वाचस्पत्यम्/तुष्ट

विकिस्रोतः तः
पृष्ठ ३३३८

तुष्ट त्रि० तुष--कर्त्तरि क्त । १ सन्तोषयुक्ते । “तस्मिँस्तुष्टे

जगत्तुष्ट प्रीणिते प्रीणितं जगत्” पुरा० । २ विष्णौ
पु० “परर्द्धिः परमस्प्रष्टस्तुष्टः पुष्टः शुभेक्षणः” विष्णुस०
“परानन्दैकरूपत्वात्तुष्टः” भा० । तस्यानन्दरूपत्वेऽपि
आनन्दाश्रयत्वं कल्पितम् अतएव विवरणे “आनन्दो
विषयानुभवो नित्यत्वञ्च सन्ति धर्मा अपृथक्त्वेऽपि पृथगि-
वावभासन्ते” इत्युक्तम् । न्यायनये तु दुःखाभावस्यैवा-
नन्दरूपत्वात् तस्य तदाश्रयत्वमस्त्येवेति भेदः ।

तुष्टि स्त्री तुष--भावे क्तिन् । १ तोषे २ भोगेष्वेतावतालमिति

बुद्धौ ३ अधिगतार्थादन्यत्र तुच्छत्वबुद्धौ “तुष्टिर्नुरकृता-
र्थस्य कृतार्थोऽस्मीति या मतिः” इत्युक्ते ४ बुद्धिभेदे सा
च नवविधा इति सांख्याचार्य्याः यथोक्तं सा० का० त०
कौ० च ।
“तुष्टिर्नबधेत्युक्तं ताः परिगणयति । “आध्यात्मिक्य-
श्चतस्रः प्रकृत्युपादानकालभाग्याख्याः । वाह्याविषयो-
परमात् पञ्च नव तुष्टयोऽभिमताः” का० ।
“प्रकृतिव्यतिरिक्त आत्मास्तीति प्रतिपद्य ततोऽस्य श्रवण-
मननादिना विवेकसाक्षात्काराय त्वसदुपदेशतुष्टो यो न
प्रयतते तस्य चतस्र आध्यात्मिक्यस्तुष्टयो भवन्ति प्रकृति-
व्यतिरिक्तमात्मानमधिकृत्य यस्मात्तास्तुष्टयस्तस्मादाध्या-
त्मिक्यः, कास्ता इत्यत आह प्रकृत्युपादानकाल-
भाग्याख्याः प्रकृत्यादिराख्या यासां तास्तथोक्ताः । तत्र
प्रकृत्याख्या तुष्टिर्यथा कस्यचिदुपदेशः (विवेकसाक्षात्-
कारो हि प्रकृतिपरिणामभेदः तञ्च प्रकृतिरेव करोतीति
कृतं ते ध्यानाभ्यासेन, तस्मादेवमेवास्स्वेति) । सेयमुप-
देष्टव्यस्य शिष्यस्य प्रकृतौ तुष्टिः प्रकृत्याख्या तुष्टिः अम्भ
इत्युच्यते । “या च प्रकृत्यविवेकख्यातिर्न सा प्रकृति-
मात्राद्भवति मा भूत्सर्वस्य सर्वदा तन्मात्रस्य सर्वान् प्रत्य-
विशेषात् प्रव्रज्यायास्तु सा भवति तस्मात्प्रव्रज्यामुपाद-
दीथाः कृतं ते ध्यानाभ्यासेनायुष्मन्नित्युपदेशे या तुष्टिः
सोपादानाख्या सलिलमुच्यते । “या तु प्रव्रज्यापि न
सद्यो निर्वाणदेति सैव कालपरिपाकमपेक्ष्य सिद्धिन्ते
विधास्यति अलमुत्तप्ततया तवेत्युपदेशे या तुष्टिः सा
कालाख्या मेघ उच्यते । “या तु न कालात् नाप्यु-
पादानाद्विवेकख्यातिरपि तु भाग्यादेव अतएव मदालसा-
पत्यानि अतिबालानि मातुरुपदेशमात्रादेव विवेकख्याति-
मन्ति मुक्तानि बभूवुः तत्र भाग्यमेव हेतुर्नान्यदित्युप-
देशे या तुष्टिः सा भाग्याख्या तुष्टिरुच्यते । बाह्या
दर्शयति बाह्यास्तुष्टयोविषयोपरमात् पञ्च, याः खल्वना-
त्मनः प्रकृतिमहदङ्कारादीनात्मेत्यभिमन्यमानस्य वैराग्ये
सति तुष्टयस्ता बाह्याः आत्मज्ञानाभावेऽनात्मानमधिकृत्य
प्रवृत्तेरिति । ताश्च वैराग्ये सति सम्भवन्ति तुष्टय इति
वैराग्यहेतुपञ्चविधत्वाद्वैराग्याण्यपि पञ्च, तत्पञ्चकत्वात्
तुष्टयः पञ्चेति, उपरम्यतेऽनेनेत्युपरमो वैराग्यं विषया-
दुपरमो विषयोपरमः । विषया भोग्याः शब्दादयः पञ्च,
उपरमा अपि पञ्च । तथा च अर्ज्जनरक्षणक्षयभोग-
हिंसादोषदर्शनहेतुजन्मान उपरमाः पञ्च भवन्ति । तथा
हि सेवादयो धनोपार्जनोपायास्ते च सेवकादीन् दुःखा
कुर्वन्ति । दृप्यद्दुरीश्वरद्वाःस्थहस्तदत्तचण्डार्द्धचन्द्रजां
वेदनां भावयन् प्राज्ञः कः सेवासु प्रसज्जते । एवमन्ये-
ऽप्यर्जनोपाया दुःखा इति विषयोपरमे या तुष्टिः सैषा
पारमुच्यते । तथार्जितं धनं राजैकागारिकाग्निजलौ-
घादिभ्यो विनङ्क्ष्यतीति तद्रक्षणे महद्दुःखमिति
भावयतो विषयोपरमे या तुष्टिः द्वितीया सुपारमुच्यते ।
तथा महतायासेनार्जितं घनं भुज्यमानं क्षीयते इति
तत्प्रक्षयं भावयतो विषयोपरमे या तुष्टिः सा तृतीया
पारपारमुच्यते । एवं शब्दादिभोगाभ्यासाद्वर्द्धन्ते
कामास्ते च विषयाप्राप्तौ कामिनं दुःखयन्तीति
भोगदोषं भावयतो विषयोपरमे या तुष्टिः सा चतुर्थीं
अनुत्तमाम्भ उच्यते । एवं नानुपहत्य भूतानि विषयोप-
भोगः सम्भवतीति हिंसादोषदर्शनाद्विषयोपरमे या
तुष्टिः सा पञ्चमी उत्तमाम्भ उच्यते । एवमाध्यात्मिकी-
भिश्चतसृभिर्बाह्याभिश्च पञ्चभिर्नव तुष्टयोऽभिमताः” ।
भाष्यकृता अन्थथा तुष्टिभेदा दर्शिता यथा “तुष्टिर्नवधा”
सा सू० “आध्यात्मिक्यादिभेदान्नवधा तुष्टिः” भा० ।
“इदं सूत्रं कारिकया व्याख्यातम् । आध्यात्मिक्य इत्यादि
अस्यायमर्थः । आत्मानं तुष्टिमतः सङ्घातमधिकृत्य वर्त्तन्त
इत्याध्यात्मिक्यस्तुष्टयश्चतस्रः । तत्र प्रकृत्याख्या तुष्टिर्यथा ।
साक्षात्कारपर्य्यन्तः परिणामः सर्वोऽपि प्रकृतेरेव तं च
प्रकृतिरेव करोत्यहं तु कूटस्थः पूर्ण इत्यात्मभावनात्
परितोषः । इयं तुष्टिरम्भ इत्युच्यते । ततश्च प्रब्र-
ज्योपादानेन या तुष्टिः सोपादानाख्या सलिलमित्यु-
च्यते । ततश्च प्रव्रज्यायां बहुकालं समाध्यनुष्ठानेन या
तुष्टिः सा कालाख्या तुष्टिर्मेघ इत्युच्यते । ततश्च
प्रज्ञानपरमकाष्ठारूपे धर्ममेघसमाधौ सति या तुष्टिः
सा जलाख्या तुष्टिरित्युच्यत इति चतस्र आध्यात्मिक्यः ।
पृष्ठ ३३३९
बाह्याः पञ्च तुष्टयो बाह्यविषयेषु पञ्चसु शब्दादिष्वर्जनर-
क्षणक्षयभोगहिंसादिदोषनिमित्तकोपरमाज्जायन्ते । ताश्च
तुष्टयो यथाक्रमं पारं सुपारं पाराप्रारमनुत्तमाम्भ
उत्तमाम्भ इति परिभाषिता इति । कश्चित् त्विमां
कारिकामन्यथा व्याख्यातवान् । तद्यथा विवेकसाक्षा-
त्कारोऽपि प्रकृतिपरिणाम एवेत्यलं ध्यानाभ्यासेनेत्येवं
दृष्ट्या या ध्यानादिनिवृत्तौ तुष्टिः सा प्रकृत्याख्या ।
प्रव्रज्योपादानेनैव मोक्षो भविष्यति किं ध्यानादिनेति या
तुष्टिः सोपादानाख्या । कृतसन्न्यासस्यापि कालेनैव
मोक्षो भविष्यत्यलमुद्वेगेनेति या तुष्टिः सा कालाख्या ।
भाग्यादेव मोक्षो भविष्यति न मोक्षशास्त्रोक्तसाधनैरेवं
कुतर्के या तुष्टिः सा भाग्याख्येत्यादिरर्थ इति तन्न ।
तद्याख्याततुष्टीनामभावस्य ज्ञानाद्यनुकूलत्वेनाशक्तिपरि-
भाषानौचित्यादिति” ।
तुष--कर्त्तरि क्तिच् । ५ गौर्य्यादिषु षोड़शसु मातृषु
मध्ये मावृभेदे । कुलदेवताशब्दे २१३० पृ० दृश्यम् ।
६ अनन्तदेवपत्न्याञ्च । “अनन्तपत्नी तुष्टिश्च पूजिता
वन्दिताऽभवत् । यया विना न सन्तुष्टाः सर्वे
लोकाश्च सर्वतः” देवीभा० । “या देवी सर्वभूतेषु तुष्टि-
रूपेण संस्थिता” देवीमाहा० । “आचारश्चैव साधूना-
मात्मनस्तुष्टिरेव च” मनुः ।

तुष्टिमत् त्रि० तुष्टिरस्त्यस्य मतुप् । तोषयुक्ते । स्त्रियां

ङीप् । २ उग्रसेनात्मजे कंसभ्रातरि पु० “कंसः सुनामा
न्यग्रोधः कङ्कः शङ्कुः सुहुस्तथा । राष्ट्रपालोऽथ
सृष्टिश्च तुष्टिमानुग्रसेनजाः” भाग० ९ । २४ । १४ ।

तुष्टु पु० तुष--बा० तुक् । कर्णस्थमणौ शब्दच० ।

तुष्य पु० तुष--कर्त्तरि क्यप् । १ महादेवे तुटितुटशब्दे दृश्यम्

तुस ध्वनौ भ्वा० पर० सक० सेट् । तोसति अतोसीत् ।

तुतोस ।

तुस पु० तुष + पृषो० । तुषे धान्यत्वचि रमानाथः ।

तुस्त न० तुस--क्त बा० इड़भावः । १ रेणौ अमरे वुस्तेत्यत्र

तुस्तेति पाठं मत्वा सारसुन्दर्य्यां व्याख्यातम् ।

तुह अर्द्दने बधे भ्वा० पर० सक० सेट् । तोहति । इरित्

अतुहत् अतोहीत् । । तुतोह ।

तुह(हा)र पु० तुह--बा० करन् कारन् वा । कुमारपारिषद-

भेदे । “तुहरश्च तुहारश्च चित्रदेवश्च वीर्य्यवान्” भा०
स० ४६ अ० । कुमारपारिषदोक्तौ ।

तुहिन न० तुह्यतेऽनेन तुह--इनन् ह्रस्वश्च । १ हिमे अमरः

२ चन्द्रतेजसि उज्ज्वल० “तृणान्तलग्नैस्तुहिनैः पतद्भिः”
ऋतुस० “सान्द्रस्तहिनान्तरितः” प्रबोधच० ।

तुहिनकर पु० तुहिनं करोऽस्य । १ चन्द्रे तुहिनांशुप्रभृत-

योऽप्यत्र । २ कर्पूरे च ।

तुहिनांशुतैल न० ६ त० । कर्पूरतैले राजनि० ।

तुहिनाचल पु० ६ त० । हिमालये तुहिनाद्रिप्रभृतयीऽप्यत्र ।

तुहुण्ड पु० दनुवंश्ये दानवभेदे । “अश्वग्रीवश्च सूक्ष्मश्च

तुहुण्डश्च महाबलः । एकपादेकचक्रश्च विरूपाक्षमहो-
दरौ । निचन्द्रश्च निकुम्भश्च कुपटः कपटस्तथा । शरभः
शलभश्चैव सूर्य्यचन्द्रमसौ तथा । एते ख्याता
दनोर्वंशे दानवाः परिकीर्त्तिताः” भा० आ० ६५ अ० ।
२ धृतराष्ट्रपुत्रभेदे “नन्दको बाहुशाली च तुहुण्डोविक-
टस्तथा” १८६ अ० ।

तूड अनादरे भ्वा० पर० सक० सेट् । तूडयति अतूडीत् ।

तुतूड । ऋदित् । णिच् अतुतूड़त् त ।

तूण सङ्कोचे अद० चुरा० उभ० सक० सेट् । तूणयति ते ।

अतुतूणत् त ।

तूण सङ्कोचे चु० उभ० सक० सेट् । तूणयति ते अतूतुणत् त ।

तूण पूरणे चु० आ० सक० सेट् । तूणयते, अतूतुणत् त ।

तूण पु० तूण्यते पूर्य्यते वाणैः तूण--पूरणे कर्म्मणि घञ् ।

इषुधौ वाणाधारे अमरः ।

तूणक न० “तूणकं भवेदिदं रजौ रजौ ततश्च रः” वृ० र०

टीकोक्ते पञ्चादशाक्षरपादके छन्दोभेदे ।

तूणधार पु० तूणं धारयति धारि--अण् उप० स० । तूणधा-

रिणि धानुष्के । अस्या नियुक्तत्वात् “अणि नियुक्ते” पा०
न आद्युदात्तत्वम् । किन्तु तत्पुरुषस्वरः ।

तूणव पु० तूणस्तदाकारोऽस्त्यस्य केशा० व तूणं तदाकारं वाति

वा--क वा । तूणाकारे वाद्यभेदे । “सैषा वाग् वनस्प-
तिषु वदति या दुन्दुभौ या तूणवे या वीणायाम्” तै०
स० ६ । १ । ४ । १ । “वीणावाद क्रोशाय तूणवध्ममवरस्प-
राय” यजु० ३० । १९ । “तूणवं वाद्यभेदं धमति
तथाभूतम्” वेददी० । “वीणावादं पाणिघ्नं तूणवध्मं
तान्नृत्तायानन्दाय” यजु० ३० । २० ।

तूणवत् त्रि० तूण + अस्त्यर्थे मतुप् मस्य वः । १ तूणयुक्ते

धानुष्के “सायुधा बद्धनिस्त्रिं शास्तूणवन्तः संमार्गणाः”
भा० व० ९ अ० । ठन् । तूणिक इनि तूणिन् तत्रार्थे
त्रि० इन्यन्तस्य स्त्रियां ङीप् । तूणिन् । नन्दिवृक्षे पु०
राजनि० ।
पृष्ठ ३३४०

तूणी स्त्री तूण्यते पूर्य्यते शरैः तूण--पूरणे घञ् गौरा०

ङीष् । १ इषुधौ २ तूणे ३ नील्यां शब्दार्थचि० । ४ तूणे
स्त्री टाप् शब्दार्थचि० ।

तूणीक पु० तूणीव कायति--कै--क । नन्दिवृक्षे राजनि० ।

तूणीर पु० तूण्यते पूर्य्यरे शरैः तूण--पूरणे बा० ईरन् ।

१ तूणे इषुधौ अमरः ।

तूतक न० तुत्थ + पृषो० । तुत्थे (तुँतिया) शब्दच० ।

तूतुजान पु० तुजि--बले कानच् तुजा० अभ्यासदीर्थः बा०

नलोपः । १ क्षिप्रे विघण्टुः । २ प्रेर्य्यमाणे च तुजधातौ
दृश्यम् ।

तूतुजि स्त्री तुजि--बले दाने वा कि द्वित्वे तुजा० अभ्यास-

दीर्घः नलोपः । १ क्षिप्रे निघण्टुः २ दातरि च ।
“जज्ञेऽतूतुजिं चित्तूतुजिरशिश्नत्” ऋ० ७ । २८ । ३ ।
“तूतुजिर्दाता” भा० ।

तूतुज्यमानास पु० तुजि--वले कर्मणि शानच् द्वित्वम् अभ्यास-

दीर्घः बा० नलोपः तथाभूतः असति दोप्यते
असदीप्तौ अच् कर्म्म० । क्षिप्रे निघण्टुः ।

तूतुम त्रि० तुज--अच् द्वित्वे अभ्यासदीर्थः पृषो० । १ तूर्णे

माधवः “सवना तूतुमा कृषे” ऋ० १० । ५० । ५ । “एता
विश्वा सवना तूतुमा कृषे” ऋ० १० । ५० । ६ । “तूतुमा
तूर्णानि” भा० ।

तूद पु० तुद--घञर्थे कर्म्मणि क पृषो० । १ तूलवृक्षे राजनि० ।

अश्वत्थाकारे (पार्श्वपिप्पल) ख्याते वृक्षे भावप्र० “तूदं
पक्वं गुरु स्तम्भि हिमं पित्तानिलापहम् । तदेवामं
सुमघुरं संशोषि रक्तपित्तहृत्” ।

तूदी स्त्री देशभेदे । तूदी अभिजनोऽस्य ढक् । तौदेय पित्रा-

दिक्रमेण तूदीदेशवासिनि त्रि० ।

तूपर पु० शृङ्गहीने १ पशौ । स्त्रियां टाप् । तस्य शृङ्ग-

हीनत्वकारणं यथा
“तासान्त्वेव वाऽब्रुवन्नासामहा एवेमौ द्वादशौ मासौ
सं संवत्सरमापयामेति तासां द्वादशसु माःसु शृङ्गाणि
प्रावर्त्तन्त ताः सर्वमन्नाद्यमाप्नुवंस्ता एतस्तूपरास्तस्मात्ताः
सर्वान् द्वादशमासः प्रेरते सर्वं हिता अन्नाद्यमाप्नुवन्”
ताण्ड्य० घ्रा० ४ । १ । २ । “तुशब्दी वैलक्षण्यद्योतनार्थः, तासां-
गवां मध्ये काश्चिदव्रुयन् किमित्युच्यते, यौ द्वादशौ द्वाद-
शसंख्यापूरकावेव शिष्टावेकादशद्वादशौ मासौ इमौ
आसामहा एवं अनुष्ठायैबं अनुष्ठायं प्रारब्धं संवत्सरसाध्यं
समापयामेति व्यवहिताश्चेति समित्यस्य व्यवहितेन
सम्बन्धः, तासां गवां जातानि शृङ्गाणि द्वादशसु माःसु
मासेषु पूर्णेषु प्रावर्त्तन्त प्रापतन् दशभिर्मासैः शृङ्गप्राप्ति-
लक्षणफले सिद्धेऽपि पुनरश्रद्धया यतो मासद्वयमन्वतिष्ठन्
अतो जातानामपि शृङ्गाणां पुनः पतनमित्यभिप्रायः,
तथा चैतरेयकम् “अथ समापयिष्यामः संवत्सरमित्यासत
तासामश्रद्धया शृङ्गाणि प्रावर्त्तन्तेति” । एतास्तूपरा
इति ताः पतितशृङ्गाः गावः सर्वर्त्तुभवमन्नाद्यमद-
नीयमन्नं प्राप्तुवन् ता गावस्तूपराः शृङ्गहीनाः दृश्यन्ते
तस्मात्ताः सर्वान् द्वादश मासौ मासान् प्रेरते प्रगच्छन्ति
ईर गतौ शीतवातातपेषु सर्वदा पुष्टाङ्गा एव यथायथं
गच्छन्ति शृङ्गिणो महिषादयस्तु कृशा भवन्ति, तस्मा-
दित्युक्तं कस्मादित्याह हि यस्मात्ता गावः सर्वमन्नाद्य-
माप्नुवन् तस्मात् सर्वर्त्तुषु पुष्टाङ्गा भवन्ति तथा चैतरे-
यकम् “ऊर्द्ध्वत्वमसमन्वत तस्मादु ताः सर्वभूतान्तरमुत्तिष्ठ-
न्तीति” भा० । “प्राजापत्यांश्च सप्तदश श्यामतूपरान्
वस्तान्” कात्या० श्रौ० १४ । २ । १३ “अश्वस्तूपरो गौर्मृ
गस्ते प्राजापत्याः” यजु० । २४ । १ ।

तूबर पुंस्त्री० सौ० तु + क्विप् तूः बृ--वृत्यां अच् कर्म्म० ।

तूपर + पृषो० पस्य बो वो । १ तूपरे कालेऽजातशृङ्गे पशौ
२ कालेऽजातश्मश्रुके पुरुषे ३ अव्यक्तपुरुषलक्षणे च “जहि
तूवरकं क्षिप्रं कर्णस्य बलमादधत्” भा० द्रो० १३३ अ०
“तञ्च तूवरकं बालं बह्वाशिनमविद्यकम्” भा० उ०
१५९ अ० । २ कषाये रसे पु० ३ तद्वति त्रि० । ४ आढ़क्यां
५ सौराष्ट्रमृत्तिकायां स्त्री गौरा० ङीष् ।

तूय न० तीय + पृषो० । १ जले निघण्ट्वः । तू--भावे

सम्प० क्विप् तां याति या--क वा । २ क्षिप्रे न० “देव
हरिभिर्याहि तूयम्” ऋ० ३ । ४३ । ३ “तूयं क्षिप्रम्”
भा० । ३ क्षिप्रतायुक्ते त्रि० । “अद्रिणा ते मन्दिन इन्द्र!
तूयान्” ऋ० १० । २८ । ३ । “तूयानविलम्बितान्” भा० ।

तूर हिंसे, सक० वेगे अक० दिवा० आत्म० सेट् । तूर्य्यति

अतूरिष्ट । तुतूरे ।

तूर त्रि० तुर--कर्त्तरि क्विप् । १ वेगयुक्ते । भावे सम्प० क्विप् ।

२ वेगे स्त्री “पूर्भिर्मयेन विहिताभिरदृश्यतूर्भिः” भा० २ ।
७ । ३८ । “अदृश्यतूर्भिः अलक्ष्यवेगाभिः” श्रीधरः ।

तूर न० तूर्य्यते ताड्यते मुखमारुतेन तूर--घञर्थे कर्मणि क ।

१ वाद्यभेदे (सानाइ) हेमच० । ३ ताडलाने पटहादौ
शब्दार्थचि० ।

तूरी स्त्री तूरं तदाकारोऽस्त्यस्याः अच् गौरा० ङीष् । धूस्तुरे भावप्र० ।

पृष्ठ ३३४१

तूर्ण्ण न० त्वर--संभ्रमे भावे क्त पक्षे इड़भावः ऊठ् तस्य नः ।

१ शीघ्रे कर्त्तरि क्त । २ त्वरायुक्ते त्रि० अमरः । “अभ्या-
जतोऽभ्यागततूर्णतर्णकान्” माघः । “चूर्णमानीयतां
तूर्णं पूर्णचन्द्रनिभानने!” । पर्णानि स्वर्णवर्णानि
सीदन्त्याकर्णलोचने!” उद्भटः ।

तूर्ण्णाश न० तूर्णमश्नुते अश--अच् । १ उदके । “प्रतिश्रुताया

वो वृषत्तूर्णाशं न गिरेरधि” ऋ० ८ । ३२ । ३ । “तूर्णाश-
मुदकं भवति तूर्ण्णमश्नुते” निरु० भा० ।

तूर्णि पु० त्वर--नि नि० ऊठ् । १ मनसि उज्ज्वलदत्तः शब्दकल्प-

द्रुमे मलार्थतोक्तिः नकारस्थाने लकारभ्रमात् । भावे-
नि । २ त्वरायां हेमच० । ३ श्लोके संक्षिप्नसारे उणा०
४ क्षिप्रे निघण्टुः । ५ तद्वति त्रि० । “प्र यतत्स्तोता
जरिता तूर्ण्यर्थः” ऋ० ३ । ५२ । ५ । “तूर्ण्यर्थः त्वरित-
गमनाः” भा० “विगाहं तूर्णिं तविषीभिरावृतम्” ऋ०
३ । ३ । ५ । “तूर्णिं क्षिप्रगामिनम्” भा० ।

तूर्त न० त्वर--क्त ऊठ् बेदे न तस्य नः । १ क्षिप्रे “यद्वै क्षिप्रं

तत्तूर्त्तमथ यत् क्षिप्रात् क्षेपीयस्तत्प्रतूर्त्तम्” शत० ब्रा०
६ । ३ । २ । २ ।

तूर्य्य न० तुर्य्यते ताड्यते तूर--यत् । वाद्यभेदे “होमावसाने

कृततूर्य्यनादः” मत्पु० तुलापुरुषदानविधौ “तत्र भुक्त्वा
पुनः किञ्चित्तूर्य्यघोषैः प्रहर्षितः” मनुः । एतत्परस्य
मानस्य गिरिनद्या० न णत्वम् तूर्य्यमानम् “सतूर्य्य-
मेनां स्नपयाम्बभूवुः” कुमा० ।

तूर्य्यखण्ड पु० ६ त० । वाद्यभेदे डगड़वाद्ये हारा० ।

तूर्व न० तुर्व अच्--रेफे पूर्वाणो दीर्घः । १ क्षिप्रे तूर्णे “तूर्व-

याणो गूर्त्तवचस्तमः” ऋ० १० । ६१ । २ । “तूर्य्ययाणस्तूर्ण-
गमनः” भा० । “रक्षो अग्निमशुषं तूर्वयाणम्” ऋ०
१ । १७४ । ३ ।

तूर्वि न० तुर्व--इन् दीर्घः । १ क्षिप्रे “वावृधानाय तूर्वये” ऋ० ९ । ४२ । ३ ।

तूल पूरणे चुरा० आ० सक० सेट् । तूलयते अतूतुलत ।

तूल इयत्तापरिच्छेदे निष्काशने भ्वा० पर० सक० सेट् ।

तूलति अत्लीत् । तुतूल ।

तूल न० तूलयति पूरयति तूल्यते वा तूल--अच् । १ सर्वव्या-

पके आकाशे मेदि० २ अश्वत्थाकारे तूदे वृक्षे भावप्र०
तूदशब्दे दृश्यम् । कार्पासादिवीजजाते (तूला) । ख्याते
पदार्थे । “सर्वं दहति गङ्गाम्भस्तूलराशिमिवानलः” प्रा०
त० । अव्ययीभावेऽस्य “कूलतीरतूलेत्यादिना” पा० आद्यु-
दात्तता उपतूलम् । तूलशब्दे परे ईषिकाशब्दस्य षष्ठी
तत्पुरुषे ह्रस्वः । ईषिकतूलं मुञ्जेषीकातूलम् । “कञ्चर्क
तूलगर्भञ्च तूलिकाम् सूपवीतिकां मञ्जिष्ठारूपवासांसि
तथा तूलवतीं पटीम् । ऊर्णामयानि वासांसि यतिभ्यो-
ऽपि प्रदापयेत्” काशी० ४ अ० ।

तूलक न० तूल--स्वार्थे क । तूले हेमच० ।

तूलकार्मुक न० तूलस्य स्फोटनार्थं कार्मुकम् । तूलस्फोट-

नार्थे धनुषि (धुनखरा) तूलचापादयोऽप्यत्र शब्दच० ।

तूलनालि(ली) स्त्री० तूलनिर्म्मिता नाली । पिञ्जिकायाम्

(पाइज) स्वार्थे क । अत्रैवार्थे स्त्री त्रिका० ।

तूलपिचु पु० पिच--मर्दने कुन् तूलप्रधानः पिचुः ।

तूलवृक्षे (तुलारगाछ) भरतः ।

तूलवृक्ष पु० तूलसाधनं वृक्षः शाक० त० । शाल्मलिवृक्षे । राजनि०

तूलशर्करा स्त्री तूलस्य शर्करेव । कार्पासवीजे रत्ना० ।

तूलसेवन न० ६ त० । तूलसूत्रकर्त्तने (काटनाकाटा) शब्द-

मा० तूलसेचनेति चमध्यपाठः प्रमादिकः ।

तूलि(ली) स्त्री तूल--इन् वा ङीप् । चित्रसाधने स्वनाम-

ख्याते पदार्थे सि० कौ० ।

तूलिका स्त्री तूली स्वार्थे क । १ नील्यां २ वर्त्तौ च शब्दर० ।

तूलीशब्दार्थे ३ लेख्यकूर्चिकायां ४ वीरणादिशलाकायाम् ।
५ आवर्त्तितसुवर्णादेर्द्रवाधारपात्रभेदे (मुचि) । तूल अस्त्यस्य
ठन् कापि अत इत्त्वम् । ६ (तोषक्) शय्याभेदे तूलशब्दे
उदा० । “उन्मीलितं तूलिकयेव चित्रम्” कुमा० । “तूलिका
कथिता लेख्यकूर्चिका तूलशय्ययोः” विश्वः ।
तूलपूरितशय्या च तूलशय्येत्यर्थः ।

तूलिनी स्त्री तूलोऽस्त्यस्या इनि ङीष् । शाल्मलीवृक्षे

भावप्र० । २ लक्ष्मणाकन्दे राजनि० । ३ तूलयुक्ते त्रि०
स्त्रियां ङीप् तूलिफला ।

तूलिफला स्त्री तूलि तूलवत् फलं यस्याः । १ शाल्मलीवृक्षे रत्नमा०

तूवर पु० सौ० तु--बा० वरच् दीर्थश्च । १ तूपरशब्दार्थे २ कषाये

रसे अमरः । ३ तद्वति त्रि० अमरः ।

तूवरिका स्त्री सौ० तु--वा० वरच् दीर्घः संज्ञायां कन् कापि

अत इत्त्वम् । १ आदक्याम् (अहरहर) २ सौराष्ट्रमृत्ति-
कायाञ्च भरतः ।

तूवरी स्त्री तूवर + गौरा० ङीष् । १ आढक्याम् २ सौराष्ट्रमृत्तिकायाञ्च (फिट्किरि) भरतः ।

तूष तुष्टौ भ्वा० पर० सक० सेट् । तूषति अतूषीत् । तुतूष ।

तूष्णींशीलः त्रि० तूष्णीं शीलं यस्य । १ मौनावलम्बिनि ।

तूष्णीक त्रि० तूष्णीं शीलं यस्य शीलेऽर्थे कन् मलोप्रश्च ।

मौनावलम्बिनि अमरः ।
पृष्ठ ३३४२

तूष्णीकाम् अव्य० तुष्णीम् + अकच्प्रकरणे तूष्ण्णीमः काम्

वक्तव्यः” वार्त्ति० काम् मित्त्वादन्त्यादचः परः । तूष्णीं
शब्दार्थे । “तुष्णीकामास्ते” सि० कौ० ।

