपेतो
मुक्तावैदूर्यभूषणः । भुजद्वादशकोपेतो लम्बकर्णो
विशालदृक् । कौस्तुभं प्रथमे दक्षे द्वितीये चाक्षसूत्रकम् ।
तृतीये पङ्कजं हस्ते चतुर्थे बाणमेव च । पञ्चमे
शङ्खमत्रैव षष्ठे पाशं कराम्बुजे । वामादिमे करे पात्रं
द्वितीये चामृतं घटम् । तृतीये परशुं हस्ते चतुर्थे
चैव कार्मुकम् । पञ्चमे तु करे चक्रं षष्ठे चैवाङ्कुशं शये ।
विभ्राणः श्रेयसे भूत्यै मानोन्नत्यै सुखाय च” ।
  • वज्रस्य “अथ पञ्चदुशो योगः कथ्यते वज्रसज्ञकः । श्वेताहि-
पृष्ठ ३७१०
काञ्चीं बिभ्राणः कृष्णग्रीवोऽरुणाननः । रोचनावसनो-
पेतो विद्धकर्णस्त्रिलोचनः । वज्रवैदूर्यभूषाढ्यः
कटिसूत्रसमन्वितः । जटां त्रिबलयां बिभ्रत् दिग्भुजः
परितो बली । अक्षसूत्रं यमादिस्थे द्वितीये बाणमेव
च । तृतीये पङ्कजं हस्ते चतुर्थे कुलिशं शये । पञ्चमे
परशुं पाणौ वामाद्ये चामृतं घटम् । द्वितीये कार्मुकं
चैव तृतीये पात्रमुत्तमम् । चतुर्थे कुलिशं चैव पञ्चमे
पाशमेव च । बिभ्रद्विजयसौख्याय लक्ष्मींसन्तानवृद्धये” ।
  • सिद्धेः “कथ्यते चाधुना योगः सिद्धिनामा तु षोडशः ।
पादजङ्घारुणश्चोर्द्धे श्वेतवर्णः शुभाननः । दिग्भुजो
लोहितग्रीवो लोहितनिहिताम्बरः । मुक्ताहारमणि-
स्वर्णभूषणः सोमकुण्डलः । श्रीफलं प्रथमे दक्षे द्वितीये
चैव पङ्कजम् । तृतीये पुस्तकं हस्ते चतुर्थे बाणमेव
च । पञ्चमे च ध्वजं हस्ते वामे पात्रमिहादिमे ।
द्वितीये चामृतं कुम्भं तृतीये चैव चामरम् । चतुर्थे
चैव कोदण्डं पताकामिह पञ्चमे । दधानः सिद्धये नॄणां
वाञ्छितार्थस्य सिद्धिदः” । (अस्यासृगित्यपरनाम)
  • व्यतीपातस्य “व्यतीपाताभिधश्चैव योगः सप्तदशस्त्विह ।
कण्ठेन लोहितश्चायं श्वेतग्रीवोऽलिभाननः । शुद्धमा-
ञ्जिष्ठवसनो नीलस्वर्णजभूषणः । अष्टादशभुजो देवो
भ्रुकुटीकुटिलाननः । दात्रमार्क्यादिमे हस्ते द्वितीये लोष्ट
भेदनम् । अक्षसूत्रं तृतीये तु तुर्ये वाणं मनोहरम् ।
पञ्चमे शृङ्खलां लौहीं षष्ठे कवचमेव च । सप्तमे
मुद्गरं हस्ते पङ्कजं चाष्टमे करे । कुद्दालं नवमे हस्ते
शृङ्गिकामादिमोत्तरे । पात्रं द्वितीयके चैव स्वर्णकुम्भं
तृतीयके । चतुर्थे कार्मुकं पाणौ पञ्चमे कर्त्त्रिकामिह ।
मुसलन्तु करे षष्ठे सप्तमे टङ्कमेव च । अष्टमे च ध्वजं
हस्ते नवमे प्राङ्कुटं शये । दधानो वैरिवर्गस्य ध्वस्तये
चैव मृत्यवे । यज्वनः पुत्रसन्तत्यै लक्ष्मीभोगसुखाय च
  • वरीयसः “अष्टादशो वरीयांश्च कथ्यते योग उत्तमः ।
आकण्ठशुभ्रवर्णस्तु लोहितग्रीव एव च । श्वेतवक्त्रो
विशालाक्षो लम्बकर्णोऽर्ककुण्डलः । स्वर्णाभरणभूषाढ्यो
लक्षणानेकसंयुतः । अक्षसूत्रं यमादिस्थे द्वितीये
वीजपूरकम् । चन्द्रहासं तृतीये तु तुर्ये बाणं कराम्बुजे ।
पञ्चमे शङ्खमत्रैव षष्ठे परशुमेव च । सप्तमे मुद्गरं हस्ते
चाष्टमे दात्रमेव च । नवमे चात्र वै शृङ्गं दशमे
कमलं करे । एकादशे पविञ्चात्र द्वादशे हलमेव च ।
दण्डं त्रयोदशे हस्ते शक्तिमस्त्रं चतुर्दशे । कजं पञ्च-
दशे हस्ते षोडशेऽथ त्रिशूलकम् । घटं वामादिमे पाणौ
पात्रमत्र द्वितीयके । तृतीये खेटकञ्चैव तुर्ये कार्मुकमेव
च । चक्रन्तु पञ्चमे हस्ते षष्ठे चैव कुठारकम् । सप्तमे
टङ्कमत्रैव चामरञ्चाष्टमे शये । नवमे डमरुञ्चैव दशमे
चात्र वल्लकीम् । एकादशे शृणिञ्चैव द्वादशे मुसलं
शये । त्रयोदशे तु वै पाशं गदामत्र चतुर्दशे । दर्पणं
तिथिमे हस्ते ध्वजमत्रैव षोडशे । दधानः श्रेयसे
भूत्यै सर्वभोगसुखाय च” ।
  • परिघस्य “एकोनविंशकश्चात्र कथ्यते परिघोऽनघ! । पादजा-
न्वन्तशुभ्रोऽसौ श्वेतवक्त्रो जटाधरः । मध्यारुणोदरे
नीलरेखासंयुत एव च । नीलाम्बरो महासत्वो
हेमरत्नजकुण्डलः । सुवर्णभूषणोपेतो षड्भुजः क्रूर-
दर्शनः । गदामार्क्यादिमे हस्ते द्वितीये परिघं शये ।
तृतीये कमलं पाणौ वामाद्ये पात्रमेव च । द्वितीये
पट्टिशं हस्ते तृतीये चात्र वै ध्वजम् । बिभ्राणः शत्रु-
नाशाय दुष्टभीतिनिवृत्तये” ।
  • शिपस्य “अथ विंशतिमो योगः शिवाख्यश्चात्र कथ्यते ।
शुभ्रवर्णस्त्रिनेत्रस्तु मौक्तिकाभरणान्वितः । दक्षिणे
प्रथमे हस्ते वीजपूरं मनोहरम् । अक्षसूत्रं द्वितीये
च तृतीये कम्बुमेव च । चतुर्थे सायकं हस्ते पञ्चमे
चन्द्रहासकम् । मुद्गरञ्च करे षष्ठे सप्तमे परशुं शये ।
कुद्दालमष्टमे पाणौ नवमे दात्रमेव च । दशमे चात्र वै
शृङ्गं पविमेकादशे त्विह । द्वादशे पञ्चशाखां वै
लोष्टभेदनमेव च । त्रयोदशे हलञ्चैव शक्तिमस्त्रं
चतुर्दशे । करे पञ्चदशे दण्डं षोडशे चाम्बुजं त्विह ।
त्रिशूलं मुनिचन्द्रे (१७) च वसुचन्द्रे (१८) च तोमरम् ।
वामादिमे शये पात्रं द्वितीये चामृतं घटम् । तृतीये
चक्रमत्रैव चतुर्थे वै शरासनम् । पञ्चभे खेटकं हस्ते
षष्ठे टङ्कं कराम्बुजे । कुठारं सप्तमे पाणौ प्राङ्कुट-
ञ्चाष्टमे त्विह । नवमे चामरं शुभ्रं दशमे डमरुन्त्विह ।
शृणिमेकादशे हस्ते द्वादशे चैव दर्पणम् । अष्टादशे
शये कुन्तं बिभ्राणः शान्तिवृद्धये” । (अत्र त्रयोदशादिसप्त-
दशान्तवामहस्तानां चिह्नवाक्यानि मुद्रितपुस्तके पतितानि
विश्वकर्मशास्त्रे दृश्यानि) ।
  • सिद्धस्य “एकविंशोऽधुना योगः सिद्धनामाभिधीयते ।
जवाकुसुमसङ्काशः शुभ्ररेखात्रयोदरः । जटाभिरष्टभिस्तस्य
मुकुटः खण्डचन्द्रयुक् । शोणशुभ्रांशुकोपेतः स्फाटि-
काभरणान्वितः । वसुपक्षभुजः २८ सौम्यस्तुन्दिलः सर्व-
पृष्ठ ३७११
लक्षणः । तोमरञ्चादिमे दक्षे द्वितीयेऽत्र त्रिशूलकम् ।
तृतीये पङ्कजं पाणौ तुर्ये दण्डं सुवर्णजम् । पञ्चमे
तु करे शक्तिं षष्ठे वै लाङ्गलं शये । सप्तमे कुलिशं
हस्ते शृङ्गमत्रैव चाष्टमे । नवमे दात्रमत्रैव दशमे तु
परश्वधम् । मुद्गरं रुद्रहस्ते वै द्वादशे चन्द्रहासकम् ।
त्रयोदशे शये बाणं शङ्खमत्र चतुर्दशे । कुम्भं वामा-
दिमे हस्ते द्वितीये डमरुं जये । पात्रन्तु नवमे हस्ते
दशमे वै कुठारकम् । टङ्कमेकादशे हस्ते द्वादशे चैव
खेटकम् । त्रयोदशे शये चापं चक्रमत्र चतुर्दशे ।
धारयन् पूजनीयोऽसौ भोगसौख्यश्रिये जये” । (अत्र तृतीया-
द्यष्टमान्तवामहस्तचिह्नवाक्यानि मुद्रितपुस्तके पतितानि
विश्वकर्मशास्त्रे दृश्यानि) ।
  • साध्यस्य “साध्यो द्वाविंशकश्चैव कथ्यते योग एव सः । शुभ्र-
वर्णो विशालाक्षो वह्निरेखगलाननः । कौसुम्भवसनो-
पेतो वज्रवैदूर्यकुण्डलः । वेदवह्निभुजोपेतो मेखलाने-
करत्नयुक् । अक्षसूत्रं यमादिस्थे द्वितीये वीजपूरकम् ।
तृतीये शक्तिमत्रैव तुर्ये चैव त्रिशूलकम् । पञ्चमे
सायकं हस्ते षष्ठे वज्रं कराम्बुजे । सप्तमे पङ्कजं
पाणौ दण्डमत्रैव चाष्टमे । नवमे तोमरं पाणौ
दशमे शक्तिमेव च । एकादशे हलं हस्ते द्वादशे शृङ्ग-
मेव च । त्रयोदशे शये खड्गं परशुन्तु चतुर्दशे । करे
पञ्चदशे रम्ये मुद्गरं कठिनाङ्गुलौ । षोड़शे दात्रमत्रैव
शङ्खं सप्तदशे त्विह । वामादिभे करे कुण्डीं द्वितीये
पात्रमेव च । तृतीये चाभयं हस्ते तुर्ये डमरुमेव च ।
