सामग्री पर जाएँ

वाचस्पत्यम्/दीर्घशर

विकिस्रोतः तः
पृष्ठ ३६१४

दीर्घशर पु० नित्यकर्म्म० । यावनाले राजनि० ।

दीर्घशाख पु० दीर्घा शाखा यस्य । १ शालवृक्षे संज्ञायां कन्

टाप् अत इत्त्वम् । २ एलापर्ण्याम् स्त्री राजनि० । वा
कप् अत इत्त्वम् । दीर्घशाखिका ३ नीलाम्न्याम् राजनि० ।

दीर्घशिम्बिका स्त्री दीर्घा शिम्ब्वी यस्य कप् ह्रस्वः । क्षवे

(नाकछिक्नी) वृक्षे राजनि० ।

दीर्घशूक पु० दीर्घः शूकोऽग्रमस्य । शालिभेदे संज्ञायां कन् ।

दीर्घशूके राजान्ने राजनि० कर्म० । ३ दीर्घे शूके न०

दीर्घश्रवस् पु० दीर्घं श्रवोऽस्य । दीर्घतमसः पुत्रे

ऋषिभेदे “औशिजाय बणिजे दीर्घश्रवसे” ऋ० १ । ११२ । ११
“उशिक् संज्ञा दीर्घतमसः पत्नी तस्याः पुत्रो दीर्घश्रवा-
नाम कश्चिदृषिरनावृष्टौ जीवनार्थमकरोत् बाणिज्यम्”
भा० २ दीर्घकर्णयुक्ते त्रि० कर्म० । ३ दीर्घे कर्णे न० ।

दीर्घसत्र न० कर्म० । १ दीर्घकालिके यज्ञभेदे ६ व० । २ तत्कर्तरि

त्रि० । “हविषे दीर्घसत्रस्य सा चेदानीं प्रचेतसः” रघुः ।
दीर्घाणि सत्राणि कृतानि यत्र । ३ तीर्थभेदे “ततो गच्छेत
धर्मज्ञ! दीर्घसत्रं यथाक्रमम् । तत्र ब्रह्मादयो देवाः
सिद्धाश्च परमर्षयः । दीर्घसत्रमुपासन्ते दीक्षिता नियत-
व्रताः । गमनादेव राजेन्द्र! दीर्घसत्रमरिन्दम! ।
राजसूयाप्वमेधाभ्यां फलं प्राप्नोति भारत!” भा० व० ८२ अ० ।
४ यावज्जीवकर्तव्ये अग्निहोत्रे न० “दीर्घसत्रं ह वा त
उपयन्ति येऽग्निहोत्रं जुह्वयेतद्वै जरामर्यं सत्रं
यदग्निहोत्रं जरया वा ह्येवास्मान्मुच्यन्ते मृत्युना
वा” शत० व्रा० १२ । ४ । १ । १

दीर्घसत्रिन् पु० दीर्घसत्रमस्त्यस्य इनि । १ बहुकालिकसत्र-

कारके २ यावज्जीवकर्तव्याग्निहोत्रिणि च “यदेतस्य दीर्घ
सत्रिणोऽग्निहोत्रं जुह्वतोऽन्तरेणाग्नी युक्तं वा विया-
यात्” शत० ब्रा० १२ । ४ । १ । २

दीर्घसुरत पुंस्त्री० दीर्घं बहुकालव्यापकं सुरतमस्य । १ र्कुक्कुरे

त्रिका २ स्त्रियां जातित्वात् ङीष् । कर्म्म० । २ आयते
सुरते न० ।

दीर्घसूक्ष्म पु० कर्म० । पात० सू० भाष्योक्ते प्राणायामभेदे

तत्स्वरूपादि तत्रोक्तं यथा
“तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणा-
यामः” सू० । “सत्यासनजये बाह्यस्य वायोराचमनं
श्वामः । कोष्ठ्यस्य वायोर्निःसारणं प्रश्वासः तयोर्गति-
विच्छेद उभयाभावः प्राणायामः” भा० । “बाह्या-
भ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टोदीर्घसूक्ष्मः”
सू० । “यत्र प्रश्वासपूर्वको गत्यभावः स वाह्यः यत्र श्वास-
पूर्ष्वको गत्यभावः स आभ्यन्तरः तृतीयस्तम्भवृत्तिर्यत्रोभ-
याभावः सकृत्प्रयत्नाद् भवति यथा तप्ते न्यस्तमुपले जलं
सर्वतः सङ्कोचमापद्यते । तथा द्वयोर्युगपद्गत्यभावैति ।
त्रयोऽप्येते देशेन परिदृष्टाः, इयानस्य विषयो देशैति ।
कालेन परिदृष्टाः क्षणानामियत्ताबधारणेनावच्छिन्ना
इत्यर्थः । सङ्ख्याभिः परिदृष्टाः एतावद्भिः श्वासप्रश्वासैः
प्रथम उद्घातस्तद्वत् विगृहीतस्यैतावद्भिः द्वितीय उद्घातः
एवं तृतीयः एवं मृदुरेवं मध्य एवं तीव्र इति सङ्ख्या-
परिदृष्टः स खल्वयमेवमभ्यस्तो दीर्घसूक्ष्मः” भा० ।
“बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः” सू० । “देशकाल-
सङ्ख्यामिर्बाह्यविषयः परिदृष्ट आक्षिप्तः तथाभ्यन्तरविषयः
परिदृष्ट आक्षिप्तः उभयथा दीर्घसूक्ष्मः तत्पूर्वको भूमि-
जयात् क्रमेणाभयोर्गत्यभावश्चतुर्थः प्राणायामः । तृती-
यस्तु विषयानालोचितो गत्यभावः सकृदारब्धएव
देशकालसङ्ख्याभिः परिदृष्टोदीर्घसूक्ष्मश्चतुर्थस्तु श्वासप्रश्वासयो-
र्विषयावधारणात् क्रमेण भूमिजयादुभयाक्षेपपूर्बको
गत्यभावश्चतुर्थः प्राणायामः इत्ययं विशेषः” भा० ।

दीर्घसूत्र त्रि० दीर्घेण चिरकालेन सूत्रमीप्सितव्यापारो यस्य ।

१ चिरकालेन प्रारब्धकर्म्मानुष्ठातरि अमरः । “दीर्घमूत्रस्य
आपत्प्राप्तिरितिहासमुखेन” भा० शा० १३७ अ० दर्शिता तथा
“अनागतविधाता च प्रत्युत्पन्नमतिश्च यः । द्वावेव
मुखमेधेते दीर्घसूत्रो विनश्यति । अत्रैव चेदमव्यग्रं
शृणुष्वाख्यानमुत्तमम् । दीर्घसूत्रमुपाश्रित्य कार्य्याकार्य्य
विनिश्चये । नातिगाधे जलाधारे सुहृदः शकुनास्त्रयः ।
प्रभूतमत्स्ये कौन्तेय! बभूवुः सहचारिणः । तत्रैको
दीर्घकालज्ञ उत्पन्नप्रतिभोऽपरः । दीर्घसूत्रश्च तत्रैक-
स्त्रयाणां सहचारिणाम् । कदाचित् तं जलाधारं
मत्स्यबन्धाः समन्ततः । निःस्रावयामासुरथो निम्नेषु
विविधैर्मुखैः । प्रक्षीयमाणं तं दृष्ट्वा जलाधारं मयागमे ।
अब्रवीद्दीर्घदर्शी तु तावुभौ सुहृदौ तदा । इयमापत्
समुत्पन्ना सर्वेषां सलिलौकसाम् । शीघ्रमन्यत्र गच्छामः
पन्था यावन्न दुष्यति । अनागतमनर्थं हि सुनयैर्य्यः
प्रबाधयेत् । स न संशयमाप्नोति रोचतां भो व्रजामहे ।
दीर्घसूत्रस्तु यस्तत्र सोऽब्रवीत् सम्यगुष्यते । न तु कार्य्या
त्वरा तावदिति मे निश्चिता मतिः । अथ सम्प्रतिपत्तिज्ञः
प्राब्रवीद्दीर्घदर्शिनम् । प्राप्ते काले न मे किञ्चि-
न्न्यायतः परिहास्यते । एवं श्रुत्वा निरक्रामद्दीर्घ-
दर्शी महामतिः । जगाम स्रोतसा तेन गम्भीरं
पृष्ठ ३६१५
सलिलाशयम् । ततः प्रस्रुततोयन्तं प्रसमीक्ष्य
जलाशयम् । वबन्धुर्वविधैर्योगैर्मत्स्यान् मत्स्यीपजीविनः
विलोड्यमाने तस्मिंस्तु स्रुततोये जलाशये । अगच्छ-
द्बन्धनं तत्र दीर्घसूत्रः सहापरैः । उद्दाने क्रियमाणे
तु मत्स्यानां तत्र रज्ज्वुभिः । प्रविश्यान्तरमेतेषां स्थितः
सम्प्रतिपत्तिमान् । गृह्यमेव तदुद्दानं गृहीत्वा तं तथैव
सः । सर्वानेव च तांस्तत्र ते विदुर्ग्रथितानिति । ततः
प्रक्षाल्यमाणेषु मत्स्येषु विपुले जले । मुक्त्वा रज्ज्वुं
प्रमुक्तोऽसौ शीघ्रं सम्प्रतिपत्तिमान् । दीर्घसूत्रस्तु
मन्दात्मा हीनबुद्धिरचेतनः । मरणं प्राप्तवान् मूढ़ो
यथैवोपहतेन्द्रियः । एवं प्राप्ततमं कालं यो मोहा-
न्नावबुध्यते । स विनश्यति वै क्षिप्रं दीर्घसूत्रो यथा
झषः । आदौ न कुरुते श्रेयः कुशलोऽस्मीति यः
पुमान् । स संशयमवाप्नोति यथा सम्प्रतिपत्तिमान् ।
अनागतविधाता च प्रत्युत्पन्नमतिश्च यः । द्वावेव सुखमे-
धेतेदीर्घसूत्रो विनश्यति” कर्म० । २ दीर्घे सूत्रे न० । ६ ब० ।
३ दीर्घतन्तुके त्रि० “दीर्घसूत्र मकरोत् परिधानम्” माघः ।

दीर्घसूत्रिन् त्रि० दीर्घं सूत्रं कर्तव्यव्यापारोऽस्त्यस्य इनि ।

चिरक्रियावति । “अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिको-
ऽलसः । विषादी दीर्घसूत्री च कर्त्ता तामस उच्यते”
गीता । “यदह्ना कार्यं तत्मासेनापि यो न सम्पादयति
स दीर्घसूत्री” आ० त० रघु० ।

दीर्घस्कन्ध पु० दीर्घः स्कन्धः काण्डोऽस्य । तालवृक्षे राजनि०

दीर्घा स्त्री दीर्घ + टाप् । पृश्निपर्ण्याम् राजनि० ।

दीर्घाध्वग पु० दीर्घमायतमध्वानं गच्छति गम--ड ६ त० ।

(धाओडिया) ख्याते पत्रवाहकभेदे ।

दीर्घायु त्रि० दीर्घमायुः यस्य । चिरकालजीविनि “जीवातुश्च

दीर्घायुत्वं मे” यजु० १८ । ६ “दीर्घायुत्वाय प्रति रतं
न आयुः” ऋ० ८ । ५९ । ७

दीर्घायुध पु० नित्यकर्म० । कुन्तास्त्रे त्रिका० । दीर्घं दन्तरू-

पमायुधं यस्य दीर्घात् आयुध्यते आ + युध--क । १ शूकरे
पुंस्त्री शब्दमा० ।

दीर्घायुष्य यु० दीर्घमायुष्यं यस्य । १ श्वेतमन्दारकवृक्षे २

मार्कण्डेये च राजनि० । ३ आयतायुर्युक्तेषु चिरजीविशब्दा-
र्थोक्तेषु त्रि० कर्म० । ३ दीर्घे वहुकालव्यापके आयुषि
तत्कारणमुक्तं मनुना । “ऋषयो दीर्घसन्ध्यत्वात् दीर्घमा-
युरवाप्नुयुः” ।

दीर्घायुस् पु० दीर्घमायुरस्य । १ दीर्घायुष्ययुक्ते २ चिरजीविश-

ब्दोक्तार्थे च । “दीर्घायुस्ते ओषधे! खनिता” यजु०
१ । २१००

दीर्घालर्क पु० दीर्घोऽलर्क इव । श्वेतमन्दारवृक्षे राजनि० ।

दीर्घास्य त्रि० दीर्घमास्यं यस्य । १ आयतमुखे २ हस्तिनि च

३ शिवानुचरभेदे दीर्घलोचनशब्दे दृश्यम् दीर्घमास्यं यत्र
देशे । ४ पश्चिमोत्तरदेशभेदे वृ० सं० १४ अ० वाक्यं दीर्घग्रीव-
शब्दे दृश्यम् ।

दीर्घाहन् पु० दीर्घाण्यहानि यत्र । निदाघसमये इह “हल्-

ञ्यादि” पा० सुलोपे प्रत्ययलक्षणेन “रोऽसुपि” पा०
रकारनिषेधेन रुस्तस्यासिद्धत्वात् न नान्तलक्षण उपघा-
दीर्घः” सि० कौ० । दीर्घाह्णा इत्यत्र “अह्नोऽदन्तात्” पा०
नत्वम् कर्म० । “राजाहःसखिभ्यः ठच्” पा० ठच ।
दीर्घाह दीर्घदिवसे पु० ।

दीर्घिका स्त्री दीर्घैव स्वार्थे क कापि अत इत्त्वम् ।

१ जलाशयभेदे तत्प्रमाणं जलाशयोत्सर्गतत्त्वे यथा
नव्यवर्द्धमानधृतवसिष्ठः “शतेन धनुर्भिः पुष्करिणी ।
त्रिभिः शतैर्दीर्घिका, चतुर्भिर्द्रोणः पञ्चभिस्तडागः! ।
द्रोणाद्दशगुणा वापी” इति संहितायामन्तरपदश्रुतेरत्रापि
तथावगम्यते । तेन चतुर्दिक्षु पञ्चत्रिंशद्धस्तान्यूनतायां
द्वादशशतहस्तान्तरान्यूनत्वेन दीर्घिका” “शृङ्गाहतं
क्रोशति दीर्घिकाणाम्” रघुः । २ जलाशयमात्रे “स्वर्णदी
सुरदीर्घिका” अमरः दीर्घिकाभिश्च पूर्णाभिस्तया पुष्क-
रिणीभिर्हि” भा० आ० १२८ अ० ।

दीर्घेर्वारु नित्यकर्म० । डङ्गरीलताभेदे राजनि० ।

दीर्ण त्रि० दॄ--क्त । १ विदारिते २ भीते च भावे क्त । ३ विदारे ४ भये च न०

दीस त्रि० दी--क्षये क्विप् तां स्यति सो--क । क्षयनाशके

गवादिगणे दीप्तेत्यत्र दीसेति पाठान्तरात् हितादौ यत् ।
दीस्य तद्धितादौ त्रि० ।

दु गतौ भ्वा० पर० अक० अनिट् । दवति अदौषीत् केचित्तु

वेडयमित्याहुस्तेन अदावीदित्यपि । दुदाव वेट् कत्वेऽपि
लिटि नित्येट् दुदुविव । दूनः । “पित्तेन दूने रसने
सितापि” नैष० ।

दु उपतापे स्वा० प० सक० सेट् । उपतापःपीडनम् । दुनोति-

अदावीत् अदौषीत् लिटि नित्येट् दुदुविव । दुतः ।
“मृदुतया दुतया” माघः । “दुनोति निर्गन्धतया स्म चेतः”
कुमा० “स भस्मसाच्चकारारीन् दुदाव च कृतान्तवत्” भट्टिः
“मृदु दूयेत यदङ्गमर्पितम्” रघुः कर्मकर्तरि रूपं दू--स्येदे
दैवादिकस्य वा रूपम् ।
पृष्ठ ३६१६

दुःक(दुष्क)र्ण पु० वा वत्वम् । धृतराष्ट्रपुत्रभेदे “दुर्मर्षणोदुर्मुखश्च

दुष्कर्णः कर्ण एव च” भा० आ० ६७ अ० तत्पुत्रोक्तौ ।

दुःख दुःखकरणे कण्ड्रा० पर० अक० सेट् । दुःख्यति अदुः-

ख्यीत् अदुःखीत् ।

दुःख तत्क्रियायाम् अद--चु० उभ० अक० सेट् । दुःखयति ते अदुदुःखत् त ।

दुःख न० दुष्टानि खानि यस्मिन्, दुष्टं खनति खन--ड,

दुःख--अच् वा । सांख्यादिमतसिद्धे प्रतिकूलवेदनीये रजः
कार्ये १ चित्तादिधर्मभेदे । न्यायमते २ आत्मधर्मभेदे “बुद्ध्या-
दिषट्कं संख्यादिपञ्चकं भावना तथा । धर्म्माधर्म्मौ गुणा
एते आत्मनः स्युश्चतुर्दश । अधर्मजन्यं दुःखं स्यात् प्रति-
कूलं सचेतसाम्” भाषा० “अधर्मत्वेन दुःखत्वेन कार्य्य-
कारणभावः । प्रतिकूलं, दुःखत्वज्ञानादेव सर्वेषां स्वाभा-
विकविषयः प्रतिकूल इत्यर्थः सि० मु० । “इच्छाद्वेषप्रयत्न
सुखदुःखज्ञानान्यात्मनो लिङ्गम्” गौ० सू० “यज्जाती
यस्यार्थस्य सन्निकर्षात् सुखमात्मोपलब्धवान् । तज्जातीय
मेवार्थं पश्यन्नुपादातुमिच्छति सेयमादातुमिच्छा एकस्या-
नेकार्थदर्शिनीदर्शनप्रतिसन्धनाद् भवति लिङ्गमात्मनः,
नियतविषये हि बुद्धिभेदमात्रे न सम्भवति देहान्तर-
वदिति । एवमेकस्यानेकार्थदर्शिनोदर्शनप्रतिसन्धानाद्दुः-
खहेतौ द्वेषः । यज्जातीयो यस्यार्थः सुखहेतुः प्रसिद्धस्त-
ज्जातीयमर्थं पश्यन्नादातुम् प्रयतते, सोऽयम् प्रयत्न
एकमनेकार्थदर्शिनं दर्शनप्रतिसन्धातारमन्तरेण न स्यात्
निवतविषये बुद्धिभेदमात्रे न सम्भवति देहान्तरवदिति
एतेन दुःखहेतौ प्रयत्नी व्याख्यातः । सुखदुःखस्मृत्या
चायं तत्साघनमाददानः सुखमुपलभते दुःखमुपलभते
सुखदुःख वेदयते पूर्वोक्त एव हेतुः” मा० “द्वितीयसूत्र
भाष्ये च “दोषैः प्रयुक्तः शरीरेण प्रवर्तमानो हिंसा-
स्तेयप्र्तिषिद्धपरद्रोहं परद्रव्याभीप्सा नास्तिक्यञ्चेति
सेयं पापात्मिका प्रवृत्तिरधर्म्माय” उक्तम् ।
कणा० सूत्रे उपस्करवृत्तौ च सुखदुःखयोः परस्परभेदः,
ज्ञानाद्भेदश्च साधितो यथा
“इष्टानिष्टकारणविशेषाद्विरोधाच्च मिथः सुखदुःखयो-
रथान्तरभावः” सू० । “आत्मगुणानां कारणभेदव्युत्पा-
दनं दशमाध्यायार्थः, तत्र “आत्मशरीरेन्द्रियार्थबुद्धि-
मनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्” इति
गौतमीये प्रमेयविभागसूत्रे सुखस्यानभिधानात् दुःखा-
भिन्नमेव सुखमिति भ्रमनिरासार्थं सुखदुःखयोरेव
प्रथमं भेदमाह । सुखदुःखयोर्मिथः परस्परमर्थान्तर-
भावोभेदो वैजात्यमिति यावत् कुत इत्यत आह इष्टा-
निष्टकारणविशेषात् इष्टम् इष्यमाणं स्रक्चन्दनवनितादि
अनिष्टमनिष्यमाणमहिकण्टकादि, तद्रूपं यत्कारणं तस्य
विशेषाद्भेदात् कारणवैजात्याधीनं कार्य्यवैजात्यमावश्यकं
यतः । भेदकान्तरमाह विरोधात् सहानवस्थानलक्षणात्
नह्येकस्मिन्नात्मन्येकदा सुखदुःखयोरनुभवः । चकारा-
दनयोः कार्य्यभेदं भेदकं समुच्चिनोति, तथाहि अनुग्रहा
भिष्वङ्कनयनप्रसादादि सुखस्य, दैन्यसुखमालिन्यादि
दुःखस्य कार्य्यमिति ततोऽप्यनयोर्भेदः । तदुक्तं प्रशस्ता-
चार्यैः “अनुग्रहलक्षणं सुखं स्रगाद्यभिप्रेतविषयसा-
न्निध्ये सति इष्टोत्पन्नधीन्द्रियार्थसन्निकर्षाद्धर्माद्यपेक्षा-
दात्ममनसीः संयोगाद्यद्यदनुग्रहाभिष्वङ्गनयनादिप्रसा-
दजनकमुत्पद्यते तत् सुखम्” इति, तदिदमतीतेषु स्रक्-
चन्दनादिषु स्मृतिजम्, अनागतेषु सङ्कल्पजम्, गौतमीये
सूत्रे सुखापरिगणनं वैराग्याय, सुखमपि दुःखत्थेन
भावयतो वैरास्यं स्यादेतदर्थमिति” उप० वृ० । “नन्वासातां
सुखदुःखे परस्परं भिन्ने, ज्ञानादभिन्ने स्यातां स्मृत्यनुभ-
ववदित्यत आह उप० वृ “संशयनिर्णयान्तराभावश्च ज्ञाना-
न्तरत्वे हेतुः” सू० “सुखदुःखयोर्ज्ञानान्तरत्वे ज्ञानभि-
न्नत्वे संशयनिर्णयावान्तरत्वाभावो हेतुर्लिङ्गमित्यर्थः,
तदयमर्यः मुखं दुःखं वा ज्ञानं भवत् संशयरूपं वा
स्यात् निर्णयरूपं वा, नाद्यः कोटिद्वयानुल्लेखित्वात् म
द्वितीयः एककोट्यनुल्लेखित्वात्, तथा च यावद्विशेष-
बाधात् सामान्यबाधः, द्वावेवहि ज्ञानस्य विशेषौ
संशयत्वं निर्णयत्वञ्च, तदुभयञ्च, सुखे दुःखे च बाधि-
तमिति ज्ञानत्वमपि तत्र बाधितम् । चकारादनुभवबाधं
समुच्चिनोति सुखदुःखयोरहं सुखी दुःखीति मानसीऽ-
नुभवो नत्वहं जाने सन्देह्मि निश्चिनोमोत्याकारोऽनुभव
इति । भेदकान्तरमाह” उपवृ० “तयोर्निष्यत्तिः प्रत्यक्षलै-
ङ्गिकाभ्याम्” सू० “तयोः संशयनिर्णययोर्निष्पत्तिरुत्-
पत्तिः प्रत्यक्षाल्लिङ्गाच्च सुखं दुःखं वा न प्रत्यक्षसामग्री-
जन्यं न वा लिङ्गजन्यम् चतुर्विधं हि सुख वेषयिक
मानोरथिकम् आभिमानिकमाभ्यासिंकञ्च, तत्र त्रता-
णामिन्द्रियसन्निकर्षप्रभवत्वं नास्त्येव । प्रथममिन्द्रियार्थन-
न्निकर्षजन्यत्वात् ज्ञानं स्यादिति चेन्न सामग्र्येकदेशस्य
कार्यस्य साजात्यानापादकत्वात् अन्यथा दिक्कालसाघा-
रण्येन सकलकार्यैकजात्यापत्तेः, किञ्च इन्द्रियार्थसन्नि-
कर्षादुत्पद्यमानं सुखं निर्विकल्पकं वा स्यात् सविकल्पकं
पृष्ठ ३६१७
वा, नाद्यः अतीन्द्रियत्वप्रसङ्गात्, न द्वितीयः विशेष्यवि-
शेषणभावेन द्वयोरनाकलनरूपत्वात् । किञ्च सुखदुःखयो-
रवश्यसंवेद्यत्वात् ज्ञानस्यावश्यसंवेद्यत्वेऽनवस्थाप्रसङ्गात् ।
लैङ्गिकमिति लिङ्गमेव वैषयिकवत् । वृत्तिकृतस्तु तयो
र्ज्ञानसुखयोर्निष्पत्तिः प्रत्यक्षलैङ्गिकाभ्यां प्रत्यक्षलैङ्गिक-
ज्ञानव्याख्यानाभ्यां व्याख्याता, प्रत्यक्षं ज्ञानमिन्द्रिर्य-
जम्, लैङ्गिकन्तु लिङ्गजम्, सुखादिकन्तु नैतादृशमिति
व्याचक्रुः” उप० वृ० । “अभूदित्यपि” सू० “लैङ्गिकज्ञानाद्
सुखादेः प्रकारभेदाधीनं भेदमाह इति शब्दः प्रकारे,
अपिशब्दो भविष्यतीत्याकारान्तरसमुच्चये, तथाच पर्वते
वह्निरभूद्भविष्यति वेति लैङ्गिके ज्ञानेऽतीतादिः प्रकारो-
दृश्यते न चैवं प्रकारं सुखं दुःखं वा उत्पद्यमानमुपल-
लब्धम्” उप० वृ० । “सति च कार्यदर्शनात्” सू० “चशब्दः
भेदकान्तरं समुच्चिनोति । सति इन्द्रियार्थसन्निर्कर्षे सति
च व्याप्तिपक्षधर्म्भतादिप्रतिसन्धाने कार्य्यस्य सुखस्य
दुःखस्य वाऽदर्शनात् न प्रत्यक्षमात्रं सुखं दुःखं वा न लैङ्गि-
कमात्रं वा, तदयमर्थः ज्ञानसामान्यं तावत् सुखदुःखे न
भवत इत्युक्तं ज्ञानविशेषः प्रत्यक्षज्ञानं वा भवेदनुमितिरूपं
वा इन्द्रियार्थसन्निकर्षे स्रक्कन्दनादिप्रत्यक्षे सुखत्वानुभ-
वाभावात्, न द्वितीयः चन्दनाद्यनुमितौ वह्न्याद्यनुमितौ
वा सुखत्वदुःखत्वान्यतराननुभवात् । एवं प्रत्यक्षविशेषेऽनु-
मितिविशेषे वा सुखदुःखयोरननुभवान्न तद्विशेषोऽपीति”
उप० वृ० । “एकार्थसमवायिकारणान्तरेषु दृष्टत्वात्” सू० ।
“भेदकान्तरमाह सुखदुःखयोरिति शेषः, सुखं प्रति
एकार्थसमवेतानि असाधारणकारणानि, धर्म्मः, सुखे
रागः, सुखकारणेच्छा तदुपादानयत्नः, स्रक्चन्दना-
दिज्ञानम् । दुःखं प्रति तु अधर्म्मः, अनिष्टकण्टकादि-
ज्ञानम्, एषु एकार्थसमवायिषु कारणेषु दृष्टत्वादित्यर्थः,
ज्ञानन्तु निर्विकल्पकमेकार्थसमवेतमसाधारणकारणं नापे-
क्षत एव, सविकल्पकन्त्वपेक्षते विशेषणज्ञानं तन्न कारणा-
न्यरं स्वविजातीयं कारणं न मवति, मनःसंयोगस्तु
साधारणत्वादविवक्षितः । यद्यपि स्मृतिः संस्कारमसाधा-
रणमपेक्षते तथापि तद्भेदः स्फुटसिद्ध एवेत्यनुभवमादाय
भेदचिन्तनात् । लैङ्गिके यद्यपि व्याप्तिस्मृतिपक्षधर्म्मता-
दिज्ञानापेक्षा तथाप्यन्तरशब्देनैव तद्व्युदासः । तदयं
प्रमाणप्रयोगः सुखदुःखे अनुभवभिन्ने स्वसमानाधिकर-
णसजातीयासाधारणकारणजन्यत्वात् स्मृतिवदाद्यशब्द-
वच्च” उप० वृ० ।
सांख्यास्तु तस्य रजःकार्यत्वम् चित्तस्य विषयाणाञ्च धर्मत्वं
तत्त्रैविध्यञ्चोररीचक्रुः । तथा हि “दुःखत्रयाभि-
घातादित्यादि” सा० का० तत्त्वकौमुद्यामुक्तं यथा
“दुःखानां त्रयं दुःखत्रयं तत् खलु त्रिविधम् आध्या-
त्मिकमाधिभौतिकमाधिदैविकञ्च तत्राध्यात्मिकं द्विविधं
शारीरं मानसञ्च । शारीरं वातपित्तश्लेष्मणां वैषम्यनि-
मित्तं, मानसं कामक्रोधलोभमोहभयेर्ष्याविषादविषयवि-
शेषादर्शननिबन्धनम् । सर्वं चैतदान्तरोपायसाध्यत्वादा-
ध्यात्मिकं दुःखम् । बाह्योपायसाध्यञ्च दुःखं द्वेधा
आधिभौतिकमाधिदैविकञ्च तत्राधिभौतिकं मानुपपशुप-
क्षिसरीसृपस्थावरनिमित्तम् । आधिदैविकं यक्षराक्षसवि-
नायकग्रहावेशनिबन्धनम् । तदेतत् प्रत्यात्मवेदनीयं दुःखं
रजःपरिणामभेदो न शक्यते प्रत्याख्यातुम् । तदनेन
दुःखत्रिकेणान्तःकरणवर्त्तिना चेतनाशक्तेः प्रतिकूलतया-
भिसम्बन्धोऽभिघातः इति । एतावता प्रतिकूलवेदनी-
यत्वं जिहासाहेतुरुक्तः । “यद्यपि न सन्निरुध्यते दुःखं
तथापि तदभिभवः शक्यः कर्त्तुमित्युपरिष्टान्निवेदयिष्यते”
“भोग्ये हि सुखदुःखे अनुकूलप्रतिकूलवेदनीये प्रत्या-
त्ममनुभूयेते तेनानयोरनुकूलनीयेन प्रतिकूलनीयेन च
केनचिदप्यन्येन भवितव्यं नचानुकूलनीयाः प्रतिकूलनीया
वा बुद्ध्यादयस्तेषां सुखदुःखाद्यात्मकत्वेन स्वात्मनि वृत्ति-
विरोधात् । तस्माद्योऽसुखाद्यात्मा सोऽनुकूलनीयः प्रति-
कूलनीयो वा स चात्मेति” सा० प्र० भा० ।
सर्वेषां त्रिगुणात्मत्वात् विषयस्यापि सुखदुःखात्मकत्वं
त० कौ० व्यवस्थापितं यथा
“अत्र च सुखदुःखमोहाः परस्परविरोधिनः स्वस्वा-
नुरूपाणि सुखदुःखमोहात्मकान्येव निमित्तानि कल्प-
यन्ति । तेषाञ्च परस्परमभिमाव्याभिभावकभावान्नानात्वम् ।
तद्यथा एकैव स्त्री रूपयौवनकुलशीलसम्पन्ना स्वामिनं
सुखाकरोति तत्कस्य हेतोः? स्वामिनं प्रति तस्याः
सुखरूपसमुद्भवात् । सैव स्त्री सपत्नीर्दुःखाकरोति तत्कस्य
हेतोः? ताः प्रति तस्या दुःस्वरूपसमुद्भवात् । एवं
पुरुषान्तरं तामविन्दत् सैव भोहयति तत्कस्य हेतोः?
तत् प्रति तस्या मोहरूपसमुद्भवात् । अनया च स्त्रिया
सर्वे भावा व्याख्याताः । तत्र यत्सुखहेतुस्तत्सुखात्मकं
सत्वं, यत् दुःखहेतुस्तद्दुःखात्मकं रजः यन्मोहहेतुस्त-
न्मोहात्मकं तमः, सुखप्रकाशलाघवानां त्वेकस्मिन् युगप-
दुद्भूतावविरोधः सहदर्शनात् । तस्मात सखदुःखमोहैरिब
पृष्ठ ३६१८
विरोधिभिरेकैकगुणवृत्तिभिः सुखप्रकाशलाथवैर्न निमित्त-
भेदा उन्नीयन्ते एवं दुःखोपष्टम्भकप्रवर्त्तकत्वैरेवं
मोहगुरुत्वावरणैरिति सिद्धं त्रैगुण्यमिति” ।
दुःखादीनाञ्च सा० प्र० भा० विषयगतत्वं यद्वर्णितं तच्च
आनन्दशब्दे ७२२ पृ० दृश्यम् “प्रीत्यप्रतीतिविषादा-
द्यैर्गुणानामन्योन्यवैधर्म्यम्” सा० सू०
“गुणानां सत्वादिद्रव्यत्रयाणामन्योऽन्यं सुखदुःख-
विषादाद्यैः साधर्म्यं कार्येषु तद्दर्शनादित्यर्थः । मोहादिकं
च घटादेरपि रूपादिवदेव धर्मोऽन्तःकरणोपादानत्वा-
दन्यकार्याणामित्युक्तम् । अत्रादिशब्दग्राह्याः पञ्च-
शिखाचार्यैरुक्ताः यथा “सत्वं नाम प्रसादलाघवाभिष्वङ्ग-
प्रीतितितिक्षासन्तोषादिरूपानन्तभेदं समासतः सुखात्म-
कम् । एवं रजोऽपि शोकादिनानाभेदं समासतो
दुःखात्मकम्” सा० प्रवचनभाष्यम् ।
दुःखस्य चित्तवृत्तिविशेषरूपत्वम् शङ्करभाष्ये उक्तेम् तच्च
अज्ञानशब्दे ६४३ पृ० दर्शितम् ।
कविकल्पलतायाञ्च लोकसिद्धानि कतिचित् दुःखकार-
णानि दर्शितानि यथा
पारतन्त्र्यं १ आधिः २ व्याधिः ३ मानच्युतिः ४ शत्रुः ५
कुभार्य्या ६ नैःस्वम् ७ कुग्रामवासः ८ कुस्वामिसेवनम् ९
वहुकन्याः १० वृद्धत्वं ११ परगृहवासः १२ वर्षाप्रवासः १३
भार्य्याद्वयम् १४ कुभृत्यः १५ दुर्हलकरणककृषिः १६
वराहपुराणे दुःखतराणि कतिचिदुक्तानि यथा
“दुःखमेव प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे! । उचिते-
तोपचारेण दुःखं मोक्षविनाशनम् । अहङ्कारकृतो नित्यं
नरा मोहेन चावृताः । ये मां नैव प्रपद्यन्ते ततो दुःख-
तरन्नु किम् । सर्वाशी सर्वविक्रेता नमस्कारविव-
र्जितः । ये च मां न प्रपद्यन्ते ततो दुःखतरन्नु किम् ।
सर्वान्नानि तु सिद्धानि पाकभेदन्तु कारयेत् । अवैश्व-
देवं योऽश्नाति ततो दुःखतरन्नुकिम् । प्राप्तकाले वैश्व-
देवे दृष्टं ह्यतिथिमागतम् । अदत्त्वा तस्य यो भुङ्क्ते
कतो दुःखतरन्नु किम् । असन्तुष्टस्तु वैषम्ये परदाराभि
मर्दकः । परोपतापी मन्दात्मा ततो दुःखतरन्नु किम् ।
अकृत्वायुर्बलं कर्म्म गृहे संवसते नरः । मृत्युकालवशं
प्राप्तस्ततो दुःखतरन्नुकिम् । हस्त्यश्वरथयानानि
गच्छमानानि पश्यति । न वै तस्याग्रतः पृष्ठे ततो दुःख-
तरन्नु किम् । अश्नन्ति पिशितं केचित् घृतशालिसम-
न्वितम् । शुष्कान्नं केचिदश्नन्ति ततो दूःखतरन्नु किम ।
वरवस्त्रावृतां शय्यां समासेवन्ति भूषिताः । केचित्
तृणेषु शेरन्ते ततो दुःखतरन्नुकिम् । विद्वान् कृती
गुणज्ञश्च सर्वशास्त्रविशारदः । केचिन्मूकाश्च दृश्यन्ते
ततो दुःखत्तरन्नु किम् । विद्यमाने धने केचित् कृपणा
भोगवर्जिताः । दरिद्रो जायते दाता ततो दुःखत-
रन्नु किम् । पुरुषस्य तु द्वे भार्ये तयोरेकां प्रशंस-
येत् । एकापि दुर्भगा तत्र ततो दुःखतरन्नु किम् ।
लब्ध्वा तु मानर्सी संज्ञां पञ्चभूतसमन्विताम् । मामेव
न प्रपद्यन्ते ततो दुःखतरन्नु किम् । लब्ध्वा ब्राह्मण-
भावन्तु त्रयो वर्णाः सुमध्यमे! । पापकर्म्मरता ह्यासं-
स्ततो दुःखतरन्नु किम् । एतत्ते कथितं भद्रे! दुःखकर्म
विनिश्चितम् । सर्वभूतहितार्थाय यत्त्वया परिपृ-
च्छ्यते” । “अवाच्यवादांश्च बहूत् वदिष्यन्ति
तवाहिताः । निन्दन्तस्तव सामर्थ्यं ततो दुःखतरन्नु किम्”
गीता । “मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवति”
माघः । “सुखं हि दुःखान्यनुभूय शोभते” मृच्छ० । दुःख-
मनुभवति दुःख + क्यङ् दुःखायते दुखमनुभवतीत्यर्थः ।
“दुःखायते जनः सर्वः सएवैकः सुखायते” भट्टिः ।