तूष्णीङ्गङ्ग अव्य० तूष्णीं गङ्गा यत्र “अन्यपदार्थे च संज्ञा-

याम्” पा० बहुव्रीह्यर्थे अव्ययी० । १ देशभेदे । “अपां-
ह्रदं च पुण्याख्यं भृगुतुङ्गं च पर्वतम् । तूष्णींगङ्गे
च कौन्तेय! सामात्यः समुपस्पृश” भा० व० १३५ अ० ।
तूष्णीङ्गङ्गे इत्यत्र सप्तम्या वा न अम ।

तूष्णीम् अव्य० तूष बा० नीम् स्वरादि । १ मौने (चुपकरा) अमरः ।

“यत्किञ्चित् दश वर्षाणि सन्निधौ प्रेक्षते धनी । भुज्य-
मानं परैस्तूष्णीं न स तल्ल्ब्धुमर्हति” मनुः “परैर्वा
कीर्त्त्यमानेषु तूष्णीमास्ते पराङ्सुखः” भा० शा० १०३ अ० ।
तूष्णींशब्दे उपपदे “तूष्णीमि भुवः” क्त्वाणमुलौ तूष्णीं
भूय तूष्णीं भावम् । “तूष्णींभूय भयादासाञ्चक्रिरे मृगप-
क्षिणः” भट्टिः । क्त्वा च इति” पा० वा समासाभावेतूष्णीं भूत्वा ।

तूष्णीम्भाव पु० तूष्णीम् + भू--घञ् । तूष्णीम्मवने मौनावल-

म्बने “अनिमिषनयननिरीक्षणे तूष्णींभावादयस्तत्र” सा०
द० “तूष्णींभावेऽपि विज्ञेयं न चेद्भवति कारणम्” भा०
शा० १०३ अ० ।

तूस्त न० तुस--बा० तन् दीर्घश्च । १ रेणौ । २ जटायाञ्च मेदि०

३ पापे ४ सूक्ष्मे च शब्दच० ।
  • वि + तूस्त--णिच् । तूस्तस्य हनने । वितूस्तयति तूस्तं केश
इत्येके जठीभूताः केशा इत्यन्ये पापमित्यपरे सि० कौ० ।

तृंहण न० तृहि--भावे ल्युट् । हिंसने ।

तृक्वन् पु० स्तेने निघण्टुः रिक्वेत्यत्र पाठान्तरम् तृक्वा

त्रिक्वेति वा तत्र पाठः तत्रार्थे ।

तृक्ष गतौ भ्वा० पर० सक० सेट् । तृक्षति अतृक्षीत् ततृक्ष ।

तृक्ष पु० तृक्ष--अच् । काश्यपे ऋषौ तस्यापत्यं गर्गा० यञ् ।

तार्क्ष्य गरुड़े अरुणे विहगमात्रे च तार्क्ष्यशब्दे दृश्यम्

तृक्षाक पु० तृक्ष--आकन् । ऋषिभेदे ततोऽपत्ये शिवा० अण् ।

तार्क्षाक तदपत्ये ।

तृक्षि पु० तृक्ष--इन् । त्रसदस्योः पुत्रे ऋषिभेदे । “येभि-

स्तृक्षिं वृषणा त्रासदस्यवम्” ऋ० ८ । २२ । ७ । “त्रासद-
स्यवं त्रसदस्योः पुत्रं तृक्षिमेतन्नामकम्” भा० ।

तृख न० तृष--क पृषो० । जातीफले ।

तृ(त्र्यृ)च न० तिसॄणामृचां समाहारः तिस्र ऋचो यत्र वा

अच्समा० वा सम्प्रसारणम् । १ समानदेवताकानां समान-
च्छन्दस्कानामृचां त्रये २ तद्युक्ते अनुवाकसूक्तादौ त्रि० ।
“मधुवाता तृचं जपेत्” हेमाद्रिश्राद्धकल्पः । “याओष-
धोरिति तृचैर्वपत्युदपात्रवत्” कात्या० श्रौ० १७ । ३ । ८ ।
सूक्रपरत्वे न० “गायत्रं तृचं दश त्रयीषु विद्यते”
निरु० १२ । ४० । वा संप्रसारणाभावे त्र्यृचमप्यत्र ।

तृण भक्षे तना० उभ० सक० सेट् । तृणोति तर्णोति तृणुते-

तर्णुते । अतर्णीत् अतर्णिष्ट । उदित् तर्णित्वा--तृण्ट्वा ।

तृण न० तृह--नक् हलोपश्च । १ नडादौ, खटे (खड़) ।

अमरः । “तृणेन वात्येव तयाऽनुगम्यते” नैष० । “लघु-
र्वहुतृणं नरः” माघः । तृणस्यायं शिवा० अण् ।
तार्ण तृणजन्ये वह्नौ पु० “तार्णातार्णोभयं नास्तीति”
जगदीशः । तृणसम्पन्धिमात्रे त्रि० । घोषादि० उत्तर-
पदस्थे तृणशब्दे पूर्वपदमाद्युदात्तम् । ग्रामतृणमित्यादि ।
समूहार्ये पाशा० य । तृण्या तृण्समूहे स्त्री तत्र
भवः । उत्करा० मत्वर्थे छ नडा० कुक् च । तृणकीय
तृणभवे त्रि० ।
स्वल्पं तृणं कन् । तृणक स्वल्पतृणे “क्रीणीष्वेतास्तृण-
केनापि राजन्!” भा० आ० ९३ अ० । स्वार्थे क । तत्रार्थे ।

तृणकर्ण पु० तृणमिव कर्णोऽस्य । ऋषिभेदे ततः शिवा०

अपत्यादौ अण् । तार्णकर्ण तद्गोत्रापत्ये । यस्का० बहुषु
अणो लुक् । तृणकर्णास्तद्गोत्रापत्येषु ब० व० ।

तृणकाण्ड न० तृणानां समूहः दूर्वा० काण्डच् । तृणसमूहे

तृणकुङ्कुम न० तृणजातं कुङ्कुमम् । सुगन्धद्रव्यभेदे

राजनि० । “तृणकुङ्कुमं कटुष्णं कफपित्तविना-
शनम् । वातशोकपामकण्डूकुष्ठामदोषनाशनम् । परमं
भास्वरं तत्तु भिषग्भिः परिकीर्त्तितम्” राजनि०
तद्गुणा उक्ताः ।

तृणकुटी स्त्री तृणाच्छादिता कुटी शा० त०! तृणाच्छादिते

गृहे त्रिका० । तृणकुटीरादयोऽप्यत्र (कुड़ेघर) ।

तृणकूर्म्म पु० तृणमयः कूर्म्मः । तूम्ब्यां शब्दमा० ।

तृणकेतु पु० तृणेषु केतुरिव श्रेष्ठत्वात् असारत्वाद् बा । १

वंशवृक्षे, २ तालवृक्षे, तृणद्रुमतृणध्वजावप्यत्र । राजनि० ।
स्वार्थे क । तत्रार्थे ।

तृणगण्ड पु० तृणमिव गण्डोऽस्य । उच्चिङ्गटे (उच्चिङड़ा)

कीटभेदे मेदि० ।

तृणगोधा स्त्री तृणमिव गोधा । १ गोधाकृकलासे मेदि० २ तृणजलौकायाञ्च ।

तृणगौर न० तृणमिव गौरं पीतम् । तृणकुङ्कुमे राजनि० ।

तृणग्रन्थि स्त्री तृणमिव ग्रन्थिरस्य । स्वर्णजीवन्त्याम् राज०

तृणग्राहिन् पु० तृणं गृह्लाति ग्रह--णिनि ६ त० । नीलमणौ

राजनि० ।
पृष्ठ ३३४३

तृणचर पु० तृणेषु चरति चर--अच् । १ गोमेदमणौ

२ तृणचारिमात्रे त्रि० ।

तृणजम्भन् त्रि० तृणं जम्भो भक्ष्यमस्य तृणमिव जम्भोद-

न्तोऽस्य “जम्भा सुहरित तृणसोमेभ्यः” पा० कृतसमासान्तः
नि० । तृणभक्षके तृणतुल्यदन्तयुक्ते च । शब्दकल्पद्रुमे
अदन्तोक्तिः प्रामादिकी पा० सू० नान्ततयैव निपातनात् ।

तृणजलायूका स्त्री० तृणाकारा तृणजाता वा जलायूका

जलौकाभेदे । “तद्यथा तृणजलायूका तृणस्यान्तं
गत्वात्मानमुपसंहरत्येवमेवायं पुरुष इदं शरीरं
निहत्याविद्यां गमयित्वात्मानमुपसंहरति” शत० व्रा०
१४ । ७२ । ४ । तृणजलूकादयोऽप्यत्र स्त्री “यथा तृणजलूकेयं
नापयात्यपयाति च” भाग० ४ । २९ । ७६ ।

तृणजलीकान्याय तृणजलौकायाः यथा अपरदेशसंयोगान-

न्तरं पूर्धदेशवियोगस्तत्तुल्ये जीवस्यापरदेहसंयोगेन पूर्व-
देहपरित्यागरूपे न्याये । स च नैयायिकानां तृणजल-
यूकाशब्दे दर्शितश्रुत्या कल्पितः । तदेतन्मतं शा० भा०
आशङ्क्य तन्मूलश्रुतेरन्यार्थत्वं प्रदर्श्यदुषयित्वा छा० उ०
पञ्चाग्निविद्युक्तोश्रुतेः अन्यविध एव संसरणप्रकार उक्तः ।
यथा “नन्वन्या श्रुतिः तृणजलौकावत् पूर्वदेहं न मुञ्चति
यावन्न देहान्तरमाक्रमतीति दर्शयति । इति । तद्यथा
तृणजलायूकेति, (तृणजलायूकाशब्दे दर्शिता)
तत्राप्यप्परिवेष्टितस्यैव जीवस्य कर्मोपस्थापितप्रतिपत्त-
व्यदेहविषयभावनादीर्घीभावमात्रं तृणजलूकयोपमोयत
इत्यविरोधः । एवं श्रुत्युक्ते देहान्तरप्रतिपत्तिप्रकारे
सति याः पुरुषमतिप्रभवाः कल्पनाः” इत्युप-
क्रमे “ताः सर्वा एवानादर्तव्याः श्रुतिविरोधात्” ।
“नन्वेतद्देहं त्यक्त्वाऽद्भिः सहगतस्य पश्चाद्देहान्तरप्राप्ति-
रित्ययुक्तम् । यथा तृणजलायूका तृणान्तरं गृहीत्वा
पूर्वतृणं त्यजति तथा जीवी देहान्तरं गृहीत्वा पूर्वदेहं
त्यजतीति श्रुतिविरोधादिति शङ्कते नन्वेति । इहैव
कर्म्मायत्तभाविदेहं देहोऽहमित्यादिभावनया गृहीत्वा
पूर्वदेहं त्यजतीति श्रुत्यर्थः । अतो न विरोधः, इति
समाधत्ते, तत्रापीति भावनाया दीर्घभावो भाविदेह-
विषयत्वम् । घटाकाशवदुपहितो जीवः सूक्ष्मोपाधि-
गत्या लोकान्तरं गच्छतीति पञ्चाग्निश्रुत्युक्तः प्रकारस्तद्वि-
रोधादन्याः कल्पनाः अनादर्तव्या इत्यन्वयः” रत्नप्र० ।

तृणजाति स्त्री तृणमेव जातिः । उलपादौ (खड़) ।

तृणज्योतिस् न० तृणेषु मध्ये ज्योतिः ज्योतिष्मतः । रात्रौ

प्रकाशवत्यां ज्योतिष्मत्यां लतायाम् शब्दार्थचि० ।

तृणता स्त्री तृणमिव तायते ताय--क्विप् । १ धनुषि तृणस्य

भावः तल् । २ तृणत्वे च मेदि० ।

तृणद्रुम पु० तृणमिव द्रुमः असारत्वात् । १ नारिकेले, २ ताले,

३ गुवाके, ४ ताल्यां, ५ केतक्यां, ६ खर्जूरे, ७ हिन्ताले,
८ खर्जूर्य्याञ्च । “फलमुद्वेगमेते च हिन्तालसहितास्त्रयः
(तालनारिकेलगुवाकाः) खर्जूरःकेतकी ताली खर्जूरी
च तृणद्रुमाः” अमरः ।

तृणधान्य न० तृणमिव धान्यं अकृष्टोत्पन्नत्वात् शाक० त० ।

१ नीवारे, अमरः २ श्यामाकादौ च ।

तृणध्वज पु० तृणेषु ध्वज इव । १ तालवृक्षे २ वंशवृक्षे च अमरः

तृणनिम्ब पु० तृणाकारः निम्बः । नेपालनिम्बे किरात-

तिक्ते (चिराता) राजनि० ।

तृणप पु० तृणं पाति--पा क । गन्धर्वभेदे । “युगपस्तृणपः

कार्ष्णिर्नन्दिश्चित्ररथस्तथा” भा० आ० १२३ अ० । गन्धर्वोक्तौ ।

तृणपञ्चमूल न० तृणरूपाणां पञ्चानां मूलम् । कशेरुशररा-

मवाणकर्कटकात्मके पञ्चमूले वैद्यकम् ।

तृणपत्रिका स्त्री तृणस्येव पत्रमस्त्यस्याः ठन् । इक्षुदर्भायां राजनि० ।

तृणपत्री स्त्री तृणमिव पत्रमस्याः गौरा० ङीष् । गुण्डा-

शिन्यां राजनि० ।

तृणपदी स्त्री तृणस्येव पादोऽस्याः अन्त्यलोपः कुम्भप० ङीषि

पद्भावः । तृणतुल्यमूलयुक्तायां लतायाम् ।

तृणपीड न० तृणस्येव पीड़ा यत्र । युद्धभेदे “तृणपीड़ंयथा-

कामं पूर्णयोगं समुष्टिकम् । एवमादीनि युद्धानि प्रकुर्वन्तौ
परस्परम्” भा० स० २२ अ० ।

तृणपुष्प न० तृणजातं पुष्पम् । तृणकुङ्गुमे १ गन्धद्रव्यभेदे

राजनि० । तृणमिव पुष्पमस्याः ङीप् । २ सिन्दूरपुष्पीवृक्षे
स्त्री राजनि० ।

तृणपुली स्त्री तृणनिर्मिता पुली । चञ्चायां (चाँच)

हारा० स्वार्थे क । तृणपुलिकाऽप्यत्र स्त्री मेदि० ।

तृणमणि पु० तृणग्राहको मणिः शा० त० । तृणग्राहिणि

मणिभेदे हारा० ।

तृणमत्कुण पु० प्रतिभुवि (जामिन्) त्रिका० ।

तृणमय त्रि० तृणस्य विकारः शरा० मयट् । तृणविकारे

“कुर्य्यात् तृणमयं चापं शयीत मृगशायिकाम्” भा०
आ० १४५ अ० । स्त्रियां ङीप् ।

तृणराज पु० तृणेषु राजते राज--अच् ६ त० टच् समा० वा । तालवृक्षे अमरः ।

तृणवल्वजा स्त्री तृणरूपा वल्वजा । वल्वजायां राजनि० ।

पृष्ठ ३३४४

तृणविन्दु ऋषिभेदे “जयद्रथेन पापेन यत् कृष्णा क्लेशिता

वने । यातेषु मृगयाञ्चैव तृणविन्दोरथाश्रमम्” भा०
श० ६२ अ० । “तृणविन्दुप्रसादाच्च धौम्यस्य च महात्मनः”
भा० वि० १ ३ अ० । “द्रौपदीमाश्रमेन्यस्य तृणविन्दो-
रनुज्ञया” भा० व० २६३ अ० । “चरतः किल दुश्चरं
तपः तृणविन्दोः प्रतिशङ्कितः पुरा” रघुः ।

तृणविन्दुसरः ६ त० । तृणविन्दोः ऋषेः सरोरूपे तीर्थे

तत्स्थानं भारते उक्तं यथा “मरुभूमेः शिरः स्थानं
तृणविन्दुमरः प्रति” भा० द २५७ अ० ।

तृणवीज न० ६ त० । श्यामाके घान्ये रत्नमा० ।

तृणशीत न० तृणेषु शीतम् । १ कत्तृणे गन्धतृणे रत्नमा० ।

२ जलपिप्पल्यां स्त्री राजनि० ।

तृणशून्य न० १ तृणमिव शून्यं फलरहितम् । केतकीपुष्पे

२ मल्लिकायाञ्चमेदि० तयोः फलरहितत्वात्तथात्वम् । तृणेन
शून्यम् । ३ तृणरहिते त्रि० ।

तृणशूली स्त्री तृणं शूलमिव नीक्ष्णाग्रं यस्याः गौरा० ङीष् ।

लतानेदे । “सुरस्यास्तृणसूल्याश्च सिन्धुवारस्य यानि च”
(पुष्पाणि) सुश्रु० ।

तृणशोषक पुंस्त्री तृणमपि शोषयति शुष--णिच--अण् उप०

स० । राजिमत्सर्पभेदे । अहिशब्दे ५८१ पृष्ठे दृश्यम्

तृणशौण्डिका स्त्री तृणेषु शौण्डिका । लघुकेतकीवृक्षे ।

पारस्करनिघण्टुः ।

तृणषट्पद पु० तृणमिव षट्पदः । (वोलता) वरोले हारा० ।

तृणसारा स्त्री तृणस्येव सारोऽस्याः । १ कदल्याम् हारा० ।

तस्याः सर्वथाऽसारत्वात्तथात्वम् ।

तृणसिंह पु० तृणे--सिंह इव । कुठारे शब्दार्थक० ।

तृणसोमाङ्गिरस् पु० दक्षिणदिक्स्थिते धर्मराजस्य ऋत्विग्भेदे

“उन्मुचुः प्रमुचश्चैव स्वस्त्यात्रेयश्च वीर्य्यवान् । दृढ़व्य
श्चोर्द्ध्वबाहुश्च तणसोमाङ्गिरास्तथा । मित्रावरुणयोः
पुत्रस्तथाऽगस्त्यः प्रतापवान् । धर्म्मराजर्त्विजः सप्त-
दक्षिणां दिशमास्थिताः भा० अनु० १५० अ० ।

तृणस्कन्द तृणमिव स्कन्दति स्कन्द--अच् । तृणवच्चलन-

स्वभावे “तृणस्कन्दस्य नु विशः” ऋ० १ । १७२ । ३ ।

तृणहर्म्य पुं न० तृणव्याप्तो हम्यः । तृणव्याप्ते हर्म्ये हारा०

तृणांह्रिप पु० तृणरूपीऽंह्रिपः । मन्थानतृणे राजनि० ।

तृणाग्नि पु० तृणजातोऽग्निः शा० त० । तार्णे वह्नौ त्रिका० ।

“ब्राह्मणस्त्वनधीयानस्तृणाग्निरिव शाम्यति” मनुः ।

तृणाञ्जन पु० तृणमिवाञ्जनः । कृकलासे त्रिका० ।

तृणाटवी स्त्री तृणप्रचुराटवी । तृणमये वने हेम० ।

तृणाट्य न० तृणेषु आढ्यम् । पर्वतजाते तृणे राजनि० ।

तृणादि पु० चतुरर्थ्यां सप्रत्ययनिमित्ते शब्दगण स च गणः

पा० ग० सू० उक्तो यथा
“तृण, नड़, मूल, वन, पर्ण वर्ण, वराण, विल, पुल,
फल, अर्जुन, अर्ण, सुवर्ण, वल, चरण्ण, वसु,” ।

तृणाम्ल न० तृणेषु अम्लम् । तृणजलवणे राजनि० ।

तृणारणिन्याय पु० तृणस्यारणेश्च वह्निजनने यथा परस्पर-

निरपेक्षतया कारणत्वमेवं स्वातन्त्र्येण कारणतासूचके
न्यायभेदे ।

तृणावर्त्त पु० तृणमावर्त्तयति भ्रमयति आ + वृत--णिच्--अण् ।

१ वात्यारूपे वातसमूहे (घूर्ण्णा) २ तद्वज्जनभ्रामके असुरभेदे पु०

तृणासृज् न० तृणेषु असृगिव रक्तत्वात् । तृणकुङ्कुमे राजनि०

तृणेक्षु पु० तृणमिक्षुरिव मधुररसत्त्वात् । वल्लजायां राजनि० ।

तृणेन्द्र पु० तृणमिन्द्र इव । तृणराजे ताले वृक्षे । “हली-

बल इति ख्यातो भविष्यति धराधरः । त्रिशिरास्तस्य
देवस्य शातकुम्भमयोद्रुमः । ध्वजस्तृणेन्द्री देवस्य
भविष्यति रथाश्रितः” भा० आनु० १४७ अ० ।

तृणोत्तम पु० तृणेषु उत्तमः । उखर्वले तृणे राजनि० ।

तृणोद्भव पु० तृणेषूद्भवति उद् + भू--अच् । १ नीवारे धान्यभेदे

राजनि० । २ तृणजाते वह्नौ च ३ तज्जातमात्रे त्रि० ।

तृणोल्का स्त्री तृणजाता उल्का । तृणजायामुल्कायाम्

“न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया” हितो०
“तृणोल्कया ज्ञायते जातरूपं वृत्तेन भद्रो व्यवहारेण
साधुः” भा० उ० ३४ अ० ।

तृणौकस् न० तृणनिर्मितमोकः । तृणनिर्मिते गृहे (खडेरघर) । हेमच० ।

तृणौषध न० तृणात्मकमौषधम् । एलवालुकाख्ये गन्धद्रव्ये

शब्दच० ।

तृण्या स्त्री तृणानां समूहः पाशा० य । तृणसमूहे ।

तृतीय त्रि० त्रयाणां पूरणः त्रि + तीयत्रेः मंप्रसारणञ्च । त्रयाणां

पूरणे । “वाग्दण्डं प्रथमं कुर्य्यात् धिगुपण्डं तदनन्त-
रम् । तृतीयं धनदण्ड तु वधदण्डमतःपरम्” “मातुः
प्रथमतः पिण्डं निर्वपेत् पुत्रिकासुतः । द्वितीयन्तु पितु-
स्तस्यास्तृतीयं तत्पितुः पितुः” मनुः ।

तृतीयक पु० तृतीयेऽह्नि भवः रोगः कन् । तृतीयादनभवे

ज्वरभेदे स च “दिनमेकमतिक्रस्य यो भवेत् स तृती-
यकः” इत्युक्तलक्षणः । “वाताधिकत्वात् प्रवदन्ति तजज्ञा-
स्ततीयकञ्चापि चतुथकञ्च” सुश्रुतः ।
पृष्ठ ३३४५

तृतीयप्रकृति स्त्री तृतीया प्रकृतिः प्रकारः । स्त्रीपुरुषा-

पेक्षया तृतीये प्रकारे नपु सके अमरः । तत्र तृतीया-
प्रकृतिरिति व्यस्तं पदं समस्तत्वे तृतीयप्रकृतिरित्येव
स्यात् व्यस्तपाठं दृष्ट्वा शब्दकल्पद्रुमे तृतीयाप्रकृतिशब्दक-
ल्पनं प्रामादिकम् ।

तृतीययुगपर्य्यय पु० तृतीयस्य युगस्य द्वापररूपस्य पर्य्ययः

परिवर्त्तोयत्र काले । द्वापरयुगस्य परिवर्त्ताधारे कलिसन्ध-
रूपे काले “द्वापरे समनुप्राप्ते तृतीययुगपर्य्यये” भाग०
१ । ४ । १५ श्लो० । इतः परं किं भविष्यतीति द्वापरे सन्देहे
जाते इत्यर्थः तेन न विरोधः ।

तृतीयसवन न० सूयते सोमोऽस्मिन् कर्म्म० । कालत्रये

सवनत्रयोपेताग्निष्टोमादेः तृतीये सवने । तद्विधानादि
ताण्ड्य० ब्रा० १ । ६ । १७ भाष्ये उक्तं यथा
“तृतीयसवनारम्भमादित्यग्रहमाचरेत् । आर्भवेण स्तुवी-
ताथ पश्वङ्गैः प्रचरत्यथ । सावित्रवैश्वदेवाख्यौ ग्रहौ
सौम्यचरुस्तथा । पात्रीवतग्रहादूर्द्ध्वं यज्ञायज्ञायसं-
स्तवः । अग्निमारुतशस्त्रं स्यात् गृह्णीयात् हारियो-
जनम् । समाप्ते सवने पश्चात् कुर्य्यादवभृथं ततः ।
कुर्य्यादुदयनीयेष्टिमनूवन्ध्यां यजेत गाम् । देविकानिर्व-
पेद्देवसुवासापि यजूँष्यथ । उपोष्य वेदिमाग्नेयमिष्टा-
ग्निष्टोमसंस्थितिः” “प्रातः सवने नोच्चैः कर्माणि”
कात्या० श्रौ० ९ । ६ । १८ “प्रातः सवने यान्युच्चैः कर्माणि
प्रैषोच्चारणादीनि तान्यपि प्रथमस्वरेणैव कार्य्याणि
“मन्द्रं प्रातः सवने चरन्तीति” शाखान्तरात् । अतश्चा-
ग्नीदग्नीन्विहरेत्यादयः प्रैषा आश्रावणादयश्च प्रथमस्वरे-
णैव प्रयोज्याः” कर्कः । “मध्यमेन माध्यन्दिने” १९ सू०
“माध्यन्दिने सवने यानि कर्माणि नीचैर्यानि चोच्चैस्तान्यु-
भयान्यपि मध्यगेन स्वरेण कार्य्याणि शाखान्तरे तथा
श्रवणात्” कर्कः । “उत्तमेन तृतीयसवने” २० सू० “तृतीयसवने
यानि नीचैर्य्यानि च मध्यमेन स्वरेण प्राप्नुवन्ति तानि
सर्वाण्युत्तमेन तृतीयेनैव स्वरेण कार्य्याणि तथैव शाखा-
न्तरे श्रुतत्वात्” कर्कः ।

तृतीया स्त्री तृतीय + टाप् । १ चन्द्रमण्डलस्य तृतीयकला-

क्रियायां २ तदुपलक्षिते कालभेदे च तत्र व्रतादिकालव्यव-
स्थादि तिथिशब्दे ३२९० पृ० दर्शितम् । जन्मनक्षत्रापेक्षया
३ तृतीयद्वादशैकविंशात्मकनक्षत्ररूपविपत्तारायाञ्च ।

तृतीयाकृत त्रि० तृतीय + डाच् + कृ--क्त । १ त्रिगुणं कृष्टे

त्रिवारकृष्टे क्षेत्रादौ ।

तृतीयाश्रम पुंन० कर्म्म० । वानप्रस्थाश्रमे । “उषित्वैवं

गृहे विप्रो द्वितीयादाश्रमात् परम् । बलीपलितसंयुक्त
स्तृतीयन्तु समाश्रयेत्” संवर्त्तस० ।

तृतीयिन् त्रि० तृतीय + अस्त्यर्थे इनि । तृतीयभागार्हे ।

“सर्वेषामर्द्धिनो मुख्यास्तदर्द्धेनार्द्धिनोऽपरे । तृतीयिन-
स्तृतीयांशाश्चतुर्थांशाश्च पादिनः” मनुः । दक्षिणागोशत-
विभागे ।

तृत्सु त्रि० तृद--बा० सुक् । हिंसके । “गव्या तृत्सुभ्यो

अजगन्युधा नॄन्” ऋ० ७ । १८ । ७ । “तृत्सुभ्यो हिंसकेभ्य” । भा०
२ राजर्षिभेदे “व्यानवस्य तृत्सवे गयम्” ऋ० ७ । १८ । १३ ।
तृत्सुं राजर्षिभेदम्” भा० ।

तृद हिंसायां भ्वा० प० सक० सेट् । तर्द्दति अतर्दीत् ततर्द्द । प्रतर्द्दनः ।

तृद अनादरे रु० उभ० सक० सेट् । तृणत्ति तृन्ते । इरित्

अतर्द्दीत् अतृदत् अतर्द्दिष्ट । उदित् तर्द्दित्वा तृत्त्वा । “भूतिं
तृणद्मि यक्षाणाम्” भट्टिः “ऋतस्य श्लोको वधिरा
ततर्द” ऋ० ४ । २३ । ८ “ततर्द तरसा विष्णुर्वाणैः
शत्रुबलार्द्दनः” हरिवं० १३४ अ० । “सेहे कपीरथाश्वांश्च
रिपोस्ततर्द शाखिना” “अतर्दीच्चैव शूलेन कुम्भकर्णः
प्लवङ्गमान्” भट्टिः ।

तृदिल त्रि० तृद--बा० किलच् । १ भेदके २ भिन्ने च । “तृदिला

अतृदिलासः” ऋ० १० । ९४ । ११ । “तृदिला भेदकाः
अतृदिला अभिन्नाः” भा० ।

तृन्प(म्प) प्रीणने तु० पर० सक० सेट् । तृपति तृम्पति

अतृग्मीत् अतृपीत् । ततृम्प ततृप ।

तृन्फ(म्फ) प्रीणने तु० प० सक० सेट् । तृफति तृम्फति

अतृम्फीत् अतृफीत् ततृम्फ ततृफ ।

तृन्ह हिंसे त० प० सक० सेट् क्ता वेट् । तृंहति ऌदित्

अतृहत् । ततृंह ततृहतुः ततृंहतुः ।

तृप प्रीणने स्वा० पर० सक० सेट् । तृप्नोति अतर्पीत् । ततर्प ।

तृप सन्दीपने प्रीणने च वा चुरा० उभ० पक्षे भ्वा० पर०

सक० सेट् । तर्पयात ते तर्पति अततर्पत्त अतीतृपत् त ।
अतर्पीत् । ततर्प ततर्पथ ।

तृप प्रीणने दि० पर० सक० वेट् इरित् । तृप्यति अतर्पीत् अत्रा-

प्सीत्--अर्ताप्सीत्--अतृपत् । ततर्ष ।

तृप प्रीणने तु० पर० सक० सेट् । तृपति अतर्पीत् ।

“तृपत्सोमं पाहि” ऋ० २ । ११ । १५ ।

तृपत पु० तृप । चन्द्रे उणादि० ।

तृपाना स्त्री तृप--कानच् । १ लतायाम् २ उणा० संक्षिप्तसा०

तृपल न० तृप--कलच् । १ उपले प्रस्तरे । “अपां तसन्य् स्तृपलप्र-

भर्मा” ऋ० । १० । ८९ । ५ । तृपलप्रभर्मा ग्रावादिभिः क्षिप्र-
प्रहारी” भा० । २ त्रिफलायाञ्च ।
पृष्ठ ३३४६

तृप्त त्रि० तृप--क्त । १ तृप्तियुक्ते । “नित्यं तृप्ता गृहेयस्य

देवायज्ञस्य धर्म्मतः” भा० व०५८ अ० । “स्वागतेनाग्नयस्तृप्ता
आसनेन शतक्रतुः । पितरः पादशौचेन स्विन्नानेन गृही
यतिः” पु० ।

तृप्ति त्रि० तृप--क्तिन् । भोजनादिना आकाङ्क्षितानिवृत्तौ

“वार्घीणसस्य मांसेम तृप्तिर्द्वादशवार्षिकी” मनुः “तस्या-
लमेषा क्षुधितस्य तृप्त्यै” रघुः ।