पञ्चमे कार्मुकं पाणौ षष्ठे चैवाङ्कुशं शये । सप्तमे
तु ध्वजं दिव्यमष्टमे पाशमेव च । नवमे कुन्तमत्रैव
दशमे तु गदामिह । मुसलं रुद्रहस्ते वै द्वादशे चैव
चामरम् । त्रयोदशे करे खेटं कुठारन्तु चतुर्दशे । टङ्कं
पञ्चदशे पाणौ षोड़शे चैव दर्पणम् । चक्रं सप्तदशे
हस्ते दधानः श्रीविवृद्धये” ।
  • शुभस्य “शुभनामा त्रयोविंशो योगश्चात्रैव कथ्यते ।
नीलकालिकशोणस्तु मौक्तिकाभस्त्रिलोचनः । शोणरेखा-
ङ्कितग्रीवः शोणशुभ्रांशुकावृतः । मुक्ताविद्रुममाणिक्य-
भूषणः स्वर्णकुण्डलः । द्वात्रिंशद्बाहुसंयुक्तो जटाकपि-
लमण्डलः । वरं यमादिमे पाणौ द्वितीये चाक्षसूत्र-
कम् । तृतीये च त्रिशूलं वै तुर्ये बाणं कराम्बुजे ।
पञ्चमे पङ्कजं चैव षष्ठे कुलिशमेव च । सप्तमे शक्तिम-
त्रैव दण्डं वै चाष्टमे करे । नवमे तोमरं हस्ते दशमे
शृङ्गिकामिह । हलमेकादशे चैव द्वादशे खड्गमत्र हि ।
दात्रं त्रयोदशे हस्ते मुद्गरं च चतुर्दशे । शङ्खं
पञ्चदशे पाणौ षोड़शे तु परश्वधम् । अभयं चादिमे
वामे द्वितीये वै कमण्डलुम् । तृतीये पात्रमत्रैव तुर्ये
कार्मुकमेव च । पञ्चमे डमरुं पाणौ षष्ठे चाङ्कुश-
मेव च । सप्तमे वीजपूरं वै ध्वजं वै चाष्टमे करे ।
नवमे पानघात्रञ्च दशमे कुन्तमेव च । गदामेकादशे हस्ते
द्वादशे चैव खेटकम् । चामरं मन्मथे १३ पाणौ टङ्कमत्र
चतुर्दशे । चक्रं पञ्चदशे चैव षोड़शे तु कुठारकम् ।
विभ्राणो भुक्तये पूज्यः सौन्दर्याय सुखाय च” ।
  • शुक्रस्य “चतुर्विंशतिमश्चात्र शुक्राख्यः कथ्यतेऽधुना । चिवुके
लोहितश्चायं चन्द्रगौरस्त्रिलोचनः । जटामुकुटस्व-
ण्डेन्दुर्नीलरेखासुधाधरः । सिन्दूरवदनोपेतो भाला-
लितिलकाङ्कितः । प्रवालमौक्तिकस्वर्णभूषणः कण्ठकौ-
स्तुभः । खवह्नि ३० बाहुसंयुक्तो रत्नमुद्रासमन्वितः । शूर्पा-
क्षमालिकां यान्ये प्रथमे करषल्लवे । द्वितीये च त्रिशूलं
वै तृतीये बाणमेव च । परश्वधं करे तुर्ये पञ्चमे
शङ्खमव च । मुद्गरं चात्र वै षष्ठे सप्तमे दात्रमेव च ।
अष्टमे तु करे खड्गं नवमे चैव लाङ्गलम् । दशमे
शृङ्गमत्रैव तोमरं रुद्रसम्मिते । द्वादशे तु करे दण्डं
शक्तिमत्र त्रयोदशे । चतुर्दशे शये वज्रं करे पञ्चदशे
कजम् । वीजपूरन्तु वामाद्ये द्वितीये पात्रमेव च ।
तृतीये कार्मुकं पाणौ तुर्ये चैव कुठारकम् । पञ्चमे
चक्रमत्रैव षष्ठे टङ्कं कराम्बुजे । सप्तमे चामरं पाणौ
खेटकं चाष्टमे शये । नवमे तु गदामत्र दशमे चाऽमृतं
घटम् । कुन्तमेकादशे हस्ते द्वादशे पात्रमेव च । त्रयो-
दशे शृणिं चैव दर्पणञ्च चतुर्दशे । ध्वजं पञ्चदशे
हस्ते दधानस्तु महाय च” ।
  • व्रह्मणः “पञ्चविंशतिमी योगी ब्रह्मनामा प्रतीयते ।
शोणोरः पाण्डुराशेषश्चन्द्रगौरस्त्रिलोचनः ।
नीलकालिकशोणस्तु ग्रीवास्वर्णस्त्रिरेखिकः । जटात्रयप्रल-
म्बोऽसौ सौम्यः प्रहसिताननः । ताम्रवर्णांशुकोपेतः
कण्ठरुद्राक्षमालिकः । मुक्तामाणिक्यहेमोत्थभूषणः
सोमकुण्डलः । वियद्बाण ५० भुजोपेतः किङ्किणीजालमेखलः ।
सौम्याक्षमालिकां दक्षे प्रथमे तलशोभने । द्वितीये त
वरं पाणौ खड्गमत्र त्रयोदशे । हलं चतुर्दशे हस्ते
शृङ्गं पञ्चदशे त्विह । षोड़शे चैव लोहासिं मुनि-
रन्ध्रे च तोमरम् । अष्टादशे शये दण्डं शक्तिमेको-
पृष्ठ ३७१२
नविंशके । करे विंशतिमे चक्रं त्वेकविंशे शये कजम् ।
द्वाविंशे चमसं हस्ते त्रयोविंशे शयेऽर्बुदम् । चतुर्विंशतिमे
पाणौ सुदृढं लोहभेदनम् । पञ्चविंशे तु रक्षास्त्रं
वामाद्ये वै कमण्डलुम् । द्वितीये चाभयं हस्ते तृतीये
चात्र वै ध्रुवम् । तुर्ये खट्वाङ्गमेवेह कुद्दालं चैव पञ्चमे ।
षष्ठे शरासनं पाणौ सप्तमे कवचं शये । अष्टमे पट्टिशं
हस्ते नवमे वै सुदर्शनम् । दशमे वीजपूरं वै पाशमे-
कादशे करे । द्वादशे चात्र वै टङ्कं खेटमत्र त्रयो-
दशे । चतुर्दशे कुठीराख्यं डमरुन्तिथिसंज्ञिते । षोड़शे
चामरं हस्ते कुम्भं सप्तदशे त्विह । अष्टादशे गदामत्र
मुसलं नन्दचन्द्र १९ मे । अङ्कुशं विंशके हस्ते पाशञ्चैवैक-
विंशके । द्वाविंशके ध्वजं शुभ्रं वीरभद्रन्त्रिपक्षमे ।
जिने २४ सुनिर्मलादर्शं पञ्चविंशेऽजिनं शये । दधानो
यज्वनो गोत्रपरमायुर्विवृद्धये” । (अत्र तृतीयादित्रयोद-
शान्तदक्षहस्तचिह्नवाक्यानि मुद्रितपुस्तके पतितानि
विश्वकर्म्मशास्त्रे दृश्यानि) ।
  • इन्द्रस्य “इन्द्रः षड्विंशकश्चात्र कथ्यते तव साम्प्रतम् ।
हस्तपादारुणश्चायं शेषशुभ्रायतेक्षणः । धम्मिल्लम-
ल्लिकामाल्यचन्दनाद्यनुलेपनः । भालालितिलकश्चैव कर्ण-
कुण्डलमेचकः । मुक्ताहारोज्ज्वलोरस्कः सर्वरत्नविभूषणः ।
शुभ्रशोणेन्द्रनोलाभवसनः सर्वलक्षणः । युग्मवाण ५२ भुजो-
पेतो मनागरुणलोचनः । शक्तिमार्क्यादिमे हस्ते द्वितीये
मौक्तिकस्रजम् । तृतीये कमलं पाणौ चतुर्थे शुक्तिका-
मिह । स्रुवन्तु पञ्चमे पाणौ षष्ठे चात्र त्रिशूलकम् ।
सप्तमे चैव लोहासिं कुद्दालं चाष्टमे करे । नवमे
पत्निकाञ्चैव दशमे चन्द्रहासकम् । एकादशे हलं हस्ते
द्वादशे शृङ्गमेव च । तोमरं मन्मथे १३ पाणौ दण्डं चैव
चतुर्दशे । करे पञ्चदशे शक्तिं षोड़शे कुलिशं
शये । चक्रञ्च मुनिचन्द्राङ्क्ये १७ वसुचन्द्रे १८ परश्वधम् ।
एकोनविंशके कम्बुं विंशके पुस्तकं त्विह । विष्टरं त्वेक-
विंशे वै द्वाविंशे चैव मुद्गरम् । चमसन्तु त्रयोविंशे
चतुर्विंशे त्विहार्बुदम् । पञ्चविंशतिमे हस्ते लोष्ट-
भेदनमेव च । षड़्विंशे च तुरष्कास्त्रं वामाद्यो चाभय
शये । द्वितीये कुण्डिकामत्र ततीये वीजपूरकम् ।
तर्ये वामे वृतं पात्रं पञ्चमे स्रुवमेव हि । षष्ठे खट्वा-
ङमेवेह सप्तमे डमरुं शये । अष्टमे प्राङ्कुटं पाणौ
नवमे चै० कार्मुकम् । दशमे खेटकं हस्ते रुद्रे चैव
कठारकम् । द्वादशे चामरं हस्ते कन्तमत्र त्रयादशे ।
गदां चतुर्दशे चैव मुसलन्तिथिसंमिते । अङ्कुशं
षोड़शे हस्ते पाशं सप्तदशे करे । पट्टिशं वसुच-
न्द्राङ्क्ये १८ चक्रन्त्वेकोनविंशके । कवचं विंशके चैव दात्र-
ञ्चैवैकविंशके । द्वाविंशके तु वै टङ्कं त्रयोविंशे
ध्वजन्त्विह । वीरभद्रं चतुर्विंशे पञ्चविंशे तु दर्प-
णम् । अजिनं चात्र षड्विंशे विभ्राणः श्रीविवृद्धये” ।
  • वैधृतेः “वैधृत्याख्यस्तु वै योगः सप्तविंशतिमस्त्विह ।
शुभवर्णो महारौद्रो ग्रीवाशोणः सिताननः । जटापञ्च
प्रलम्बस्तु मेचकारुणकुण्डलः । नीलशोणसुवर्णोत्थ-
भूषणो मेचकाम्बरः । वेदबाण ५४ भुजोपेतो वृहत्कुक्षिः
सुमन्थरः । अक्षसूत्रं यसादिस्थे द्वितीये वरमेव च ।
तृतीये चैव सन्दंशं तुर्ये शुक्तिं समुद्रजाम् । पञ्चमे
पङ्कजं पाणौ षष्ठे चात्र स्रुवन्तथा । सप्तमे सायकं
पाणौ ज्ञानखड्गमिहाष्टमे । नवमे चैव कुद्दालं
दशमे च त्रिशूलकम् । शृङ्गमेकादशे हस्ते द्वादशे
हलमेव च । त्रयोदशे तु वै खड्गं तोमरन्तु
चतुर्दशे । करे पञ्चदशे दण्डं षोडशे शक्तिमेव च । वज्रं सप्त-
दशे पाणौ कवचं वसुचन्द्रमे १८ । परशुं नन्दचन्द्राङ्क्ये १९
विंशके चार्बुदं करे । एकविंशे शये चैव लोष्टभेदन-