दुःखग्राम पु० दुःखानां ग्रामोऽत्र । १ संसारे शब्दार्थचि० ।

६ त० । २ दुःखसमुदाये च ।

दुःखजात त्रि० जातं दुःखमस्य परनि० । संजातसुखे

“जातिकालसुखादिभ्यः” इत्यादिना पा० अस्यान्तोदात्तता
६ त० । २ दुःखसमुदाये न० ।

दुःखत्रय न० ६ त० । आध्यात्मिकाधिभौतिकाधिदैविकरूपे

दुःखत्रिके दुःखशब्दे सा० का० त० कौ० वाक्यं दृश्यम् ।

दुःखदिर पु० दुष्टः खदिरः वा षत्वम् । महासारे

खदिरभेदे शब्दार्थचि० ।

दुःखदोह्या स्त्री दुःखेन दोह्या । दुःखेन दोह्यायां गवि । हेमच० ।

दुःखशील त्रि० दुःखं शीलयति शील--अण् उप० । दुःखा-

नुभवशीलनकर्त्तरि “कामेकपत्नी ब्रतदुःखशीलाम्” कुमा० ।

दुःखित त्रि० दुःख + तार० इतच् । संजातदुःखे “दुःखिता

यत्र दृश्येरन् विकृताः पापकारिणः” मनुः ।

दुःखिन् त्रि० दुःख + मुखा० गत्वर्थे इनि । दुःखान्विते

दुःशकुन न० दुष्टं शकुनं वा रोः शः । अशुभसूचके निमि-

त्तभेदे “बन्ध्याचर्मतुषास्थि सर्पलबणाङ्गारेन्धनक्लीवविट्-
तैलोन्मत्तवसौषधारिजटिलप्रव्राट्तृणव्याधिताः नग्नाभ्य-
क्तविमुक्तकेशपतित व्यङ्गक्षुधार्त्ता असृक् स्त्रीपुष्पं
शरटः स्वगेहदहनं मार्जारयुद्धं क्षुतम् । काषायी गुड़-
पृष्ठ ३६१९
तक्रपङ्कविधवाः कुब्जाः कुटुम्बे कलिर्वस्त्रादेः स्खलनं
लुलापसमरं कृष्णानि धान्यानि च । कार्पासं वमनञ्च
गर्दभरवो दक्षेऽतिरुट् गर्भिणी मुण्डार्द्राम्बरदुर्वचीन्ध
वधिरोदक्या न दृष्टाः शुभाः । कृष्णाम्बरा कृष्णविलेपनाट्या
कृष्णस्रजं मूर्द्धनि घारयन्ती । दृष्टा प्रकीपा यदि कृष्ण-
वर्णा नारी नरैस्तद्विपदो भवन्तीति” शब्दार्थचि० धृतवाक्यम्
दिग्भेदादिभिः शकुनभेदे फलभेदः वृ० सं० ८६ अ० उक्ते यथा
“अन्यजन्मान्तरकृतं कर्म पुंसां शुभाशुभम् । यत्तस्य
शकुनः पाकं निवेदयति गच्छताम् । ग्रामारण्याम्बुभू-
व्योमद्युनिशोभयचारिणः । रुतयातेक्षितोक्तेषु ग्राह्याः
स्त्रीपुन्नपुंसकाः । पृथग्जात्यनवस्थानादेषां व्यक्तिर्न
लक्ष्यते । सामान्यलक्षणोद्देशे श्लोकावृषिकृताविमौ ।
पीनोन्नतविपुष्टांसाः पृथुग्रीवाः सुवक्षसः । स्वल्पगम्भीर-
विरुताः पुमांसः स्थिरविक्रमाः । तनूरस्कशिरोग्रीवाः
सूक्ष्मास्यपदविक्रमाः । प्रसक्तमृदुभाषिण्यः स्त्रियोऽतो-
ऽन्यन्नपुंसकम् । ग्रामारण्यप्रचाराद्यं लोकादेवोषलक्ष
येत् । सञ्चिक्षिप्सुरहं वच्मि यात्रामात्रप्रयोजनम् ।
पथ्यात्मानं नृपं सैन्ये पुरे चोद्दिश्य देवताम् । स्वार्थे
प्रधानं साम्यं स्याज्जातिविद्यावयोऽधिकम् । मुक्तप्राप्तैष्य-
दर्कासु फलं दिक्षु तथाविधम् । अङ्गारिदीप्तधूमिन्यस्ताश्च
शान्तास्ततोऽपराः । तत्पञ्चमदिशां तुल्यं शुभं त्रैकाल्य-
मादिशेत् । परिशेषयोर्दिशोर्वाच्यं यथासन्नं शुभा-
शुभम् । शीघ्रमासन्ननिम्नस्थिश्चिरादुन्नतदूरगैः । स्थान-
वृद्ध्युपघाताच्च तद्वद्व्रूयात्फलं पुनः । क्षणतिथ्युडुवाता-
र्कैर्दैवदीप्तो यथोत्तरम् । क्रियादीप्तो गतिस्थानभावस्वर-
विचेष्टितैः । दशधैवं प्रशान्तोऽपि सौम्यस्तृणफलाशनः ।
मांसामेध्याशनो रौद्रो विमिश्रोऽन्नाशनः स्मृतः । हर्म्य-
प्रासादमङ्गल्यमनोज्ञस्थानसंस्थिताः । श्रेष्ठा मधुरसक्षीर-
फलपुष्पद्रुमेषु च । स्वकाले गिरितीयस्था बलिनो द्यु-
निशाचराः । क्लीवस्त्रीपुरुषाश्चैषां बलिनः स्युर्यथोत्तरम् ।
जवजातिबलस्थानहर्षसत्त्वस्वरान्विताः । स्वभूमावनुली-
माश्च तदूनाः स्युर्विवर्जिताः । कुक्कुटेभपिरिल्यश्च शिखि-
वञ्जुलछिक्कराः । बलिनः सिंहनादश्च कूटपूरी च पूर्वतः ।
क्रोष्टुकोलूकहारीतकाककोकर्क्षपिङ्गलाः । कपोतरुदि-
ताक्रन्दक्रूरशब्दाश्च याम्यतः । गोशशक्रौञ्चलोमाश-
हंसोत्क्रोशकपिञ्जलाः । विड़ालीत्सववादित्रगीतहासाश्च
वारुणाः । शतपत्रकुरङ्गाखुमृगैकशफकोकिलाः । चार्ष
शल्यकपुण्याहथण्टाशङ्खरवा उदक् । न ग्राम्योऽरण्यगो
ग्राह्यो नारण्यो ग्रामसंस्थितः । दिवाचरो न शर्वर्यां
न च नक्तञ्चरो दिवा । द्वन्द्वरोगान्वितत्रस्ताः कलहा-
मिषकाङ्क्षिणः । आपगान्तरिता मत्ता न ग्राह्याः
शकुनाः क्वचित् । रोहिताश्वाजवालेयकुरङ्गोष्ट्रमृगाः
शशः । निष्फलाः शिशिरे ज्ञेया वसन्ते काककोकिलौ ।
नंतु भाद्रपदे ग्राह्याः सूकरश्ववृकादयः । शरद्यब्जा-
दगोक्रौञ्चाः श्रावणे हस्तिचातकौ । व्याघर्क्षवानर-
द्वीपिमहिषाः सबिलेशयाः । हेमन्ते निष्फला ज्ञेया
षालाः सर्वे विमानुषाः । ऐन्द्रानलदिशोर्मध्ये त्रिभागेषु
व्यवस्थिताः । कोशाध्यक्षानलाजीवितपोयुक्ताः प्रद-
क्षिणम् । शिल्पी भिक्षुर्विवस्त्रा स्त्री याम्यानलदिगन्तरे ।
परतश्चापि मातङ्गगोपधर्मसमाश्रयाः । नैरृतीवारुणी-
मध्ये प्रमदासूतितस्कराः । शौण्डिकः शाकुनी हिंस्री
वायव्यपश्चिमान्तरे । विषघातकगोस्वामिकुहकज्ञास्ततः
परम् । धनवानीक्षणिकश्च मालाकारः परं ततः ।
वैष्णवश्चरकश्चैव वाजिनां रक्षणे रतः । एवं द्वात्रिं-
शतो भेदाः पूर्वदिग्भिः सहोदिताः । राजा कुमारो
नेता च दूतः श्रेष्ठी चरो द्विजः । गजाध्यक्षश्च पूर्वाद्याः
क्षत्रियाद्याश्चतुर्दिशम् । गच्छतस्तिष्ठतो वापि दिशि
यस्यां व्यवस्थितः । विरौति शकुनो वाच्यस्तद्दिग्जेन
समागमः । भिन्नभैरवदीनार्तपरुषक्षामजर्जराः । स्वरा
नेष्टाः शुभाः शान्ता हृष्टप्रकृतिपूरिताः । शिवा श्यामा
रला छुच्छुः पिङ्गला गृहगोधिका । सूकरी परपुष्टा
च पुन्नामानश्च वामतः । स्त्रीसञ्ज्ञा भासभषककपि-
श्रीकर्णचिक्कराः । शिखिश्रीकण्ठपिप्पीकरुरुश्येनाश्च
दक्षिणाः । क्ष्वेडास्पोटितपुण्याहगीतशङ्खाम्बुनिःस्वनाः ।
सतूर्याध्ययनाः पुंवत् स्त्रीवदन्या गिरः शुभाः । ग्रामौ
मध्यमषड्जौ तु गान्धारश्चेति शोभनाः । षड्जामध्यम-
गान्धारा ऋषभश्च स्वरा हिताः । रुतकीर्तनदृष्टेषु
भारद्वाजाजबर्हिणः । धन्या नकुलचाषौ च सरटः पापदो-
ऽग्रतः । जाहकाहिशशक्रोडगोधानां कीर्त्तनं शुभम् ।
रुतसन्दर्शनं नेष्टं प्रतीपं वानरर्क्षयोः । ओजाः प्रदक्षिणं
शस्ता मृगाः सनकुलाण्डजाः । चाषः सनकुलों वामो
भृगुराहापराह्णतः । छिक्करः कूटपूरी च पिरिली
चाह्नि दक्षिणा । अपसव्याः सदा शस्ता दंष्ट्रिणः
सबिलेशयाः । श्रेष्ठे हयसिते प्राच्यां शवमांसे च दक्षिणे ।
कन्यकादधिनी पश्चादुदग्गोविप्रसाधवः । जालश्वचरणौ
नेष्टौ प्राग्याम्यौ शस्त्रघातकौ । पश्चादा सवषण्ढौ च
पृष्ठ ३६२०
खलासनहलान्युदक् । कर्मसङ्गमयुद्धेषु प्रवेशे नष्टमार्गणे ।
यानव्यस्तगता ग्राह्या विशेषश्चात्र वक्ष्यते । दिवा प्रस्थान-
वद्ग्राह्याः कुरङ्गरुरुवानराः । अह्नश्च प्रथमे भागे
चाषवञ्जुलकुक्कुटाः । पश्चिमे शर्वरीभागे नप्तृकोलूक-
पिङ्गलाः । सर्व एव विपर्यस्ता ग्राह्याः सार्थेषु योषि-
ताम् । नृपसन्दर्शने ग्राह्याः प्रवेशेऽपि प्रयाणवत् ।
गिर्यरण्यप्रवेशे च नदीनां चावगाहने । वामदक्षिणगौ
शस्तौ यौ तु तावग्रपृष्ठगौ । क्रियादीप्तौ विनाशाय
यातुः परिघसञ्ज्ञितौ । तावेव तु यथाभागं प्रशान्त-
छतचेष्टितौ । शकुनौ शकुनद्वारसञ्ज्ञितावर्थसिद्धये ।
केचित्तु शकुनद्वारमिच्छन्त्युभयतः स्थितैः । शकुनैरेक-
जातोयैः शान्तचेष्टाविराविभिः । विसर्जयति यद्येक
एकश्च प्रतिषेधति । स विरोधोऽशुभो यातुर्ग्राह्यो
वा बलवत्तरः । पूर्वं प्रावेशिको भूत्वा पुनः प्रास्थानिको
भवेत् । सुखेन सिद्धिमाचष्टे प्रवेशे तद्विपर्ययः ।
विसर्ज्य शकुनः पूर्वं स एव निरुणद्धि चेत् । प्राह यातु-
ररेर्मृत्युं डमरं रीगमेव वा । अपसव्यास्तु शकुना
दीप्ता भयनिवेदिनः । आरम्भे शकुनो दीप्तो वर्षान्त-
स्तद्भयङ्करः । तिथिवाय्वर्कमस्थानचेष्टादीप्ता यथाक्रमम् ।
धनसैन्यबलाङ्गेष्टकर्मणां स्युर्भयङ्कराः । जीमूतध्वनि-
दीप्तेषु भयं भवति मारुतात् । उभयोः सन्ध्ययोर्दीप्ताः
शस्त्रोद्भवभयङ्कराः । चितिकेशकपालेषु मृत्युबन्धबध-
प्रदाः । कण्टकीकाष्ठभस्मस्थाः कलहायासदुःखदाः ।
अप्रसिद्धिं भयं वापि निःसाराश्मव्यवस्थिताः । कुर्वन्ति
शकुना दीप्ताः शान्ता याप्यफलास्तु ते । असिद्धिसिद्धिदौ
ज्ञेयौ निर्हादाहारकारिणौ । स्थानाद्रुवन् व्रजेद्-
यात्रां शंसते त्वन्यथागमम् । कलहः स्वरदीप्तेषु स्थान-
दीप्तेषु विग्रहः । उच्चमादौ स्वरं कृत्वा नीचं पश्चाच्च
घोषकृत् । एकस्थाने रुवन्दीप्तः सप्ताहाद्ग्रामघातकृत् ।
पुरदेशनरेन्द्राणामृत्वर्द्धायनवत्सरात् । सर्वे दुर्भिक्षकर्तारः
स्वजातिपिशिताशनाः । सर्पमूषिकमार्जारपृथुरोमविव-
र्जिताः । परयोनिषु गच्छन्तो मैथुनं देशनाशनाः ।
अन्यत्र वेसरोत्पत्तेर्नृणां चाजातिमैथुनात् । बन्धघात-
भयानि स्युः पादोरुमस्तकान्तिगैः । अगष्पपिशितान्ना-
दैर्वर्षमोषक्षतग्रहाः । क्रूरीग्रदोषदुष्टैश्च प्रधाननृपवृत्तकैः ।
चिरकालैश्च दीप्ताद्यास्वागमो दिक्षु तन्नृणाम् । सद्रव्यो
वलवांश्च स्यात्सद्रव्यस्यागमो भवेत् । द्युतिमान् विनतप्रेक्षी
सौम्यी दारुणवृत्तकृत् । विदिक्स्थः शकुनो दीप्तो वाम-
स्थेनानुवाशितः । स्त्रियाः संग्रहणं प्राह तद्दिगाख्यात-
योनितः । शान्तः पञ्चमदीप्तेन विरुतो विजयावहः ।
दिग्नरागमकारी वा दोषकृत्तद्विपर्यये । वामसव्यरुतो
मध्यः प्राह स्वपरयोर्भयम् । मरणं कथयन्त्येते सर्वे
समविराविणः । वृक्षाग्रमध्यमूलेषु गजाश्वरथिकागमः ।
दीर्घाब्जमुषिताग्रेषु नरनौशिविकागमः । शकटेनोन्नत-
स्थे च छायास्थे छत्रसंयुतः । एकत्रिपञ्चसप्ताहात्
पूर्वाद्यास्वन्तरासु च । सुरपतिहुतवहयमनिरृति-
वरुणपवनेन्दुशङ्कराः । प्राच्यादीनां पतयो दिशः पुमांसो-
ऽङ्गना विदिशः । तरुतालीविदलाम्बरसलिलजशरचर्म-
पट्टलेखाः स्युः । द्वात्रिंशत् विभक्ते दिक्चक्रे तेषु
कार्याणि । व्यायामशिखिनिकूजितकलहाम्भोनिगड़-
मन्त्रगोशब्दाः । वर्णाश्च रक्तपीतककृष्णसिताः कोणगा
मिश्राः । चिह्नं ध्वजो दग्धमथ श्मशानं दरी जलं
पर्वतयज्ञघोषाः । एतेषु संयोगभयानि विन्द्यात् अन्यानि
वा स्थानविकल्पितानि । स्त्रीणां विकल्पे वृहती
कुमारी व्यङ्गा विगन्धा त्वथ नीलवस्त्रा । कुस्त्री प्रदीर्घा
विधवा च ताश्च संयोगचिन्तापरिवेदिकाः स्युः ।
पृच्छासु रूप्यकनकातुरभामिनीनां मेषाव्ययानमखगोकुल-
संश्रयासु । न्यग्रीधरक्ततरुलोध्रककीचकाख्याश्चूतद्रुमाः
खदिरबिल्वनगार्जुनाश्च” ।
अन्यानि शुभाशुभशकुनानि तत्रोक्तानि तत्तच्छब्दे उक्तानि

दुः(दुश्श)शला स्त्री धृतराष्ट्रकन्यायाम् वा रोः शः । दुश्श-

लाप्यत्र “कुण्डजश्चित्रकश्चैव दुःशला च शताधिका”
भा० आ० ६७ अ० ।

दुःशास त्रि० दुःखेन शिष्यतेऽसौ शास--कर्मणि वेदे खल् । दुःखेन शिष्यमाणे ।

दुःशासन त्रि० दुःखेन शिष्यतेऽसौ “भाषायां शासियुधि

दृशिधृषिमृषिभ्यो युच्” पा० भाषायां युचो विधानात्
कर्मणि युच् । दुःखेन शिष्यमाणे दुर्योधनादिमध्ये
२ धृतराष्ट्रपुत्रभेदे पु० । “दुर्योघनोयुयुत्सश्च राजन्!
दुःशासनस्तथा” भा० आ० ६७ अ०

दुः(श्शी)शील त्रि० दुष्टं शीलमस्य वा रोः शः । दुष्टशीले

“पूर्वमप्यतिदुःशीलो न धैर्यं कर्तुमर्हति” भा० स० २० अ०

दुःशोध त्रि० दुर् + शुध--कर्मणि खल् । १ दुःखेन शोधनीये

प्रतीकार्ये च त्रि० “तथैव खलु दुःशोधान् शोधयेत्
क्षारकर्मणा” सुश्रु० ।

दुः(दुष्ष)षन्धि पु० दुष्टः सन्धिः सुषामा० षत्वे विसर्गस्य वा षः । दुष्टे सन्धौ

दुः(दुष्ष)षमस् अव्य० दुष्टं सममत्र तिष्टद्गु० अव्ययी० षत्वे

रोर्वा षः । गर्हायाम् अमरः ६ ब० । अषत्वम् ।
असमञ्जमे त्रिका० ।
पृष्ठ ३६२१

दुः(दुस्स)सह त्रि० दुःखेन सह्यतेऽसौ सह--खल् वा रोः

सः । १ दुःखेन सोढव्ये “यो दुःसहासो वनुषा” ऋ०
९ । ९१ । ५ “तेषामापततां वेगः करिणां दुःसहोऽभवत्”
भा० व० ६५ अ० “दुःसहेन हृदये निशाचरी” रघुः
“भवत्यनिष्टादपि नाम दुःसहात्” कुमा० । २ नागदमन्यां
स्त्री राजनि० ।

दुःषु(सु)प्त त्रि० दुर् + स्वप--क्त--वा षत्वम् ।

१ दुष्टस्वप्नयुक्ते भावे क्त । २ दुष्टे स्वप्ने न० ।

दुःषूति त्रि० दुष्टा सूतिः रोर्वा षः । दुष्टायां सूतौ ।

दुः(दुष्षे)षेध त्रि० दर्--सिध--खल् सुषामा० षत्वे रोर्वा

षः । सेद्धुमसाध्ये ।

दुःसक्थ(किथ) त्रि० दुष्टं सक्थि यस्य वा अच् समा० । दुष्टसक्थियुक्ते ।

दुःसाध(ध्य) त्रि० दुःखेन साध्यतेऽसौ खल् तत्रार्थे । घञ् वा ।

साधयितुमशक्ये “छन्दोनुवृत्तिदुःसाधा” माघः “किं नाम
मम दुःसाध्यं शत्रुणा निग्रहे रणे” हरिवं० २६७ अ०

दुःसाधिन् त्रि० दुष्टं साधयति साधि--णिनि । १ दुष्टसाधके

२ दौवारिके पु० शब्दमाला ।

दुः(दु)स्त्री स्त्री दुष्टा स्त्री प्रा० स० वा विसर्गलोपः । दुष्टायां

स्त्रियां तस्याभावः कर्म वा अण् । दीस्त्रीण तस्याभावे
कर्मणि च न० ।

दुः(दु)स्थ त्रि० दुष्टं तिष्ठति स्था--क वा विसर्गलोपः । १ दुर्गते

२ मूर्खे ३ दुष्टं स्थिते च मेदि० ४ लुब्धे शब्दार्थचि० ।
“दुःस्थ तिष्ठसि यच्च पथ्यमधुना कर्त्तास्मि तत् श्नोष्यसि”
अमरुश० ।

दुः(दु)स्पर्श त्रि० दुःखेन स्पृश्यंतेऽसौ दुर् + स्पृश--कर्मणि

खल् वा विसर्गलोपः । १ स्प्रष्टुमशक्ये मेदि० । “दुर्ग्राह्यो
मुष्टिना वायुः दुस्पर्शः पाणिना शशी” भा० आनु० ३३ अ०
३ दुरालभायाम् स्त्री अमरः ३ लताकरञ्जे राजनि०
४ कपिकच्छ्वाम् ५ आकाशवल्ल्यां ६ कण्टकार्य्याम् च स्त्री राजनि० ।

दुः(दु)स्फोट पु० दुष्टं स्फोटयति स्फुट--अच् वा

विसर्गलोपः । १ कर्मणि खल् । २ दुष्टे ब्रणे च अस्त्रादौ हेमच० ।

दुःस्वप्न पु० दुष्टः स्वप्नः प्रा० स० । अशुभसूचके स्वप्नभेदे

स च छान्दोग्यो० “अथ स्वप्ने कृष्णदन्तं पुरुषं पश्यति
सएनं हन्ति” इत्युक्तः ।
कतिचित् दुःस्वप्नभेदाश्च ब्रह्मवैवर्तजन्मख० उक्ता यथा
“सव श्रुत महाभाग! दुःस्वप्नं कथय प्रभो! । उवाच
तञ्च भगवान्! श्रूयतामिति तद्वचः । श्रीभगर्वानुवाच
स्वप्ने हसति यो हर्षाद्विवाहं यदि पश्यति । नर्त्तन
गीतमिष्टञ्च विपत्तिस्तस्य निश्चितम् । दन्ता यस्य विपी-
ड्यन्ते विचरन्तञ्च पश्यति । धनहानिर्भवेत्तस्य पीडा
चापि शरीरजा । अभ्यङ्गितस्तु तैलेन यो गच्छेद्दक्षिणां
दिशम् । खरोष्ट्रमहिषारूढो मृत्युस्तस्य न संशयः ।
स्वप्ने चूर्णं जवापुष्पमशोकं करवीरकम् । विपत्ति-
स्तस्य तैलञ्च लवणं यदि पश्यति । नग्नां कृष्णां छिन्न-
नासां शूद्रस्य विधवां तथा । कपर्द्दकं तालफलं दृष्ट्वा
शोकमवाप्नुयात् । स्वप्ने रुष्टं ब्राह्मणञ्च ब्राह्मणीं
कोपसंयुताम् । विपत्तिश्च भवेत्तस्य लक्ष्मीर्याति गृहाद्ध्रु-
वम् । वनपुष्पं रक्तवर्णं पलाशञ्च सुपुष्पितम् ।
कार्पासं रक्तवस्त्रं च दृष्ट्वा दुःखमवाप्नुयात् । गायन्तीञ्च
हसन्तीं वा कृष्णाम्बरधरां स्त्रियम् । दृष्ट्वा कृष्णाञ्च विधवां
नरो मृत्युमवाप्नुयात् । देवता यत्र नृत्यन्ति गायन्ति
च हसन्ति च । आस्फोटयन्ति धावन्ति तस्य देशो
विनश्यति । वान्तं मूत्रं पुरीषञ्च रैत्यं रत्नं सुवर्णकम् ।
प्रत्यक्षमथ वा स्वप्ने जीवितं दशमासिकम् । कृष्णाम्बर-
धरां नारीं कृष्णमाल्यानुलेपनाम् । उपगूहति यः
स्वप्ने तस्य मृत्युर्भविष्यति । मृतवत्सञ्च सुप्तञ्च मृगस्य
वानरस्य वा । यः प्राप्नोत्यस्थिमालां च विपत्तिस्तस्य
निश्चितम् । अभ्यङ्गितस्तु तैलेन हविषा मधुनाऽपि वा ।
तक्रेणैव गुडेनापि पीडा तस्य विनिश्चितम् । पतितं
नखकेशञ्च निर्वाणाङ्गारमेव च । भस्मपूर्णां चितां
दृष्ट्वा लमते मृत्युमेव च । मसीञ्च किञ्चित् कृष्णं वा
दृष्ट्वा दुःखं लभेद्ध्रुवम् । पादुकाफलकं रक्तपुष्पमाल्यं
भयानकम् । माषं मसूरं मुद्गं वा दृष्ट्वा सद्यो व्रणं
भवेत् । करटं सरटं काकं भल्लूकं वानरं परम् ।
पूयगात्रमलं स्वप्ने केवलं व्याधिकारणम् । भग्नभाण्डं
क्षतं शूद्रं यकृत्कुष्ठैश्च रोगिणम् । रक्ताम्बरञ्च जटिलं
शूकरं महिषं खरम् । ऋक्षाकारं महाघोरं
मृतजीवं भयङ्करम् । दृष्ट्वा स्वप्ने योनिलिङ्गं विपत्तिं लभते
ध्रुवम् । कुवेशरूपं म्लेच्छञ्च यमदूतं भयङ्करम् ।
पाशहस्तं पाशशस्त्रं दृष्ट्वा मृत्युं लभेन्नरः । ब्राह्मणो ब्राह्मणी
बाला बालको वा सुतः सुता । विदायं कुरुते कोपात्
दृष्ट्वा दुःखमवाप्नुयात् । कृष्णपुष्पञ्च तन्माल्यं शस्यश-
स्त्रास्त्रधारिणम् । म्लेच्छाञ्च विकृताकारां दृष्ट्वा मृत्युं
लभेद्ध्रुवम् । नाट्यञ्च नर्त्तनं गीतं गायनं रक्तवाम-
सम् । मृदङ्गवाद्यमानन्दं दृष्ट्वा दुःखं लभेद्घ्रुवम् ।
पृष्ठ ३६२२
प्राणत्यक्तं मृतं दृष्ट्वा मृत्युञ्च लभते ध्रुवम् । मत्स्यादि-
धारणं यो हि तद्भ्रातुर्मरणं भवेत् । छिन्नं भयङ्करं
वापि विकृतं मुक्तकेशिनम् । क्षिप्तं नृत्यञ्च कुर्वन्तं
दृष्ट्वा मृत्युं लभेन्नरः । मृतो वापि मृता वापि कृष्णा
म्लेच्छा भयानका । उपगूहति यं स्वप्ने तस्य मृत्यु
र्बिनिश्चितम् । उपगूहति यं स्वप्ने शृङ्गिणो दंष्ट्रिणो-
ऽपि वा । बालका मानवाश्चैव तस्य राजकुलाद्भयम् ।
छिन्नवृक्षं पतन्तञ्च शिलावृष्टिं तुषं क्षुरम् । रक्ताङ्गारं
भस्मवृष्टिं दृष्ट्वा दुःखमवाप्नुयात् । ग्रहं पतन्तं शैलं
वा धूमकेतुं भयानकम् । भग्नं स्कन्धं तरोर्वापि दृष्ट्वा
दुःखमवाप्नुयात् । रथगेहवृक्षशैलगोहस्तितुरगोऽम्ब-
रात् । भूमौ पतति यत्स्वप्ने विपत्तिस्तस्य निश्चितम् ।
उच्चैः पतन्ति गर्त्तेषु भस्माङ्गारचितासु च । क्षारकु-
ण्डेषु चूर्णेषु मृत्युस्तेषां न संशयः । बलाद्गृह्णाति
इष्टञ्च छत्रञ्च यस्य मस्तकात् । पितुर्नाशो भवेत्तस्य
गुरोर्वापि नृपस्य वा । सुरभी यस्य गेहाच्च याति त्रस्ता
सवत्सिका । प्रयाति पालतस्तस्य लक्ष्मीरपि वसुन्धरा ।
पाशेन कृत्वा बद्धञ्च यं गृहीत्वा प्रयान्ति च । यमदूताश्च
ये म्लेच्छास्तस्य मृत्युर्विनिश्चितम् । गणको ब्राह्मणो
वापि ब्राह्मणी वा गुरुस्तथा । परिरुष्टः शपति यं
विपत्तिस्तस्य निश्चितम् । विरोधिनश्च काकास्तु कुक्कुरा
भल्लुकास्तथा । पतन्त्यागत्य यद्गात्रे तस्य मृत्युर्न संशयः ।
महिषा भल्लुका उष्ट्राः शूकरा गर्द्दभास्तथा । रुष्टा
धावन्ति यं स्वप्ने स रोगी निश्चितं भवेत्” ।
अस्य शान्तिस्तत्रोक्ता यथा
“रक्तचन्दनकाष्ठानि घृताक्तानि च यो जुहेत् । गायत्र्या
च सहस्रेण तेन शान्तिर्विधीयते । सहस्रधा जपेद्
यो हि भक्त्या मां मधुसूदनम् । निष्पापो हि भवेत्
सोऽपि दुःस्वप्नः सुस्वप्नो भवेत् । अच्युतं केशवं विष्णुं
हरिं सत्यं जनार्दनम् । हंसं नारायणञ्चैव एतन्नामा-
ष्टकं शुभम् । शुचिः पूर्वमुखः प्राज्ञो दशकृत्वश्च यो
जपेत् । निष्पापो हि भवेत् सोऽपि दुःस्वप्नः सुस्वप्नो
भवेत्” । स्वापंसमयलग्ने दुःस्वप्नसूचकग्रहयोगभेदः
नी० ल० त० उक्तो यथा
“लग्नांशपेऽके तनुगेऽथ वाऽस्मिन् दुःस्वप्नमीक्षेत यथा
र्कविम्बम् । रक्ताम्बरं वह्निमथापि चन्द्रे इत्येवमादि” ।
“प्रोह्यते भक्ष्यते वापि पिशाचासुरवायसैः । भूतैः
प्रेतैः श्वभिर्गृघ्रैर्गोमायुखरशूकरैः । सरभैः करभैः
कीशैः श्येनैरश्वतरैर्वृकैः । स्वप्ने स जीवितं त्यक्त्वा
वर्षान्ते यममीक्षते । गन्घपुष्पांशकैः शोणैः स्वान्तनुं
भूषितान्नरः । यः पश्येत् स्वप्नसमये सोऽष्टौ मासाननि-
त्यहो” काशीख० अधिकं कालचिह्नशब्दे १९९७ पृ० दृश्यम्