तृप्तिमत् त्रि० सुखा० अस्त्यर्थे इनि तृप्तमनेन इष्टादि० इनि वा ।

१ तृप्तियुक्ते स्त्रियां ङीप् । २ उदके निघण्टुः ।

तृप्नु त्रि० तृप--क्नु । तृप्तिशीले ।

तृप्र पु० तृप--रक् । १ पुरोडाशे उज्ज्वलद० । २ तर्पके त्रि० “न यं

शुक्रो न दुराशीर्न तृप्राः” ऋ० ८ । २ । ५ “तृप्रास्तर्पकाः” भा०
३ दुःखे न० ततः असहने आलु । तृप्रालु तदसहने । “तृप्रं
दुःखमिति माधवः” सि० कौ० । ४ घृते न० उणादि० ।

तृफ प्रीणने तुदा० पर० सक० सेट् । तृफति अतर्फीत् ।

ततर्फ । तृफतेरपि कलच् इत्युज्ज्वलदत्तः । दुर्गादासस्तु
अयं मुचादित्वभ्रान्त्या तृम्फतीत्युदाजहार । तच्चिन्त्यं
पा० मुचादिमध्ये तृफधातोरनुत्कीर्त्तनात् उज्ज्वलदत्तेन
तृफते रिति निर्द्देशाच्च । मुचादयश्च सि० कौ० १५६२ आदौ
दृश्याः । तृम्फादिशब्दे दृश्यः ।

तृफला स्त्री तृफ--कलच् । त्रिफलायाम् उज्ज्वलद० ।

तृफू स्त्री तृफ--कू । सर्पजातौ उणादि० ।

तृम्फादि “तृन्फ तुन्फ तृन्फ दृन्फ ऋन्फ गुन्फ उन्फ

शुन्फ” पा० धातुपाठोक्ते धातुगणभेदे ।

तृष तृष्णायां दिवा० पर० सक० सेट् । तृष्यति इरित् अतृषत्

अतर्षीत् । ततर्ष । “तृषित्वेवानिशं स्वादु पिबन्तं सरितां
पयः” । “मुमूर्च्छुर्ववमूरक्तं ततृषुश्चोभये भटाः” “रक्त-
मश्च्योतिषुः क्षुण्णाः क्षताश्च कपयोऽतृषन्” भट्टिः ।

तृष्(षा) स्त्री तृष--सम्प० क्विप् वा टाप् । १ आकाङ्क्षायां २

पिपासायां ३ कामकन्यायाञ्च शब्दर० । ४ लाङ्गलीवृक्षे शब्दच०
“लोभो जनयते तृषां तृषार्त्तो दुःखमाप्नोति” हितोप० ।
“कृपा हि मे सुमहती त्वां दृष्ट्वा तृट्समाश्रितम्” भा०
आश्व० ५५ अ० । “न हन्ति मण्डूककुलं तृषाकुलः” ऋतु० ।

तृषाभू स्त्री ६ त० । तृष्णाधारे क्लोमनि शब्दच० तृष्णाशब्दे

चरकवाक्ये क्लोम्नस्तत्स्थानत्वं दृश्यम् ।

तृषाह न० तृषां हन्ति हन--ड । १ जले २ मधुरिकायां (मौरी) स्त्री शब्दच०

तृषित त्रि० तृषा जातास्य तार० इतच् । १ तृष्णान्विते हेमच०

“तृषितान्याहवे भोक्तुं नृपमांसानि वै भृशम्” हरिवं०
९२ अ० ।

तृषितोत्तरा स्त्री तृषित उत्तरः यस्याः । अशनपर्ण्याम् शब्दच० ।

तृषु न० तॄ--तुर--वा सुक् पृषो० । १ क्षिप्रे निघण्ठुः । २ तद्वति

त्रि० स्त्रियामुदन्तगुणचलनत्वात् ङीप् । “तृष्वीमनु
प्रसितिं द्रूणानोऽस्तासि” ऋ० ४ । ४ । १ । “तृष्विति क्षिप्र-
नाम भरतेर्वा त्वरतेर्वा निरु०” भा० । “तृषु यदन्ना
तृषुणा” ऋ० ४ । ७ । ११ ।

तृष्ट त्रि० तृष--क्त वेदे बा० इड़भावः । १ दाहजनके

“तृष्टमेतत् कटुकमेतत्” ऋ० १० । ८५ । ३४ । “तृष्टं
दाहजनकम्” भा० ।

तृष्टामा स्त्री तृष्टं दाहममयति गमयति अम णिच्--अच्

१ नद्याम् “तृष्टामया प्रथमं यातवे” ऋ०१० । ७५ । ६ ।
“तृष्टामया नद्या” भा० ।

तृष्णज् त्रि० तृष नजिक् । १ लुब्धे अमरः । “असिञ्चन्नुत्सं

गोतमाय तृष्णजे” ऋ० १ । ८५ । ११ ।

तृष्णा स्त्री० तृष नाकिच्च । १ पिपासायां, २ लोभे, ३ अप्राप्ताभि-

लाषे च अमरः ४ रोगभेदे । तन्निदामादि भावप्र०
उक्तं यथा
“भयश्रमाभ्यां वलसङ्क्षयाद्वा ऊर्द्धं चितं पित्तविवर्द्ध-
नैश्च । पित्तं सवातं कुपितं नराणां तालुप्रपन्नं जनयेत्
पिपासाम् । स्रोतःस्वपांवाहिषु दूषितेषु दोषैश्च तृट् सम्भ-
वतीह जन्तोः । तिस्रः स्मृतास्ता क्षतजा चतुर्थी क्षया-
त्तथान्यामसमुद्भवा च । भुक्तोद्भवा सप्तमिकेति तासां
निबोध लिङ्गान्यनुपूर्वशस्तु” । नराणां चितं स्वस्थान
एव सञ्चितं पित्तं सवातं पित्तविवर्द्धनैः कद्वम्लोष्णादिभिः
कुपितम् । भयश्रसाभ्यां बलसङ्क्षयादुपवासादेश्च त्वातः
कुपितः । तद्द्वयं ऊर्द्ध्वं प्रसरत् तालुप्रपन्नं सत् पिपासां
जनयेत् । न केवलं तालुन्येव दूषिते तृष्णा भवति
किन्तु जलवाहिस्रोतःस्वपि । अत आह । स्रोतः
स्वित्यादि । नन्वत्र बहुवचनमयुक्तम् । यतो जलवहे
द्वे स्रोतसी सुश्रुतेनोक्ते । उच्यते । तयोरेवानेकप्रता-
नयोगान्न दोषः । अपांवाहिषु स्रोतःस्विति जिह्वादे-
रप्युपलक्षणम् । यत आह चरकः । “रसवाहिनीश्च
धमनीर्जिह्वाहृदयगलतालुक्लोम च । संशोष्य नॄणां देहे
कुरुतस्तृष्णामतिवलौ पित्तानिलाविति” । सङ्ख्यामाह
तिस्र इत्यादि । तृष्णायाः सामान्यं लक्षणमाह ।
पृष्ठ ३३४७
“सततं यं पिवेत्तोयं न तृप्तिमधिगच्छति । मुहुः
काङ्क्षति तोयन्तुतं तृष्णार्द्दितमादिशेत् । वातजायालक्ष-
णमाह । क्षामास्यता मारुतसम्भवायां तोदस्तदा शङ्ख-
शिरःसु चापि । स्रोतोनिरोधो विरसञ्चवक्त्रं शीताभि-
रद्भिश्च विवृद्धिमेति” । शङ्खशिरःसु शङ्खयोः शिरसि च ।
स्रोतो निरोधः । पित्तजामाह “मूर्च्छान्नविद्वेषविलाप-
दाहरक्तेक्षणत्वं प्रततश्च शोषः । शीताभिनन्दो
मुखतिक्तता च पित्तात्मिकायां परिधूपनञ्च” । विलापः प्रलापः
प्रततश्च शोषः अविरतश्च शोषः । शीताभिनन्दः
शीतेच्छा । परिधूपनं कण्ठाद्धूमनिर्गम इव । कफजामाह ।
“वास्पावरोधात् कफसंवृतेऽग्नौ तृष्णा बलासेन भवेन्नरस्य ।
निद्रागुरुत्वं मधुरास्यता च तयार्द्दितः शुष्यति चाति-
मात्रम्” । अग्नौ जठराग्नौ । कफसंवृते स्वकारण
कुपितेन कफेनोपरिष्टादाच्छादिते । वास्पावरोधात् अग्ने-
रुष्मावरोधात् । अवरुद्धानलोष्मणाम्बु वहस्रोतःशोषणात्
बलासेन कफेन नरस्य तृष्णा भवेत् । तया तृष्णया
अर्दितः पीड़ितः शुष्यति कृशो भवति । क्षतजामाह ।
“क्षतस्य रुक्शोणितनिर्गमाभ्यां तृष्णा चतुर्थी क्षतजा
मतातु” । क्षतस्य शस्त्रादिक्षतयुक्तस्य । रुक् पीड़ा । क्षय-
जामाह । “रसक्षयाद् या क्षयसम्भवा सा तयाभिभू-
तस्तु निशादिनेषु । पेपीयतेऽम्भः स सुखं न याति तां
सन्निपातादिति केचिदाहुः । रसक्षयोक्तानि च लक्ष-
णानि तस्यामशेषेण भिषग् व्यवस्येत्” । रसक्षयलक्षणानि
सुश्रुतेनोक्तानि “रसक्षये हृत्पीड़ा कम्पः शोषः शून्यता
तृष्णा चेति” । व्यवस्येत् जानीयात् । आमजामाह ।
“त्रिदोषलिङ्गामसमुद्भवा च हृच्छूलनिष्ठीवनसादकर्त्री” ।
भुक्तोद्भवामाह । “स्निग्धं तथाम्लं लवणञ्च भुक्तं गुर्वन्न
सेवासु तृषां करोति” । लवणञ्चेति चकारात् कटु च ।
उपसर्गजामाह “क्षीणस्वरः प्रताय्यं दीनाननहृदय-
शुष्कगलतालुः । भवति खलु सोपसर्गात् तृष्णा सा
शोषिणी कष्टा” । शोषिणी धातुशोषिणी । उपसर्गानाह ।
“ज्वरमोहं क्षयः श्वासो बाधिर्य्यं कास एव च ।
बहिर्निर्गतजिह्वत्वं सप्तैते तदुपद्रवाः” । तद्युक्तायां अरिष्ट-
त्वञ्चाह “ज्वरमोहक्षयकासश्वासाद्युपसृष्टदेहिनाम् ।
सर्वास्त्वतिप्रसक्तारोग कृशानां वमिप्रसक्तानाम् । घोरो-
पद्रवयुक्तास्तृष्णा मरणाय विज्ञेयाः” । आदिशब्दादती-
सारादीनां ग्रहणम् । अतिप्रसक्ताः निरन्तराः । घोरो-
पद्रवयुक्ताः अतीव मुखशोषादियुताः ।
तृष्णाशब्दस्य वरुत्रीशब्देन द्वन्द्वे उभयपदे प्रकृतिखरः ।

तृष्णाक्षय पु० तृष्णायाः क्षयो यत्र । १ शान्तिगुणे हेमच० ।

६ त० । २ पिपासानाशे च ।

तृष्णारि पु० ६ त० । १ पर्पटे राजनि० । २ तृष्णानाशके च ।

तृष्णालु त्रि० तृष्णा + अस्त्यर्थे आलु । तृष्णायुक्ते ।

“तृष्णालुर्भवति पूतनागृहीतः” सुश्रु० ।

तृष्य त्रि० तृष--ऋदुपधत्वात् क्यप् । १ लोभ्ये २ एषणीये । भावे

क्यप् । ३ लोभे न० । तृष्यमस्त्यस्य मतुपि वेदे दीर्घः ।
तृष्यावत् । तृष्णायुक्ते । “अभ्यवर्षोत्तृष्यावतः प्रावृ-
ष्यागतायाम्” ऋ० ७ । १०३ । ३ । तृष्यावतस्तृष्णावतः” भा० ।

तृह हिंसे तु० पर० सक० वेट् । तृहति अतर्हीत् अतृक्षत् ।

तृह हिंसे वा चु० उ० पक्षे रुधा० पर० सक० वेट् ।

तर्हयति ते तृणेढि अततर्हत् त अतीतृहत् त अतर्हीत्
अतृक्षत् । “तृणेढु रामः सह लक्षणेन” भट्टिः ।

तॄ तरणे प्लवने अभिभवे च भ्वा० प० सक० सेट् । तरति

अतारीत् । ततार । “तरति ब्रह्महत्यां योऽश्वमेधेन
यजते” तरति शोकमात्मविद्” श्रुतिः शत० ब्रा० १४ । ७ । १ । २२
“ततार ताराधिपखण्डधारी” कुमा० “क्रमेण
तस्मिन्नथ तीर्णदृक्पथे” नैष० । तेरतुः । तरीरिता
तरि(री)ष्यति । तीर्य्यात् । तरीतुं तरितुं तीर्त्त्वा
तीर्य्यते । तारयति तितीर्षति । “तितीर्षुर्दुस्तरं
मोहात्” रघुः । “ताञ्च तर्तुं प्रयच्छामीमित्यत्रार्षः इड़भावः ।
  • अति + अतिक्रम्य गमने । “खर्गानतितरन्ति ते” हितो० ।
“न यस्य कश्चातितितर्त्ति मायाम्” भाग०८ । ५ । ३० ।
यङ्लुङोरूपम् ।
  • वि + अति + विशेषेण अतिक्रमे । “यदा ते मोहकलिलं बुद्धि-
र्व्यतितरिष्यति” गीता ।
  • अभि + उल्लङ्घने । “कथं नाभ्यतरामस्तां पाण्डवानामनीकिनीम्” भा० द्रो० २८० ।
  • अब + अवनमने । “अथोरुदेशादवतार्य्य पादम्” कुमा० ।
अवतारः । “अवतरतः सिद्धिपरं शब्दस्य मनोरथस्य वा”
मालविकाग्नि० ।
  • उद् + उत्थाने अक० । “सपल्वलोत्तीर्णवराहयूथम्” रघुः ।
उल्लङ्घने सक० । “उदतारीदुदन्वन्तम्” “उदतारिषु-
रम्भोधिम्” भट्टिः ।
  • निम् + निःशेषेण तरणे । “कथञ्च निस्तरेयास्मात्” भा० व० १५५६६ श्लो० ।
  • वि + दाने । “तड़िल्लेखालक्ष्मीर्वितरति पताकावलिरियम्”
“ज्योत्स्ना शङ्कामिह वितरति” १ किरा० ।
  • सम् + सम्यक् तरणे (साँतार देओया) ।
पृष्ठ ३३४८

ते अव्य० तम--वा० डे । १ त्वयेत्यर्थे त्रिका० । २ गौर्य्यां तेनशब्देदृश्यम्

तेगा स्त्री तिज--पुंसि घ जस्य गः । अप्रसिद्धदेवताभेदे । “शादं

दद्भिरवकां दन्तमूलैर्मृदं वर्स्वैस्तेगां दंष्ट्राभ्याम्” यजु०
१५ । १ । “देगां देवतां शादादयोऽप्रसिद्धा देवाः
आदित्यादयः प्रसिद्धाः देवाः” वेददीपः ।

तेज निशाने पालने च भ्वा० पर० सक० सेट् । तेजति अतेजीत् । तितेज ।

तेजःफल न० तेजसे फलमस्य तेजः फलति--फल अच् वा ।

(तेजबल) वृक्षभेदे “तेजःफलः कटुस्तीक्ष्णः सुगन्धिर्दी-
पनो मतः । वातश्लेष्मारुचिघ्नश्च बालरक्षाकरः स्मृत
इति” भावप्र० ।

तेजन पु० तेजयति शस्त्रमग्निं वा तिज--णिच्--ल्यु । १ वंशे

२ मुञ्जे च अमरः संज्ञायां कन् । ३ शराभिधे तृणे, करणे
ल्युट् । ङीप् । ४ मूर्वायां, ५ ज्योतिष्मत्याञ्च स्त्री ङीप् ।
राजनि० । ६ शस्पे अमरः ।

तेजपत्र न० तेजयति तिज--णिच्--अच् तेजं पत्रमस्य । (तेज-

पात) ख्याते वृक्षभेदे । “तेजपत्रं वराङ्गं स्यात् त्वचं
चोचं तथोत्कटम् । त्वचं लघूष्णं कटूकं स्वादु तिक्तञ्च
रूक्षकम् । पित्तलं कफवातघ्नं कण्ड्वामारुचिनाशनम् ।
हृद्वस्तिरोगवातार्शःकृमिपोनसशुक्रहृत्” भावप्र० ।

तेजल पु० तिज--करणे कलच् । कपिञ्जलपक्षिणि राजनि० ।

तेजस् त० तिज--भावे करणादौ असुन् । १ दीप्तौ २ प्रभावे

३ पराक्रमे ४ रेतसि च मेदि० । ५ देहजकान्तौ ६ नवनीते
७ वह्नौ च हेमच० । ८ सुवर्णे ९ मज्जनि १० पित्ते च
राजनि० । सा० द० उक्ते सात्विके अधिक्षेपापमानादेर-
सहनरूपे ११ नायकगुणभेदे यथा
“शोभा विलासो माधुर्य्यङ्गाम्भीर्य्यं धैर्य्यतेजसी ।
ललितौदार्य्यमित्यष्टौ सत्वजाः पौरुषा गुणाः” इत्युद्दिश्य
“अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् । प्राणात्ययेऽप्य-
सहनं तत्तेजः समुदाहृतम्” सा० द० लक्षितम् । १२ सारे
“रसादीनां शुक्रान्तानां धातूनां यत्परं तेजस्तत् स्वल्वो-
जस्तदेव बलमित्युच्युते” सुश्रु० १३ प्रागल्भ्ये १४ पराभिभव-
सामर्थ्ये । १५ परैरनभिभाव्यत्वे । १६ अप्रतिहताज्ञत्वे ।
१७ चैतन्यात्मके ज्योतिषि । १८ स्त्रीबालकादिभिर्मूढ़ैरनभि-
भाव्यत्वे । १९ सत्वगुणजाते लिङ्गदेहे । २० हयवेगे ।
“तेजोनाम दर्पापरानामा सत्त्वगुणविकारः प्रकाशकोऽन्तः
नारविशेषः । यथाह भोजराजः “तेजोनिसर्गजं
न्वत्त्वं वाजिनां स्फुरणं रजः । क्रोधस्तम इति ज्ञेया-
स्त्रयोऽपि सहजागुणाः” । तच्च द्विविधम् । सततोत्थितं
भयोत्थितञ्चेति । यथाह स एव “धारासु योजिता-
नाञ्च निसर्गात् प्रेरणं विना । अवच्छिन्नमिवाभाति तत्
तेजःसततीत्थितम् । कशापादादिघातैर्यत् साध्वसात्
स्फुरितन्तु तदिति” । शब्दस्पर्शतन्मात्र सहिताद्रूपतन्मा-
त्रादुत्पन्ने शब्दस्पर्शरूपगुणे २१ तृतीये महाभूते । यथा
“तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते । अधिभूतं
ततोरूपं सूर्य्यस्तत्राधिदैवतम्” भा० आश्व० उष्णस्पर्शवत्तेजः ।
“तद्द्विविधम् । नित्यमनित्यञ्च । नित्यं परमाणुरूपम् ।
अनित्यं कार्य्यरूपम् । पुनस्त्रिविधम् । शरीरेन्द्रियविष-
यभेदात् । शरीरमादित्यलोके । इन्द्रियं रूपग्राहकं चक्षुः
कृष्णताराग्रवर्त्ति विषयश्चतुर्विधः । भौमदिव्यौदर्य्याकरजभे-
दात् । भौमं वह्न्यादिकम् । अविन्धनं दिव्यं विद्यु-
दादि । भुक्तान्नस्य परिणामहेतुरौदर्यम् । आकरजं
सुवर्णादि” तर्कसंग्रहः “स्पर्श उष्णस्तेजसस्तु स्याद्रूपं
शुक्लभाखरम् । नैमित्तिकं द्रवत्वन्तु नित्यतादि च पूर्व-
वत् । इन्द्रियं नयनं वह्निस्वर्णादिर्विषयोमतः” इति
भाषाप० ।
उपचारात् २२ तेजस्विनि च । “त्रीणि तेजांसि
नोच्छिष्ट आलभेत कदाचन” “अग्निं गां ब्राह्मणं
चैव” भा० आनु०५०१७ श्लो० । स्वपरप्रकाशकं तेजः
अन्धकारविरोधि तल्लक्षणञ्च शुक्लभास्वररूपसमानाधि-
करणद्रव्यत्वव्याप्यजातिमत्त्वम् । तेजसो गुणादिक-
मग्निशब्दे ४८ पृ० दृश्यम् । “सामानाधिकरण्यं हि
तेजस्तिमिरयोः कुतः” माघः । भुक्ततेजसः कार्य्यञ्च छा०
उ० दर्शितं “तेजोऽशितं त्रेधा विधीयते तस्य यः
स्थविष्ठो धातुस्तदस्थि भवति यो मध्यमं स मज्जा
योऽणिष्ठः सा वाक् । “अन्नमयं हि सौम्य! मन आपोमयः
प्राणस्तेजोमयी वागिति च” तेजोभूतञ्च वायुकार्य्य-
मपां कारणञ्च । यथोक्तं “अद्भिः सौम्य! शुङ्गेन तेजो-
मूलमन्विच्छ” छा० श्रुतिः २३ रजोगुणे तैजसशब्दे दृश्यम्
तेजसा निर्वृत्तः अण् तेजोजन्ये त्रि० । तेजसं + अस्त्यर्थे
विनि । तेजस्विन् मतुप् मस्य वः तेजस्वत् । तेजोविशिष्टे
त्रि० स्त्रियां सर्वत्र ङीप् । तैजसी तेजस्विनी
तेजस्वती । २४ वीर्य्ये च ।

तेजस्कर त्रि० तेजः करोति कृ--हेत्वादौ ट । तेजोहेतौ द्रव्ये स्त्रियां ङीप् ।

तेजस्य त्रि० तेजसि साधु यत् । तेजःसाधने “यावामिन्द्रा-

वरुणा सहस्या रक्षस्या तेजस्या तनूः” तै० स० २ । ३ । १३ । १ ।
पृष्ठ ३३४९

तेजस्वत् त्रि० तेजस + अस्त्यर्थे मतुप् मस्य वः । तेजोयुक्ते

“तेजस्वदस्तु मुखम्” तैत्ति० १ । ७ । ७ । ३ । स्त्रियां ङीप्
सा च २ गजपिप्पल्यां शब्दरत्ना० ३ चविकायां रत्नमाला
४महाज्योतिष्मत्यां राजनि० । अत्र संज्ञात्वेन सान्तत्वात्
सस्य पदत्वाभावे तेजोवतीत्यपि तत्रार्थे ।

तेजस्विन् त्रि० तेजस् + अस्त्यर्थे विनि । तेजोयुक्ते “तेज-

स्विमध्ये तेजस्वी दवीयानपि गण्यते” माघः । स्त्रियां
ङीप् । सा च २ ज्योतिष्मतीलतायां शब्दर० । ३
महाज्योतिष्मतीलतायाम् राजनि० । “तेजोस्विनी
कफश्वासकासाऽऽस्यामयवातहृत् । पाचन्युष्णा कटुस्तिक्तारु-
चिवह्निप्रदीपनी” भावप्र० ।

तेजित त्रि० तिज--णिच्--क्त । शाणिते तीक्ष्णीकृते अमरः

तेजिष्ठ त्रि० तेजस्विन् + अतिशये इष्ठन् विनेर्लुकि डिद्भावः ।

अतिशयेन तेजस्विनि । “तेजष्ठिया तिथिग्वस्य वर्तनी”
ऋ० १ । ५३ । ८ ।

तेजीयस् त्रि० तेजस्विन् + अतिशये ईसुन् विनेर्लुकि

डिद्भावः । अतितेजस्विनि । “तेजीयसां न दोषाय वह्नेः
सर्वभुजो यथा” भाग० १० । ३३ । २९ । स्त्रियां ङीप् ।

तेजेयु पु० रौद्राश्वनृपस्य पुत्रभेदे । “रौद्राश्वस्य महेष्वासा दशाप्

सरसि सम्भवाः” इत्युपक्रमे । “तेजेयुर्बलवान् धीमान्
सत्येयुश्चेन्द्रविक्रमः” भा० आ० ९४ अ० ।

तेजोनाथ तीर्थभेदे शिवपु० दृश्यम् ।

तेजोमन्थ पु० तेजो मथ्नाति मन्थ--अण् । गणिकारिकायाम् । रत्नमा० ।

तेजोमय त्रि० तेजस् + प्रचुरार्थे विकारे वा मयट् । १ तेजः-

प्रचुरे २ तेजोविकारे ३ ज्योतिर्मये च । स्त्रियां ङीप् ।
“तेजोमयी वाक्” इति छा० उ० श्रुतिः । “तस्य तेजोमया
लोका भवन्ति ब्रह्मवादिनः” मनुः ।

तेजोमात्रा स्त्री तेजसां सत्त्वगुणानां मात्रांऽशः । इन्द्रियेषु

भूतानां सात्विकांशेभ्य एव तेषामुत्पत्तिः सांख्यसिद्धा ।

तेजोमूर्ति पु० तेजस्तेजस्वती मूर्त्तिर्यस्य । १ सूर्य्ये २ तेज

आत्मके ३ तेजः प्रचुरे च त्रि० । “स गच्छति परं स्थानं
तेजोमूर्त्तिपथर्जुना” मनुः ।

तेजोरूप न० तेजः मर्वप्रकाशकं चैतन्यं रूपं स्वरूपं यस्य ।

ज्योतीरूपे प्रकाशात्मके ब्रह्मणि “अशरीरं विग्रहवदि-
न्द्रियवदतीन्द्रियम् । यदसाक्षि सर्वसाक्षि तेजोरूपं
नमाम्यहम्” ब्रह्मवै० पु० । ६ त० । २ तेजसो रूपे च अग्नि-
शब्दे तद्रूपं दर्शितम् ।

तेजोवत् त्रि० तेजस् + अस्त्यर्थे मतुप् मस्य वः बा० न पदत्वम् ।

तेजोयुक्ते स्त्रियां ङीप् । सा च (तेजस्वत्) शब्दोक्तार्थेषु ।
“तेजोवता लोकगणेन सार्द्धम्” मत्स्यपु० । अग्न्यावाहनमन्त्रः

तेजोविन्दु पु० उपनिषद्भेदे उपनिषच्छब्दे दृश्यम् ।

तेजोवृक्ष पु० तेजोयुक्तः वृक्षः शा० त० । क्षुद्राग्निमन्थवृक्षे राजनि० ।

तेजोवृत्त न० तेजसः वीर्य्यस्यानुरूपं वृत्तम् । वीर्य्यानुरूप-

चरिते । “इन्द्रास्यार्कस्य वायोश्च यमस्य वरुणस्य च ।
चन्द्रस्याग्नेः पृथिव्याश्च तेजोवृत्तं नृपश्चरेत्” मनुः ।

तेजोह्वा स्त्री तेजः ह्वयते स्पर्द्धते ह्वे--क । तेजस्विन्यां

लतायाम् भावप्र० । “कम्पिल्लकं ससिन्दूरं तेजोह्वा तुत्थ-
काह्वये” सुश्रु० ।

तेदनी स्त्री देवताभेदे “तेदनीमधरकण्टेनापः” यजु० २५ । २ । “तेदनीं देवतां प्रीणामि” वेददी० ।

तेन अ० तद् + बा० एन । १ तद्धेतुनेत्यर्थे भरतः । ते इति न इति

शब्दौ यत्र । २ गानाङ्गभेदे पु० । “तेनेति शब्दस्तेनः
स्यान्मङ्गलानां प्रदर्शकः । तेशब्देनोच्यते गौरी नशब्दे-
नोच्यते हरः । तेन माङ्गलिकश्चायं शब्दस्तेन इति
स्मृतः” सङ्गी० दा० ।

तेप कम्पे, च्युतौ च भ्वा० आ० अक० सेट् । तेपते

अतेपिष्ट । तितेपे । ऋदित् । अतितेपत् त ।

तेम पु० तिम--घञ् । आर्द्रीभावे । अमरः ।

तेमन न० तिम--ल्युट् । १ आर्द्रीकरणे । कर्मणि ल्युट् । २ व्यञ्जने ।

अमरः । आधारे ल्युट् ङीप् । ३ चूल्लीभेदे हेमच० ।

तेलु पु० नृपभेदे ततः राजन्या० विषये देशे वुञ् । तैलवक तेलु-

नृपविषये देशे ।

तेव क्रीड़ने भ्वा० आ० अक० सेट् । तेवते अतेविष्ट । तितेवे । ऋदित् अतितेवत् त ।

तेवन न० तेय--भावे ल्युट् । १ क्रीड़ायाम् । आधारे ल्युट् ।

२ केलिकानने हेसच० ।

तैङ पु० तिङां व्याख्यानः ग्रन्यः अञ् । तिङांव्याख्याने ग्रन्थे

तैजस न० तेजसो विकारः अण् । १ घृते, २ धातुद्रव्यमात्रे च ।

साङ्ख्योक्ते ३ रजोगुणोत्पन्ने त्रि० । “वैकारः सात्विको नाम
तैजसः राजसः स्मृतः । भूतादिस्तामसस्तेऽपि पृथक्
तत्त्वान्यवासृजन्” पदार्थादर्शधृतवाक्यम् ।
“सात्विक एकादशकः प्रवर्त्तते वैकृतादहङ्कारात् । भूतादे-
स्तन्मात्रः स तामसस्तैजसादुभयम्” सा० का० । “ननुयदि
सत्वतमोभ्यामेव सर्वं कार्य्यं जन्यते तदा कृतमकिञ्चित्करेण
रजसेत्यत आह तैजसादुभयं तैजसात् राजसादुभयं
गणद्वयं भवति । यद्यपि रजसो न कार्य्यान्तरमस्ति
तथापि सत्वतमसी स्वयं क्रियासमर्थे अपि न स्वस्वकार्य्यं
कुरुतः रजस्तु चलतया ते यदा चालयति तदा स्वस्व-
कार्य्यं कुरुत इति तदुभयस्मिन्नपि कार्य्ये सत्वतमसोः
पृष्ठ ३३५०
क्रियोत्पादनद्वारेणास्ति रजसः कारणत्वमिति न व्यर्थं
रज” इतित० कौ० । तिज निशाने इत्यस्मादसुन् तेन
तेजसा कृतः तैजसः रजसश्च सत्वतमसोः स्वस्वतेजकार्य्यसम-
र्थत्वकरणरूपतैक्ष्ण्यकरणगुणयोगात् तेजःपदाभिधेयता
इति तदाशयः “तैजसादिन्द्रियाण्यासन्” शा० ति० । सत्त्व-
गुणस्य प्रकाशकत्वात् “तैजसमन्तःकरणमिति” वेदान्तप० ।
४ तीर्थभेदे न० । “तैजसं नाम तत्तीर्थं यत्र तीर्थेह्यपां
पतिः । अभिषिक्तः सुरगणैर्वरुणो भरतर्षभ!” भा० श० ४७
अ० एतद्व्यष्ट्यु पहितं चैतन्यं तैजसो भवति । तेजोम-
यान्तःकरणोपहितत्वात्” वेन्दान्तसारोक्ते ५ चैतन्यभेदेपु० ।