मेव च । द्वाविंशे वै तुरष्कास्त्रं त्रयोविंशे तु शङ्ख-
कम् । पुस्तकन्तु चतुर्विंशे पञ्चविंशे तु विष्टरम् ।
षड्विंशे मुद्गरं पाणौ चमसं सप्तविंशके । वामा-
दिमे करे कुण्डीमभयन्तु द्वितीयके । मीनं तृतीयके
हस्ते चतुर्थे वीजपूरकम् । पञ्चमे पात्रमत्रैव षष्ठे
चैव स्रुवं करे । सप्तमे कार्मुकं पाणौ डमरुं चाष्टमे
करे । नवमे प्राङ्कुटं हस्ते खट्वाङ्गञ्चैव दिक्करे ।
चामरं रुद्रमे चैव द्वादशेऽत्र कुठारकम् । खेटं त्रयो-
दशे चैव कुन्तमत्र चतुर्दशे । गदां पञ्चदशे पाणौ
षोड़शे मुसलन्त्विह । शृणिं सप्तदशे हस्ते पाशमष्टादशे
करे । पट्टिशं नन्दचन्द्राङ्क्ये १९ वीरभद्रन्तु विंशके ।
एकविंशे शये टङ्कं द्वाविंशे चाजिनं करे । त्रयोविंशे तु वै
चक्रं कवचं जिन २४ हस्तके । पञ्चविंशे तु वै पात्रं षड्विंशे
दर्पणं शुभम् । सप्तविंशे ध्वजं हस्ते धारयन् दुष्टघा-
तकृत्” ।
  • करणानां ववस्व “करणानामथो वक्ष्ये रूपसम्बन्धिलक्षणम् ।
ववाभिघन्तु वै पीतं जटिलं रत्नकुण्डलम् । नीलवस्त्रन्तु
रुद्राक्षभूषणं कण्ठपाण्डुरम् । चतुर्दशभुजोपेतं पिङ्ग-
भ्रूलोचनत्रयम् । वरं यमादिमे हस्ते द्वितीये बाण-
पृष्ठ ३७१३
मेव च । तृतीये कुलिशं पाणौ चतुर्थे चैव पङ्कजम् ।
मुद्गरं पञ्चमे चैव षष्ठे सन्दंशमेव च । सप्तमे चाङ्कुशं
दिव्यं पञ्चशाखे महोदरे । प्रथमे चाभयं वामे द्वितीये
तु शरासनभ् । तृतीये पुस्तकं हस्ते चतुर्थे मुकुरं शये ।
टङ्कन्तु पञ्चमे पाणौ षष्ठे कर्तरिकामिह । करे तु
सप्तमे चात्र नागपाशं दधच्छ्रिवे” ।
  • बालवस्य “बालवाख्यन्तु वै रक्तं नीलग्रीवं महोदरम् ।
श्वेतवस्त्रं जटाभारं पिङ्गलं तुङ्गनासिकम् । कण्ठरुद्रा-
क्षमालं तद्भूतिमत्कालपाण्डुरम् । रसचन्द्र १६ करोपेतं
कक्षालग्नकरण्डकम् । प्रथमे मोदकं हस्ते दक्षिणे
सुमनोहरे । द्वितीये केतकीपत्रं तृतीये शक्तिमेव च ।
चतुर्थे पङ्कजं पाणौ पञ्चमे वै सुदर्शनम् । षष्ठे सर्वायसं
बाणं सप्तमे कुलिशं करे । सन्दंशमष्टमे हस्ते पात्रं
वामादिमे त्विह । द्वितीये कुण्डिकामत्र तृतीये चैव
वट्टिशम् । वीजपूरं करे तुर्ये पञ्चमे शङ्खमेव च ।
कोदण्डमत्र वै षष्ठे सप्तमे कुलिशङ्करे । अष्टमे पुस्तकं
बिभ्रद्वश्याय विजयाय च” ।
  • कौलवस्य “श्वेताब्जकर्णिकाभासं तृतीयं कौलवाभिधम् ।
रक्तकण्ठं पिकास्यं वै नीलश्वेतारुणाम्बरम् । मुक्तारु-
द्राक्षसौवर्णभूषणं चेन्द्रनीलकम् । अष्टादशभुजीपेतं
किङ्किणीकटिसूत्रकम् । वरं यमादिम हस्ते द्वितीये
चाक्षसूत्रकम् । तृतीये स्वर्णजं दण्डं चतुर्थे चैव पुस्त-
कम् । पञ्चमे सोदकं हस्ते षष्ठे सन्दंशमेव च ।
सप्तमे डमरुं पाणौ वज्रमत्रैव चाष्टमे । नवमे शृङ्गि-
कामत्र शोणगुञ्जाद्यनामिकाम् । अभयं चादिमे वामे
द्वितीये वै कमण्डलुम् । तृतीये चासवं पात्रं तुर्ये
चाम्भोजमुत्तमम् । पञ्चमे चामरं शुभ्रं षष्ठे दात्रं
कराम्बुजे । सप्तमे वल्लकीमत्र शृणिं चैवाष्टमे करे ।
नवमे कदलीपत्रं दधत् सम्पत्सुखाय च” ।
  • तिलस्य “चतुर्थं तैतिलं नाम श्यामवर्णं कृशोदरम् ।
शोणवस्त्र जवापुष्पमालिकं तैत्तिराननम् । वियत्पक्ष २०
भुजोपेतं घण्डावद्धनितम्बकम् । प्रथमे दक्षिणे हस्ते
श्रीफलं सुमनोहरम् । खड्गमत्र द्वितीये वै तृतीये चैव
पुस्तकम् । अक्षसूत्रं करे तुर्ये पञ्चमे बाणमेव च ।
षष्ठे सुदर्शनं दिव्यं सप्तमे कुलिशं त्विह । अष्टमे
तु स्रुवं पाणौ नवमे चैव मुद्गरम् । दशमे चाङ्कशं
हस्ते पात्रं वामादिमे करे । द्वितीये स्वेटकं चैव
तृतीये वारिजं शुभम् । चतुर्थे कुण्डिकामत्र पञ्चमे
चैव कार्मुकम् । षष्ठे मनोहरं शङ्खं सप्तमे चामरं
सितम् । स्रुवं चैवाष्टमे हस्ते नवमे टङ्कमत्र हि ।
दशमे तु करे पाशं बिभ्राणं यज्वनः श्रिये” ।
  • गरस्य “पञ्चमं चात्र विज्ञेयं करणन्तु गराभिधम् । गोमुखं
चित्रितग्रीवं धूसरं लोहिताम्बरम् । पक्षपक्ष २२ भुजो-
पेतं कृतपद्माक्षभूषणं । आदिमे दक्षिणे शक्तिं द्वि-
तीये चक्रमेव च । तृतीये श्रीफलं हस्ते चतुर्थे चैव
पङ्कजम् । पञ्चमे पुस्तकं रम्यं षष्ठे बाणं मनोह-
रम् । सप्तमे गोवृषं शृङ्गं कुलिशं चाष्टमे करे ।
नवमे वल्लकीमत्र दशमे वीरभद्रकम् । एकादशे तु
सन्दंशं पञ्चशाखे मनोहरे । अभीतिमुत्तरादिस्थे द्वि-
तीये शङ्खमत्र हि । पात्रमत्र तृतीये वै चतुर्थे चैव
चामरम् । पञ्चमे डमरुं हस्ते षष्ठे चैव शरासनम् ।
सप्तमे कुण्डिकामत्र चाष्टमे दशचक्रकम् । नवमे तु
करे वंशं दशमे चैव दर्पणम् । एकादशे तु रुद्रास्त्रं
बिभ्रत् कीर्त्तिसुखश्रिये” ।
  • बणिजः “वानरास्यं बणिक् धूम्रं पीतवस्त्रं वृषासनम् ।
जिन २४ बाहुयुतं चेदं षष्ठं कनकभूषणम् । वरमार्क्यादिभे
हस्ते द्वितीये चाक्षसूत्रकम् । तृतीये शुक्तिकामत्र
मोदकन्तु चतुर्थके । पञ्चमे कुलिशं हस्ते षष्ठे शक्तिं
कराम्बुजे । सप्तमे वैणवं दण्डं खड्गमत्रैव चाष्टमे ।
नवमे पाशमत्रैव दशमे चैव वै ध्वजम् । एकादशे तुर
ष्कास्त्रं द्वादशे वै सुदर्शनम् । सौम्यादिमे करेऽभीति
द्वितीये वै कमण्डलुम् । वीजपूरं तृतीयेऽत्र पानपात्र
चतुर्थके । पञ्चमे पञ्चवक्त्राक्षं षष्ठे चैव तु पट्टिशम् ।
सप्तमे चामरं हस्ते खेटकं चाष्टमे शये । नवमे
चाङ्कुशं पाणौ दशमे हलमेव च । एकादशे करे
रम्यं दर्पणं चातिनिर्मलम् । द्वादशे धारयत् शङ्ख
लक्ष्मीसौभाग्यवृद्धये” । (पञ्चवक्त्राक्षं पञ्चमुखरुद्राक्षम्)
  • भद्रायाः “व्याध्रचर्माम्बरा भद्रा श्वेताभा गर्दभानना ।
सप्तबाहुसमायुक्ता त्रिपदा लोहभूषणा । कर्तिकामादिमे
दक्षे द्वितीये तु गदामिह । तृतीये सायकं हस्ते
चतुर्थे चन्द्रहासकम् । खेटमूर्द्धकरे वामे तदधश्चैव
कार्मुकम् । पात्रमस्वादधो वामे धारयन्ती रिपीर्भिये”
  • शकुनेः “अष्टमं शकुनिप्रख्यं करणं हरितप्रभम् । प्रबालभू-
षणोपेतं शक्रगोपनिभान्वरम् । रसपक्ष २६ भुजोपेतमेण-
वक्त्रं वृकोदरम् । आदिगे रविजे चक्रं द्वितीये वरमो
च । अक्षसूत्रं तृतीये तु तुर्ये चैव तु पङ्कजम् । प-
पृष्ठ ३७१४
ञ्चमे मोदकं हस्ते षष्ठे वज्रं कराम्बुजे । सप्तमे
तोमरं पाणौ शक्तिमत्रैव चाष्टमे । नवमे हस्तिजन्दन्तं
दशमे चन्द्रहासकम् । एकादशे करे बाणं द्वादशे
चाङ्कुशं शये । त्रयोदशे गदामत्र शङ्खं वामादिमे करे ।
अभयन्तु द्वितीयेऽत्र तृतीये वै कमण्डलुम् । वीजपूरं
करे तुर्ये पञ्चमे पात्रमेव च । षष्ठे कराम्बुजे शृङ्गं
सप्तमे कुन्तमेव च । परिघं चाष्टमे हस्ते दण्डन्तु नवमे
करे । खेटकं दशमे पाणौ धनुरेकादशे शये । द्वादशे
पात्रमत्रैव त्रिशूलन्तु त्रयोदशे । दधानं श्रेयसे भूत्यै
विजयाय सुखाय च । तापाय चैव शत्रूणां विशेषेण
समर्चितम्” ।
  • चतुष्पदस्य “चतुष्पदाभिधं चात्र नवमं कथ्यते जय! ।
कृष्णवर्णं चतुष्पादं चतुरास्यं जटान्वितम् । मनुष्यास्यन्तु
वै पूर्वं दक्षिणं चैव गोमुखम् । अजास्यं पश्चिमन्तस्य