दुकूल न० दु--ऊलच् कुक् च दुष्टं कूलति कूल--आवरणे क

वा पृषो० । १ क्षौमाम्बरे २ श्लक्ष्णवस्त्रे ३ सूक्ष्मवस्त्रे च
मेदि० । “गोपवधूटीदुकूलचौराय” भाषा० “अथ सवल्क
दुकूलकुथादिभिः” भट्टिः । “वधदकूलं कलहंसलक्ष-
णम्” कुमा० ।

दुगूल न० दुकूल + पृषो० । दुकूलार्थे पट्टवस्त्रे हेमच० ।

दुग्ध न० दुह--क्त । १ पयसि क्षीरे स्त्रीजातिस्तननिष्यन्दिद्रव-

द्रव्ये । कर्मणि क्त । २ कृतदोहायां धेन्वादौ स्त्री ३ प्रपू-
रिते त्रि० मेदिनी० । भावे क्त । ४ दोहने न० क्षीर-
वर्गशब्दे २३७७ पृ० अस्य विवृतिः । तत्रानुक्तं भावप्र०
उक्तं किं चिदत्राभिधीयते
“रात्रौ चन्द्रगुणाधिक्याद्व्ययामाकरणात्तथा । प्राभा-
तिकं तदा प्रायः प्रादोषाद्गुरु शीतलम् । दिवाकरकरा-
घातात् व्यायामानलसेवनात् । प्राभातिकात्तु प्रादोषं
लघु वातकफापहम्” । अथ दुग्धसेवने समयादिविशेषे
गुणमाह । “वृष्यं वृंहणमग्निदीपनकरं पूर्वाह्णकाले
पयो मध्याह्ने तु वलावहं कफहरं पित्तापहं
दीपनम् । बाले वृद्धिकरं क्षये क्षयकरं वृद्धेषु रेतोवहम्
रात्रौ पथ्यमनेकदोषशमनं क्षीरं सदा सेव्यते । वदन्ति
पेयं निशि केवलं पयो भोज्यं न तेनेह सहौदनादि-
कम् । भवत्यजीर्णे निशि पीतशर्करा क्षीराल्पपानस्य न
शेषमुत्सृजेत् । विदाहोन्यन्नपानानि दिवा भुङ्क्ते हि
यन्नरः । तद्विदाहप्रशान्त्यर्थं रात्नौ क्षीरं सदा
पिबेत् । दीप्तानले कृशे पुंसि वातवृद्धे पयःप्रिये । मतं
हिततमं पथ्यं सद्यः शुक्रकरं यतः” । अथ मथितस्य
दुग्धस्य गुणाः “क्षीरं गव्यमथाजं कोष्णं दण्डा-
हतं पिबेत् । लघु वृष्यं ज्वरहरं वातपित्तकफा-
पहम्” । अथ गोजदुग्धगुणाः “गोदुग्धप्रभवं किं वा
छागीदुग्धसमुद्भवम् । तद्भवेच्च त्रिदोषघ्नं रोचनं वलव
र्द्धनम् । वह्निवृद्धिकरं वृष्यं सद्यस्तृप्तिकरं लघु ।
अतीसारेऽग्निमान्द्ये च ज्वरे जीर्णे प्रशस्यते” । अघ
निन्दितदुग्धम् “विवर्णं विरसं चाम्लं दुर्गन्धं श्रथितं
पयः । वर्जयेदम्ललवणयुक्तं बुद्ध्यादिहृद्यतः” ।
अजादिदुग्धगुणादिभेदादिकं तत्तच्छब्दे उक्तम् ।
पृष्ठ ३६२३
“केऽप्याविकं पथ्यतमं शृतोष्णं क्षीरं त्वजानां शृतशीत
माहुः । दोहान्तशीतं महिषीपयस्यं गव्यन्तु धारो-
ष्णमिदं प्रशस्तम् । वृष्यं वृंहणमग्निवर्द्धनकरं
पूर्वाह्णपीतं पयो मध्याह्ने बलदायकं रतिकरं कृच्छ्रस्य
विच्छेदनम् । बाल्ये वह्निकरं ततो बलकरं वीर्यप्रदं
बार्द्धके रात्रौ क्षीरमनेकदोषशमनं सेव्यं ततः सर्वदा ।
क्षीरं मुहूर्त्तत्रितयोषितं यदतप्तमेतद्विकृतिं प्रयाति ।
षण्णान्तु दोषं कुरुते तदूर्द्ध्वं विषोपमं स्यादुषितो दशानाम् ।
जीर्णज्वरे कफे क्षीणे क्षीरं स्यादमृतोपमम् । तदेव
तरुणे पीतं विषवद्धन्ति मानुषम्” । क्षीरक्वाथगुणः ।
“चतुर्थभागं सलिलं निधाय यत्नाद् यदावर्त्तितमुत्तमं
तत् । सर्वामयव्नं बलपुष्टिकारि वीर्यप्रदं क्षीरमति
प्रशस्तम् । गव्यं पूर्वाह्णकाले स्यादपराह्णे तु माहि-
षम् । क्षीरं सशर्करं पथ्यं यद्वा सात्म्यञ्च सर्वदा ।
क्षीरं न भुञ्जीत कदाप्यतप्तं तप्तञ्च नैतल्लवणेन सार्द्धम् ।
पिष्टान्नसन्धानकमाषमुद्गकोशातकीकन्दफलादिकैश्च” । तथा
“मत्स्यमांसगुडमुद्गमूलकैः कुष्ठमावहति सेवितं
पयः । शाकजाम्बवरसैश्च सेवितं मारयत्यवुधमाशु
सर्पवत् । स्निग्धं शीतं गुरु क्षीरं सर्वकालं न सेवयेत् ।
दीप्ताग्निं कुरुते मन्दं मन्दाग्निं नष्टमेव च । नित्यन्ती-
व्राग्निना सेव्यं सुपक्वं माहिषं पयः । पुष्यन्ति धातवः
सर्व बलपूष्टिविवर्द्धनम् । क्षीरं गवाजकादेर्मधुरं क्षीरं
नवप्रसूतानाम् । रूक्षञ्च पित्तदाहं करीति रक्तामयं
कुरुते । मधुरं त्रिदोषशमनं क्षीरं मध्यप्रसूतानाम् ।
लवणं मधुरं क्षीरं विदाहजननं चिरप्रसूतानाम् ।
गुणहीनं निःसारं क्षीरं प्रथमप्रसूतानाम् । मध्यम
वयसां मुक्तमिदं दुर्बलन्तु वृद्धानाम् । तासां
मासत्रयादूर्द्ध्वं गुर्विणीनाञ्च यत् पयः । तद्दाहि लवणं
क्षीरं मधुरं पित्तशोषकृत् । दुग्धाम्रं शीतलं स्वादु
दृष्यं वर्णकरं गुरु । वातपित्तापहं रुच्यं वृंहणं
बलवर्द्धनम्” राजनि० ।

दुग्धतालीय न० दुग्धस्य तालाय प्रतिष्ठाय हितं छ ।

१ दुग्धाम्रे २ क्षीरफेने च मेदि० ।

दुग्धपाचन न० दुग्धं पाच्यतेऽनेन पाचि--करणे ल्युट् ।

दुग्धपाकपात्रे हारा० ।

दुग्धपाषाण पु० दुग्धं निर्यासः पाषाण इव यस्य । (शिर-

गीला) ख्याते वृक्षभेदे राजनि० । स्वार्थे क । अत्रैवार्थे ।

दुग्धपुष्पी स्त्री दुग्धमिव शुभ्रं पुष्पं मञ्जरी यस्याः गौरा०

ङीष् । (दुचपेया) ख्याते १ वृक्षभेदे २ सेवकालौ शब्दश्च० ।

दुग्धफेन पु० दुग्धस्य फेनी यत्र । शर्करासहिते क्षीरहिण्डीरे

राजनि० । गौरा० ङीष् । दुग्धफेनी ३ क्षुपभेदे स्त्री ।
स्वार्थे क तत्रार्थे पु०

दुग्धबन्ध पु० दुग्धार्थं बन्धः । दुग्धदोहनार्थं गोर्बन्धे “पीत-

दुग्धा तु धेनुष्या संस्थिता दुग्धबन्धकैः” हेमच० ।

दुग्धवीजा स्त्री दुग्धमिव वीजं शस्यवीजं यत्र । यावना-

लाद्यतण्डुलचिपिटे राजनि० ।

दुग्धसमुद्र पु० ६ त० । दुग्धोदके क्षीरसमुद्रे त्रिका० । दुग्धसिन्धु

प्रभृतयोऽप्यत्र । “लबणजलधिरादौ दुग्धसिन्धुश्च तस्मा-
दमृतममृतरश्मिं श्रीश्च यस्मात् बभूव” सि० शि०

दुग्धाङ्क पु० दुग्धमिव शुभ्राऽङ्कः चिह्नभेदीऽस्य ।

उपलभेदे शब्दार्थक० ।

दुग्धाश्मन् पु० दुग्धं निर्यासः अश्मा इव । दुग्धपाषाणवृक्षे राजनि० ।

दुग्धाम्र न० दुग्धपक्वमाम्रम् । दुग्धतालीये राजनि० ।

दुग्धिका स्त्री दुग्धं क्षीरमिव निर्यासोऽस्त्यस्याः ठन् । (दुधि

(क्षीरा) इति ख्याते वृक्षभेदे । “दुग्धिकोष्णा गुरू-
रूक्षा वातला पुत्रदायिनी । स्वादुक्षीरा कटुस्तिक्ता
सृष्टमूत्रमला पटुः । साद्वी विष्टम्भिनी वृष्या कफकुष्ट
कृमिप्रणुत्” भावप्र० । २ गन्धिका इति प्रसिद्धायामुत्तमफ-
लिन्याम् युग्मफलायाम् रत्नमा० ।

दुग्धिनिका स्त्री दुग्धमस्त्यस्य इनि दुग्धिनि निर्यासे-

कायति कै--क अलुक्स० । रक्तापामार्गे राजनि० ।

दुग्धी स्त्री दुग्धमिव निर्यासोऽस्त्यस्याः अर्श आद्यच् गौरा०

ङीष् । १ दुग्धिकायाम् (दुधि) १ क्षीरावीलतायां मेदि० ।
२ दुग्धपाषाणे राजनि० ।

दुघ त्रि० दाग्धि--दुह--क हस्य घः । दोहनकर्त्तरि “काम-

दुघा गौः” सि० कौ० । अस्य कस्मिंश्चिदुपपदे एव साधुत्वं
नान्यथा । “कामदुघाङ्घ्रिपस्य” भाग० ३ । २१ । १५

दुच्छक पु० दु--सन्तापे सम्प्र० भावे क्विप् तस्यै उपतापाय

तन्निवृत्तये शक्नोति शक--अच् । मुरानामगन्धद्रव्ये
विहाराद्यवकाशके च मेदि० ।

दुच्छन् पु० दुष्टःश्वा प्रा० स० पृषो० । दुष्टकुक्कुरे “आरेर्बाधस्य

दुच्छुनाम्” यजु०१९ । ३८ “दुष्टाश्च ते श्वानश्च तेषाम्” वेददी० ।

दुच्छून त्रि० दुष्ट उच्छूनः प्रा० स० । पृषो० । दुष्टे उच्छूने ततः

भृशा० क्यङ् । दुच्छुनायते बाधते इत्यर्थः । “किमस्मान्
दुच्छुनायसे” ऋ०७ । ५५ । ३ “दुच्छूनायसे बाधमे” भा० ।

दुडि स्त्री दुलि + लस्य डः । दुल्याम् रायमुकुटः ।

पृष्ठ ३६२४

दुण्डुक त्रि० दुण्डुभ इव कायति कै--क पृषो० भलोपः ।

दुष्टचित्ते शब्दार्थकल्पतरुः ।

दुण्डुभ पुंस्त्री० दुण्डुभ + पृषो० । (ढोडा) सर्पभेदे अमरः ।

“शरमीनां महारौद्रां प्रासशक्त्यृष्टि दुण्डुभाम् । मज्जा-
मांस महापङ्कां कबन्धावर्जितोडुपाम्” भा० द्रो० १५६ अ० ।

दुण्डुभि पु० दुन्दुभि + पृषो० । दुन्दुभिशब्दार्थे “दुण्डुभेर्मू-

षिकाणां च कीटानां कल्प एव च” इति सूत्रस्थाने प्रति-
ज्ञाय सुश्रुतेन कल्पस्थाने दुन्दुभिस्वनीयाध्याय उक्तः
अतस्तयोरेकार्थता ।

दुत त्रि० दु उपतापे क्त । पीड़िते “मृदुतया दुतया” माघः ।

दुगतौ इत्यस्य तु “दुग्वीर्धश्च” पा० नत्वे दीर्घश्च दून
इत्येव सि० कौ० ।

दुत्थोत्थदवीय पु० नील० ताजकोक्ते वर्षप्रवेशे योगभेदे

“वीर्योनितौ कार्यविलग्ननाथौ स्वर्क्षादिकेनान्यतरो-
युनक्ति । अन्यौ यदा द्वौ बलिनौ तदान्यसहायतो वीर्य
मुशन्ति सन्तः” तल्लक्षणम् ।

दुद पु० पर्वतभेदे । “शृङ्गवान् मन्दरो नीलो निषधो दुरुर्दुद-

स्तथा” भा० अनु० १६५ अ० । दर्दुरस्तथा इत्येव पाठः साधुः

दुदुह पु० अनुवंश्ये नृपभेदे । “अनोस्तु पुत्रोधर्मोऽभूद्घृत-

स्तस्यात्मजोऽभवत् । घृतात्तु दुदुहो जज्ञे प्रचेतास्तस्य
चात्मजः” हरिवं० ३२ अ०

दुद्रुम पु० दुष्टो द्रुमः प्रा० स० । हरित्पत्रे पलाण्डो अमरः ।

दुध हिंसने प्रेरर्ण च भ्वा० पर० सक० सेट् । दोधति अदोधीत्

दुदोध दुधितम् “नेशत्तमो दुधितं रोचत” ऋ० ४ । १ । १७
“दुधिः प्रेरण कर्मा” भा० ।

दुधि त्रि० दुधिर्हिंसाकर्मेति भाष्योक्तेः दुध--हिंसायां कि ।

१ हिंसके “स्यूम गृभे दुधयेऽर्क! ते” ऋ० ६ । ३६ । २ “दुधये
हिंसकाय” भा० उपचारात् २ दुर्धरे च “दुधेर्युक्तस्य
द्रवतः सहानसा” ऋ० १० । १०२ । ६ दुधेर्दुर्द्धरस्य” भा०

दुध्र त्रि० दुध--बा० रक् दुष्टं वा धारयति धृ--मूल० क पृषो० ।

१ हिंसके २ प्रेरके ३ दुर्द्धरे ४ दुर्द्धर्षे ५ दुष्टानां व्यवस्थापके
च । “दुध्र आभूषु रामयन्नि दामनि” ऋ०१ । ५६ । ३ “दुध्रः
दुष्टानां धर्त्ता व्यवस्थापयिता वा” भा० “दुध्रकृतो मरुतो
भ्राजदुष्टयः” ऋ०१ । ६४ । ११ “दुध्रकृत् दुध्रं दुष्टं
नान्यैर्दुर्द्धषं वा आत्मना” भा० “विदथे दुध्रवाचः”
ऋ० ७ । २१ । २ “दुध्रवाचः दुर्द्धरवाचः” भा० ।

दुन्दभ पु० दुन्द इत्यव्यक्तं भणति भण--ड । दुन्दुभिवाद्ये शब्दर० ।

दुन्दु पु० १ वसुदेवे त्रिका० २ दुन्दुभिवाद्ये शब्दरत्ना० ।

दुन्दुभ पु० दुन्दु इत्यव्यक्तं शब्दं भणति भण--ड । दुन्दुभि

वाद्ये शब्दर० । दुन्दुम इति पाठान्तरम् ।

दुन्दुभि पु० दुन्दु इत्यव्यक्तशब्देनोभति पूरयति उभ--पूरणे

कि शक० । वृहड्ढक्कायाम् अमरः । “दुन्दुभे! त्वं
सपत्नानां थोषाद् हृदयकम्पनः” दुन्दुभिपूजामन्त्रः “विजय
दुन्दुभितामयुरर्णवाः” रघुः “दुन्दुभिश्च तदा देवैस्ता-
डितो देवकिङ्करैः” भा० अनु० २६ श्लो० । १ वरुणे २ दैत्य-
भेदे मेदि० ३ राक्षसभेदे पु० शब्दर० ४ विषे हेमच० ५ पाशके
स्त्री अमरः स्वर्णशृङ्गादिमये चतुःपार्श्वो विन्दुयुक्ते द्यूतो-
प्रकरणे (पाशटी) ख्याते ६ पदार्थे स्त्री ७ गन्धर्वीभेदे स्त्री
वा ङीष् । “तेषां समक्षं गन्धर्वी दुन्दुर्भीं नाम
नामतः । शशास वरदोदेवो गच्छ कार्यार्थसिद्धये । पिता-
महवचः श्रुत्वा गन्धर्वी दुन्दुभी ततः । मन्थरा मानुषे
लोके कुब्जानामाभवत्तदा” भा० व० ३७५ अ० दुन्दुभि-
र्नामासुरभेदश्च मायाविनामासुरपिता तत्कथा
रामा० कि० ९ सर्गे “मायावी नाम तेजस्वी पूर्वजो
दुन्दुभेः सुतः । तेन तस्य महद्वैरं बालिनः स्त्रीकृतं
पुरा” “यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम् ।
प्रतिकालयते बाली मलयं प्रतिपर्बतम् । तदा विवेश
महिषो मलयस्य गुहां प्रति । विवेश बाली तत्रापि
मलयं तज्जिघांसया” रामा० कि० ४६ अ० ४ श्लो० ।
“दुन्दुभिं नामेति अत्र दुन्दुभिशब्देन तत्पुत्रो
मायाविनामा दानव उच्यते तद्वृत्तान्तस्यैवाग्रे वक्ष्यमाण
त्वात् “मायावी नाम तेजस्वी दुन्दभेः पूर्वजः सुतः”
इति प्रोक्तेस्तस्य तत् पुत्रत्वं पितुर्महिषाकारत्वात्
तत्पुत्रस्य तदाकारत्वमिति च वोध्यम्” तट्टीका

दुन्दुभिक पु० कीटभेदे कीटशब्दे दृश्यम् ।

दुन्दुभिनिर्ह्राद पु० दुन्दुभे रिव निर्द्रादोऽस्य । दानवभेदे

स्कन्दपु० ।

दुन्दुभिषेण पु० दुन्दुभिः सेनायां यस्य सुषामा० षत्वम् । नृपभेदे ।

दुन्दुभिस्वन पु० ६ त० । १ दुन्दुभिशब्दे दुन्दुभेर्वाद्यभेदस्य

स्वनी यत्र विषचिकित्सायाम् । सुश्रुतोक्ते विषचिकित्साभेदे
“अथातो दुन्दुभिस्वनीयमध्यायं व्याख्यास्यामः धवाश्व-
कर्णतिनिशपलाशपिचुमर्दपाटलिपारिभद्रकाम्रोडुम्बरकर-
हाटकार्जुनककुभसर्जकपीतनश्लेष्मातकाङ्कोठामलकप्रग्रह-
कुटजशमीकपित्थाश्मन्तकार्कचिरविल्वमहावृक्षारुष्करारालु
मधुकमधुशिग्रुशाकगोजीवामूर्वातिल्वकेक्षुरकगोपघण्डारि-
मेदानां भस्मान्याहृत्य गवां मूत्रेण क्षारकल्पेन परि-
पृष्ठ ३६२५
स्राव्य विपचेद्दद्याच्चात्र पिप्पलीमूलतण्डुलीयकवराङ्ग-
चोचकमञ्जिष्ठाकरञ्जिकाहस्तिपिप्पलीमरिचोत्पलसारि-
याविडङ्गगृहधूमानन्तासोमसरलावाह्लीकगुहाकोशाम्र-
श्वेतसर्षपवरुणलवणप्लक्षनिचुलकवर्द्धमानवञ्जुलपुत्रश्रेणी-
सप्तपर्णदन्दकैलबालुकनागदन्त्यतिविषाभयाभद्रदारुकुष्ठ-
हरिद्रावचाचूर्णानि लोहानाञ्च समभागानि ततः क्षार-
वदागतपाकमवतार्य लोहकुम्भे निदध्यात् । अनेन
दुन्दुभिं लिम्पेत् पताकातोरणानि च । श्रवणाद्दर्श-
नात् स्पर्शात् विषात् सम्प्रतिमुच्यते । एष क्षारागदो
नाम शर्करास्वश्मरीषुच । अर्शःसु वातगुल्मेषु
कासशूलोदरेषु च । अजीर्णे ग्रहणीदोषे भक्तद्वेषे च
दारुणे । एष सर्वविषार्त्तानां सर्वथैवोपयुज्यते । तथा तक्ष-
कमुख्यानामयं दर्पाङ्गुशोऽगदः” ।

दुन्दुभ्य पु० दुन्दुभौ दानवभेदे विषे वाद्यभेदे वा भवः प्रसृतो

वा यत् । १ रुद्रभेदे “नमो दुन्दुभ्याय वन्याय च” यजु०
१६ । ३५ दुन्दुभये तद्वादनाय साधुयत् । २ दुन्दुभिवादन
साधने मन्त्रभेदे “ऐन्द्राः क्षत्रियस्य चक्रदुन्दुभ्याः”
कात्या० श्रौ० । १४ । ३ । १३ “क्षत्रियस्य चक्रारोहणे दुन्दु-
भेर्वादनमन्त्रा ऐन्द्रा भवन्ति” कर्कः ।

दुन्दुमार पु० धुन्धुमार + पृषो० । धुन्धुमारदेशे शब्दाथकल्प० ।

दुफानिकुत्थ न० नी० ता० उक्ते वर्षप्रवेशे योगभेदे तल्ल-

क्षणं तत्रोक्तं यथा “मन्दः शुभोच्चादिपदस्थितश्चेत्
पदोनशीघ्रेण कृतेत्थशालः । तत्रापि कार्यं भवतीति
वाच्यं वक्रादिनिर्वीर्यपदेन चेत् स्यात्” ।

दुम्बक पु० (दुम्बा) इति ख्याते मेषभेदे शब्दार्थचि० ।

दुर्(स्) अव्य० दु--रुक् सुक् वा । १ दुष्टे २ निन्दायां ३ निषेधे

४ दुःखे च पुरुषोत्तमः ५ ईषदर्थे ६ कृच्छ्रार्थे ७ कृशे
८ असम्पत्तौ ९ सङ्कटे च गणर० दुर्जीवनः दुर्बलः दुर्दिनम्
“सुदुरोरधिकरणे” पा० दुष्कृतम् । क्रियायोगेऽस्योपसर्गता
उपसर्गशब्दे १३३५ पृ० दृश्यम् ।

दुर् स्त्री दॄ--क्विप् । द्वारे “दुरोद्यूतान्यक्षरम्” ऋ० १ । १८८ । ५

“या दुरः यज्ञगृहद्वारः” भा० दुरो मानुषी देव आ च”
ऋ०५ । ४५ । १ “मानुषीर्मनुष्य सम्बन्धिनीर्दुरः द्वारः” भा०

दुर त्रि० दु--बा० कुर । दातरि “दुरो अश्वस्य दुर इन्द्र

गोरसि दुरो यवस्य वसुन इलस्पतिः” ऋ० १ । ५३ । २ “दुरो
दातासि” भा०

दुरक्ष पु० दुष्टोऽक्षः प्रा० स० । १ कपटपाशके २ दुष्टनेत्रे च

“अरुर्यै पुरुषस्याक्षि प्रशान्ममेति ह स्माह याज्ञबल्क्यो
दुरक्ष इव हास पूयोहैबास्य दूषीका ते एवैतदनरुष्क-
रोति यदक्ष्यावनक्ति” शत० व्रा० ३ । १ । ३ । १० “दुरक्षमेव
अञ्जनेन नाशयति” भा० ६ ब० । दुष्टमक्षि यस्य षच् समा ।
३ तद्युक्ते त्रि० “अश्वः शुक्ल उदुष्टमुख इवाथोह दुरक्षोभावु
कस्तमु” शत० ब्रा० ७ । ३ । २ । १४ दुष्टोऽक्षो यत्र । ४ दुष्टद्यूते

दुरतिक्रम त्रि० दुःखेनातिक्रम्यतेऽसौ दुर् + अति + क्रम--कर्मणि

खल् । १ दुःखेनातिक्रमणीये २ दुर्लङ्घ्ये “सर्वन्तु तपसा-
साध्यं तपोहि दुरतिक्रमम्” मनुः । ३ विष्णौ पु० “समा
वृत्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः” विष्णु० सं०
“भयहेतुत्वादस्याज्ञा सूर्यादयोनातिक्रामन्तीति दुरतिक्रमः
“भयादिन्द्रश्च बायुश्च मृत्युर्धावति पञ्चमः” इति मन्त्रव-
र्णात्” भा० “तस्याज्ञाया दुर्लङ्घ्यत्वात् तस्य तथात्वम् ।

दुरत्यय त्रि० दुःखेनातीयते दुर् + अति--इ--खल् । १ दुरतिक्र-

मणीये २ दुस्तरे च । “स्वर्गमार्गपरिघो दुरत्ययः” रघुः ।

दुरत्येतु त्रि० दुर + अति + इ--कर्मणि--तुन् । दुरतिक्रमणीये

“ता भूरि पाशावनृतस्य सेतू दुरत्येतू रिपवे मर्त्याय”
ऋ० ७ । ६५ । ३ “दुरत्येतू दुरतिक्रमणीयौ” भा०

दुरदृष्ट न० दुष्टमदृष्टम् प्रा० स० । दुर्भाग्ये पापे ।

दुरद्मनी स्त्री अद--भावे मनिन् वा ङीप् दुष्टा अद्मनिः

(नी) प्रा० स० । दुर्भोजने । “पाहि दुरद्मन्या अविषं नः
पितुम्” यजु० २ । २० । “अदनमद्मनी दुष्टा अद्मनी दुरद्मनी
दुर्भोजनम् ततः मां पाहि चतुर्थी पञ्चम्यर्थे” वेददी० ।

दुरधिग त्रि० दुःखेनाधिगम्यतेऽसौ दुर + अधि + गम--बा०

कर्मणि ड । १ दुष्प्रापे २ दुर्ज्ञेये च । “दिव्यान्नरैर्दुरधि-
गान्नृप । विक्रियाभिः” भाग० ३ । २३ । ८ ।

दुरधिगम त्रि० दुःखेनाधिगम्यते दुर् + अधि + गम--कर्मणि

खल् । १ दुषुप्रापे २ दुर्ज्ञेये च । “द्रव्यदेशकालमन्त्रर्त्वि-
ग्दक्षिणाविधानयोगोपपत्त्या दुरधिगमोऽपि भगवान्”
भाग० ५ । २३ । ३ “इह दुरधिगमैः किञ्चिदेवागमैः” किरा० ।

दुरधीत न० दुष्टमधीतम् प्रा० स० । वर्णानां यथास्थानानु-

च्चारणेन यथास्वरानुच्चारणेन च अध्ययने “दुष्टः शब्दः
स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह । स
वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपरा-
धादिति” दुष्टांश्छन्दान्मा प्रयुक्ष्महीत्यध्येयं व्या-
करणम्” महाभाष्योक्तेः “यदधीतमविज्ञातं निगदेनैव
शब्द्यते । सोऽनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित्”
श्रुतेश्चाध्ययनस्य दुष्टत्वं बोध्यम् ।

दुरध्यय त्रि० दुःखेनाघीयते कृच्छ्रार्थे दुर + अधि + इ--खल् । अध्येतुमशक्ये

पृष्ठ ३६२६

दुरध्व पु० दुष्टोऽध्वा प्रा० स० अच् समा० । दुष्टवर्त्मनि अमरः ।

दुरन्त त्रि० दुष्टोन्तोऽवसानं यस्य प्रा० ब० । १ मृगयाद्यूतपाना-

दिषु व्यसनेषु शब्दार्थचि० । तानि हि प्रथमं सुखयित्वा
अन्ते दुःखाकुर्वन्ति । “व्यसनानि दुरन्तानि प्रयत्नेन
विवर्जयेत्” मनुः । दुर्ज्ञेयोऽन्तः परिच्छेदो यस्य । २ दुर्ज्ञेये
३ गभीरे ४ दुरतिक्रमणीये च “नृत्यति युवतिजनेन
समं सखि! विरहिजनस्य दुरन्ते” गीतगो० । कप् ।
दुरन्तक असङ्ख्यमर्य्यादे ५ शिवे पु० “दुर्विज्ञेयो महादेवो
दुराधारो दुरन्तकः” भा० अनु० ४१ अ० ।

दुरन्वय त्रि० दुःखेनान्वीयतेऽसौ दुर + अनु--इ--कर्मणि खल् ।

दुःखेनानुगमनीये “दुरन्वयं दुष्प्रधर्ष दुरापं दुरमि-
क्रमम् । सर्वं वै तपसाभ्येति” भा० अनु० १२२ अ०

दुरभिग्रह पु० दुःखेनाभिमुख्येन गृह्यतेऽसौ दुर् + अभि + खल् ।

१ अपाभार्गे २ दुःखेन ग्राह्ये त्रि० । ३ दुरालभायां ४
कपिकच्छ्राञ्च स्त्री राजनि० ।

दुरवग्रह त्रि० दुःखेनावगृह्यते निगृह्यतेऽसौ दुर् +

अव + ग्रह--कर्मणि खल् । कृच्छ्रेणानिग्राह्ये “वंशागतो
रिपुर्यस्तु विचलेत् दुरवग्रहः” कामन्दकी०

दुरवस्या स्त्री दुष्टा अवस्था प्रा० स० । दारिद्र्यादौ दुष्टावस्थायाम् ।

दुरस्य दुष्ट + क्यच् “दुरस्युर्द्रविणस्युर्धिषण्यति” पा० वेदे नि० ।

दष्टीभवने पर० अक० सेट् । दुरस्यति अदुरस्यीत् ।
“अभि पृतन्यन्तं तिष्ठाभि योनो दुरस्यति” अथ० १ । २९ । २
लोके तु दुष्टीयति इत्येव ।

दुराक पु० दुर् + अक + संज्ञायां कर्त्तरि घञ् । म्लेच्छदेशभेदे उणादिको० ।

दुराचर त्रि० दुःखेन आचर्य्यते दुर् + आ + चर--कर्मणि खल् ।

१ कृच्छ्रेणाचरणीये “सोऽयं चतुर्णामेतेषामाश्रमाणां
दुराचरः” भा० शा० ६५६ श्लो० । आर्षत्वात् कर्तरि षष्ठी ।
दुष्टमाचरति अच् । २ दुष्टाचारयुक्ते त्रि० “समीरणः
श्रोत्रगतोऽन्यथाचरः । समन्ततः शूलमतीव कर्णयोः ।
करोति दोषैश्च यथा श्रमावृतः स कर्णशूलो कथितो दुरा
चरः” सुश्रु०

दुराचार पु० दुष्ट आचारः प्रा० स० । दुष्टे आचारे “प्राप्ते

कलियुगेघोरे नराः पुण्यविवर्जिताः । दुराचाररताः सर्वे
सत्यवार्त्तापराङ्मुखाः” अध्यात्मरामा० । धार्ष्ट्याभावो-
व्रीडा वदनानमनादिकृत् दुराचारात्” सा० द० । दुष्ट
आचारो यस्य प्रा० ब० । ३ दुष्टाचारयुक्ते त्रि० “तृणहानि
दुराचारा घोररूपाशयक्रियाः” भट्टिः “दुराचारो
हि पुरुषे लोके भवति निन्दितः” मनुः ।

दुराढ्यङ्कर त्रि० दुःखेन आढ्यं क्रियते “कर्त्तृकर्मणोश्च

भूकृञोः” पा० कर्वृकर्मणोरीषदादिषु च उपपदेषुभुकृञोः
खल् स्यात् यथासङ्ख्यं नेष्यते कर्तृकर्मणी धातोरव्यवधा-
नेन प्रयोक्तव्ये ईषदायस्तु(ईष दुः सु) ततः प्राक् । “कर्वृ-
कर्मणोश्च्व्यर्थयोरिति वाच्यम्” वार्त्ति० सि० कौ० कर्मणि
उपपदे खल् मुम् । दुःखेन अनाढ्ये आढ्ये करणीये

दुराढ्यम्भव न० दुःखेन अनाढ्येनाढ्येन भूयते दुर् +

च्व्यर्थे आढ्ये कर्तरि उपपदे भावे खल् मुम् । दुःखेन
अनाढ्यस्याढ्यभवने ।

दुरात्मन् त्रि० दुष्ट आत्मा अन्तःकरणं यस्य । दुष्टान्तःकरणे

“यस्तु धर्मेण कार्याणि मोहात् कुर्यान्नराधिपः ।
अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः” । “यस्तु दीषवतीं
कन्यामनाख्यायोपपादयेत् । तस्य तत् वितथं कुर्यात्
कन्यादातुर्दुरात्मनः” मनुः ।