तैजसावर्त्तनी स्त्री तैजसं धातुद्रव्यमावर्त्त्यतेऽत्र आ--वृत

णिच्--आधारे ल्युट् ङीप् । मूषायाम् । (मुची) अमरः

तैतल पु० ऋषिभेदे ततः तिका० अपत्ये फिञ् । तैतला-

यनि तदपत्ये पुंस्त्री ।

तैतिक्ष त्रि० तितिक्षा शीलमस्य छत्रादि० ण । तितिक्षाशीले ।

तैतिक्ष्य पुंस्त्री० तितिक्षस्य ऋषिभेदस्य गोत्रापत्यं गर्गा-

यञ् । तितिक्षर्षिगोत्रापत्ये तस्य छात्राः कण्वा० अणि
यञो लोपः । तैतिक्षाः तैतिक्ष्यस्य छात्रेषु ब० व० ।

तैतिर पुंस्त्री० तैत्तिर पृषो० । (तितिर) खगे राजनि० ।

स्त्रियां ङीष् ।

तैतिल पु० १ गण्डकपशौ । २ ववादितश्चतुर्थे करणे न०

मेदि० । ३ देवे च । “शक्तिसदृशेन दानेनावाधितधर-
णीतलतैतिलगणः” दशकु० । तैतिलशब्दस्य कद्रूशब्दे-
न समासे पूर्वपदप्रकृतिस्वरः ।

तैतिलिन् पु० गोत्रप्रवर्त्तकर्षिगणस्थप्रवरभेदे ।

तैत्तिर न० तित्तिरीणां समूह अण् । तित्तिरखगसमूहे ।

तित्तिर + स्वार्थे अण् । (तितिर) खगभेदे पुंस्त्री राजनि० ।
गण्डकपशौ च मेदि० ।

तैत्तिरि पु० कुकुरवंश्यनृपभेदे । “कुकुरस्य सुतो धृष्णु-

र्धृष्णोऽस्तु तनयस्तथा । “कपोतरोमा तस्याथतैत्तिरि-
स्तनयोऽभवत्” । हरिव० ३८ अ० । २ऋषिभेदे । आद्यः
कठस्तैत्तिरिश्च वैशम्पायनपूर्वजः” भा० शा० ३३८ अ० ।
२ कृष्णयजुःप्रवर्त्तके ऋषिभेदे ।

तैत्तिरीय पु० ब० व० तित्तिरिणा प्रोक्तमधीयते छण् । १ तित्ति-

रिप्रीक्तशाखाध्येतृषु स्वार्थे क । तैत्तिरीयकास्त्रत्रार्थे ।
यजुःशाखाभेदे । तन्नामनिरुक्तिः यथा ।
“देवरातसुतः सोऽपि छर्दित्वा यजुषां गणम् । ततो
गतोऽथ मुनयोददृशुस्तान् यजुर्गणान् । यजूंषि तित्ति-
राभूत्वा तल्लोलुपतया ददुः । तैतिरीया इति यजुः
शाखा आसन् सुपेशलाः” भाग० १२ ।

तैन्तिडीक त्रि० तिन्तीड़िकेन संस्कृतम् कोपधत्वात् अण् ।

तिन्तिड़ीकसंस्कृतव्यञ्जनादौ । तस्य विकारः कोपधत्वात्
अण् । २ तिन्तिड़ीकविकारे च ।

तैमिर तिमिरमेव अण् । नेत्ररोगभेदे “ऐर्मं हन्यार्मन-

क्तान्ध्यकाचान् नीलीरोगं तैमिराञ्जनेन” सुश्रु० ।
तैमिरो रोगोऽस्त्यस्य ठन् तैमिरिकः । तिमिररोगक्ते ।
“न वामयेत्तैमिरिकोर्द्धवातगुल्मोदरप्लीहकृमिश्रमार्त्तान्”
सुश्रु० । “तैमिरिका इवादूरदर्शिनम्” काद० ।

तैर न० तीरे भवः अण् । कूलत्थे राजनि० ।

तैरणी स्त्री तीरे नमति नम--बा० ड ततः स्वार्थे अण् गौरा०

ङीष् । कुनील्यां रागदे क्षुपभेदे ।

तैरश्च त्रि० तिरश्चामिदम् तिर्य्यच् अण् + भत्वात् तिरश्चादेशः । तिर्यग्जातिसम्बन्धिनि

तैर्थ त्रि० तीर्थे दीयते कार्य्यं वा व्युष्टा० अण् । १ तीर्थे देये

२ तीर्थकार्य्ये च तीर्थात् आयस्थानादागतः शुण्डिका०
अण् । तीर्थरूपायस्थानादागते द्रव्यादौ च ।

तैर्थक त्रि० तीर्थे देशे भवः धूमा० वुञ् । तीर्थदेशभवे ।

तैर्थिक त्रि० तीर्थं सिद्धान्तनिश्चयं नित्यमर्हति छेदा० ठञ् ।

१ तीर्थसिद्धान्ताभिज्ञे शास्त्रकरे कपिलकणादादौ तीर्थं
वेत्ति ठञ् वा । २ सिद्धाभिज्ञे । तीर्थे भवः ठञ् । ३ तीर्थभवे ।
“तैर्थिकाभुञ्जते यस्तु मणिनागस्य” भा० व० ८५ श्लो० ।

तैर्थ्य त्रि० तीर्थ + चतुरर्थ्या० सङ्का० ण्य । तीर्थसमीपादौ ।

तैर्य्यगयनिक त्रि० तिरश्चामयनं सत्रभेदः तदेव ठञ् ।

सत्रभेदे । “अष्टादशभिर्ज्यायानादित्यः संवत्सर एव
तैर्यगयनिको भवति । आदित्यः खलु शश्वदेकदा
षण्मासानुदङ्ङेति नव चाहानि तथा दक्षिणा” श्रुतिः ।

तैर्य्यग्योन त्रि० तिर्य्यग्योनेरिदम् + अण् । तिर्य्यग्योनीनां

पश्वादीनां मम्बन्धिनि सर्गभेदे ।
“अष्टविकल्पो दैवस्तैर्य्यग्योनश्च पञ्चधा भवति । मानुष्य-
श्चैकविधः समासतो भौतिकः सर्गः” सा० का० तैर्य्य-
ग्योनश्च पञ्चधा भवति पशुमृगपक्षिसरीसृपस्थावरात्मकः”
त० कौ० । तत्र भवः अण् । तद्योनिभवे । “निन्दन्त्यवमता
मन्त्रं तैर्य्यग्योनास्तथैव च” मनुः ।

तैल न० तिलस्व तत्सदृशस्य वा विकारः अञ् । तिलसर्षपादि-

जनिते स्नेहद्रव्यभेदे । तल्लक्षणादिकं भावप्र० उक्तं यथा
“तिलादिस्निग्धवस्तूनां स्नेहस्तैलमुदाहृतम् । तत्तु
वातहरं सर्वं विशेषात्तिलसम्भवम् । अथ तिलतैलगुणाः
पृष्ठ ३३५१
“तिलतैलं गुरु स्थैर्य्यवलवर्णकरं सरम् । वृष्यं विकाशि
विशदं मधुरं रसपाकयोः । सूक्ष्मं कषायानुरसं-
तिक्तं वातकफापहम् । वीर्य्येणोष्णं हिमं स्पर्शे वृंहणं
रक्तपित्तकृत् । लेखनं बद्धविण्मूत्रं गर्भाशयविशो-
धनम् । दीपनं बुद्धिदं मेध्यं व्यवायि व्रणमेहनुत् ।
श्रोत्रयोनिशिरःशूलनाशनं लघुताकरम् । त्वच्यं
केश्यञ्च चक्षुष्यमभ्यङ्गे भोजनेऽन्यथा । छिन्नभिन्नच्यु-
तोत्पिष्टमथितक्षतपिच्चिटे । भग्नस्फुटितविद्धाग्निदग्ध-
विश्लिष्टदारिते । तथाभिहितमिर्भुग्ने मृगव्याघ्रादि
विक्षते । वस्तौ पानेऽन्नसंस्कारे नस्ये कर्णाक्षिपूरणे ।
सेकाभ्यङ्गावगाहेषु तिलतैलं प्रशस्यते” । ननु वृंहण
लेखनयोः कथं सामानाधिकरण्यमित्यत आह । “रूक्षा-
दिदुष्टः पवनः स्रोतः सङ्कोचयेद्यदा । रसोऽसम्यग्वहन्
कार्श्यं कुर्य्याद्रक्ताद्यवर्द्धयन् । तेषु प्रवेष्टुंसरता सौक्ष्म्य
स्निग्धत्वमार्दवैः । तैलं क्षमं रसं नेतुं कृशानां
तेनवृंहणम् । व्यवायि सूक्ष्मतीक्ष्णीष्ण सरत्वैर्मेदसः क्षयम् ।
शनैः प्रकुरुते तैलं तेन लेखनमीरितम् । द्रुतं पुरीषं
वध्नाति स्खलितं तत्प्रवर्त्तयेत् । ग्राहकं सारकञ्चापि
तेन तैलमुदीरितम् । घृतमव्दात्परं पक्वं हीनवीर्य्यं
प्रजायते । तैलं पक्वमपक्वं वा चिरस्थायि गुणाधिकम्” ।
सर्षपतैलगुणाः । “दीपनं सार्षपं तैलं कटुपाकरसं
लघु । लेखनं स्पर्शवीर्य्योष्णं तीक्ष्णं पित्तास्रदूषकम् ।
कफमेदोऽनिलार्शोघ्नं शिरःकर्णामयापहम् । कण्डूकुष्ठ-
कृमिश्वित्रकोठदुष्टकृमिप्रणुत्” ।
राजिकातैलगुणाः “तद्वद्राजिकयोस्तैलं विशेषान्मूत्रकृच्छ
कृत्” । राजिकयोः (कृष्णाराई) (आरक्तराई) द्वयोः ।
तुवरी (तोरी) तैलगुणाः “तीक्ष्णोष्णं तुवरीतैलं लघु ग्राहि
कफास्रजित् । वह्निकृद्विषनुत्कण्डूकुष्ठकोठकृमिप्रणुत् ।
मेदोदोषापहञ्चापि व्रणशोथहरं परम्” । अतसीतैल-
गुणाः “अतसीतैलमाग्नेयं स्निग्धोष्णं कफपित्तकृत् ।
कटुपाकमचक्षुष्यं वल्यं वातहरं गुरु । मलकृद्रसतः
स्वादु ग्राहि त्वग्दोषनुद्थनम् । वस्तौ पाने तथाभ्यङ्गे
नस्ये कर्णस्य पूरणे । अनुपानविधौ चापि प्रयोज्यं
वातशान्तये । वररोः तैलगुणाः “कुसुम्भतैलमम्लं स्यादुष्णं
गुरुविदाहि च । चक्षुर्भ्यामहितं बल्यं रक्तपित्तकफप्र-
दम् । अथ (खाखस) वीजतैलस्य गुणाः । “तैलं तु
खसवीजानां बल्यं वृष्यं गुरु स्मृतम् । वातहृत्कफहृच्छीतं
स्वादुषाकरसं च तत्” । एरण्डतैलगुणाः “एरण्डतैलं
तीक्ष्णोष्णं दीपनं पिच्छिलं गुरु । वृष्यं त्वच्यं
वयःस्थापि मेधाकान्तिबलप्रदम् । कषायानुरसं सूक्ष्मं
योनिशुक्रविशोधनम् । विस्रं स्वादु रसे पाके सतिक्तं
कटुकं सरम् । विषमज्वरहृद्रोगपृष्टगुह्यादिशूलनुत् ।
हन्ति वातोदरानाहगुल्माष्ठीलाकटीग्रहान् ।
वातशोणितविड्बन्धव्रध्नशोथामविद्रधीन् । आमबातग-
जेन्द्रस्य शरीरवनचारिणः । एक एव निहन्तायमेर
ण्डस्नेहकेशरी” । रालतैलगुणाः “तैलं सर्जरसोद्भूतं
विस्फोटव्रणनाशनम् । कुष्ठपामक्रिमिहरं वातश्लेष्मामयाप
हम्” । सर्वतैलगुणाः “तैलं स्वयोनिगुणकृद्वाग्भटेनाखिलं
मतम् । अतःशेषस्य तैलस्य गुणाज्ञेयास्वयोनिवत्” ।
“प्रातः स्नाने व्रते श्राद्धे द्वादश्यां ग्रहणे तथा । मद्य-
लेपसमं तैलं तस्मात्तैलं विवर्जयेत्” कर्म्मलोचन० ।
“घृतञ्च सार्षपं तैलं यत्तैलं पुष्पवासितम् । अदुष्टं पक्व-
तैलञ्च तैलाभ्यङ्गे च नित्यशः” तिथ्या० त० वारवि-
शेषे तैलग्रहणफलं यथा ।
“अर्के नूनं दहति हृदयं कीर्त्तिलाभश्च सोमे भौमे
मृत्युर्भवति नियतं चन्द्रजे पुत्रलाभः । अर्थग्लानि-
र्भवति च गुरौ भार्गवे शोकयुक्तस्तैलाभ्यङ्गात्तनयमरणं
सूर्य्यजे दीर्घमायुः” ज्यो० त० । “घृतादष्टगुणं तैलं मर्दयेन्न
तु खादयेत्” वैद्यक० । अल्पे कन् । तैलक स्वल्पतैले न० ।

तैलकन्द पु० तिलस्यायम् अण् तैलः तिलसम्बन्धी कन्द इव

कन्दोऽस्य । तिलचित्तपत्रके वृक्षभेदे “तैलकन्दः कटूष्णश्च
लौहद्रावकरोमतः । मारुतापस्मारविषशोफनाशकरश्च
सः । रसस्य बन्धकारी च देहशुद्धिकरस्तथा” राजनि०

तैलकल्कज पु० तैलात् तिलसम्बन्धिनः कल्काज्जायते

जनड । तिलकल्कजाते (तैलेर काट) तैलकिट्टे राजनि० ।

तैलकार पु० तैलं करोति कृ--अण् (तेली) (कलु) इति

प्रसिद्धे वर्णसङ्करे चाक्रिके तैलिनि । स च कोटकस्त्रीगर्भे
कुम्भकाराज्जातः सङ्कीर्णजातिभेदः ब्रह्मवै० ब्रह्मख०

तैलकिट्ट न० ६ त० । तैलमले (काट) इति ख्यातेः

तैलकीट पु० कीटभेदे राजनि० ।

तैलक्य न० तिलकस्य भावादौ पुरोहि० यक् । तिलकभावे ।

तैलङ्ग पु० “श्रीशैलं तु समारभ्य चोलेशान्मध्यभागतः । तैलङ्ग-

देशो देवेशींत्युक्ते १ देशे । २ तत्रस्थे जने ब० व० । शब्दरत्ना०

तैलचोरिका स्त्री तैलं चोरयति चुर--ण्वुल् पृषो० ।

तैलपायिकायाम् (तेलापोका) । पृषो०! तैलचौरिकासूत्रे ।
पृष्ठ ३३५२

तैलद्रौणी तैलपूर्णा द्रोणी शा० त० । “कण्ठपर्य्यन्तमज्जनार्थं

तैलपूर्णे काष्ठादिनिर्मिते पात्रविशेषे । अत्रावस्थिति-
गुणाः । वातरोगव्याधिकुष्ठरोगपङ्गुवाधिर्य्यमिन्मिनगद्गद-
हन्वङ्गस्तम्भपृष्ठप्रचलितपवनगात्रकम्पकपाटीग्रीवाभङ्गाप-
तन्त्रक्षयरुधिरभवमूत्रकृच्छ्रवस्तिरोगेषु हितत्वमिति”
राजभल्लभः ।

तैलधान्य न० तैलोपयोगि धान्यं सतुषं शस्यम् । “तिलोऽ-

तसी च तोरी (डी) च त्रिविधश्चापि सर्षपः । द्विधा
राजी खसञ्चैव वीजं कौसुम्भसम्भवम् । एतानि
तैलधान्यानीत्युक्तेषु तिलादिषु ।

तैलपक पु० तैलं पिवति पा--क स्वार्थे क । तैलपायिकाख्ये

पक्षयुक्ते कीटे । तैलहरणे तज्जातिप्राप्तिर्भनुनोक्ता यथा
“मांसं गृध्रोवपां मद्गुस्तैलं तैलपकः खगः”

तैलपर्णक पु० तैलाक्तमिव पर्णमस्य कप् । ग्रन्थिपर्णवृक्षे भावप्र० ।

तैलपर्णिक न० तैलपर्णो गिरिभेद उत्पत्तिस्थानत्वेना-

स्त्यस्य ठन् तैलाक्तं पर्णमस्त्यस्य ठन् वा । १ हरिचन्दने
अमरः । तिलपर्णः वृक्ष उत्पत्तिस्थानत्वेनास्त्यस्य ठन् ।
२ चन्दनभेदे ।

तैलपर्णी स्त्री तिलपर्णो गिरिस्तत्र भवः अण् ङीप् । १ चन्दने

२ श्रीवासे ३ सिह्लके च मेदि० । स्वार्थे क । तैलपर्णिका
तत्रार्थे । “कालियकादुकूलाश्च हिङ्गवस्तैलपर्णिकाः”
हरिवं० २३१ अ० ।

तैलपा स्त्री तैलं पिबति पा--क । (तेलापेका) कीटभेदे । राजनि० ।

तैलपायिका स्त्री पा--ण्वुल् ६ त० । (तेलापोका)

(आरसुला) कीटभे दे अमरः ।

तैलपायिन् पु० तैलं पिबति पा--णिनि । तैलपायिकाख्ये

पक्षयुक्ते कीटभेदे । “तैलहृत् तैलपायी स्यात्” याज्ञ० ।

तैलपिपीलिका स्त्री तैलाक्तेव पिपीलिका । पिपिलीकाभेदे

तैलपीत त्रि० पीतं तैलं येन आहि०परनि० । पीततैलके ।

तैलफल पु० तैलं फले यस्य । इङ्गुदीवृक्षे राजनि० ।

तैलभाविनी स्त्री तैलं भावयति वासयति भू--णिनि ङीप् ।

तैलवासके जातीपुष्पवृक्षे राजनि० ।

तैलमाली स्त्री तैलेन मालः सम्बन्धो यस्याः गौरा०

ङीष् । वर्त्तिकायां दीपदशायां शब्दमाला ।

तैलम्पाता स्त्री तिलस्य पातोऽत्र ञ नि० मुम् च । १ स्वधा-

याम्, २ तदुपलक्षिते श्राद्धे च अमरः ।

तैलयन्त्र पु० तैलमर्द्दनार्थं यन्त्रम् । तिलादिनिष्पीड़-

नार्थे यन्त्रभेदे (कलुरघाणि) “अमीमांस्यानि शौचानि
तैलयन्त्रक्षुयन्त्रयोः” स्मृतिः “रविरथचक्रं च तैलयन्त्र-
चक्रवत् भ्रमत्” भागवते ५ । २१ । १९ श्लोकः ।

तैलवक पु० तेलुनृपस्य विषयो देशः राजन्या० वुञ् । तेलु-

नृपविषये देशे ।

तैलवल्ली स्त्री तैलाक्तेव वल्ली । लघुशतावर्य्यां पारस्क रनिघ० ।

तैलसाधन न० तैलं साधयति सुरभीकरोति सिध--णिच

साधि--ल्यु । कक्कोले गन्धद्रव्ये श्ब्दच० ।

तैलस्फटिक पु० तैलाक्तः स्फटिक इव । तृणमणौ गोमेदे हेमच० ।

तैलस्यन्दा स्त्री तैलमिव स्यन्दति स्यन्द--अच् । १ श्वेत-

गोकर्ण्यां २ काकोल्यां पारस्करनिघण्टुः ।

तैलागुरु पु० तैलाक्तमिवागुरु । दाहागुरौ राजनि० ।

तैलाटी स्त्री अटति अटं तैलेनाटं विषमस्याः गौरा०

ङीष् । वरटायां तैलस्पर्शे तद्विषनाशात् तस्याः तथात्वम् ।

तैलाम्बुका स्त्री तैलमम्बु इव पेयमस्याः । तैलपायि-

काख्ये कीटे जटा० ।

तैलिक त्रि० तैलं पण्यं यस्य तैलं शिल्पमस्य वा ठक् ।

२ तैलार्थं तिलनिष्पीड़ने (कलु) “खलमलिननीच-
तैलिकविहीनसत्त्वोपहतपुंस्त्वा” वृ० स० १६ अ० । २
तैलविक्रेतरि च “समुद्रगामी वन्दी च तैलिकः
कूटकारकः” मनुः तिलविक्रेतुरपाङ्क्तेयमुक्तम् ।

तैलिन् त्रि० तैलं निष्पाद्यत्वेनास्त्यस्य इनि । १ तैलकारे

हेमच० । २ तैलयुक्ते त्रि० । स्त्रियां ङीप् ङीबन्तः । ३
तैलकीटे राजनि० ४ दशायां वर्त्तौ शब्दमा० ।

तैलिशाला स्त्री ६ त० । तैलनिष्पीड़नार्थे गृहे (घाणिघर) हेम० ।

तैलीन तिलानां भवनं क्षेत्रं खञ् । तिलभवनयोग्ये क्षेत्रे

अमरः ।

तैव्रदारव त्रि० तीव्रदारुणैदम् रजता० अञ् । तीव्रदारुसम्बन्धिनि स्त्रियां ङीप् ।

तैष पु० तिष्यनक्षत्रयुक्ता पौर्णमासी अणि यलोपे ङीप् ।

तौषी साऽस्मित् मासे अण् । १ पौषे मासि धनुःस्थरव्यारब्धे
शुक्लप्रतिपदादिदर्शान्ते चान्द्रे मासि अमरः तदीय
पूर्णिमायामेव तद्योगसम्भवः । तिष्यशब्देन तत्समीप-
नक्षत्रस्यापि ग्रहणात् कदाचित् तत्सम्बन्धाभावेऽपि न
क्षतिः । २ तदीयपौर्णमास्यां स्त्री “सास्मिन् पौर्णमासी”
पा० नक्षत्रयुक्तकालस्य पूर्णिमायामेव तद्योगे साधुत्वेन
पौर्णमासीपरत्वमेवेति बोध्यम् । “तैष्या नधीतपूर्वा-
णाम्” आश्व० श्रौ० ८ । १४ । २२ ।

तोक न० सौ० तु--क तस्य नेत्त्वम् । १ अषत्ये पुत्रे,

दुहितरि च अमरः । “नित्ये तोके दीदिवांसम्” २ । २ । ११
“पश्वे तोकाय ततयाय जीवसे” ऋ० १० । ३५ । १२ “तोकेन
जीवहरणं यदुलूकिकायास्त्रैमासिकस्य च पदा
शकटोऽपवृत्तः” भाग० २ । ७ । २८ ।
पृष्ठ ३३५३

तोक्म पु० तक म पृषो० अत ओत्त्वम् । हरिद्वर्णे अपक्व-

यवे अमरः । २ हरिद्वर्णे हेमच० । ३ कर्णमले न० हेम० ।
४ मेघे पु० अजयपालः । ५ नवप्ररूढ़े यवे यवाङ्कुरे न० ।
“प्रायणोयस्य तोक्मानि” यजु० १९ । १३ । “तोक्मानि
नवप्ररूढ़यवाः” वेददी० । “पत्रपुष्पफलच्छायाभूलबल्कलदा-
रुभिः । गन्धनिर्यासभस्मास्थितोक्मैः कामान् वितन्वते
भाग० १० । २२ । २५ “तीक्माः पल्लवाद्यङ्कुराः” श्रीधरः तेन
६ तदर्थेऽपि च ।

तोक्मन् न० तक--मनिन् पृषो० अत ओत्त्वम् । नवविरूढ़यवे

२ अपत्ये न० निघण्टुः । “भेषजं तोक्मभिः” यजु० २१ ।
३० । “तोक्मभिर्लाजैर्महःस्वन्तः” यजु० २१ । ४२ ।

तोटक न० द्वादशाक्षरपादके छन्दोभेदे । “इह तोटकमम्बु-

धिसैः प्रथितम्” वृ० र० ।

तोड अनादरे भ्वा० पर० सक० सेट् । तोड़ति अतोडीत् । ऋदित् । णिच् अतुतोडत् त ।

तोड़ल न० तन्त्रभेदे ।

तोतस् अव्य० तु--बा० तसि । १ कलत्रे २ त्वयीत्यर्थे च । “मा

वयं रायस्पोषेणवियौष्म तोतो रायः” यजु० ४ । २२ । तोतः
शब्दः कलत्रवाची अव्ययम् । तोतः कलत्रे रायो
धमानि पशवी वा पदरूपेण तिष्ठन्तु । यद्वाऽव्ययानामने-
कार्थत्वात्तोतः शब्दो युष्मत्पर्य्यायः । तोतः त्वयि रायः
सन्तु” वेददी० ।

तोड़न न० तुड--भावे ल्युट् । १ भेदने २ दारणे ३ हिंसने च ।

तोड़ी(री) स्त्री तुड़--अच् गौरा० ङीष् वा डस्य रः ।

स्वनामख्याते तैलसाधने धान्यभेदे ।

तोत्त्र न० तुद्यदेऽनेन तुद--करणे ष्ट्रन् । गवादिताड़ने दण्डे अमरः ।

तोद पु० तुद--मावे घञ् । व्यथायां रत्नमाला । “हीनदग्धे

तोदकण्डूजाड्रानि व्याधिवृद्धिश्च” सुश्रु० । “दंशे
तोदकण्डूप्रादुर्भावैर्जानीयात्” सुश्रु० । कर्त्तरि अच् । २ व्यथके
त्रि० । “तोदो वातस्य हर्य्योरीशानः” ऋ० ४ । १६ । ११ ।
“तोदस्तोदकः” भा० ।

तोदन न० तुद्यतेऽनेन करणे ल्युट् । १ तुण्डे मुखे अमरः । भावे

ल्युट् । २ व्यथायाम् मेदि० । कर्त्तरि ल्यु । ३ व्यथके त्रि० ।
“कषायं मधुरं रूक्षं तोदनं कफवातजित्” सुश्रु० । ४ क्षीरिवृक्षभेदे
पु० । “क्षीरवृक्षफलजाम्बवराजादनतीदनतिन्दुकबकुलधन्व-
नाश्मन्तकाश्वकर्णफल्गुपरूषकगाङ्गेरुकीपुष्करवर्त्तिविल्व-
षिम्बीप्रभृतीनि । फलान्वेतानि शीतानि कफपित्तहराणि
च । सग्राहकाणि रूक्षाणि कषायमधुराणि च” सुश्रु० ।

तोदपर्णी स्त्री तोदं तोदकं पर्णमस्याः गौरा० ङीष् । कुत्-

सिते धान्यभेदे ।
“कोरदूषकश्यामाकनीवारशान्तनुतुवरकोद्दालकप्रियङ्गुम-
धूलिकानान्दीमुखकुरुविन्दगवेधुकवरुकतोदपर्णी मुकुन्द-
कवेणुयवप्रभृतयः कुधान्यविशेषाः” सुश्रु० ।

तोमर पुं न० तु--विच् तौर्गतो म्रियतेऽनेन मृ--करणे अप् ।

१ हस्तक्षेप्ये शल्याग्रे दण्डाकारेऽस्त्रभेदे (रायवाँश)
अमरः । तोमरलक्षणं हेमा० प० लक्षणसमुच्चये उक्तं यथा ।
औशनसधनुर्वेदे । “शुक्रो भगवानुवाच जमदग्निं प्रति
वत्स! निबोध यथाप्रश्नमुच्यमानम् तत्र दण्डान्वितं
सर्वलौहं वेति तोमरं द्विविधं भवति । तच्च तोमरं
सदण्डं लक्ष्यायतं भवेत् तोमरं सर्वायसं तक्त्वार्य्ये
प्रयोजयेत् । तच्च निकृष्टमध्यमोत्तमं भूयस्त्रिविधं प्रमा-
णतो भवति तत्र चतुर्हस्तप्रमाणं निकृष्टं सार्द्धचतुर्हस्तं
मध्यमं पञ्चहस्तप्रमाणं तूत्तमं भवति । तथा कलनायां
चाद्यं द्वितीयं तृतीयं चेति त्रिधा द्व्यङ्गुलमध्ये द्व्यङ्गुल-
कलितमेकं स्यान्मध्यात्पूर्वं त्र्यङ्गुलकलितं द्वितीयं स्यात् ।
मध्यात्पूर्वं षड़ङ्गुलकलितस्थानकलनया तृतीयं स्यात् ।
सार्द्धमेकं निकृष्टं, त्रयोमध्यमं षड़त्तमं कलनायास्तथा
तोमरास्त्रस्य परिणाहः परः षड़ङ्गुलो भवति सार्द्धप-
ञ्चाङ्गुलो मध्यमः पञ्चाङ्गुलः कनिष्ठ इति । त्रयाणां
देशानां त्रयः छन्दाः । छादनात्तथा आवन्त्योमागधो दाक्षि-
णात्यश्चेति । तत्रावन्त्यतोमरं तक्षणसंस्थानं भवति
मागधं तोमरं योनिसंस्थानं भवति दाक्षिणात्यं तोमरं
वृत्तं भवति । तेषां मुखानि तद्देशाच्छन्दतः इति इत्यादि ।
२ नवाक्षरपादके छन्दोभेदे “प्रथमं सकं विनिधाय
जगणद्वयञ्च निधाय । कुरु तोमरं सुखकारि फणिराज-
वक्त्रविहारि” तल्लक्षणम् ।

तोमरग्रह पु० तोमरं गृह्णाति ग्रह--अच् न अण् । तोमरास्त्रग्राहिणि ।

तोमरधर पु० तोमरमस्त्रं धरति धृ--अच् । वह्नौ शब्दार्थक०

तोमरिका स्त्री तोमर + संज्ञायां कन् । आढक्याम् शब्दर०

तोय न० सौ० तु--विच् तवे पूर्त्त्यै याति या क । १ जले २ पूर्वा-

षाढ़ानक्षत्रे च । “ऊद्धृत्य मेघैस्ततः एव तोयम्” माघः ।
“मृत्तोयैः शुध्यते शोध्यं नदीवेगेन शुध्यति” मनुः ।
पूर्वाषाढ़ानक्षत्रस्य जलदैवतत्वात् तथात्वम् । ३ लग्ना-
वधिचतुर्थस्थाने च ज्यो० त० । तत्र जलस्य चिन्त-
नीयत्वात् तथात्वम् ।
पृष्ठ ३३५४

तोयकर्म्मन् न० तोयेन कर्म्म । तर्पणे “तोयकर्मणि चारब्धे-

राज्ञामुदकदानिके” भा० आ० १ अ० ।

तोयकाम पु० तोयं कामयते कम--अण् । १ जलवेतसे

जटाधरः । २ जलाभिलाषुके त्रि० ।

तोयकुम्भ पु० तोयस्य कुम्भ इव । शैवाले पारस्करनिघण्टुः ।

तोयकृच्छ्र न० जलमात्रपानरूपे माससाध्ये व्रतभेदे ।

“यदा तु विल्वानि फलानि प्रत्येकं क्वथितानि
मासम्पीयन्ते तदा फलकृच्छ्रादिव्यपदेशं लभते । यथाह
मार्कण्डेयः “फलैर्मासेन कथितः फलकृच्छ्रो मनीषिभिः ।
श्रीकृच्छ्रः श्रीफलैः प्रोक्तः पद्माक्षैरपरस्तथा । मासेनाम-
मलकैरेवं श्रीकृच्छ्रमपरं स्मृतम् । पत्रैर्मतः पत्रकृच्छ्रः
पुष्पैस्तत्कृच्छ्र उच्यते । मूलकृच्छःस्मृतीमूलैस्तोयकृच्छ्रो
जलेन तु” इति । “इति पर्णकृच्छ्रमेकादशविधम्” मिता० ।