चोत्तरं शूकराननम् । मनुष्याकारवत् सर्वं त्रिकपुच्छ-
विनिर्गतम् । पीतवस्त्रं वृहत्कुक्षि नीलमुक्ताविभूषणम् ।
वसुपक्ष २८ भुजोपेतं दीर्घनासं महाजवम् । दक्षिणाद्ये
करे शक्तिं द्वितीये चाक्षसूत्रकम् । सुदर्शनं तृतीये तु
चतुर्थे चैव पङ्कजम् । पञ्चमे मुद्गरं चैव षष्ठे
मोदकमेव च । सप्तमे तु गदां पाणावष्टमे चाङ्कुशं शये ।
नवमे तु करे बाणं दशमे खड्गमेव च । एकादशे करे
दन्तं द्वादशे शुक्तिमत्र हि । त्रयोदशे शये चात्र
तोमरं सुदृढं शुभम् । चतुर्दशे तु वै वज्रं वामाद्येऽभीति-
मेव च । कमण्डलुं द्वितीये वै तृतीये शङ्खमेव च ।
चतुर्थे वीजपूरं वै पञ्चमे टङ्कमेव च । षष्ठे पात्रं
सुधापूर्णं सप्तमे च त्रिशूलकम् । अष्टमे पात्रमत्रैव
नवमे धनुरेव च । दशमे खेटकं हस्ते दण्डमेकादशे
करे । द्वादशे पट्टिशं पाणौ कुन्तमत्र त्रयोदशे । शृङ्गं
चतुर्दशे बिभ्रद्गोत्रवृद्ध्यै सुपूजितम्” ।
  • नागस्य “नागाख्यं दशमं रक्तं नीलवस्त्रं जटाधरम् ।
मनुष्याकारमेवैतन्मस्तकन्यस्ततत्फणम् । वियद्गुण ३०
भुजोपेतं मुक्तारुद्राक्षभूषणम् । प्रथमे मोदकं दक्षे
द्वितीये चैव पङ्कजम् । अक्षसूत्रं तृतीयेऽत्र वरन्तुर्ये
कराम्बुजे । पञ्चमे तु करे चक्रं षष्ठे वज्रन्तु वै शये ।
सप्तमे तोमरं पाणौ शक्तिमत्रैव चाष्टमे । नवमे
सोज्ज्वलं दन्तं दशमे चन्द्रहासकम् । बाणमेकादशे हस्ते
द्वादशे चाङ्कुशं शये । त्रयोदशे गदामत्र तुरष्कास्त्रं
चतुर्दशे । करे पञ्चदशे दात्रं वामे पात्रन्तु चा-
दिमे । वीजपूरं द्वितीयेऽत्र तृतीये वै कमण्डलुम् ।
चतुर्थे चाभयं हस्ते पञ्चमे शङ्खमेव च । षष्ठे
कराम्बुजे शृङ्गं सप्तमे कुन्तमुत्तमम् । पट्टिशं चाष्टमे हस्ते
नवमे दण्डमत्र हि । दशमे खेटकञ्चैव धनुरेकादशे
करे । द्वादशे पाशमत्रैव त्रिशूलञ्च त्रयोदशे ।
चतुर्दशे दशास्यं वै करे पञ्चदशेऽर्बुदम् । दधानं विजया-
रोग्यं कुर्वीताभयदं नृणाम्” । (दशास्यं दशमुखरुद्राक्षम्)
  • किन्तुघ्नस्य “एकादशन्तु किन्तुत्नं करणं कथ्य-
तेऽधुना । गोक्षीरधबलं चैतत्पीतवस्त्रं हयाननम् ।
सर्वाभरणसंयुक्तं द्वात्रिंशद्बाहुसंयुतम् । वरञ्चैवा-
दिमे दक्षे द्वितीये चाक्षसूत्रकम् । तृतीये सोज्ज्वलं
चक्रं तुर्ये चाब्जं कराम्बुजे । पञ्चमे मोदकं हस्ते षष्ठे
वै कुलिशं शये । सप्तमे तोमरं पाणौ शक्तिमत्रैव
चाष्टमे । नवमे गजदन्तञ्च दशमे खड्गमुत्तमम् ।
एकादशे तु वै बाणं द्वादशे शृणिमेव च । त्रयोदशे
गदामत्र डमरुञ्च चतुर्दशे । करे पञ्चदशे पुस्तीं परशु-
ञ्चैव षोडशे । अभयञ्चादिमे वामे द्वितीये वै कमण्ड-
लुम् । शङ्खमत्र तृतीये वै चतुर्थे वीजपूरकम् । पञ्चमे
चासवं पात्रं षष्ठे शृङ्गं मनोहरम् । सप्तमे कुन्तम-
त्रैव चाष्टमे पट्टिशं शये । नवमे वैणवं दण्डं दशमे
खेटमेव च । चापमेकादशे पाणौ द्वादशे पात्रमत्र
हि । त्रयोदशे त्रिशूलं वै टङ्कमत्र चतुर्दशे । वीणा-
मिष्वीन्दु १५ हस्ते च ध्वजञ्चैव तु षोडशे । धारयद्वै-
रिणां ध्वस्त्यै पूजनीयं विपश्चिता । विद्यालाभाय
सन्तुष्टिविजयादिसुखार्थिना” । किंस्तुघ्नसिति वा पाठः ।
  • राशीनां मेषस्य विष्णुधर्मोत्तरात् “मेषवक्त्रो नरो रक्तो द्विभुजः
पङ्कजासनः । ज्ञानमुद्राकरः पीतबसनः कनकाङ्गदी” ।
  • वृषस्य “वृषाननो नरः शुभ्रो रक्तवस्त्राक्षकुण्डिकः” ।
  • मिथुनस्य “पुमान् गदी सवीणा च योषिच्च मिथुनं सितम्” ।
  • कर्कटस्य “कर्कटः कपिलः श्वास्यः कूर्ममुद्राधरो नरः” ।
  • सिंहस्य “सिंहवक्त्रोऽरुणोऽब्जस्थो द्विभुजीऽभयपात्रयुक्” ।
  • कन्यायाः “शुक्लासिभृत् सिता कन्या द्विभुजा पङ्कजासना” ।
  • तुलायाः “तुलाधरो नरो गौरः पिङ्गनेत्रः कजासनः” ।
  • वृश्चिकस्य “वृश्चिकस्थी नरः पिङ्गो द्विभुजो मर्कटाननः
दक्षे वृश्चिकमालाधृक् वामे पात्रं सुरायुतम्” ।
  • धनुषः “अश्ववक्त्रो नरश्चापी ज्याकृष्टकरदक्षिणः” ।
  • मकरस्य “अक्षकुण्डीधरो नीलो मृगवक्त्रो नरो हि सः” ।
  • कुम्भस्य “मकरास्योऽसितोऽब्जस्थो रिक्तकुम्भो नरो घटः” ।
पृष्ठ ३७१५
  • मीनस्य “मत्स्ययुग्मस्थितः श्यामो मत्स्यहस्तो महोदरः ।
मत्स्यवक्त्रो नरो मीनो हरिन्मणिविभूषणः” ।
  • कालस्य विश्वकर्मशास्त्रात् “कालः करालवदनो नित्यगश्च
विभीषणः । पाशहस्तश्च कर्तव्यः सर्पवृश्चिकरोमवान्” ।
  • निमेषस्य “निमेषस्तु भवेदत्र मेचकाभोऽर्द्धनीलदृक् । अक्ष-
सूत्रं करे दक्षे ज्ञानमुद्रामथोत्तरे । दधानो योगसं-
सिद्ध्यै पूजनीयो विपश्चिता” ।
  • काष्ठायाः “नीलवर्णा भवेत् काष्ठा पीतवस्त्रा त्रिलोचना ।
अष्टादशभुजोपेता ज्ञानपुस्तीसमन्विता” ।
  • कलायाः “शुक्लवर्णा कला ज्ञेया नीलवस्त्रा त्रिलोचना ।
व्योमवज्राङ्करुद्राक्षकण्ठलम्बितमालिका । मुक्ताक्षमा-
लिकादक्षा वामपङ्कजसंयुता । पूजनीया विशेषेण ज्ञा-
नविज्ञानहेतवे” ।
  • क्षणस्य “क्षणाभिधो भवेत् पीतः मुनिपक्षः सुमौक्तिकः ।
जटात्रिमौक्तिकोपेतश्चन्दनालिकपाण्डुरः । मुक्तासूत्रार्किह-
स्तोऽयं वामे स्वर्णकमण्डलुः” ।
  • १ मुहूर्त्तानां तत्र दिने रौद्रस्य “मुहूर्त्तानधुना वच्मि नामलक्ष्म-
पृथक्फलैः । तत्रादिमस्तु रौद्राख्यः श्यामश्वेतारुणच्छविः ।
श्वेतवस्त्रो महातुङ्गो दक्षिणे सर्पमादधत् । वामे पात्रं
सुधापूर्णं क्षुद्रकर्मप्रसिद्धये” ।
  • २ सितस्य “सिताभिधो द्वितीयस्तु श्वेतवर्णो महोदयः । श्वेत-
शोणाभवस्त्रोऽयं श्वेतमुक्ताविभूषणः । दक्षिणे पङ्कजं
शुभ्रं वामे चैव कमण्डलुम् । दधानस्तु श्रियै पूज्यो
योगवृद्ध्यै सुखाय च” ।
  • ३ अजपस्य “तृतीयोऽथाजपाख्यस्तु कृष्णः शुभ्रो महातनुः ।
दक्षिणे पङ्कजं नीलं वामे सर्पं महाफणम् । बिभ्रद्वि-
पुलभोगाय पूजनीयो महाधिया” ।
  • ४ आर्य्यभटस्य “तुर्य्यश्चार्य्यभटाख्यस्तु नीलः शुभ्रो महोदरः ।
दक्षिणे पुस्तकं हस्ते वामे चैव त्रिशूलकम् । दघानः
श्रेयसे भूत्ये विजयाय सुखाय च” ।
  • ५ सावित्रस्य “अधुना चैव सावित्रः पञ्चमः कथ्यते जय! ।
श्वेतवर्णोऽश्ववक्त्रस्तु मेचकवसनान्वितः । पुस्तकं दक्षिणे
हस्ते वामे कुण्डन्तु निर्व्रणम् । दधद्रोगविनाशाय
पूजनीयोऽप्यहर्निशम्” ।
  • ६ वैराजस्य “वैराजश्चात्र वै षष्ठः श्यामवर्णो जटाधरः ।
दक्षिणे तु करे दण्डं वामे चैव स्रुवं करे । बिभ्रद्-
वृद्ध्यै च सौख्याय पूजनीयोऽतिभक्तितः” ।
  • ७ गन्धर्वस्य “सप्तमश्चात्र गन्धर्वस्ताम्रवर्णः कृशोदरः । दक्षिणे
वल्लकीं पाणौ वामे शक्तिञ्च धारयन् । सौख्यवृद्ध्यै
यशोवृद्ध्यै पूजनीयो विपश्चिता” ।
  • ८ अभिजितः (कुतषस्य) “अधुना चाभिजिन्नाम कय्यतेह्यष्टमः
शुभः । पीतवर्णोऽतिह्रस्वस्तु ताम्रवर्णो महोदरः ।
तूणहस्तद्वयोपेतः पूजनीयः सुखाप्तये । स एव कुतपो
नाम विज्ञातव्यो मनीषिभिः । पितृणां सुप्रियश्चैव
पिण्डहस्तोऽथवाप्ययम्” ।
  • ९ रौहिणेयस्य “नवमो रौहिणेयाख्यो मुहूर्त्तः कथ्यते जय! ।
शुभ्रबर्णो विशालाक्षो नीलवस्त्रोऽभ्रकुण्डलः । दक्षिणे