दुराधन पु० धृतराष्ट्रपुत्रभेदे । “अपराजितः पण्डितको

विशालाक्षो दुराघनः” भा० आ० ६७ अ० धृतराष्ट्रसुतोक्तौ

दुराधर पु० धृतराष्ट्रपुत्रभेदे । अपराजितः कुण्डशायी

विशालाक्षो दुराधरः” भा० आ० ११७ अ० तत्पुत्रोक्तौ ।

दुराधर्ष पु० दुष्टान् राक्षसान् आधर्षति दुर् + आ + धृष अच् ।

१ श्वेतसर्षपे तत्क्षेपणे हि वेतालादीनामपसर्पणं स्मृतौ
दर्शितम् । दुःखेन ईषदपि धर्षयितुमशक्यम् दुर् +
आ + धृष--कर्मणि खल् । २ धर्षयितुमशक्ये त्रि० ।
“जगन्नाथो दुराधर्षो गङ्गां भागीरथीं प्रति” भा० अनु०
५८ अ० “स प्रभावात् दुराधर्षो महाबलपराक्रमः”
भा० व० २०२ अ० । ३ कुटुम्बिनीवृक्षे स्त्री राजनि० ।

दुराधार पु० दुःखेनाधार्यते दुर् + आ--धारि--कर्मणि खल् ।

दुःखेन १ आधारणीये २ चिन्तनीये त्रि० ३ महादेवे पु० ।
दुरन्तशब्दे दृश्यम् ।

दुरानम त्रि० दुःखेनानम्यते दुर् + आ + नम--णिच्--कर्मणि

खल् । दुःखेन आनमनीये । “स विचिन्त्य च धनुर्दुरा-
नमम्” रघुः ।

दुराप त्रि० दुःखेनाप्यते दुर् + आप--खल् । १ दुष्प्राप्ये ।

“इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः” रघुः
“अस्त्रं हरादाप्तवता दुरापम्” रघुः सम्बन्धविवक्षया
कर्तरि षष्ठी । भावे खल् । २ दुष्प्राप्तौ न० ।

दुरारिहा पु० दुष्टमियर्त्ति दुर् + ऋ--णिनि दुरारी दुर्गामी

असुरः तं हन्ति हन्--किप् । विष्णौ “दुरावासो
दुरारिहा” विष्णुसं० भाष्ये उक्तैव व्युत्पत्तिरुक्ता ।
पृष्ठ ३६२७

दुरारुह पु० दुःखेनारुह्यतेऽसौ दुर् + आ--घञर्थे कर्मणि क ।

१ विल्वे २ नारिकेलवृक्षे च । ३ खर्जूर्यां स्त्री राजनि० ।
४ दुरारोहणाये त्रि० “सुपुष्पितः स्यादफलः फलवान्
स्याद्दुरारुहः” भा० आ० १४० अ०

दुरारोह पुंस्त्री० दुःखेनारुह्यते दुर् + आ + रुह--खल् ।

१ सरटे स्त्रियां जातित्वात् ङीष् । २ श्रीवल्ल्यां स्त्री
राजनि० ३ शाल्मलिवृक्षे स्त्री त्रिका० । ४ दुरारोहणीये
त्रि० । “दुरारोह पदं राज्ञां सर्वलोकनमस्कृतम्” कामन्द०
भावे खल् । ५ दुःखेनारोहणे पु० ।

दुरालभा(म्भ) स्त्री दुःखेनालभ्यते स्पृश्यते असौ दुर् + आ +

लभ--खल् आगमविधेरनित्यात्वात् वा मुम् । (आलकुशी)
१ लतायाम् राजनि० । “दुरालभा कटुस्तिक्ता क्षारोष्णा
मधुराम्लिका । वातगुल्मप्रमेहाणां नाशिनी परिकी-
र्तिता” राजनि० । “यवासस्य गुणैस्तुत्या बुधैरुक्ता
दुरालभा” भावप्र० २ दुःस्पर्शनीयमात्रे त्रि० । “चूर्णं
श्यामा त्रिवृन्नीली कट्वी मुस्ता दुरालभा” सुश्रु० “तीक्ष्ण-
वीर्य्यास्तु भूतानां दुरालम्भाः सकण्टकाः” भा० अनु०
९८ अ० ।

दुरालाप पु० दुष्ट आलापः प्रा० स० । गालिवचने शब्दार्थकल्पतरुः ।

दुराव्य न० अव--गत्यादौ भावे ण्यत् दुष्टमाव्यं मतिः प्रा० स० ।

दुष्टमतौ “सुविततस्य मनामहेऽतिसेतुं दुराव्यम्” ऋ०
९ । ४१ । २ “दुराव्यं दुष्टमतिम्” भा० ।

दुराशय पु० प्रा० स० । १ दुष्टे आशये “स्फुटनिर्भिन्नदुराशयो-

ऽधमः” माघः । दुष्ट आशयो यस्य प्रादि० ब० । २ दुष्टाशय-
युक्ते त्रि० “उपेयिवान् मूलमशेषमूलं दुराशयः कामदु-
घाङ्घ्रिपस्य” भाग० ३ । २१ । १५

दुराशा स्त्री प्रा० स० । दुस्पूरायामाशायामु ।

दुरासद त्रि० दुःखेनासद्यतेऽसौ दुर् + आ + सद--कर्मणि

खल् । १ दुष्प्राप्ये २ दुगम्ये “त्रिलोचनैकांशतया दुरा-
सदः” “स बभूव दुरासदः परैः” रघुः । “मृग्ययानमपि
यद्दुरासदम्” माघः । “पापाटव्या दुरासदाया
दवतः” नलोदयः ।

दुरित न० दुष्टमितं गमनं नरकादिस्थानप्राप्तिरस्मात् । १ पापे

२ तद्वति त्रि० अमरः । “दुरितैरपि कर्तुमात्मसात् प्रय-
तन्ते नृपसूनवो हि यत्” रघुः “महानदीप्रवाहमिव
सर्वदुरिततापहरम्” काद० “कामीवार्द्रापराधः स दहतु
दुरितं शाम्भवोवः शराग्निः” अमरुश०

दुरितदमनी स्त्री दुरितं दम्यतेऽनया दम--करणे ल्युट्

ङीप् । १ शमीवृक्षे राजनि० २ पापदमनसाधनमात्रे त्रि०
स्त्रियां ङीप् ।

दुरितारि ६ त० । १ दुरितनाशके । २ जैनानां शासनदेवताभेदे च ।

“चक्रेश्वर्यजिता बाला दुरितारिश्च कालिका । महाकाली
श्यामा शान्ता भ्रुकुटिश्च सुतारका । आकाशा मानवी चण्डा
विदिता चाङ्कुशी तथा । कन्दर्पनिर्वाणबला धारिणी
धरणप्रिया । नरदन्ताऽथ गान्धार्यम्बिका पद्मावती तथा ।
सिद्धार्थिका चेति जैन्यः क्रमाच्छासनदेवताः” हेमच० ।

दुरिष्ट न० दुष्टमिष्टं यज्ञः । अमिचारार्थे यज्ञे । “देवद्विज

पितृद्वेष्टा रत्नदूषयिता च यः । स याति कृमिभक्षे
वै कृमीशे च दुरिष्टकृदिति” विष्णुप०

दुरिष्टि स्त्री दुष्टा इष्टिः प्रा० स० । अशास्त्रीये यागे “पाहि

दुरिष्ट्यै” यजु०२ । २० । पञ्चम्यर्थे चतुर्थी ।

दुरीश पु० दुष्ट ईशः प्रा० स० । निन्दिते प्रभौ

दुरीषणा स्त्री दुष्टा ईषणा प्रा० स० । शापे शब्दार्थकल्पतरुः ।

दुरु पु० पर्वतभेदे । “शृङ्गवान् मन्दरो नीलो निषधोदुरु-

र्दुदस्तथा” भा० अनु० १६५ अ० । दर्दुरस्तथेत्येव पाठः साधुः ।

दुरुक्त न० दुष्टमुक्तं प्रा० स० । दुष्टवचने “दुरुक्तभाषाभिहितैः

प्राप्नुवन्ति सुदुष्कृतम्” भा० अनु० ५०२ श्लो० ।

दुरुच्छेद त्रि० दुःखेन उच्छिद्यनेऽसौ दु + उद् + छिद--कर्मणि

खल् । १ दुर्वारे भावे खल् । २ दुःखेन वारणे पु० ।

दुरुत्तर त्रि० दुःखेनोत्तीर्यतेऽसौ दुर् + उद् + तृ--कर्म्मणि

खल् । १ दुस्तरे “दुरुत्तरे पङ्क इवान्घकारे” भट्टिः ।
भावे खल् । २ दुःखेन ३ रणे पु० । दुष्टमुत्तरम् प्रा० स० ।
४ दुष्टे उत्तरवाक्ये न० ।

दुरुदाहर त्रि० दुःखेनोदाह्रियते दुर् + आ--हृ--कर्म्मणि

खल् । दुःखेन वचनीये “अनुज्झतार्थसम्बन्धः प्रबन्धो
दुरुदाहरः” माघः । प्रा० स० । २ दुष्टे उदाहरणे पु०

दुरुधुरा स्त्री जन्मकाले चन्द्रात् द्वितीयद्वादशस्थिते रवि

भिन्नग्रहरूपे चान्द्रयोगभेदे तत्स्वरूपभेदफलादिकं
वृहज्जा० भट्टोत्पलव्याख्यानयोर्दर्शितं यथा
“हित्वार्कं सुनफाऽनफादुरुधुराः स्वान्त्योभयस्थैर्ग्रहैः
शीतांशोः कथितोऽन्यथा तु बहुभिः केमद्रुमोऽन्यैस्त्वसौ ।
केन्द्रे शीतकरेऽथ वा ग्रहयुते केमद्रुमो नेष्यते । केचित्
केन्द्रनवांशकेषु च वदन्त्युक्तिः प्रसिद्धा न सा । त्रिंशत्सरूपाः
सुनफाऽनफाख्याः षष्टित्रयं दौरुधुरे प्रभेदाः । इच्छावि-
कल्पैः क्रमशोभिनीय नीते निवृत्तिः पुनरन्यनीतिः” वृहज्जा०
“अथ सुनफानफादुरुधुराकेमद्रुमाख्यं योगचतुष्टयं
पृष्ठ ३६२८
शार्दूलविक्रीडितेनाह हित्वार्कमिति । अर्कमादित्यं
हित्वा त्यक्त्वा यदाऽन्यः कश्चिद्ग्रहो भौमादिकः शीतांशो
श्चन्द्रात् स्वान्त्योभयस्थो भवति द्वितीयस्थो, द्वादशस्थो, वा
द्वितीयद्वादशस्थौ वा द्वौ भवतस्तदा सुनफाऽनफादुरु
धुराख्यं योगत्रयं भवति एतदुक्तं भवति अर्कं हित्वा
यदाऽन्योग्रहः कश्चिच्चन्द्रात् द्वितीयस्थाने भवति तदा
सुनफानामयोगो भवति अथार्कं वर्जयित्वा चन्द्रात् द्वा-
दशगो भवति कश्चित्तदा अनफानामयोगो भवति एव’
छन्द्रात् द्वितीयद्वादशगौ ग्रहौ भवतस्तदा दुरुधुरानाम
योगो भवति योगत्रयेऽप्यादित्यो यदि द्वितीये द्वादशे
वास्थाने भवति तदा योगभङ्गकृद्भवति । किन्तु योगक-
र्त्तॄणां मध्ये न गण्यते । एते योगाः बहुभिराचार्यैः
कथिताः अन्यथा तु बहुभिः केमद्रुमः उक्तः ।
अथास्य योगत्रयस्याभावे बहुभिरार्यैः केमद्रुमाख्योयो-
गोऽभिहितः एतदुक्तं भवति चन्दान्न द्वितीये न द्वादशे
कश्चिद्ग्रहो भवति तदां केमद्रुमाख्योयोगो भवति
अन्यैस्त्वसाविति अन्येषां गर्गादीनामेवं मतं केन्द्रे
जन्मलग्नकेन्द्रे शीतकरे चन्द्रे वा भौमादिग्रहयुते
भौमादिग्रहविरहितयोरपि चन्द्राद्द्वितीयद्वादशस्था-
नयोः केमद्रुमो न भवति केन्द्रे ग्रहयुते इत्यत्र कैश्चि-
च्चन्द्रकेन्द्रमेव केवलं व्याख्यातम् तच्चायुक्तम् चन्द्रकेन्द्रे
ग्रहयुते चन्द्रमसोऽपि योगोऽन्तर्भवति शीतकरे ग्रहयुत
इत्येतदपार्थकं स्यात् अत्र च भगवान् गार्गिः “व्ययार्थ-
केन्द्रगश्चन्द्राद्विना भानुं न चेद्ग्रहः । कश्चित् स्यात् वा
विना चन्द्रलग्नात् केन्द्रगतोऽथ वा । योगः केमद्रुमो-
नाम तदा स्यादयत्र गर्हिताः । भवन्ति निन्दिंताचारा
दारिद्र्यापत्तिसंयुताः” तथा च साराबल्याम् “सुनफानफा
दुरुधुराः क्रमेण योगा भवन्ति रविरहितैः । वित्तान्त्योभ-
यसंस्थैः कैरववनबान्धवाद्विहगैः” एतेन “यदा योगाः केन्द्रे
ग्रहवर्जितः शशाङ्कश्च । केमद्रुमोऽतिकष्टः शशिनि च
सर्वग्रहादृष्टे” । अन्ये आचार्या नेच्छन्ति वराहमिहि-
रस्तु पुनरिच्छत्येव अस्मिन्नर्थे तस्यैव तद्वाक्यम् अन्यथा
केमद्रुम इति एवमुक्त्वा परमतगुक्तम् अन्यैरसौ इति
“केन्द्रे शीतकरेऽथवा ग्रहयुते केमद्रुमो नेव्यते” स्वल्पजा
तकेऽपि । तेन सुनफानफादुरुधुराऽभावे केमद्रुमौक्तः
तथा च “रविवर्जं द्वादशगैरनफा चन्द्रद्वितीयगैः
सुनफा । उभयस्थितैर्दुरुधुरा केमद्रुमसंज्ञकोऽतोऽन्यः” ।
सत्यस्यापि सुनफानफादुरुधुराभावे केमद्रमः तथा च
“सुनफा त्वनफायोगोदौरुधुरश्चन्द्रसंस्थितक्षेत्रात् । प्राक्
पृष्ठतो ग्रहेन्द्रैरुभयगतैस्तेषु रविवर्जम् । केमद्रुमोऽत्र
योगोऽन्यथा भवेद्यत्र गर्हितं जन्म” केचित् केन्द्रनवांशके-
ष्विति केचिदाचार्याः केन्द्रेषु केचिच्च नवांशकेष्वेतद्यो-
गत्रयं वदन्ति यथा चन्द्राद्द्वितीयद्वादशोभयस्थैः ग्रहैः
सुनफाद्या योगाव्याख्याताः तथा कैश्चिच्छ्रुतकीर्तिजीव-
शर्मप्रभृतिभिः केन्द्रवशास्रवांशकवशाच्च व्याख्याताः
एतदुक्तं भवति ताराग्रहैश्चन्द्राच्चतुर्थस्थानस्थैः सुनफा
दशमस्थानस्थैरनफा चतुर्थदशमस्थितैः दुरुधुरा
अतोन्यथा केमद्रुमः तथा च श्रुतकीर्तिः “चन्द्राच्चतुर्थैः
सुनफा दशमस्थितैः कीर्तितोऽनफा विहगैः ।
उभयस्थितैर्दुरुधुरा केमद्रुमसंज्ञितोऽन्यथा योगः” केचिन्नवांश-
केषु वदन्ति यत्र तत्र राशौ यद्राशिसम्बन्धिनवांशके
चन्द्रमा भवति तस्माद्राशेः यो द्वितीयो राशिः तत्र यदि
ताराग्रहोभवति तदा सुगफा अथ चन्द्रनवांशकराशे-
र्द्वादशे ताराग्रहो भवति तदाऽनफा अथ चन्द्रनवांशक-
राशेः द्वितीये द्वादशे च यदा ग्रहौ भवतस्तदा दुरु-
धुरा अतोऽन्यथा केमद्रुमः । तथा च चन्द्रनवांशकराशि-
तोद्विद्वादशराशी यदि ग्रहरहितौ भवतः तदा केमद्रुमः
तथा च जीवशर्मा “यद्राशिसंज्ञे शीतांशुर्नवांशे जन्मनि-
स्थितः । तद्द्वितीयस्थितैर्योगः सुनफाख्यः प्रकीर्तितः ।
द्वादशैरनफा ज्ञेया ग्रहैर्द्विद्वादशस्थितैः । प्रोक्तो दुरुधुरा
योगोऽन्यथा केमद्रुमः स्मृतः” । उक्तिः प्रसिद्धा न सा
येषामेवंविधं मतं तेषामुक्तिः लोके न प्रसिद्धा तन्मतं
वृद्धज्योतिषिकैः नाङ्गीकृतमित्यर्थः । अथ सुनफानफा
दुरुधुराख्यप्रकारज्ञानमिन्द्रवज्रयाह त्रिंशत्सरूपा इति
सरूपाः सैकाः त्रिंशदेकत्रिंशत् सुनफाख्यायोगाः तावन्त
एवानफाख्याः षष्टित्रयमशीत्यधिकं शतं दुरुधुराप्रभेदा-
नाम एषां पूर्ववद्विकल्पगणितम् । इच्छाविकल्पैरित्यादि ।
एतच्छ्लोके लोष्टुकप्रस्तारः पूर्वमेव नाभसयोगाध्याये
व्याख्यातः इच्छाविकल्पैः क्रमशः परिपाट्याऽन्यत्र लोष्टु
कमभिनीय नीते निवृत्तिः कार्या पुनः भूयोऽन्यनीति-
रित्यन्यत्र स्थानान्तरे चालनम् । अथ सुनफादयो
भौमबुधगुरुसितासितैः पञ्चभिर्निष्पाद्यन्ते तस्मादिच्छाविकल्पा
पञ्च तेषां न्यासः अत्र प्राग्वत् पूर्वेण पूर्वेण गणिते०
युक्तस्थानं विनान्त्यं प्रवदन्ति संख्यामिति कृत्वा जातम्
५ ४ ३ २ १ अथवा प्राग्यत् सैव संख्या जाता ।
एव१ २ ३ ४ ५ मेकविकल्पाः पञ्च, द्विविकल्पा दश, त्रिवि-
पृष्ठ ३६२९
कल्पा दश, चतुर्विकल्पाः पञ्च पञ्चविकल्पाः एकः,
एवमेकत्रिंशत् ५ । १० । १० । ५ । १ तद्यथा द्वितीये चन्द्राद्भौमः १
बुधः २ वृहस्पतिः ३ शुक्रः ४ सौरः ५ एवमेकविकल्पाः
पञ्च । अथ द्विविकल्पाः भौमबुधौ १ भौमजीवौ २
भौमशुक्रौ ३ भौमसौरौ ४ बुधजीवौ ५ बुधशुक्रौ ६ बुधसौरौ ७
जीवशुक्रौ ८ जीवसौरौ ९ शुक्रसौरौ १० एवं द्विविकल्पाः
दश । अथ त्रिविकल्पाः भौबुधजीवाः १ भौमबुधशु-
क्राः २ भौमबुधसौराः ३ भौमजीवशुक्राः ४
भौमजीवसौराः ५ भौमशुक्रसौराः ६ बुधजीवशुक्राः ७
बुधजीवसौराः ८ बुधशुक्रसौराः ९ जीवशुक्रसौ-
राः १० एवं त्रिविकल्पा दश १० । अथ चतुर्विकल्पाः
भौमवुधजीवशुक्राः १ भौमबुधजीवसौराः २ भौमजीव-
शुक्रसौराः ३ भौसबुधशुक्रसौराः ४ बुधजीवशुक्रसौराः ५
एवं चतुर्विकल्पाः पञ्च ५ । अथ पञ्चविकल्पः भौमबु-
धजीवशुक्रसौराः १ एवं पञ्चविकल्प एक १ एवमेकत्रिं-
शत् ३१ । सुनफायोगाः उत्पादिता अनेनैव प्रकारेण ।
द्वादशस्थैः अनफाभेदाः एकत्रिंशत् । अथ दुरुधुरावि-
कल्पाः एषां लोष्टुकप्रस्ताराभावात् स्वबुद्ध्या इच्छाविकल्पैः
क्रमशोभिनीयेति न्यायेन व्युत्पत्तिः । एको द्वितीये,
द्वितीयो (अन्यः) द्वादशे, एका द्वादशे द्वितीयो (अन्यः)
द्वितीये, यथा भौमबुधौ १ बुधभौमौ २ । भौमजीवौ ३
जीवभौमौ ४ भौमशुक्रौ ५ शुक्रभौमौ ६ भौमसौरौ ७
सौरभौमौ ८ बुधजीवौ ९ जीवबुधौ १० बुधशुक्रौ ११
शुक्रबुधौ १२ बुधसौरौ १३ सौरबुधौ १४ जीवशुक्रौ १५
शुक्रजीवौ १६ जीवसौरौ १७ सौरजीवौ १८ शुक्रसौरौ १९
सौरशुक्रौ २० । अथैको द्वितीये द्वादशे द्वौ, द्वितीये द्व
द्वादशे चैकः तद्यथा भौसः बुधजीवौ १ बुधजीवौ
भौमः २ । भौमः शुक्रबुधौ ३ बुधशुक्रौ, भौमः ४ । भौमः,
बुधसौरौ ५, बुधसौरौ, भौमः ६ । भौमः जीवशुक्रौ ७
जीवशुक्रौ, भौमः ८ । भौमः जीवसौरौ ९ जीवसौरौ,
भौमः १० । भौमः शुक्रसौरौ ११ शुक्रसौरौ, भौमः १२ ।
बुधः भौमजीवौ १३ भौमजीवौ, बुधः १४ । बुधः भौम
शुक्रौ १५ भौमशुक्रौ, बुध १६ । बुधः भौमसौरौ १७
भौमसौरौ, बुधः १८ । बुधः जीवशुक्रौ १९ जीवशुक्रौ,
बुधः २० बुधः, जीवसौरौ २१ जीवसौरौ, बुधः २२ ।
बुधः शुक्रसौरौ २३ शुक्रसौरौ बुधः २४ । जीवः
भौमबुधौ २५ भौमबुधौ जीवः २६ । जीवः, भौमशुक्रौ २७
भौमशुक्रौ, जीवः २८ । जीवः भौमसौरा २९ भौमसौरौ
जीवः ३० । जीवः बुधशुक्रौ ३१ बुधशुक्रौ जीवः ३३ ।
जीवः बुधसौरौ ३३ बुधसौरौ, जीवः ३४ । जीवः शुक्व-
सौरौ ३५ शुक्रसौरौ, जीवः ३६ । शुक्रः भौमबुधौ ३७
भौमबुधौ, शुक्रः ३८ । शुक्रः भौमजीवौ ३९ भौमजीवौ,
शुक्रः ४० । शुक्रः भौमसौरौ ४१ भौमसौरौ, शुक्रः ४२ ।
शुक्रः बुधजीवौ ४३ बुधजीवौ, शुक्रः ४४ । शुक्रः बुधसौ-
रौ ४५ बुधसौरौ, शुक्रः ४६ । शुक्रः जीवसौरौ ४७
जीवसौरौ शुक्रः ४८ । सौरः भौमबुधौ ४९ भौमबुधौ
सौरः ५० । सौरः भौमजीवौ ५१ भौमजीवौ, सौरः ५२ ।
सौरः भौमशुक्रौ ५३ भौमशुक्रौ सौरः ५४ । सौरः
बुधजीवौ ५५ बुधजीवौ, सौरः ५६ । सौरः बुधशु-
क्रौ ५७ बुधशुक्रौ, सौरः ५८ । सौरः जीवशुक्रौ ५९
जीवशुक्रौ सौरः ६० । एवमेकत्र जाता ८० । अथैको
द्वितीये, द्वादशे त्रयः, त्रयो द्वितीये, द्वादशे चैकः तद्यथा
भौमः बुधजीवशुक्राः १ बुधजीवशुक्राः भौमः २ । भौमः
बुधजीवसौराः ३ बुधजीवसौराः, भौमः ४ । भौमः बुध
शुक्रसौराः ५ बुधशुक्रसौराः, भौमः ६ । भौमः जीवशुक्र-
सौराः ७ जीवशुक्रसौराः, भौमः ८ । बुधः भौमजीवशुक्राः ९
भौमजीवशुक्राः, बुधः १० । बुधः भौमजीवसौराः ११ भौम
जीवसाराः बुधः १२ । बुधः भौमशुक्रसौराः १३ भौमशुक्र
सौराः, बुधः १४ । बुधः जीवशुक्रसौराः १५ जीवशुक्रसौराः
बुधः १६ । जीवः भौमबुधशुक्राः १७ भौमबुधशुक्राः, जीवः
१८ । जीवः भौमबुधसौराः १९ भौमबुधसौराः, जीवः २० ।
एकत्र १०० । जीवः भौमशुक्रसौराः १ भौमशुक्रसौराः,
जीवः २ । जीवः बुधशुक्रसौराः ३ बुधशुक्रसौराः, जीवः ४ ।
शुक्रः भौमबुधजीवाः ५ भौमबुधजीवाः, शुक्रः ६ । शुक्रः
भौमबुधसौराः ७ भौमबुधसौराः, शुक्रः ८ । शुक्रः भौम
जीवसौराः ९ भौमजीवसौराः, शुक्रः १० । शुक्रः बुधजीव
सौराः ११ बुधजीवसौराः, शुक्रः १२ । सौरः भौमबुध-
जीवाः १३ भौमबुधजीवाः, सौरः १४ । सौरः भौमबुधशुक्राः
१५ भौमबुधशुक्राः, सौरः १६ । सौरः भौमजीवशुक्राः १७
भौमजीवशुक्राः, सौरः १८ । सौरः बुधजीवशुक्राः १९
बुधजीवशुक्राः, सौरः २० । एवमेकत्र १३० । अथ द्वितीये एको
द्वादशे चत्वारः, चत्वारो द्वितीये द्वादशे चैकः तद्यथा
भौमः बुधजीवशुक्रसौराः १ बुधजीवशुक्रसौराः भौमः २ ।
बुधः, भौमजीवशुक्रसौराः ३ भौमजीवशुक्रसौराः, बुधः ४ ।
जीवः भौमबुधशुक्रसौराः ५ भौमबुधशुक्रसौराः, जीवः ६ ।
शुक्रः भौसबुधजीवसौराः ७ सौमबुधजीवसौराः, शुक्रः ८ ।
पृष्ठ ३६३०
सौरः भौमवुधजीवशुक्राः ९ भौमबुधजीवशुक्राः सौरः १० ।
एवमेकत्र १३० । अथ द्वौ द्वादशे, द्वावेव द्वितीये तद्यथा
भौ० बु०, जी० शु० १ जी० शु०, भौ०, बु० २ । भौ० बु०, जी० सौ० ३
जी० सौ०, भौ० बु० ४ । भौ० बु०, शु० सौ० ५ शु० सौ०, भौ० बु० ६ ।
भौ० जी०, शु० बु० ७ शु० बु०, भौ० जी० ८ । भौ० जी०, बु०
सौ० ९ बु० भौ० जी० सौ० १० । भौ० जी०, शु० सौ० ११ शु०
सौ०, भौ० जी० १२ । भौ० शु०, बु० जी० १३ बु० जी०,
भौ० शु० १४ । भौ० शु०, बु० सौ० १५ बु० सौ० भौ० शु० १६ ।
भौ० शु०, जी० सौ० १७ जी० सौ०, भौ० शु० १८ । बु० जी०,
भौ० सौ० १९ भौ० सौ० बु० जी० २० । एकमेकत्र १५० ।
भौ० सौ०, बु० शु० १ बु० शु०, भौ० सौ० २ । भौ० सौ०, जी० शु० ३
जी० शु०, भौ० सौ० ४ । बु० जी०, शु० सौ० ५ शु० सौ०, बु० जी० ६ ।
बु० शु०, जी० सौ० ७ जी० सौ०, बु० शु० ८ । जी० शु०, बु० सौ० ९
बु० सौ० जी० शु० १० । एवमेकत्र १६० । द्वौ द्वितीये त्रयो द्वादशे,
द्वादशे द्वौ त्रयो द्वितीये तद्यथा भौ० बु०, जी० शु० सौ० १
जी० शु० सौ०, भौ० बु० २ । भौ० जी०, बु० शु० सौ० ३ बु०
शु०सौ०, भौ० जी० ४ । भौ० शु०, बु० जी० सौ० ५ बु० जी० सौ०,
भौ० शु० ६ । भौ० सौ०, बु० जी० शु० ७ । बु० जी० शु०, भौ०
सौ० ८ । बु० जी०, भौ० शु० सौ० ९ । भौ० शु० सौ०, बु० जी० १० ।
एवमेकत्र १७० । बु० शु०, भौ० जी० सौ० १ भौ० जी० सौ०,
बु० शु० २ । बु० सौ०, भौ० जी० शु० ३ भौ० जी० शु०,
बु० सौ० ४ । जी० शु०, भौ० बु० सौ० ५ । भौ० बु० सौ०,
जी० शु०६ । जी० सौ०, भौ० बु० शु० ७ भौ० बु० शु०, जी०
सौ०८ । शु० सौ०, भौ० बु० जी०९ । भौ० बु० जी०, शु० सौ० १० ।
एवमेकत्र १८० ।
एवं दुरुधुरायोगभेदाः शतमशीत्यधिकं प्रदर्शितम्” भट्टो० ।
“सम्पन्नभोगसुखभुग्धनवाहनाढ्यस्त्यागान्वितो दुरुधुरा
प्रभवः सुभृत्यः । केमद्रुमे मलिन्दुःखितनीचनिःस्वाः
प्रेष्याः खलाश्च नृपतेरपि वंशजाताः” वृहज्जा० ।
अस्य पुंस्त्वमपि । “प्रचुरधनसमेतो भोगसौख्यान्वितः
स्याद्गजहयरथमुख्यैर्वाहनैरन्वितश्च । बहुवितरण
लज्जाप्रापिताखण्डलद्रुर्दुरुधुरजनितो ना भृयवर्गैः
प्रपूर्णः” जातकपद्धतौ पुंस्त्वोक्तेः । “दधतेव योगमुभय-
ग्रहान्तरस्थितिकारितं दुरुधुराख्यमिन्दुना” माघः ।

दुरुफ पु० नी० ता० उक्ते योगभेदे । “तम्बीरकुत्थौ दुरुफश्च

योगाः स्युः षोडगैषां कथयामि लक्ष्ण” पूत्युद्दिश्य
“लग्नात् षष्ठेऽष्टमेऽन्त्ये रिपुररिगृहगो वक्रगो नीच
गामी क्रूरैर्युक्तोऽस्तगो वा यदि सुथशिली कूरनीचा-
रिभस्थैः । अनीक्षमाणस्तनुमस्तभागे स्थितः शुभो-
च्चादिपदैश्च शून्यः । क्रूरेसराफी न स वीर्ययुक्तः कार्यं
विधातुं न विभुर्यतोऽसौ । चन्द्रः सूर्य्याद्द्वादशे वृश्चि-
काद्ये षण्डे नेष्टीऽन्त्ये तुलायां विशेषात् । राशीशेना-
दृष्टमूर्तिर्न सर्वैर्दृष्टो ज्ञेयः शून्यमार्गः पदोनः । क्षीणो
भान्ते नो शुभो जन्मकाले पुच्छायां वा चन्द्र एवं
विचिन्त्यः । शुक्ले भौमः कृष्णपक्षेऽर्कसूनुः क्षुद्दृष्ट्युन्दुं
वीक्षते नो शुभोऽसौ । शुक्ले दिवा नृगृहगोऽर्कसुतः
शशाङ्कं कृष्णे कुजो निशि समर्क्षगतः प्रपश्येत् । दोषा-
ल्पतां वितनुतेऽपरथा बहुत्वम् प्रश्नेऽथ वा जनुपि
बुद्धिमतोहनीयम्” ।

दुरूह त्रि० दुःखेन ऊह्यते दुर् + ऊह--कर्मणि खल् । दुर्वि-

तर्क्ये । “जानीते जयदेव एव शरणः श्लाघ्ये दुरूहद्रुते”
गीतगो० ।

दुरेर्वा त्रि० दुर् + इ--बा० व । दुःखेन गम्ये “प्रादेवीर्मायाः

सहते दुरेवाः” ऋ०५ । २ । ९ । “दुरेवाः दुःखगमनाः” भा० ।

दुरोक त्रि० दुष्ट ओकः समवायोऽत्र प्रा० ब० । दुःसेवे “दुरो-

कमग्निरायवे शुशोच” ऋ० ७ । ४ । ३ “दुरोकं दुःसेवम्” भा०

दुरोण पु० गृहे निघण्टुः । “नि दुरोणे अमृतो मर्त्यातां

राजा ससाद विदथानि साधन्” ऋ० ३ । १ । १८ । २ यज्ञगृहे
च । “काव्ययो राजा नेषु क्रत्वा दक्षस्य दुरोणे”
यजु० ३३ । ७२ “दुरोणे यज्ञगृहे” वेददी० “असि
दिवस्यायुर्दुरोणयुः” ऋ० ८ । ६० । १९ “दुरोणयुर्यजमान-
गृहस्य मिश्रयिता” भा० यु--मिश्रणे बा० कु । “हंसः
शुचिषद्वसुरन्तरिक्षसद्धीता वेदिषद् तिथिर्दुरोणसत्”
कठोप० ।

दुरोदर पु० दुष्टम् आ समलादुदरमस्य । १ द्यूतकारे २ पणे

मेदि० । ३ अक्षे ४ द्यूते न० अमरः । “दुरोदरच्छद्मजितां
समीहते नयेन जेतुं जगतीं सुयोधनः” किरा० । “न
मृगयाऽमिरतिर्न दुरोदरम्” रघुः ।

