वाचस्पत्यम्/ख
तारानाथ भट्टाचार्य
पृष्ठ २४१३
- ख
ख खकारः “जिह्वामूले तु कुः प्रोक्तः” शिक्षोक्तेः कण्ठमूलो-
- च्चार्य्यः जिह्वामूलपदस्य कण्ठमूलपरत्वात् । अस्योच्चारणे
- आभ्यन्तरप्रयत्नः स्पृष्टता (जिह्वामूलस्पर्शः) बाह्यप्रयत्नाश्च
- “खयां यमः खयः + कँ पौ विसर्गः शर एव च । एवे श्वासानु-
- प्रदाना अघाषाश्च विवृण्वते । कण्ठम्” इति शिक्षोक्तेः श्वासा-
- घाषबिवाराः “अयुग्मावर्गयमगायणश्चाल्पासवः स्मृताः”
- इति शिक्षोक्तेः वर्गमध्ये युग्मवर्णत्वात् महाप्राणश्च ।
- खादिशब्दे परे पूर्वस्थ विसर्गस्य स्थाने जिह्वामूलीयः यथा
- मणे + खनिः समासे तु वा सत्वञ्च । भा + खरः भास्खरः
- भाःखर इति । वर्ण्णाभिधाने अस्य वाचकाः शब्दाद-
- र्शिताः यथा “खः प्रचण्डः कामरूपी शुद्धिर्वह्निः
- सरस्वती । आकाशैन्द्रियं दुर्गा चण्डी सन्तापिनी गुरुः ।
- शिखण्डी दन्तोजातीशः कफोणिर्गरुडोगदी । शून्यं
- कपाली कल्याणी सूर्पकर्णोऽजरामरः । शुभाग्नेय
- चण्डलिङ्गे जनो झङ्कारखड्गकौ” । अस्य मातृका-
- वर्णान्तर्गतत्वेन ध्येयरूपं वर्णोद्धारतन्त्रे उक्तं यथा
- “बन्धूकपुष्पसङ्काशां रत्नालङ्कारभूषिताम् । वराभयकरीं
- नित्यामीषद्धास्यमुखीं पराम् । एवं ध्यात्वा खस्वरूपां
- तन्मन्त्र दशधा जपेत्” । मातृकान्यासे चास्य बाहौ
- न्यस्यता । श्लोकरचनायां तस्याद्यवर्णतयोपन्यासे ग्रन्थ-
- कर्त्तुः लक्ष्मीकरता “कः खोगोघश्च लक्ष्मीं वितरति
- वियशोङःसुखं चः सुखं छः” वृत्तर० टीकावृतधृवाक्यात् ।
ख पु० खर्व्व--खन--बा० ड । १ सूर्य्ये हेमच० । २ इन्द्रिये
- ३ पुरे ४ क्षेत्रे ५ शून्ये ६ विन्दौ ७ आकाशे ८ संवेदने ९ स्वर्गे
- १० कर्मणि च न० मेदि० । ११ लग्नात् दशमे स्थाने
- ज्यो० त० । “आरे खस्थे चतुष्पाद्भ्योभयम्” नीलक० ।
- “तनुनिधनखभेशाः केन्द्रकोणे त्रिलाभे” जातकप० ।
- १२ सुखे हेमच० । १३ अभ्रके (आव) उपधातुभेदे
- राजनि० । “तत्रेन्द्रिये “ऊर्द्धं नाभेर्यानि खानि
- तानि मेध्यानि सर्वशः” मनुः । आकाशे “नश्यतीषुर्यथा
- विद्धः खे विद्धमनुविध्यतः” मनुः खं “वायुर्ज्वलनोजलं
- क्षितिरिति त्रैलोक्यमुन्मीलति” प्रबो० । “एतस्माज्जायते-
- खं वायुर्ज्योतिरापश्च” श्रुतिः । “यावत् गिरः खे
- मरुतां चरन्ति” कुमा० १४ परमानन्दस्वरूपे ब्रह्माकाशे ।
- “कं ब्रह्म खं ब्रह्मः” यदेव कं तदेव खम्” इति च छा० उ० ।
|
खकक्षा स्त्री सूर्य्यरश्मिप्रचारावधिके वेष्टनाकारे
- ब्रह्माण्डसुषिरे गगनपरिधौ । सि० शि० तत्परिमाण
- मुक्तं यथा “कोटिध्नैर्नखनन्दषट्कनखभूमूभृद्भजङ्गेन्दुभि
- १८७१२०६९२०००००००० र्ज्योतिःशास्त्रविदो वदन्ति
- नभसः कक्षामिमां योजनैः । तद् ब्रह्माण्डकटा-
- हसंपुटतटे केचिज्जगुर्वेष्टनम् केचित् प्रोचुरदृश्य-
- दृश्यकगिरिं पौराणिकाः सूरयः । करतलकलिता-
- मलकवदमलं सकलं विदन्ति ये गोलम् । दिनकरकर-
- निकरनिहततमसो नभसः स परिधिरुदितस्तैः” मू० ।
- “एभिर्योजनैस्तुल्यां गणकाः खकक्षामाकाशपरिधिं वदन्ति ।
- तत्र कथमनन्तस्याकाशस्येयत्ता वक्तुं शक्यत इत्याशङ्कयाऽ-
- हर्पतिद्युतियुजो नभसः परिधेरिदं वदन्ति । अत एव
- पौराणिका गणकास्ते ब्रह्याण्डपरिधिं वदन्ति । केचि-
- ल्लीकालोकं वदन्ति । यतस्तदन्तर्वर्त्तिन एवार्करश्मयः ।
- एवमन्ये वदन्तीति नास्माकं मतमित्यर्थः प्रमाणशून्य-
- त्वात् । करतलकलितसकलब्रह्माण्डगोला एवं वक्तुं
- शक्नुवन्ति । इदानीं स्वमतमाह” प्रमि० । “ब्रह्माण्डमेत-
- न्मितमस्तु नो वा कल्पे ग्रहः क्रामति योजनानि ।
- यावन्ति पूर्वैरिह तत्प्रमाणं प्रोक्तं खकक्षाख्यमिदं मतं
- नः” मू० । इदानीं ग्रहक्षका आह । “ग्रहस्य चक्रै-
- र्विहृता खकक्षा भवेत् स्वकक्षा निजकक्षिकायाम् । ग्रहः
- खकक्षामितयीजनानि भ्रमत्यजस्रं परिवर्त्तमानः” मू० ।
- “सा खकक्षा यस्य यस्य भगणैर्ह्रियते तस्य तस्य ग्रहस्य
- कक्षामितिर्लभ्यते । अस्योपपत्तिरूपं श्लोकस्योत्तरार्ध-
- मिति । यतः स्वकक्षाया ग्रहो भ्रमन्नजस्रं परिवर्त्तमानः
- खकक्षामितानि योजनानि पूरयति । अतो ग्रहभगणैः
- भक्तायाः खकक्षाया यल्लभ्यते सा ग्रहकक्षामितिरित्यु-
- पपन्नम् ।
खकामिनी स्त्री खं सुखमाकाशं वा कामयते कम--स्वार्थे
- णिङ्--णिनि ङीप् । १ चर्चिकायां २ चिल्लदयितायां च
- त्रिका० ।
खकुन्तल पु० खमाकाशः कुन्तलस्थनीयमिब यस्य । व्योमकेशे महादेवे त्रिका० । खकेशादयोऽप्यत्र ।
खक्ख हासे भ्वा० पर० अक० सेट् । खक्खति अखक्खीत् ।
- चखक्ख । प्रनिखक्खति ।
खक्खट पु० खक्ख--अटन् । कठिन्यां (खडि) रायमु० ।
खखोल्क पु० काशीस्थे आदित्यभेदे तत्कथा काशी० ५०
- अ० यथा “खखोल्कोनाम भगवानादित्यः परिकी-
- र्त्ततः । त्रिपिष्टपोत्तरे भागे सर्वव्याधिविघातकः । यथा
- खखोल्कैत्याख्या तस्यादित्यख तच्छृणु” इत्युपक्रमे
|
पृष्ठ २४१४
- “खखोल्का निपतेदेषा भृशं गद्गदभाषिणी । मुर्च्छां
- गतवती पक्षपुटा धृत्वा विलोरगी । सख्युल्का निपतेदेषा
- वकव्येऽप्यतिसंभ्रमात् । खखोल्केति यदुक्ता गीः कद्रवा
- सम्भ्रान्तचेतसा । तदा खखोल्कनामार्कस्तुतो विनतया
- बहु” “तपस्यन्तीमथालोक्य कदाचिद्विनतां प्रभुः ।
- शिवस्यैव परोमूर्त्तिः खखल्को नाम भास्करः । दत्त्वा वरं
- स्वपापघ्नं शिवज्ञानसमन्वितम् । क शीवासिजनानेकरूप
- पापक्षयङ्करः । विनतादित्य इत्याख्यः खखेल्कस्तत्र
- संस्थितः । इत्थं खखोल्क आदित्यः काशीविघ्नतमो-
- हरः । तस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते । काश्यां
- पैलङ्गिले तीर्थे खखोल्कस्य विलोकनात् । नरश्चिन्तित-
- माप्नोति नीरागो जायते क्षणात् । नरःश्रुत्वैतदाख्यानं
- खखोल्कादित्यसम्भवम् । गरुडेशेन सहितं सर्व्वपापैः
- प्रमुच्यत” तत्रैवाध्यायशेषे
खग पु० मे द० खे अकाशे गच्छति गम--ड ७ त० । १ सूर्य्ये
- २ सूर्था दग्रहे ३ देवे ४ शरे ५ पक्षिणि पु० स्त्री० मेदि० ।
- स्त्रियां जातित्वात् ङीष् । ६ वायौ शब्दच० “तमांसीव
- यथा सूर्य्यो वृक्षानग्निर्घनान् खगः” भा० व० २६० अ० ।
- ७ शलभभेदे भरतः । ८ आकाशर्गामिनि त्रि० ।
- “सुरासुरैरबध्यं हि पुरमेतत् खगं महत्” भा०
- आ० १६३ अ० । तत्र विहगे “खगचञ्चुपुटद्रोणीपूरणे तव
- कः श्रमः” चातका० । “अधुनीत खगः स नैकधा”
- “धृतरुद्राक्षमधुव्रतं खगःं नैष० । ग्रहे “आपोक्लिमे
- यदि खंगाः स किलेन्दुवारः” लीलक० ।
खगङ्गा स्त्री ६ त० । आकाशगङ्गायां मन्दाकिन्यां त्रिका० ।
खगण पु० कुशवंश्ये नृपभेदे । “कुशस्य चातिथिस्तस्मात्”
- इत्युपक्रमे “ततो वनस्थलस्तस्माद्वज्रनाभोऽर्कसम्भवः ।
- खगणस्तत्सुतस्तस्मात् विधृतिश्चाभवत् सुतः” भाग०
- ९, ११, ३, श्लोकः ।
खगगति स्त्री० ६ त० । पक्षिणां गमने तद्भेदाश्च भा० क०
- ४१ अ० दर्शिताः यथा
- “शतगेकञ्च पातानां पतितास्मि न संशयः । शतयोजन-
- मेकैकं विचित्रं विविधं तथा ॥ उड्डीनमवडीनञ्च
- प्रडीनं डीनमेव च । निडीनमथ सण्डीनं तिर्यक्डीन
- गतानि च । विडीनं परिडीनञ्च पराडीनं सुडीन-
- कम् । अभिडीनः महाडीनं निर्डीनमतिडीनकम् ॥
- अवडीनं प्रडीनञ्च संडीनं डीनडीनकम् । संडीनो-
- ड्डीनडीनञ्च पुनर्डीनविडीनकम् ॥ सम्पात समु-
|
- ड्डीनञ्च ततोन्यद्व्यतिरिक्तकम् । गतागतं प्रतिगतं
- बहुधा निकुलीनकाः” ॥ विवृतमेतत् नीलकण्ठेन यथा
- “पातानां शतमेकं गणयति उङ्डीनमित्यादिना
- “उडडीन १ मूर्द्धगमनमवडीन २ मधोगतिः । प्रडीनं ३ सर्वतो
- यानं डीनं ४ गमनमात्रकम् । निडीनं ५ शनकैर्यानं संडी-
- नं ६ ललितं गतम् । तिर्यग्डीनं गतं प्राहुस्तिरःप्रचरणं
- बुधाः । तान्याशाभेदभिन्नानि चत्वारि प्रतिजानते । तानि
- (तिर्यग्डीनानि ४) १० । विडम्बितं विडीनं ११ स्यात्परिडी-
- नन्तु १२ सर्वतः । पश्चाद्गतः पराडीनं १३ स्वर्गगन्तु सुडीन-
- कम् १४ । आभिमुख्येन गमनमभिडीनं १५ प्रचक्षते ।
- यानं महाडीन १६ माहुः पवित्रामूर्जितां गतिम् ।
- निर्डीनं १७ निश्चलं यानं प्रचण्डमतिडीनकर १८” ।
- (विड म्बतं मल्लवदुड्डीयोड्डीयगमनम्) । अवरोहो-
- वडीनं १९ स्यात् प्रडीनं २० चित्रमुच्यते । गत्या ललितया
- पूर्वमुपक्रम्य समन्ततः । परिक्रम्य प्रपतनं संडीनं २१
- डीनडीनकम् २२ । (समततः प्रपतनं, संडीनं परिक्रम्य
- प्रपतनं डीनडीनकमित्यन्वयः) संडीनोड्डीनडीनं
- स्यात्तदेवोर्द्धप्रकल्पनात् २३ । गतौ गत्यन्तरेद्भेदो भवेड्-
- डीनविडीनकम् २४ ॥ क्षणात् संगत्य निष्क्रम्य पक्षसंपात-
- २४ मुच्यते । ऊर्द्ध्वावोगतिसंभेदः समुड्डीनं २५ प्रचक्षते ।
- संकल्प्य पक्षगमनमुच्यते व्यतिरिक्तकम् २६ । षड्विंशति-
- रमी भेदाः पातानामिह दर्शिताः । महाडीनं विहा-