पङ्कजं पाणौ वामे मोदकमेव च । दधानः सुखसम्पत्त्यै
विजयारोग्यवृद्धये” ।
  • १० बलस्य “अधुना कथ्यते वत्स! दशमस्तु बलाभिधः । गौरवर्णो
ऽरुणः श्वेतवसनः स्वर्णकुण्डलः । दक्षिणे तु करे शङ्कं
वामे पङ्कजमादधत्” ।
  • ११ विजयस्य “एकादशोऽधुना ज्ञेयो मुहूर्त्तो विजयाभिधः ।
हेमवर्णो वृहद्गात्रः कृष्णश्वेतारुणांशुकः । अक्षसूत्रं
करे दक्षे वामे चैव कमण्डलुम् । दधत् प्रजासुखार्थाय
पूजनीयो विपश्चिता” ।
  • १२ नैरृतस्य “नैरृताख्योऽधुना ज्ञेयो द्वादशस्तु मुहूर्त्तकः ।
नीलवर्णोत्पलमौलिः पीतवस्त्रो महाबलः । दक्षिणे तु
करे चक्रं वामे चाभयमादधत्” ।
  • १३ सन्तमसस्य “त्रयोदशो भवेदत्र रक्तः सन्तमसाभिधः ।
ताम्रवस्त्रो महौजस्को रत्नहेमजकुण्डलः । शोणपङ्क-
जदक्षस्तु वामकुण्डीसमन्वितः” ।
  • १४ बरुणस्य “मुहूर्त्तः कथ्यते चात्र वरुणाख्यश्चतुर्दशः ।
मुक्ताफलनिभश्चैव मुक्ताहारविभूषणः । धनुर्बाणधरश्चैव
पूजनीयः सुखाप्तये” ।
  • १५ सुभगस्य “अथ पञ्चदशो ज्ञेयः सुभगस्तु हरित्प्रभः” ।
  • १ रात्रौ अतिरौद्रस्य “अथो निशाचरान् ब्रूमो मुहूर्त्तान्
तिथिसंख्यकान् । तत्रादिमोऽतिरौद्राख्यः कृष्णवर्णोऽरु-
णांशुकः । चतुर्भुजोमहाक्रूरः सास्थिसङ्कटकोबलः ।
आदिमे दक्षिणे बिभ्रत् कौशिकञ्चातिभीषणम् । द्वितीये
तु करे सर्पं वामोर्द्धे त्वथ वै करे । सन्दंशं तदधः पात्रं
बिभ्राणः सर्वविघ्नहा” ।
  • २ महागन्धर्वराजस्य “महागन्धर्वराजाख्यो द्वितीयस्तत्र चैव
हि । कृष्णशुभ्रारुणग्रीवो नीलवस्त्री महाबलः ।
चतुर्भुजो विशालाक्षो गौरवर्णो जटाघरः । आदिमे
दक्षिणे शङ्खं द्वितीये चैव पङ्कजम् । वामोर्द्धगे कीरं
पृष्ठ ३७१६
तदधस्थे तु पात्रकम् । धारयन्निष्टसम्पत्त्यै पूजनीयो
विचक्षणैः” ।
  • ३ दविणस्य “तृतीयः कथ्यते चाथ रात्रिजो द्रविणाभिधः ।
तप्तचामीकराभासः कृष्णनीलारुणांशुकः । दक्षिणे
प्रथमे पद्मं हेमजञ्चातिशोभनम् । द्वितीये तु करे वीणां
वामोर्द्धे वीजपूरकम् । दधीनः सर्वसम्पत्तिसुखायुः-
श्रीविवृद्धये” ।
  • ४ श्रावणस्य “श्रावणाख्यस्ततस्तुर्यो नीलवर्णोऽर्ककुण्डलः ।
नीलारुणांशुकोपेतः कण्ठनीलाब्जमालिकः । दक्षिणाद्ये
करे खड़्गं द्वितीये चैव पङ्कजम् । वल्लकीमूर्द्ध्वगे वामे
पात्रमस्मादधःस्थिते । दधानः पूजनीयोऽयं ज्ञानविज्ञान-
सिद्धये” ।
  • ५ वायोः “मुहूर्त्तः कथ्यते चाथो वायुसंज्ञस्तु पञ्चमः ।
हरिद्वर्णो जवाकर्णः श्वेतवस्त्रो महाबलः । कीरमार्क्यादिमे
हस्ते द्वितीये तु ध्वजं शये । वामोर्द्धगे करे सीरं
द्वितीये पात्रमादधत्” ।
  • ६ अग्नेः “अग्निसंज्ञस्ततः षष्ठो जवाकुसुमसन्निभः । कृष्ण-
नीलांशुकोपेतः शिखारुद्राक्षसंयुतः । दक्षिणाद्ये करे
पात्रं द्वितीये शक्तिमेव च । वामादिमे करे कीरं
द्वितीये सीरमेव च । दधानः कीर्त्तये भुक्त्यै
विजयायुःप्रवृद्धये” ।
  • ६ राक्षसस्य “अधुना कथ्यते वत्स! राक्षसाख्यस्तु सप्तमः ।
नीलवर्णोग्रदंष्ट्रस्तु नीलशुभ्नारुणांशुकः । दक्षिणाद्ये
करे पद्मं द्वितीये तु त्रिशूलकम् । खट्वाङ्गमुत्तरे वामे
पात्रमस्मादधःस्थिते । दधद्वैरिविघाताय पूजनीयस्तु
साधकैः ।
  • ८ धातुः “धाता चैवाष्टमः पीतवर्णः पाटलभांशुकः । कर्ण-
स्फाटिकसौवर्णकुण्डलः कम्बुकन्धरः । पुस्तीमार्क्यादिमे
हस्ते द्वितीये चैव विष्टरम् । वामादिमे करे दण्डं
द्वितीये स्वर्णकुण्डलम् । दधानः प्रीतये भुक्त्यै
विजयाय सुखाय च” ।
  • ९ सौम्यस्य “नवमः सौम्यनामाथ शुभ्रवर्णो विशालदृक् ।
पीतवस्त्रो महातेजा मुक्तासर्वाङ्गभूषणः । आदिमे दक्षिणे
शङ्खं द्वितीये चैव पङ्कजम् । वामादिमे करे पात्रं
द्वितीये सीरमेव च । दधानस्तुष्टये भुक्त्यै पूजनीयस्तु
मुक्तिदः” ।
  • १० ब्रह्मणः “दशमश्चात्र विज्ञेयो मुहूर्त्तो ब्रह्मसंज्ञकः ।
पीतवर्णः शुक्लवस्त्रो जटामुकुटसंयुतः । कण्ठरुद्राक्षमालोऽयं
भालपाण्डुरचन्दनः । सुवर्णकुण्डलोपेतः कटिसूत्रो-
त्तरीयवान् । अक्षसूत्र यमादिस्थे द्वितीये चैव
पङ्कजम् । वामोर्द्धे तु स्रुवं हस्ते पुस्तकन्तदधःकरे ।
दधत् सौवर्णमुक्तानां लाभाय विजयाय च” ।
  • ११ वाक्पतेः “एकादशोऽधुना ज्ञेयो वाक्पतिर्नाम नामतः ।
सुवर्णवर्ण एवायं कृष्णशुभ्रांशुकान्वितः । कुण्डोमार्क्या-
दिहस्ते तु द्वितीये सीरमेव च । वामादिमे करे कोरं
द्वितीये नीरजं दधत् । प्रजालाभकरश्चैव कार्यनिष्पत्ति-
साधकः” ।
  • १२ पौष्णस्य “द्वादशश्चात्र विज्ञयो पौष्णनामा सुलोहितः ।
पीतवस्त्रो जटामौलिर्मुनिपुष्पकृतश्रुतिः । तुन्दिलः
सोपवीती च नीलकीलकपाण्डुरः । दक्षादिमे करे वीज
पूरकं शुभ्रवर्णकम् । द्वितीये वारिजं पाणौ पात्रं
वामादिमे करे । सन्दंशन्तु द्वितीयेऽयं धारयन् वैरि-
तापदः” ।
  • १३ वैकुण्ठस्य “जयाधुनात्र वै कध्यो वैकुण्ठाख्यस्त्रयोदशः ।
पादजान्वन्तशुभ्रोऽयं कण्ठान्तारुणवणकः । अलिवर्णस्तु
केशान्ते कुण्डलानेकरत्नजः । दक्षिणाद्ये करे पुस्ती-
मम्बुजन्तु द्वितीयके । केकिपिच्छन्तु वामाद्ये द्वितीये
चातपत्रकम् । दधानः कीर्त्तये भुक्त्यै पूजनीयः सिता-
म्बुजैः” ।
  • १४ समीरणस्य “चतुर्दशोऽधुना ज्ञेयो नामतस्तु समीरणः ।
जलनीलनिभश्चैव शुभमारकतद्युतिः । पीतनीलारुण-
प्रान्तवसनः स्निग्धलोचनः । तालपत्रं यमादिस्थे द्वितीये
नीलनीरजम् । वामादिभे करे पात्रं द्वितीये नीलरुक्म-
जम् । दधानो यज्वनो भूत्यै बालवृद्ध्यै सुखाय च” ।
  • १५ नैरृतस्य “अथ पञ्चदशो ज्ञेयो मुहूर्त्तो नैरृतोऽरुणः ।
मेचकाभत्रिनेत्रस्तु दंष्ट्रावान् वसनारुणः । स्वर्णेन्द्र-
नीलभूषाढ्यः शोणालितिलकान्वितः । आदिमे दक्षिणे
बाणं द्वितीये कमलं करे । वामादिस्थे धनुर्हस्ते द्वितीये
चैव वारिजम् । दधच्छान्त्यै सुभोगाय बलाय
विजयाय च” ।
  • अहोरात्रस्य “एते निशाचराः ख्याता मुहूर्त्ताः सकलास्तव ।
अहोरात्राभिधश्चात्र कृष्णग्रीवादिमूर्द्धजः । कण्ठपादा-
न्तशुभ्रोऽयं द्विभुजो दीर्घगीधिकः । सार्द्धचन्द्रजटा-
मौलिः पिङ्गलश्मश्रुलोचनः । नृमुण्डमालिकोपेतः
कृष्णशुभ्रांशुकान्वितः । अर्कं दक्षे दधानोऽयं वामे चैव
विधुन्तुदम् । इष्टापूर्त्त प्रसिद्ध्यर्थं पूजनीयो मनीषिभिः” ।
पृष्ठ ३७१७
  • शुक्लपक्षस्य “शुक्लपक्षो नरः शुक्लो जटामुकुटसंयुतः ।
शोणवस्त्रो विशालाक्षो भालालितिलकान्वितः । सूर्यमार्कौ
दधानोऽयं वामे चन्द्रजविम्बकम् । पूजनीयो महाभक्त्या
प्रतिपक्षं सिते सिते । अस्य द्वादश भेदाः स्युर्विज्ञेया
वर्णभेदतः । पूजनीयाबलार्थाय प्रतिमासन्तु भेदतः” ।
  • कृष्णपक्षस्य “श्यामाभः कृष्णपक्षस्तु सितशोणाम्बरो बली ।
सूर्यविम्लं यमे बिभ्रंद्वामे दापं समुज्ज्वलम् ।
पूजनीयो वलात्यर्थं प्रतिमासन्तु भेदतः । इत्यस्यार्कप्र-
भेदाः स्युर्भपक्षादिजनामतः” ।
  • मासस्य “स्वनामतस्तु मासः स्यात् द्विवर्णस्तु द्विदोरिति ।
नाभ्यूर्द्धाधःश्वेतकृष्णः पिङ्गलोचनमूर्द्धजः । सूर्यचन्द्रा-