दुर्ग पुंन० दुःखेन गम्यतेऽसौ दुर् + गम--बा० ड । (गड़) (केल्ला)

प्रसिद्धे राज्ञामाश्रणीये १ कोट्टे । तत्स्वरूपभेदादिकं
मत्स्यपुराणे २१६ अ० उक्तं यथा
“एवंविधं यथालाभं राजा विषयमावसेत् । तत्र दुर्गं
नृपः कुर्यात् पण्णामेकतमं बुधः । घत्वदुर्गं
महीदुर्गं नरदुर्गं तथैव च । वार्क्षं चैवाम्बुदुर्गं च गिरि-
दुर्गं च पार्थिव! । सर्वेषामेव दुर्गाणां गिरिदुर्गं प्रश-
स्यते । दुर्गं च परिखोपेतं वप्राट्टालकसंयुतम् । शत-
पृष्ठ ३६३१
घ्नीयन्त्रमुख्यैश्च शतशच समावृतम् । गोपुरं सकपाटञ्च
तत्र स्यात् सुमनोहरम् । सपताकङ्गजारूढ़ो येन राजा
विशेत् पुरम् । चतस्रश्च तथा तत्र कार्यास्त्वायतवीथयः ।
एकस्मिंस्तत्र वीथ्यग्रे देववेश्म भवेद्दृढ़म् । वीथ्यग्रे च
द्वितीये च राजवेश्म विधीयते । धर्माधिकरणं कार्यं
वीथ्यग्रे च तृतीयके । चतुर्थे, त्वथ वीथ्यग्रे गोपुरञ्च
विधीयते । आयतञ्चतुरस्रं वा वृत्तं वा कारयेत् पुरम् ।
मुक्तिहीनं त्रिकोणञ्च यवमध्यं तथैव च । आयतञ्चतु-
रस्रं वा वृत्तं वा कारयेत् पुरम् । अर्द्धचन्द्रं प्रशंसन्ति
नदीतीरेषु तद्वसन् । अन्यत्तत्र न कर्त्तव्यं प्रयत्नेन
विजानता । राज्ञा कोशगृहं कार्यं दक्षिणे
राजवेश्मनः । तस्यापि दक्षिणे भागे गजस्थानं विधीयते ।
गजानां प्राङ्मुखी शाला कर्तव्या वाप्युदङ्मुखी ।
आग्नेये च वथा भागे आयुधागारमिष्यते । महानसञ्च
धर्मज्ञ! कर्मशालास्तथापराः । गृहं पुरोधसः कार्यं
वामती राजवेश्मनः । मन्त्रिवेदविदाञ्चैव चिकित्साकर्त्तु-
रेव च । तत्रैव च तथा भागे कोषागारं विधीयते ।
गवां स्थानं तथैवात्र तुरगाणां तथैव च । उत्तराभि-
मुखी श्रेणी तुरगाणां विधीयते । दक्षिणाभिमुखी वाथ
परिशिष्टास्तु गर्हिताः । तुरगास्ते तथा धार्याः प्रदीपैः
सार्वरात्रिकैः । कुक्कुटान् वानरांश्चैव मर्कटांश्च विशेषतः ।
धारयेदश्वशालासु सवत्सां धेनुमेव च । अजाश्च धार्या
यत्नेन तुरगाणां हितैषिणा । गोगजाश्वादिशालासु
तत्पुरीषस्य निर्गमः । अस्तं गते न कर्त्तव्यो देवदेवे
दिवाकरे । तत्र तत्र यथास्थानं राजा विज्ञाय
सारतः । दद्यादावसथस्थानं सर्वेषामनुपूर्वशः । योधानां
शिल्पिनाञ्चैव सर्वेषामविशेषतः । दद्यादावसथान् दुर्गे
कालमन्त्रविदां शुभान् । गोवैद्यानश्ववैद्यांश्च गजवैद्यां-
स्तथैव च । आहरेत भृशं राजा दुर्गे हि प्रबला रुजः ।
कुशीलवानां विप्राणां दुर्गे स्थानं विधीयते । न
बहूनामतो दुर्गे विना कार्यं तथा भवेत् । दुर्गे च तत्र
कर्त्तव्या नानाप्रहरणान्विताः । सहस्रघातिनो राजं-
स्तैस्तु रक्षा विधीयते । दुर्गे द्वाराणि गुप्तानि कार्य्या-
ण्यपि च भूभुजा । सञ्चयश्चात्र सर्वेषामायुधानां प्रश-
स्यते । धनुषां क्षेपणीयानान्तोमराणां च पार्थिव! ।
शराणामथ खड़्गानां कवचानां तथैव च । लगुडानां
गुड़ानाञ्च हुड़ानां परिघैः सह । अश्मनाञ्च प्रभूतानां
मुद्गराणां तथैव च । त्रिशूलानां पट्टिशानां कुठाराणाञ्च
पार्थिव ।! प्रासानाञ्च सशूलानां शक्तीनाञ्च नरोत्तम! ।
परश्वधानां चक्राणां वर्मणाञ्चर्मभिः सह । कुद्दालक्षुर-
वेत्राणां पीठकानान्तथैव च । तुषाणाञ्चैव दात्राणामङ्गा-
राणाञ्च सञ्चयः । सर्वेषां शिल्पिभाण्डानां सञ्चयश्चात्र
चेष्यते । वादित्राणाञ्च सर्वेषामौषधीनान्तथैव च ।
यवसानां प्रभूतानामिन्धनस्य च सञ्चयः । गुड़स्य सर्व-
तैलानां गोरसानान्तथैव च । वसानामथ मज्जानां स्ना-
यूनामस्थिभिः सह । गोचर्मपटहानाञ्च धान्यानां
सर्वतस्तथा । तथैवाभ्रपटानाञ्च यवगोधूमयोरपि ।
रत्नानां सर्ववस्त्राणां लोहानामप्यशेषतः । कलायमुद्ग-
माषाणाञ्चणकानां तिलैः सह । तथा च सर्वशस्यानां
पांशुगीमययोरपि । शणसर्जरसं भूर्जं जतुलाक्षा च
टङ्कणम् । राजा सञ्चिनुयाद्दुर्गे यच्चान्यदपि किञ्चन ।
कुम्भाश्चाशीविषैः कार्या व्यालसिंहादयस्तथा । मृगाश्च
पक्षिणश्चैव रक्ष्यास्ते च परस्परम् । स्थानानि च
विरुद्धानां सुगुप्तानि पृथक् पृथक् । कर्तव्यानि
महाभाग! यत्नेन पृथिवीक्षिता । उक्तानि चाप्यनुक्तानि
राजद्रव्याण्यशेषतः । सुगुप्तानि पुरे कुर्याज्जनानां
हितकाम्यया । जीवकर्षभकाकोलमामलक्याटरूषकान् ।
शालपर्णी पृश्निपर्णी मुद्गपर्णी तथैव च । माषपर्णी
मदौ द्वौ च सारिवे द्वे बलात्रयम् । वारा श्वसन्ती वृष्या
च वृहती कण्टकारिका । शृङ्गी शृङ्गाटकी द्रोणी वर्षा-
भूर्दर्भरेणुका । मधुपर्णी विदार्ये द्वे महाक्षीरा
महातपाः । धन्वनः सहदेवाह्वा कटुकैरण्डकं विषः । पर्णी
शताह्वा मृद्वीका फल्गुखर्जूरयष्टिकाः । शुक्राति-
शुक्रकाश्मर्यं छत्रातिच्छत्रवीरणाः । इक्षुरिक्षुविकाराश्च
फाणिताद्याश्च सत्तम! । सिंही च सहदेवी च विश्वे-
देवाश्वरोधकम् । मधुकं पुष्पहंसाख्या शतपुष्पा
मधूलिका । शतावरीमधूके च पिप्पलं तालमेव च । आत्म-
गुप्ता कट्फलाख्या दार्विका राजशीर्षकी । राजसर्षप
घान्याकमृष्यप्रोक्ता तथोत्कटा । कालशाकं पद्मवीजं
गोवल्ली मधुवल्लिका । शीतपाकी कुवेराक्षी काकजिह्वो-
ड्रपुष्पिका । पर्वतत्रपुसौ चोभौ गुञ्जातकपुनर्नवे । कसेरु
कारुकाश्मीरी बल्या शालूककेसरम् । तुषधान्यानि
सर्वाणि शमीधान्यानि चैव हि । क्षीरं क्षौद्रं तथा तक्रं तैलं
मज्जा वसा घृतम् । नीपश्चारिष्टकाक्षोड़वातामसोमबाण-
कम् । एवमादीनि चान्यानि विज्ञेयो मधुरोगणः । राजा
सञ्चिनुयात्सर्वं पुरे निरवशेषतः । दाड़िमाम्रातकौ चैव
पृष्ठ ३६३२
तिन्तिडीकाम्लवेतसम् । भव्यकर्कन्धुलकुचकरमर्दकरूषकम् ।
वीजपूरककण्डूरे मालतीराजम्बन्धुकम् । किलकद्वय-
पर्णानि द्वयोराम्नातयोरपि । पारावतं नागरकं प्राची-
नोलकमेव च । कपित्थामलकं चुक्रं फलं दन्तशठस्य च ।
जाम्बवं नवनीतञ्च सौवीरकरुषोदके । सुरासवञ्च मद्यानि
मण्डतक्रदधीनि च । शुक्तानि चैव सर्वाणि ज्ञेयमाम्ल-
गणं द्विज! । एवमादीनि चान्यानि राजा सञ्चिनुयात्
पुरे । सैन्धवोद्भिदपाठेयपाक्यसामुद्रलीमकम् । कुप्य-
सौवर्चलविड़ं वालकेयं यवाह्वकम् । और्वं क्षारं
कालभस्म विज्ञेयो लवणोगणः । एवमादीनि चान्यानि राजा
सञ्चिनुयात् पुरे । पिप्पली पिप्पलीमूलचव्यचित्रकनागरम् ।
कुवेरकं मरीचकं शिग्रुभल्लातसर्षपाः । कुष्ठाजमोदा-
किणिही हिङ्गुमूलकधान्यकम् । कारवीकुञ्चिका याज्या
सुमुखा फाकमाचिका । फणिज्झकोऽथ लशुनं भूस्तृणं
सुरसन्तथा । कायस्था च वयस्था च हरितालं
मनःशिला । अमृता च रुदन्ती च रोहिषं कुङ्कुमं तथा ।
जया एरण्डकाण्डीरं सल्लकी हञ्जिका तथा । सर्व-
पित्तानि मूत्राणि प्रायो हरितकानि च । फलानि चैव
हि तथा सूक्ष्मैला हिङ्गुपत्रिका । एवमादीनि चान्यानि
गणः कटुकसंज्ञितः । राजा सञ्चिनुयाद्दुर्गे प्रयत्नेन
नृपोत्तम! मुस्तं चन्दनह्रीवेरकृतमालकदारवः ।
दरिद्रानलदोशीरनक्तमालकदम्बकम् । दूर्वा पटोलकटुका
दीर्घत्वक् पत्नकं वचा । किराततिक्तभूतुम्बी विषा चाति-
विषा तथा । तालीशपत्रतगरसप्तपर्णविकङ्कताः । काको-
दुम्बरिका दिव्या तथा चैव सुरोद्भवा । षड़्ग्रन्था
रोहिणी मांसी पर्पटश्चाथ दन्तिका । रसाञ्जनं भृङ्गराजं
पतङ्गी परिपेलवम् । दुःस्पर्शागुरुणी कामा श्यामाकं
गन्धनाकुली । रूपपर्णी व्याघ्रनखं मञ्जिष्ठा चतुरङ्गुला ।
रम्भा चैवाङ्कुरास्फोता तालास्फोता हरेणुका । वेत्राग्र
वेतसस्तुम्बी विषाणी लोध्रपुष्पिणी । मालतीकरकृष्णाख्या
वृश्चिका जीविता तथा । पर्णिका च गुडूची च स
गणस्तिक्तसंज्ञकः । एवमादीनि चान्यानि राजा सञ्चिनुयात्
पुरे । अभयामलके चोभे तथैव च विभीतकम् । पियङ्गु-
धातकीपुष्पं मोचाख्या चार्जुनासनाः । अनन्ता स्त्री
तुवरिका श्योना च कट्फलं तथा । भूर्जपत्रं शिनापत्रं
पाटलापत्रलोमकम् । समङ्गा त्रिवृतामूलकार्पासगैरिका-
ञ्जनम् । विद्रुमं समधूच्छिष्टं कुम्भिका कुसुदोत्पसम् ।
न्यग्रोधोदुम्बराश्वत्थकिंशुकाः शिंशुपा शमी । प्रियाम-
पीलुकासारिशिरीषाः पद्मकं तथा । बिल्वोऽग्निमन्थः
प्लक्षश्च श्यामाकश्च वको घनम् । राजादनं करीरञ्च
धान्यकं प्रियकस्तथा । कक्कोलाशोकबदराः कदम्बखदिर-
द्वयम् । एषां पत्राणि साराणि मूलानि कुसुमानि च ।
एवमादीनि चान्यानि काषायाख्यो मतो रसः । प्रयत्नेन
नृपश्रेष्ठो राजा सञ्चिनुयात् पुरे । कीटाश्च मारणे
योग्या व्यङ्गतायां तथैव च । वातधूमाश्च मार्गाणां
दूषणानि तथैव च । धार्याणि पार्थिवैर्दुर्गे तानि
वक्ष्यामि पार्थिव! विषाणां धारणं कार्यं प्रयत्नेन
महीभुजा । विचित्राश्चाङ्गदा धार्या विषस्य शमनास्तथा ।
रक्षोभूतपिशाचघ्नाः पापघ्नाः पुष्टिवर्धनाः । कालवदिश्च
पुरुषाः पुरे धार्याः प्रयत्नतः । भीतान् प्रमत्तान् कुपि-
तांस्तथैब च विमानितान् । कुभृत्यान् पापशीलांश्च न
राजा वासयेत् पुरे । यन्त्रायुधाट्टालचयोपपन्नं समग्र-
धान्यौषधिसम्प्रयुक्तम् । बणिग्जनैश्च वृतमावसेत दुर्गं
सुगुप्तं नृपतिः सदैव । मनुरुवाच । रक्षोघ्नानि
विषघ्नानि यानि घार्याणि भूभुजा । अगदानि समाचक्ष्य
तानि धर्मभृतां वर! मत्स्य उवाच । विल्वाटकी
यवक्षारं पाटला वाह्लिकोषणाः । श्रीपर्णी शल्लकी-
युक्तो निक्वाथः प्रोक्षणं परम् । सविषं प्रोक्षितं तेन
सद्यो भवति निर्विषम् । यवसैन्धवपानीयवस्त्रशय्यासनो-
दकम् । कवचाभरणं छत्रं बालव्यजनवेश्मनाम् । शेलुः
पाटलातिविषा शिग्रुमूर्वा पुनर्नवा । समङ्गावृषमूलञ्च
कपित्थवृषशोणितम् । महादन्तशठन्तद्वत् प्रोक्षणं
विषनाशनम् । लाक्षाप्रियङ्गुमञ्जिष्ठा सममेला हरेणुका ।
यष्ट्याह्वा मधुरा चैव बभ्रुपित्तेन कल्पिता । निखने-
द्गोविषाणस्थं सप्तरात्रं महीतले । ततः कृत्वा मणिं
हेम्ना बद्धं हस्तेन धारयेत् । संसृष्टं सविषं तेन सद्यो
भवति निर्विषम् । मनोह्वया शमीपत्रं तुम्बिका श्वेत-
सर्षपाः । कपित्थकुष्ठमञ्जिष्ठाः पित्तेन श्लक्ष्णकल्पिताः ।
शुनो गोः कपिलायाश्च सौम्याक्षिप्तोऽपरोगदः ।
विषजित् परमं कार्यं मणिरत्नञ्च पूर्ववत् । मूषिका जतुका
चापि हस्ते बद्धा विषापहा । हरेणुर्मांसी मञ्जिष्ठा
रजनी मधुका मघु । अक्षत्वक् सुरसं लाक्षा श्वषित्तं
पूर्ववद् मुवि । वादित्राणि पताकाश्च पिष्टैरेतैः प्रलेपिताः ।
श्रुत्वा दृष्ट्वा समाघ्राय सद्यो भवति निर्विषः । त्र्यूषणं
पञ्चलवणं मञ्जिष्ठा रजनीद्वयम् । सूक्ष्मैला त्रिवृतापत्रं
विढङ्गानीन्द्रवारुणी । मधुकं वेतसं क्षौद्रं विषाणे च
पृष्ठ ३६३३
निधापयेत् । तस्मादुष्णाम्बुना मात्रं प्रागुक्तं योजये-
त्ततः । शुक्लं सर्जरसोपेताः सर्षपा एलाबालुकैः । सुवेगा
तस्करपुरैः कुसुमैरर्जुनस्य तु । घूपो वासगृहे हन्ति विषं
स्थावरजङ्गमम् । न तत्र कीटा न विषं दर्दुरा न
सरीसृपाः । न कृत्याकर्मणाञ्चापि धूपोऽयं यत्र दह्यते ।
कल्पितैश्चन्दनक्षीरपलाशद्रुमवल्कलैः । मूर्वैलावालुसर-
सानाकुलीतण्डुलीयकैः । क्वाथः स विषकार्येषु
काकमाचीयुतो हितः । रोचनापत्रनेपालीकुङ्कुमैस्तिलकान्
वहन् । विषैर्न बाध्यते स्याच्च नरनारीनृपप्रियः ।
चूर्णैर्हरिद्रामञ्जिष्ठाकिणिहीकणनिम्बजैः । दिग्धं निर्वि-
षतामेति गात्रं सर्वविषार्दितम् । शिरीषस्य फलं पत्रं
पुष्पं त्वङ्मूलमेव च । गोमूत्रघृष्टं ह्यगदः सर्वकर्मकरः
स्मृतः । एकवीर! महौषध्यः शृणु चातः परं नृप!
बन्ध्या कर्कोटकी राजन्! विष्णुक्रान्ता तथोत्कटा ।
शतमूली सितानन्दा बला मोचा पटोलिका । सोमा-
पिण्डा निशा चैव तथा दग्धरुहा च या । स्थले
कमलिनी या च विशाली शङ्खमूलिका । घण्डाली हस्ति-
मगधा गोऽजापर्णो करम्भिका । रक्ता चैव महारक्ता
तथा वर्हिशिखा च या । कोशातकी नक्तमालं प्रिया-
लञ्च सुलोचनी । वारुणी वसुगन्धा च तथा वै गन्धना-
कुली । ईश्वरी शिवगन्धा च शामला वंशनालिका!
जतुकाली महा श्वेता श्वेता च मधुयष्टिका । वज्रकः पारि-
भद्रश्च तथा वै सिन्धुवारकाः । जीवानन्दा वसुच्छिद्रा
नतनागरकण्टका । नालञ्च जाली जाती च तथा च
वटपत्रिका । कार्तस्वरं महानीला कुन्दुरुर्हंसपादिका ।
मण्डूकपर्णी वाराही द्वे तथा तण्डुलीयके । सर्पाक्षी
लवली ब्राह्मी विश्वरूपा सुखाकरा । रुजापहा वृद्धिकरी
तथा चैव विशल्यदा । पत्रिका रोहिणी चैव नक्तमाला
महौषधी । तथामलकवन्दाकं श्यामचित्रफला च या ।
काकोली क्षीरकाकोली पीलुपर्णी तथैव च । केशिनी
वृश्चिकाली च महानागा शतावरी । गरुड़ी च तथा
वेगा जले कुमुदिनी तथा । स्थले चोत्पलिनी या च
महाभूमिलता च या । उन्मादिनी सोमराजी सर्व-
रत्नानि पार्थिब! । विशेषान्मरकतानि कीटपक्षं विशे
षतः । जीवजाताश्च मणयः सर्वे धार्याः प्रयत्नतः ।
रक्षोघ्नाश्च विषघ्नाश्च कृत्यावेतालनाशनाः । विशेषान्नर
नागाश्च गोखरोष्ट्रसमुद्भवाः । सर्पतित्तिरगोमायुबस्त्र-
मण्डकजाश्च ये । सिंहव्याघ्रर्क्षमार्जारद्वीपिवानरसंभवाः ।
कपिञ्जला गजा वाजिमहिषैणभवाश्च ये । इत्येवमेतैः
सकलैरुपेतन्द्रव्यैश्च सर्वैः स्वपुरं सुरक्षितम् । राजा
वसेत्तत्र गृहं सुशुभ्रं गुणान्वितं लक्षणसंप्रयुक्तम् ।
मनुरुवाच “राजारक्षारहस्यानि यानि दुर्गे निधापयेत् ।
कारयेद्वा महीभर्ता ब्रूहि तत्त्वानि तानि च । मत्स्य-
उवाच । शिरीषोदुम्बरशमीवीजपूरं घृतप्लुतम् । क्षुद्योगः
कथितो राजन्! मासार्द्धं तु पुरातनैः । कशेरुफल-
मूलानि इक्षुमूलं तथा बिसम् । दूर्वाक्षीरघृतैर्मण्डः सिद्धो
ऽयं मासिकः परः । नरं शस्त्रहतं प्राप्तो न तस्य
मरणं भवेत् । कल्माषवेणुना तत्र जनयेत्तु विभावसुम् ।
गृहे त्रिरपसव्यन्तु क्रियते यत्र पार्थिव! । नान्योऽग्नि-
र्ज्वलते तत्र नात्र कार्या विचारणा । कार्पासास्थ्ना
भुजङ्गस्य तेन निर्मोचनं भवेत् । सर्पनिर्वासने धूपः प्रशस्तः
सततं गृहे । सामुद्रसैन्धवयवा विद्युद्दग्धा च मृत्तिका ।
तयानुलिप्तं यद्वेश्म नाग्निना दह्यते नृप! । दिवा च
दुर्गे रक्ष्योऽग्नि र्वाति वाते विशेषतः । विषाच्च रक्ष्मोनृप-
तिस्तत्र युक्तिं निबोध मे । क्रीडानिमित्तं नृपतिर्धार-
येन्मृगपक्षिणः । अन्नं वै प्राक् परीक्षेत वह्नौ चान्यतरेषु
च । बस्त्रं पुष्पमलङ्कारं भोजनाच्छादनं तथा ।
नापरीक्षितपूर्वन्तु स्पृशेदपि महामतिः । स्याच्चासौ वक्त्रसन्तप्तः
सोद्वेगञ्च निरीक्षते । विषदोऽथ विषं दत्तं यच्च तत्र
परीक्षते । स्रस्तीत्तरीयो विमनाः स्तम्भकुद्ध्यादिभिस्तथा ।
प्रच्छादयति चात्मानं लज्जते त्वरते तथा । भुवं विलि-
खति ग्रीवां तथा चालयते नृप! । कण्डूयति च
मूर्द्धानं परिलोड्याननन्तथा । क्रियासु त्वरिती राजन्!
विपरीतास्वपि ध्रुवम् । एवमादीनि चिह्नानि विषदस्य
परीक्षयेत् । समाप्तैर्विक्षिपेद्वह्नौ तदन्नं त्वरयान्वितैः ।
इन्द्रायुधसवर्णन्तु रूक्षं स्कोटसमन्वितम् । एकावर्तन्तु
दुर्गन्धि भृशञ्चटचटायते । तद्धूमसेवनाज्जन्तोः शिरोरो-
गश्च जायते । सविषेऽन्ने विलीयन्ते न च पार्थिव!
मक्षिकाः । निलीनाश्च विपद्यन्ते संस्पृष्टे सविषे तथा ।
विरज्यति चकोरस्य दृष्टिः पार्थिवसत्तम! । विकृतिञ्च
स्वरो याति कोकिलस्य तथा नृप! । गतिः स्खलति
हंसस्य भृङ्गराजश्च कूजति । क्रोञ्चो मदमथाभ्येति
कृकवाकुर्विरौति च । विक्रोशति शुको राजन्! सारिका
वमते ततः । चामीकरोऽन्यतो याति मृत्युं कारण्डव
स्तथा । मेहते वानरो राजन्! ग्लायते जीवजीवकः ।
हृष्टरोमा भवेद्बभ्रुः पृषतश्चैव रोदिति । हर्षमायाति च
पृष्ठ ३६३४
शिखी विषसन्दर्शनान्नृप! अन्नञ्च सविषं राजश्चिरेण
च विपद्यते । तदा भवति निःश्राव्यं पक्षपर्युषितो-
पमम् । व्यापन्नरसगन्धञ्च चन्द्रिकाभिस्तथायुतम् । व्यञ्ज-
नानान्तु शुष्कत्वं द्रवाणां बुद्वुदोद्भवः । ससैन्धवानां द्रव्याणां
जायते फेनमालिता । सस्यराजिश्च ताम्रा स्यात् नीला च
पयसस्तथा । कोकिलाभा च मद्यस्य तोयस्य च नृपोत्तम!
धान्याम्लस्य तथा कृष्णा कपिला कोद्रवस्य च । मधुश्यामा
च तक्रस्य नीला पीता तथैव च । घृतस्योदकसङ्काशा
कपोताभा च सत्तनुः । हरिता माक्षिकस्यापि तैलस्य च
तथाऽरुणा । फलानामप्यपक्वानां पाकः क्षिप्रं प्रजायते ।
प्रकोपश्चैव पक्वानां माल्यानां म्लानता तथा । मृदुता
कठिनानां स्यात् मृदूनाञ्च विपर्ययः । सूक्ष्माणां
रूपदलनं तथा चैवातिरक्तता । श्याममण्डलता चैव वस्त्राणां
वै तथैव च । लोहानाञ्च मणीनाञ्च मलपङ्कोपदिग्घता ।
अनुलेपनगन्धानां माल्यानाञ्च नृपोत्तम! । विगन्धता च
विज्ञेया तथा राजन्! जलस्य तु । दन्तकाष्ठत्वचः
श्यामास्तनुसत्वास्तथैव च । एवमादीनि चिह्नानि विज्ञेयानि
नृपोत्तम! । तस्माद्राजा सदा तिष्ठेत् मणिमन्त्रौषधी-
गणैः । उक्तैः संरक्षितों राजा प्रमादपरिवर्जकः ।
प्रजातरोर्मूलमिहावनीशस्तद्रक्षणाद्राष्ट्रमुपैति वृद्धिम् ।
तस्मात् प्रयत्नेन नृपस्य रक्षा सर्वेण कार्या रविवंशचन्द्र!”
दुर्गशुभाशुभलक्षणञ्च कालिकापुराणे ८५ अ० यथा
“दुर्गांस्तु सततं कुर्य्यात् प्राकाराट्टालतोरणैः ।
भूषितान्नगराद्राजा दुर्गे दुर्गाश्रयं चरेत् । दुर्गं वलं
मृपाणान्तु नित्यं दुर्गं प्रशस्यते । शतमेको योधयति
दुर्गस्थायी धनुर्धरः । शतं दशसहस्राणि तस्मात् दुर्गं
प्रशस्यते । जलदुर्गं भूमिदुर्गं वृक्षदुर्गं तथैव च ।
अरण्यवनदुर्गञ्च शैलजं परिखोद्भवम् । दुर्गं कार्यं
नृपतिना यथायोग्यं स्वदेशतः । दुर्गं कुर्वन् पुरं कुर्य्यात्
त्रिकोणं धनुराकृति । वर्तुलं वा चतुष्कोणं नान्यथा
नगरं चरेत् । मृदङ्गाकृति दुर्गञ्च सततं कुलनाशनम् ।
यथा राक्षसराजस्य लङ्का दुर्गाजिता पुरा । वलेः पुरी
शोणिताख्या तेजो दुर्गे प्रतिष्ठितम् । यतस्तत् व्यज-
नाकारमतो भ्रष्टः श्रियो बलिः । सौभाग्यं शाल्वरा-
जस्य नगरं पञ्चकोणकम् । दिवि यद्वर्त्तते राजंस्तच्च
भ्रष्टं भविष्यति । यच्चायोध्याह्वयं भूप! पुरमिक्ष्वाकुभू-
भुजाम् । धनुराकृति तच्चापि ततोऽभूद्विजयप्रदम् ।
दुर्गभूमौ यजेद्दुर्गां दिक्पालांश्चैव द्वारतः । पूजयित्वा
विधानेन जयं भूपः समाप्नुयात् । अतो दुर्गं नृपः
कुर्य्यात् सततं जयवृद्धये” । अधिकं दुर्गकर्मशब्दे दृश्यम्
२ असुरभेदे तत्कथा काशीख०७० अ०
“दुर्गोनाम महादैत्यो रुरुदैत्याङ्गजोऽभवत् । यतस्तप्त्वा
तपस्तीव्रं पुंभ्योऽजेयत्वमाप्तवान् । ततस्तेनाखिला
लोका भूर्भुवःस्वर्मुखा अपि । स्वसात्कृता विनिर्जित्य
रणे स्वभुजसारतः!” ३ देवीभेदे स्त्री
दुर्गासुरहननात् देव्या दुर्गेति नामाभूत् यथाह तत्रैव
७२ अ० “अद्य प्रभृति मे नाम दुर्गेति ख्यातिमेष्यति ।
दुर्गदैत्यस्य समरे घातनादतिदुर्गमात्” दुर्गासुरस्यैव
नामान्तरं दुर्गम इति । “तत्रैव च बधिष्यामि दुर्गमाख्यं
महासुरम् । दुर्गादेवीति विख्यातं तन्मे नाम
भविष्यति” देवीमा० । तत्र--शाकम्बरीप्रादुर्भावयुगे स च
वैवस्वतमन्वन्तरे चत्वारिंशत्तमयुगकालः यथोक्तं लक्ष्मी-
तन्त्रे वैवस्वतमन्वन्तरमुक्त्वा “तस्मिन्नेवान्तरे शक्र!
चत्वारिंशत्तमे युगे” शताक्षीशाकम्भर्य्योरवतारमुक्त्वा
तत्रैव दुर्गासुरबधेन दुर्गानामताप्राप्तिरुक्ता । तेन
श्वेतवराहकल्पे साऽद्यापि न प्रादुर्भूता कल्पान्तरे
तस्याः प्रादुर्भावेण तस्या इदानीमर्चनीयतेति बोध्यम् ।
दुर्गाशब्दस्यान्यापि निरुक्तिरन्यत्र दर्शिता प्रसङ्गादि
होच्यते यथा
“दुर्गो दैत्ये ४ महाविघ्ने ५ भवबन्धे ५ कुकर्मणि । ७ शोके
८ दुःखे च ९ नरके १० यमदण्डे च ११ जन्मनि । १२
महाभयेऽतिरोगे १४ चाप्याशब्दो हन्तृवाचकः । एतान्
हन्त्येव या देवी सा दुर्गा परिकीर्तिता” । अपिच “दैत्य-
नाशार्थवचनो दकारः परिकीर्त्तितः । उकारो विघ्न-
नाशस्य वाचको वेदसम्मतः । रेफो रोगघ्नवचनोगश्च
पापघ्नवाचकः । भयशत्रुघ्नवचनश्चाकारः परिकी-
र्त्तितः । स्मृत्युक्तिश्रवणाद् यस्या एते नश्यन्ति निश्चि-
तम् । ततो दुर्गा हरेः शक्तिर्हरिणा परिकीर्तिता” ।
“दुर्गेति दैत्यवचनोऽप्याकारो नाशवाचकः । दुर्गं
नाशयते या तु सा दुर्गा परिकीर्तिता” । विपत्तिवाचको
दुर्गश्चाकारो नाशवाचकः । तं ननाश पुरा तेन बुधै-
र्दुर्गा प्रकीर्त्तिता” । अस्याः स्थानं कृष्णावेनातुङ्गभद्रयो
र्मध्यभागे सह्याद्रेरीषत्प्राच्यां प्रसिद्धम् । “सर्वस्वरूपिणी
शक्तिः सा दुर्गेति च पठ्यते” यथा मुण्डमालायाम्
“भूतानि दुर्गा भुवनानि दुर्गा नराः स्त्रियश्चापि सुरा
सुरादिकम् । यद्यद्धि दृश्यं खलु सैव दुर्गा दुर्गास्वरू-
पृष्ठ ३६३५
पादपरं न किञ्चिदिति” शब्दार्थचिन्तामणिधृतेषु
महाविघ्नादिषु च पु० १३ गुग्गुलौ राजनि० १४ दुर्गममात्रे
त्रि० १५ दुर्ज्ञेये १६ परमेश्वरे पु० “दुर्लभो दुर्गमो दुर्गो
दुरावासो दुराधरः” विष्णुसं० । “अन्तरायप्रतिहतैर्दु-
राप्यते इति दुर्ग” भा०