- यैषां पातानां त्रिविधा गतिः ७५ । गतन्तत्र यथोद्दिष्ट-
- मागतं पुनरागमः । प्रत्यावृत्तिः प्रतिगतिरिति
- षट्सप्ततिः ७६ स्मृताः । (गतागतप्रतिगतिभेदाद्गतित्रे-
- विध्यम्) । तेषां निपाताः कथ्यन्ते प्रत्येकं पञ्चविं-
- शतिः” १०१ । (निकुलीनकाः निपाताः) । २ ग्रहाणां
- गतौ च ।
- तत्र ग्रहभेदे गतिभेदाः सृ० सि० सकारणम् उक्तायथा
- “अदृश्यरूपाः कालस्य मूर्त्तयो भगखाश्रिताः । शीघ्र-
- मन्दोच्चपाताख्या ग्रहाणां गतिहेतवः” ॥ तद्वातर-
- श्मिभिर्बद्धास्तैः सव्येतरपाणिभिः । प्राक् पश्चादपकृष्यन्ते
- यथासन्नं स्वदिड्मुखम् ॥ प्रवहाख्यो मरुत् तांस्तु
- स्वोच्चाभिमुखमीरयेत् । पूर्वापरापक्वष्टास्ते गतिं यान्ति
- पृथग्विधाम् ॥ ग्रहात् प्राग्भगणार्द्धस्थः प्राङ्मुखं
- कर्षति ग्रहम् । उच्चसञ्ज्ञोऽपरार्द्धस्थस्तद्वत् पश्चान्षुखं
- ग्रहम् ॥ स्वोच्चापकृष्टा भगणैः प्राङ्मुखं यान्ति
- यद्ग्रहाः । तत् तेषु धनमित्युक्तमृणं पश्चान्मुखेषु तु ॥
|
पृष्ठ २४१५
- दक्षिणोत्तरतोऽप्येवं पातो राहुः स्वरंहसा । विक्षि-
- पत्येष विक्षेपं चन्द्रादीनामपक्रमात् ॥ उत्तराभिमुखं
- पातो विक्षिपत्यपरार्द्धगः । ग्रहः प्राग्भगणार्धस्थो
- याम्यायामपकर्षति ॥ बुधभार्गवयोः शीघ्रात् तद्वत्
- घातो यदा स्थितः । तच्छीघ्राकर्षणात् तौ तु विक्षिप्येते
- यथोक्तवत् ॥ महत्त्वान्मण्डलस्यार्कः स्वल्पमेवाष-
- कृयते । मण्डलाल्पतया चन्द्रस्ततो बह्वपकृष्यते ॥
- भौमादयोऽल्पमूर्त्तित्वाच्छीघ्रमन्दीच्चसञ्ज्ञकैः । दैवतैर-
- पकृव्यन्ते सुदूरमतिवेगिताः ॥ अतो धनर्णं सुमहत्
- तेषां गतिवशाद्भवेत् । आकृष्यमाणास्तैरेवं व्य म्नि यान्त्य-
- निलाहताः ॥ वक्रानुवक्रा कुटिला मन्दा मन्दतरा
- समा । तथा शीघ्रतरा शीघ्रा ग्रहाणामष्टधा गतिः ॥
- तत्रातिशीघ्रा शीघ्राख्या मन्दा मन्दतरा समा ।
- ऋज्वीति पञ्चधा ज्ञेया या वक्रा सानुवक्रगा” सू० सि० ॥
- वक्रानुवक्रेत्यादिकं रङ्गनाथेन विवृतं यथा ।
- “भौमादिग्रहाणां विरविचन्द्राणामष्टप्रकारा गतिः ।
- फलिता । तत्र वक्रेत्यादिसमेत्यन्तं षट्प्रकारा गतिः
- शीघ्रतरा शीघ्रेति गतिद्वयम् । तथा समुच्चये । आसां
- स्वरूपज्ञानमग्रे स्फुटम् । अथैनामष्टधा गतिं
- भेदद्वयेन क्रोडयति । तत्राष्टविधगतिष्वतिशीघ्रेत्यादिसमे-
- त्यन्ता इत्येवं पञ्चधा गतिः । ऋज्वी मार्गी गतिर्ज्ञेया
- या गतिः सानुवक्रगानुवक्रगमनेन सह वर्त्तमाना पूर्व-
- श्लोकेऽनुवक्रगतेर्वक्रकुटिलमध्याभिधानादुभयथासन्नत्वाच्च
- वक्रानुबक्रा कुटिलेति गतिर्वक्रा ज्ञेया तथा च ग्रहाणां
- मार्गी वक्रेति गतिद्वयम्” ॥ शैघ्रमान्द्यादिप्रकारस्तु
- तत्रैव दृश्यः विस्तरभयान्नोदाहृतः ।
खगपति पु० खगान् पाति पा--क । गरुडे खगपत्यादयो-
- ऽप्यत्र । गरुड़स्य खगपतित्वलाभकथा भा० आ० ३१ अ०
- यथा “अथापश्यदृषीन् ह्रस्वानङ्गुष्ठोदरवर्ष्मणः ।
- पलाशवृन्तिकामेकां वहतः संहतान् पथि । प्रलीनान् स्वेष्वि-
- वाङ्गेषु निराहारांस्तपोधनान् । क्लिश्यमानान्मन्दबलान्
- गोष्पदे संप्लुतोदके । तान् सर्वान् विस्मयाविष्टोवीर्य्यो-
- न्मत्तः पुरन्दरः । अवहस्याभ्यगाच्छीघ्रं लङ्घयित्वाऽव-
- मन्य च । तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः ।
- आरेभिरे महत् कर्म तदा शक्रभयङ्करम् । जुहुवुस्ते
- सुतपसो विधिवज्जातवेदसमं । मन्त्रैरुच्चावचैर्विप्रा येन
- कामेन तच्छृणु । कामवीर्य्यः कामगमो देवराजभय-
- प्रदः । इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः । इ-
|
- न्द्राच्छतगुणः शौर्य्ये वीर्य्ये चैव मनोजवः । तपसां नः
- फलेनाद्य दारुणः सम्भवत्विति । तद्बुद्धा भृशसन्तप्तो
- देवराजः शतक्रतुः । जगाम शरणं तत्र कश्यपं संशित-
- व्रतम् । तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः ।
- बालिखिल्यानुपागम्य कर्मसिद्धिमपृच्छत । एवमस्त्विमि
- तञ्चापि प्रत्यूचुः सत्यवादिनः । तान् कश्यप उवाचेदं
- सान्त्वपूर्वं प्रजापतिः । अयमिन्द्रस्त्रिभुवने नियोगाद्-
- ब्रह्मणः कृतः । इन्द्रार्थे च भवन्तोऽपि यत्नवत्तस्तपो-
- धनाः । न मिथ्या ब्रह्मणो वाक्यं कर्त्तुमर्तथ सत्तमाः ।
- भवतां हि न मिथ्याऽयं सङ्कल्पो वै चिकीर्षितः ।
- भवत्वेष पतत्त्रीणामिन्द्रोऽतिबलसत्त्ववान् । प्रसादः क्रिय-
- तामस्य देवराजस्य याचतः । एवमुक्ताः कश्यपेन बालि-
- खिल्यास्तपोधनाः । प्रत्यूचुरभिसम्पूज्य मुनिश्रेष्ठं प्रजा-
- पतिम् । बालिखिल्या ऊचुः । इन्द्रार्थोऽयं समारम्भः
- सर्वेषां नः प्रजापते! । अपत्यार्थं समारम्भो भवतश्चाय-
- मीपिसतः । तदिदं सफलं कर्म त्वयैब प्रतिगृह्यताम् ।
- तथा चैवं विधत्स्वात्र यथात्राप्यऽनुपश्यति । सौबिरुवाच
- एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा । विनता
- माम कल्याणी पुत्रकामा यशस्विनी । तपस्तत्या व्रतपरा
- स्नाता पुंसवने शुचिः । उपचक्राम भर्त्तारं तामुवाचाथ
- कश्यपः । आरम्भः सफलो देवि! भविता यस्त्वयेपुसितः ।
- जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ । तपसा
- बालिखिल्यानां मम सङ्कल्पजौ तथा । भविष्यतो
- महाभागौ पुत्रौ त्रैलोक्यपूजितौ । उवाच चैनां भगवान्
- कश्यपः पुंनरेव ह । धार्य्यतामप्रमादेन गर्भोऽयं
- सुमहोदयः । एतौ सर्वपतत्त्रीणामिन्द्रत्वं कारयिष्यतः ।
- लोकसम्भावितौ वीरौ कामरूपौ विहङ्गमौ । शतक्रतु-
- मथोवाच प्रीयमाणः प्रजापतिः । त्वत्सहायौ
- महावीर्य्यौ भ्रातरौ ते भविष्यतः । नैताभ्यां भविता दोषः
- सकाशात्ते पुरन्दर! । व्येतु ते शक्र! सन्तापस्त्वमेवेन्द्रो
- भविष्यसि । न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवा-
- दिनः । न चावमान्या दर्पाते वाग्वज्रा भृशकोपनाः ।
- एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिपिष्टपम् । विनता
- चापि सिद्धार्था बभूव मुदिता तथा । जनयामास पुत्रौ
- द्वावरुणं गरुड़ं तथा । विकलाङ्गोऽरुणस्तत्र भास्करस्य
- पुरःसरः । पतत्त्रीणाञ्च गरुड़ इन्द्रत्वेनाभ्यषिच्यत” ।
खगम त्रि० खे आकाशे गच्छति गम--अच् । आकाशगामिनि
- सिद्धगन्धर्वादौ । “ततो दिव्यास्त्रमापन्ना गन्थर्द्वा हेम-
- मामिनः” इत्युपक्रमे “ते कार्य्यमाणाः खगमाः शरवर्षैः
- समन्ततः” भा० व० २४४ अ० ।
|
पृष्ठ २४१६
खगवक्त्र पु० खगस्य वक्त्रमिवाकारोऽस्य । नकुचवृक्षे (मान्दार) शब्दच० ।
खगवती स्त्री खगः खगसादृश्यम् आकाशस्थि तत्वनास्त्यस्या
- मतुप् मस्य वः । भूमौ जटा० । तस्याः व्योम्नि स्थित-
- त्वात् खगतुल्यत्वम् । “मध्ये समन्तादण्डस्य भूगोलः
- व्योम्नि तिष्ठति । बिभ्राणः परमांशक्तिं ब्रह्मणो धारणा-
- त्मिकाम्” सू० सि० उक्तेः । आर्य्यभट्टमते तु पृथिव्याः स्वक-
- क्षायामाकाशगतिमत्त्वात् खगतुल्यगतित्वेन सादृश्यमिति
- भेदः । खगोलशब्दे बिवृतिः ।
खगशत्रु पु० खगस्य शत्रुरिव । १ पृश्निपर्ण्याम् (चाकु-
- लिया) शब्दच० । ६ त० । २ श्येनविहगे ।
खगस्थान न० ६ त० । द्रुमस्थे कोटरे शब्दच० ।
खगान्तक पु० अन्तयति अन्तं करोति णिच्--ण्वुल् ६ त० ।
- श्येनविहगे राजनि० ।
खगासन पु० खगः गरुड़ आसनमस्य । १ विष्णौ तद्वा-
- हनत्त्वात्तद्रासनत्वं तस्य तत्कथा च भा० आ०
- २३ अ० यथा “विष्णुना च तदाकाशे वैनतेयः
- समेयिवान् । तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा ।
- नमुवाचाव्ययो देवो वरदोऽणीति खेचरम् । स वव्रे
- तव तिष्ठेयमुपरीत्यन्तरीक्षगः । उवाच चैनं भूयोऽपि
- नारायणमिदं वचः । अजरश्चामररा खाममृतेन विना-
- प्यहम् । एवमरिचति तं विष्णुरुवाच विनतासुतम् ।
- प्रतिगृह्य वरौ तौ च गरुड़ो विष्णुमब्रवीत् । भवतेऽपि
- वरं दद्यां वृणोतु भगवानपि । तं वव्रे वाहमं विष्णु-
- र्गरुत्मन्तं महाबलम् । ध्वजञ्च चक्रे भगवानुपरि
- स्थास्यतीति तम् । एवमस्त्विति तं देवमुक्त्वा नारायणं
- स्वगः । वब्राज तरसा वेगाद्वायुं स्पर्द्धन्महाजवः” ।
- “बद्धं कृत्वा अधः शीर्षं यः करोति णगासनम् ।
- अगासनप्रसादेन अमलोपोभवेद्द्रुतम्” रुद्रजा० उक्ते
- २ आसनभेदे न० ।
खगेन्द्र पु० ६ त० गरुड़े णगपतिशब्दे विवृतिः ।
खगेन्द्रध्वज पु० खगेन्द्रः गरुड़ोध्वजोऽस्य । विष्णौ तण
- गरुड़ध्यजस्वीकारकथा खगासनशब्दे दर्शिता ।
खगेश्वर पु० ६ त० । गरुड़े अमरः ।
खगोल पु० सू० सि० उक्ते गोलाकारे आकाशण परिधौ सूर्य्य-
- किरणप्रचारयोग्यदेशे ग्रहाद्याधारे वाय्यंशभेदे । यथा
- “ब्रह्माण्डमेतत् सुषिरं तत्रेदं भूर्भुवादिकम् । कटाह-
|
- द्वितयस्यैव सम्पुटं गोलकाकृतिः” सू० सि० । “एतत्
- प्रागुक्तं व्रह्मणाधिष्ठितं सुवर्णाण्डं सुषिरमवकाशात्मकं,