न्वितः सोऽयं प्रतिमासन्तु पूज्यते । स्वनामपूर्वकैर्मन्त्रै-
र्होमपूजावसानकैः” ।
  • ऋतूनां हेमन्तस्य “ऋतुषटक्मथो ब्रूमोलक्ष्मनामपृथक्फलैः ।
हेमन्ताख्यस्तु तत्राद्यः कपिलः पिङ्गकुण्डलः ।
पीतवस्त्रसमायुक्तस्त्रिजटः कृष्णगोधिकः । (गोधिर्ललाटम्
धान्यमञ्जरिकाद्यस्तु वामपात्रपिधानकः । पूजनीयो-
विभूत्यर्थं धान्यसम्पत्तिवृद्धये” ।
  • शिशिरस्य “शिशिराख्यो द्वितीयस्तु हरित्पीतनिभारुणः ।
पीतकुण्डलकर्णस्तु कण्ठविद्रुममालिकः । मधुद्रुम-
प्रसूनाङ्गपात्रमार्कौ कराम्बुजे । वामे धान्यशरावन्तु
धारयन्निष्टवृद्धये” ।
  • वसन्तस्य “विष्णुप्रकरणोक्तस्तु ज्ञातव्योऽत्र वसन्तकः” ।
  • ग्रोष्मस्य “ग्रोष्माभिधश्चतुर्थस्तु धूसरो रूक्षमात्रकः । अक्षसूत्रार्क-
हस्तस्तु वामे शुभ्रातपत्रयुक् । रोगसन्तापनाशाय
पूजनीयोऽरिपक्षहा” ।
  • वर्षायाः “पञ्चमस्तोयदर्तुस्तु हारदुवर्णोऽरुणेक्षणः । ताम्र-
वर्णांशुकोपेतः कृष्णविद्रुमकुण्डलः । मीनमार्कौ
दधानोऽयं तोयपूर्णघटं परे । मेघमालावृतश्चेव विद्युद्दहन-
दीप्तिमान् । हरितालिदलैः पूज्यो पुष्टिसन्तुष्टिवृद्धये” ।
  • शरदः “शरदृतुरथो षष्ठश्चन्द्रगौरः सुलोचनः । कण्ठमौ-
क्तिकमालस्तु कर्णचन्द्रजकुण्डली । चन्द्रविम्बं करे
दक्षे वामे चामृतजं षटम् । दधानः पूजनीयोऽयमा-
युर्वृद्ध्यै सुखाय च” ।
  • दक्षिणायनस्य “दक्षिणायनसंज्ञोऽथ श्यामः सोमेन्द्रलोचनः ।
पीतवस्त्रो वृहत्तुण्डः कर्णिकारदलश्रुतिः । वीजाङ्कु-
रशरावार्किः खनित्रोत्तरहस्तकः । पूजितः सिद्धये नित्यं
धनधान्यसमृद्धये” ।
  • उत्तरायणस्य “उत्तरायणसंज्ञोऽथ शुभ्रवर्णो विशालदृक् । माञ्जि-
ष्ठवसनोपेतः स्वर्णमुक्ताविभूषणः । पुस्तकं दक्षिणे हस्ते
वामे तु रविविम्बकम् । दवद्भुक्त्यै सुदे चैव पूजनीयस्तु
कीर्तये” ।
  • १ । १ वत्सराणाम् प्रभवस्य “अथ संवत्सरान् ब्रूमो नामलक्ष्मफला-
दितः । प्रभवाख्योभवेदाद्यः पीतवर्णो महोदरः ।
नीलवस्त्रसममायुक्तो दक्षे काञ्चनकुण्डलः । वामे स्फाटिक-
वर्णस्तु पृष्ठलम्बिजटात्रयः । दक्षिणे प्रथमे शक्तिं
पङ्कजन्तु द्वितीयके । वामादिमे शरावन्तु वीजपूर्णं
कराम्बुजे । द्वितीये चैव सन्दंशं दधानः पुष्टिवृद्धये” ।
  • १ । २ विभवस्य “विभवाख्यो द्वितीयस्तु नीलपीतारुणच्छविः ।
पीतशुभ्रान्तवस्त्रोऽयं कण्ठे पद्माङ्कमालिकः । दक्षिणाद्ये शरं
पाणौ द्वितीये नीलपङ्कजम् । सन्दशमुत्तरादिस्थे द्वितीये
चैव कार्मुकम् । दधद्विभूतये नित्यं पूजनीयो विपश्चिता” ।
  • १ । ३ शुक्लस्य “शुक्लनामा तृतीयस्तु श्वेतपङ्कजसन्निभः । कण्ठ-
पद्माक्षमालोऽयं शुभ्रप्रान्तालिवस्त्रधृक् । दक्षिणाद्ये
शरावन्तु द्वितीये बाणमेव च । दर्पणञ्चोत्तरादिस्थे द्वितीये
चैव कार्मुकम् । दधानो भूतये मर्त्यैः पूजनीयः कृता-
त्मभिः” ।
  • १ । ४ प्रमोदस्य “प्रमोदाख्यश्चतुर्थस्तु नीलग्रीवो महोदरः । श्वेतव-
स्त्रोऽब्जसङ्काशो योगपट्टोत्तरीयवान् । दक्षिणाद्ये तु
सन्दंशं द्वितीये सीरमेव च । वामादिमे शरावन्तु द्वितीये
नीलपङ्कजम् । दधत् सौख्याय भोगाय विजयाय
महाय च” ।
  • १ । ५ प्रजापतेः “प्रजापत्याख्य एवात्र पञ्चमः स्वर्णसन्निभः ।
शोणभूषणवस्त्राढ्यस्तुन्दिलो गौरपाण्डुरः । अक्षसूत्रं
यमादिस्थे द्वितीये परशुं करे । शरावमुत्तरादिस्थे
द्वितीये पुस्तक दधत् । प्रजावृद्ध्यै विभूत्यै च
पूजनीयोविजानता” ।
  • १ । ६ अङ्गिरसः “अङ्गिराख्यस्ततः षष्ठो वर्णशुभ्रोऽतिलोनशः ।
ताम्रवस्त्रो महातेजा द्वादशाङ्गसचन्दनः । पवित्र-
दर्भपाणिस्तु जटामण्डितमस्तकः । ज्ञानखड्गन्तु दक्षाद्ये
द्वितीये समिधङ्करे । वामादिमे शरावन्तु ब्रह्मदण्डं
द्वितीयके । दधत् सुपूजितो भूत्ये श्रेयसे च सुखाय च” ।
  • १ । ७ श्रीमुखस्य “सप्तमः श्रीमुखाख्यस्तु पीतवर्णो विशालदृक् ।
पाटलावसनोपेतो दीर्घकर्णालकारुणः । सुवर्णरत्न-
भूषाढ्यः सर्वानर्थविघातकृत् । श्रीफलं दक्षिणादिस्थे
द्वितीये चैव पङ्कजम् । पुस्तकञ्चोर्द्धमे वामे तदधस्तु
पृष्ठ ३७१८
शरावकम्! दधानः पुष्टये लक्ष्म्यै चन्दनादिभिरर्चितः” ।
  • १ । ८ भावस्य “भावाभिधोऽष्टमस्तत्र नीलशुभ्रारुणच्छविः ।
पीतकृष्णारुणप्रान्तवसनश्चित्रकुण्डलः । मुक्ताविद्रुममालो-
ऽयं जटापिङ्गाक्ष एव च । दक्षिणे प्रथमे पुस्तमंश-
कन्तु द्वितीयके । वामोर्द्धगे करे शूलं तदधः पात्रमा-
सवम् । बिभ्रत्संपूजनीयस्तु धान्यलाभाय वै श्रिये” ।
  • १ । ९ यूनः “नवमोऽत्र युवाख्यस्तु पाटलाभोऽरुणेक्षणः ।
नीलवस्त्रजटोत्तुङ्गो रत्नमेचककुण्डलः । दक्षिणे प्रथमे
शङ्खं द्वितीये तु सुदर्शनम् । वामादिमे करे पात्रं
द्वितीये नीलपङ्कजम् । बिभ्राणः कान्तये पूज्यो लक्ष्मी-
सौभाग्यवृद्धये” ।
  • १ । १० धातुः “धाता चैव प्रविज्ञेयो दशमः पिङ्गलोचनः ।
हस्तशुभ्रारुणप्रान्तवसनः श्वेतकुण्डलः । शरावमादिमे
दक्षे द्वितीये बीजपूरकम् । वामोर्द्धगे करे पुस्तीं
नीलमिन्दीवरन्त्वधः । जयाय पुत्रसम्पत्त्यै पूजनीयः
सुभक्तितः” । (दघदिति शेषः)
  • २ । ११ ईश्वरस्य “ईश्वराभिध एवात्र ज्ञेय एकादशोऽप्यसौ । कैरवा-
भस्त्रिनेत्रस्तु जटाखण्डेन्दुमौलिकः । मुक्तास्फाटिकरु-
द्राक्षभूषणस्तुङ्गनासिकः । त्रिशूलमादिमे दक्षे द्वितीये
सीरमेव च । शरावमादिमे वामे द्वितीये चैव पुस्तकम् ।
बिभ्रत् सौख्याय पूज्योऽसौ योगवृद्ध्यै सुताप्तये” ।
  • १ । १२ बहुधान्यस्य “द्वादशो बहुधान्याख्यः पीतनीलारुणच्छविः ।
पीतवस्त्रो विशालाक्षस्तुन्दिलोदीर्घगोधिकः । जवाकुतु-
ममालोऽयं कवची गजकुण्डलः । दक्षिणाद्ये करेकुम्भं
सौवर्णं सर्वधान्यकम् । वीजपूरपिधानन्तत् खचिताने-
करत्नकम् । द्वितीये डमरुं वामे चीर्द्धे नीलकनीर-
जम् । द्वितीये तु करे सीरं दधानः सर्वधान्यकम् ।
सिद्धये पूजितो नित्यं स्वनामाद्यैस्तु संस्कृतः” ।
  • २ । १ प्रमाथिनः “प्रमाथिसंज्ञकश्चाद्यः शुक्लवर्णो महाभुजः ।
जटात्रितयसंयुक्तो दीर्घभालोऽर्ककुण्डलः । शोणनीला-
म्बरोपेतः काञ्चनानेकमुद्रिकः । पिकमार्क्यादिमे हस्ते
द्वितीये कम्बुमेव च । पाशं वामोर्द्धगे हस्ते
तदधश्चाम्बुपात्रकम् । दधानो वैरिघाताय स्ववर्गस्यैव पुष्टये” ।
  • २ । २ विक्रमस्य “विक्रमाख्यो द्वितीयस्तु नीलशुभ्रो महोदरः ।
पीतवस्त्रो वृहद्भालः कण्ठमौक्तिकालिकः । आदिमे
दक्षिणे शङ्खं द्वितीये चैव पङ्कजम् । वामादिमे करे
पात्रं पाशमत्र द्वितीयके । दधानोऽतिबलार्थाय
पूजनीयस्तु यत्नतः” ।
  • २ । ३ वृषस्य “वृषाभिधस्तृतीयस्तु श्वेतगौरो विशालदृक् । स्थू-
लरोमाऽतिसंह्वष्टः केतकीदलकर्णयुक् । पीतप्रान्तारुणो-
पेतवसनः कटिघण्टिकः । आदिमे दक्षिणे पाशं द्वितीये
शङ्खमेव च । वामादिमे करे पात्रं द्वितीये मृगमेव च ।
धनधान्यप्रवृद्ध्यर्थं पूजनीयोऽतिसादरम्” ।
  • २ । ४ चित्रभानोः “चतुर्थश्चित्रभान्वाख्यश्चित्रग्रीवोऽरुणांशुकः ।