दुर्गकर्म्मन् न० दुगार्थं दुर्गे वा कर्म कार्यम् । मा० शा० ८६ अ०

उक्ते दुर्गसाधनकर्मभेदे यथा
“तस्मात्ते वर्तयिष्यामि दुर्गकर्म विशेषतः । श्रुत्वा तथा
विधातव्यमनुष्ठेयञ्च यत्नतः । षडविधं दुर्गमास्थाय
पुराण्यथ निवेशयेत् । सर्वसम्पत्प्रधानं यद्बाहुल्यञ्चापि
सम्भवेत् । धन्वदुर्गं महीदुर्गं गिरिदुर्गं तथैव च ।
मनुष्यदुर्गं मृद्दुर्गं वनदुर्गञ्च तानि षट् । यत् पुरं
दुर्गसम्पन्नं धान्यायुधसमन्वितम् । दृढ़प्राकारपरिखं
हस्त्यश्वरथसङ्कुलम् । विद्वांसः शिल्पिनो यत्र
निचयाश्च सुचिन्तिताः । धार्मिकश्च जनो यत्र दाक्ष्यमुत्तम-
मास्थितः । ऊर्जस्विनरनागाश्वं चत्वरापणशीभितम् ।
प्रसिद्धव्यवहारञ्च प्रशान्तमकुतोभयम् । सुप्रभं शान्त-
नादञ्च सुप्रशस्तनिवेशनम् । शूराढ्यजनसम्पन्नं ब्रह्म-
घोषानुनादितम् । समाजोत्सवसम्पन्नं सदा पूजितदै-
बतम् । वश्यामात्यबलो राजा तत् पुरं स्वयमाविशेत् ।
तत्र कोषं बलं मित्रं व्यवहारञ्च वर्द्धयेत् । पुरे
जनपदे चैव सर्वदोषान्निवर्त्तयेत् । भाण्डागारायुधागारं
प्रयत्नेनाभिबर्द्धगेत । निचयान् बर्द्धयेत् सर्वांस्तथा
मन्त्रायुधालयान् । काष्ठलोहतुषाङ्गारदारुशृङ्गास्थि-
वैणवान् । मज्जास्नेहवसाक्षौद्रमौषधग्राममेव च ।
शणं सर्जरसन्धान्यमायुधानि शरांस्तथा । चर्मस्नायुं
तथा वेत्रं मुञ्जवल्वजबन्धनान् । आशयाश्चोदपानाश्च
प्रभूता सलिलाकराः । निरोढव्याः सदा राज्ञा क्षीरि-
णश्च महीरुहाः । सत्कृताश्च प्रयत्नेन आचार्यत्विक्-
पुरोहिताः । महेष्वासाः स्थपतयः सांवत्सरचिकित्-
सकाः । प्राज्ञा मेधाविनो दान्ता दक्षाः शूरा बहुश्रुताः ।
कुलीनाः सत्त्वसम्पन्ना युक्ताः सर्वेषु कर्मसु । पूजयेद्धा-
र्मिकान् राजा निगृह्णीयादधार्मिकान् । नियुञ्ज्याच्च
प्रयत्नेन सर्ववर्णान् स्वकर्मसु । बाह्यमाभ्यन्तरञ्चैव पौर
जानपदं तथा । चारैः सुविदितं कृत्वा ततः कर्म
प्रयोजयेत् । चरान् मन्त्रञ्च कोषञ्च दण्डञ्चैव विशेषतः ।
अनुतिष्ठेत् स्वयं राजा सर्वं ह्यत्र प्रतिष्ठितम् । उदासी
नारिमित्राणां सर्वमेव चिकीर्षितम् । पुरे जनपदे चैव
ज्ञातव्यं चारचक्षुषा । ततस्तेषां विधातव्यं सर्वमेवा-
प्रमादतः । भक्तान् पूजयता नित्यं द्विषतश्च निगृह्णता ।
यष्टव्यं क्रतुभिर्नित्यं दातव्यञ्चाप्यपीडया । प्रजानां
रक्षणं कार्यं न कार्यं धर्मबाधकम् । कृपणानाथ-
वृद्धानां विधवानाञ्च योषिताम् । योगक्षेमञ्च वृत्तिञ्च
नित्यमेव प्रकल्पयेत् । आश्रमेषु यथाकालं चेलभाजन
भोजनम् । सदैवोपहरेद्राजा सत्कृत्याभ्यर्च्य मान्य च ।
आत्मानं सर्वकार्य्याणि तापसे राष्ट्रमेव च । निवेदयेत्
प्रयत्नेन तिष्ठेत् प्रह्णश्च सर्बदा । सर्वार्थत्यागिनां राजा
कुले जातं बहुश्रुतम् । पूजयेत्तादृशं दृष्ट्वा शयनासन-
भोजनैः । तस्मिन् कुर्वीत विश्वासं राजा कस्याञ्चिदा-
पदि । तापसेषु हि विश्वासमपि कुर्व्नन्ति दस्यवः । तस्मिन्
निधीनादधीत प्रज्ञां पर्य्याददीत च । न चापि तीक्ष्णं
सेवेत भृशं वा प्रतिपूजयेत् । अन्यः कार्यः स्वराष्ट्रेषु
परराष्ट्रेषु चापरः । अटवीषु परः कार्यः सामन्तनगरेष्वपि ।
तेषु सत्कारमानाभ्यां संविभागांश्च कारयेत् । परराष्ट्रा-
टवीस्थेषु यथा स्वविषये तथा । ते कस्याञ्चिदवस्थायां
शरणं शरणार्थिने । राज्ञे दद्युर्यथाकामं तापसाः संशि-
तव्रताः । एष ते लक्षणोद्देशः सङ्क्षेपेण प्रकीर्त्तितः ।
यादृशे नगरे राजा स्वयमावस्तुमर्हति” ।

दुर्गकारक पु० दुर्गं करोति वेष्टनेन कृ--ण्वुल् । १ वृक्षभेदे ।

२ दुर्गकर्त्तरि त्रि० ।

दुर्गत त्रि० दुर्गच्छति दुर् + गम--कर्त्तरि क्त । १ दरिद्रे २

दैन्यङ्गते च अमरः । “समाश्वसिमि केनाहं कथं प्राणिसि
दुर्गतः” भट्टिः । “निधानकुम्भस्य यथैव दुर्गतः”
सा० द० ।

दुर्गतरणी स्त्री दुर्गं तीर्य्यतेऽनया तॄ--करणे ल्युट् ६ त०

ङीप् । देवीभेदे “सावित्री दुर्गतरणी वीणा सप्तविधा
तथा” भा० स०११ अ० व्रह्मसभावर्णने । २ दुर्गतरणसाधने त्रि०

दुर्गति स्त्री दुष्टा गतिः प्रा० स० । १ नरके अमरः । २ दारिद्र्ये

मेदि० । “न दुर्गतिमवाप्नोति स्वर्गलोकञ्च गच्छति” भा० शा०
५५९३ श्लो० दुःस्थिता गतिरस्य प्रा० ब० । ३ तद्युते त्रि० ।

दुर्गतिनाशिनी स्त्री दुर्गतिं नाशयति नाशि--णिनि ६ त०

ङीप् । दुर्गादेव्याम् । “ब्रह्माण्डविजयस्यास्य कवचस्य
प्रजापतिः । ऋषिश्छन्दश्च गायत्री देवी दुर्गतिना-
शिनी” ब्रह्मवै० गणे० ख० । २ दुर्गतिनाशके त्रि० स्त्रियां ङीप् ।

दुर्गन्ध पु० दुःस्थितो गन्धोऽस्य प्रा० ब० । १ सौवर्चललवणे

हेम० । २ दुष्टगन्घयुक्ते त्रि० । प्रा० स० । ३ दुष्टे गन्धे “मांस-
मेदोऽस्थिदुर्गन्धा” हरिवं ५३ अ० “सुगन्धं वेत्ति दुर्गन्धं
दुर्गन्धस्य सुगन्धिताम्” सुश्रुतः ।
पृष्ठ ३६३६

दुर्गन्धाङ्ग त्रि० दुर्गन्धोऽङ्गे यस्य । पूतिगन्धान्वितदेहके स्त्रियां

ङीप् । शाता० सौगन्धिकपुष्पाहरणेन तथाङ्गतेत्यु-
क्तम् यथा “सौगन्धिकस्य हरणात् दुर्गन्धाङ्गः प्रजायते”

दुर्गन्धिन् त्रि० दुर्गन्धोऽस्त्यस्य नित्ययोगे इनि “तेन न कर्म-

धारयात् मत्वर्थीयो बहुव्रीहिश्चेदर्थप्रतिपत्तिकरः” इत्यस्य
न प्रवृत्तिः । १ दुष्टगन्धयुक्ते त्रि० रायमुकुटः “चर्माव-
नद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः” मनुः । स्त्रियां ङीप् ।

दुर्गपति पु० ६ त० । १ दुर्गरक्षके दुर्गाध्यक्षभेदे । २ दुर्गस्वामिनि

च । “वयं जयेम हेलाभिर्दस्यून् दुर्गपतिर्यथा” भाग०
३ । १४ । १८

दुर्गपाल पु० दुर्गे दुर्गं वा पालयति पाणि--अण् उप० स० ।

१ कृच्छ्रपालके “यन्नोऽसुराणामसि दुर्गपालो विश्वाभि-
वन्द्यैरभिवन्दिताङ्घ्रिः” भाग० ८ । २३ । ५ । २ दुर्गरक्षके च

दुर्गपुष्पी स्त्री दुर्गं पुष्पमस्याः जातित्वात् ङीष् । (केशपुष्या)

ख्याते वृक्षभेदे शब्दच० ।

दुर्गम पु० दुःखेन गम्यतेऽसौ दुर् + गम--कर्मणि खल् । १ दुर्ग-

नामासुरभेदे “दुर्गमाख्यं महासुरम्” देवीमा० । २ दुर्गम-
नीये त्रि० । “कान्तारोवर्त्म दुर्गमम्” अमरः । ३ दुर्ज्ञेये च
४ परमेश्वरे पु० दुर्गशब्दे दृश्यम् “दुःखेन गम्यते ज्ञायते
इति दुर्गमः” भाष्ये तन्नामनिरुक्तिः ।

दुर्गल पु० दुःस्थितो गलो यत्र लोकानाम् । देशभेदे “दुर्गलाः

प्रतिमास्याश्च कुन्तलाः कोशलास्तथा” भा० भी० ९ अ०
जनपदोक्तौ । सोऽभिजनोऽस्य, तस्य राजा वा अण् ।
दीर्गल पित्रादिक्रमेण तद्देशवासिनि तन्नृपे च । बहुषु
अणो लुक् । दुर्गला इत्येव ।

दुर्गलङ्घन पुंस्त्री० दुर्गं लङ्घ्यतेऽनेन लङ्घि--करणे ल्युट् ।

उष्ट्रे हेमच० स्त्रियां जातित्वात् ङीष् ।

दुर्गसंस्कार पु० ६ त० । प्रतिपक्षस्य युद्धार्थोद्योगे राज्ञा स्वदु-

र्गस्य भग्नप्रायस्य पुनर्नवीकरणे “अतो दुर्गसंस्कारे
आरब्धव्ये किं कौमुदीमहोत्सवेन” इति मुद्रारा०

दुर्गसञ्चर पु० दुर्गं संच्चर्यतेऽनेन सम् + चर--करणे अप् ।

(सांको) संक्रमे हेमच० घञ् । दुर्गसंञ्चारोऽप्यत्र
अमरटीकायां क्षीरस्वामी

दुर्गसिंह पु० कलापपरिशिष्टकारे विद्वद्भेदे

दुर्गा पुंस्त्री दुर्गशब्दोक्ते १ देवीभेदे तन्निरुक्त्यादिकं तत्र दर्शि-

तम् । २ नीलीवृक्षे मेदि० । ३ अपराजितायाम
शब्दच० ४ श्यामाखगे राजनि० । ५ हिमालयकन्यायाञ्च
“सा दुर्गा मेनकाकन्था दैन्यदुर्गतिनाशिनी” ब्रह्मवै० पु०

दुर्गाढ त्रि० दुर् + गाह--कर्मणि क्त । कृच्छ्रेणावगाह्ये

“दुर्गाढो नयमार्गोऽयमित्याहुस्तद्विदोजनाः” हरिवं० २३६ अ०

दुर्गाध्यक्ष पु० ६ त० । युर्गक्षके सेनाभेदे “अनाहार्यश्च

शूरश्च तथा प्राज्ञः कुलोद्भवः । दुर्गाध्यक्षः स्मृतो राज्ञ
उद्युक्तः सर्वकर्मसु” मत्स्यपु० तल्लक्षणमुक्तम् ।

दुर्गानवमी स्त्री दुर्गाप्रिया तत्पूजाङ्गत्वात् नबमी ।

कार्तिकशुक्लपक्षीयनवम्याम् । दुर्गाया इयम् अण् ङीप् ।
दौर्गी तत्पूजयाङ्गनवमीतिथौ “श्रावणी दौर्गनवमी
दूर्वा चैव हुताशनी । पूर्वविद्धैव कर्तव्या शिवरात्रिर्बले-
र्दिनम्” ति० त० । तत्पूजाविधानादि योगिनीतन्त्रे यथा
“कार्तिकेऽमलपक्षे च नवम्याञ्च विशेषतः । उद्बुद्धां
तु जगद्धात्रीं पूजयेद् दीपमालया” तन्त्रान्तरे “त्रिकालं
पूजयेद्दुर्गां मनुनैकाक्षरेण (दुँ) च । नानावलिविधानेन
गीतवाद्यपुरःसरम् । कार्तिकस्य सिते पक्षे नवम्याञ्च
विशेषतः । कृत्वैवं साधकश्रेष्ठी लभेद्राज्यमकण्टकम्”
कुब्जिकातन्त्रे “कार्त्तिके शुक्लपक्षे तु नवम्यां
जगदम्बिकाम् । दुर्गां प्रपूजयेद् भक्त्या घर्मकामार्थसिद्धये ।
शक्तिसङ्गमतन्त्रे “कार्तिकस्य सिते पक्षे नवम्यां जगदी-
श्वरीम् । त्रिकालमेककालं वा वर्षे वर्षे प्रपूजयेत् ।
निर्माय प्रतिमां शक्त्या जगद्धात्र्या विधानतः ।
पूजयित्वा परदिने प्रतिमां तां विसर्जयेत् । एवं कृत्वा चक्र
वर्त्ती भवेत् साधकसत्तमः । पुत्रपौत्रघनैश्वर्य्यसंयु-
तास्य भवेत् पुरी । दासदासीगणैर्युक्तो मुक्तः स्यात्
पापसङ्कटात् । विशेषतः वसुयुतां नवमीं प्राप्य
साधकः । पूजयित्वा मृण्मयीं तां लमते वाञ्छितं फलम्”
भविष्ये “मासैश्चतुर्भिर्यत् पुण्यं विधिना०० पूज्य चण्डि-
काम् । तत् फलं लभते घीर! नवम्यां कार्तिकस्य च” ।
अधिकं जगद्धात्रीशब्दे ३००४ पृ० दृश्यम् ।

दुर्गास्मरण न० “दुर्गा जगदिदं सर्वं दुर्गा सर्वस्य

कारणम् । अहञ्च दुर्गेत्येवं यत् तद्दुर्गास्मरणं विदुः”
इत्युक्ते चिन्तनभेदे ।

दुर्गाह्व पु० दुर्गा आह्वास्य । भूमिजगुग्गुलौ राजनि० ।

दुर्गृभि त्रि० दुःखेन गृह्यतेऽसौ दुर् + ग्रह--बा० कर्मणि

कि सम्प्रसारणम् वेदे हस्व भः । दुर्ग्राह्ये ग्रही-
तुमशक्ये “न शृङ्गादविधाय दुर्गृभिः” ऋ० १ । १४० । ६
“वृत्रस्य यत्प्रवेशे दर्गृभिश्वनः” १ । ५२ । ६ “दुर्गृभिश्वनः
दुर्ग्रहव्यापनः” भा० अशू व्याप्तौ वा० वन शक० ।
पृष्ठ ३६३७

दुर्गोत्सव पु० ६ त० । दुर्गाया देवीभेदस्य पूजानिमित्ते उत्सवे

स च शारदिकः वासन्तिकश्च ।

दुर्ग्रह त्रि० दुःखेन गृह्यतेऽसौ दुर् + ग्रह--कर्मणि खल् ।

१ दुःखेन ग्राह्ये २ दुर्ज्ञेये ३ दुरासदे “दुर्गाणि दुर्ग्रहा-
ण्यासन् तस्य रोद्धुरपि द्विषाम्” रघुः । ४ अपामार्गे
स्त्री शब्दार्थचि० ।

दुर्ग्राह्य त्रि० दुर् + ग्रह--कर्मणि ण्यत् । ग्रहीतुमशक्ये

दुःखेन ग्राह्ये “जग्राह तद्धनूरत्नं दुर्ग्राह्यं दैवतैरपि”
हरिवं० ८४ अ० ।

दुर्घट त्रि० दुर् + घट--कर्मणि खल् । घटयितुमशक्ये

दुःसंपाद्ये । “कोऽन्वर्थो दुर्घट इव भवति खरूपद्वयाभावात्”
पाग० ६ । ९ । ३४

दुर्घोष पुंस्त्री० दुष्टो घोषोऽस्य । १ भल्लूके राजनि० स्त्रियां

जातित्वात् ङीष् । २ दुष्टशब्दयुक्ते त्रि० स्त्रियां टाप् ।
प्रा० स० । ३ दुष्टे शब्दे पु०

दुर्जन पु० दुष्टो जनः प्रा० स० । खलपुरुषे “दुर्जनः परिहर्त्तव्यो

विद्यया भूषितोऽपि सः । मणिना भूषितः सर्पः किमसौ
न भयङ्करः” चाण० “शाम्येत् प्रत्यपकारेण नीपका-
रेण दुर्जनः” कुमा० “पानं दुर्जनसंसर्गः पत्या च विरहो
टनम्” मनुः भृशा० च्व्यर्थे क्यङ् । दुर्जनायते अदुर्जनो
दुर्जनो भवतीत्यर्थः ।

दुर्जय त्रि० दुःखेन जीयतेऽसौ दुर् + जि--कर्मणि खल् । १

जेतुमशक्ये दुःखेन जेतव्ये । २ परमेश्वरे पु० “समावृत्तो
निवृत्तात्मा दुर्जयो दुरतिक्रमः” विष्णुसं० । “क्लेशांश्च
विविधांस्तांस्तान् नृत्युमेव च दुर्जयम्” मनुः ३ कार्त्तवीर्य-
वंश्ये ऽनन्तनृपपुत्रे नृपभेदे कूर्मपु०

दुर्जयन्त पु० नृपभेदे । विष्णु पु०

दुर्जर त्रि० दुःखेन जीर्यति जॄ--अच् । दुःखेन जीर्यति

“ग्राहिणी वातला रूक्षा दुर्जरा तक्रकूर्चिका” सुश्रु०
“कफप्रकोपि तन्मद्यं दुर्जरञ्च विशेषतः” सुश्रु० । २ ज्यो-
तिष्मतीलतायाम् स्त्री राजनि०

दुर्जात न० दुष्टं जातम् प्रा० स० । व्यसने “दुर्जातबन्धुरय-

मृक्षहरीश्वरोमे” रघुः । २ असम्यग्जाते त्रि० मेदि०
३ असमञ्जसे त्रि० त्रिका० । “यो न यातयते वैरमल्पस-
त्त्वोद्यमः पुमान् । अफलं जन्म तस्याहं मन्ये दुर्जात-
जायिनः” भा० व० ३५ अ० “दुष्कुलेयस्तथा मूढो
दुर्जातः शक्र! दृश्यते” भा० शा० ८१३० श्लो०

दुर्जाति त्रि० दुःस्थिता जातिरस्य प्रा० व० । निन्दितवंश्ये

“दुर्जातेः सूतपुत्रस्य शकुनेः । सौबलस्य च” भा० उ० ४८
अ० । दुःस्थिता जातिर्जन्म यस्य प्रा० ब० । २ निन्दितजनिके
त्रि० “रुदितशरणा दुर्जातीनां सहस्व रुषां फलम्”
अमरुश० दुष्टा जातिः प्रा० स० । ३ दुष्टायां जातौ तत्र भवः
छ । दुर्जातीय दुष्टजातिभवे । “दुर्जातयेन येन त्वमी-
दृशोजनितः सुतः” हरिवं० ८० अ०

दुर्जीव त्रि० दुःस्थितो जीवो जीवनोपायो यस्य प्रा० ब० ।

१ परभक्ताद्युपजीविनि । “यथा च मन्ये दुर्जीवमेवं न
सुकरं ध्रुवम्” रामा० २५६ अ० । दुर् + जीव--भावे खल् ।
२ निन्दितजीवने न० “सुजीवं नित्यशस्तस्य यः परैरु-
पजीव्यते । राम! तस्य तु दुर्जीवं यः परानुपजीवति”
रामा०२ । १०५ । ५ दुःखं जीवति दुर् + जीव--अच् ।
३ परायत्ततया जीविनि त्रि० “सर्वं परवशं दुःखमिति”
मनूक्तेः जीवनस्य पराधीनत्वे दुःखहेतुत्वात् तज्जीवनस्य
तथात्वदुक्तः ।

दुर्ज्ञेय त्रि० दुःखेन ज्ञायते ज्ञा + कर्मणि यत् । ज्ञातुमशक्ये

दुःखेन ज्ञेये “उच्चावचेषु भूतेषु दुर्ज्ञेयामकृतात्मभिः” मनुः ।

दुर्ण(र्न)य पु० दुष्टो नयः प्रा० स० णत्वम् । १ दुष्टायां नीतौ

दुःस्थिती नयोऽस्य प्रा० ब० । २ तद्युते त्रि० । “क्षन्तव्योमम
वृद्धस्य दुर्णयस्य फलोदयः” हरिवं० ५१० अ० अत्राणत्व-
मेव न्याय्यम् पूर्वपदात् संज्ञायामेव णत्वविधानात् दुर् +
नी--अचि तु अणत्वमेव णत्वविधौ दुरः प्रतिषेधात् ।

दुर्णश त्रि० दुःखेन नश्यति दुर् + नश--अच् वेदे णत्वम् ।

कृच्छ्रेण नष्टे “परएकेन दुर्णशं चिदर्वाक्” अथ० ५ ।
११ । ७ लोके तु दुर्नय इत्येवाणत्वयुक्तः ।

दु(र्णा)र्नामन् स्त्री दुःस्थितं नामास्य पूर्वपदात् संज्ञायां णत्वे

प्राप्ते क्षुभ्नादेराकृतिगणत्वात् न णत्वमित्येके बेदे तु
णत्वमध्यपाठो दृश्यते । दीर्घकोषिकायां (झिनुक) ख्याते
१ पदार्थे अमरः २ अर्शोरोगे च राजनि० तद्रोगस्यातिपा-
तकशेषत्वादकीर्तनीयत्वेन निन्दितत्वात् तथात्वम् “अमी
वा यस्ते गर्भं दुर्णामा योनिमाशये” ऋ० १० । १६२ । १ ।
“कृणोम्यस्मै भेषजं बजं दुर्णामचातनम्” । “दुर्णामा
च सुनामा चोभा संवृतमिच्छतः” अथ० ८ । ६ । ३ । वा डाप्
दुर्नामा उपधालोपित्वात् पक्षे ङीप् उपधालोपे दुर्नाम्नी

दुर्दम त्रि० दुःखेन दम्यतेऽसौ दुर् + दम--कर्मणि ण्वुल् ।

दमयितुमशक्ये “सकृत्पाशावकीर्णास्ते न भविष्यन्ति
दुर्द्रमाः” भा० शा० ८८ अ० । २ रोहिणीगर्भजाते वसुदेवात्मजभेदे
पृष्ठ ३६३८
“पौरवी रोहिणी नाम याह्लीकस्यात्मजाऽभवत् । ज्येष्ठा
पत्नी महाराज! दयितानकदुन्दुभेः । लेभे ज्येष्ठं
सुतं रामं शारणं शठमेव च । दुर्दमं दमनं श्वभ्रं
पिण्डारकमुशीनरम् । चित्रां नाम कुमारीञ्च रोहिणी-
तनयान् दश” हरिवं० ३६ अ०

दुर्दमन त्रि० दुःखेन दम्यतेऽसौ बा० युच् दुःखेन दमन यस्य

वा । १ दुःखेन दमनीये २ जनमेजयवंशजे कलियुगीये
शतानीकात्मजे नृपभेदे । “तिमेर्वृहद्रथस्तस्माच्छुतानीकः
सुदासजः । शतानीकाद् दुर्दमनस्तस्यापत्यं महीनरः”
भाग० ९ । २२ । २९

दुर्दर्श त्रि० दुःखेन दृश्यतेऽसौ दुर् + दृश--कर्मणि खल् ।

द्रष्टुमशक्ये दुःखेन दर्शनयोग्ये । “सुदुर्दर्शमिदं रूपं
दृष्टवानसि यन्मम” गीता । “तं दुर्दर्शं गूढमनुप्रविष्टं
गुहापतिं गह्वरेष्ठम् पुराणम्” कठो० वेदे तु दुःखेन
दर्शोदर्शनमस्येयेव वाक्यम् “भाषायां शासियुधिदृशि-
धृषिमृषिभ्यो युच्” पा० भाषायामेव युचो विधानात् ।
भाषायां तु युच् । दुर्दर्शन तत्रार्थे त्रि० “विशेषतश्चात्र
दुर्दर्शनानि परुषाणि” सुश्रु० ।

दुर्दान्त त्रि० दुःखेन दान्तः दमितः दमि--क्त वा नि० ।

दुःखेन दमनीये १ अशान्ते “एनसा युज्यते राजा
दुर्दान्त इति चोच्यते” भा० शा० २४ अ० । २ कलहे ३ वत्स-
तरे च राजनि० ४ शिवे पु० “दीक्षितोऽदीक्षितः क्षान्तो
दुर्दान्तोदान्तनाशनः” भा० शा० २८६ अ० शिवनामोक्तौ

दुर्दिन न० दुःष्टं दिनम् प्रा० स० । १ मेघाच्छन्ने २ दिने अमरः

दिनस्य प्रकाशकत्वेन मेघावरणेन तथात्वाभावात् तस्य
दुष्टत्वम् । “३ घनान्धकारे ४ वृष्टौ च दुर्दिनं कवयो
विदुः” साञ्जः । “दिनस्य अहोरात्रपरत्वेन च रात्रे-
रपि दुर्दिनशब्दवाच्यता । तत्र घनान्धकारे “अनभि-
ज्ञास्तमिस्राणां दुर्दिनेष्वभिसारिकाः” कुमा० वर्षणे
“द्विषां विषह्य काकुत्स्थः तत्र नाराचदुर्दिनम्” ।
“न प्रसेहे निरुद्धार्कमधारावर्षदुर्दिनम्” रघुः ५ दुष्टे
दिनमात्रे “यदच्युतकथालापरसपीयूषवर्जितम् । तद्दिनं
दुर्दिनं प्रोक्तं मेथाच्छन्नं न दुर्दिनम्” शब्दार्थचि० धृतम् ।

दुर्दुरूट त्रि० दुर् + दुल--उत्क्षेपणे कूट पृषो० णिलोपः लस्य

रः । १ नास्तिके जटा० “कुत्सितानि कुत्सनैः” पा० अस्य
समासे परनिपातः मीमांसदुर्दुरूटः नास्तिकमीमांसक
इत्यर्थः तस्येश्वरप्रतिषेधेन नास्तिकत्वात् निन्दनीय-
त्वेन तद्वाचकशब्दस्य परनिपातः ।

दुर्दृशीक न० दुर् + दृश--बा० कर्मणि ईकक् । दुर्दर्शनीये विषे

“अजकायं सुदुर्दृशीकं तिरोदधे” ऋ०७ । ५० । २
“सुदुर्दृशीकं सुदुर्दर्शनम् विषम्” भा० ।

दुर्दृष्ट त्रि० दुष्टं दृष्टम् । रागादिदोषेण दृष्टे “दुर्दृष्टांस्तु

पुनर्दृष्ट्वा व्यवहारान् नृपेण तु । सभ्याः सजयिनो
दण्ड्या विवादाद्द्विगुणन्दमम्” याज्ञ० “दुर्दृष्टान् स्मृ-
त्याचारप्राप्त घर्मोल्लङ्घनेन रागलोभादिभिरसम्यग्घिचारि-
तत्वेनाशङ्क्यमानान् व्यवहारान् पुनः स्वयं सम्यक् विचार्य
निश्चितदोषाः पूर्वसभ्याः जयिसहिताः प्रत्येकं विवादे
यो दमः पराजितस्य तं द्विगुणन्दाप्याः । अप्राप्तजेतृ
दण्डविधिपरत्वाद्वचनस्य रागाल्लोभादित्यादिश्लोकेन
अपौनरुक्तम् । यदा पुनः साक्षिदोषेण व्यवहारस्य
दुर्दृष्टता तदा साक्षिण एव दण्ड्याः न जयी नापि सभ्याः
यदा तु राजानुमत्या व्यवहारस्य दुर्दृष्टत्वन्तदासर्व एव
राजसहिताः सभ्यादयो दण्डनीयाः । “पादो
गच्छति कर्तरि पादः साक्षिणमृच्छति । पादः
सभासदः सर्वान् पादो राजानमृच्छति” इति वचनात् । एतच्च
प्रत्येकं राजादीनां दोषप्रतिपादनम् न पुनरेकस्यैव
पापापूर्वस्य विभागाय, यथोक्तम् “कर्तृसमवायिफल-
जननस्वभावत्वादपूर्वस्य” मिता० ।

दुर्दैव न० दुष्टं दैवम् । दुरदृष्टे दुर्भाग्ये पापे

दुर्द्यूत न० दुष्टं द्यूतम् प्रा० स० । १ कपटद्यूतक्रीडायाम् । “भ्रातरं

च विगर्हंश्च ज्येष्ठं दुर्द्यूतदेविनम्” भा० व० ८० अ० “अहं
हि तावत् सर्वेषां तेषां दुर्द्यूतदेविनाम्” भा० आश्र० ८ अ०

दुर्द्रिता स्त्री खण्डितलताभेदे जटा०

दुर्द्रुम पु० दुष्टो द्रुमः प्रा० स० । पलाण्डौ राजनि०

दुर्द्धर त्रि० दुःखेन धार्यते दुर् + धृ--कर्मणि खल् । १ नरकभेदे

२ ऋषभौषधौ मेदि० ३ पारदे ४ भल्लातके राजनि० “दुर्द्धरं
दुर्मुखञ्चैभौ शरैर्निन्ये यमक्षयम्” देवीमा० उक्ते ५ महिषा-
सुरसेनापतिभेदे पु० । ६ परमेश्वरे पु० “दर्पहा दर्पदो दृप्तो
दुर्द्धरोऽन्यापराजितः” विष्णु० सं० “न शक्यधारणा यस्य
प्रणिधानादिषु सर्वोपाधिनिर्मुक्तत्वात्तथापि तत्प्रसादतः
कैश्चित् दुःखेन हृदये धार्यते जन्मान्तरसहस्रेषु भावना
योगात् तस्माद्दुर्द्धरः “क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचे
तसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते”
भगवद्वचनात्” भा० । “सुभुजो दुर्द्धरो वाग्मी” विष्णुसं० अस्य
चान्या व्युत्पत्तिः भाष्ये दर्शिता यथा “पृथिव्यादीन्यपि
लोकधारकाण्यन्यैर्द्धारयितुमशक्यानि धारयन्न केनापि
पृष्ठ ३६३९
धारयितुं शक्यत इति दुर्द्धरः । दुःखेन ध्यानसमये मुमु-
क्षुभिर्हृदये धार्यत इति वा दुर्द्धरः” भा० । तेन व्युत्पत्ति-
भेदान्नामभेदोपपत्तेः सहस्रसंख्यापूर्त्तिर्द्रष्टव्या । “वन्ये-
भदानानिलगन्घदुर्द्धरा” माघः । “दण्डो हि सुमह-
त्तेजो दुर्द्धरश्चाकृतात्मभिः” रघुः ।

दुर्द्धरीतु पु० दुर् + धृ--बा० कर्मणि ईतुन् । दुर्द्धरणीये ।

“अग्निमीले भुजां यविष्ठं शासा मित्रं दुर्द्धरीतुम्”
ऋ०१० । २० । २ “दुद्धरीतुम् दुर्द्धरणीयम्” भा०

दुर्द्धर्म त्रि० दुःस्थितो धर्मो यस्य प्रा० ब० समासान्तविधेरनित्य-

त्वात् आर्षे न क्वचित् अनिच्समा० । दुंष्टधर्मयुक्ते
“कर्कोटकान् वीरकांश्च दुर्द्धर्मांश्च विवर्जयेत्” भा० क०
४४ अ० । लोके तु अनिच्समा० । दुर्द्धर्मन् इत्येव
तत्रार्थे

दुर्द्धर्ष त्रि० दुःखेन धृष्यतेऽसौ दुर् + धृष--कर्मणि खल् ।

१ धर्षयितुयशक्ये दुःखेन धर्षणीये “संशितात्मा सुदुर्द्धर्ष
उग्रे तपसि वर्तते” भा० आ० ७१ अ० भाषायां तु युच्
दुर्द्धर्षण तत्रार्थे त्रि० “सहि दुर्द्धर्षणो वाली नित्यं
समरकर्मसु” रामा० कि० ५५ श्लो० २ राजभेदे विन्दानुविन्दौ
दुर्द्धर्षः सुबाहुः दुष्प्रधर्षणः” भा० आ० ६७ अ०

दुर्द्धा स्त्री दुर् + धा--भावे अ । दुष्टधाने । “दुर्घां दधाति

परमे व्योमन्” ऋ० १० । १०९ । ४ “दुर्धां दुर्धानम्” भा०
व्योमन् व्योम्नि सप्तम्या लुकि न नलोपः ।

दुर्धाव त्रि० दुर् + धाव--खल् । दुःशोधनीये ।

दुर्द्धित त्रि० दुर् + षा--कर्मणि क्त वेदे न धाञो हिः । दुष्टं

स्थापिते “इदमग्रे सुधितं दुर्धितादधि” ऋ०१ । १४० । ११
“दुर्द्धितात् दुष्टं स्थापितात्” भा० लोके तु दुर्हित
इत्येव तदर्थे त्रि० ।

दुर्द्धी त्रि० दुःस्थिता धीर्यस्य प्रा० ब० । १ दुष्टबुद्धियुक्ते “अनु-

त्थानवता चापि दुर्विनीतेन दुर्द्धिया” भा० उ० १३४ अ०
अत्र “गतिकारकेतरपूर्वस्य यण् नेष्यते” वार्त्ति० न यण् ।
“प्रादिभ्यी धातुजस्य वा चोत्तरपदलोपः” वार्त्ति० दुःस्थि-
तशब्दस्य उत्तपदलोपे दुरित्यस्य धीशब्दं प्रति गतित्वं
नास्ति किन्तु लुप्तस्थितशब्दं प्रति, अतोऽस्य गतिपूर्वक-
त्वाभावात् न यण् इति बोध्यम् । दुष्टं ध्यायति दुर् +
ध्यै--क्विपि दुर्द्धीशब्दस्य गतिपूर्वकत्वात् यण् दुर्द्ध्या
इत्यादि । अत्र संयोगपूर्वकत्वेऽपि धात्ववयवसंयोग-
पूर्वकत्वाभावात् न इयङः प्रवृत्तिरिति बोध्यम् ।