तोयडिम्भ पु० तोयस्य डिम्भ इव । १ मेघोपले करकायां

हारा० ।

तोयद पु० तोयं ददाति दा + क । १ मेघे, २ मुस्तके च । ३ घृते

न० मेदि० । ४ विधिना जलदातरि त्रि० । “तोयद-
स्तृप्तिमाप्तोति” पुरा० । तद्दानमाहात्म्यं भा० शा०
दानधर्म्मे यथा
“अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत । प्राणदानाद्धि
परमं न दानमिह विद्यते । अन्नं वापि प्रभवति पानीयात्
कुरुसत्तम! । नीरजातेन हि विना न किञ्चित् संप्रव-
र्त्तते । अन्नौषध्यो महाराज! वीरुधश्च जलोद्भवाः । यतः
प्राणभृतां प्राणाः सम्भवन्ति विशाम्पते! । तस्मात् पानीय-
दानांद्वै न परं विद्यते क्वचित् । तच्च दद्यान्नरोनित्य
यदीच्छेद् भूतिमात्मनः । धन्यं यशस्यमायुष्यं
जलदानमिहोच्यते । शत्रूंश्चाप्यधि कौन्तेय! सदा तिष्ठति
तोयदः । सर्वकामानवाप्तोति कीर्त्तिञ्चैवेह शाश्वतीम् ।
प्रेत्य चानन्त्यमश्नाति पापेभ्यश्च प्रमुच्यते । तोयदो मनुज
व्याघ्र! स्वर्गं गत्वा महाद्युते! । अक्षयान् समवाप्तोति
लोकानित्यव्रवीन् मनुरिति” ।

तोयधर पु० तोयं धरति धृ--अच् । १ मेघे मेदि० २ मुस्तके

च “नीला इवातपात्यये तोयं तोयधरा घनाः” रामा०
बा० ९३ अ० ।

तोयधार पु० तोयानां धारा यत्र । १ मेघे २ मुस्तके च ।

धारि--भावे अच् । तोयस्य धारः वर्षणम् । ३ जलवर्षणे
पु० । “घनवत्तोयधारेण ववर्ष कनकाम्बुभिः” हरिवं०
११३ अ० । ६ त० । ४ जलसन्ततौ स्त्री । “शरान् व्यसृजतां
शीघ्रं तोयधारा घना इव” भा० वि० ३२ अ० । “गिरिः
प्रस्रवण इव तोयधारा” रामा० आ० ३५ स० ।

तोयधि पु० तोयानि धीयन्तेऽत्र धा--कि उप० स० । १ समुद्रे

जलधिप्रभृतयोऽप्यत्र । ३ चतुःसंख्यायाञ्च । “समन्तान्मेरु-
मध्यात् तु तुल्योभागेषु तोयधेः” सू० सि० ।

तोयधिप्रिय न० तोयधिं प्रीणाति प्री--क । १ लवङ्गे शब्दच० ।

तोयनिधि पु० तोयं निधीयतेऽस्मिन् नि + धा--कि उप० स० ।

१ समुद्रे २ चतुःसंख्यायाच्च । “पूर्वापरौ तोयनिधी वगाह्य”
कुमा० ।

तोयनिवी स्त्री तीयं समुद्रोदकं नीवीव यस्याः आर्षे न

कप् । १ पृथिव्यां “तोयनीव्याः पतिं भूमेरभ्यषिञ्चद्गजा-
ह्वये” भाग० १ । १५ । ३८ । लोके तु कप् तोयनीविका
तत्रार्थे ।

तोयपिप्पली स्त्री तोये पिप्पलीव । (काँचड़ा) शाकभेदे लाङ्गल्याम् अमरः ।

तोयपुष्पी स्त्री तोयेन बहुजलदानेन पुष्पाण्यस्याः । १ पाटला-

वृक्षे शब्दमाला ।

तोयप्रसादन पु० तोयं प्रसादयति फलयोगेन प्र + सद--णिच्-

ल्यु । १ कतके (निर्माल्लि) । फलपरत्वे न० रत्नमाला
“तोयप्रसादकाम्बुप्रसादकादयोऽप्यत्र “फलं कतकवृक्षस्य
यद्यम्बुप्रसादकम्” मनुः ।

तोयफला स्त्री तोयप्रधानं फलं यस्याः । १ इर्वारौ कर्कटीभेदे

राजनि० ।

तोयमुच् पु० तोयं मुञ्चति मुच--क्विप् ६ त० । १ जलमुचि मेघे २ मुस्तके च ।

तोययन्त्र न० सू० सि० उक्ते कालज्ञानार्थे घटीयन्त्रभेदे

घटीयन्त्रशब्दे २७८१ पृ० दृश्यम् । (फोआरा) इति
ख्याते २ जलयन्त्रभेदे च ।

तोयराज् पु० तोयेषु राजते राज--क्विप् । १ समुद्रे “यदीच्छेत्सा-

गरः किञ्चिदुत्स्रष्टुमिह तीयराट्” हरिवं० २२६ अ० । २ वरुणे च

तोयराशि पु० तोयानां राशिरिव । १ समुद्रे । ६ त० ।

२ जलसमूहे च “तोयराशिसम्भवापि तृष्णां संवर्द्ध-
यति” काद० ।

तोयवल्ली स्त्री तोयसन्निहितस्थाने वल्ली ।

१ कारवेल्ले (उच्छे) रत्नमा० । स्वार्थे क । तोयवल्लिकाप्यत्र ।

तोयशुक्तिका स्त्री तोयजाता शुक्तिका शा० त० । जलशुक्ति-

कायां राजनि० ।

तोयशूक पु० तोयस्य शूक इव । शैवाले पार० नि० ।

तोयसूचक पुंस्त्री० तोयं तोयवर्षं सूचयति रवेण

सूचण्वुल् । १ भेके शब्दार्थक० । स्त्रियां जातित्वात् ङीष् ।
२ जलवर्षणसूचके योगभेदे त्रि० । जलशब्दे३०६५ पृ० दृश्यम् ।
पृष्ठ ३३५५

तोयविम्ब न० तीयोत्थितं विम्बम् अर्द्धडिम्बाकारं वस्तु ।

जलविम्बे जलोपरिभासमाने अर्द्धगोलाकारे पदार्थे ।
अयं शब्दः तोयवल्लीशब्दात् परं पाठ्यः ।

तोयात्मन् पु० तोयमात्मा स्वरूपं यस्य तत्प्रकृतित्वात् ।

१ परमेश्वरे । “यस्य केशेषु जीमूताः । नद्यः सर्वाङ्गसन्धिषु
कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः” विष्णुस्तुतिः ।

तोयाधार पु० ६ त० । १ जलाशये । जलाशयोत्सर्गशब्दे ३०७५

पृ० तद्भेदादि दृश्यम् । “तोयाधारपथाश्च वल्कलशिखा-
निष्यन्दरेखाङ्किताः” शकु० ।

तोयाधिवासिनी स्त्री तोयं तोयार्द्रं देशमधिवसति

अधि + वस--णिनि ङीप् । पाटलावृक्षे रत्नमाला ।

तोयेश पु० ६ त० । १ वरुणे तदधिदेवताके २ शतभिषानक्षत्रे

च । तोयं जलमधिदेवोऽस्य । ३ पूर्वाषाढ़ानक्षत्रे न० ।

तोरण पुंन० । तुर--युच आधारे ल्युट् तोलयत्यनेन

तुल--उन्माने करणे--ल्युट् लस्य रो वा । बहिः स्थिते
१ द्वारे । “अथोच्चकैस्तोरणसङ्गभङ्गेति” “गणो नृपा-
णामथ तोरणाद्बहिः” माघः । “भासोज्ज्वत्काञ्चन-
तोरणानाम्” कुमा० । तच्च द्वाराग्रे निखातस्तम्भो-
परिनिबद्धो धनुराकारः (फटक्) इति ख्यातः
पदार्थः । यागादौ मण्डपाद्बहिर्द्वाररूपस्य तोरणस्य
काष्ठविशेषप्रमाणादिकं मण्डपशब्दे दृश्यं मत्कृततुलादा
नादिपद्धतौ विस्तरो दृश्यः । २ कन्धरायां न० हारा० ।

तोरश्रवस् पु० अङ्गिरोमुनौ ।

तोल पुंन० । चु० तुल--कर्म्मणि अच् । अशीतिरत्तिका-

माने १ कर्षे । “एकतोलं द्वितोलं वा त्रितोलं वेदतोल-
कम् । इतोऽधिकं नरः कृत्वा प्रायश्चित्तीयते ध्रुवम्”
आगमः । स्वार्थे क । तत्रार्थे “पलं तु लोकिकैर्मानैः
साष्टरत्तिद्विमाषकम् । तोलकत्रितयं ज्ञेयम्” तिथित० ।

तोल्य त्रि० तुल + उन्माने कर्म्मणि--ण्यत् । १ तोलनीये । भाषे

ण्यत् । २ तोलने न० । “जीवानां वयसां मौल्ये तोल्ये
वर्णस्य हेमनि” लीला० ।

तोश पु० तुश--वधे भावे घञ् । १ हिंसायाम् । कर्त्तरि अच् ।

२ हिंसके “त्वे राय इन्द्र! तोशतमाः” ऋ० १ । १६९ । ५ ।
“तोशतिर्बधकर्मा नितोशयति निबर्हयतीति तन्नामसु
पाठात् तोशतमाः नाशयितृतमाः” भा० । “तोशा वृत्रहणा
हुवे” ऋ० ३ । १२ । ४ । “तोशा बाधकौ” भा० ।
औस्थाने आच् ।

तोष पु० तुष--भावे घञ् । सन्तोषे । “तोषपरो हि लाभः” भा० उ० ३९ अ० ।

तोषण न० तुष--भावे ल्युट् । १ सन्तोषे । तुष--णिच् भावे

ल्युट् । २ सन्तोषोत्पादने । “एतावदेव पुरुषैः कार्य्यं
हृदयतोषणम्” भा० स० १६ अ० । कर्त्तरि ल्यु । ३ सन्तोपजनके
त्रि० “पशून् हृदयतोषणान्” भा० उ० ८३ अ० ।
करणे ल्युट् । ४ तोषसाधने स्त्रियां ङीप् तोषणी ।

तोषल न० तोषं लूनाति लू--बा० ड । अस्त्रभेदे १ मुषलेऽस्त्रे

“कृष्णस्तोषलमुद्यम्य गिरिकूटोपमं बली” हरिवं० ८७ अ० ।

तौक्षिक पु० धनूराशौ दीपिका कौर्प्यशब्दे २२७८ पृ० दृश्यम् ।

तौतातिक न० तुतातभट्टेन निर्वृत्तम् ठञ् । तुतात-

भट्टकृतशास्त्रे “नैवाश्रावि गुरोर्मतं न विदितं तौतातिकं
दर्शनम्” प्रबोधच० ।

तौतिक न० १ मुक्तायां २ शुक्तौ च राजनि० ।

तौदी स्त्री विषनाशके अओषधिनेदे घृतकुमार्य्याम् । “तौदी

नामासि कन्या घृताची वा असि” अथ० १९ । ४ । ४२ ।

तौम्बरविन् पु० ब० व० । तुम्बुरुणा कलाप्यन्तेवासिना प्रोक्त-

मधीयते इनि । कलाप्यन्तेवासिना तुम्बुरुणा प्रोक्त-
शाखाध्येतृषु ।

तौर न० यागभेदे । “संवत्सरमहरहस्तौरेण यजेत” लाट्या०

श्रौ० १० । २० । १ । “दार्षद्वततारयोव्र तानि” १० । १८ । १० ।
तत्रैव ।

तौरयान न० तूर्णं यानमस्य पृषो० । तूर्णगमनयुक्ते ।

“स तौरयान उपयाहि यज्ञम्” निरुक्ते ५ । २५ । श्रुतिः
तौरयानः तूर्ण्णयानः “तौरयान इत्यपि” निगमो भवति”

तौरश्रवस न० तोरश्रवसाऽङ्गिरसा दृष्टं साम अण् । सामभेदे

“तौरश्रवसे माध्यन्दिने पवमाने तदावपनश्रुतेः” कात्या०
श्रौ० २५ । १४ । १४ । “तौरश्रवसे सामनी” कर्कः ।

तौर्य्य न० तूर्य्ये मुरजादौ वाद्ये भवम् अण् । मुरजादिध्वनौ ।

तौर्य्यत्रिंक न० त्रयः परिमाणभस्य कन् तौर्य्योपलक्षित

त्रिकम् । समुदितेषु नृत्यगीतवाद्येषु अमरः । “वनेऽपि
तौर्य्यत्रिकमारराध तम्” नैषधम् । “तौर्य्यत्रिकं वृथाद्या
कामजो दशको गणः” मनुः ।

तौल न० तुलैव तुला + स्वांर्थे अण् स्वार्थिका अपि प्रत्ययाः

क्वचित्प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते इत्युक्तेः दैवता-
दिवत् क्लीवता । मानभेदे १ तुलायाम् २ उन्मानदण्डे
३ तुलाराशौ च ज्यो० ।

तौलिक पु० तूल्या जीवति तूली + ठक् । चित्रकरे शब्दमाला ।

तौलिकिक पु० तूलिकया जीवति ठक् । चित्रकरे हेमच० ।

पृष्ठ ३३५६

तौलिन् पु० तुलैव तौलं तत् विद्यतेऽस्य इनि । तुलाराशौ

“तौलिनि चित्रान्त्यार्द्धं स्वातिः पादत्रयं विशाखायाः”
वृ० सं० १०३ अ० । अस्य क्लीवत्वमपि “शक्रे तौलि हुताशनेऽ-
लिधनुषी याम्ये मृगो नैरृते” ज्यो० रात्रिलग्ननिर्णयः ।

तौल्य त्रि० तुलया परिच्छिन्नम् ष्यञ् । तुलया परिच्छिन्ने

त्रिका० । तुल्यमेव स्वार्थेऽण् । २ तुल्ये न० ।

तौल्वलि पु० तुल्वलस्यापत्यम् इञ् । तुल्वलार्षेरपत्ये “सर्वेभ्य

एव निपृणीयादिति तौल्वलिः क्रियागुणत्वात्” आश्व०
श्रौ० २ । ६ । १७ “अभक्षणमितरेषां तौल्वलिः कृता-
र्थत्वात्” ५ । ६ । २४ । ततः इञन्तत्वात् यूनि फक् तौल्व-
ल्यादित्वात् युवप्रत्ययस्य न लुक् । तौल्वतायन--यूनि
तदपत्ये ।

तौल्वल्यादि पु० “न तौल्वलिभ्यः” पा० सूत्रोक्ते युवप्र-

त्ययस्य लुकि पर्य्युदस्ते शब्दगणे स च गणः पा० ग० सू०
उक्तो यथा
“तौल्वलि, धारणि, पारणि, रावंणि, दैलीपि,
दैवति, वार्कलि, नैवकि, दैवमति, दैवयज्ञि, चाफट्टकि,
वैल्वकि, वैङ्कि, आनुराहति, पौष्करसादि, आनुरो-
हति, आनुति, प्रादोहनि, नैमिश्रि, प्राड़ाहति,
वान्घकि, वैशीति, आसिनासि, आहिंसि, आसुरि,
नैमिषि, आसिवन्धकि, पौष्करेणुपालि, वैकर्णि,
वैरकि, वैहति ।

तौवरक त्रि० तुवर्य्या इदम् अण् स्वार्थे क । तुवरीस-

म्बन्धिनि १ स्नेहादौ “ऋते भल्लातकस्नेहात् स्नेहा-
त्तौवरकात्तथा” सुश्रुतः । स्वार्थे अण् । ततः स्वार्थे क ।
२ तुवरके । “आयुष्करं तौवरकं कषायं कटुपाकिकम् ।
उष्णं कृमिज्वरानाहमेहावर्त्तविनाशनम्” सुश्रुतः ।

तौविलिका स्त्री ओषधिभेदे । तौविलिके! ऽवेलयावाय-

मैलव ऐलयीत्” अथ० ६ । १६ । ३ ।

तौषायण त्रि० तुषस्यादूरदेशादि पक्षा० चतुरर्थ्यां फक् ।

तुषस्यादूरदेशादौ ।

तौषार त्रि० तुषारस्येदमण् । तुषारसम्बन्धिनि जले

राजनि० “तत्रान्तरिक्षं धारं कारं तौषारं हैममिति”
आन्तरिक्षजलविभागे सुश्रुतः । भावप्र० तल्लक्षणादि
उक्तं यथा “अपि नद्याः समुद्रान्ते वह्निरापश्च तद्भवाः ।
धूमावयवनिर्मुक्तास्तौषाराख्यांस्तु ताः स्मृताः । अपथ्याः
प्राणिनां प्रायो भूरुहाणान्तु ता हित्ताः । तुषाराम्बु-
हिमं रूक्ष स्याद्वातलमपित्तलम् । कफोरुस्तम्भ-
कण्ठाग्निमेदोगण्डादिरोगनुत्” । नदीमारभ्य समुद्र-
पर्य्यन्तं वह्निरास्ते तद्भवा वह्निभवाः धूमावयवनि-
र्मुक्ताः धूमांशरहिता आपः तौषाराख्या इत्यर्थः ।

त्मन् पु० आत्मन् + आलोपः । आत्मनि “त्मनमूर्जं न

विश्वध क्षरध्यै” ऋ० १ । ६३ । ८ । त्मनमात्मानम् ।
“आङोऽन्यत्रापि छन्दसि दृश्यते” पा० इत्यात्मन
आकारलोपः संज्ञापूर्वकस्य विधेरनित्यत्वादुपधादीर्घा
भावः” भा० । “त्मने तोकाय तनयाय मृड” ऋ०
१ । ११४ । ६ । “उप त्मन्या वनस्पते” ऋ० १ । १८८ । १० ।
“त्मन्या आत्मना” भा० । तृतीयास्थाने या । “अश्वो
घृतेन त्मन्या” यजु० २९ । १० । “वनस्पतिरवसृष्टो न
पाशैः त्मन्या” २० । ४५ ।

त्यक्त त्रि० त्यज--कर्मणि क्त । कृतत्यागे उत्सृष्टे समुज्झिते

अमरः “अदृष्टार्थत्यक्तद्रव्यस्वीकारः प्रतिग्रहः” शूलपाणिः
त्यजधातौ उदा० । २ त्यक्तुमुद्यते च “मदर्थे त्यक्तजीविताः”
गीता “इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः,
रामा० कि० ५४ अ० ।

त्यज हानौ दाने च भ्वा० सक० पर० अनिट् । त्यजति

अत्याक्षीत् तत्याज । त्यक्तव्यं त्याज्यम् त्यागः त्यक्तं त्यक्त्वा
त्यागी । “त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्” चाणक्यः
“योऽत्याक्षीत् संयुगं भयात्” भा० द्री० ९५ अ०
“तं तत्याजाहितं पुत्रम्” रामा० २ । ३६ अ० । “नैव
नीलिवर्णेन कदाचित् त्यज्यते” पञ्चत० । (शूराः) “मदर्थे
त्यक्तजीविताः” गीता “प्रतिरोद्धा गुरोश्चैव त्यक्ताग्नि-
र्वार्द्धुषिस्तथा” मनुः “न माता न पिता न स्त्री न
पुत्रस्त्यागमर्हति” मनुः “त्याज्यं दोषवदित्येके कर्म प्राहु-
र्मनीषिणः । यज्ञदानतपः कर्म न त्याज्यमिति चापरे”
गीता “ज्ञातिसम्बन्धिभिस्त्वेते त्यक्तव्याः कृतलक्षणाः”--मनुः
“चतुष्पदाः स्वयूथेभ्यस्त्यक्तव्याः परभूमिषु” वृ० स० ६० अ० ।
वेदे तु नि० । णलि तित्याज “यस्तित्याज सचि विदं
सखायम्” ऋ० १० । ७१ । ६ । त्यागश्च स्वत्वध्वं सानुकूलव्यापारः न
ममेदमित्याकारः । स च मूर्त्तद्रव्याणामेव भवति अमूर्त्त-
जीवनादेर्वियोजनरूपः । उपसर्गपूर्वकस्य तत्तदुपसर्गद्यो-
त्यार्थयुक्तत्यागे इति भेदः ।

त्यजस् पु० त्यज--भावेऽसुन् । १ त्यागे “इन्द्रश्च न त्यजसा वि

ह्रुणाति” ऋ० १ । १६६ । १२ । “त्यजसा त्यागेन” भा० कर्त्तरि-
अमुन् । २ त्यागकर्त्तरि त्रि० । “चिद्धारयातेमहि! त्यजः” ऋ०
पृष्ठ ३३५७
१० । १४४ । ६ । त्यजो दुःखस्य वर्जयितृ भा० “न तं तिग्मं
चन त्यजो न” ऋ० ८ । ४७ । ७ । करणे असुन् । ३ क्रोधे च
क्रोधात् प्रयुज्यमानमायुधं मुच्यते इति तस्य तथात्वम् ।

त्यद् त्रि० त्यज--“त्यजितनियजिभ्यो डित्” उ० अदि

डिच्च । १ प्रसिद्धे । अस्य सर्वनामतया त्यदादिकार्य्यम्, स्यः
त्यौ त्ये त्यस्मै त्यस्मात् त्येषां त्यस्मिन् । स्त्रियां स्था त्ये
त्याः । क्लीवे त्यद् त्यें त्यानीति भेदः । २ सर्वदा
परोक्षाभिधानार्हे वस्तुनि ।
“द्वे बाव ब्रह्मणो रूपे मूर्त्तञ्चैवामूर्त्तञ्च मर्त्यञ्चामृतञ्च
स्थितञ्च यच्च सच्च त्यच्च । तदेतन्मूर्तं यदन्यद्वायीश्चा-
न्तरीक्षाच्चैतन्मर्त्यमेतत् स्थितमेतत् तस्यैतस्य मूर्त्तस्यै-
तस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष
तपति सत्यो ह्येष रसः । अथामूर्तं वायुश्चान्तरिक्षं
चैतदमृतमेतद्यदेतत्त्यत्तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत
एतस्य त्यस्यैष रसो य एष एतस्मिन्मण्डले पुरुषस्तस्य
ह्येष रस इत्यधिदैवतम्” वृ० उ० । “ते एते द्वे वाव
वावशब्दोऽवधारणार्थः । द्वे एवेत्यर्थः । ब्रह्मणो
परमात्मनो रूपे रूप्यते याभ्यामरूपं परमब्रह्माविद्याध्या-
रोपणाभ्यां के ते द्वे । मूर्त्तञ्च एव मूर्तमेव च । तथा
अमूर्त्तञ्च एवामूर्तमेव चेत्यर्थः । अन्तर्नीतस्वात्मविशेषणे
मूर्त्तामूर्ते द्वे एवेत्यवधार्य्येते । कानि पुनस्तानि विशे-
षणानि मूर्त्तामूर्तयोरित्युच्यन्ते । मर्त्यं
मरणधर्म्यमृतञ्च तद्विपरीतम् । स्थितं परिच्छिन्नं गतिपूर्वकं
यत् स्थास्नु । यच्च यातीति यद्व्याप्यपरिच्छिन्नं स्थित-
विपरीतम् । सच्च सदित्यन्येभ्यो विशेष्यमाणासाधारणध-
र्मविशेषवत् । तच्च तद्विपरीतं त्यदित्येव सर्वदा परोक्षा-
क्षाभिधानार्हम् । अथासूर्तमथाधुनाऽमूर्तमुच्यते । वायु-
श्चान्तरिक्षञ्च यत्परिशेषितं भूतद्वयं एतदमृतममूर्तत्वा-
दस्थितमतोऽविरुध्यमानं केनचिदमृतममरणधर्म तद्यत्
स्थितविपरीतं व्याप्यपरिच्छिन्नं यस्माद्यदेतदन्येभ्योऽप्र-
रित्यज्यमानविशेषमतस्त्यत्त्यदिति परोक्षाभिधानार्हमेव
पूर्ववत् । तस्येतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य
त्यस्य चतुष्टयविशेषणस्यामूर्तस्यैव रसः । कोऽसौ । य
एष एतस्मिन्मण्डले पुरुषः करणात्मको हिरण्यगर्भः
प्राण इत्यभिधीयते । यः स एषः अमूर्तस्य भूतद्वयस्य
रसः पूर्ववत् सारिष्ठः, एतत्पुरुषसारञ्चामूर्तं भूतद्वयं
हैरण्यगर्भलिङ्गारम्भाय हि भूतद्वयाभिव्यक्तिरव्याकृता-
त्तस्मात्तादर्य्यात्तत् सारं भूतद्वयम् । त्यस्य ह्येष रसो
यस्माद्यो मण्डलस्थः पुरुषो मण्डलवन्न गृह्यसारश्च
भूतद्वयस्य च साधर्म्यम् । तस्माद्युक्तं प्रसिद्धवद्धेतूपा-
दानं त्यस्य ह्येष रस इति” पा० भाष्यम् “सूतो
वा सूतपुत्रो वा यो वा स्यो वा भवाम्यहम्” वेणी० ।
अव्ययीभावे शदरा० अच् समासान्तः । उपत्यदम् ।

त्यदादि पु० पा० गणसूत्रोक्ते शब्दसमूहे । स च गणः

“त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद्
भवत् किम्” “त्यदादीनामः” पा० अत्र अत्त्वबिधौ
द्विपर्य्यन्तस्यैव ग्रहणमिति भाष्यकारेष्टिः ।

त्याग पु० त्यज--भावे घञ् । उत्सर्गे मूर्तद्रव्यस्य स्वत्वध्वंसा-

नुकूलव्यापारे न ममेदमित्याकारे । “न माता न
पिता न स्त्री न पुत्रस्त्यागमर्हति” “उन्मत्तं पतितं
क्लीवमवीरं पापरोगिणम् । न त्यागोऽस्ति द्विष-
न्त्याश्च न च दायापवर्तनम्” मनुः अमूर्तद्रव्यस्य २
वियोगमात्रे च । त्यागश्च सात्त्विकादिभेदात् त्रिविधः ।
यथाह गीता “नियतस्य तु सन्न्यासः कर्मणो नोपप-
द्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ।
दुःखमित्येव यत् कर्म कायक्लेशभयात् त्यजेत् । स
कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् । कार्य्यमि-
त्येव यत् कर्म नियतं कुरुतेऽर्जुन! । सङ्गं त्यक्त्वा
फलं चैव स त्यागः सात्त्विको मतः” । विशेषणाभावात्
विशेष्याभावात् उभयाभावाच्च पुनरपि सात्त्विकस्त्यागः
त्रिविधः तथा हि फलाभिसन्धिपूर्वककर्मत्यागः सत्यपि
कर्मणि फलाभिसन्धित्यागादेकः । स च सात्त्विकत्वा-
दादेयः । सत्यपि फलाभिसन्धौ कर्मत्यागात् द्वितीयः ।
स च दुःखबुद्ध्या कृतो राजसः विपर्य्यासेन कृतस्ता-
मसः इति भेदः । द्विविधोऽपि हेयो भवति । फलाभि-
सन्धेः कर्मणश्च त्यागात् तृतीयः । स च कर्मानधि-
कारिकर्त्तृको नैर्गुण्यरूपः । सोऽपि साधनफलभेदेन
द्विविधः । तत्र सात्त्विकेन फलाभिसन्धित्यागपूर्वककर्मानु-
ष्ठानरूपेण त्यागेन शुद्धान्तःकरणस्योत्पन्नविविदिषस्य
आत्मज्ञानसाधनश्रवणाख्यं वेदान्तविचाराय फलाभिस-
न्धिरहितस्यान्तःकरणशुद्धौ सत्यां तत्साधनस्य परित्यागः
स एकः साधनभूतो विविदिषासन्न्यास उच्यते ।
जन्मान्तरकृतसाधनाभ्यासपरिपाकादस्मिन् जन्मनि
आदावेवोत्पन्नात्मबोधस्य कृतकृत्यस्य स्वत एव फलाभिसन्धेः
कर्मणश्च परित्यागः फलभूतः स विद्वत्सन्न्यास इत्यु-
च्यते । “त्यागप्रपञ्चरूपस्यचिदात्मत्वावलोकनात् । त्यागो
पृष्ठ ३३५८
हि महतां पूज्यः सद्यो मोक्षमयो यतः । त्यागेन
युक्ता दिवमुत्पतन्ति त्यागेन हीना नरकं व्रजन्ति । न
त्यागिनां दुष्करमस्ति किञ्चित् त्यागो हि सर्वव्यसनानि
हन्ति” शब्दार्थचि० धृतवाक्यम् ।

त्यागिन् त्रि० त्यज--घिणुन् । १ दातरि, २ शूरे, ३ वर्ज्जन-

शीले, ३ कर्मफलत्यागिनि च “न द्वेष्ट्यकुशलं
कर्म कुशलेनानुषज्जते । त्यागी सत्त्वसमाविष्टो मेधावी
च्छिन्नसंशयः । न हि देहभृता शक्यं त्यक्तुं कर्माण्य-
शेषतः । यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते” गीता
“आत्मनस्त्यागिनां चैव निवर्तेतोदकक्रिया” मनुः ।

त्यागिमन् त्रि० त्यागेन निष्पन्नं त्याग + इमन् । त्यागेन

निर्वृत्ते ।

त्याज्य त्रि० त्यज + ण्यत् कुत्वाभावः । १ वर्ज्जनीये “तीरे

प्रतिग्रहस्त्याज्यस्त्याज्यो धर्मस्य विक्रयः” प्रा० त० ।
२ दातुं योग्ये च । “त्याज्यो दृष्टः प्रियोऽप्यासीदङ्गुलीवो-
रगक्षता” रघुः । “सा त्ववाप्यान्यतो गर्भं त्याज्या
भवति पापिनी । महापातकदुष्टा च पतिगर्भविना-
शिनी” व्यासस० ।

त्रक गतौ भ्वा० आत्म० सक० सेट् । त्रकते अत्रकिष्ट । तत्रके ।

त्रख गतौ भ्वा० पर० सक० सेट् धातुपाठः । त्रखति अत्र-

खोत् अत्राखीत् । तत्राख ।

त्रख गतौ भ्वा० पर० सक० सेट् इदित् धातुपाठः । त्रङ्खति अत्रङ्खीत् । तत्रङ्ख ।

त्रग गतौ भ्वा० पर० सक० सेट् इदित् । त्रङ्गति अत्रङ्गीत् ।

तत्रङ्ग । अयं दिवा० धातुपाठः । त्रङ्ग्यति ।

त्रङ्ग पुंस्त्री त्रगि--अच् । पुरभेदे हरिश्चन्द्रपुरे सौभे उद्गङ्गे

प्रतिमार्गके त्रिका० ।

त्रद चेष्टायां भ्वा० पर० अक० सेट् इदित् । त्रन्दति अत्र-

न्दीत् । तत्रन्द ।

त्रप लज्जायां भ्वा० आ० अक० वेट् । त्रपते अत्रपिष्ट अत्रप्त

त्रेपे । णिच् वा घ० । त्रपयति त्रापयति । षित् त्रपा ।
“कान्तया कान्तसंयोगे किमकारि नवोढ़या । अत्रापि
च क्रिया प्रश्नोत्तरा गुप्ता न बुध्यते” विदग्धमुख० ।
“अपेक्षाभिक्षायामपि किमपि चेतस्त्रपयति” शान्तिश० ।
  • अप--अन्यतो लज्जायाम् “तस्माद्बलैरपत्रेपे” भट्टिः । “लज्जा
सापत्रपान्यतः” अमरः ।