- तत्रावकाश इदं जगत् भूर्भुवादिकं भूर्भुवःस्वर्गात्मक-
- मवस्थितं न वहिः । नन्वण्डस्य गोलाकारत्वेनान्तर-
- वकाशात्मकत्वं न सम्भवतीत्यत आह कटाहद्वितयस्येति ।
- कटाहोऽर्धगोलाकारं सावकाशं पात्रं तस्य द्वितयं दुयं
- तस्य सनम् । एवकारो न्थूनाधिकव्यवच्छेदार्थः ।
- सम्पुटमाभिमुख्येत मिलितं गोलकाकृतिर्गोलाकारः
- स्थात्! तथाच न क्षतिः । अथ ब्रह्माण्डान्तः परिधिं
- वदंस्तदन्तर्भग्रहादिकमाकाशे यथास्थानं परिभ्रमतीति
- त्तोकाभ्यामाह” र० ना० “ब्रह्माण्डमध्ये परिधिर्व्योम-
- कक्षाभिधीयते । तन्मध्ये भ्रमणं भानामधोऽधः क्रमश-
- स्तथा । मन्दामरेज्यभूपुत्रसूर्यशुक्रेन्दुजेन्दवः ।
- परिन्यमन्त्यसोऽधःस्थाः सिद्धविद्याधरा घनाः” सू० सि० ।
- “ब्रह्माण्डान्तः परिधिस्तुल्यवृत्तमाना व्योमकक्षा वक्ष्यमा-
- स्माकाशकक्षोच्यते । तन्मध्ये ब्रह्माण्डमध्य आकाशे
- भानां नक्षत्राणां सर्वेषां सर्वतस्तुल्योर्ध्वान्तरितानां भ्रमणं
- भवति । तथा तुल्योर्ध्वान्तरेणाधो नक्षत्रेभ्योऽधोधः
- क्रमात् शनिवृहस्पतिभौमार्कशुक्रबुधचन्द्रा अधजात्
- परिभ्रमन्ति । सिद्धा विसाधराश्चाधस्थाश्चन्द्रादधःखिता
- अधोऽधः क्रमेणाकाशे स्थिताः । एषां प्रवहवायाववस्था-
- नाभावाच्चन्द्रादिवन्न परिभ्रमः । अथ भूम्यवस्थानमाह” र०
- ना० “मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति ।
- विभ्राणः परमां शक्तिं ब्रह्मणो धारणात्मिकाम्” सू०
- सि० । “अण्डस्य व्रह्माण्डस्य समन्तात् सर्वप्रदेशान्मध्ये
- मध्यस्थाने केन्द्ररूपे आकाशे भूगोलस्तिष्ठति । नन्वाकाशे
- निराधारवस्तुनोऽवस्थानासम्भवात् कथमवस्थितो भूमिगोल
- इत्यतो भूगोलविशेषणमाह बिभ्राण इति । व्रह्मणः
- परमां शक्तिं धारणात्मिकां निराधारावरयानरूपां
- विध्याणो धारयन् । तथाच न क्षतिः । एतेन “भूःकिमा-
- कारा किमाश्रयेति” प्रश्नद्वयमुत्तरितम् । अथ कथं चात्र
- सप्त पातासभूमय इति प्रश्नस्योत्तरसाह” र० ता० “तदन्तर-
- पुटाः सप्त नागामुरसमाश्रयाः । दिर्व्यौषधिरसोपेतारम्याः
- पातालभूमयः” सू० मेर्व्वादिस्थितिमाह “अनेकरत्ननिचयो
- जाम्बूनदमयो गिरिः । भूगोलमध्यगो मेरुरुभयत्व विनि-
- र्गतः । उपरिष्टात् स्थितास्तस्य मेन्द्रा देवा महर्षयः ।
- अधस्तादसुरास्तद्वद्द्विषन्तोऽन्योऽन्यमाश्रिताः । ततः समन्तात्
- परिधिः क्रमेणायं महार्ष्णवः । मेखलेव स्थितो धात्र्या
|
पृष्ठ २४१७
- देवासुरविभागकृत् । समन्तान्मेरुमध्यात् तु तुल्य भागेषु
- तोयधेः । द्वीपेषु दिक्षु पूर्वादिनगर्यो देवनिर्मिताः । भूवृत्त-
- पादे (१२५६) पूर्वस्यां यमकोटीति विश्रुता । भद्राश्ववर्षे
- नगरी स्वर्णप्राकातोरणा । याम्यायां भारते वर्षे लङ्का
- तदुन्महापुरी । पश्चिमे केतुमालाख्ये रोमकाख्या
- प्रकोर्त्तिता । उदक् सिद्धपुरी नाम कुरुवर्षे प्रकीर्त्तिता ।
- तस्यां सिद्धा महात्मानो निवसन्ति गतव्यथाः । भूवृत्त-
- पादविवरास्ताश्चान्योन्यं प्रतिष्ठिताः । ताभ्यश्चोत्तरगो मेरुस्ता-
- वानेव १२५६ सुराश्रयः । तासामुपरिगो याति विषुवस्थो
- दिवाकरः । न तासु विषुवच्छाया नाक्षस्योन्नतिरिष्यते ।
- मेरोरुभयतो मध्ये ध्रवतारे नभःस्थिते । निरक्षदेश-
- संस्थानामुभये क्षितिजाश्रये । अतो नाक्षोच्छ्रयस्तासु
- ध्रुवयोः क्षितिजस्थयोः । नवतिर्लम्बकांशास्तु मेरावक्षां-
- शकास्तथा । मेषादौ देवभागस्थे देवानां याति दर्शनम् ।
- असुराणां तुलादौ तु सूर्य्यस्तद्भागसञ्चरः । अत्यासन्न-
- तथा तेन ग्रीष्मे तीव्राः करा रवेः । देवभागे मुराणां
- तु हेमन्ते मन्दतान्यथा । देवासुरा विषुवति क्षितिजस्थं
- दिवाकरम् । पश्यन्त्यन्योन्यमेतेषां वामसव्ये दिनक्षपे ।
- मेषादावुदितः सूर्यस्त्रीन् राशीनुदगुत्तरम् । सञ्चरन्
- प्रागहर्मध्यं पूरयेन्मेरुवासिनाम् । कर्कादीन् सञ्चरंस्तद्वदह्नः
- पश्चार्धमेव सः । तुलादींस्तन्गृगादींश्च तद्वदेवासुरद्विषाम् ।
- अतो दिनक्षपे तेषामन्येन्यं हि विपर्ययात् ।
- अहोरात्रप्रमाणं च भानोर्भगणपूरणात् । दिनक्षपार्धमेतेषा-
- मयनान्ते विपर्ययात् । उपर्यात्मानमन्योन्यं कल्प-
- यन्ति सुरासुराः । अन्येऽपि समसूत्रस्था मन्यन्तेऽधः
- परस्परम् । भद्राश्वकेतुमालस्था लङ्कासिद्धपुराश्रिताः । सर्व-
- त्रैवं महीगोले स्वस्थानमुपरि स्थितम् । मन्यन्ते खे
- यतो गोलस्तस्य क्वोर्ध्वं क्व वाप्यधः । अल्पकायतया लोकाः
- स्वस्थानात् सर्वतोमुखम् । पश्यन्ति वृत्तामप्येतां चक्रा-
- कारां वसुन्धराम् । सव्यं भ्रमति देवानामपसव्यं सुरद्वि-
- षाम् । उपरिष्टाद्भगोलोऽयं व्यक्षे पश्चान्मुखः सदा ।
- अतस्तत्र दिनं त्रिंशन्नाडिकं शर्वरो तथा । हानिवृद्धी
- सदा वामं सुरासुरविभागयोः । मेषादौ तु सदा वृद्धिरुद-
- गुत्तरतोऽधिका । देवांशे च क्षपाहानिर्विपरीतं
- तथाऽऽसुरे । तुलादौ द्युनिशोर्वामं क्षयवृद्धी तयोरुभे ।
- देशक्रान्तिवशान्नित्यं तद्विज्ञानं परोदितम्” ।
- अथोक्तग्वावधिदेशं विवक्षुः प्रथमं तदुपयुक्तानि क्रान्त्यं
- शयोंजनान्याह “भूवृत्तं क्रान्तिभावघ्नं भगणांश-
|
- विभाजितम् । अवाप्तयोजनैरर्को व्यक्षाद्यात्युपरिस्थितः”
- सू० सि० ॥ “भूवृत्तं भूपरिधियोजनमानं (५०२६ स्थूलम्
- ४९६७ सूक्ष्मम्) प्रागुक्तमभीष्टक्रान्त्यंशैर्गुणितं
- द्वादशराशिभागैः षष्ट्यधिकशतत्रयमितैर्भक्त लब्धयोजभैः
- कृत्वा सूर्य्य उपरि आकाशे स्थितो वर्तमानो दक्षिणत
- उत्तरतो वा याति गच्छति । क्रान्त्यभावे तु निरक्ष-
- दशोपर्येव परिभ्रमति । अत्रोपपत्तिः निरक्षदेशान्मै-
- रोरुत्तरदक्षिणाग्राभिमुखं सूर्यः क्रान्त्यंशैर्गच्छति ।
- तद्योजनज्ञानं तु यदि भगणांशैर्मेर्वग्रद्वयनिरक्षदेशस्पृष्टभू-
- परिधियोजनानि तदा क्रान्त्यंशैः कानीत्यनुपातेने-
- त्युपपन्नम् अथ दिनमानानयनगणितस्यावधिदेशज्ञानं
- श्लोकाभ्यामाह” र० ना० । “परमापक्रमादेव
- योजनानि विशोधयेत् । भूवृत्तपादाच्छेषाणि यानि स्युर्यो-
- जनानि तैः । अयनान्ते विलोमेन देवासुरविभा-
- गयोः । नाड़ीषष्ट्या सकृदहर्निशाप्यस्मिन् सकृत्
- तथा” सू० सि० ॥ “परमक्रन्तिभागाच्चतुर्विंशन्मितात् ।
- एवं पूर्वोक्तरीत्या योजनानि जातानि ३३६ भूपरिधेः
- पूर्वोक्तस्य ५०२६ चतुर्थांशात् १२५६ परिवर्जयेत् । अवशि-
- ष्टानि यानि यत्सङ्ख्यामितानि योजनानि भवन्ति तैर्यो-
- जनैर्देवासुरविभागयोर्निरक्षदेशादुत्तरदक्षिणप्रदेशयोर्यो-
- देशौ तयोरित्यर्थः । अयनान्ते उत्तरदक्षिणायनसन्धौ
- कर्कादिस्थे सूर्ये दक्षिणोत्तरायनसन्धौ, मकरादिस्थे सूर्ये
- विलोमेन व्यत्यासेन सकृदेकवारं नाडीषष्ट्या घटीषष्ट्या
- ऽहर्दिनमानं भवति । अस्मिन्नेतादृशे देशे दक्षिणस्मिन्ने-
- वायनसन्ध्यासन्ने सकृदेकवारं तथा षष्ठिघटीमिता विलो-
- मेन निशा रात्रिर्भवति । अपिशब्दो दिनेन समुच्चयार्थः ।
- एतदुक्तं भवति । कर्कादिस्थे सूर्ये निरक्षदेशादुत्तर-
- तद्योजनान्तरितदेशे षष्टिघटीमितदिनं तदेव निरक्ष-
- देशाहृक्षिणतद्योजनान्तरितदेशे षष्टिघटीमिता रात्रिः ।
- मकरादिस्थे सूर्ये तादृशोत्तरभागे षष्ठिघटीमिता रात्रिर्दक्षिण-
- भागे तादृशे षष्टिघटीमितं दिनमिति । अत्रोपपत्तिः ।
- परमक्रान्तियोजनानि ३२६ भूवृत्तचतुर्थांशयोजनेभ्यो
- १२५६ हीनानि ९२० । निरक्षदेशात् तन्मितयोजनान्तरितो
- यो दक्षिणोत्तरदेशस्तस्वान्मेरोर्दक्षिणोत्तराग्रं क्रमेण
- परमक्रान्तियोजनान्तरितम् । अतस्तत्र लम्बांशाश्चतुर्वि
- शतिः पसांशास षट्षष्टिरिति तद्देशे क्रान्तिवृत्तानु-
- कारं क्षितिजमित्ययनान्ते पञ्चदशघटीमितमहोरात्रवृत्त-
- चतुर्भागखण्डं निरक्षतद्देशक्षितिजयोरन्तरालरूपं चर-
|
पृष्ठ २४१८
- मत उक्तरीत्या दिनार्धं रात्र्यर्धं चोक्तरीत्या यथायोग्यं त्रिं-
- शत् तद्द्विगुणं षष्टिघटीमितं तन्मानं गणितरीत्योपपन्नम् ।
- युक्तं चैतत् । अयनान्ताहोरात्रवृत्तस्यैकस्य तत्क्षितिज-
- प्रदेश एकत्रैव संलग्नत्वाद्द्विधा संलग्नत्वाभावात् प्रवह-
- भ्रमितसूर्यपरिवर्तपूर्तिः षष्टिघटीर्भिर्दर्शनमदर्शनं
- यथायोग्यं तद्गोलस्थि या प्रत्यक्षसिद्ध्वमेवेति । अथोक्तदिनरात्रि-
- मानगणितं तदवधिदेशपर्थ्यन्तं दक्षिणोत्तरभागयोर्नाग्रे
- इत्याह” र० ना० । “तदन्तरेऽपि षष्ट्यन्ते क्षयवृद्धी
- अहर्निशोः । परतो विपरीतोऽयं भगोलः परिवर्तते” सू० सि० ।
- “तदन्तरे निरक्षदेशोक्तावधिदेशयोरन्तराले द क्षणोत्तर-
- विभागदेशे षष्ट्यन्ते षष्टिघटीमध्ये क्षयवृद्धो अपचयोप-
- चयावुक्तरीत्या दिनरात्र्योर्यथायोग्यं भवतः । परतोऽव-
- धिदेशादग्रिमदेशे दक्षिणोत्तरे दैत्यदेवस्थाननिकटेऽयं प्रत्यक्षो