दुर्द्धुर् त्रि० दुर् + धुर्व--हिंसने कर्मणि क्विप् । दुःखेन हिंस्ये

“वृथा गावो न दुर्धुरः” ऋ० ५ । ५६ । ४ “दुर्धुरो दुःखेन
हिंस्याः” भा०

दुर्द्धुरूट त्रि० दुर् + धुर्व--ऊट पृषो० । युक्तिं विना गुरुवाक्य

ममन्यमाने “मीमांसकदुर्धुरूट इति पाठान्तरे तत्त्वबोधनी
दुर्धुरूढ इति च तत्र पाठान्तरे दुष्टकर्मकर्त्तरि रूटोऽयं
शब्द इत्यन्ये ।

दुर्नय पु० दुर + नी--अच् । १ नीतिविरुद्धाचरणे दुश्चेष्टायां

“अम्बिके! तव पौत्रस्य दुर्नयात् किल भारताः । सानु-
बन्धा विनङ्क्ष्यन्ति” भा० आ० १२८ अ० “संचिन्त्य दुर्नयं
घोरं सुतानां द्यूतजन्म यत्” भा० व० ५१० अ० ।

दुर्नामक पु० दुष्टं नामास्य कप् । अर्शोरोगे अमरः ।

दुर्नामारि पु० ६ त० । अर्शोघ्ने शूरणे राजनि० ।

दुर्निमित त्रि० दुर् + नि + मि--क्षेपणे क्त । दुष्टं क्षिप्ते

सम्भ्रमादुत्क्षिप्ते “पदे पदे दुर्निमिता गलन्ती” कुमा०

दुर्निमित्त न० दुष्टं निमित्तम् प्रा० स० । भाविरिष्टसूचके

शकुनभेदे “दृष्ट्वा तु दुर्निमित्तानि जरासन्धमदर्शयन्”
भा० स० २० अ० ।

दुर्नियन्तु त्रि० दुर् + नि--यम--तुन् । दुःखेन नियन्तव्ये ।

“सूर्यस्येव रश्मयो दुर्नियन्तवो हस्तयोर्दुर्नियन्तवः” ऋ०
१ । १३५ । ९ “दुर्नियन्तवः दुःखेन नियन्तव्याः” भा०

दुर्निष्प्रपतर न० दुःखेन निष्प्रपतति दुर् + निर् + प्र +

पतअच् । अतिशयेन तत् तरप् वेदे तकारलीपः । दुःखेन
निष्क्रान्ततरे । “अतो वै खलु दुर्निष्प्रपतरं भवति” छा०
उ० । “दुर्निष्प्रतरमिति तकारएको लुप्तो द्रष्टव्यः” भा० ।

दुर्नीत न० दुर् + नी--भावे क्त । नीतिविरुद्धाचरणे “यस्य

प्रसादाद् दुर्नीतं प्राप्तास्मि भरतर्षभ!” भा० वि० २० अ०
दुर् + नी--र्कर्तरि क्त । २ तद्यक्ते त्रि० । भावे क्तिन् ।
दुर्नीति दुष्टे नये स्त्री ।

दुर्बद्ध त्रि० दुष्टं बद्धः । यथादेशाबन्धनात् दुष्टतया बद्धे ।

“दुर्बद्धेनानुभिन्ने च विज्ञेयं भिन्ननेत्रवत्” सुश्रु० ।

दुर्बल त्रि० दुःस्थितं बलमस्य प्रा० ब० । स्वल्पवलान्विते “शूले

मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तरान्” “योऽधार्यो
दुर्बलेन्द्रियैः” मनुः “तक्रं नैव क्षते दद्यात् नोष्णकाले
न दुर्बले” सुश्रु० । २ कृशे ३ शिथिले च “स्वार्थोपपत्तिं प्रति
दुर्बलाशः” रघुः । दुस्थितं बलं यस्याः प्रा० ५ ब० । ४ अम्बु
शिरीषिकायां स्थी भावप्र० । दुर्बलस्य भावः ष्यञ् । दौर्बल्य
न०, तल् दुर्बलता स्त्री । त्व दुर्बलत्व न० स्वल्पबलत्वे
पृष्ठ ३६४०

दुर्बाल त्रि० दुष्टो बालोऽस्य । १ दुश्चर्मरोगयुक्ते २ खलतौ

३ कुटिलकेशे च मेधातिथिः “जटिलञ्चानधीयानं दुर्बालं
कितवं तथा” मनुव्याख्याने तथार्थत्रयस्य तेनोक्तत्वात् ।

दुर्बीरण न० दुष्टं बीरणम् प्रा० स० । दुष्टे वीरणे तृणभेदे

“श्मश्रूण्यौपपक्ष्याणि दुर्वीरणानि जायन्ते” शत० ब्रा०
११ । ४ । १ । ६ “दुर्वीरणानि दुष्टवीरणानीवेति” लुप्तोपमा भा०

दुर्बोध त्रि० दुःखेन बुध्यते दुर् + बुध--कर्मणि खल् । बोद्धु-

मशक्ये दुःखेन ज्ञेये “अतिदुर्बोधगिरः शिरोमणेः”
गदाधरः “निसर्गदुर्बोधमबोधविक्लवाः” किरा०

दुर्ब्राह्मण पु० दुष्टो ब्राह्मणः प्रा० स० । “यस्य वेदश्च वेदी च

उत्सन्ना च त्रिपौरुषी । स वै दुर्ब्राह्मणो ज्ञेयः, इति
धूर्त्तस्वामिनोक्ते निन्दितब्राह्मणभेदे तस्य आवश्यकवेद
पाठविहितहोमयोस्त्रिपुरुषमुत्सन्नत्वात् दुष्टत्वम् । “प्रवृ-
ञ्ज्याद्दुर्व्राह्मणस्य व्रह्मवर्चसकामस्य” आपस्तम्बः “यो
दुर्ब्राह्मणः सोमं पिपासति” तैत्ति० स० २ । १ । १० । १

दुर्भग त्रि० दुःस्थितो भगो भाग्यमस्य प्रा० ब० । दुष्टभाग्यान्विते

“दुर्भगोऽयं जनस्तत्र किमर्थमनुशब्दितः” हरिवं० १२६ अ०
पतिस्नेहशून्यायां (दुया) ख्यातायां २ स्त्रियां स्त्री
“कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत” भा० आ० १६९
अ० । प्रियादिषु पाठात् एतस्मिन् परे पूर्वस्थितस्त्रीलिङ्ग-
शब्दस्य कर्मधारये न पुंवद्भावः ।

दुर्भाग्य न० दुष्टं भाग्यम् प्रा० स० । १ दुरदृष्टे पापे । दुःस्थितं

भाग्यमस्य प्रा० व० । २ दुष्टभाग्यान्विते त्रि०

दुर्भिक्ष अव्य० भिक्षायाः अभावः । १ भिक्षाया अभावे । दुर्लभा

भिक्षा यत्र प्रा० ब० । यद्देशे यानि शस्यानि जायन्ते
तद्देशे तद्द्रव्यस्यानुत्पत्त्या २ तद्द्रव्यालाभसमयभेदे न०
तत्समयभेदसूचकाश्च षष्टिसंवत्सरान्तर्गता वर्षभेदाः ज्योति०
त० भविष्यपु० उक्ताः संगृह्य दर्श्यन्ते यथा
“राष्ट्रभङ्गश्च दुर्भिक्षं तस्करैरुपपीडनम् । जानी-
याद्विग्रहं घोरं प्रमाथिनि १३ वरानने! । “दुर्भिक्षं
जायते घोरं सर्वोपद्रवसंयुतम् । अनावृष्टिः समाख्याता
व्यये २० संवत्सरे प्रिये!” । “क्वचिद्वर्षति पर्जन्यो देशे
संछिन्नमण्डलः । दुर्भिक्षं सर्वरीवर्षे ३४ व्यवहारे
विपर्ययः” । “दुर्भिक्षं जायते सर्वा मेदिनी दुष्यति
प्रिये! । प्लवे ३५ प्लवन्ति तोयानि पीडिता मानवा भुवि” ।
“दुर्भिक्षं जायते घोरं धान्यौषधिप्रपीडनम् । अनले ५०
च समाख्याता नात्र कार्य्या विचारणा” । “देशभङ्गः
सुदुर्भिक्षं समासात् कथयाम्यहम् । पिङ्गले ५१ चारु
पद्माक्षि! दुर्भिक्षं नर्मदातटे” । “दुर्दिक्षं मध्यमं प्रोक्तं
व्यवहारो न वर्तते । भवेद्वै मध्यमा वृष्टिर्दुर्मतौ ५५
समुपस्थिते” । “दुर्भिक्षं मरणं घोरं धान्यौप्रधिप्रपीड-
नम् । पापरोगो भवेद्देवि! रक्ताक्षे ५८ ऽमरवन्दनि”! ।
“रोगो मरणदुर्भिक्षं विरोधोपद्रवाकुलम् । क्रोधे ५९ तु
विषमं सर्वं समाख्यातं हरपिये!” । ५९ “मेदिनी
चलते देवि! सर्तभूतं चराचरम् । देशभङ्गश्च दुर्भिक्ष
क्षये संक्षोयते प्रजाः । सौराष्ट्रे मालवे देशे दक्षिणे
कोङ्कणे तथा । दुर्भिक्षं जायते घोरं क्षये६० संवत्सरे
प्रिये!” । क्वचिदद्भुतोत्पातेऽपि दुर्भिक्षं भवति यथा
“मांसास्थिनी समादाय श्मशानाद् गृध्रवायसाः ।
श्वा शृगालोऽथ वा मध्ये पुरस्य प्रविशन्ति चेत् । विकि
रन्ति गृहादौ च श्मशानं सा मही भवेत् । चौरेण
हन्यते लोकः परचक्रसमागमः । सग्रामश्च महा
घोरो दुर्भिक्षं मरकस्तथा । अद्भतानि प्रसूयन्ते तत्र
देशस्य विद्रवः । अकाले फलपुष्पाणि देशविद्रवकारणम्”
इति ज्योत० त० । तत्र कालेऽशौचिभ्यो भिक्षाग्रहणे
दोषाभाव इति हारलताप्रभृतयः । कौर्मे “सद्यः-
शौचं समाख्यातं दुर्भिक्षे चाप्युपप्लवे । डिम्बाहवे
हतानाञ्च विद्युता पार्थिवैर्द्विजैः । सद्यः शौचं
समाख्यातं शापादिमरणे तथा” इति शु० त० “दुर्भिक्षयुक्तराष्ट्रे
च मृतके सूतकेऽपि वा । नियमाश्च न दुष्यन्ति दानधर्म-
रतेष्वपि । दीक्षिताश्चाभिषिक्ताश्च व्रततीर्थपरास्तथा ।
दीक्षाकाले विवाहादौ देवद्रोण्यां निमन्त्रिते । पूर्वसङ्क-
ल्पिते चापि नाशौच मृतसूतके” इति गारुड़े २२६ अ०
“शकटः शाकिनी गावो जालमास्कन्दनं वनम् । अनूपः
पर्वतो राजा दुर्भिक्षे नव वृत्तयः” चाणक्याः “द्वाविमौ
पुरुषौ लोके सूर्यमण्डलभेदिनौ । दातान्नस्य तु दुर्भिक्षे
सुभिक्षे वस्त्रहेमदः” । “एकग्रामे चतुःसाले दुर्भिक्षे राष्ट्र
विप्लवे । पतिना नीयमानायाः पुरःशुक्रो न दुष्यति”
ज्यो० त० ।

दुर्भिद त्रि० दुःखेन भिदाते दुर् + भिद--कर्मणि घञर्थे क ।

दुर्भेद्ये भेत्तुमशक्ये “गिरिमासाद्य दुर्भिदम्” भा०
द्रो० ३५ अ० । खल् । द्रुर्भेद तत्रार्थे त्रि० ण्यत् । दुर्भेद्य
तत्रार्थे त्रि ।

दुर्भिषज्य त्रि० दुर् + भिषज्--कण्ड्वा० यक् कमणि ण्यत्

यलोपः । १ दुःखेन चिकित्स्ये । भावे ण्यत् । दुःखेन
२ चिकित्सायाम् “दर्भिषज्यं चास्मै भवति यमेष न प्रति-
पद्यते” वृ० उ० “तमिन्द्रियद्वारदेशं यस्माद्देशाच्छुक्रमादाय
पृष्ठ ३६४१
प्रसूतस्तमिन्द्रियदेशमेष आत्मा पुनर्न प्रतिपद्यते ।
कदाचिद् व्यत्यामेनेन्द्रियमात्राः प्रवेशयति । तत आन्ध्य-
बाधिर्यादिदोषप्राप्तौ दुर्भिषज्यं दुःखभिषक्कर्मता हास्मै
देहाय भवति दुःखेन चिकित्सनीयोऽसौ भवतीत्यर्थः” भा०

दुर्भृत्य पु० दुष्टोऽसन् भृत्यः । भृत्यशब्दे वक्ष्यमाणभृत्य-

गुणविहीने निन्द्ये भृत्ये तत्स्वरूपं शुक्रनीतिशास्त्र-
परिशिष्टे २ अ० उक्तं यथा
“विपरीतगुणैरेभिर्भृतकोनिन्द्य उच्यते । ये भृत्या-
हीनभृतिका ये दण्डेन प्रकर्शिताः । शठाश्च कातरा
लुब्धाः समक्षेऽप्रियवादिनः । मनोव्यसनिनश्चार्त्ता
उत्कोचेष्टाश्च देविनः । नास्तिकादाम्भिकाश्चैव सत्यवा-
चोऽप्यसूयकाः । ये चापमानिता येऽसद्वाक्यैर्मर्मणि
भेदिताः । रिपोर्मित्रसेवकाश्च पूर्ववैरानुबन्धिनः ।
चण्डाः साहसिका धर्महीना नैते सुसेवकाः । नीचो
विवर्द्धितो राज्ञा राज्यनाशाय संभवेत् । वीर्य्याधिको
नीचकुली दुःसङ्गेन समेधितः । महाजनैः स्पर्द्ध-
मानो हन्ति राष्ट्रं सराजकम् । सदर्थवदनर्थं तु सदर्थं
त्वप्यनर्थवत् । कृत्वा स्ववुद्धिमाहात्म्यात् महान्त-
मपि निन्दति । वञ्चयित्वान्यसर्वस्वं विश्वामेनाह-
रत्यलम् । स नीचस्तुद्गुणान् वक्तुं ब्रह्मापि खलु
कातरः । संक्षेपतस्तु कथितं सदसद्भृत्यलक्षणम्” ।

दुर्भ्रातृ पु० दुष्टो भ्राता प्रा० म० । दुष्टे भ्रातरि “दुर्भ्रातु-

स्तस्य चोग्रस्य राजन्! दुःशासनस्य च” भा० व० २७ अ०
तस्य भावः युवा० अण् । दौर्भ्रात्र तद्भावे न०

दुर्मति स्त्री दुष्टा मतिः । विवेकोत्पत्तिप्रतिबन्धकपापेन

१ मलिनबुद्धौ “निषीदन्नो अपदुर्मतिं जहि” यजु० ११ ।
४७ । “देवीरपां मतिं दुर्मतिं बाधमानाः” १७ । ५४
दुःस्थिता मतिर्यस्य प्रा० ६ ब० । २ तद्युक्ते त्रि० “न साम्प
रायिकं तस्य दुर्मतेर्विद्यते फलम्” मनुः दुःस्था
मतिरत्र प्रा० ७ त० । षष्टिवर्षमध्ये ३ वत्सरभेदे “दुर्भिक्षं मध्यमं
प्रोक्तं व्यवहारो न वर्त्तते । भवेद्वै मध्यमा वृष्टि-
र्दुर्मतौ ५५ समुपस्थिते” ज्योति० त० भवि० पु०

दुर्मद त्रि० दुरुत्थितो मदो यस्य प्रा० ब० । उन्मत्ते “दुर्मदं

गन्धर्वाप्सरोभ्यः” यजु० ३० । ८ । “कुमारान् क्नीडमानां-
स्तान् दृष्ट्वा राजा च दुर्मदान्” भा० आ० १२९ अ० । २
धृतराष्ट्रपुत्रभेदे “दुर्मदो दुःप्रधर्षश्च विवित्सुर्विकटाननः”
भा० आ० ६७ अ० तत्पुत्रोक्तौ ।

दुर्मनस् त्रि० दुष्टं मनः प्रा० स० । २ दुष्टे मनसि “प्राप्य

दुर्मनसा वीर! गर्वेण च विशेषतः” रामा० अयो० ३१ । २०
दुःस्थितं मनोऽस्य प्रा० ब० । २ दुःस्थितमनस्के ३ व्याकु-
लचित्ते त्रि० “नापैति हृदयाद्राज्ञो दुर्मनाः स कृशोऽ-
भवत्” भा० आ०१६६ अ० ततो भृशा० च्व्यर्थे क्यङ्
सलोपश्च दुर्मनायते ।

दुर्मन्तु त्रि० दुर् + मन--तुन् । दुष्टं मन्यमाने “दुर्मन्त्वत्रामृतस्य नाम” ऋ० १० । १२ । ६ ।

दुर्मन्त्रित त्रि० दुर् + मन्त्र--क्त । १ दुष्टं मन्त्रिते मन्त्रणाविषये

“त्वया दुर्मन्त्रितं द्यूतं सौबलेन च भारत!” भा० उ० १२७
अ० । भावे क्त । २ दुष्टमन्त्रणायां न० पराभवो द्वैत बने
य आसीत् दुर्मन्त्रिते घोषयात्रागतानाम्” भा० उ० ११७ अ०

दुर्मन्त्रिन् पु० दुष्टो मन्त्री प्रा० स० । मन्त्रिलक्षणगुण-

रहिते दुष्टे मन्त्रिणि । मन्त्रिलक्षणञ्च अमात्यशब्दे
३३१ पृ० उक्तम् । तद्वैपरीत्ये मन्त्रिणो दुष्टत्वम् ।
“सन्तापयन्ति कमपथ्यभुजं न रोगाः दुर्मन्त्रिणं कमुप-
यान्ति न नीतिदोषाः” पञ्चत०

दुर्मर त्रि० दुष्टो मरोमृत्युः प्रा० स० । १ दुष्टे मृत्यौ दुःखेन

म्रियते दुर + मृ--अच् । २ श्वेतदूर्वायाम् स्त्री राजनि० ।
३ दूर्वायां स्त्री जटाध० दुःखेन मरो मरणं यस्य ।
४ दुःखेन मृत्युयुक्ते त्रि० “दुर्मरत्वमहं मन्ये नृणां
कृच्छ्रेऽपि वर्तताम् । यत्र कर्णं हतं श्रुत्वा नात्यजत्
जीवितं नृपः” भा० क० १ अ० । ल्युट् । दुर्मरणमप्यत्र ।
सरणस्य दुष्टत्वं चण्डालादिहतत्वादिना भवति यथोक्तं
नि० सि०
अङ्गिराः “चण्डालादुदकात्सर्पाद्ब्राह्मणाद्वैद्युतादपि ।
दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मणाम् । उदकं पिण्ड-
दानं च प्रेतेभ्यो यत्प्रदीयते । नोपतिष्ठति तत्सर्वमन्त-
रिक्षे विनश्यति” । षट्त्रिंशन्मतेष्वेवम् ब्राह्मेपि, “शृङ्गि-
दंष्ट्रिनखंव्यालविषवह्निक्रियाजलैः” । व्यालोगजः । “सुदूरा-
त्परिहर्तव्यः कुर्वन् क्रीड़ां मृतस्तु यः । नागानां विप्रियं
कुर्वन् हतश्चाप्यथ विद्युता । निगृहीतः स्वयं राज्ञा
चौर्य्यदौषेण कुत्रचित् । परदारान् हरन्तश्च द्वेषात्तु
पतिभिर्हताः । असमानैश्च सङ्कीर्णैश्चण्डालाद्यैश्च
विग्रहम् । कृत्वा तैर्निहतास्तद्वच्चण्डालादीन् समाश्रिताः ।
शस्त्राग्निगरदाश्चैव पाखण्डा क्रूरबुद्धयः । क्रोधात्-
प्रायं विषं वह्निं शस्त्रमुद्बन्धनं जलम् । गिरिवृक्षप्रपातं
च ये कुर्वन्ति नराधमाः । कुशल्यजीविनो ये च सूना-
लङ्कारधारिणः । मुखे भगास्तु ये केचित् क्लीवप्राया
नपुंसकाः । ब्रह्मदण्डहता ये च ये चापि ब्राह्मणै-
पृष्ठ ३६४२
र्हताः । महापातकिनो ये च पतितास्ते प्रकीर्तिताः ।
पतितानां न दाहः स्यान्नान्त्येष्टिर्नास्थिसञ्चयः । न
चाश्रुपातः पिण्डो वा कार्यं श्राद्धादिकं क्वचित् ।
एतानि पतितानां तु यः करोति विमोहितः । तप्त-
कृच्छ्रद्वयेनैव तस्य शुद्धिर्न चान्यथा” ।
तत्र दुर्मरणनिमित्तं दानादि तत्रोक्तं यथा
“तत्र दुर्मरणनिमित्तं दानादिकार्यं तच्च विश्वप्रकाशादौ
दर्शितं यथा
शातातपीये च “व्याघ्रेण निहते विप्रैर्विप्रकन्यां
विवाहयेत् । सर्पदष्टे नागबलिर्ज्ञेयः सपश्च काञ्चनः ।
चतुर्निष्कमितं हैमं गजं दद्याद्गजेर्हते । राज्ञा विनिहते
दद्यात् पुरुषं तु हिरण्मंयम् । चौरेण निहते धेनुं
वैरिणा निहते वृषम् । वृषेण निहते दद्याद्यथा शक्त्या
तु काञ्चनम् । शय्यामृते प्रदातव्या शय्या तूलीसमन्विता ।
निष्कमात्रसुवर्णस्य विष्णुना समधिष्ठिता । शौचहीने
मृते चैव द्विनिष्कं स्वर्णजं हरिम् । संस्कारहीने च
मृते कुमारमुपनाययेत् । निष्कत्रयस्वर्णमितं दद्यादश्वं
हयाहते । शुना हते क्षेत्रपालं स्थापयेन्निजशक्तितः ।
सूकरेण हते दद्यान्महिषं दक्षिणान्वितम् । कृमिभिश्च
मृते दद्याद्गोधूमान् पञ्चखारिकाः । वृक्षं वृक्षहते
दद्यात्सौवर्णं वस्त्रसंयुतम् । शकटेन हते दद्याद्द्रव्यं
सोपस्करान्वितम् । भृगुपातमृते चैव प्रदद्याद्धान्यपर्वतम् ।
अग्निना निहते कार्यमुदपानं स्वशक्तितः । दारुणा
निहते चैव कर्तव्या सदने सभा । शस्त्रेण निहते दद्या-
न्महिषीं दक्षिणान्विताम् । अश्मना निहते दद्यात्सवत्सां
गां पयस्विनीम् । विषेण च मृते दद्यान्मेदिनीं
हेमनिर्मिताम् । उद्बन्धनेन च मृते कपिं कनकनिर्मितम् ।
मृते जलेन वरुणं हैमं दद्याद्द्विनिष्कजम् । विषूचिका-
मृते स्वादु भोजयेच्च शतं द्विजान् । घृतधेनुः प्रदातव्या
कण्ठान्नकबले मृते । कासरोगेण च मृते अष्टकृच्छ्रं
व्रतं चरेत् । अतिसारमृते लक्षं गायत्र्याः प्रयतो
जपेत् । शाकिन्यादिग्रहग्रस्ते जपेद्रुदं यथोदितम् ।
विद्युत्पातेन निहते विद्यादानं समाचरेत् । अन्तरिक्ष
मृते कार्यं वेदपारायणं तथा । सच्छास्त्रपुस्तकं दद्या-
दस्पृश्यस्पर्शतो मृते । पतिते च मृते कुर्य्यात् प्राजा-
पत्यांस्तु षोड़श । मृते चापत्यरहिते कृच्छ्राणां
नवतिं चरेत् । एवं कृते विधाने तु विदध्यादौर्ध्व-
देहिकम्” । अनन्तभट्टेन तु दुर्मरणप्रकाराश्चतुःषष्टि
प्रकारा उक्तास्ते च तत्कृतान्त्येष्टिपद्धतौ दृश्याः ।

दुर्मर्ष पु० दुःखेन मृष्यते दुर् + मृष--कर्मणि खल् । दुःखेन

मर्षणीये दुःखेन सहनीये “यच्छुश्रूया इमं हवं दुर्मर्षं
चक्रिया उत” ऋ० ८ । ४५ । १८

दुर्मर्षण पु० दुर् + मृष--भाषायां स्वलं बाधित्वा युच् । १

दुःखन सहनीये २ विष्णौ पु० “अजो दुर्मर्षणः शास्ता”
विष्णुसं० मर्षितुं दानवादिभिर्न शक्यते इति दुर्मर्षणः”
भा० ३ धृतराष्ट्रपुत्रभेदे “दुर्भर्षणो विकर्णश्च चित्रसेनो
विविंशतिः” भा० आ० ६३० तत्पुत्रोक्तौ

दुर्म(ल्ली)ल्लिका स्त्री दृश्यकाव्यरूपे उपरूपकभेदे सा० द० यथा

“नाटिका त्रोटकं गोष्ठी सट्टकं नाट्यरासकम् ।
प्रस्थानोल्लाप्यकाव्यानि प्रेङ्क्षणं रासकं तथा ।
सलापकं श्रीगदितं शिल्पकञ्च विलासिका । दुर्मल्लिका
प्रकरणी हल्लीशोभाणिकेति च । अष्टादश प्राहु-
रुपरूपकाणि मनीषिणः । विना विशेषं सर्वेषां लक्ष्म
नाटकवन्मतम्” इत्युद्दिश्य तल्लक्षणमुक्तं यथा
“दुर्मल्ली चतुरङ्का स्यात् कौशिकी भारती तथा । अगर्भा
नागरनरा न्यूननायकभूषिता । त्रिनालिः प्रथमो-
ऽङ्कोऽस्यां विटक्रीडाश्रयो भवेत् । पञ्चनालिर्द्वितीयी-
ऽङ्को विदूषकविलासवान् । षण्णालिकस्तृतीयस्तु पीठ
मर्दविलासवान् । चतुर्थो दशनालिः स्यादङ्कः क्रीड़ित
नायकः । यथा विन्दुमती” ।

दुर्मायु त्रि० दुष्टान्यायुधानि मिन्वन्ति मि--क्षेपे उण् ।

दुष्टायुधक्षेपके “दुर्मायवोदुरेवामर्त्यासः” ऋ०३ । ३० । १५

दुर्मित्र पु० दुष्टं मित्रम् प्रा० स० अमित्रवत् पुंस्त्वम् । विरो-

धिलक्षणया १ अमित्रे शत्रौ । दुःस्थितं मित्रं यस्य ।
२ दुष्टमित्रके त्रि० । “दुर्मित्रासः प्रकलविन् मिमानाः”
ऋ०७ । १८ । १५ स्त्रियां टाप् । दुर्मित्राया अपत्यम् वाह्वा०
इञ् । दौर्मित्रि तदपत्ये पुंस्त्री०

दुर्मित्रिय त्रि० दुर्मित्राय अमित्रत्वाय साधु घ ।

अमित्रत्वेनावस्थिते । “सुमित्रिया न आप ओषधयः सन्तु
दुर्मित्रियास्तस्मै सन्तु” यजु० ६ । २२ । “दुर्मित्रिया अमित्र-
त्वेनावस्थिताः” वेददी०

दुर्मिलका स्त्री मात्रावृत्तप्रभेदे यथा “द्वात्रिंशन्मात्रं

फणिपतिजल्पितसकलविभूषणवृत्तवरम् दशवसुभुवनैर्यतिरत्र
प्रभवति कविकुलहृदयानन्दकरम् । यद्यष्टचतुष्कल
गणनिर्मितपदमिति दुर्मिलकानामपरं नरपतिवरतोषण
वन्दिविभूषणभुवनविदितसन्तापहरम्” ।
पृष्ठ ३६४३

दुर्मुख त्रि० दुस्थं मुखं तद्व्यापारो वाऽस्य प्रा० व० । १ अश्वे

हेमच० । २ वानरभेदे ३ राक्षसभेदे “रक्षःपतिस्तदबलोक्य
निकुम्भकुम्भधूम्राक्षदुर्मुखसुरान्तनरान्तकादीन्” भाग० ९ ।
१० । ८४ नागभेदे मेदि० । “नागश्रेष्ठो दुर्मुखश्चाम्बरीषः
स्ययं राजा वरुणश्चापि राजन्” भा० मौस० ४ अ०
५ महिषासुरसेनानीभेदे “दुर्द्धरं दुर्मुखं चोभौ
शरैर्निन्ये यमक्षयम्” देवीमा० ६ शिवे “नन्दिमुखो
भीममुखः सुमुखोदुर्मुखोऽमुखः” भा० गा० २८६ अ० शिवना-
मोक्तौ । ६ धृतरष्ट्रपुत्रभेदे “दुःसहो दुःशलश्चैव दुर्मुखश्च
तथा परः” भा० आ० ६७ अ० । ७ नृपभेदे । “संग्रामजिद्-
दुर्मुखश्च उग्रसेनश्च वीर्यवान्” भा० स० ४ अ० युधिष्ठिरस-
भागतनृपोक्तौ ९ यक्षभेदे ब्रह्मपु० । १० अप्रियवादिनि त्रि० ।
११ रामस्यान्तःपुरचारिणि चरभेदे “शुद्धान्तचारी दुर्मुखः
स मया पौरजानपदानपसर्पितुं प्रयुक्तः” उत्तररामच० ।
१२ उत्तरद्वारगृहे ६० वर्षमध्ये १३ वर्षभेदे “तुषधान्यक्षयो
देवि! सर्वशस्यमहार्घता । व्यवहाराश्च नश्यन्ति दुर्मुखे
दुर्मुखाः प्रजाः” ज्यो० त० भवि० पु०

दुर्मुहूर्त्त अ० निन्दितो मुहूर्तः प्रा० स० । अप्रशस्ते मुहूर्त्ते

“नक्षत्रेष्वासुरेष्वन्ये दुस्तिथौ दुर्मुहूर्तजाः । संपतन्त्या-
सुरीं योनिं यज्ञप्रसववर्जिताः” भा० शा० १८० अ०

दुर्मूल्य त्रि० दुःस्थितं मूल्यं प्रा० स० । १ दुःस्थिते मूल्ये

२ महार्घे यस्य यन्मूल्यं कॢप्तं तत आधिक्ये मूल्यस्य
दुःस्थितत्वमिति बोध्यम् प्रा० ब० । २ तद्युक्ते त्रि०

दुर्मधस् त्रि० निन्दिता मेघास्य असिच् समा० । १ निन्दितमतौ

विवेकासमर्थे २ घारणवर्जितबुद्धिके “न किञ्चिदुक्त्वा
दुर्मेधास्तस्थौ किञ्चिदवाङ्मुखः” भा० व० १० अ० “प्र-
त्याख्यातोऽपि दुर्मेघाः” २८१ अ० । आर्षे तु
समासान्तविधेरनित्यत्वात् क्वचिन्नासिच् समा० । “त एव वेदा
दुर्मेधैर्धार्यन्ते पुरुषैर्यथा” भाग० १ । ४ । २५ “अश्रद्दधा-
नान् निःसत्वान् दुर्मेधान् ह्रसितायुषः” भाग० १ । ४ । १८

दुर्मोह पु० निन्दितं मुह्यत्यनेन मुह--करणे घञ् । १

काकतुण्ड्यां राजनि० । २ काकादन्यां स्त्री शब्दार्थचि० ।

दुर्य्य पु० दुरं द्वारं याति या--क दुरि द्वारे भवः यत् वा ।

१ गृहे “देवी दुर्ये आयुर्मा” शत० ब्रा० ३ । ५ । ३ । १८
“स्वं गोष्ठ मावदतं देवी! दुर्ये” यजु० ५ । १७ । दुर्यशब्दो
गृहवाची “दुर्या वै गृहाः” इति श्रुतेः वेददी० । द्वारे
भवे२ यूपे च । “निरेके पज्रेषु स्तोमो दुर्य्योन यूपः”
ऋ०१ । ५१ । १४

दुर्यशस् न० निन्दितं यशः प्रा० स० । विरोधिलक्षणया

१ अकीर्त्तौ “त्वदग्रसूचीसचिवः स कामिनोर्मनोभवः
सीव्यति दुर्यशःपटौ” नैष० । दुस्थितं यशोऽस्य प्रा० ब० ।
२ दुष्टयशस्के त्रि०

दुर्योग पु० दुष्टो योगः प्रा० स० । १ दुर्भाग्यसूचके ग्रहयोग-

भेदे २ दुष्टकौशले च “दासीभूतास्मि दुर्योगात् सपत्न्याः
पतगोत्तम!” भा० आ० २७ अ० तस्या दास्ये च सर्पाणां
यथा कौशलभेदः तथा तत्रैवाध्याये दृश्यः ।

दुर्योण न० दुष्टा योनिः स्थानमस्त्यस्य अर्श० अच् संज्ञा-

त्वात् णत्वम् । संग्रामे “नि दुर्योण आवृणङ्मृध्रुवाचः”
ऋ०५ । २९ । १० “दुर्योणः संग्रामः” भा०