त्रपा स्त्री त्रप--भावे अङ् । १ लज्जायाम् अमरः । कर्त्तरि

अच् । २ सलज्जे त्रि० । ३ कुलटायां स्त्री मेदि० । ४ कुले
५ कीर्त्तौ च शब्दच० ।

त्रपाक पुंस्त्री० त्रप--आक । म्लेच्छजातिभेदे उणादि० ।

त्रपारण्डा स्त्री त्रपायां रण्डा । लज्जाहीनायां वेश्यायां

जटा० शब्दक० बस्तुतः त्रपारण्डेति नामद्वयं मेदिनौ
त्रपाशब्दस्य वेश्यार्थकत्वोक्तेः रण्डाशब्दस्य च तदर्थप्रसि-
द्धेस्तत्समानार्थकत्वौचित्यात् ।

त्रपिष्ठ त्रि० अतिशयेन तृप्रः अतिशायने इष्ठन् प्रियादि०

त्रपादेशः । तृप्रतरे ।

त्रपीयस् त्रि० अतिशयेन तृप्रः ईयसुन् त्रपादेशः । तृप्रतमे स्त्रियां ङीप् ।

त्रपु न० अग्निं दृष्ट्वा त्रपते लज्जते इव त्रप--उन् । १ सीसके

२ रङ्गे च मेदि० तस्य विकारः अण् “त्रपुजतुनोः सुक् च”
पा० सुक् च । त्रापुष तद्विकारे त्रि० । “ताम्रायःकांस्यरै-
व्यानां त्रपुणः सीसकस्य च” मनुः । “सुवर्णस्य मलं रूप्यं
रूप्यस्यापि मलं त्रपु । ज्ञेयं त्रपुमलं सीसं सीसस्यापि
मलं मलम्” भा० उ० ३८ अ० ।

त्रपुकर्कटी स्त्री त्रपु इव शुभा कर्कटी । (ससा) इति ख्याते लताभेदे ।

त्रपुटी स्त्री त्रप--बा०--उटक् गौरा० ङीष् । सूक्ष्मैलायाम् ।

रत्नमाला ।

त्रपुल न० त्रप--बा० उल । रङ्गे द्विरूपकोषः ।

त्रपुष(स) न० त्रपुस्याः (ष्याः) फलम् अण् फले तस्य लुप् । त्रपु-

षी(सी)फले । “त्रपुसं(षं) लघु नीलञ्च नवं तृट्क्लमदाह-
जित् । स्वादु पित्तापहं शीतं रक्तपित्तहरं परम् ।
तत्पक्वमम्लमुष्णं स्यात् पित्तलं कफवातनुत् । तद्वृहन्मूत्रलं
शीतं रूक्षं पित्तास्रकृच्छ्रजित्” भावप्र० ।

त्रपु(ष)स न० त्रप--बा० उस(ष) १ रङ्गे द्विरूपकोषः । गौरा०

ङीष् २ माहेन्द्रवारुण्यां कर्कटीभेदे (ससा) लताभेदे ।
सा च षीतपीष्पा काण्ण्डालुः बहुफला तुन्दिलफला
कण्टकफला सुधावासा च ।

त्रप्सा स्त्री घनीभूतश्लेष्मादौ । “कृमिकीटपदक्षेपैर्दूषिता यत्र

मेदिनी । त्रप्सया कर्षणैः क्षिप्ता वान्बैर्वा दुष्टतां व्रजेत् ।
नखदण्डतनूजत्वक्तुषपांशुरजोमलैः । भष्मपङ्कत्रणैर्वापि
प्रच्छन्ना मलिना भवेत्” “त्रप्सा घनीभूतश्लेष्म दि” शु० त० ।

त्रप्स्य न० घनेतरदधनि अमरटीकायां विद्याविनोदः ।

त्रय न० स्त्री त्रयाणामवयवम् अयच् । त्रितये १ त्रित्वसंख्यायाम्

“वेदत्रयं निरदुहत् भूर्भुवः स्वरितीति च” मनुः ।
स्त्रीत्वपक्षे ङीप् । “व्याघोतिष्ट सभावेद्यामसौ
नरशिखित्रयी” माघः त्रयोऽवयवा अस्य अयच् । २ त्रित्व-
संख्यान्विते त्रि० स्त्रियां ङीप् । “प्रत्यक्षमनुमानञ्च
शास्त्रञ्च विविधागमम् । त्रयं सुविदितं कार्य्यं धर्म-
पृष्ठ ३३५९
शुद्धिमभीप्सताः” मनुः ङीषन्तः “ऋग्यजुःसामरूपे
३ वेदत्रये त्रित्वसंख्यान्वितेषु ऋगादिवेदेषु अमरः
“एतद्विदन्तोविद्वांसस्त्रयीनिष्कर्षमन्वहम्” “त्रैविद्येभ्यस्तवीं
विद्याद्दण्डनीतिञ्च शाश्वतीम्” मनुः । “ब्रह्माऽथ पुरुषो
रुद्रस्त्रयमेतत् त्रयीमयम् । सर्गादावृङ्मयो ब्रह्मा
स्थितौ विष्णुर्यजुर्मयः । रुद्रः साममयोऽन्ताय तस्मात्
तस्याशुचिर्ध्वनिः” मनुः । ४ पुरन्ध्र्यां ५ सुमतौ स्त्र्यी विश्वः
६ सोमराजीवृक्षे स्त्री शब्दच० । ७ भवान्याम् दुर्गायाम् ।
यथा “ऋग्यजुःसामभागेन साङ्गवेदगतापि या । त्रयीति
पट्यते लोके दृष्टा दृष्टार्थसाधिनीति” देवीपु० ।

त्रयःपञ्चाशत् स्त्री त्र्यधिका पञ्चाशत् त्रिशब्दस्य त्रय

आदेशः । (तिपान्न) १ त्र्यधिकपञ्चाशत्संख्यायां २ तत्संख्या-
न्विते च बहुत्वेऽप्येकत्वम् । एवं त्रयोदशत्रयोविंशतित्रय-
स्त्रिंशत् त्रयश्चत्वारिंशत् प्रभृतयः त्र्यधिकदशादिसंख्यायां
तत्संख्ये ये च । इयांस्तु भैदेः अशीतिभिन्ने चत्वारिंश-
दादौ वा त्रय आदेशः । तेन पक्षे त्रिचत्वारिंशादित्यादि
तत्रार्थे अशीतौ नेति त्र्यशीतिः ।

त्रययाय्य पु० त्रयं जन्मत्रयं याति या--बा० आय्य । जन्म-

त्रयप्राप्ते “सूनुर्न त्रययाय्यः” ऋ० ६ । २ । ७ । “त्रययाय्यो
जन्मत्रयं प्राप्तः । जन्मत्रयं--स्मर्य्यते । मातुरग्रेऽधि-
जननात् द्वितीयं मौञ्जिबन्धनात् । तृतीयं यज्ञदीक्षाया
इति जन्मत्रयं स्मृतमिति” तादृशः पुत्र इति” भा० ।

त्रयस्त्रिंश त्रि० त्रयस्त्रिंशत् + पूरणे डट् । त्र्यधिकत्रिंशत्-

संख्यापूरणे स्त्रियां ङीप् ।

त्रयस्त्रिंशत्पति पु० त्रयस्त्रिंशतो देवानां पतिः । १ इन्द्रे

हेमच० । २ प्रजापतौ च तयोः त्र्यधिकत्रिंशतो देवानां
पतित्वात् तथात्वम् । देवानां त्रयस्त्रिंशत्त्वं तु
“अष्टौ वसवः एकादश रुद्रा द्वादशादित्या इमे एव
द्यावा पृथिवी त्रयस्त्रिंश्यौ, त्रयस्त्रिं शद्वै देवाः प्रजा-
पतिश्चतुस्त्रिंशस्तदेनं प्रजापतिम्” शत० ब्रा० ४ । ५ । ६ । २ ।
“कतमे ते त्रयस्त्रिंशदित्यष्टौ वसव एकादश रुद्रा द्वादशा-
दित्यास्त एकत्रिंशत् इन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति”
शत० ब्रा० ११ । ६ । ३ । ५ । तु अन्यथोक्ता अस्मिन् पक्षे
निर्द्धारणसप्तम्यासमासात् इन्द्रप्रजापतिपरत्वम्
तयोस्तेषां मध्ये श्रेष्ठत्वेन पतित्वात्तथात्वमिति बोध्यम् ।
“आदित्यांश्च वसूंश्चैव रुद्रांश्चैवाश्विनावपि” रामा० ३ ।
२० । अन्यथा संख्योक्ता ।

त्रयस्त्रिंशस्तोम पु० त्रयस्त्रिंशत स्त्रोमा अस्य पृषो० । यज्ञ-

भेदे । “त्रयस्त्रिंशस्तोमेन शोणः सात्रासाहः पाञ्चालो
राजा । तदेतद्गाथयाऽभिगीतम् “सात्रासाहे यजमाने
अश्वमेधेन तौर्वशाः । उदीरते त्रयस्त्रिंशाः षट्सहस्राणि
वर्मिणाम्” शत० ब्रा० १३ । ५ । ४ । १६ ।

त्रयस्त्रिंशिन् न० त्रयस्त्रिंशत् ऋचः सन्त्यस्मिन् इनि

डिच्च । त्रयस्त्रिंशदृग्भिर्गीयमाने सामभेदे । “त्रयस्त्रिंशि
नाम साम माध्यन्दिने पवमाने भवति” तैत्ति० १ । २ । २ । ४

त्रयीतनु पु० त्रयी वेदा एव तनुरस्य । १ सूर्य्ये हला० ।

“स्वर्गद्वारं त्रय्या विद्याया भगवन्तं त्रयीमयं सूर्य्यमात्मानं
यजन्ते” भाग० ५ । २० । ७ । तस्य त्रयीमयत्वोक्तात्तथात्वम् ।

त्रयीधर्म्म पु० त्रय्या वेदत्रयेण विधीयमानो धर्भः शाक० ।

वैदिके धर्मे ज्योतिष्टोमादौ अमरः ।

त्रयीमय पु० त्रय्यात्मकः मयट् । १ सूर्य्ये त्रयीतनुशब्दे उदा०

२ त्रयीधर्म्मात्मके त्रि० । “एवं मुहूर्त्तेन चतुस्त्रिंशल्लक्ष-
योजनान्यष्टशताधिकानि सौरो रथस्त्रयीमयोऽसौ
चतसृषु परिवर्त्तते पुरीषु” भाग० ५ । २१ । १७ । “त्रयीमयं
रूपमिदञ्च शौकरम्” इत्युक्ते वाराहे ३ रूपे न० तद्रूपवि-
वृतिस्तत्रैव “स्रुक्तुण्ड आसीत् स्रुवईश! नासयोरिडी
दरे चमसाः कर्णरन्ध्रे । प्राशित्रमास्ये ग्रसने ग्रहास्तु ते
यच्चर्वणं ते भगवन्नग्निहोत्रम् । दीक्षानुजन्मोपसदः
शिरोधरं त्वं प्रायणीयोदयणीयदंष्ट्रः जिह्वाप्रवर्ग्यस्तव-
शीर्षकं क्रतोः सत्यावसर्थ्यं चितयोऽसवो हि ते । सोमस्तु
रेतः सवनान्यवस्थितिः संस्थाविभेदास्तव देव! धातवः ।
सत्राणि सर्वाणि शरीरसन्धयस्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः ।
नमो नमस्तेऽखिलमन्त्रदेवताद्रव्याय सर्बक्रतवे क्रियात्मने”
भाग० ३ । १३ । ४० । ४ परमेश्वरे च पु० । “स एष आत्मात्मव-
वतामधीश्वरस्त्रयीमयो धर्भमयस्तपोमयः” भाग० २ । ४ । १९ ।

त्रयीमुख पु० त्रयी मुखेऽस्य । विप्रे हेमच० ।

त्रयोदशन् त्रि० त्रयश्च दश च, त्र्यधिका वा दश शाक० त्रय

आदेशः । १ त्र्यधिकदशसङ्ख्यायां २ तत्संख्यान्विते च ।
“क्वचित् द्वादश मासाः संवत्सराः क्वचित् त्नयोदश मासाः”
श्रुतिः म० त० । ततः पूरणे डट् । त्रयोदश तत्पूरणे त्रि०
“ज्यैष्ठे ज्येष्ठस्य कुर्वीत त्रयोदशदिनात् परम्” ज्यो०
स्त्रियां ङीप् । सा च चन्द्रस्य त्रयोदशकलाक्रियात्मके
तिथिभेदे सा च स्मरतिथिः तत्रैव तस्योत्पत्तेः । “त्रयो-
दशी पञ्चदशी च माघे” मन्वादिकथने “बरुणेन समायुक्ता
मधौ कृष्णा त्रयोदशी” वारुणीकथने च ति० त० ।

त्रय्यारुण पु० मान्धातृवंश्ये त्रिधर्मणः सुते नृपभेदे “राज्ञ

स्त्रिधर्मणश्चासीत् विद्वांस्त्रय्यारुणः सुतः” हरिवं० १३ अ० ।
पृष्ठ ३३६०

त्रस गतौ ग्रहे निषेधे च चुरा० उभ० सक० सेट् । त्रसयति

ते अतित्रसत् त ।

त्रस भासे बा चुरा० उभ० पक्षे भ्वा० पर० अक० सेट्

इदित् । त्रिंसयति ते त्रंसति अतत्रंसत् त अत्रंसीत् ।

त्रस भये वा दिबा० पक्षे भ्वा० पर० अक० सेट् । त्रसति अत्रा-

सीत् अत्रसीत् त्रत्रास फणा० त्रेसतुः तत्रसतुः ।
ईदित् त्रस्तः । तस्य दिवादित्वे सार्वधातुके श्यन् ।
त्रस्यति । “त्रस्यन्ती चलशफरीविघट्टितोरुः” माघः “त्रस-
त्तुराद्रिसुताससंभ्रमस्वयंग्रहाश्लेघसुखेन निष्क्रियाम्”
“मुहुरत्रसद्भिरपि यत्र गौरवात्” माघः । “त्रस्यन् वै
जायमानेभ्यः” भट्टिः । “ततो रामेति चक्रन्दुस्त्रेसुः
परिदिदेविरे” भट्टिः “कपेरत्रासिषुर्नादान् मृगाः
सिंहध्वनेरिव” भट्टिः । “राक्षसस्य न चात्रासीत् प्रनष्टु-
मयतिष्ट च” भट्टिः ।
  • उद् + उत्कटत्रासे । “बालानुत्त्रासयन्ति ह” हरिवं० ३२७७ ।

त्रस त्रि० त्रस--भये आधारे घञर्थे क । १ वने त्रिका० । त्रस-

गतौ अच् । २ जङ्गमे त्रि० अमरः । त्रसरेणुः ।

त्रसदस्यु पु० मान्धातृपौत्रभेदे । “तस्यामुत्पादयामास

मान्धाता द्वौ सुतौ नृप! । पुरुकुत्सञ्च धर्मज्ञं मुचुकुन्दञ्च
धार्मिकम् । पुरुकुत्ससुतस्त्वासीत् त्रसदस्युर्महीपतिः”
हरिवं० १२ अ० ।

त्रसन न० त्रस--भावे ल्युट् । १ भये २ उद्वेगे कर्तरि ल्यु । ३ त्रासयुक्ते त्रि० ।

त्रसर पु० त्रस--अरन् । तन्तुवायोपकरणभेदे (तासनी) अमरः

त्रसरेणु पु० चसः चलो रेणुः कर्म० । “जालान्तरगते भानौ

सूक्ष्मं यद्दृश्यते रजः । प्रथमं तत्प्रमाणानां त्रसरेणुं
व्रचक्षते” मनूक्ते गवाक्षान्तर्गतसूर्य्यकिरणेषु १ दोधूयमाने
रजसि २ परमाणुषट्कात्मकेद्व्यणुकत्रयात्मके रजसि
“परमाणुद्वयेनाणुस्त्रसरेणुस्तु ते त्रयः” ब्रह्मवै० । “जालान्तरगते
सूर्य्यकरे ध्वं सी विलोक्यते । त्रसरेणुस्तु विज्ञेयः
त्रिंशता परमाणुभिः” इति वैद्यकपरिभाषया ३ त्रिंशत्-
परमाणुरूपे रजसि च । ४ सूर्य्यपत्नीभेदे स्त्री त्रिका० ।

त्रसुर त्रि० त्रस--उरच् । भीरौ संक्षिप्तसारः ।

त्रस्त त्रि० त्रस--क्तं । १ भीते २ चकिते । ३ शीघ्रे न० । “त्रस्तौ

समासन्नकरेणुमुक्तात्” “त्रस्तः समस्तजनहासकरः
करेणुः” माघः “जुमोपात्मानमत्रस्त्रः” रघुः ।

त्रस्नु त्रि० त्रस--क्रु । भीरौ त्रासशीले अमरः । “सीतां

सौमित्रिणा त्यक्तां स ध्रीचीं त्रस्तुमेकिकास्” भट्टिः
“अत्र त्रस्नुभिर्युक्तधुरं तुरङ्गैः” रघुवंशकाव्यम् ।

त्रा पालने अदा० आ० सक० अनिट् क्रमदीश्वरः । त्राते

अत्रात । “कान्तारे ब्राह्मणान् गाश्च यः परित्राति
कौशिकः!” भा० अनु० ७३ अ० । आर्षत्वात् पदव्यत्ययः ।

त्राण न० त्रै--पालने भावे ल्युट् भावे क्त तस्यनो वा । १ रक्षणे ।

कर्मणि क्त वा तस्य नः । २ रक्षिते त्रि० ३ त्रायमाणालतायां
न० मेदि० तत्रार्थे स्त्री राजनि० । “न कुयादात्मनस्त्राणं
गोरकृत्वा तु शुक्तितः” मनुः ।

त्रात त्रि० त्रै--कर्मणि क्त वा तस्य नत्वाभावः । १ रक्षिते भावे क्त । २ रक्षणे न० ।

त्रापुष त्रि० त्रपुषा निर्वृत्तम् अण् सुक् च । रङ्गमये पात्रादौ ।

त्रामन् त्रि० त्रै--पालने मनिन् । १ रक्षके “तव त्रामभिरिन्द्र!

तूर्वयानम्” ऋ० १ । ५३ । १० ।

त्रायन्ती स्त्री त्रै--सम्प० भावे क्विप् त्राः तामयति गच्छति

भ्वा० इ गतौ शवृ--ङीप् । त्रायमाणालतायाम् अमरः ।
“त्रायन्ती तुवरा तिक्ता सरा पित्तकफापहा । ज्वर-
हृद्रोगगुल्मास्रभ्रमशूलविषप्रणुत्” भावप्र० । “कलसी
वृहती द्राक्षा त्रायन्ती निम्बगोक्षुरीः” सुश्रु० ।
स्वार्थे क । त्रायन्तिका तत्रार्थे “प्रियङ्ग्वनन्तायूथिका
पद्मत्रायन्तिकालोहतिकाम्बष्टादाड़िमत्वक्शालपर्णीपद्मतु-
ङ्गकेशरधातकीबकुलशाल्मलीश्रीवेष्टकमोचरसेष्वरिष्टानय-
स्कृतीर्लेहानासवान् कुर्वींत” सुश्रु० ।

त्रायमाण त्रि० त्रायते त्रै--कर्मणि शानच् । १ रक्ष्यमाणायां

(बाला)ख्यातायां २ लतायाम् अमरः । स्वार्थे क । तत्रार्थे
स्त्री राजनि० ।

त्रायोदश त्रि० त्रयोदश्यां भवं सन्धिवेला० अण् । त्रयो दशीभवे ।

त्रास पु० त्रस--भावे घञ् । १ भये “त्रासाकुलः परिपतन् परितो

निकेतान्” माघ० । २ मणिदोषभेदे च मेदि० ।

त्रासन न० त्रस--णिच् भावे ल्युट् । १ भयोत्पादने कर्तरि ल्यु ।

२ भयोत्पादके त्रि० ।

त्रि त्रि० ब० व० तॄ--ड्रि । त्रित्यसंख्याविशिष्टे । “इति

वेदास्त्रयस्त्रयी” अमरः “न्यायैस्त्रिभिरुदीरणम्” कुमा०
“त्रिभ्य एव तु वेदेभ्यः पादत्रयमददुहत्” मनुः । स्त्रियां
गौण्ये मुख्ये च विभक्तौ परतः त्रिस्रादेशः । तिंस्रः
अतित्रिसा कैश्चित्तु प्रियत्रिसेत्युदाहृतम् तच्चिन्त्यम् “त्रिसृ-
भिस्त्वमवस्थाभिर्महिमानमुदीरयन्” कुमा० । त्रयाणां
वेदे तु क्वचित् त्रीणाभिति रूपं “महि! त्रीणामवो-
ऽस्तु द्युक्षं मित्रस्यार्यम्णः” ऋ० १० । १८५ । १ ।

त्रिंश त्रि० त्रिंशत् + पूरणे डट् । त्रिंशत्पूरणे, त्रिंशत्तमे

“त्रिंशांशकस्तथा राशेर्भाग इत्यभिधीयते” सू० सि० ।
पृष्ठ ३३६१

त्रिंशक त्रि० त्रिंशता क्रीतः वुन् डिच्च । तिंशतसंख्यान्वित-

द्रव्येण क्रीते वस्तुनि ।

त्रिंशत् त्रि० त्रयोदशतः परिमाणमस्य नि० । १ त्रिदशकसं-

ख्यायां २ तत्संख्यान्विते च । तत्र संख्येये “निमेषा दश
चाष्टौ च काष्ठाः त्रिंशत्तु ताः कलाः । त्रिंशत् कलामुहूर्तः
स्यादहोरात्रन्तु तावतः” “त्रिंशंद्वर्षो वहेत् कन्यां हृद्यां
द्वादशवार्षिकीम्” मनुः “संख्यायां “तत्त्रिंशता
भवेन्मासः” सू० सि० ।

त्रिंशत्क त्रि० त्रिंशत्परिमाणमस्य कन् । १ त्रिंशत्परिमाणे

अवयवे कन् । २ तत्संख्यायाम् “अमावास्याः पृथक् तेषां
त्रिंशत्कं परिचक्षते” कामन्द० ।

त्रिंशति स्त्री त्रिं शत् + पृषो० । १ त्रिंशत्संख्यायां २ तत्संख्येये

च । “पञ्चकं मण्डलं जय्यं त्रिंशत्याञ्च मनीषिभिः” काम०

त्रिंशत्तम त्रि० त्रिंशतः पूरणः तमप् । १ त्रिंशत्संख्यापूरणे

स्त्रियां ङीप् । “ततस्त्रिंशत्तमे व्यहे पङक्तिष्वतिष्ठन्त”
शत० ब्रा० १० । ४ । २ । २३ ।

त्रिंशत्पत्र न० त्रिंशत्संख्यानि पत्राणि दलानि प्रतिपुष्प-

मस्य । १ कुमुदे शब्दमाला ।

त्रिंशांश पु० त्रिंशस्त्रिंशत्पूरणोऽंशः । राशेस्त्रिंशत्पूरणे

भागे षष्टिकलात्मके भागे षड़वर्गान्तर्गतानां राशिभेदे
तेषामंशविशेषाणामधिपतयः ज्यो० उक्ता यथा
“पञ्च पञ्चाह्यद्रिवाणा विषमे त्रिंशदंशकाः । माहे-
यशनिजीवज्ञशुक्राणां व्युत्क्रमात् समे” । विषमराशौ
कुजशनिगुरुबुधशुक्राणां पञ्च पञ्चाष्टसप्तपञ्चमितास्त्रिंशां-
शकाः क्रमात् ज्ञेयाः । समे राशौ व्युत्क्रमात् तेषां
विपर्य्ययेण त्रिंशांशा ज्ञेयाः । यथा मेषो विषमराशिः
तत्र प्रथमावधिपञ्चांशा भौमस्य । षष्ठांशमारभ्य दशमां-
शपर्य्यन्तं पञ्चांशाः शनेः । एकादशांशमारभ्याष्टादशांश-
पर्य्यन्तमष्टार्वशा गुरोः । ऊनविंशांशमारभ्य पञ्चविंशंश-
पर्य्यन्तं सप्तांशा बुधस्य । ततः षड्विंशांशमारभ्य त्रिं-
शांशपर्य्यन्तं पञ्चांशाः शुक्रस्य त्रिंशांशाः क्रमात् ज्ञेयाः ।
मिथुनसिंहतुलाधनुःकुम्भेष्वप्येवम् । समराशौ व्युत्-
क्रमाद्यथा । वृषे प्रथमांशमारभ्य पञ्चांशा भृगोः ।
ततो द्वादशांशपर्य्यन्तं सप्तांशा बुधस्य, ततो विंशांश-
पर्य्यन्तमष्टावंशा गुरोः । ततः पञ्चविंशांशपर्यन्तं पञ्चाशाः
कुजस्य त्रिंशांशाः । एवं कर्ककन्यावृश्चिकमकरमीनेष्वपि
वोध्र्याः । त्रिंशदंशका इत्यत्र वृत्तौ त्रिभागवत् पूरणार्थता

त्रिंशिन् त्रि० त्रिंशत् प्रमाणमस्य इनि डिच्च । त्रिंशत्प्रमाणे

स्त्रियां ङीप् ।

त्रिक न० त्रयाणां संघः कन् । १ त्रित्वसङ्ख्यायाम् २ पृष्ठवंशाधो-

भागे, ३ कटिभागे, ४ त्रिफलायाम् (हरितक्यामलकीवयस्था-
फलत्रये) ५ त्रिकटुनि, (शुण्ठोपिप्पलीमरिचत्रये) ।
वातादिषु मिलितेषु त्रिषु कायति कै--क । ६ गोक्षुरे पु०
अमरः । ७ त्रिपथसंस्थाने हेम० । ८ त्रिमदे “गुडुची-
सारसंयुक्तात् त्रिकत्रयसमन्वयात् । वातरक्तं
निहन्त्याशु सर्वरोगहरन्त्वयः” सुखबोधः त्रिकत्रयं त्रिकटु-
त्रिमदम् त्रिफलम् चेति त्रयमित्यर्थः । “युगं ससूत्कारवि-
वर्तितत्रिकः” माघः । “व्यपोढ़पार्श्वैरपवर्तितत्रिका”
किरा० । “त्रिफला तु फलत्रिकम् “कश्चिद्विवृत्तत्रि-
कभिन्नहारः” रघुः । “एकं द्विकं त्रिकं चैव
चतुषकं पञ्चकं तथा” हरिका० । तृतीयेण रूपेण
ग्रहणं यस्य कन् पूरणप्रत्ययस्य वा लुक् । ९ तृतीयके
त्रि० । त्रयः अधिकाः शुल्कं लाभो वृद्धिर्वा यत्र शतादौ
१० त्र्यधिकलाभादियुक्ते शतादौ । “द्विकं त्रिकं चतुष्कञ्च
पञ्चकञ्च शतं सभम् । मासस्य वृद्धिं गृह्णीयात् वर्णाना-
मनुपूर्वशः” मनुः । (शतकरा तिनटाका सुद) “स्फिगस्थ्नोः
पृष्ठवंशास्थ्नोर्यः सन्धिस्तत्त्रिकं स्मृतम्” इत्युक्ते
११ सन्धिभेदे न० ।

त्रिककुद् पु० त्रीणि ककुदतुल्यानि शृङ्गाण्यस्य ककुदस्य

अन्त्यलोपः समा० । त्रिकूटाख्ये पर्वतभेदे अमरः । पर्वत
एवास्य अन्त्यलोपः नान्यत्र । तत्र त्रिककुद तद्युक्ते
त्रि० । २ विष्णावपि पु० वा अन्त्यलोपः । “तथैवासं
त्रिककुदो वाराहं रूपमास्थितः । त्रिककुत् तेन विख्यातः
शरीरस्य प्रमापणात्” भा० शा० ३४४ अ० । ३ दशरात्र-
साध्ये यज्ञभेदेऽपि वा अन्त्यलोपः । “त्रिककुद्वा एष
यज्ञो यद्दशरात्रः ककुत् पञ्चदशः ककुदेकविंशः ककुत्त्रय-
स्त्रिंशो य एवं विद्वान् दशरात्रेण यजते त्रिककुद एव
समानानाम्” तै० स० ७ । २ । ५ । २ । “चतुष्टोमात् समूढ्वा
त्रिककुदः शस्त्रम् अथ महात्रिककुदश्च, छन्दोमत्रिककुदश्च”
सा० श्रौ० १९ । २९ । १४ । “यत्र वा इन्द्रो वृत्रमहंस्तस्य
यदक्ष्यासीत्तं गिरिं तिककुदमकरोत्” शत० व्रा० ३ । १ । ३ ।
१२ । “वर्षिष्ठः पर्वतानां त्रिककुन्नाम ते पिता” अथ० ४ । ९ । ८ ।

त्रिककुभ् पु० त्रेधा कं पीतमुदकं स्कुभ्राति स्कुन्म क्विप्

छान्दसः सलोपः । १ उदाने वायौ “उदानो वै
त्रिककृप्छन्दः” शत० ब्रा० ८ । ५ । २ । ४ । २ नवरात्रसाध्ये यज्ञ-
पृष्ठ ३३६२
भेदे । त्रिककुभोऽप्यत्र । त्रिककुबध्यर्द्धः पृष्ठ्यः । महात्रिक-
कुप् व्यूढ़ो नवरात्रः । समूढ़त्रिककुप्समूढ़ः” आश्वा० श्रौ० १० ।
३ । २१ नवरात्र इत्यनुवर्त्तते, नारा० “चतुष्टोम त्रिककुबवध्य-
र्द्ध्वोऽभिप्लवः एतैश्चतुर्भिः स्वानां श्रैष्ट्यकामो यजेत ।
२२ एतैस्त्रिककुम्महात्रिककुप्समूढ़त्रिककुप् चतुष्टोमत्रिक-
कुब्भिः स्वानां श्रैष्ट्यकामो यजेत । एतेषां दशमो वैश्वा-
नर एव भवति । कामश्चैतेषामेकैकेन सम्बध्यते” नारा० ।

त्रिककुब्धामन् पु० मूर्द्धाधोमध्याभेदेन त्रिसृणां ककुभां

दिशां समाहारः त्रिककुब् तत् धाम आश्रयो यस्य ।
विष्णौ विष्णुस० ।

त्रिकट पु० त्रीन् वातादिदोषान् कटति आवृणोति अच् । गोक्षुरवृक्षे शब्दर० ।

त्रिकटु न० त्रयाणां कटुरसानां समाहारः । मिलितेषु

शुण्ठीपिप्पलीमरिचेषु हेम० । “विश्वोपकुल्यामरिचं
त्रयं त्रिकटु कथ्यते । त्र्यूषणं दीपनं हन्ति श्वासकास
त्वगामयान् । गुल्ममेहकफस्थौल्य मेदश्लीपदपोनसान्”
भावप्र० ।