- भगोलो नक्षत्राद्यधिष्ठितो मूर्त्तो गोलो विपरीतोऽवधि-
- देशान्तर्गतदेशसम्बन्धी गणितसिद्धः परिवर्तते भ्रमति ।
- तत्रोक्तरीत्या दिनरात्र्योर्वृद्धिक्षयौ न भवत इत्यर्थः त्रि-
- ज्याधिकाराच्चरानयनानुपपत्तेः चरस्वरूपासम्भवाच्च अथ
- विपरीतगोलस्थितिं श्लोकाभ्यां प्रदर्शयति” र० ना० । “ऊने
- भूवृत्तपादे तु द्विज्यापक्रमयोजनैः । धनुर्मृगस्थः सविता
- देवमागे न दृश्यते । तथाच सुरभागे तु मिथुने कर्कटे
- स्थितः । नष्टच्छाये महीवृत्तपादे दर्शनमादिशेत्”
- सू० सि० । “द्विराशिज्या ये क्रान्त्यंशास्तेषां योजनैः
- पूर्वावगतैर्भूपरिधिचतुर्थांशे (१२५६) हीने कृते सति ।
- तुकारान्निरक्षदेशात् यद्योजनान्तरिते देशे देवभाग उत्त-
- रभागे धनुर्मकरराशिस्थोऽर्कस्तद्देशवासिभिर्न दृश्यते ।
- धनुर्मकरस्थेऽर्के तेषां रात्रिः सदा स्यादित्यर्थः । असुर-
- भागे निरक्षदेशाद्दक्षिणप्रदेशे । चः समुच्चयार्थः ।
- तुकारात् तद्योजनान्तरितप्रदेशे मिथुने कर्कराशौ
- स्थितोऽर्कस्तथा तद्देशवासिभिर्न दृश्यते । नष्टच्छाये-
- महीवृत्तपादे । अभावं प्राप्ता छाया भूच्छाया यत्र तादृशे
- भूपरिधिचतुर्थांशे १२५६ सूर्य्यस्य दर्शनं सदा कथवेत् ।
- यत्र भूच्छायात्मिका रात्रिर्नास्ति तत्र दिनमित्यर्थः । तथाच
- निरक्षदेशात् तद्योजनान्तरितदक्षिणप्रदेशे धनुर्मकरस्थो-
- ऽर्को दृश्यत इति फलितार्थः । अतएव । “त्र्यंशयुङ्-
- नवरसाः ६९ । १२ पलांशका यत्र तत्र विषये कदाचन ।
- दृश्यते न मकरो न कार्मुकं किञ्च कर्किमिथुनौ
- सदादितौ” इति भास्कराचार्योक्तं सङ्गच्छते
- (तथाचात्र दशमासादिनं द्वौमासौ रात्रिः) अथान्यत्रापि
|
- विपरीतस्थितिं श्लोकाभ्यां दर्शयति” र० ना० । “एकज्याप-
- क्रमानीतैर्योजनैः परिवर्जितैः । भूमिदक्षाचतुर्थांशे
- व्यक्षाच्छेषैस्तु योजनैः । धनुर्मृगालिकुम्भेषु संस्थितोऽर्को
- न दृश्यते । देवभागेऽसुराणां तु वृषाद्ये भचतुष्टये”
- सू० सि० । “एकराशिज्यायाः क्रान्त्यंशेम्यो भूपरिधि-
- चतुर्थांशे हीने कृते सति निरक्षदेशादवशिष्टैर्योजनैः ।
- तुकारादन्तरिते देशे देवभाग उत्तरभागे धनुर्मकरवृश्चिक-
- कुम्भराशिषु स्थितः मूर्यस्तद्देशवासिभिर्न दृश्यते ।
- असुराणां दैत्यानां निरक्षदेशात् तद्योजनान्तरितदक्षिणभागे
- वृषादिके राशिचतुष्टयोस्थताऽर्कस्तद्देशवासिभिर्न दृश्यते ।
- तुकारादुत्तरभागे वृषा दचतुष्टयस्थितोऽर्कस्तद्देशवासिंभ-
- र्दृश्यते वृश्चिकादिचतुष्टयस्थितोऽर्को दक्षिणभागे तद्देश-
- वासिभिर्दृश्यत इत्यर्थः । अतएव “यत्र साङ्घ्रिगजवाजि-
- सम्मिता ७८ । १४, स्तत्र वृश्चिकचतुष्टयं न च । दृश्यते
- च वृषभाच्चतुष्टयं सर्वदा समुदितं हि लक्ष्यते” इति
- भास्कराचार्योक्तं सङ्गच्छते (तथाचात्र अष्टौमासादिनं
- मासचतुष्कं रात्रिः) अथ शून्यराशिक्रान्त्यानीतयोजनेभ्योऽव-
- गतमेर्वग्रभागयोरपि स्थिति वैलक्षण्यमाह” र० ना० । “मेरौ
- मेषादिचक्रार्ध देवाः पश्यत्ति भास्करम् । सकृदेवोदितं
- तद्वदसुराश्च तुलादिगम्” सू० सि० । “मेरावुत्तराग्रावस्थिता
- देवा मेषादिचक्रार्धे मेषादिराशिषट्केऽवस्थितमर्कं सकृदेक-
- वारम् । एवकारादनेकवारनिरांसनिश्चयः । उदितमदर्श-
- नानन्तरं प्रथमदर्शनविषयं निरन्तरं पश्यन्ति । असुरा
- मेरुदक्षिणाग्रस्था दैत्याः । चो देवैः स च्चयार्थः । तुलादि-
- राशिषट्कस्थं तद्वत् सकृदुदितं निरन्तरं पश्यन्ति । अथ
- निरक्षदेशादयनसन्धौ कियद्भिर्योजनैरूर्ध्वमर्को भवति
- तदाह” र० ना० ।
- “भूमण्डलात् पञ्चदशे भागे दैवेऽथ बाऽऽसुरे । उपरि-
- ष्टाद्व्रजत्यर्कः सौम्ययाम्यायनान्तगः” सू० स० ॥ “दैवे
- उत्तरभागे । अथवाऽऽसुरे दक्षिणभागे । निरक्षदेशाद्भूप-
- रिधेः पञ्चदशे भागे तत्फल २४ योजनान्तरिते ३३६ देशे
- क्रमेण सौम्ययाम्यायनान्तग उत्तरायणान्तदक्षिणायनान्त-
- स्थितोऽर्क उपरिष्टादूर्ध्वं व्रजति परिभ्रमति । यथा
- गोलसन्धौ निरक्षदेशे तथात्र भागद्वय इति फलितार्थः ।
- अत्रोपपत्तिः । अयनान्तस्थे परमक्रान्तिश्चतुर्विंशत्यंशास्त-
- द्योजनानि ३३६ “भूवृत्तं क्रान्तिभागघ्नं भगणांशविभाजि-
- तम्” इत्यत्र चतुर्विंशतिमितगुणभगणाशमितहरौ गुणे-
- नापवर्त्य हरस्थाने पञ्चदशेति भूमण्डलात् पञ्चदशं भाग
|
पृष्ठ २४१९
- इत्युक्तमुपपन्नम्” र० ना० ॥ अथ निरक्षदेशाद्भूपरिधि-
- पञ्चदशभागपर्यन्तं (२४) मूर्यस्य दक्षिणोत्तरतो
- गमनमुक्त्वा तच्छायागमनं प्रतिपादयति” र० ना० । “तदन्तरा-
- लयोश्छाया याम्योदक् सम्भवत्यपि । मेरोरभिमुखं याति
- परतः स्वविभागयोः” सू० स० । “तदनन्तरालयोर्निरक्षदेशात्
- पञ्चदशभागमध्यस्थितदक्षिणोत्तरदेशयोश्छाया द्वादशा-
- ङ्गुलशङ्कोर्मध्याह्नच्छायाभीष्टकालिकच्छायाग्रं वा दक्षिणा-
- ग्रमुत्तराग्रं वा सम्भवति । एतदुक्तं भवति निरक्षदेशात्
- पञ्चदशभागान्तरालोत्तरदेशे मध्याह्ननतांशानां दक्षिणत्वे
- छायाग्रमुत्तरम्, उत्तरत्वे छायाग्रं दक्षिणम् । एवं
- निरक्षदेशात् पञ्चदशभाग न्तरालस्थितद क्षणदेशे सूर्यस्योत्तर-
- स्थत्वे छायाग्रं द क्षणं दक्षिणस्थत्वे छायाग्रमुतरमिति ।
- परतः पञ्चदभागान्तरालदेशे स्वविभागयोर्दक्षिणोत्तर-
- विभागयोर्मेरोरभिमुखं मेवग्रयोः सम्मुखं क्रमेण दक्षि-
- णाग्रमुत्तराग्रं यथा स्यात् तथेत्यर्थः । छाया याति
- गच्छति भवतीत्यर्थः । अपिशब्दः पूर्वार्धार्थेन समुच्चया-
- र्थकः । अथ “कथं पर्येति भुवनानि विभावयन्निति प्रश्नस्यो-
- त्तरं श्लाकाभ्यामाह” र० ना० ॥ “भद्राश्वोपरिगः कुर्याद्भारते
- तूदयं रविः । रात्र्यर्धं केतुमालेतु कुरावस्तमयं तदा
- भारतादिषु वर्षेषु तद्वदेव प रभ्रमन् । मध्योदयार्धरात्र्य-
- स्तकालान् कुर्यात् प्रदक्षिणम्” सू० सि० ॥ “भद्राश्ववर्षोपरि-
- गतः सूर्योभारतवर्षे स्वेदयं कुर्यात् । तुकाराद्भद्राश्ववर्षे
- मात्याह्नं कुर्यात् । तदा तस्मिन् काले केतुभालवर्षेऽर्धरात्रं
- कुरौ कुरुवर्षेऽस्तमयं स्वास्तं कुर्यात् । तुकारादुक्तवर्षयो-
- रन्तराले दिनस्य गतं शेषंवा रात्रेश्च तद्यथायोग्यं
- कुर्या दत्यर्थः । अतिस्थूलदेशग्रहणे यथाश्रुतमिदं मध्यं
- किञ्चित्सूक्ष्मदेशग्रहणे तु यमकोटिलङ्कारोमकसिद्धपुरा-
- ण्यत्तर्गतानि तच्छब्दवाच्यानि ज्ञेयानि । “लङ्कापुरेऽर्कस्य
- यदोदयः स्यात् तदा दिनार्धं यमकोटिषुर्याम् । अधस्तदा
- सिद्धपुरेऽस्तकालः स्याद्रोमके रात्रिदलं तदैव” इति
- भास्कराचार्योक्तं भूगोले उक्तनगरीणां भूपरिधिच-
- तुर्थांशात्तरत्वात् सङ्गच्छते । अथ भारतादिषु त्रिषु वर्ष-
- सञ्ज्ञेषु भारतकेतुमालकुरुवर्षेषु तद्वद्भद्राश्ववर्षोपरिग-
- वत् । एवकारात् तन्न्यूनाधिकव्यवच्छेदः । परिभ्रमन्
- परिभ्रमेण स्वस्वाभिमतस्थानोपरिस्थितिं कुर्वन् सूर्यः प्रद-
- क्षिणं यथा स्यात् तथा सव्यक्रमेण स्वस्थाना दक्रमेणेति
- यावत् । उक्तचतुर्वर्षेषु मध्योदयार्धरात्र्यस्तकालान्मध्या-
- ह्नोदपार्धरात्र्यस्तसञ्ज्ञान् कालान् कुर्यात् । एतदुक्तं
|
- भवति । भारतर्षोपरिगतेऽर्के भारतकेतुमालकुरुभ-
- द्राश्ववर्षेषु क्रमेण मध्याह्नसूर्योदयार्धरात्रास्ताः स्युः ।
- केतुमालवर्षेपरिगतेऽर्के केतुमालकुरुभद्राश्वभारतवर्षेषु
- क्रमेण मध्याह्नमूर्योदयार्धरात्रास्ताः । कुरुवर्षोपरि
- गतार्के कुरुभद्राश्वभारतकेतुमालवर्षेषु कमेण मध्याह्न-
- सूर्योदय र्धरात्रास्ता भवन्तीति” र० ना० ॥ ननु
- ग्रहाणा गतिसद्भावात् प्रतिदेशं याम्योत्तरयोर्ग्रहगमनं
- प्रतिक्षणं च विलक्षणं भासतां परन्तु नक्षत्राणां गत्य-
- भावात् प्रतिक्षणं भ्रमेणैकत्रावस्थानाभावेऽपि प्रतिदेशमेक-
- रूपावस्थानं कुतो न? । एवं ध्रुवयोः परिभ्रमस्याप्यभावात्
- सदा सर्बत्रैकरूपावस्थानदर्शनापत्तिश्चेत्यत आह” र० ना० ।
- “ध्रुवोन्नतिर्भचक्रस्य नतिर्मेरुं प्रयास्यतः । निरक्षाभि-
- मुखं यातुर्विपरीते नतोन्नते” सू० सि० ॥ “मेरुं
- मेरोरुत्तराग्रं दक्षिणाग्रं वा तदभिमुखं प्रयास्यतो
- गच्छतः पुरुषस्य ध्रुवोन्नतिः क्रमेणोत्तरदक्षिणयांर्ध्रुवयो-
- रौच्च्यं भवति । भचक्रस्य नक्षत्राधिष्ठितगोलमध्यभाग-
- वृत्तस्य नतिः क्रमेण दक्षिणोत्तरयोर्नतत्वं भवति । मेरो-
- र्निरक्षदेशाभिमुखं गच्छतः पुरुषस्य नतोन्नते पूर्वेक्ते व्यस्ते
- भवतः । उत्तरभागस्थपुरुषस्य निरक्षाभिमुखं गच्छतः
- पूर्वोक्तस्थानापेक्षयोत्तरघ्रुवस्य नतत्वं पूर्वस्थानापेक्षया
- भचक्रस्योन्नतत्वम् । एवं दक्षिणभागस्थपुरुषस्य निरक्षा-
- भिमुखं गच्छतः पूर्वस्थानापेक्षया दक्षिणध्रुवस्य नतत्वं
- भचक्रस्योन्नतत्वमिति” ।
- अथ कुत एवमित्यतः “कथं पर्य्योति भगणः सग्रहोऽयं