मुक्तागर्भनिभश्चैव वरदः स्वर्णकुण्डलः । मुक्तास्रजन्तु
दक्षाद्ये द्वितीये चैव पाशकम् । वामादिभे करे
कम्बुं द्वितीये पङ्कजं शुभम् । बिभ्रदानन्दसम्पत्त्यै
प्रतापार्थविवृद्धये” ।
  • २ । ५ सुभानोः “पञ्चमस्तु सुभान्वाख्यः शुभ्रशोणरुचिः शुभः ।
कण्ठत्रिरेखाशोणस्तु जटाकाञ्चनसन्निभः । आदिमे दक्षिणे
पद्मं द्वितीये शङ्खमुज्ज्वलम् । वामोर्द्धे तु करे
पाशं तदधःस्थे शयेऽङ्कुशम् । बिभ्राणः सुखदः शान्त्यै-
रिपुपक्षक्षयाय च” ।
  • २ । ६ तारणस्य “अत्र संवत्सरः षष्ठस्तारणाख्यः सिताम्बरः । श्वेत-
नीलारुणश्चैव स्वर्णकुण्डलभूषणः । प्रथमे दक्षिणे कुम्भं
द्वितीये चैव पङ्कजम् । उत्तराद्ये करे पाशं द्वितीये
शङ्खमादधत् । दुर्गत्यनेकनाशाय भूतये विजयाय च” ।
  • २ । ७ पार्थिवस्य “सप्तमः पार्थिवाख्यस्तु तप्तकाञ्चनसन्निभः ।
पीतशोणाम्बरश्चैव कृष्णग्रीवोऽतिसुन्दरः । सर्वरत्नविभूषाढ्यः
केतकीदलमस्तकः । आदिमे दक्षिणे बाणं द्वितीये
चैव पङ्कजम् । कार्मुकञ्चोत्तरादिस्थे द्वितीये शङ्खमेव
च । दधद्राज्यादिलाभाय पूजनीयः प्रयत्नतः ।
  • २ । ८ अव्ययस्य “अव्ययाख्योऽष्टमश्चात्र कैरवारुणसन्निभः । कृष्ण-
नीलारुणश्वेतवसनश्चित्रकुण्डलः । कीरमार्क्यादिमे हस्ते
द्वितीये सीरमेव च । शङ्खं वामादिमे हस्ते द्वितीये
पाशमादधत् । यज्वनोभूतये नित्यं वृद्धये चायुषे श्रिये” ।
  • २ । ९ सर्वजितः “सर्वजिन्नवमोऽप्यत्र श्वेतनीलोऽसितप्रभः ।
नीलवस्त्रजटोत्तुङ्गः कृष्णनीरजकुण्डलः । दक्षादिमे करे
बाणं द्वितीये चैव पुस्तकम् । वामादिमे करे पाशं
द्वितीये पात्रमेव च । दधानः पूजनीयोऽयं विजयाय
सुखाय च” ।
  • २ । १० सर्वधारकस्य “अधुना कथ्यते वत्स! दशमः सर्वधारकः ।
कङ्कपत्रनिभश्चैव पाटलावसनान्वितः । नीलपङ्कजवर्णस्तु
मुक्ताहारविभूषणः । पाशं दक्षादिमे हस्ते द्वितीये
केतकीदलम् । शङ्खञ्चैवोत्तरादिस्थे द्वितीये चैव पुस्त-
कम् । दधानो विजयारोग्यवृद्धये चैव यज्वनः” ।
पृष्ठ ३७१९
  • ११ विरोधिनः “एकादशोऽधुना ज्ञेयो विरोधी नाम वत्सरः ।
कृष्णपाण्डुरदेहस्तु वरदो नीलकुण्डलः । कृष्णप्रान्ता-
रुणश्चैव वसनप्रान्तभूषणः । विम्बीफलन्तु दक्षाद्ये
द्वितीये श्वेतपङ्जम् । वामादिमे करे सर्पं द्वितीये
पाशमादधत् । पूजनीयोऽरिघाताय बलवृद्ध्यै च
यज्वनः” ।
  • २ । १२ विकृतस्य “द्वादशो विकृताख्यस्तु धूसरः पिङ्गलोचनः ।
नीलशुभ्रांशुकोपेतो मेषशृङ्गजकुण्डलः । दक्षिणाद्येकरे
पाशं द्वितीये मेषशृङ्गकम् । वामोर्द्धगे करे शङ्खं
पाशमस्मादधः करे । दधानो रोगनाशाय दुष्टशत्रुविघातकृत्” ।
  • ३ । १ खरस्य “खराभिधानस्तत्राद्यो रक्तवर्णो महोदरः ।
नीलवस्त्रो वृहद्भालो घनवर्वरमूर्द्धजः । दक्षिणाद्ये करे शक्तिं
द्वितीये खडगमेव च । वामादिमे करे पात्रं
द्वितीये चामरन्दधत् । शत्रुतापाय पूज्योऽसौ
विजयायैव यज्वनः” ।
  • ३ । २ नन्दनस्य “नन्दनाख्यो द्वितीयस्तु पीतशोणाननो बली ।
शुभ्रवस्त्रो जटालम्बी दीर्घकर्णः कजासनः । पङ्क-
जन्तु यमादिस्थे द्वितीये शक्तिमेव च । वज्रं वामादिमे
पाणौ द्वितीये चाङ्कुशं शये । दधानः श्रेयसे भूत्यै
पूजनीयोमहोदयः” ।
  • ३ । ३ विजयस्य “विजयाख्यस्तृतीयस्तु श्वेतपीतारुणच्छविः । कृष्ण-
वस्त्रः कृशोत्तुङ्गजटारुद्राक्षमालिकः । अक्षसूत्रं
यमादिस्थे द्वितीये कुलिशं करे । शक्तिं वामादिमे हस्ते
द्वितीये चैव पङ्कजम् । दधानो विजयारोग्यवृद्धये
चैव पूजितः” ।
  • ३ । ४ जयस्य “जयाभिधश्चतुर्थोऽत्र पीतशोणः शुचिः मुखी ।
पीतवस्त्रो जटैकस्तु पीतरुक्वर्णवेष्टितः । पुस्तकं प्रथमे दक्षे
द्वितीये नीलपङ्कजम् । वामादिमे करे वज्रं द्वितीये
शक्तिमेव च । दधानः शुभमाङ्गल्यवृद्धये चैव पूजितः”
  • ३ । ५ मन्मथस्य “पञ्चमो मन्मथाख्यस्तु नीलशोणशुचिः शुभः ।
स्वर्णकुण्डलसंयुक्तः कीरपक्षनिभांशुकः । मल्लिकाधन्व-
बाणस्तु मूर्वापुष्पजमालिकः । दण्डन्तु दक्षिणे हस्ते
द्वितीये चैव पङ्जम् । वामादिमे करे पुस्तीं द्वितीये
शक्तिमेव च । दधानः सिद्धये भूत्यै योषिद्वर्गवशीकृतौ”।
  • ३ । ६ दुर्मुखस्य “षष्ठश्चैवात्र विज्ञेयो वत्सरो दुर्मुखाभिधः ।
शुकचञ्चुनिभश्चैव नीलकुण्डलसन्धरः । दक्षिणाद्ये करे
शक्तिं द्वितीये वज्रमेव च । शुकं वामादिमे पाणौ
द्वितीये सर्पमादवत् । पूजनीयो विधानेन भ्रूकुटीकुटि-
लाननः । दुष्टशत्रु विनाशाय सर्वरोगीपशान्तये” ।
  • ३ ७ हेमलम्बस्य “सप्तमो हेमलम्बाख्यो रक्तपीतनिभच्छविः ।
गृध्रपक्षांशुकश्चैव रत्नकुण्डलभूषणः । हेमजं पङ्कजंदक्षे
प्रथमे करपल्लवे । द्वितीये कुलिशं पाणौ वामाद्ये
पात्रमुत्तमम् । द्वितीये तु करे शक्तिं दधानो
मुक्तये जय!” ।
  • ३ ८ विलम्बस्य “अष्टमस्तु बिलम्बाख्यः पाटलाभः कृशोदरः ।
पीतवस्त्रो वृहद्भालोजटाखण्डेन्दुमण्डनः । प्रथमे
दक्षिणे सर्पं द्वितीये शक्तिमेव च । वामादिमे करे
पात्रं द्वितीये चैव पङ्कजम् । दधानः शत्रुघा-
ताय पूजनीयोविशेषतः” ।
  • ३ । ९ विकारिणः “विकारी नवमश्चाथ कृष्णनीलारुणच्छविः
ताम्रकुण्डलवस्त्राद्यः कण्ठशोणत्रिरेखिकः । दक्षिणाद्ये
करे वाणं द्वितीये चैव पुस्तकम् । वामादिमे
धनुर्हस्ते द्वितीये शक्तिमादधत् । पूजनीयोविशेषेण सर्व-
रोगोपशान्तये” ।
  • ३ । १० शार्वरिणः “दशमः शार्वरिप्रख्यः कृष्णशुभ्रारुणच्छविः
शोणवस्त्रोऽतिदीर्घाङ्गः स्थूलवर्वरमूर्द्धजः । दक्षि
णाद्ये करे सर्पं द्वितीये शाल्मलीदलम् । कौशि-
कञ्चोत्तरादिस्थे द्वितीये शक्तिमेव च । दधान
कीर्त्तये पुष्ट्यै शत्रुभङ्गाय पूजितः” ।
  • ३ । ११ प्लवस्य “एकादशः प्लवाख्यस्तु शशकर्णनिभच्छविः । दर्दुरा-
भाम्बरोपेतो लोहकुण्डलसंयुतः । आदिमे दक्षिणे
हस्ते दर्दुरं मणिसंयुतम् । द्वितीये तु करे शक्ति
पात्रं वामादिमे करे । द्वितीये पङ्कजं बिभ्रत् पूजनीयोऽ
प्यमित्रहा” ।
  • ३ । १२ शुभकृतः “शुभकृत् द्वादशोऽप्यत्र नागजाभः सुलोचनः ।
पाटलावसनोपेतः कृष्णकुण्डलभूषणः । दक्षिणे भीषणां
शक्तिं प्रथमे करपल्लवे । द्वितीये हेमजं पद्मं वामाद्ये
चैव दर्पणम् । द्वितीये कुलिशं हस्ते दधत्सौख्याय
सम्पदे” ।
  • ४ । १ शुभकृतः “शुभकृत् पीतधूम्रस्तु प्रथमो नीलजाम्बरः
नीलभूषणसंयुक्तो रत्नमुद्राकराङ्गुलिः । घटं दक्षादिमे
हस्ते द्वितीये चैव पुस्तकम् । वामादिमे करे पात्रं
द्वितीये ध्वजमेव च । दधानः श्रेयसे पुष्ट्यै पूज
नीयोजयाय च” ।
  • ४ । २ क्रीधिनः “क्रोधिसंज्ञो द्वितीयस्तु नीलशुभ्रः कृशोदरः
पृष्ठ ३७२०
मंचकाम्बरसंयुक्तस्तुङ्गनासालिपाण्डुरः । पद्मं दक्षादिमे
हस्ते द्वितीये ध्वजमेव च । वामादिमे कजं पाणौ
द्वितीये सीरमेव च । दधानो वैरिनाशाय कृष्णद्रव्यैः
सुपूजितः” ।
  • ४ । ३ विश्वावसोः “विश्वावसुस्तृतीयस्तु कृष्णग्रीवः सुलोलदृक् ।
कृष्णशुभ्रारुणप्रान्तवसनश्चित्रकुण्डलः । ध्वजं दक्षादिमे
पाणौ द्वितीये कुलिशं शये । दधानो भुक्तये प्रीत्यै