त्रिकण्ट पु० त्रयः कण्टाः कण्टका अस्य । १ गोक्षुरे २ स्नुही-

वृक्षे, च रत्नमा० । (टेङ्गरा) ३ मत्स्यभेदे शब्दर० । ४ पत्रगुप्ते
शब्दच० । वृहत्यग्निदमनीदुःस्पर्शात्मके ५ द्रव्ये राजनि० ।

त्रिकण्टक पु० स्त्री लघुगर्गमत्स्ये त्रिका० समा० द्वि० ।

२ कण्टकत्रये स्त्री । ततः परिमाणे रजता० अञ् । त्रैक-
ण्टक तत्परिमाणे । त्रयः कण्टका अस्य । ३ गोक्षुर-
कवृक्षे पु० हेमच० । ४ कण्टकत्रयान्विते त्रि० ।

त्रिकद्रुक पु० ज्योतिर्गौरायुरित्येतन्नामके “अभिप्लवाहत्रिके

“अभिप्लवत्र्यहं पूर्वं त्रिकद्रुका इत्याचक्षते” आश्व० श्रौ० ११ ।
१ । ११ त्रिकद्रुकेषु पाहि सोममिन्द्र!” ऋ० २ । ११ । १७ “त्रिकद्रु-
केषु ज्योतिर्गौरायुरित्येतन्नामकेषु आभिप्लविकेष्वहः स्युः
भा० “त्र्यहार्थे ज्योतिर्गौरायुरिति त्रिकद्रुकाः” कात्या०
श्रौ० २४ । १ । ९ त्रिकद्रुक इति ज्योतिरादीनां समुदितानां
संज्ञा संव्यवहारार्था” कर्कः “त्रिकद्रुकाः पृष्ठावलम्ब्य
इति पशुकामस्य” आश्व० श्रौ० । १० । ३ । १९ ।

त्रिकर्म्मन् पु० त्रीणि कर्म्माण्यस्य । यजनं याजनञ्चैव तथा

दानप्रतिग्रहौ । अध्यापनञ्चाध्ययनं षट् कर्मा धर्मभाग्
द्विजः” भा० अनु० १३१ अ० । उक्तेषु षट्सु कर्मसु
मध्ये वृत्त्यर्थयाजनप्रतिग्रहाध्यापनभिन्नावृत्त्यर्थदाने-
ज्याध्ययनरूपकर्मकारिणि द्विजे । “त्रैविद्यो ब्राह्मणो
विद्वान् न चाध्ययनजीवकः । त्रिकर्मा त्रिपरिक्रान्तो
मैत एष स्मृतः द्विजः” भा० अनु० १४१ अ० ।

त्रिकश न० त्रिसृणां कशानां तदाघातानां समाहारः ।

कशाघातत्रये । कशाघातत्रिकञ्च कशशब्दे १८३४ पृ० दर्शितम् ।

त्रिकशूल न० ६ त० । वातजन्ये त्रिकस्थे व्यथाभेदे । “स्फि-

गस्थ्नोः पृष्ठवंशास्थ्नोर्यः सन्धिस्तत्त्रिकं स्मृतम् । तत्र
वातेन या पीड़ा त्रिकशूलं तदुच्यते” भावप्र० ।

त्रिका स्त्री त्रिधा कायति कै--क । कूपसभीपस्थे जलोद्धारके

त्रिदारुमये यन्त्रभेदे क्षीरस्वामी ।

त्रिकाण्ड पु० त्रीणि काण्डान्यस्य । स्वर्गवर्गादिकाण्डभूमि-

वर्गादिकाण्डसामान्यकाण्डरूपात्मके नामलिङ्गानुशासने
अमरसिंहकृते १ कोषभेदे तस्यैव शेषभूतस्त्रिकाण्डशेषः पुरु-
षोत्तमकृतः यथाह तदुपोद्घाते “अलौकिकत्वादमरः स्वकोषे
न यानि नामानि समुल्लिलेख । विलोक्य तैरप्यधुना प्रचा-
रमयं प्रयत्नः पुरुषोत्तमस्य” । २ निरुक्ते तदपि त्रिकाण्डं
तच्चानुक्रमणिकाभाष्ये दर्शितम् यथा “आद्यं नैघण्टुकं
काण्डं द्वितीयं नैगमं तथा । तृतीयं दैवतं चेति
समाम्नायस्त्रिधा मतः” । त्रयाणां कण्डानां समाहारः ङीप् ।
त्रिकाण्डी ३ काण्डत्रये स्त्री । त्रीणि काण्डानि प्रमाण-
मस्य मात्रच् द्विगोस्तस्य लुकि क्षेत्रपरत्वे ङीप् त्रिकाण्डी
क्षेत्रभक्तिः । त्रिकाण्डमिते रज्ज्वादौ स्त्री टाप् ।

त्रिकाय पु० त्रयः काया अस्य त्रिकं दुःखत्रिकमेत्यस्मात्

इअपादाने अच् वा । बुद्धदेवे हेमच० ।

त्रिकार्षिक न० कर्षाय हितम् ठक् त्रयाणां वातपित्तक-

फानां कार्षिकम् । नागरातिविषामुस्तारूपे मिलिते
औषधभेदे राजनि० ।

त्रिकाल न० त्रयाणां कार्य्यकालभूतभविष्यत्कालानां

समाहारः । १ भूतभविष्यद्वर्तमानकालत्रये २ प्रातर्मध्याह्न-
रूपकालत्रये च । “त्रिकालं पूजयेद्देवीम्” इति तन्त्रम् ।
त्रिकालज्ञः । त्रयः काला अस्य । ३ कालत्रयवर्त्तिनि
ति० । साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम्”
सां० का० । करणस्य मनसः त्रिकालबुद्ध्यादिसाधनत्व
यथा “नदीपुरभेदादभूद्वृष्टिः, अस्ति धूमादग्निरिह
नगनिकुञ्जे, असत्युपघातके पिपीलिकाण्डसञ्चरणाद्भविष्यति
वृष्टिरिति । तदनुरूपाश्च सङ्कम्पाभिमानाध्यवसाया
भवन्ति” सा० कौ० ।

त्रिकालज्ञ पु० त्रिकालवर्त्तिपदार्थान् जानाति ज्ञा--क ।

१ सर्वज्ञे त्रिकालबिदादयोऽप्यत्र । २ भूतभविष्यद्वर्त्तमान-
कालाभिज्ञे त्रि० । “युद्धं यथा यदा वा भविष्यदादि-
श्यते त्रिकालज्ञैः” वृ० स० १७ अ० । त्रिकालवेत्ताप्युभयत्र ।
पृष्ठ ३३६३

त्रिकालदर्शिन् पु० त्रिकालं तद्वर्तिवस्तु पश्यति दृश--णिनि ।

१ऋषौ हारा० । २ त्रिकालज्ञे त्रि० “प्रध्वंसिन्यपि काले
त्रिकालदर्शी कलौ भवति” वृ० स० २१ अ० ।

त्रिकूट पु० त्रीणि कूटानि शृङ्गाण्यस्य । लवणसमुद्रमध्यस्थे

लङ्कापुराधारे पर्वतभेदे अमरः । “तैरूहे केशरिक्रान्त-
त्रिकूटशिखरोपमा” माघः “स सागरमनाधृष्यमतिक्रम्य
महाबलः । त्रिकूटस्य तटे लङ्कां स्थितः खस्थो ददर्श
ह” रामा० सु० २ अ० । स आकरत्वेनास्त्यस्य अच् । २ तद्भवे
सामुद्रलवणे न० । ३ सुमेण्सुते क्षीरोदसमुद्रतीरस्थे
पर्वते च तत्कथा वामनपु० “सर्वरत्नमयः श्रीमान्
त्रिकूटो नाम पर्वतः । सुतः पर्वतराजस्य सुमेरोर्भास्कर
द्युतेः । क्षीरोदजलवीच्या यो धौतामलशिलातलः ।
उत्थितः सागरं भित्त्वा देवर्षिगणसेवितः” इत्युपक्रमे
“तस्यैकं काञ्चनं शृङ्गं सेवते यद्दिवाकरः । नानापुष्प-
समायुक्तं नानागन्धाधिबासितम् । द्वितीयं राजतं
शृङ्गं सेवते यन्निशाकरः । पाण्डुराम्बुदसंकाशं
तुषारचयसन्निभम् । वज्रेन्द्रनीलवैदूर्य्यतेजोभिर्भासयन्
दिशः । तृतीयं ब्रह्मसदनं प्रकृष्टं शृङ्गमुत्तमम् । न
तत् कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः । नातप्त-
तपसो लोका ये च पापकृतो जनाः । तस्य सानुमतः
पृष्ठे सरः काञ्चनपङ्कजम् । कारण्डवसमाकीर्णं राजहं-
सोपशोभितम् । गजोह्यचलसंकाशो मदाच्चलितलो-
चनः । तृषितः पातुकामोऽसायवतीर्णश्च तज्जलम् ।
संलीनः पङ्कजवने यूथमध्यगतश्चरन् । गृहीतस्तेन रौद्रेण
ग्राहेणाव्यक्तमूर्त्तिना । गरुड़स्थो जगन्नाथो लोका-
धारस्तपोधन! । ग्राहग्रस्तं गजेन्द्रं तं तञ्च ग्राहं
जलाशयात् । उज्जहाराप्रमेयात्मा तरसा मधुसूदनः ।
स्थलस्थं दारयामास ग्राहं चक्रेण माधवः । मोक्षया-
मास नागेन्द्रं पापेभ्यः शरणागतम्” ।

त्रिकूटलवण न० त्रिकूटं सामुद्रमिव लवणम् । द्रोणी-

लवणे राजनि० ।

त्रिकूटवत् पु० त्रीणि कूटानि सन्त्यस्य मतुप् मस्य वः । १ त्रि-

कूटपर्वते । “हिमवान् पारिपात्रञ्च सह्यः सुह्मस्त्रिकूट-
वान्” भा० आश्वमेधिकप० श्रेष्ठपर्वतकथने” ४३ अ० ।

त्रिकूटा स्त्री भैरवीभेदे तन्त्रसा० ।

त्रिकूर्चक न० सुश्रुतोक्ते शस्त्रभेदे अर्द्धधारशब्दे ३७५ पृ०

दृश्यम् । “विशेषेण बालवृद्धकुमारभीरुनारीणां राज्ञां
राजपुत्राणाञ्च त्रिकूर्चकेन विस्रावयेत्” सुश्रु० ।

त्रिकोण त्रि० त्रयः कोणा यस्य । त्रिकोटियुक्ते १ पदार्थे

“विन्दुत्रिकोणवसुकोणदशारयुग्मम्” तन्त्रे श्रीचक्रोक्तौ ।
ज्योतिषोक्ते लग्नात् २ नवमपञ्चमस्थाने न० । “त्रिकोणं
नवपञ्चमम्” दोपि० । “त्रिकोणगान् गुरुश्चैव पश्यन् पूर्ण-
फलप्रदः” ज्यो० त० । ३ मोक्षे शब्दकल्पतरुः । ४ त्रिभुजे
क्षेत्रभेदे न० । क्षेत्रशब्दे २३९१ पृ० समत्रिकोणविषमत्रिको-
णादिस्वरूपादिकमुक्तम् । ५ कामरूपपीठभेदे “करतोयां
समारभ्य यावद्दिक्करवासिनीम् । शतयोजनविस्तारं त्रिकोणं
सर्वसिद्धिदम्” कामाख्यातन्त्रम् । त्रिकोणपदार्थाश्च
कतिचित् कविकल्पलतायां संक्षिप्य दर्शिताः ।
“हलहरनेत्रकामाख्यावह्निमण्डलैकारवज्शृङ्गाटशकटयोनि-
रूपाः” ।

त्रिकोणफल न० त्रिकोणं फलमस्य । १ शृङ्गाटके भावप्र० ।

६ त० । त्रिभुजक्षेत्रफले “लम्बगुणं भूम्यर्द्धं स्पष्टं त्रिभुजे
फलं भवति” लीला० ।

त्रिक्षार न० त्रयाणां क्षाराणां समाहारः । मिलिते सर्जिकाक्षारयवक्षारटङ्कणक्षारेषु ।

त्रिक्षुर पु० त्रीणि क्षुराणीवाग्राण्यस्य । कोकिलाख्यवृक्षे रत्ना० ।

त्रिख न० त्रिधा खमाकाशोऽवकाशः फलेऽत्र । त्रपुषे शब्दच० ।

त्रिखट्व न० त्रिसृणां खट्वानां समाहारः । खट्वात्रये । ततः

वा ङीप् । तत्रार्थे स्त्री अमरः ।

त्रिखर्व पु० सामवेदशाखाभेदाध्यायिनि “तामेतान्त्रिखर्वा

उपासते तस्मात्ते स्पर्द्धमाना न व्लीयन्ते” ताण्ड्यब्रा० २ । ९ । ३ ।
“तामेतां दशसप्ताख्यां विष्टुतिं त्रिखर्वाः शाखिन
उपासते प्रयुञ्जते” भाष्यम् ।

त्रिगङ्ग अव्य० त्रिस्रो गङ्गा नद्यो यत्र बहुव्रीह्यर्थे “नदी-

भिश्च” पा० अव्ययी० । १ तीर्थभेदे । “सप्तगङ्गे
त्रिगङ्गे च इन्द्रमार्गे च तर्पयन् । सुधां चैव लभेत्
भोक्तुं यो नरो जायते पुनः” भा० अनु० २५ अ० ।

त्रिगण त्रि० ६ त० । १ त्रिवर्गे अमरटीकायां नीलकण्ठः

“न वाधतेऽस्य त्रिगणः परस्परम्” किरा० ।

त्रिगन्धक न० त्रयाणां गन्धकद्रव्याणां समाहारः । १ त्रि-

जातके त्रि० नैघण्टुपारस्करः । त्रिसुगन्धिकमप्यत्र ।
त्रिजातकशब्दे दृश्यम् ।

त्रिगम्भीर पु० त्रिभिर्गम्भीरः । स्वरेण सत्त्वनाभिभ्यां त्रिगम्भीरः

शिशुः शुभः” काशी० ११ अ० उक्ते शुभलक्षणयुक्ते
“त्रिषु विपुलो गम्भीरस्त्रिष्वेव षडुन्नतश्चतुर्ह्रस्वः” इत्युप-
क्रमे “नाभिः स्वरः सत्वमिति प्रदिष्टं गम्भीरमेतत्त्रितयं
नराणाम्” वृ० स० ६८ अ० ।
पृष्ठ ३३६४

त्रिगर्त्त पु० त्रीणि गर्त्तानि यत्र । १ जालन्धरे देशे हेमच० ।

स च देशः वृ० स० १४ अ० कूर्मविभागे उत्तरस्यामुक्तः “उत्त-
रतः कैलास” इत्युपक्रमे “आदर्शान्तद्वीपित्रिगर्ततुरगा-
ननाश्वमुखाः” सोऽस्याभिजनः, तस्य राजा वा
अण् । त्रैगर्त्त पित्रादिक्रमेण तद्देशवासिनि तन्नृपे च
बहुषु अणो लुक् । २ तत्रार्थे ब० व० । “द्रविड़ाम्बष्ठत्रिगर्त-
सौराष्ट्रान्” वृ० स० ९ अ० । “सुशर्मा च नरव्याघ्र!
त्रिगर्तः प्रस्थलाधिपः” भा० द्रो० १७ अ० । आर्षत्वात्
एकत्वेऽपि अणोलुक् । “मद्रराजश्च बलवान् त्रिगर्त्ताना-
धीश्वरः” हरिवं० ९१ अ० । स्वार्थे क । तत्रार्थे त्रिका० ।

त्रिगर्तषष्ठ पु० ब० व० त्रिगर्त्तः षष्ठो वर्गो यस्य । १

आयुजीविसंघभेदे स च संघः सि० कौ० उक्तो यथा “आहु-
स्त्रिगर्त्तषष्ठास्तु कौण्डोपरथदाण्डिकी । क्रौष्टुकिर्जाल-
भालिश्च ब्रह्मगुप्तोऽथ जालकिः” “दामन्यादित्रिगर्त्तष-
ष्ठाच्छः” पा० स्वार्थे तेभ्यः छ । काण्डोपरथीय इत्यादि ।

त्रिगर्त्ता स्त्री त्रयो योनिस्था गर्त्ताः अस्याः । कामुक्यङ्गनायां

मेदि० । एकयोनिकाया अपि तस्या मैथुनाचरणे त्रि-
योनिकतुल्यत्वात्तथात्वम् ।

त्रिगुण न० त्रयाणां सत्त्वरजस्तमसां गुणानां समाहारः ।

समाहृता वा त्रयो गुणाः, त्रयोगुणा अस्य वा । सांख्यमतसिद्धे
साम्यावस्थापन्नगुणत्रयात्मके १ प्रधाने । “त्रिगुणमविवेकि-
विषयं सामान्यमचेतनं प्रसवधर्मि” सा० कौ० “त्रिगुणं
त्रयो गुणाः सुखदुःखभोहा अस्येति त्रिगुणं तदनेन
सुखादीनामात्मगुणत्वं पराभिमतमपाकृतम्” त० कौ० “शब्द-
स्पर्शविहीनं तद्रूपादिभिरसंयुतम् । त्रिगुणं तज्जगद्यो-
निरनादिप्रभवाप्ययम्” विष्णु पु० “सत्त्वरजस्तमसां साम्य-
वस्था प्रकृतिः प्रकृतेर्महान्महतोऽहङ्कारोऽहङ्कारात् पञ्च
तन्मात्राण्युभयमिन्द्रियं तन्मात्रेभ्यः स्थूलभूतानि पुरुष
इति पञ्चविंशतिर्गणः” सा० सू० “सत्त्वादीनि द्रव्याणि
न वैशेषिकवद्गुणाः संयोगवत्त्वात्, लघुत्वचलत्वगुरुत्वा-
दिघर्मकत्वाच्च । तेष्वत्र शास्त्रे श्रुत्यादौ च
गुणशब्दः पुरुषोपकरणत्वात्पुरुषपशुवन्धकत्रिगुणात्मकमह-
दादिरज्वु निर्मातृत्वाच्च प्रयुज्यते । तेषां सत्त्वादिद्रव्याणां
या साम्यावस्था न्यूनानतिरिक्तावस्था न्यूनाधिकभावेना-
संहतावस्थेति यावत् । अकार्यावस्थेति निष्कर्षः ।
अकार्यावस्थोपलक्षितं गुणसामान्यं प्रकृतिरित्यर्थः । यथाश्रुते
वैषम्यावस्थायां प्रकृतिनाशप्रसङ्गात् “सत्त्वं रजस्तम
इति एषैव प्रकृतिः सदा । एषैव संसृतिर्जन्तोरस्याः पारे
परं पदम्” इत्यादिस्मृतिभिर्गुणमात्रस्यैव प्रकृतित्ववचनाच्च ।
सत्त्वादीनामनुगमाय सामान्येति । पुरुषव्यावर्तनाय
गुणेति । महदादिव्यावर्तनाय चोपलक्षितान्तमिति ।
महदादयोऽपि हि कार्य्यसत्त्वादिरूपाः पुरुषोपकरण-
तया गुणाश्च भवन्तीति । तदत्र प्रकृतेः स्वरूपमेवोक्तम्”
भाष्यम् २ सत्त्वादिगुणयुक्ते त्रि० “महान्तमेव चात्मानं
सर्वाणि त्रिगुणानि च । विषयाणां ग्रहीतॄणि शनैः
पञ्चेन्द्रियाणि च” मनुः । त्रिभिर्गुण्यते गुण--घञर्थे
क । ३ त्रिभिर्गुणिते त्रि० “सप्त व्यतीयुस्त्रिगुणानि
तस्य दिनानि दीनोद्धरणोचितस्य” रघुः “व्रताय
मौञ्जीं त्रिगुणां बभार याम्” कुमा० “एतच्छौचं
गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । त्रिगुणं स्याद्वन-
स्थानां यतीनान्तु चतुर्गुणम्” मनुः । त्रयोगुणा अस्याः ।
४ मायायां स्त्री ५ तन्नामके (ह्रीं) वीजभेदे च “वेदाद्यं त्रि-
गुणां रमामथ वदेत् कामेन संसेविताम्” तन्त्रसा० श्री-
विद्यामन्त्रभेदोक्तौ ६ त्रिशिखे त्रिशूले “त्रिगुणपरि-
वारप्रहरणः” किरा० । “त्रिगुणः त्रिशिखः परिवार
आकारो यस्य” मल्लि० । कर्णशब्दे परेऽस्य लक्षणपरत्वे
दीर्थत्वम् त्रिगुणौ कर्णौ अस्य । त्रिगुणाकर्ण तथा
लक्षणयुक्ते त्रि०! “पदैस्त्रिभिर्वलिर्वद्धो रागादि त्रिपदाथ
वा । उत्पत्तिस्थितिनाशेषु रजादित्रिगुणा मता”
देवीपु० ४५ अ० उक्तेः ७ दुर्गायां स्त्री ।

त्रिगुणाकृत त्रि० त्रिगुणं कृत्वा कृष्टं डाच् कृ--क्त । त्रिधा-

हलेन कृष्टे क्षेत्रादौ अमरः ।

त्रिगुणात्मक न० त्रयो गुणाः तेजोबन्नरूपा आत्मानोऽस्य ।

अज्ञाने । “गुणाश्च लोहितशुक्लकृष्णाः अज्ञानकार्य्येषु तेजो-
बन्नेष्ववान्तरप्रकृतिषु श्रुतिप्रसिद्धाः । तथा च कार्य्यगत-
त्रिरूपेण कारणमप्यज्ञानमव्यक्त्वात्मकं त्रिगुणात्मकम् । यद्वा
रजःसत्त्वतमोलक्षणास्त्रयोगुणास्तद्युक्तमज्ञानं गुणगुणिनो-
रभेदबिवक्षया त्रिगुणात्मकं भवति ।

त्रिगुणित त्रि० त्रिभिर्गुणितः । त्रिरावृत्ते ।

त्रिगुणी स्त्री त्रयो गुणाः पत्रेऽस्याः गौरा० । विल्ववृक्षे

तस्य पत्रस्य त्रिगुणात्मकत्वात्तथात्वम् । “मूलं धार्य्यं त्रि-
गुण्याः सवितरि विगुणे, क्षीरिकामूलमिन्दौ” ज्यो० “त्रि-
गुणी श्रीफलवृक्षः” प्रमिता० ।

त्रिचक्र पु० त्रीणि चक्राण्यस्य । अश्विनीकुमारयोः रथे ।

“अर्वाङ् त्रिचक्रो मधुवाहनो रथो जीवाश्वो अश्विनो
यांतृ सृष्टुतः” ऋ० १ । १५७ । ३ ।
पृष्ठ ३३६५

त्रिचक्षुस् पु० त्रीणि चक्षुष्यस्य । त्रिनेत्रे शिवे “त्रिचक्षुः

शम्भुरेकस्त्वं विभुर्दामोदरोऽपि च” भा० शा० ४३ अ० ।

त्रिचतुर त्रि० । त्रयो वा चत्वारो वा विकल्पार्थे बहु० डच्

समा० । विकल्पेन त्रित्वचतुष्कसंख्यान्विते(तिन वा चार)
अर्थे । “सद्यः पुरीपरिसरे च शिरीषमृद्वी गत्वा जवात्
त्रिचतुराणि पदानि सीता” सा० द० ।

त्रिचित् पु० त्रोन् + अग्नीन् चिनोति स्म चि--भूते क्विप् ।

अतीताग्नित्रयचयनकर्तरि ।

त्रिचित पु० त्रिभागोत्मेधाभिरिष्टाकाभिः चितः । गार्ह-

पत्येऽग्निभेदे । “त्रिचितमित्येके” कात्या० श्रौ० १७ ।
१ । २२ । “गार्हपत्यं कुर्वन्ति तत्र च त्रिभागोत्सेधा
इष्टका इति सम्प्रदायः । अस्मिंश्च पक्षे प्रथमचितिः लोकं-
पृणानां पूरणं मृग्यम्” कर्कः । “उपर्येव चितित्रयात्मकं
चिनोति । अथ यो गार्हपत्येऽग्निः सोऽस्यावाङ् प्राणाः
तं हैके त्रिचितं चिन्वन्ति” शत० ब्रा० ७ । १ । २ । १५ ।

त्रिजगत् न० त्रिगुणितं जगत् संज्ञात्वात् कर्मधारयः ।

स्वर्गमर्त्यपातालरूपे लोकत्रये “तस्यां शिवस्त्रिजगतो
जनको जनन्याः” भाग० ८ । ८ । १९ श्लो० । त्रिजगत्य-
प्यत्र स्त्री “अन्तराल एव त्रिजगत्यास्तु दक्षिणस्याम्”
भाग० ५ । २६ । ६ श्लो० ।

त्रिजटा स्त्री त्रिस्रो जटा यस्याः । १ रावणालयस्थे सीतापक्ष-

पातिराक्षसीभेदे “सीतां ताभिरनार्याभिर्दृष्ट्वा संतर्जितां
तदा । राक्षसी त्रिजटा वृद्धा प्रबुद्धा वाक्यमब्रवीत्” ।
“एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्च्छिताः” राभा० २७
अ० “हनुमानपि विक्रान्तः सर्वं शुश्राव तत्त्वतः । सीता-
यास्त्रिजटायाश्च राक्षसानाञ्च गर्ज्जितम्” ३० अ० ।
“सीतां मायेति शंसन्ती त्रिजटा समजीवयत्” रघुः ।
२ शिवे पु० । “त्रिजटाय त्रिशीर्षाय त्रिशूलायुधपा
णिने । त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः” भा०
अनु० २८६ । ३ विस्ववृक्षे पु० । “शृणु १ देवि!
प्रवक्ष्यामि रहस्यं त्रिजटोत्तमम् । पत्रं ब्रह्ममयं देवि!
अद्भुतं वरवर्णिनि! । श्रीशैलशिखरे जातः श्रीफलः
श्रोनिकेतनः । विष्णुप्रीतिकरश्चैव मम प्रीतिकरः सदा ।
ब्रह्मविष्णुशिवाः पत्रे वृन्ते च शक्तिरूपिणी । वृन्तमूले
तु वज्रं स्यात् पत्रं ब्रह्म त्विदं प्रिये! । एवञ्च त्रिजटा-
पत्रैर्हरं वा हरिमर्च्चयेत् । कैवल्यं तस्य तेनैव शक्ति-
पूजा विशेषतः” ज्ञानभैरवीतन्त्रे ६ प० ।

त्रिजात न० त्रिगुणितं जातं सुगन्धिद्रव्यरूपं सुन्दरद्रव्यं

संज्ञात्वात् कर्म्म० । १ तुल्यभागे त्वगेलापत्ररूपे मिलिते-
सुगन्धिद्रव्यभेदे । स्वार्थे क । त्रिजातक तत्रार्थे “त्वगेला-
पत्रकैस्तुल्यैस्त्रिसुगन्धि त्रिजातकम् । नागकेशरसंयुक्तं
चतुर्जातकमुच्यते” राजनि० । “एलादिभिः समुद्दिष्टं त्रिजातं
त्रिसुगन्धिकम् । चतुर्जातं सनागञ्चद्वयं वातकफापहम्”
“शीतं त्रिजाताक्तमथो विमृद्य योगानुरूपा गुटिकाः
प्रयोज्याः” “व्याषं त्रिजातकं मुस्ता विड़ङ्गामलके
तथा” सुश्रु० ।

त्रिजीवा स्त्री त्रिषु राशिषु जीवा । त्रयाणां राशीनां ज्या-

३४३८ संख्यारूपे ज्यार्द्धरूपे पदार्थे “लम्बज्याघ्न-
त्रिजीवाप्तः स्फुटो भूपरिधिः स्वकः” सू० सि० । “त्रिज्य-
या गजाग्निवेदराम ३४३८ सितया भक्तः” रङ्गना० ।
त्रिज्यादयोऽप्यत्र । “तच्छेषं विवरेणाथ हन्यात् त्रि-
ज्यान्त्यकर्ण्णयोः” सू० सि० “त्रिज्यान्त्यकर्ण्णयोस्त्रि-
राशिज्याद्वितीयशीघ्रकर्ण्णयोः” रङ्गना० ।

त्रिण न० तृण + पृषो० । तृणशब्दार्थे शब्दरत्ना० । तृणश-

ब्दव्युत्पत्तौ रेफेकारसंयुक्तमव्युत्पन्नशब्दान्तरमस्तीति
उज्ज्वलद० । “उत्क्षिप्तत्रिणपत्रप्रांशुविहगः सौम्यस्वनः
पूजितः” वराहः ।

त्रिणता स्त्री त्रिषु स्थानेषु नता संज्ञात्वात् पूर्वपदात् णत्वम् ।

१ धनुषि त्रिका० । २ त्रिषु स्थानेषु नते त्रि० । असंज्ञायां
न णत्वमिति भेदः । “स्वगुणैराफलप्राप्तेराकृष्य गणिका
इव । कामुकानिव नालीकांस्त्रिणताः सहसाऽमुचन्”
माघः । वेश्यानां मध्यभ्रूषु त्रिषु स्थानेषु नतत्वात्
त्रिणतत्वं श्लेषे णनकारयोरभेद इत्यालङ्कारिकाः । त्रि-
णस्य भावः तल् । ३ तृणभावेतृणत्वे च स्त्री ।

त्रिणव पु० त्रिरावृत्तानव डच्समा० संज्ञात्वात् णत्वम् ।

सप्तविंशावृत्ते सामस्तोमभेदे । “त्रिणवत्रयस्त्रिंशौ स्तोमौ
हेमन्तशिशिरावृतूः” यजु० १० । १४ । “त्रिणवस्तोम एव
माम्नातः “नवभ्यो हिंकरोति स तिसृभिः स पञ्चभिः स
एकया” नवभ्यो हिङ्करोति स एकया स तिसृभिः स
पञ्चभि, नवभ्यो हिङ्करोति स पञ्चभिः स एकया स तिसृ-
भिर्वजो वै त्रिणव इति” श्रुतिः । “प्रथमपर्य्याये प्रथमां
त्रिर्गायेत् मध्यमां पञ्चकृत्वः उत्तमां सकृत्, द्वितीयपर्य्याये
प्रथमां सकृद्गायेन्मध्यमां त्रि, रुत्तमां पञ्चकृत्वः, तृतीयपर्य्याये
प्रथमां पञ्चकृत्वो, मध्यसां सकृ, दुत्तमां त्रिर्गायेत् सोऽयं
त्रिरावृत्तनवसंख्योपेतत्वात् त्रिणवको वज्रसमानः स्तोमः”
वेददी० । “त्रिणवान्युक्थानेकविंशानि पृष्ठानि षट्-
त्रिंशाः” शतपथब्राह्मणे १३ । ५ । ४ । २० । अध्यायादि ।
पृष्ठ ३३६६

त्रिणाचिकेत पु० त्रिःकृत्वश्चितो नाचिकेतोऽग्निर्येन पृषो०

संज्ञात्वात् णत्वम् । अध्यर्य्युभेदे “छायातपौ ब्रह्मविदो
वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः” इति श्रुतिः
“त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षड़ङ्गवित्” मनुः ।