- किमाश्रयः” प्रश्नस्योत्तरं भचक्रभ्रमणवस्तुस्थितिमाह”
- र० ना० । “भचक्रं ध्रुवयोर्बद्धमाक्षिप्तं प्रवहानिलैः ।
- पर्य्येत्यजस्रं तन्नद्धा ग्रहकक्षा यथाक्रमम्” सू० सि० ।
- “भचक्रं नक्षत्राधिष्ठितभूर्त्तगोलरूपं ध्रुवयोर्दक्षिणोत्तर-
- स्थिरतारयोर्बद्धं ब्रह्मणा निबद्धं नियतवायुगतिना गोला-
- कारेण प्रतिबद्धं प्रवहानिलैः प्रवहवाय्वंशैः स्वस्वस्थान-
- स्थैक्षिप्तं स्वस्वस्थानामिघातं प्राप्तं सदजस्रं निरन्तरं
- पर्येति । पश्चिमाभिमुखं भ्रमतीत्यर्थः । ननु नक्षत्रचक्रं
- वायुना भ्रमति ग्रहास्त्ववोऽधःस्थाः सम्बन्धाभावात् कथं
- भ्रमन्तीत्यत आह तन्नद्धा इति । ग्रहाणां शन्यादीनां
- कक्षा मार्गा वाय्वंशरूपा भचक्रान्तर्गता आकाशस्था
- यथाक्रममधोऽधस्तन्नद्धा महाप्रवहवायुगोलस्थापितभचक्रे
- वायुसूत्रेण निबद्धा अतो भचक्रेण सह भ्रमन्ति
- तत्रस्था ग्रहा अपि भ्रसन्तीति किं चित्रम् । तथाच
|
पृष्ठ २४२०
- प्रवहवायुगोलमध्यस्थविषुवद्वृत्तपर्वापरनिरक्षदेशे ध्रुवयोः
- क्षितिजस्थत्वाद्भचक्रस्य मस्तकोपरिभ्रमणाच्च मेर्वग्राभि-
- मुखं प्रयातुर्ध्रुव उच्चो भवति । तत आसन्नात्वाद्भचक्रं
- नतं भवति । ततो दूरत्वाद्ध्रुवो नत्वाभचक्रमुन्नतं भवतोति
- सर्वं युक्तम् । “सुरासुराणामन्योन्यमहोरात्रं विपर्य्ययात्”
- “किमर्थं वा कथं वा स्यादिति” । “पित्र्यं मासेन
- भवतीति” प्रश्नयोरुत्तरमाह” र० ना० । “सकृदुद्गतम-
- ब्दाधें पश्यन्त्यर्कं सुरासुराः । पितरः शशिगाः पक्षं
- स्वदिनं च नरा भुवि” सू० सि० । “यथा देवदैत्या
- एकवारमुदितं सूर्यं सौरवर्षार्द्धपर्यन्तं पश्यन्ति । तथा पित
- रश्चन्द्रविम्बगोलोध्वेस्थिताः पक्षं पञ्चदशतिथिपर्यन्तं
- पश्यन्ति । नरा भूमौ स्वदिनपर्यत्तमर्कं पश्यल्यतः “पित्र्यं
- मासेन भवति नाडीषष्ट्या तु मानुषम्” । इति सर्वं युक्तम् ।
- अतएव “विधूर्ध्वभागे पितरो वसन्तः स्वाधः सुधादीधिति
- मामनन्ति । पश्यन्ति तेऽर्कं निजमस्तकोर्ध्वे दर्शे
- यतोऽस्माद्द्युदलं तदैषाम् ॥ भार्धातरत्वान्न विधोरधःस्थं
- तशान्निशीथः स्वलु पौर्णमास्याम् । कष्णे रविः पक्ष-
- दलेऽभ्युदेति शुक्लेऽस्तमेत्यर्थत एव सिद्धम्” इति भास्क-
- राचार्येण । बस्तीर्योक सङ्गच्छते । अथ प्रसङ्गादूर्ध्वस्थ-
- स्याल्पभगणानामधःस्थस्याधिकभगणानां युक्त्या प्रति-
- पादनार्थं प्रथमं कक्षाया ऊर्ध्वाषःक्रमेण महदल्पत्वं तत्र-
- स्थभागामां महदल्पपदेशत्वं चाह” र० ना० । “उपरिस्थस्य
- महती कक्षाऽल्पाधःस्थितस्य च । महन्या कक्षया भागा
- महालोऽल्पास्तथाल्पया” सू० सि० ॥ “ऊर्ध्वस्थस्य
- ग्रहस्य कक्षा वायुवृतमार्गरूपा महती महापरिधिप्रमा-
- णा । अधःस्थस्य प्रहस्य कक्षा अल्पाऽल्पपरिधिपगाणा ।
- चो निश्चयार्थे । लघुकक्षाणां महाकक्षान्तर्गतत्वेन
- महाकक्षाणां चात्तर्गतलघुकक्षात्मनोर्ध्वावःस्थयोर्महदल्प
- परिधिके कक्षे अन्यर्थोक्तस्वरूपानुपपत्तेः । एवं
- महति वृत्तपरिधौ द्वादशराशिभागानां समत्वेनाङ्कने
- भागा एकैकभागप्रदेशा महत्या कक्षया कृत्वा महान्तो
- बहुस्थलात्मकाः, लघुनि वृत्ते तदङ्कने तथा भागा अल्पया
- कक्षया कृत्वाल्पा अल्पस्थलात्मकाः । क्रमेणैकैकभागप्रमाण-
- मधिकाल्पं न सम चक्रांशपूर्त्यनुपपत्तेरिति तात्पर्यम् ।
- अथोर्ध्वाधःक्रमेण ग्रहभगणभेगकीलयोर्महदल्पत्वमाह”
- र० ना० “कालेनाल्पेन भगणं भुङ्क्तेऽल्पभ्रमणाश्रितः ।
- ग्रहः कालेन महता मण्डले महति भ्रमन्” सृ० सि० ।
- “अल्पभ्रभणाश्रितः । अल्पं भ्रनणं परिधिमानं यस्याः
|
- साल्पभ्रमणाऽवास्थकक्षा । तत्स्थो ग्रहोऽल्पेन समयेन
- भगणं द्वादशराश्यात्मकं भुङ्क्तेऽतिक्रमते । महति
- मण्डले ऊर्ध्वस्थकक्षायामित्यर्थः । भ्रमन् गच्छन् महता
- बहुना समयेन द्वादश राशीन् भुङर्क्त वक्ष्यमाणयो-
- ज गतेरभिन्नत्वात् । अथातएवोर्ध्वावःक्रमेण ग्रहयो-
- र्भगणास्तुल्यकालेऽल्पा बहवो भवन्तोति सेदाहरणमाह”
- र० ना० “स्वल्पयाऽतो बहून् भुङ्क्ते भगणान् शीतदीधितिः ।
- महत्या कक्षया गच्छन् ततः स्वल्पं शनैश्चरः” सू० सि० ।
- स्वल्पपमाणया कक्षया । तुकारादतिक्रामंश्चन्द्रो बहुप्रमा-
- णान् भगणान् बहुवारं द्वादश राशीनित्यर्थः । भुङक्ते ।
- महाप्रमाणया कक्षया गंच्छन् शनिस्ततश्चन्द्रात् स्वल्प
- भगणमल्पपमाणान् भगणान् जात्यभिप्रायेणैकवचनम् । अल्प-
- वारं द्वादश राशीन् भुङ्क्ते । अतएघ शनैश्चर इत्युक्तम्
- अथ “ग्रहर्क्षकक्षाः किंम त्राः” इति प्रश्नस्योत्तरं विवक्षुः
- प्रथमं नक्षत्राणां कक्षामानमाह” र० ना० “भवेद्भकक्षा
- तिग्मांशीर्भ्रमणं षष्टिताडितम् । सर्वोपरिष्टाद्भमति
- योजनैस्तैर्भमण्डलम्” सू० स० । सूर्यस्य भ्रमणं कक्षा-
- परिधिमानं योजनात्मकम् “खखार्थैकसुरार्णवाः”
- इति वक्ष्यमाणं ४३३१५०० षष्ट्या गुणितं २५९८९००००
- सन्नक्षत्राणां कक्षा नक्षत्राविष्ठितगोलस्य मध्यवृत्तं स्यात् ।
- तैर्तक्ष कक्षामितैर्योजनैर्भमण्डलंनक्षत्राधिष्ठितगोलमध्यवृत्तं
- र्सोपरिष्टाच्चन्द्रादिसप्तग्रहेभ्य उपरि दूरं भ्रमति भूगो-
- लादभितः पम्भ्रिमति । अत्रेपपत्तिः । नक्षत्राणां गत्य-
- भावाच्छनेरप्यत्यूर्ध्वं नक्षत्रमण्डलं तत्र यदि सूर्यगत्या
- सूर्यकक्षा तदा नक्षत्रगत्यभावेऽप्येककलागतिकल्पनयानु-
- पातान्यथानुपपत्तितया “कल्प्यो हरो रूपमहारराशेः”
- इतीच्छाह्रामे फलवृद्ध्यपेक्षितत्वाद्व्यस्तानुपातो लाघवात्
- सूर्यगतिः षष्टिकलामिता च भगवता कृता । नक्षत्रगते-
- रभावाच्चेति षष्टिताडितमित्युपपन्नम् । अथ ग्रहक-
- क्षाणां मानज्ञानार्थमाकाशकक्षामानम् “कियतीतत्कर-
- व्याप्तिः” इति प्रश्नस्योत्तरमाह र० ना० “कल्पोक्तं चन्द्रभ-
- गणा गुणिताः शशिकक्षया । आकाशकक्षा सा ज्ञेया
- करव्याप्तिस्तथा रवेः” सू० सि० । “कल्पोक्तन्धन्द्रभगणाः
- “एते सहह्रगुणिताः कलपे स्युर्भगणादयः” इत्युक्त्वां
- युगचन्द्र गणाः ५७७५३३३६, सहस्रगुणिताः
- ५७७५३३३६०००, कलपचन्द्रमगणा” इत्यर्थः । चन्द्रकक्षया
- “स्यत्रयाब्धिद्धिदहना” इति ३२४०००, वक्ष्यमाणया गुणिता
- तद्मिताकाशस्य कक्षा १८७१२०८०८६४००००००, परिधि-
|
पृष्ठ २४२१
- रूपा ज्ञेया । धीमतेनि शेषः । नन्वनन्ताकाशस्य कथं
- प रधिरित्यत आह । करव्याप्तिरिति । सूर्यस्य किरण-
- प्रचारस्तयाकाशकक्षापरिमित इत्यर्थः । तथाच यद्देशा-
- वच्छेदेन सूर्यकिरणप्रचारस्तद्देशावच्छिन्नाकाशगोलस्य
- ब्रह्माण्डकटाहान्तर्गतस्य परिधिमानं सम्भवत्येवेति भावः ।
- अत्रोपपत्तिः । समनन्तरमेव यद्भगणभक्ता खकक्षा तस्य
- कक्षा स्यादित्युक्तेर्भगणकक्षाघाता खकक्षा सिद्धा ।
- अतश्चन्द्रभगणकक्षयोर्वातः खकक्षातुल्य एवेति दिक् । अथ
- ग्रहाणां कक्षानयनं योजनगत्यानयनं चाह” र० ना० “सैव
- यत्कल्पभगणैर्भक्ता तद्भ्रमणं भवेत् । कुवासरैर्विभज्याह्नः
- सर्वेषां प्राग्गतिः स्मृता” सू० सि० । “सार्ककरव्याप्ति-
- रूपाकाशकक्षा यत्कल्पमगणैर्यस्य कलपभगणैर्भक्ता फलं
- तस्य कक्षा भवेत् । एवकारो निश्चयार्थे । खकक्षा
- कल्परविसावनैर्भक्ता प्राप्तं फलं सर्वेषामुक्तभगणसम्ब-
- न्धिनां ग्रहादीनामह्नो दिवसस्य दिनसम्बन्धिनीत्यर्थः ।
- प्राग्गतिर्योजनात्मिका कथिता । अत्रोपपत्तिः । कल्प-
- भगणकक्षावातरूपाकाशकक्षा कल्पभगणभक्ता कक्षा
- स्यादेव । कल्पे खकक्षामितयोजनानि ग्रहः कमतीति
- यदि कल्परविसावन दनेराकाशकक्षामितयोजनानि
- तदेकरपिसावनदिनेन कानी यनुपातेन पूर्वगतिर्योजनात्मिका
- प्रत्यहं तुल्येत्युपपन्नम् । अथ योजनात्मकगतेः कलात्य-
- कग तं स्वीयामाह” र० ना० “भुक्तियोजनजा सङ्ख्या सेन्द्रो-
- भ्रेमणसङ्गुणा । खकक्षप्ता तु सा तस्य तिथ्याप्ता
- गतिलिप्तिकाः” सू० सि० । गतियोजनोत्पन्ना या सङ्ख्या चन्द्रस्य
- भ्रनणसङ्गुणा कक्षया ३०४०००, गुणिता खकक्षयाप्नाभि-
- मतग्रहस्य कक्षवा भक्ता सा फलरूपा तिथ्याप्ता पञ्च-
- दशभक्ता । तुकारात् फलं तस्याभिमतग्रहस्य गतिकला
- भवन्ति । अत्रोपपत्तिः । यदि कक्षायोजनैश्चकृ २१६००,
- कलास्तदा गतियोजनैः का इत्यनुपातेन गतिकलाः ।
- तत्रापि चन्द्रकक्षा ३२४०००, पञ्चदशभक्ताश्चक्रकला
- २१६००, इति चक्रकलास्वरूपं धृतमित्युपपन्नम् । अथ
- किमुत्मेधा इति प्रश्नस्योत्तरमाह र० ना० “कक्षा भूकर्ण-
- गुणिता महीमण्डलभाजितः । ततकर्णा भूमिकर्णोना
- एहौच्च्यं स्वं दलीकृताः” सू० नि० । “ग्रहाणां
- योजनात्मिका कक्षा भूकर्णेन “योजनानि शतान्यष्टौ भूकर्णो
- द्विगुणानि च” इत्युक्तभूव्यासेन षोडशशतेः(स्थूलेन)गुणिता
- भूपरिधिना (५०२६, १४२५, स्थूलेन) तदागतेन भक्ता
- फलं तम्याः कक्षायाः कर्णा व्यासा भवन्ति । एते भूव्यासेन