दुर्योध पु० दुःखेन युध्यतेऽसौ दुर् + युध--कर्मणि खल् । दुःखेन योधनीये ।

दुर्योधन पु० दुर् + युध--भाषायां युच् । १ धृतराष्ट्रस्य ज्येष्ठे

पुत्रे । “कलेरंशस्तु सञ्जज्ञे भुवि दुर्योधनो नृपः! ।
दुर्बुद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः । जगतो यस्तु
सर्वस्य विद्वेष्टा कलिपूरुषः । यः सर्वां घातयामास
पृथिवीं पृथिवीपते! । उद्दीपितं येन वैरं भूतान्तक-
रणं महत्” भा० आ० ६७ अ० “स जातमात्र एवाथ
धृतराष्ट्रसुतो नृप! । रासभारावसदृशं रुराव च ननाद
च । तं खराः प्रत्यभाषन्त गृध्रगोमायुवायसाः ।
वाताश्च प्रववुश्चापि दिग्दाहश्चाभवत्तदा । ततस्तु
भीतवद्राजा धृतराष्ट्रोऽब्रवीदिदम् । समानीय बहून् विप्रान्
भीष्मं विदुरमेव च । अन्यांश्च सुहृदो राजन्! कुरून्
सर्वांस्तथैव च । युधिष्ठिरो राजपुत्रो ज्येष्ठीनः
कुलवर्द्धनः । प्राप्तः स्वगुणतो राज्यं न तस्मिन् वाच्य-
मस्ति नः । अयन्त्वनन्तरस्तस्मादपि राजा भविष्यति ।
एतद्धि ब्रूत मे तथ्यं यदत्र भविता ध्रुवम् । वाक्यस्यै-
तस्य निधने दिक्षु सर्वासु भारत! । क्रव्यादाः प्राणदन्
घोराः शिवाश्चाशिवशंसिनः । लक्षयित्वा निमित्तानि
तानि घोराणि सर्वशः । तेऽब्रुवन् ब्राह्मणा राजन्!
विदुरश्च महामतिः । यथेमानि निमित्तानि घोराणि
मनुजाधिप! । उत्थितानि सुते जाते ज्येष्ठे तु पुरुष-
र्षभ! । व्यक्तं कुलान्तकरणो भवितैष सुतस्तव । तस्य
शान्तिः परित्यागे गुप्तावपनयो महान् । शतमेकोन-
मप्यस्तु पुत्राणान्ते महीपते! । त्यजैनमेकं शान्तिञ्चेत्
कुलस्येच्छसि भारत! । एकेन कुरुवै क्षेमं कुलस्य
जगतस्तथा । त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
पामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् । स तथा
पृष्ठ ३६४४
विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः । न चकार तथा राजा
पुत्रस्नेहसमन्वितः” भा० आ० ११५ अ० २ दुर्योधनीये त्रि०

दुर्योनि स्त्री निन्दिता योनिः प्रा० स० । १ निन्दितायां जातौ

दुःस्थिता योनिरस्य प्रा० ब० । २ निन्दितजातिके त्रि०
“न कथञ्चन दुर्योनिः प्रकृतिं स्वां नियच्छति” मनुः ।

दुर्लतिका स्त्री दुष्टा लतैव स्वार्थे क प्रा० स० । १ निन्दितायां

लतायां २ छन्दोभेदे च “वसुभिश्च रसैरथ दिग्भिरुदी-
रितसद्यतिका विहिता हि सगणाष्टकभूषितसच्चरणा-
ज्जितदुर्नय! दुर्लतिकेति तदा । फणभृत्कुलमङ्गलनाम-
कनागवरग्रथिता सुकृतां सुखदा यशवन्त! धराधिप!
“गौडकुलोज्ज्वल! तामवधेहि हृदये सदा” दृ० रत्ना० ।

दुर्लभ त्रि० दुःखेन लभ्यते दुर् + लभ--कर्मणि खल् । १ लब्धुम-

शक्ये कृच्छ्रेण लभ्ये २ दुष्प्राप्ये मेदि० ३ अतिप्रशस्ते
शब्दर० ४ प्रिये हेमच० । “नरत्वं दुर्लभं लोके विद्या तत्र
सुदुर्लभा” सा० द० “अप्रियस्य च पय्यस्य वक्त्रा श्रीता
च दुर्लभः” रामा० “दुर्लभं प्राकृतं वाक्यं दुर्लभः क्षेम-
कृत् सुतः । दुर्लमा सदृशी भार्या दुर्लभः स्वजनः
प्रियः” चाणक्य० ५ कच्चूरे पु० मेदि० ६ कर्चूरे पु०
राजनि० ७ दुरालमायां ८ श्वेतकण्टकार्याञ्च स्त्री
राजनि० । ९ विष्णौ पु० “दुर्लभो दुर्जयो दुर्गः”
विष्णुसं० । “दुर्लभया भक्त्या लभ्यत इति दुर्लभः
“जन्मान्तरसहस्रेषु तपोध्यानसमाधिभिः । नराणां
क्षीणपापानां कृष्णे भक्तिः प्रजायतेः” इति व्यास-
वचनात् “भक्त्या लभ्यस्त्वनन्ययेति” भगद्वचनात् भा०
“आमृत्योः श्रियमन्विच्छेन्नैनां मन्येत दुर्लभाम्” मनुः ।
“मत्परं दुर्लभं मत्वा नूनमावर्जितं मया” रघुः “कुसु-
मायुधपत्नि! दुर्लभस्तव भर्त्ता न चिराद् भविष्यति”
कुमा० ।

दुर्ललित न० दुर् + लल--ईप्सायां भावे क्त । दुष्टेच्छायां दुर्ल

भवस्तुवाञ्छायाम् (आव्दार) तस्या अन्यलाभाविषयत्वेन
दुष्टत्वम् । २ दुश्चेष्टिते च “स शशाप ततो रोषान्मु-
निर्दुहितरं तव । अतिदुर्ललितैः कन्या शत्रुहस्तं
नमिष्यति” हरिवं० १४९ अ० । कर्त्तरि क्त । ३ तथाविधे-
च्छायुक्ते ४ दुश्चेष्टान्विते ५ चपले च त्रि० “बालस्य मे
प्रकृतिदुर्ललितस्य पापः पापं व्यवस्यति समक्षमुदायुधो-
ऽसौ” वेणी० ।

दुर्लसित न० दुर् + लस--क्त । दुश्चेष्टायाम् ।

दुर्लाभ पु० दुर् + लभ--घञ् । दुःखेन लाभे । “भोक्षदुर्ला-

भविषयं वडवामुखसागरम्” भा० शा० ३०३ अ० ।

दुर्लेख्य न० दुष्टं लेख्यम् । गर्हिते लेख्यपत्रे । “देशान्तरस्थे

दुर्लेख्ये नष्टोन्मृष्टे हृते तथा । भिन्ने दग्धे तथा छिन्ने
लेख्यमन्यत्तु कारयेत्” नार० सर्वैरेतैर्विशेषणैर्व्यवहारा-
क्षमता विवक्षिता । दुष्टं लिप्यक्षरपरिलोपेनावाचकतया
वा यल्लेख्यं तत्तु दुर्लेख्यं, नष्टं सर्वथा नाशमुपगतम्
उन्मृष्टं मसीदोषादिना मृदितलिप्यक्षरम् । यद्यपि
दग्धमपि नष्ठमेव तथापि कालमात्रकृता शीर्णता नष्ट-
पदेनात्र विवक्षिता । पत्रान्तरकरणञ्चार्थिप्रत्यर्थिनोः
परस्परसम्प्रतिपत्तौ । विमतौ तु देशान्तरस्थपत्रानयनाय
कालो देयोऽध्वापेक्षया व्यवहारो वाऽप्रवर्तनीयः दुर्ले-
ख्यादौ तु सम्प्रतिपत्तौ पत्रान्तरकरणमन्यथा व्यवहार
स्याप्रवृत्तिरेवेत्यवसेयं साक्षिषु सत्सु तैरेव निर्णयः” ।
तथाच नारदः “लेख्ये देशान्तरस्थे तु शीर्णे दुर्लिखिते
हृते । सतस्तत्कालकरणमसतो द्रष्टृदर्शनमिति” वीरमि०

दुर्व बधे भ्वा० पर० सक० सेट् । दूर्वति अदूर्वीत् । ईदित् । दूर्त्तः

दुर्वच त्रि० दुःखेन उच्यते दुर् + वच--कर्म्मणि खल् । दुःखेन

कथनीये वक्तुमशक्ये । “अपि वागधिपस्य दुर्वचं वचनं
तद्विदधीत विस्मयम्” किरा० । खलर्थयोगे कर्त्तरि षष्ठ्या
निषेधेन सम्बन्धविवक्षयाऽत्र षष्ठी” सौभराजमुपेत्याऽह-
मवोचं दुर्वचं वचः” भा० उ० १७७ अ० ।

दुर्वचस् न० दुष्टं वचः प्रा० स० । गर्हिते वचने वचलो दुष्टत्वम-

प्रियावेदकत्वेन “असह्यं दुर्वचो ज्ञातेर्मेघान्तरितरौद्रवत्”
उद्भ० “नारीं जित्वा विरूत्थन्ते न च जल्पन्ति दुर्वचः”
भा० द्रो० १४८ अ० । दुःस्थितं वचोऽस्य प्रा० ब० । २ दुष्ट
वचनवक्तरि त्रि० ।

दुर्वराह पुंस्त्री० गर्हितो वराहः प्रा० स० । १ गर्हिते वराहे

विड्वराहे ग्राम्यशूकरे स्त्रियां जातित्वात् ङीष् । “त्रयो ह
वापशवोऽमेध्या दुर्वराहऐडकः श्वा” शत० ब्रा० १२ । ४ । १ । ४

दुर्वर्ण न० निन्दितो हेमापेक्षया निकृष्टो वर्णोऽस्य । १ रजते

अमरः । “दुर्वर्णभित्तिरिह सान्द्रसुधासबर्णा” माघः
१ एलवालुके मेदि० । २ निन्द्यवर्णयुक्ते त्रि० । “न तत्र
कश्चिद्दुर्वर्णो व्याधितो वापि दृश्यते” भा० व० १९६ श्लो०
४ श्वेतकुष्ठिनि तस्य रजतवर्णशुभ्रत्वात् दुर्वर्णत्वम् ।
“दुर्वर्णः कुनखी कुष्ठी मायावी कुण्डगोलकौ” भा० व०
१९९ अ० । दुष्टोवर्णः प्रा० स० । ६ निन्द्ये ब्राह्मादिवर्णे
च । “दुर्वर्णोऽस्य भ्रातृव्यः” तेत्ति० व्र० २ । २ । ४ । ६ । दुष्टे
६ अक्षरे पु० ।
पृष्ठ ३६४५

दुर्वर्त्तु त्रि० दुर् + वृ--कर्म्मणि तुन् । दुर्वारे “दुर्वर्तुःस्मा भवति

भीम ऋञ्जन्” ऋ० ४ । ३८ । ८ “दुर्वर्तुः दुर्वारः” भा० ।

दुर्वस त्रि० दुःखेनोष्यतेऽत्र दुर् + वस--बा० आधारे खल् ।

कृच्छ्रेण वासयोग्ये वस्तुमशक्ये “त्रयोदशोऽयं संप्राप्तः
कृच्छ्रात् परमदुर्वसः” भा० वि० १ अ० ।

दुर्वसति स्त्री दुःखेन वसतिः । दुःखेनावस्थितौ “रोगोप-

सृष्टतनुदुर्वसतिं मुमुक्षुः” रघुः ।

दुर्वह त्रि० दुःखेनोह्यतेऽसौ दुर् + वह--कर्म्मणि खल् । दुःखेन

वहनीये वोढुमशक्ये । “न दुर्वहश्रोणिपयोधरार्त्ताः”
कुमा० “अनुप्रवेशादाद्यस्य पुंसस्तेनापि दुर्वहम्” रघुः ।
“दुर्वहो निग्रहो दण्डो हिरण्यबहुलस्तथा” भा० शा०
६१९० श्लो० ।

दुर्वाच् स्त्री गर्हिता वाक् प्रा० स० । १ निन्द्ये वाक्ये

दुःस्थिता वागस्य प्रा० ब० । २ निन्द्यवचनान्विते त्रि० “शय्या-
सनमलङ्कारमन्नपानमनार्यताम् । दुर्वाग्भरं रतिञ्चैव ददौ
स्त्रीभ्यः प्रजापतिः” भा० अनु० ४० अ० “अतीव जल्पन्
दुर्वाचो भवतीह विहेटकः” भा० आ० ३०७६ श्लो० ।

दुर्वाच्य न० निन्द्यं वाच्यम् प्रा० स० । अपवाहे १ अकीर्त्तौ

“क्रीडानिमित्तं न श्रुत्वा दुर्वाच्यं न भविष्यति” रामा० सु०
१५२४ श्लो० । २ कष्टेन वाच्ये च ।

दुर्वाद पु० दुष्टो वादः प्रा० स० । अकीर्त्तौ स्तुतिपूर्वकाप्रिय-

वाक्ये १ अपवादे जटाध० २ निन्दितवाक्ये च ।

दुर्वान्त न० दुष्टं वान्तं प्रा० स० । १ विधानातिक्रमेण वमने

दुःस्थितं वान्तमस्य प्रा० ब० । २ दुष्टवमनयुक्ते त्रि० । “दुर्वा-
न्तस्य तु समुत् क्लिष्टा दोषा व्याप्य शरीरं कण्डूश्वयथुकुष्ठ-
पीडकाज्वराङ्गमर्दनिस्तोदनानि कुर्वन्ति” सुश्रुतः ।

दुर्वार त्रि० दुःखेन वार्यतेऽसौ दुर् + वारि--कर्मणि खल् ।

दुःखेन वारणीये वारयितुमशक्ये “किञ्चायमरिदुर्वारः
पाणौ पाशः प्रचेतसः” कुमा० “सा दुर्वारं कथममपि
परित्यागदुःखं विषेहे” रघुः ।

दुर्वारण त्रि० दुःखेन वारणमस्य । १ दुःखेन वारणीये “संर-

ब्धश्च शरानस्यन् द्रोणं दुर्वारणं रणे” भा० द्रो० १९३ अ० ।
२ शिवे पु० दुर्विषहशब्दे दृश्यम् ।

दुर्वारि त्रि० दुःखेन वारिर्वारणमस्य । कम्बोज्देशीये

याधभेदे “एते दुर्वारयो नाम कम्बोजा यदि ते श्रुताः”
भा० द्रो० ११२ अ० ।

दुर्वार्त्ता स्त्री गर्ह्या वार्त्ता प्रा० स० । अप्रियावेदकवार्त्तायां दुष्प्रवृत्तौ ।

दुर्वासना स्त्री दुष्टा वासना प्रा० स० । पूरयितुमशक्येच्छायाम्

दुर्वासस् पु० मुनिभेदे स च शङ्करांशेनात्रेरनसूयागर्भजः ।

तदुद्भवकथा आत्रेयशब्दे ६९२ अ० दृश्या तन्नामनिरुक्तिश्च
यथा “निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः” भा०
अनु० ४७ अ० । “ममांशस्तु क्षितितले महाभागो द्विजो
त्तमः । दुर्वासा इति विख्यातः स हि त्वां याजयि-
ष्यति” भा० आ० २२३ अ० शिववाक्यम् । तस्य रुद्रां-
शजत्वेन क्रोधनत्वं यथाह “दुर्वासाः क्रोधनः श्येनस्तथा
दीर्घतमा मुनिः” भा० स० ७ अ० “शिष्यायुतसमोपेतो
दुर्वासा नाम कामतः । तमागतममिप्रेक्ष्य मुनिं परमको-
पनम्” भा० व० २६१ अ० तस्य क्रोधशीलत्वेन विशेषणम् ।
दुःसाध्यं वासः गृहे वासनमस्य इति वा व्युत्पत्तिः ।
गृहे तदीयवासनस्य दुःसाध्यत्वात् दुर्वासस्त्वं यथोक्तं
भा० अनु० १५९ अ० यथा “अवसन्गे गृहे तात! ब्रा-
ह्मणो हरिपिङ्गलः । चीरवासा विल्वखण्डो दीर्घश्मश्रुः
कृशो महान् । दीर्घेभ्यश्च मनुष्येभ्यः प्रमाणादधिको भुवि ।
सर्वान् सञ्चरते लोकान् ये दिव्या ये च मानुषाः । इमां
गाथां गायमानश्चरत्वरेषु सभासु च । दुर्वाससं वासयेत्
को ब्राह्मणं सत्कृतं गृहे । रोषणः सर्वभूतानां सूक्ष्मे-
ऽप्यपकृते कृते । परिभाषाञ्च मे श्रुत्वा कोऽनुदद्यात्
प्रतिश्रयम् । यो मां कश्चिद्वासयीत न स मां कोपये
दिति । यस्मान्निद्रायते कश्चित्ततोऽहं समवासयम् । स
स्म भुङ्क्ते सहस्राणां बहूनामन्नमेकदा । एकदास्माल्पक
भुङ्क्ते न चैवेति पुनर्गृहान् । अकस्माच्च प्रहसति
तथाऽकस्मात् प्ररोदिति । न चास्य वयसा तुल्यः
पृथिव्यामभवत्तदा । अथ स्वावसथं गत्वा स शय्यास्तर-
णानि च । कन्याश्चालङ्कृता दग्धा ततो व्यपगतः
पुनः । अथ मामब्रवीद्भूयः स मुनिः संशितव्रतः ।
कृष्ण! पायसमिच्छामि भोक्तुमित्येव सत्वरः । तदैव तु
मया तस्य चित्तज्ञेन गृहे जनः । सर्वाण्यन्नानि
पानानि भक्ष्याश्चोच्चावचास्तथा । भवन्तु सत्कृतानीह
पूर्वमेव प्रचोदितः । तदोऽहं जायमानं वै पायस
प्रत्यवेदयम् । तं भुक्त्वैव तु स क्षिप्रं ततो वचनमब्र-
वीत् । क्षिप्रमङ्गानि लिम्पस्व पायसेनेति स स्म ह ।
अविमृष्यैव च ततः कृतवानस्मि तत्तथा । तेनोच्छि-
ष्टेन गात्राणि शिरश्चैवाभ्यम्रक्षयम् । स ददर्श
तदाम्यासे मातरन्ते शुभाननाम् । तामपि स्मयमानः स
पायसेनाभ्यलेपयेत् । मुनिः पायसदिग्धाङ्गीं रथे
तूर्णमयोजयत् । तमारुह्य रथञ्चैव निर्ययौ च गृहान्-
पृष्ठ ३६४६
मम । अग्निवर्णोज्वलन् धीमान् स द्विजो रथधूर्य्य-
वत् । प्रतोदेनातुदद्वालां रुक्मिणीं मम पश्यतः । न च
मे स्तोकमप्यासीद्दुःखमीर्ष्याकृतं तदा । तथा स
राजमार्गेण महता निर्ययौ बहिः । तद्दृष्ट्वा महदाश्चर्यं
दाशार्हा जातमन्यवः । तथाऽजल्पन् मिथः केचित्
समाभाष्य परस्परम् । व्राह्मणा एव जायेरन् नान्यो
वर्णः कथञ्चन । को ह्येनं रथमास्थाय जीवेदन्यः
पुमानिह । आशीविषविषं तीक्ष्णं ततस्तीक्ष्णतरो
द्विजः । ब्रह्माशीविषदग्धस्य नास्ति कश्चिच्चिकित्सकः ।
तस्मिन् व्रजति दुर्द्धर्षे प्रास्खलद्रुक्मिणी पथि । तत्रा-
मर्षयत श्रीमांस्ततस्तूर्णमचोदयत् । ततः परमसंक्रुद्धो
रथात् प्रस्कन्द्य सद्विजः । पदातिरुत्पर्थेनैव प्राद्रवद्दक्षि-
णामुखः । तमुत्पथेन धावन्तमन्वघावं द्विजोत्तमम् ।
तथैव पयसा दिग्धः प्रसीद भगवन्निति । ततो विलोक्य
तेजस्वी ब्राह्मणो मामुवाच ह । जितः क्रोधस्त्वया कृष्ण!
प्रकृत्यैव महाभुज! । न तेऽपराधमिह वै दृष्टवानस्मि
सुव्रत! । प्रीतोऽस्मि तव गोविन्द! वृणु कामान् यथेप्-
सितान्” ।

दुर्विगाह त्रि० दुर् + वि + गाह--कर्मणि खल् । १ दुःखेन

गाहनीये २ धृतराष्ट्रपुत्रभेदे पु० “दुर्मदोदुर्विगाहश्च विवित्-
सुर्विकटाननः” भा० आ० ११७ अ० ।

दुर्विदग्ध त्रि० दुष्टो बिदग्धः प्रा० स० । गर्विते “अलीक-

वेगदुर्विदग्धं गरुत्मन्तम्” काद० ।

दुर्विदत्र त्रि० विद--लाभे विद--ज्ञाने वा बा० अत्र विदत्रं लभ्यं

धनं ज्ञानं वा ततः प्रा० ब० । १ दुर्धनके २ दुर्ज्ञानके च “आ
रे मन्युं दुर्विदत्रस्य धीमहि” ऋ० १० । ३५ । ४ । “दुर्विदत्रा
निरृतिर्न” ऋ० १० । ३६ । २ ।

दुर्विध त्रि० दुस्था विधाऽस्य प्रा० ब० । दरिद्रे अमरः ।

(दमयन्तीक्षणे) “अपि खञ्जनमञ्जनाञ्चिते विदधाते रुचि-
गर्भदुर्विधम्” नैष० “विविनक्ति न बुद्धिदुर्विधः” माघः ।
२ खले मेदि० ३ मूर्खे शब्दर० । “शास्त्रेष्वन्येषु कुवियो
विद्यमानेषु दुर्विधाः । बुद्धिमान्वीक्षिकीं प्राप्य निरर्थान्
प्रवदन्ति ते” रामा० २ । १०९ । २

दुर्विनय पु० दुर् + वि + नी--भावे अच् । विनयराहित्ये ।

दुर् + वि + नी--क्तिन् । दुर्विनीति तत्रार्थे स्त्री

दुर्विनीत त्रि० दुर + वि + नी--कर्त्तरि क्त । १ विनयाकर्तरि

विनयशून्ये २ अशिक्षिताश्वे पुंस्त्री० हेमच० स्त्रियां जाति-
त्वात् ङीष् ।

दुर्विमोचन त्रि० दुःखेन विमोचनं यस्य । १ दुःखेन

मोचनीये २ धृतराष्ट्रपुत्रभेदे पु० “चित्रवाहुश्चित्रवर्मा सुवर्मा
दुर्विमोचनः” भा० आ० ११७ अ० । तत्पुत्रोक्तौ तु ६७ अ० ।
दुर्विरोचन इति पाठान्तरम् । सोऽपि तत्पुत्रभेदे

दुर्विवाह पु० निन्दितो विवाहः प्रा० स० । ब्राह्म्यादिचतुष्क-

भिन्नेषु आसुरादिषु चतुर्षु विवाहेषु ब्राह्म्यादीनष्टौ
विवाहानुक्त्वा मनुनोक्तं यथा
“ब्राह्म्यादिषु विवाहेषु चतुर्ष्वेवानुपूर्वशः । ब्रह्म-
वर्चस्विनः पुत्रा जायन्ते शिष्टसम्मताः । रूपसत्त्वगुणो-
पेता धनवन्तो यशस्विनः । पर्य्याप्तभोगा धर्मिष्ठा
जीवन्ति च शतं समाः । इतरेषु तु शिष्टेषु नृशंसानृत-
वादिनः । जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः ।
अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा । निन्दितै
र्निन्दिता नृणां तस्मान्निन्द्यान् विवर्जयेत्”

दुर्विष पु० दुः स्थितो विषोऽस्य प्रा० ब० । विषकृतविकारशून्ये शिवे

“दुर्द्धर्षो दुष्प्रकाशश्च दुर्विषो दुर्जयोऽजयः” भा० शा०
२८६ अ० शिवनामोक्तौ । तस्यामृतमन्थनकाले
विषपानेऽपि तत्कृतविकारराहित्यात् विषविकारस्य तं
प्रति दुःस्थितत्वात्तस्य तथात्वम् । दुष्टो विषो वा पेयत्वे
नास्त्यस्य अच् वा । दुष्टविषपानाद्वा तस्य तथात्वम् ।

दुर्विषह त्रि० दुःखेन विषह्यतेऽसौ दुर् + वि + सह--कर्मणि

खल् । १ सोदुमशक्ये दुःखेन सहनीये “सैषा दुर्विषहा
माया देवैरपि दुरासदा” हरिवं० ४६ अ० २ शिवे पु०
“दुर्वारणो दुर्विषहोदुस्सहोदुरतिक्रमः” भा० शा० २८६
अ० । ३ धृतराष्ट्रपुत्रभेदे “दुर्योधनो दुर्विषहो दुर्मुखो
दुष्प्रधर्षणः” भा० आ० १८६ अ० तत्पुत्रोक्तौ

दुर्वृत्त न० दुष्टं वृत्तम् प्रा० स० । १ निन्दिते आचरणे

“दुर्वृत्तं धार्त्तराष्ट्राणामुक्तवान् भगवानृषिः” भा० आ० १ अ०
दुःस्थं वृत्तमस्य प्रा० ब० । २ दुर्जने “दुर्वृत्तवृत्तशमनं तव
देवि! शीलम्” देवीमा० “चाटुतस्कर दुर्वृत्तमहासा-
हसिकादिभिः” याज्ञ०

दुर्वेद त्रि० दुःखेन विद्यते लभ्यतेऽसौ दुर् + विद + लाभे--क-

र्मणि खल् । १ लब्धुमशक्ये दुःखेन लभ्ये “ये एव के च
मारुत्यौ स्यातां दुर्वेदे एव वशा पृश्निर्यदि वशां पृश्नि”
न विन्देदपि” शत० ब्रा० ५ । १ । ३ । ३ दुरुत्सन्नो वेदोऽस्य
प्रा० व० । २ वेदपाठरहिते च । “दुर्वेदा वा सुवेदा वा
प्राकृताः संस्कृतास्तथा । ब्राह्मणा नावमन्तव्या भस्मा-
च्छन्ना इवाग्नयः” भा० व० १९९ अ०
पृष्ठ ३६४७

दुर्व्यवहार पु० दुर्दृष्टो व्यवहारः प्रा० स० । दुर्दृष्टशब्ददर्शिते

रागलोभादिनाऽसङ्म्यनिर्णीते व्यवहारे तच्छब्दे दृश्यम् ।

दुर्व्रजित न० गर्हितं व्रजितम् प्रा० स० । निन्दितगतौ “दुर्व्या-

हृताच्छङ्कमाना दुःस्थिता दुरवेक्षितात् । दुरासिताद्
दुर्व्रजितादिङ्गिताध्यासितादपि” भा० व० २३२ अ०

दुर्ह(ण)न त्रि० दुःखेनाहन्यतेऽसौ दुर् + हन--कर्मणि खल् ।

हन्तमशक्ये दुःखेन हन्तव्ये “प्रकल्प्स्यति च तस्यार्थो
निकुम्भे दुर्हने हते” भट्टिः वेदे तु णत्वम् । “मो षु णः
परापरा निरृतिर्दुर्हणा बधीत्” ऋ० १ । ३८ । ६ “त्वं
नो अस्या इन्द्र! दुर्हणायाः” ऋ०१ । १२१ । १४

दुर्हणायु त्रि० दुष्टं हननमिच्छति क्यच् दुर्हणाय--उन्

वेदे णत्वम् । दुष्टहननेच्छौ “स्त्रियं यद्दुर्हणायुवम्”
ऋ०४ । ३० । ८ । “दुर्हणायुवं दुष्टहननमिच्छन्तीम्” भा०
छान्दस उवङ् ।

दुर्हणु त्रि० दुःस्थो हनुरस्य प्रा० ब० दुर् + हन--उन् वा,

वेदे णत्वम् । १ दुःखेन हननीये २ दुष्टहनुयुक्ते च “तदा
रमस्व दुर्हणो!” ऋ० १० । १५५ । ३ । लोके तु दुर्हनु
इत्येव दुष्टहनुके त्रि० ।

दुर्हल(लि) त्रि० दुष्टो हलिरस्य वा अच्समा० । दुष्टहलियुक्ते

दुर्हित त्रि० निन्दितो हितः प्रा० स० । विरोधिलक्षणया

शत्रौ “न दुर्हितः स्यादग्रे न पापया” ऋ० ८ । १९ । २६

दुर्हुत न० निन्दितं हुतम् प्रा० स० । अफलजनके होमे “सदैव

याचमानेषु तथा दम्भान्वितेषु च । एतेषु दक्षिणा दत्ता
दावाग्नाविव दुर्हुतम्” भा० शा० १८ अ०

दुर्हृणायु त्रि० दुष्टं हृणीयते क्रुध्यति लज्जते वा दुर् +

हृणी + क्रोधे लज्जायाञ्च कण्ड्वा० यक् तत उन् अल्लो-
पयलोपौ पृषो० वर्णव्यत्यासे ईकारस्याकारः, मृगय्वा०
वा नि० । १ दुष्टक्रोधने २ दुष्टं लज्जमाने च ।
“दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति” ऋ० ७ । ५९ । ८
“दुर्हृणायुरशोभनं क्रुध्यन्” भा० “ऋतस्य शिमीवतो
भामिनो दुर्हृणायून्” ऋ० १ । ८४ । १६

दुर्हृत् त्रि० दुस्थं हृदयमस्य प्रा० ब० “सुहृद्दुर्हृदौ मित्रा-

मित्रयोः” पा० निपा० । १ अमित्रे शत्रौ ।
दुःस्थितं हृदस्य प्रा० ब० । २ दुःस्थितहृदये त्रि० “अश्म-
सारमयं नूनं हृदयं मम दुर्हृदः” भा० व० ११२ अ० । तस्य
भावः युवा० अण् द्विपदवृद्धिः दौहार्द्द दुष्टान्तःकरणत्वे
शत्रुत्वे च न० ।

दुर्हृदय त्रि० दुःस्थं हृदयमस्य प्रा० ब० अशत्रुत्वेन न

निपा० । १ दुष्टान्तःकरणयुक्ते । दुष्टं हृदयम् प्रा० स० ।
२ दुष्टे मनसि न० ।

दुल उत्क्षेपे (दोलान) चुरा० उभ० सक० सेट् । दोलयति ते

अदूदुलत् । “नारी पदद्वयं स्थाप्य कान्तस्योरुद्वयोपरि ।
कटिं चेद्दोलयेदाशु बन्धः कन्दर्पशृङ्खलः” रतिमञ्जरी
“आन्दोलत् क दोलने” कविकल्पद्रुमः । अस्य वा चुरा-
रत्वमपि । दुल--कि “दुलिः अम्बादुली नितत्नीरभ्र-
यन्ती” तैत्ति० ४ । ४ । ५ । १ दुलीति उत्क्षिपन्तीत्यर्थः ।

दुलि पु० दुल--कि । १ मुनिभेदे शब्दार्थचि० । २ कच्छषस्त्रियां

स्त्री वा ङीष् । ३ उत्क्षेपके त्रि० ।

दुलिदुह पु० दिलीपनृपपितरि अनमित्रसुते “अनमित्र

सुतो राजा विद्वान् दुलिदुहोऽभवत् । दीलिपस्तनयस्तस्य
रामस्य प्रपितामहः” हरिवं० १५ अ०

दुल्लल त्रि० दु + क्विप् दुतं ललति लल--अच् । रोमशे शब्दार्थचि० ।

दुवस् परिचरणे उपतापे च कण्ड्वा० नाम० यक् पर० सक०

सेट् । दुवस्यति अदुवस्यीत् “अनेहसः स्तुभ इन्द्रो
दुवस्यति” ऋ० ३ । ५१ । ३ “याभिर्वित्तजानिं दुवस्यथः” ऋ०
१ । ११२ । १५ “समिद्भिरग्निं नमसा दुवस्यन्” ऋ०३१ । १ । २

दुवस् न० दुवस् परिचरणे कण्ड्वा० दुवस्य--क्विप् अल्लोपयलोपौ ।

१ हविषि २ परिचरणे च “ऐभिरग्ने दुवोगिरोविश्वेभिः”
ऋ०१ । १४ । ८ “दुवः परिचर्य्याम्” । दुव इच्छति क्यच् वा
अनङि दुवन्यति “स त्वा भरिषो गरिषो दुवन्यसम्”
ऋ०४ । ४०२ । दुवः परिचरणमिच्छन्तः दुवन्याः तत्र
सीदति दुवन्यसम्” भा० कर्मणि ल्युट् अनङमावे पक्षे
अल्लोपयलोपौ दुवसन परिचरणीये “श्येनासो न
दुवसनासः” ऋ०४ । ६ । १० “दुवसनासः परिचरणीयाः” भा०

दुवस्य त्रि० नाम० दुवस्य--शक्यार्थे यत् अल्लोपयलोपौ । “परिच-

र्य्यार्हे “आ यद्दुवस्याद्दुवसे न कारुः” ऋ० १ । १६५ ।
१४ । “दुवस्यात् परिचर्य्यार्हात् दुवसे परिचरणाय” भा०

दुवस्यु त्रि० दुवः परिचरणमिच्छति क्यच् “क्याच्छन्दसि

पा० उन् । परिचरणेच्छायुक्ते “गोस्तूतूर्षति पर्यग्रं
दुवस्युः” ऋ० १० । १०० । १२ वेदे क्वचिदस्य स्त्रियामुवङ् ।
“स न ईलानया मह देवा अग्ने दुवस्युवा” ऋ० ८ । १०२ । २

दुवस्वत् त्रि० दुवोहविः परिचरण वास्त्यस्य मतुप् मस्य वः

सान्तत्वान् न पदकार्यम् । १ हविर्युक्ते २ परिचरणयुक्ते
च “अवस्युरसि दुवस्वान्” यजु० ५ । ३२ “सोमनेत्रेभ्यो
देवेभ्य उपरिसद्भ्यो दुवस्वद्भ्यः स्वाहा” ९ । ३५ “दुवस्वा-
ञ्छम्भूर्मे” १८ । ४
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/दीर्घशर&oldid=57775" इत्यस्माद् प्रतिप्राप्तम्