नानाभोगफलाप्तये” ।
  • ४ । ४ पराभवस्य “पराभवश्चतुर्थस्तु धूसरोऽरुणजाम्बरः । नीलोत्प-
लश्रुतिश्चैव क्षुद्रघण्टिकमेखलः । नीलोत्पलन्तु दक्षाद्ये
द्वितीये ध्वजमेव च । वामादिमे करे पात्रं सन्दंशं
तु द्वितीयके । धारयन्नरिघाताय पूजनीयो विपश्चिता” ।
  • ४ । ५ प्लवङ्गस्य “पञ्चमस्तु प्लवङ्गाख्यो हरिणाजिनसन्निभः । मेषो-
दराभवस्त्रोऽयं संयुतः कृष्णकन्धरः । दक्षिणाद्ये ध्वजं
पाणौ द्वितीये मेषशृङ्गकम् । वामादिमे करे पात्रं
द्वितीये पाशमेव च । दधानो भूतये भुक्त्यै
पूजनीयः सदा नृभिः” ।
  • ४ । ६ कीलकस्य “कीलकाख्यस्ततः षष्ठः कृष्णवर्णोऽतिदीर्घदृक् ।
नीलवस्त्रो जटाभारः कृष्णकुण्डलभूषणः । कीलकं दक्षि-
णादिस्थे द्वितीये ध्वजमेव च । वामादिमे करे पाशं
सन्दंशन्तु द्वितीयके । दधानो विजयारोम्यवृद्धये चैव
पूजितः” ।
  • ४ । ७ सौम्यस्य “सप्तमः सौम्यनामाथ कीर्त्यते वत्सरः शुभः ।
नीलपीतजटायुक्तो रम्भादलनिभांशुकः । खर्णपत्रश्रुतिश्चैव
कण्ठपङ्कजमालिकः । चन्द्रमार्क्यादिमे हस्ते द्वितीये
केतकीदलम् । वामादिमे ध्वजं हस्ते द्वितीये
नीरजं शुभम् । बिभ्रत्सौभाग्ययोगाय पूजनीयः
सुभक्तितः” ।
  • ४ । ८ साधारणस्य “साधारणोऽष्टमो ज्ञेयो नीलगौरारुण-
च्छविः । पीतशोणान्तवस्त्रोऽयं स्वर्णकुण्डलरत्नयुक् ।
चन्द्रहासं यमादिस्थे द्वितीये चैव कीलकम् । वामा-
दिमे ध्वजं पाणी सन्दंशञ्चोत्तरे दषत् । धनवृद्ध्यै
सुखाप्त्यर्थं पूजनीयः सिताम्बुजैः” ।
  • ४ । ९ “विरोधकृतः “विरोधकृच्च विज्ञेयो नवमो वत्सरो जय! ।
पिकाभः शुक्लवस्त्रोऽयं पिङ्गश्मश्रुजटेक्षणः । दक्षिणाद्ये
करे शङ्खं द्वितीये चव वै ध्वजम् । चन्द्रहासन्तु
वामाद्ये द्वितीये परशु शये । विभ्राणो रोगनाशाय
शत्रुसन्तापकृत् जय! ।”
  • ४ । १० परिधाविनः “परिधावी तु विज्ञेयो दशमश्चैव वत्सरः ।
इन्दीवरारुणश्वेतः कृष्णपीतनिभांशुकः । ब्रह्मप्रसव-
कर्णस्तु कण्ठपङ्कजमालिकः । पिकमार्क्यादिमे हस्ते
द्वितीये ध्वजमेव च । घण्टां वामादिमे पाणौ द्वि-
तीये चैव मुद्गरम् । दधानो वृद्धये चैव श्रेयोभूति-
सुखायुषाम्” ।
  • ४ । ११ प्रमादिनः “प्रमादी चापि विज्ञेयो रुद्रसङ्ख्योऽपि
वत्सरः । अतसीपुष्पसङ्काशो हरिनीलारुणाम्बरः ।
मदघूर्णितनेत्रस्तु तन्द्रीभूत इवालसः । दण्डमार्क्यादिमे हस्ते
द्वितीये दण्डमेव च । वामादिमे करे पात्रं द्वितीये
विसिनीदलम् । दधानो रोगविच्छित्त्यै शत्रुभङ्गाय
यज्वनः” ।
  • ४ । १२ आनन्दस्य “आनन्दाख्यः सितः पीतवसनो द्वादशोऽत्र
हि । मुक्तेन्द्रनीलसौवर्णभूषणो नीलकुण्डलः । पङ्कजं
दक्षिणादिस्थे द्वितीये केतकीदलम् । वामोर्द्ध्वगे
ध्वजं पाणौ तदधस्थे तु मोदकम् । योषिद्वश्याय
संपूज्यो गन्धपुष्पाक्षतादिभिः” ।
  • ५ । १ राक्षसस्य “तामसानां भवेदाद्यो राक्षसो नाम वत्सरः ।
इन्दीवरदलाभासो हेमवस्त्रोऽर्कभूषणः । अर्कमार्क्यादिमे
हस्ते द्वितीये शृणिमेव च । नीलोत्पलन्तु वामाद्ये
द्वितीये कुलिशं शये । दधद्रोगादिनाशाय पूज्य
स्थाणुभिरेव सः” ।
  • ५ । २ अनलस्य “अनलाख्यो द्वितीयस्तु नीलशुभ्रारुणच्छविः ।
पीतप्रान्तालिवस्त्रस्तु वज्रकुण्डलभूषणः । चन्द्रहासं
यमादिस्थे द्वितीये चार्ककङ्करे । पिशितञ्चोत्तरादिस्थे
परे चैव परश्वधम् । दधत् सुसम्पदेऽरीणां विजया-
यैव यज्वनः” ।
  • ५ । ३ पिङ्गलस्य “पिङ्गलाख्यस्तृतीयोऽत्र कुमुदारुणसन्निभः ।
श्वेतप्रान्तारुणानीलवसनः स्वर्णभूषणः । आदिमे
पिशितं याम्ये द्वितीये सीरमेव च । कुलिशञ्चैव वामाद्ये
सन्दंशन्तु द्वितीयके । बिभ्राणो विजयारोग्यवृद्धये चैव
पूजितः” ।
  • ५ । ४ कालयुक्तस्य “कालयुक्ताभिधस्तुर्यो नीलकण्ठो वृकोदरः ।
पीतारुणांशुकोपेतो नीलस्वर्णजभूषणः । यमादिमे करे
सर्पं द्वितीये सीरमेव च । सीधुपात्रन्तु वामाद्ये
द्वितीये कीलमेव च । पूजनीयो विशेषेण यज्वनो
वैरिमृत्यवे” ।
  • ५ । ५ सिद्धार्थस्य “अधुना कीर्त्यते वत्स! सिद्धार्थो नाम पञ्चमः ।
पृष्ठ ३७२१
तप्तकाञ्चनसङ्काशो नीलशुभ्रारुणांशुकः । नीलकुण्डल-
संयुक्तो मुक्ताविद्रुमभूषणः । सौवर्णं कलशं याम्ये
प्रथमे करपल्लवे । इन्दीवरं परे चैव कुलिशञ्चोत्तरो-
र्द्ध्वगे । वीजपूरमधस्तस्माद्दधानः श्रेयसे मुदे” ।
  • ५ । ६ रौद्रस्य “रौद्राभिधस्ततः षष्ठः पिङ्गलः कृष्णलोहितः ।
पाटलावसनोपेतो ह्रस्ववर्वरमूर्द्ध्वजः । कीरमार्क्यादिमे
हस्ते द्वितीये हलमादधत् । कुण्डीमिन्द्रादिमे पाणौ
परे कुण्डलिनं शये । रोगनाशाय संभुक्त्यै पूज्योऽयं
परिपन्थिषु” । (इन्द्रो वामः)
  • ५ । ७ दुर्भतेः “सप्तमः कथ्यते चायं मेचकाभः स दुर्मतिः । शङ्ख-
गार्क्यादिमे हस्ते स्वर्णमेखलरत्नजम् । सर्पमत्र द्वितीये
वै कुण्डीमिन्द्रादिमे शये । द्वितीये पुस्तकं पाणौ
दधद्बिद्वेषकृद्रिपोः” । (इन्द्रो वामः)
  • ५ । ८ दुन्दुभेः “अष्टमो दुन्दुभिप्रख्यो नीलग्रीवो विशालदृक् ।
सोमवर्णः सिताम्भोजवसनः कृष्णगोधिकः । जटामुकुट
भालोऽयं स्वर्णपत्रद्युतिः शुभः । कदलीफलमार्क्याद्ये
द्वितीये शङ्खमेव च । वीजपूरन्तु वामाद्ये द्वितीये
सस्यमञ्जरीम् । विभ्राणो धनधान्याय पूजनीयः
सदा नृभिः” ।
  • ५ । ९ रुधिरोद्गारिणः “नवमो रुधिरोद्गारीं नीलशोणालिदेह-
युक् । कृष्णप्रान्तारुणश्वेतवसनो नीलभूषणः । लोहि-
ताक्षो जटापिङ्गः शोणचन्दनचर्चितः । रक्तोत्पलं
यमादिस्थे द्वितीये कुलिशं शये । पिशितञ्चोत्तरादिस्थे
द्वितीये चाङ्कुशं दधत् । वैरिभङ्गाय वै पूज्यो
वालवृद्ध्यै हि यज्वनः” ।
  • ५ । १० रक्ताक्षस्य “दशमश्चैव रक्षाक्षो नीलकण्ठः कृशोदरः ।
पीतनीलतनुश्चैव नीलशोणालिकाम्बरः । शरमार्क्या-
दिमे पाणौ द्वितीये चैव पङ्कजम् । सीरमिन्द्रादिमे
हस्ते द्वितीये चैव कर्तरीम् । दधद्वैरिविघाताय
पूजनीयः प्रयत्नत” ।
  • ५ । ११ क्रोधनस्य “एकादशोऽधुना वत्स! क्रोधनाख्यो निगद्यते ।
सजलाम्बुदसङ्काशः पीतशोणाम्बरान्वितः । लोहभू-
षणसंयुक्तः केशमध्यगपङ्कजः । दक्षिणाद्ये करे शूलं
पलशुष्काथसंयुतम् । द्वितीये कर्तरीमत्र वामाद्ये पात्र-
मासवम् । सन्दंशन्तु द्वितीये वै दधानो वैरिमृत्यवे” ।
  • ५ । १२ क्षयस्य “क्षयाभिधो भवेदत्र द्वादशो वत्सरो जय! ।
कृष्णग्रीवः सुनीलाङ्गो रक्तनेत्रो जटाधरः । मेचकारुण-
वस्त्रस्तु नीलकारुणगोधिकः । आदिमे दक्षिणे सर्पं
द्वितीये चैव पाशकम् । विषकुम्भन्तु वामाद्ये द्वितीये
चैव केतनम्” । एवं पञ्चद्वादशकषष्ठिवत्सराणां मूर्त्तयः ।
यासां देवतानां प्रतिमानां यथारूपनिर्माणमुक्तं
तासां तथारूपेणैव ध्येयता । अत्रानुक्तदेवतानां ध्यान-
भेदा ध्यानशब्दे वक्ष्यन्ते । देवताप्रतिमूर्त्त्यादयोऽप्यत्र ।
प्रतिमानिर्माणे द्रव्यभेदा मत्स्यपु० उक्ताः ते च देवताप्रतिष्ठा
शब्दे वक्ष्यते
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/देवगिरि&oldid=57779" इत्यस्माद् प्रतिप्राप्तम्