|
- हीना अर्धिताः सन्तः स्वगृहीतव्याससम्बन्धिग्रहौच्च्यं
- ग्रहस्योच्चता भूमेः सकाशाद्भवति । अत्रोपपत्तिः । यदि
- भूपरिधिना भूव्यासस्तदा कक्षायोजनैः क इत्यनुपातेन
- कक्षाव्यासास्तेऽर्धिताः कक्षाव्यासार्धं भूगर्भकक्षापरिधि-
- प्रदेशान्तरालरूपं भूपृष्ठात् तदन्तरज्ञानार्थं भूव्यासार्धेन
- हीनं भूपृष्ठात् कक्षौच्च्यं तत्र कक्षाव्यासा भूव्यासोना
- अर्धिताः कृता उभयथा समत्वात् । कक्षौच्च्यमेव
- ग्रहौच्च्यं ग्रहस्य तत्राधिष्ठानादिति । एतेन सिद्धग्रहौ-
- च्च्येभ्यः परस्परान्तरज्ञानं सुगममिति श्रीपति वाक्ये
- (तन्मानं वक्ष्यमाण स्पष्टम्) किमन्तरा इति प्रश्नस्योत्तरं
- स्वतः सिद्धमेवेति दिक् । अथोर्ध्वक्रमेण सिद्धाः कक्षा विवक्षु
- प्रथमं चन्द्रस्य कक्षां बुधशीघ्रोच्चकक्षां चाह । “खत्रयाब्धि-
- द्विदहनाः कक्षा तु हिमदीधितेः । ज्ञशीघ्रस्याङ्कखद्वि-
- त्रिकृतशून्येन्दवस्ततः” सू० सि० । “चन्द्रस्य कक्षा सहस्र-
- गुणितसिद्धरामाः ३२४००० । तुकारादागमप्रामाण्येनाङ्गी-
- कार्या । अन्यथान्योन्याश्रयापत्तेस्ततश्चन्द्रादूर्ध्वं बुधशी-
- घ्रोच्चस्य कक्षा नवखदन्तवेद दशः १०५३२०९ । यद्यपि
- बुधशीव्रोच्चमाकाशे प्रत्यक्षं नेति तत्कक्षोक्तिरयुक्ता तथा प
- बुधशीघ्रोच्चः गणानीतकक्षायां गत्यनुरोधेन चन्द्रेर्ध्वगायां
- बुधो भ्रमति । पूर्वं सूर्यशुक्रेन्दुजेन्दवः” इति क्रमोक्तेः ।
- अन्यथा भगणैक्यादेककक्षायां रविबुधशुक्राणामवस्थितौ
- मण्डलभङ्गापत्तेरिति सूचनार्थमुक्ता । अथ शुक्रशीघ्रो-
- च्चस्य कक्षां सूर्यबुधशुक्राणामभिन्नां कक्षां चाह” र० ना०
- “शुक्रशीघ्रस्य सप्ताद्रिरसाब्धिरसषड्यमाः । ततोऽर्क-
- बुवशुक्राणां खखार्थैकसुरार्णवाः” सू० सि० । “तृध्व
- शुक्रशीघ्रोच्चस्य कक्षाऽश्वाद्र्यङ्गवेदषट्रसपक्षाः २६६४६७७
- शुक्रावस्थानसूचनार्थमुक्ता । ततस्तदूर्ध्वं मूर्यबुधशुक्राणां
- भगणैक्यादभिन्ना कक्षा खखपञ्चभूदेवाब्धयः ४३३१५०० ।
- यद्यपि बुधशुक्रयोः सूर्याधःस्थत्वात् केवलं सूर्यत्रक्षो वक्तुमुचिता
- तथापि यदि एतया फक्षयैको भगणस्तदा कल्परविसावन-
- दिनैः स्ववक्षामितयोजनानि तदाहर्गणेन कानीत्यमुपा-
- तागतयोजनैः क इत्यनुपातेन सूर्यबुधशुक्राणामभिनुत्व-
- सिद्व्यर्थं बुधशुक्रयोरप्युक्ता अन्यथा समत्वानुपपत्तरिति ।
- अथ भौमस्य कक्षां चन्द्रमन्दोच्चस्य कक्षां चाह” र० ना०
- “कुजस्याप्यङ्कशून्याङ्कषड्वेदैकभुजङ्गमाः । चन्द्रोच्चस्य
- कृताष्टाब्धिवसुद्वित्र्यष्टवह्नयः” सू० सि० । “भौमस्य ।
- अपिशब्दात् मूर्यादूर्ध्वकक्षा नबखनपषडिन्द्रसर्पाः
- ८१४६९०९ । चन्द्रप्रन्दोच्चस्य कक्षा वेदाहिवेदसर्पपक्ष-
|
पृष्ठ २४२२
- रामनागरामाः ३८३२८४८४ । इयमप्याकाशे न दृश्या
- तथापि गतयोजनैश्चन्द्रोच्चज्ञानायोक्ता । अथ गुरुराह्वोः
- कक्षे आह, र० ना० । “कृतर्तुमुनिपञ्चाद्रिगुणेन्दुविषया गुरोः ।
- स्वर्मानोर्वेदतर्काष्टद्विशैलार्थखकुञ्जराः” सू० सि० । “वृह-
- स्पतेर्भौमाच्चन्द्र च्चाद्वोर्ध्वं कक्षा वेदाङ्गमुनिपञ्चस्वरराम
- चन्द्रशराः ५१३७५७६४ । राहोः कक्षा वेदाङ्गगजयम-
- सप्तपञ्चाशीतयः ८०५७२८६४ । इयमदृश्यापि राहो-
- र्गतियोजनैर्ज्ञानार्थमुक्ता । अत्रापि पातस्य चक्रशुद्धत्वमव-
- धेयम् ॥ अथ शनेः कक्षां नक्षत्राधिष्ठितमूर्तगोलमध्यकक्षां
- चाह र० ना० । “पञ्चबाणाक्षिनागर्तुरसाद्र्यर्काः शनेस्ततः ।
- भानां रविखशून्याङ्कवसुरन्ध्रशराश्विनः” सू० सि० । “ततो
- वृहस्पतेराहोर्वोर्ध्वं शनेः कक्षा पञ्चपञ्चद्व्यष्टषट्-
- रससप्तार्काः १२७६६८२५५ । नक्षत्राणां
- गोलमध्ये कक्षा शनेरूर्ध्वं द्वादशनवशताष्टनवतितत्त्वानि
- २५९८९००१२ । यद्य प “भवेद्भकक्षा तीक्ष्णंशोर्भ्रमणं
- षष्टिताडितम्” इत्यनेनोक्त भकक्षाया द्वादशान्तरितत्वादयु-
- क्तत्वं तथापि “सैव यत्कल्पभगणैः” इत्यनेन सूर्यकक्षाया
- उक्त्या द्वादशाधोऽवयवस्य निबन्धने त्यागेऽपि भकक्षर्थं
- भगवता गृहीतत्वाददोषः । एतेनाधोऽवयवस्यार्धन्यून-
- त्वन त्यागोऽर्धाभ्यधिकत्वेनोर्ध्वमेकाधिकग्रहणं कक्षानि-
- बन्धेन कृतमि त सूचितम् । ननु चन्द्रकक्षाया
- आगमप्रामाण्येनाङ्गीकारे सर्वकक्षाणामागमप्रामापयापत्त्या “सैव
- यत्कल्पभगणैर्भक्ता तद्भ्रमणं भवेत्” इति कक्षानयनं
- व्यर्थम् । अन्यथाकाशकक्षाज्ञानासम्भवापत्तेरित्यत
- आकाशकक्षैरागमप्रामाण्येनाङ्गीकार्येति वसन्ततिलकेनाह”
- र० ना० । “खव्योमखत्रयखसागरषट्कनागव्योमाष्ट-
- शून्ययमरूपनगाष्टचन्द्राः । व्रह्माण्डसम्पुटपरिभ्रमणं
- समन्तादभ्यतरे दिनकरस्य करप्रसारः” सू० सि० ॥
- १८७१२०८०८६४०००००० मितयोजनानि” र० ना० ।
- कक्षादीनां योजनमानभेदेऽनुपदं वक्ष्यमाणस्य सि० शि०
- वाक्यस्य सूक्ष्मत्वादविरोधः) । खगोले अगस्त्यादीनां
- स्थानदेशमाह यथा
- “अशीतिभागैर्याम्यायामगस्त्यो मिथुनान्तगः । विंशे च
- मिथनस्वांशे मृगव्याधो व्यवस्थितः । विक्षपो दक्षिणे
- भागैः खार्णवैः स्वादपक्रमात् । हुतभुग्ब्रह्महृदयौ
- वृषे द्वाविंशभागगौ । अष्टाभिस्त्रिंशता चैव विक्षिप्ता-
- वुत्तरेण तौ । गोलं बद्ध्वा परीक्षत पिक्षपं ध्रुवकं
- स्फुटम्” सू० सि० “स्वकीयात् क्रान्तिविभागस्थानात्
|
- (२४) दक्षिणस्यामशीत्यंशैस्तारात्मकोऽगस्त्यो मिथुनान्तगः
- कर्काद्यभागे स्थितः । अगस्त्यनक्षत्रस्य राशित्रयं (९०)
- ध्रुवकः । दक्षिणविक्षेपोऽशीतिरित्यर्थः । मृगव्याधो
- लुब्धको मिथुनराशेर्विंशतिभागे (८०) स्थितः । चकारः
- समुच्चये । लुब्धकनक्षत्रस्य रात्रिद्वयं विंशतिभागा ध्रुवक
- इत्यर्थः । दक्षिणस्यां चत्वारिंशता भागैः परिमितस्तस्य
- च क्रान्तिवृचस्थानाधिक्षपः । वृषराशौ वह्निब्रह्महृदयौ
- द्वाविंशभागे स्थितौ (५०) वह्निब्रह्महृदयनक्षत्रयोर्घाविंश
- तभागाविकैकराशिर्ध्रुवकः । तौ वह्निब्रह्महृदयौ । अष्टा-
- भिस्त्रिंशता । चकारः क्रमार्थे । एवकारो न्यूना-
- धिकव्यवच्छदार्धः । उत्तरेणोत्तरस्यामित्यर्थः । विक्षिप्तौ
- विक्षेपवन्तौ । वह्नेर्बिक्षेपोऽष्टभाग उत्तरः । ब्रह्महृदय-
- स्योत्तरो विक्षेपस्त्रिंशदित्यर्थः । नन्वेते ध्रुवाविक्षपाश्च
- कालक्रमेण नयता अनियता वेत्यत आह
- नोलमिति । गोलं वक्ष्यमाणं बद्ध्वा वशशलाकादिभिर्निबध्य
- स्फुटं विक्षेपं क्रान्तिसंस्कारयोग्यं ध्रुवामिमुखं ध्रुवक
- स्फुटमायनदृक्कर्मसंस्कृतं परीक्षेत । स्वस्वकाले दृग्गो-
- चरसिद्धमङ्गीकुरुत । तथा च क्रान्तिसंस्कारयोग्यविक्षे-
- पायनसंस्कृतध्रुवकयोरयनांशवशादस्थिरत्वादपि मयेदानी-
- न्तनसमयानुरोधेन लाघपार्थमायनदृक्कर्मसंस्कृता ध्रुवाः
- क्रान्तिसंस्क रयोग्यविक्षेपाश्च नियता उक्ताः । काला-
- न्तरे गोलयन्त्रेण वेधस्तु गोलबन्धोक्तविधिना गोलयन्त्रे
- कार्यः” । तत्र खगालस्योपरि भगोलम्, आधारवृत्तस्योपरि
- बिषुवद्वृत्तम् । तत्र यथाक्तं क्रान्तिवृत्तं भगणांशाङ्कितं
- च बद्ध्वा ध्रुवयष्टिकीलथोः प्रोतमन्यच्चलं भवेधवलयम् ।
- तच्च भगणांशाङ्कितं कार्यम् । ततस्तदगोलयन्त्रं सम्यग्-
- ध्रुवाभिमुखयष्टिकं जलसमक्षितिजवलयं च यथा भवति
- तथा स्थिरं कृत्वा रात्रौ गोलमध्यच्छिद्रगतया दृष्ट्या
- रेवतीतारां विलेक्य क्रान्तिवृत्ते मीनान्ताद्दशकलान्तरित-
- पश्चाद्भागे रेवतीतारायां निवेश्यं मध्यगतयैव दृष्ट्याश्विन्या-
- देर्नक्षत्रस्य योगतारां विलोक्य तस्या उपरि तद्व धवलयं
- निवेश्यम् । एवं कृते सति वेधवलयस्य क्रान्तिवृत्तस्य
- च यः सम्पातः स मीनान्तादग्रतो यावद्भिरंशैस्तावन्तस्तस्य
- नक्षत्रस्य ध्रुवांशा ज्ञेयाः । वेधवलये तस्यैव सम्पातंस्य
- योगत रायाश्च यावन्तोऽन्तरेंऽशास्तावन्तस्तस्य यिक्षपांशा
- दक्षिणा उत्तरा वा वेद्याः । अथ रोहिणीशकटभेदमाह”
- र० ना० । “वृषे सप्तदशे भागे यस्य याम्योऽशकद्वयात् ।
- विक्षपोऽभ्यधिको भिन्द्याद्रोहिण्याः शकटं तु सः” सू० सिः
|
पृष्ठ २४२३
- “वृषराशौ सप्तदशेंऽशे यस्य ग्रहस्य भागद्वयाधिको विक्षेपो
- दक्षिणः स ग्रहो रोहिण्याः शकटं शकटाकारसन्निवेशं
- भिन्दात् । तन्मध्यगतो भवेदित्यर्थः । तुकाराद्ग्रहवि-
- क्षेपो रोहिणीविक्षेपादल्प इति विशेषार्थकः । बिक्षेपस्य
- दक्षिणस्य रोहिणीविक्षेपादधिकत्वे शकटाद्बहिर्दक्षिण-
- भागे ग्रहस्य स्थितत्वेन तद्भेदकत्वाभावात् । अत्र
- शकटाग्रिमनक्षत्रस्य ध्रुव एकराशिः सप्तदशांशाः ४७ । दक्षिणः
- शरो भागद्वयमिति वेधसिद्धा स्पष्टा युक्तिः” र० ना० ।
- अथ ब्रह्मसञ्ज्ञकनक्षत्रावस्थानमाह ।
- “पूर्वस्यां ब्रह्महृदयादशकैः पञ्चभिः स्थितः । प्तजापति-