त्रित पु० १४६६ । ६७ पृ० एकतशब्दोक्ते आप्त्ये १ देवभेदे ब्रह्म-

णो मानसपुत्ररूपे २ ऋषिभेदे च त्रिषु क्षित्यादिस्थानेषु
तायमानः ताय--ड । त्रिषु विस्त्रीर्णतमे ३ प्रख्यातकीर्त्तौ च
त्रि० । “यस्य त्रितो व्योजसा वृत्रं विपर्वमर्द्दयत्” ऋ० १ ।
१८७ । १ ।

त्रितक्ष न० स्त्री त्रयाणां तक्ष्णां समाहरः अच् समा० तक्ष्णां त्रितये । स्त्रीत्वे वा ङीप् ।

त्रितय न० स्त्री त्रयाणामवयवः त्रयोऽवयवा येषाम् वा तयप् ॥

त्रयशब्दार्थे १ त्रित्वसंख्यायाम् “ब्रह्महत्याव्रतं वापि
वत्सरत्रितयं चरेत्” याज्ञ० “उदूढ़लोकत्रितयेन साम्प्र-
तम्” माघः । “वरमाप स दिष्टपिष्टपत्रितयानन्यसदृग्-
गुणोदयाम्” नैष० । स्त्रियां ङीप् । २ तत्सङ्ख्यान्विते
त्रि० । “पतिश्वशुरता ज्येष्ठे पतिदेवरतानुजे । इतरेषु
च पाञ्चाल्याः त्रितयं त्रितयं त्रिषु” उद्भटः । “त्रितयं
ज्ञानमयेन चक्षुषा” रघुः । “प्रणवव्याहृतिभ्यां च
गायत्र्या त्रितये न च । उपास्यं परमं ब्रह्म आत्मा यत्र
प्रतिष्ठितः” यो० याज्ञ० ।

त्रिताप न० त्रयाणां तापानां समाहारः । आध्यात्मिकाधिभौतिकाधिदैविकरूपे दुःखत्रये ।

त्रिदण्ड न० त्रयाणां दण्डानां समाहारः । १ चतुरङ्गुलगो-

बालवेष्टनादन्योन्यसंबद्धे यतेर्दण्डत्रये । २ वाङ्मनःकाय-
दण्डत्रये च । तदस्यास्त्रीति अच् । ३ संन्यासाश्रमे पु० ।
त्रिदण्डिशब्दे दृश्यम् । “यस्त्वसंहतषड़्वर्गः प्रचण्डेन्द्रि-
यसारथिः । ज्ञानवैराग्यरहितस्त्रिदण्डमुपजीवति” भाग०

त्रिदण्डिन् पु० त्रिदण्डमस्त्यस्य इनि । सन्त्यासाश्रमे ।

“वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च । यस्यैते
निहिता बुद्धौ त्रिदण्डीति स उच्यते । त्रिदण्डमेतन्निक्षिप्य
सर्वभूतेषु मानवः । कामक्रोधौ तु संयम्य ततः सिद्धिं
नियच्छति” मनुः । “त्रिदण्डग्रहणादेव प्रेतत्वं नैव
जायते । अहन्येकादशे प्राप्ते पार्वणन्तु विधीयते”
लिखि० सं० तस्यापि पार्वणं श्राद्धं विहितम् ।

त्रिदला स्त्री त्रोणि त्रीणि दलानि प्रतिपत्रं यस्याः ।

(गोलालिया) १ गोधापदोलतायाम् जटा० । २ विल्ववृक्षे पु० ।

त्रिदलिका स्त्री त्रीणि दलानि प्रतिपत्रेऽस्याः कप् कापि

अत इत्त्वम् । चर्म्मकसालतायां शब्दच० ।

त्रिदश पु० त्रिस्रो दशा जन्मसत्ताविनाशाख्या न तु वृद्धि

परिणामक्षया मर्त्त्यानामिव यस्य, त्रीन् तापान् दशति
वा दश--घञर्थे संज्ञायां कर्त्तरि को वा । १ देवे अमरः ।
अथ वा त्र्यधिकास्त्रिरावृत्ताश्च दश परिमाणमेषां डच्
समा० शाक० अधिकावृत्तशब्दलोपः एकस्यैव त्रिशब्दस्य
तन्त्रतयोच्चारणात् उभयार्थपरत्वम् । त्रयस्त्रिंशन्मुख्य-
गणवत्सु २ देवेषु अयमेव पक्षः श्रुत्यनुगुणःत्री च दश
चेति छान्दोग्येऽभिहित्वात् त्र्यधिकावृत्तपरताद्योतन-
तार्थं त्री चेति द्विवचनान्ततया निर्द्देशः । ते च देवाः
“अर्का द्वादश, रुद्रा एकादश, वसवोऽष्टौ, अश्विनौ द्वा-
विति । अश्विनीकुमारौ विहाय इन्द्रः प्रजापतिश्चेति वा
द्वाभ्यां पक्षान्तरे संख्यापूरणं त्रय्स्त्रिंशत्पतिशब्दे मूलं
दृश्यम् “तस्मिन् मघोनस्त्रिदशान् विहाय” कुमा० ।
“त्रिदशैर्दिशे नमः” माघः । तिस्रो दशा जाग्रदाद्यवस्था
यस्य । २ जीवे त्रिदशाध्यक्षशब्दे दृश्यम् ।

त्रिदशगुरु पु० ६ त० । वृहस्पतौ । “धूमाभेऽनावृष्टिस्त्रिदशगुरौ

नृपबधो दिवा दृष्टे” वृ० स० ८ अ० ।

त्रिदशगोप पु० त्रिदशो देवभेद इन्द्रः गोपो रक्षकोऽस्य

तस्य वर्षाभवत्वात् । इन्द्रगोपकीटे “श्रद्दधे त्रिदशगोपमा-
त्रके” रघुः ।

त्रिदशदीर्घिका स्त्री ६ त० । गङ्गायां हेमच० । त्रिदशवाप्यादयोऽप्यत्र

त्रिदशपति पु० ६ त० । इन्द्रे त्रिदशेश्वरादयोऽप्यत्र ।

त्रिदशमञ्जरी स्त्री त्रिदशप्रिया मञ्जरी यस्य संज्ञात्वात्

न कप । तुलस्याम् राजनि० ।

त्रिदशवधू स्त्री ६ त० । अप्सरःसु त्रिदशवनितादयोऽप्यत्र

“कैलासस्य त्रिदशबनितादर्पणस्यातिथिः स्याः” मेघ० ।

त्रिदशवर्त्मन् न० ६ त० । नभसि शब्दार्थचि० ।

त्रिदशसर्षप पु० त्रिदशप्रियः सर्षपः । १ देवसर्षपे सर्षपभेदे नैघ० पारस्करः

त्रिदशाङ्कुश पु० ६ त० वजे शब्दार्थचिन्तामणिः ।

त्रिदशाचार्य्य पु० ६ त० । वृहस्पतौ हलायु० ।

त्रिदशाधिप पु० ६ त० । शक्रे ।

त्रिदशाध्यक्ष पु० विष्णौ “त्रिपदस्त्रिदशाध्यक्षः” विष्णुस० ।

अस्य व्युत्पत्तिर्भाष्ये दर्शिता यथा “गुणावेशेन संजाता-
स्तिस्रो दशा अपस्थाजाग्रदादयस्तासामध्यक्ष इति
त्रिदशाध्यक्षः । त्रिदशानां वाऽध्यक्षः स्वामी” ।

त्रिदशायन पु० त्रिदशानामयनं यत्र । विष्णौ “नारायणाया-

त्मभवायनाय लोकायनाय त्रिदशायनाय” हरिरं १५४ अ० ।

त्रिदशायुध न० ६ त० । १ वज्रे त्रिकाण्ड० । २ इन्द्रधनुषि च ।

“अथ नभस्य इव त्रिदशायुधम् कनकपिङ्गतड़िद्गुणसं-
युतम्” रघुः ।
पृष्ठ ३३६७

त्रिदशारि ६ त० । असुरे शब्दरत्ना० ।

त्रिदशालय पु० ६ त० । १ स्वर्गे अमरः । २ सुमेरुपर्वते हलायु०

त्रिदशावास पु० ६ त० । १ स्वर्गे हला० । २ सुमेरुपर्वते च ।

त्रिदशाहार ६ त० । अमृते सुधायां हलायु० ।

त्रिदशेश्वर पु० ६ त० । १ इन्द्रे २ दुर्गायां स्त्री ङीप् ।

“सुराह्वास्त्रिदशा देवा नन्दिनी दुन्दुभिर्मता । तेषाञ्च
नन्दिनी नन्दी ईशत्वात् त्रिदशेश्वरी” देवीपु० ४५ अ० ।

त्रिदिनस्पृश् पु० त्रिदिनं स्पृशति स्पृश--क्विन् । १ त्र्यहस्पर्शे

क्षयाहे अवमदिनभेदे यथा “तिथ्यन्तद्वयमेको दिनवारः
स्पृशति यत्र तद्भवत्यवमदिनम् । त्रिदिनस्पृक् दिनत्रय-
स्पर्शनादह्नः” इति ज्यो० त० । अयनशब्दे ४३१ पृ०
तदानयनादि दृश्यम् । अस्य क्विन्नन्तत्वात् झलि पदान्ते
च कुत्वम् ।

त्रिदिव पु० त्रयो ब्रह्मादयो दीव्यन्त्यत्र घञर्थे आधारे क,

त्रिधा सत्त्वादिभेदेन दीव्यन्ति प्रकाशन्तेऽत्र दिव--क वा
तृतीया द्यौः वृत्तिविषये संख्याशब्दस्य पूरणार्थत्वात्
पृषो० । लोकात् पुंस्त्वम् । १ स्वर्गे, अमरः २ आकाशे,
हेमच० । ३ नभसि ४ सुखे न० शब्दार्थचि० । ५ नदीभेदे
स्त्री मेदि० । “न हीष्टमस्य त्रिदिवेऽपि भूपतेः” । “त्रि-
दिवस्थेष्वपि निस्पृहोऽभवत्” । “देवादिनाम त्रिदिवेऽपि
यस्य” रघुः । “अमूं किल त्वं त्रिदिवादवातरः” माघः ।

त्रिदिवाधीश पु० ६ त० । १ इन्द्रे हेम० १ देवमात्रे च । त्रि-

दिवेश्वरादयोऽप्यत्र ।

त्रिदिवेश पु० ६ त० । १ देवे अमरः ।

त्रिदिवोद्भवा स्त्री त्रिदिव उभवो यस्याः । १ स्थूलैलायां

राजनि० । २ गङ्गायाञ्च । ३ स्वर्गभवमात्रे त्रि० ।

त्रिदिवौकस् पु० त्रिदिव अओको यस्य । १ देवे अमरः । “यस्या-

स्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः” मनुः पृषो०
त्रिदिवौकसोऽपि तत्रार्थे ।

त्रिदृश् पु० तिस्रः दृशोऽस्य त्रीणि भूतादीनि पश्यति वा

दृश--कर्त्तरि क्विप् वा । १ त्रिनयने शिवे हेमच० ।

त्रिदोष न० त्रयाणां दोषाणां वातपित्तकफजानां समाहारः ।

१ वातपित्तकफजदोषत्रये त्रयी दोषाहेतुत्वेन यत्र ।
२ त्रिदोषजे रोगभेदे त्रिदोषजशब्दे दृश्यम् ।

त्रिदोषज त्रि० त्रिदोषात् जायते जन--ड । दोषत्रयजाते

वातादिसन्निपातजे रोगभेदे “चिरज्वरे बातकफोल्वणे
वा त्रिदे षजे वा दशमूलमिश्रः । किराततिक्तादिगणः
प्रयोज्यः शुद्ध्यर्थिने वा त्रिवृताविमिश्रः” चक्रद० । अस्य
पूर्वरूपं “सर्वलिङ्गसमवायः” भावप्र० । ज्वरशब्दे दृश्यम् ।

त्रिधन्वन् पु० सुधन्वनः पुत्रभेदे “सुधन्वनः सुतश्चासीत् त्रि-

धन्वा रिपुमर्दनः । राज्ञस्त्रिधर्म्मणश्चासीद्विद्वांस्त्रय्यारुणः
सुतः” हरिवं० १२ अ० ।

त्रिधा अव्य० त्रि + प्रकारे धाच् । त्रिप्रकारे । “एकैकमूर्त्ति-

र्बिभिदे त्रिधा सा” कुमा० । “ज्ञानं कर्म च कर्त्ता च त्रिधैव
गुणभेदतः” गीता ।

त्रिधातु पु० त्रीन् धर्मार्थकामान् दधाति पुष्णाति धा--तुन् ।

१ गणेशे त्रिका० । समा० द्विगुः । २ धातु त्रये न० ।

त्रिधामन् पु० त्रीणि धामानि भूरादीनि स्थानानि, तेजांसि

सत्त्वादीनि वा यस्य । १ शिवे, २ विष्णौ, ३ अग्नौ च ।
शब्दार्थकल्पतरुः । समाहारद्विगुः । ४ धामत्रये न० स्त्री स्त्री-
त्वपक्षे वा ङीप् । “स एवोक्तश्चक्रमिदं त्रिनाभिसप्ताश्वयुक्तं
वहते वै त्रिधाम” भा० आनु० १५८ अ० । “त्रिधामानं
जपंस्तत्र स्मरन् विष्णुं सनातनम्” हरिवं० २७१ अ० ।
६ त० । ५ त्रिसंख्यान्विते त्रि० ताति च कतिचित् संक्षिप्य
“त्रिगुणीकृतसर्वाङ्गी चिद्रूपा शिवगेहिनी । प्रसूते”
इत्युपक्रमे “त्रिपुष्करं स्वरान् देवीर्ब्रह्मादीनां त्रयं
त्रयम् । वह्निकालत्रयं शक्तित्रयं वृत्तित्रयं महत् ।
नाड़ीत्रयं त्रिवर्गं सा यद्यदन्यत् त्रिधाम तत्” शा०
ति० उक्तानि । अन्यान्यपि त्रित्वसंख्यान्वितानि
एकादिशब्दे दृश्यानि ।

त्रिधामूर्त्ति पु० त्रिधा मूर्त्तिरस्य । ब्रह्मविष्णुमहेशरूप-

मूर्त्तित्रयान्विते परमेश्वरे ।

त्रिधार त्रि० तिस्रो धारा अग्राणि, त्रिषु स्थानेषु वा धाराः

प्रवाहा अस्य अस्या वा । १ धारात्रयान्विते २ गङ्गायां स्त्री
तस्याः स्वर्गमर्त्य पातालेषु धारासत्त्वात् तथात्वम् २ स्नुही-
वृक्षे च शब्दार्थचि० । तस्य अग्रत्रयवत्त्वात् तथात्वम् ।

त्रिधारक पु० त्रिस्रो धारा अग्राण्यस्य कप् संज्ञायां कन्

वा । गुण्डतृणे राजनि० ।

त्रिधारस्नुही स्त्री त्रिषु भागेषु धारा यस्याः कर्म्म० ।

(तेकांटासिजु) स्नुहीभेदे राजनि० ।

त्रिधाविशेषः पु० त्रिधा त्रिप्रकारो विशेषः । सूक्ष्मादित्रय-

रूपे विशेषे “सूक्ष्मा मातापितृजाः सह प्रभूतैः
त्रिधा विशेषाः स्युः” सां० का० । “सूक्ष्मशरीरमेकः माता
पितृजो द्वितीयः महाभूतानि तृतीवो विशेषः । तेषां
मध्ये सूक्ष्मानियताः मातापितृजा निवर्तन्ते कीटान्ता
वा भस्मान्ता वा विड़न्ता वेति” त० कौ० ।
पृष्ठ ३३६८

त्रिधासर्ग पु० त्रिकारः सर्गः । १ भूतादिसर्गे । “अष्टविकल्पो

दैवस्तैर्य्यग्योनश्च पञ्चधा भवति । मानुषश्चैकविधः
समासतोऽयं त्रिधासर्गः” सां० का० । “ब्राह्मः प्राजापत्यः ऐन्द्रः
पैत्रः गान्धर्वः याक्षः राक्षसः पैशाच इत्यष्टविकल्पो दैवः
सर्गः । पशुमृगपक्षिसरीसृपस्थावरा इति पञ्चविधस्तैर्य्य-
ग्योनः सर्गः । मानुष्यश्चैकविधः ब्राह्मणाद्यवान्तरजातिभेदा-
विवक्षया संस्थानस्य चतुर्ष्वपि वर्णेष्वविशेषात्” सा० त० कौ० ।

त्रिनयन पु० त्रीणि नयनानि यस्य “पूर्वपदात् संज्ञायामगः”

पा० णत्वे प्राप्ते क्षुभ्रा० पाठात् न णत्वम् । १ महादेवे
“योग्यस्य त्रिनयनलोचनार्च्चिः” “शोभां शुभ्रत्रिन-
यनवृषोत्खातपङ्कोपमेयाम्” माघः । २ पार्वत्यां स्त्री
“लोचनत्रयसंयुक्तां पूर्णेन्दुसदृशाननाम्” तद्ध्याने तस्या
नेत्रत्रयोक्तेः । ३ लोचनत्रययुक्ते त्रि० “बिभ्राणां विंशदप्रभां
त्रिनयनां वाग्देवनामाश्रये” मातृकासरस्वतीध्यानम् ।
त्रिनेत्रत्रिलोचनादयोऽप्यत्र । इयांस्तु भेदः त्रिनेत्रशब्दस्य
महादेवपरत्वे संज्ञात्वात् पूर्वपदात् णत्वे प्राप्ते गिरि-
नद्या० वा नत्वम् । अन्यत्र न णत्वमिति । शिवस्य
तृतीयनेत्राविर्भावकथा भा० अनु० १० १४० । यथा
“सेवन्ती हिमवत्पार्श्वं हरपार्श्वमुपागमत् । ततः
स्मयन्ती पाणिभ्यां नर्म्मार्थं चारुदर्शना । हरनेत्रे शुभे
देवी सहमा सा समावृणोत् । संवृताभ्यान्तु नेत्राभ्यां
तमो भूतमचेतनम् । निर्होमं निर्वषट्कारं जगद्वै
सहसाऽभवत् । जनश्च विमनाः सर्वो भयत्राससमन्वितः ।
निमीलिते भूतपतौ नष्टसूर्य्य इवाभवत् । ततो विति-
मिरो लोकः क्षणेन समपद्यत! ज्वाला च महती दीप्ता
ललाटात्तस्य निःसृता । तृतीयञ्चास्य सम्भूत नेत्रमादि-
त्यसन्निभम्” इत्युपक्रमे उमोवाच “भगवान् सर्वभूतेश!
शृलपाणे! महाव्रत! संशयो मे महान् जातस्तन्मे
व्याख्यातुमर्हसि । किमर्थं ते ललाटे वै तृतीयं नेत्र-
मुत्थितम् । किमर्थञ्च गिरिर्दग्धः सपक्षिगणकाननः ।
किमर्थञ्च पुनर्देव! प्रकृतिस्थस्त्वया कृतः । तथैव द्रुमसं-
च्छन्नः कृतोऽयं तु पिता मम” महेश्वर उवाच । “नेत्रे मे
संवृते देवि! त्वया बाल्यादनिन्दिते । नष्टालोकस्तथा
लोकः क्षणेन समपद्यत । नष्टादित्ये तथा लोके तमोभूते
नगात्मजे! । तृतीयं लोचनं दीप्तं सृष्टं मे रक्षता
प्रजाः । तस्य चाक्ष्णो महत्तेजो येनायं मथितो गिरिः ।
त्वत्प्रियार्थच्च मे देवि! प्रकृतिस्थः पुनः कृतः” । दुर्गायाः
त्रिनयनाशब्दवाच्यत्वे हेतुर्देवीपु० ४५ अ० उक्तो यथा
“पक्षिणां चोत्तरं लोकं तथा ब्रह्मायनं परम् । नयं
सम्मार्गधर्मत्वं दृष्टौ त्रिनयना मता” देवीपु० ४५ अ० ।
“पञ्चवक्त्रं त्रिनेत्रम्” शिवध्यानम् । “निजत्रिनेत्रत्वाव-
तरत्वबोधिकाम्” नैष० साध्यगणभेदानां त्रिनेत्रत्वं
मत्स्यपु० उक्तं यथा “ततः साध्यगणानीशस्त्रिनेत्रानसृ-
सृत् पुजः । कोटयश्चतुरशीतिर्जरामरणवर्जिताः । कामं
सृजन्नमर्त्यांस्तान् ब्रह्मणा विनिवारितः । नैवं विधा
भवेत् सृष्टिर्जरामरणवर्जिता” ।

त्रिनवति स्त्री त्र्यधिका नवतिः शा० त० । १ त्र्यधिक-

नवतिसंख्यायां २ तत्संख्येये च । ततः पूरणे डट् । त्रि-
नवत तत्संख्यापूरणे त्रि० तमप् वा । त्रिनवतितम
तत्संख्यापूरणे त्रि० स्त्रियामुभयतो ङीप् । पक्षे त्रय-
आदेशे त्रयोनवत्यादयोऽप्यत्र । तत्रायं भेदः “संख्या” पा०
त्रिनवत्यादौ पूर्वपदे प्रकृतिस्वरः । त्रय आदेशोऽन्तो-
दात्त इति ।

त्रिनाक पु० नास्ति अकं दुःखं यस्मिन् नाकं पुण्यलोकः ।

तृतीयं नाकं वृत्तिविषये संख्याशब्दस्य पूरणार्थत्वात् ।
१ तृतीये नाके २ उत्तमस्थाने च । “यत्रानुकामं चरणं त्रि-
नाके” ऋ० ९ । ११३ । ९ । “तावत्त्रिनाकं नहुषः शशास”
भाग० ६ । १३ । १३ श्लोकः ।

त्रिनाभ पु० त्रयो लोका नाभौ यस्य अच् समा० । विष्णौ

“त्रिनाभाय त्रिपृष्ठाय शिपिविष्टाय विष्णवे” भा० ८ ।
१७ । ० । विष्णुस्तुतौ ।

त्रिनिष्क त्रि० त्रिभिर्निष्कैः क्रीतम् ठञ् तस्य वा लुक् ।

त्रिभिर्निष्कैः क्रीते लुगभावे ठञि उत्तरपदस्य वृद्धिः ।
त्रिनैष्किक तत्रार्थे त्रि० ।

त्रिनेत्रचूड़ामणि पु० ६ त० । चन्द्रे त्रिका० ।

त्रिपक्ष पु० तृतीयः पक्षः संख्याशब्दस्य वृत्तौ पूरणार्थत्वात् ।

तृतीये पक्षे “षष्ठे मासि त्रिपक्षे वा” श्रा० त०

त्रिपञ्च त्रि० ब० व० । त्रिगुणिताः पञ्च । पञ्चदशसंख्यान्विते

“त्रिपञ्चारे पीठे” कर्पूरस्तवः ।

त्रिपञ्चाङ्ग पु० त्रिपञ्च पञ्चादशाङ्कान्यस्य । समाधिभेदे

तदङ्गानि च “यमो हि नियमस्त्यागो मौनं देशः सुकालता ।
आसनं मूलबन्धश्च देहसाम्यञ्च दृक्स्थितिः । प्राणसंयम-
नञ्चैव प्रत्याहारश्च धारणा । आत्मध्यानं समाधिश्च प्रो-
क्तान्यङ्गानि वै क्रमात्” शब्दार्थचि० धृतवाक्योक्तानि ।
पृष्ठ ३३६९

त्रिपञ्चाशत् स्त्री त्र्यधिका पञ्चाशत् शा० त० । १ त्र्यधिक-

पञ्चापत्संख्यायां २ तत्संख्यान्विते च । ततः पूरणे डट् ।
३ त्रिपञ्चाश तत्संख्यापूरणे त्रि० । पक्षे तमप् । त्रिपञ्चाश-
त्तम तस्मिन्नर्थे स्त्रियामुभयतो ङीप् । पक्षे त्रय आदेशे ।
त्रयःपञ्चाशदादयोऽपि उक्तार्थेषु ।

त्रिपटु पु० काचे पारस्करनिघण्टुः ।

त्रिपताक न० तिस्रः पताका इव यस्मिन् । पताकाकारवलि-

त्रयान्विते १ ललाटे, हारा० मध्यमानामिकासङ्कोचेना-
वशिष्टाङ्गुलित्रयोन्नतत्वेन २ त्रिपताकाकारिते करे पु० ।
“त्रिपताकं करं कृत्वा” इत्यादि सा० द० जनान्तिकशब्द-
निर्वचने स्थितम् ।

त्रिपत्र पु० त्रीणि त्रीणि पत्राणि प्रतिपत्रं यस्य सप्तच्छदवत्

संख्याशब्दस्य वृत्तौ वीप्सार्थत्वम् । १ विल्ववृक्षे । तदीय-
पत्रेषु ब्रह्मादीनां स्थितिरुक्ता यथा “ऊर्द्ध्वपत्रं हरो
ज्ञेयः पत्रं वामं विधिः स्वयम् । अहं दक्षिणपत्रं च
त्रिपत्रदलमित्युत” वृहद्धर्म्म पु० ११ अ० । २ पुत्त्रत्रययुक्ते
त्रि० । समा० द्विगुः । ३ पत्रत्रये न० ।

त्रिपत्रक पु० त्रिपत्र + संज्ञायां कन् । १ पलाशवृक्षे राजनि० ।

त्रयाणां पत्राणां समाहारः संज्ञायां कन् । “तुलसी
कुन्दमालूरपत्राण्याहुस्त्रिपत्रकम्” देवीपु० उक्ते २
तुलस्यादिपत्रत्रये न० ।

त्रिपथ न० त्रयाणां पथां समाहारः अच् समा० । “पथः

संख्याव्ययादेः” पा० क्लीवता । १ मार्गाणां त्रितये । त्रयः
पन्थानो यत्र अच् समा० । २ त्रिमार्गयुक्ते (तेमाथा
पथ) इति ख्याते स्थाने । “शून्यागारे श्मशाने वा
निर्जने वा चतुष्पथे । विल्वधात्रीद्रुमस्यान्तस्त्रिपथे वा
भजेन्निशि । स भवेत् सर्वसिद्धीशः सर्ववेदविदां वरः”
गुप्तसाधनतन्त्रम् ।

त्रिपथगा स्त्री त्रयाणां पथां समाहारः अच् समा० तेन

गच्छति गम--ड । गङ्गायाम् । त्रिमार्गगादयोऽप्यत्र “गङ्गा
त्रिपथगा नाम दिव्या भागीरथीति च । त्रीन् पथो
भावयन्तीति तस्मात् त्रिपथगा स्मृता” रामा० बा० ४४
अ० “तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम्” ४५
अ० “तन्वी शरत्त्रिपथगा पुलिने कपोलौ लोले दृशौ
रुचिरचञ्चलखञ्जरीटौ” अमरुशत० “त्रिशिखां भ्रुकुटि-
ञ्चास्य ददृशुर्दानवा रणे । ललाटस्थां त्रिकूटस्थां गङ्गां
त्रिपथगामिव” हरिवं० २३५ अ० । “त्रीन् पथो हेतुना
केन प्ताकयेल्लोकपावनी । कथं गङ्गा त्रिपथगा विश्रुता
सरिदुत्तमा । त्रिषु लोकेषु धर्मज्ञ! कर्मभिः कैः
समन्विता” इत्युपक्रमे रामप्रश्ने विश्वामित्रस्योत्तरम् रामा०
आ० ३६ अ० वाक्यं गङ्गाशब्दे दृश्यम् । णिनि ङीप् ।
त्रिपथ गामिन्यादयोऽप्यत्र ।

त्रिपदी स्त्री त्रयः पादा अस्याः अन्त्यलोपः समा० ङीपि पद्भावः ।

१ त्रिपादयुक्तायां स्त्रियां २ गायत्रीच्छन्दसिच तस्या अष्टा-
क्षरपादत्वेन चतुर्विंशत्यक्षरायास्त्रिपादत्वात् तथात्वम् ।
यथा “इदं बिष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढ़-
मस्य पांसुरे” ऋ० १ । २२ । १७ । “गायत्र्यस्येकपदी द्विपदी
त्रिपदी चतुष्पद्यपदसि न हि पद्यसे” शत० ब्रा० १४ । ८ ।
१५ । १० । ३ हस्तिनां पादबन्धनार्थरज्वुभेदे “नास्रसत्-
करिणां ग्रैवं त्रिपदीच्छेदिनामपि” रघुः ४ अर्ध्याधारपात्र-
भेदे (तेपाइ) तन्त्र सा० ५ गोधापदीलतायां रत्नमा० । स्वार्थेक
त्रिपदिकापि तत्रार्थे । भाषाकवितायां ६ छन्दोभेदे तल्ल-
क्षणं यथा “पज्झटिकान्ता यदि यमकान्ता द्वादशपरिण-
तमात्रा किन्नरगीतिस्तदिति नीवितिः स्यार्द्धसमाक्षर-
गात्रा । (स्यःपदान्तः) । यैषा सङ्गीतके नित्यं निवीतिः
किन्नराख्यिका । सैव स्यात् प्राकृते गाने त्रिपदीति
परिश्रुता” इति काव्योदयः । “ढावृचि” पा० टापि
भत्वात् पद्भावः । त्रिपद ७ गायत्र्यामृचि ऋग्भेदे स्त्री तच्छ
न्दस्के ८ऋङ्मात्रे स्त्री “त्रिपदा चैव सावित्री विज्ञेयं
ब्रह्मणो मुखम्” मनुः । “द्विपदा याश्चतुष्पदास्त्रिपदा
याश्च षट्पदाः” यजु० २३ । ३४ । “त्रीणि पदानि
पादा अस्याः “इतिपदशब्देन समासः” वेददी० ।
त्रिविक्रमे ८ परमेश्वरे पु० त्रीणि पदानि विचक्रमे
इति श्रुतेस्तथात्वम् । “त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः
कृतान्तकृत्” विष्णु स० । ९ अरत्नेर्दशमभागरूपपदत्रययुक्ते
प्रक्रमे पु० यथा । “पञ्चारत्निः पुरुषो दशपदो द्वादशा-
ङ्गुलं पदं प्रक्रमस्त्रिपदः समविभक्तस्य” कात्या० श्रौ०
१६ । ८ । २१ “पञ्चारत्नयो यस्य सः पञ्चभिररत्निभिः
पुरुषः दशभिः पदैः पुरुषो द्वादशभिरङ्गुलैः पदम् इत्ये-
वमर्थो न भवति इतः प्रागरत्न्यादीनां लक्षणस्यानुक्तत्वे-
नासिद्धत्वात् अतश्चैवम् पुरुषस्य समविभक्तस्य यः पञ्चमो
भागः सोऽरत्निः तस्य दशमो भागः पदम् पदस्य द्वा-
दशो भागोऽङ्गुलम् त्रिभिः पदैरेकः प्रक्रमः” कर्कः ।

त्रिपरिक्रान्त पु० त्रिषु वृत्त्यर्थं कर्मसु परिक्रान्तः चेष्टमानः ।

याजनाध्यापनप्रतिग्रहरूपजीविकात्रयनिरते ब्राह्मणे ।
“त्रैविद्यो ब्राह्मणो विद्वान् न चाध्ययनजीवकः । त्रि-
कर्मा त्रिपरिक्रान्तो मैत्र एष स्मृतो द्विजः” भा० अनु०
१४१ अ० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/तुष्ट&oldid=57766" इत्यस्माद् प्रतिप्राप्तम्