- र्वृषान्तेऽसौ सौम्येऽष्टत्रिंशदंशकैः” सू० सि० । “ब्रह्म-
- हृदयस्थानात् पूर्वभागे पञ्चभिरंशैः प्रजापतिस्तारात्मको
- ब्रह्मा क्रान्तिवृत्ते स्थितः । कुत्रेत्यत आह । वृषान्त
- इति । वृषान्तनिकटे । एकराशिः सप्तविंशत्यंशा ५७ ब्रह्म-
- ध्रुवक इत्यर्थः । अस्य विक्षेपमाह । असाविति ।
- ब्रह्मा उत्तरस्यामष्टत्रिंशद्भागैः स्थितः । अष्टत्रिंशद्भागा
- अस्य विक्षेप इत्यर्थः” र० ना० । “अपांवत्सस्तु चित्रा-
- यामुत्तरेंऽशैस्त पञ्चभिः । वृहत्किञ्चिदतो भागैरापः
- षडभिस्वथोत्तरे” सू० सि० । “चित्रायाः सकाशादपां-
- वत्ससञ्ज्ञकस्तारात्मकः पञ्चभिर्भागैरुत्तरस्यां स्थितः । प्रथ-
- मतुकारश्चित्राध्रुवतुल्यध्रुवकार्थकः । द्वितीयतुकारश्चि
- त्राविक्षेपस्य दक्षिणभागद्वयात्मकत्वादपांवत्सविक्षेप उत्तर-
- स्त्रिभाग इति स्फुटार्थकः । अतोऽपांवत्सात् किञ्चिद-
- ल्पात्तरेण वृहत् स्थूलतारात्मक आपसञ्ज्ञकः । तथाऽ-
- पांवत्सात् षड्भिरंशैरुत्तरस्यां स्थितश्चित्राध्रुवक एवापस्य
- उत्तरो नवांशः” र० ना० ।
- तारास्वरूपादिकम् अश्लेषाशब्दे ४९९ पृ० दर्शितं तेषां
- ध्रुवकविक्षेपरूपशरयोरानयनविधा सू० सि० दर्शिता यथा
- “प्रोच्यन्ते लिप्तिका भानां स्वभोगोऽथ दशाहतः ।
- भवन्त्यतीतधिष्ण्यानां भोगलिप्ता युता ध्रुवाः” सू० सि०
- “भानामश्विन्यादिनक्षत्रणामुत्तराषाढाभिजिच्छ्रवणधनि-
- ष्ठावर्जितानां लिप्तिका भोगसञज्ञाः कलाः प्रोच्यन्ते
- समनन्तरमेव कथ्यन्ते । अथानन्तरं स्वभोगः स्वाभीष्टन-
- क्षत्रभोगः कलात्मको वक्ष्यमाणो दशभिर्गुणितः कार्यः ।
- तत्र स्वाभीष्टनक्षत्रगतनक्षत्राणामश्विन्यादीनां
- भोगलिप्ताः । भभोगोऽष्टशती लिप्ता इत्युक्ताष्टशतकलाः प्रत्येकं
- युताः । अश्विन्याद्यतीतनक्षत्रसङ्ख्यागुणितकलाष्टशतं
- युतमित्यर्थः । ध्रुवा नक्षत्राणां भवन्ति” अथ प्रति-
|
- ज्ञाता नक्षत्रभोगलिप्ता उत्तराषाढाभिजिच्छ्रवणधनि-
- ष्ठाव्यतिरिक्तानां तेषां ध्रुवकान्नक्षत्रशरांश्चाष्टश्लोकैराह”
- र० ना० । “अष्टार्णवाः शून्यकृताः पञ्चषष्टिर्नगेषवः ।
- अष्टार्था अब्धयोऽष्टागा अङ्गागा मनवस्तथा । कृतेषवो
- युगरसाः शून्यवाणा वियद्रसाः । खवेदाः सागरनगा
- गजागाः सागरर्तवः । मनवोऽथ रसा वेदा वैश्वमाप्या-
- र्धभोगगम् । आप्यस्यैवाभिजित्प्रान्ते वैश्वान्ते श्रवण-
- स्थितिः । त्रिचतुःपादयोः सन्धौ श्रविष्ठा श्रवणस्य तु ।
- स्वभोगतो वियन्नागाः षट्कृतिर्यमलाश्विनः । रन्ध्रादयः
- क्रमादेषां विक्षेपाः स्वापदक्रमात् । दिङ्मासविषयः
- सौम्ये याम्बे पञ्चदिशो नव । सौम्ये रसाः खं याम्येऽ-
- गाः सौम्ये खार्कास्त्रयोदश । दक्षिणे रुद्रयमलाः सप्त-
- त्रिंशदथोत्तरे । याम्येऽध्यर्धत्रिककृता नवसार्धशरेषवः ।
- उत्तरस्यां तथा षष्टिस्त्रिंशत् षट्त्रिशदेव हि । दक्षिणे
- त्वर्धभागस्तु चतुर्विंशतिरुत्तरे । भागाः षड्विंशतिः खं
- च दस्रादीनां यथाक्रमम्” सू० सि० । “अश्विन्यादि-
- नक्षत्राणां क्रमाद्भोगा एते । तत्राश्विन्थाम् अष्टचत्वा-
- रिंशत् कलाः भरण्याश्चत्वारिंशत् । कृत्तिकायाः कलाः
- पञ्चषष्टिः । रोहिण्याः सप्तपञ्चाशत् कलाः । मृगशिर-
- सोऽष्टपञ्चाशत् । आर्द्रायाश्चत्वारः । अत्राब्धय इत्यत्र
- गोऽब्धयो गोग्नय इति वा पाठस्त्वयुक्तः शाकल्य-
- संहिताविरोधात् “सौरोक्तरुद्रभस्यांशास्त्र्यद्रयोऽगा-
- ब्धयः कलाः इति नार्मदोक्तं दशकलोनपञ्चदश-
- भागा मिथुने सर्वजनाभिमतध्रुवको दशकलोनपञ्चदश-
- भागाः पर्वताभिमतध्रुवकश्च निरस्तः । पुनर्वसोरष्टस-
- प्ततिः । पुष्यस्य षट्सप्ततिः । अश्लेषायाश्चतुर्द्दश ।
- तथेति छन्दःपूरणार्थम् । मघायाश्चतुःपञ्चाशत् । पूर्व-
- फाल्गुन्याश्चतुःषष्टिः । उत्तरफाल्गुन्याः पञ्चाशत् ।
- हस्तस्य षष्टिः । चित्रायाश्चत्वारिंशत् । स्वात्याः चतुः-
- सप्ततिः । विशाखाया अष्टसप्ततिः । अनुराधायश्चतुः-
- षष्टिः । ज्येष्ठायाश्चतुर्दश । अनन्तरं मूलस्य षट् ।
- पूर्वाषाढ़ायाश्चत्वारः । उत्तराषाढाया ध्रुवकमाह ।
- वैश्वमिति । उत्तराषाढ़ाद्योगतारानक्षत्रम् । आप्यार्ध-
- भोगगम् । आप्यस्य पूर्वाषाढानक्षत्रस्यार्धभोगः
- धनूराशेर्विंशतिभागस्तत्र स्थितं ज्ञेयम् । अष्टौ राशयो
- विंशतिभागा उत्तराषाढ़ायाध्रुवः इत्यर्थः । एतेन पूर्वा-
- षाढ़ायोगतारायाः सकाशादुत्तराषाढ़ायोगतारा विंशति-
- कलोनसप्तभांगान्तरिता । तेन पूर्वाषाढ़ाध्रुवकोऽष्टराशय-
|
पृष्ठ २४२४
- श्चतुर्दश भागा विंशतिकलोनसप्तभागैर्युत उत्तराषाढ़ाया
- ध्रुवश्चत्वारिंशत्कलाधिकोक्तध्रुव इति पर्वतोक्तमपास्तम्
- ब्रह्मसिद्धातविरोधात् । अभि जिद्ध्रुवकमाह । आप्य-
- स्येति । पूर्वाषाढ़ाया अवसाने धनूराशेर्विंशतिकलोन-
- सप्तविंशतिभागेऽभिजिद्योगतारा ज्ञेया । चत्वारिंशत्-
- कलाधिकषड्विंशतिभागाधिका अष्टौ राशयोऽभिजितो
- ध्रुव इत्यथः । एवकारोऽन्ययोगव्यवच्छेदार्थः । तेन
- संहितासम्मतं श्रवणपञ्चदशांशस्थानं विंशतिविकलायुत-
- त्रयोदशकलायुतचतुर्दशभागादिकनवराशयो निरस्तम् ।
- श्रवणस्य ध्रुवकमाह । वैश्वान्त इति । उत्तराषाढ़ाया
- अवसाने श्रवणयोगतारायाः स्थानं ज्ञेयम् । नव राशयो
- दश भागाः श्रवणध्रुवक इत्यर्थः । धनिष्ठाया ध्रुवक-
- माह । त्रिचतुःपादयोरिति । श्रवणस्य तृतीयचतुर्थ-
- चरणयोः क्रमेणान्तादिसन्धौ मकरराशेर्विंशतिभागे
- श्रविष्ठा धनिष्ठा ज्ञेया । नव राशयो विंशतिभागा धनिष्ठा-
- ध्रुव इत्यर्थः । तुकारात् क्षेत्रान्तर्गतधनिष्ठास्थानं कुम्भस्य
- विंशतिकलोनसप्तभागा निरस्तम् । शतताराया
- भोगमाह । स्वभोगत इति । धनिष्ठाभोगात् कुम्भस्य विंश-
- तिकलोनसप्तभागावधेरित्यर्थः । शतताराया अशीति-
- र्भोगः । अतः प्राग्वद्ध्रुव इति ज्ञापनार्थं स्वभोगत
- इत्युक्तम् । शततारायाः स्थानं शततारकध्रुव इति
- पर्यवसन्नम् । अवशिष्टनक्षत्राणां भोगानाह ।
- षट्कृतिरिति । पूर्वभाद्रपदायाः षट्त्रिंशत् कला भोगः ।
- उत्तरभाद्रपदाया द्वाविंशतिः । रेवत्या एकोनाशीतिः ।
- अथ ध्रुवकानयनं यथा । अश्विन्था भोगः । ४८ ।
- दशगुणितः । ४८० । अतीतनक्षत्राभावाद्भोगयोजनाभावः ।
- अतोऽश्विन्याः फलात्मको ध्रुवः ४८० । राश्याद्यस्तु० । ८ ।
- भरण्या भोगः । ० । दशाहतः । ४०० । अतीतनक्षत्र-
- स्यैकत्वादष्टशतयुतो भरण्याः परिभाषया राश्याद्यो ध्रुवः।
- ० । २० । एवमार्द्राभोगः । ४ । दशाहतः । ४० ।
- अतीतनक्षत्राणां पञ्चतया पञ्चगुणिताष्टशतेन । ४००० ।
- चतुःसहस्रात्मकन युतः कलाद्यो ध्रुवः । ४०४० ।
- राश्याद्यस्तु । २ । ७ । २० । एवं पूर्वाषाढ़ाया दशगुणितो
- भोगः । ४० । एकोनविंशतिगुणिताष्टशतेन । १५२०० ।
- युतः परिभाषया राश्याद्यो ध्रुवः । ८ । १४ । शतता-
- रात्या दशगुणितो भोगः । ८०० । त्रयोविंशतिगुणिता-
- ष्टशतिन । १९४०० । युतश्चतुविंशतिगुणिताष्टशतरूपो ।
- १९२०० । जातो ध्रुवो राश्याद्यः । १० । २० । पूर्वभा-
|
- द्रपदाया दशगुणितो भोगः । २६० । चतुविंशतिगुणि-
- ताष्टशतेन । १९२०० । युतो । १९५६० । जातो ध्रुवो
- राश्याद्यः । १० । २६ । उत्तराषाढ़ाभिजिच्छ्रवणधनि-
- ष्ठानां स्वभोगस्थानात् पश्चात् स्थितत्वेनोक्तरीत्यसम्भवाद्भि-
- न्नरीत्या ध्रुवका उक्ताः स्वादिस्थानाद्योगतारा यदन्तर-
- कलाभिस्थितास्ता लाघवाद्दशापवर्तिता भोगसञ्ज्ञा
- उक्ताः । तथा च ब्रह्मसिद्धान्ते “अष्टौ विंशतिरर्घोन
- गजाग्निर्व्यर्धखेषवः । त्रितर्काः सत्रिभागाद्रिरसास्त्र्य-
- ङ्काश्च शट्शतम् ॥ नवाशा नवसूर्याश्च वेदेन्द्राः शरवा-
- णभूः । खात्यष्टिः खधृतिर्गोऽतिधृतिर्विश्वाश्विनस्तथा ॥
- वेदाकृतिर्गोदृग्थस्ताः क्वब्धिहस्ता युगार्थदृक् । खोत्-
- कृतिस्त्र्यंशहीनाश्वरसहस्ताः खहस्तिदृक् ॥ खगोऽ-
- श्विनः खदन्ताः षड्दन्ताः शैलगुणाग्नयः । मेषाद्यश्व्या-
- दिमध्यांशाः षङंशोनाः खषड्गुणाः” ॥ इति । अथ
- नक्षत्राणां विक्षेपभागानाह एषामिति । उक्तध्रुव-
- कसम्बधिनामश्विन्यादिनक्षत्राणां यथाक्रमं क्रमादि-
- त्यर्थः । स्वात् स्वकीयापक्रमात् क्रान्त्यग्रात् क्रान्तिवृत्त-
- स्थध्रुवकस्थानादित्यर्थः । विक्षेपा विक्षेपभागा दक्षिणा
- उत्तरा वा भवन्ति । तत्रोत्तरदिश्यश्विन्यादित्रयाणां
- दिङ्मासविषयाः क्रमेण दश द्वादश पश्चेत्यर्थः । दक्षिण-
- दिशि रोहिण्यादित्रयाणां पञ्चदश नव । उत्तरस्यां
- पुनर्वसोः षड्भागाः । पुष्यस्य खं विक्षेपाभावः । अत्र पञ्चमा-
- क्षरस्य गुरुत्वेन छन्दोभङ्ग आर्षात्वान्न दोषः । दक्षिणस्मा-
- मश्लेषायाः सप्त । उत्तरस्यां मघादित्रयाणां शून्यं
- द्वादश त्रयोदश । दक्षिणस्यां हस्तचित्रयोरेकादश द्वौ ।
- अनन्तरं स्वात्या उत्तरदिशि सप्तत्रिंशत् । दक्षिणस्यां
- विशाखादीनां षण्णां साधैंकः त्रयं चत्वारः । नव सार्ध-
- पञ्च पञ्च क्रमेण उत्तरदिशि तथा विक्षेपभागा
- अभिजितः षष्टिः । श्रवणस्य त्रिंशत् । धनिष्ठायाः
- षट्त्रिंशत् । एवकारो न्यूनाधिकव्यवच्छेदार्थः । चकारः
- पूरणार्थः । दक्षिणस्यां तुकारस्तथा । अर्धभागः
- शततारायाः । तुकारस्तथा । उत्तरस्यां पूर्वभाद्रपदा-
- याश्चतुर्विंशतिः । तस्यामेव दिशि भागा विक्षेपभागा
- उत्तरभाद्रपदायाः षड्विंशतिः । रेवत्या विक्षेपाभावः ।
- चकारः पूरणार्थः” र० ना० ॥ अत्र स्पष्टत्वात्
- अनेकेषां नक्षत्राणां ध्रुवका न दर्शिताः । सि० शि०
- प्रमिताक्षरायां तु यथाक्रमं सर्वेषांखरूपतो ध्रुवका
- दर्शिता यथा
|
पृष्ठ २४२५
- अ* भ* कृ* रो* मृ* आ* पु* पु* आ* म* पू* उ* ह* चि*
- ० ० १ १ २ २ ३ ३ ३ ४ ४ ५ ५ ६
- ८ २० ८ २२ ६ ७ ३ १६ १८ ९ २७ ५ २० ३
- ० ० २८ २८ ० २० ० ० ० ० ० ० ० ०
- स्वा* वि* अ* ज्ये* मू* पू* उ* अ* श्न* ध* श* पू* उ* रे*
- ६ ७ ७ ७ ८ ८ ८ ८ ९ ९ १० १० ११ ०
- १९ २ १४ १९ १ १४ २० २५ ८ २० २० २६ ७ ०
- ० ५ ५ ५ ० ० ० ० ० ० ० ० ० ०
- विक्षेपा यथा
- अ* भ* कृ* रो* मृ* आ* पु* पु* आ* म* पू* उ* ह* चि*
- १० १२ ४ ४ १० ११ ६ ० ७ ० १२ १३ १३ १
- १० ३०
- उ उ उ द द द उ उ द उ उ उ द द ४५
- स्वा० वि० अ० ज्ये० मू० पू० उ० अ० श्र० ध० श० पू० उ० रे०
- ३७ १ १ ३ ८ ५ ५ ६२ ३० ३६ ० २ ४ २६ ०
- २० ४५ ३० २० २०
- उ द द द द द द उ उ उ द उ उ उ २०
- सि० शि० ग्रहकक्षा अन्यविधा उक्ता यथा
- “सार्धाद्रिगोमनुसुराब्धिमितार्ककक्षा ४३३१४९७१२
- चान्द्री सहस्रगुणिता जिनरामसंख्या ३२४००० । अभ्रेष्वि-
- भाङ्कगजकुञ्जरगोऽक्षपक्षाः २५९८८९८५० कक्षां गृणन्ति
- गणका भगणस्य चेमाम्” सि० शि० । शेषाणां ग्रहाणां
- कक्षाप्रमाणानि श्रीपतिनान्यथोक्तानि यथा “अष्ट्यङ्कषण्मनु
- गजाः ८१४६९१६ क्षितिनन्दनस्य ज्ञस्येशदन्तकृतखेन्दुमिता
- १०४३२११ थ सूरेः । रूपाश्विनागयुगशैलगुणेन्दुवाणाः
- ५१३७४८२१ खाग्न्यङ्गसागररसीत्कृतयः २६६४६३० सितस्य,
- भूधराहिमगनागरसर्तुक्ष्माधराश्विशशिनः १२७६६८७८७ ।
- शनिकक्षा” रव्यादीनां मन्दोच्चादिपरिधिमानसुक्तं सि० शि०
- “मन्दोच्चनीचपरिविस्त्रिलवोनशक्र १३ । ४० भागा रवेर्जिन-
- कलोनरदा ३१ । ३६ हिमांशोः । खाश्वा ७० भुजङ्गदहना
- ३८ अमरा ३३ भवाश्च ११ पूर्णेषवो ५० निगदिताः क्षिति-
- जादिकानाम्” सि० शि० । “इह ग्रहभ्रमणोपपत्त्यर्थं मन्दो-
- च्चनोचवृत्तानि पूर्वैः कल्पितानि । तेषां प्रमाणान्येता-
- बन्तो भागाः । अत्रोपपत्तिः । ग्रहस्य यन्त्रवेघविधिना
- यत् परमं फलमुत्पद्यते तस्य ज्या परमफलज्यान्त्य-
- फलज्या चोच्यते । अन्त्यफलज्यातुल्यव्यासार्धेन यदृत्त-
|
- मुत्द्यते तन्नीचोच्चवृत्तम् । तत्परिधिस्त्रैराशिकेन । यदि
- त्रिज्याव्यासार्धे भांशाः ३६० परिधिस्तदान्त्यफलज्या-
- व्यासार्धे किमिति लब्धं परिधिभागाः । एवमर्कादीनां
- त्रिलवोनशक्रा इत्यादय उत्पद्यन्ते । अथ भौमादीनां
- चलपरिधीनाह” प्रमि० सौरागमेण सूक्ष्मत्वान्नविरोधः ।
- “एषां चलाः कृतजिनास्त्रिलवेन हीना २४३ । ४०
- दन्तेन्दवो १३२ वसुरसा ६८ वसुवाणदस्राः २५८ ।
- पूर्णाब्धयो ४० ऽथ भृगुजस्य तु मन्दकेन्द्रदोःशिञ्जिनी
- द्विगुणिता त्रिगुणेन ३४३८ भक्ता । लब्धेन मन्दपरिधी
- रहितः स्फुटः स्यात् तच्छ्रीघ्रकेन्द्रभुजमौर्व्यथ वाणनिघ्नी ।
- उत्तरस्यां सप्तर्षिस्थानं ऋषिशब्दे १४५२ पृ० दर्शितं
- तेषां शतवर्षैरेकैकनक्षत्रभोगस्तत्र प्रमाणं वराहसंहिता
- वाक्यं तत्रोक्तम् । भचक्रञ्च द्वादशधा विभक्तमपि अश्वि-
- न्यादिभिः सप्तविंशतिनक्षत्रात्मकं तत्र त्रिभिस्त्रिभिर्नक्षत्रै-
- र्नव वीथयः वृह० सं० उक्ता यथा “नागगजैरावत-
- वृषभगोजरद्गवमृगाजदहनाख्याः । अश्विन्याद्याः कैश्चित्
- त्रिभाः क्रमाद्वीथयः कथिताः ॥ नागा तु पवनयाम्या
- नलानि पैतामहात्त्रिभास्तिस्रः । गोवीथ्यामश्विन्यः पौष्णं
- द्वे चापि भाद्रपदे ॥ जरद्गव्यां श्रवणात् त्रिभं मृगाख्या
- त्रिभं च मैत्राद्यम् । हस्तविशाखात्वाष्ट्राण्यजेत्यषाढाद्वयं
- दहना ॥ तिस्रस्तिस्रस्तासां क्रमादुदङ्मध्ययाम्य-
- मार्गस्थाः । तासामप्युत्तरमध्यदक्षिणावस्थितैकैका ॥
- वीथीमार्गानपरे कथयन्ति यथा स्थिता भमार्गस्य । नक्ष-
- त्राणां तारायाम्योत्तरमध्यमास्तद्वत् ॥ उत्तरमार्गो
- याम्यादि निगदितो मध्यमस्तु भाग्याद्यः । दक्षिणमार्गोऽषा-
- ढादि कैश्चिदेवं कृता मार्गाः” ॥
- भचक्रस्थग्रहाणां प्राग्गतिभेदकारणमुक्तं सू० सि० यथा
- “पश्चाद् व्रजन्तोऽतिजवान्नक्षत्रैः सततं ग्रहाः । जीयमा-
- नास्तु लम्बन्ते तुल्यमेव स्वमार्गगाः” ॥ सू० सि० ।”
- “पश्चादनन्तरं पुनरावृत्त्या पश्चात् पश्चिमदिगभिमुखं नक्षत्रै-
- स्तारकादिभिः सह ग्रहाः सूर्य्यादयोऽतिजवात् प्रवहवायु-
- सत्वरगतिवशात् सततं निरन्तरं व्रजन्तो गच्छन्तः स्वमार्ग-
- गाः खकक्षावृत्तस्था जीयमाना नक्षत्रैः पराजिता नक्षत्रा-
- णामग्रे गमनात् । अत एव लज्जयेव गुरुभूता इति तात्प-
- र्यार्थः । तुल्यं समम् । एवकारादधिकन्यूनव्यवच्छेदः ।
- लम्बन्ते स्वस्थानात् पूर्व्वस्मिन् लम्बायमाना भवन्ति । यथा
- लज्जितः पश्चाद्भवति नाग्रे । तुकारादधोऽधः कक्षाक्रमा-
- नुरोधेन शन्यादिग्रहाणां चन्द्रान्तानां गुरुतापचयः शनि-
|
पृष्ठ २४२६
- रतिगुरुभूतस्तस्मात् किञ्चिन्न्यूनो गुरुस्तस्मादपि भौम इत्यादि
- यथोत्तरम् । यस्य कक्षा महती तस्य गुरुत्वाधिक्यं यस्य
- लघ्वी तस्य तदनुरोधेन गुरुताल्पत्वमिति । एतदुक्तं भवति ।
- व्रह्मणा प्रवहवायौ नक्षत्राधिष्ठितो मूर्त्तो गोलः स्थापित-
- स्तदन्तर्गताः स्वस्वाकाशगोलस्थाः शन्यादयो नक्षत्राधिष्ठित-
- मूर्त्तगोलस्थक्रान्तिवृत्तस्थरेवतीयोगतारासन्नरूपमेषादिप्रदेश-
- समसूत्रस्थाः स्थापिताः । क्रान्तिवृत्तं तु मेषतुलास्थाने-
- विषुवद्वृत्तलग्न सम्पातात् त्रिभान्तरितक्रान्तिवृत्तप्रदेशौ स्वा-
- सन्नविषुवद्वृत्तप्रदेशाभ्यां चतुर्बिशत्यंशान्तरेण दक्षिणोत्तरौ
- मकरकर्कादिरूपौ तदेवं द्वादशराश्यात्मकं वृत्तं ग्रहचारभू-
- तम् । विषुवद्बृत्तं तु ध्रुवमध्यस्थ निरक्षदेशोपरिगम् । तत्र
- प्रवहवायुना स्वाघातेन मूर्त्तो नक्षत्रगोलो नाक्षत्रषष्टिघटी-
- भिः परिवर्त्यते । तदन्तर्गतवायुभिस्तदाघातेन वा ग्रहा
- भ्रमन्तोऽपि नक्षत्रगोलस्थितक्रान्तिवृत्तीयमेषादिप्रदेशेन समं
- न गच्छन्ति वायूनां स्वल्पत्वात् तदाघातस्याप्यल्पत्वाद्वि-
- म्बानां गुरुत्वाच्च । अतस्तत्स्थानाद्ग्रहाणां लम्बनं
- दृश्यते । अत एव नक्षत्रोदयकाले तेषां द्वितीयदिने
- नोदयः किन्तु ग्रहो लम्बितप्रदेशेन वायुना तदनन्तर-
- मूर्द्धमागच्छतीत्यनन्तरमुदयः । लम्बनं तु शन्यादीनां
- कक्षानुरोधेन गुरुत्वाद्वायूनां तद्घातानां वा कक्षानुरोधेन
- बह्वल्पत्वात् तुल्यम् । यद्यपि वायोर्ध्रुवानुरोधेन सत्त्वा-
- द्ग्रहावलम्बनं विषुवद्वृत्ते भवितुमुचितं न क्रान्तिवृत्ते,
- तथा च वक्ष्यमाणक्रान्त्यनुपपत्तिः क्रान्तिवृत्तस्थद्वादश-
- राशिभोगेन वक्ष्यमाणानां भगणानामनुपपत्तिश्च । तथापि
- वायुनावलम्बितो ग्रहो विषुवन्मार्गगोऽपि तद्विषुवप्रदेशा-
- सन्नक्रान्तिवृत्तप्रदेशेन ग्रहाकाशगोल एव स्वसमसूत्रेणा-
- कृष्यत इति नानुपपत्तिः । अत एव स्वमार्गगा इति
- क्रान्तिवृत्तानुसृतस्वाकाशगोलस्थकक्षामार्गगता इत्यर्थक-
- मुक्तमिति सङ्क्षेपः । अत एव ग्रहाणां लोके प्राग्गतित्वं
- सिद्धमित्याह” र० ना० ।
- “प्राग्गतित्वमतस्तेषां भगणैः प्रत्यह गतिः । परिणा-
- हवशाद्भिन्ना तद्वशाद्भानि भुञ्जत सू० सि० । “अतो
- ऽवलम्बनादेव तेषां ग्रहाणां प्राग्गतित्वं प्राच्यां दिशि
- गतिर्येषां ते प्राग्गतयस्तद्भावः प्राग्गतित्वं सिद्धम् ।
- लम्बनस्वरूपैव ग्रहाणां पूर्वगतिरुपपन्ना लोकैः कारणा-
- नभिज्ञैः प्रत्यक्षावगततया तच्छक्तिजनिता कल्पितेत्यर्थः ।
- सा कियतीत्यत आह । भगणैरिति ॥ वक्ष्यमाणभग-
- णैः प्रत्थहं प्रतिदिनं गतिः प्राग्गमनरूपा भगणानां
|
- यदि गत्युपपन्नत्वाद्भगणसम्बन्धिवक्ष्यमाणदिनैः सूर्य्यसावनै-
- र्ग्रहभगणा लभ्यन्ते तदैकेन दिनेन केत्यनुपाताज्ज्ञेया ।
- ननु ग्रहभगणानां तुल्य त्वाभावात् प्रतिदिनं ग्रहगति-
- र्भिन्नेति पूर्वं लम्बनरूपा ग्रहगतिरयुक्तोक्ता ग्रहलम्बन-
- स्याभिन्नत्वादित्यत आह परिणाहवशादिति ।
- परिणाहः कक्षापरिधिस्तद्वशात् तदनुरोधादियं ग्रहगति-
- र्भिन्नाऽतुल्या । अयमभिप्रायः । ग्रहाणां लम्बनं
- तुल्यप्रदेशे न, परन्तु स्वस्वकक्षायां तत्तत्प्रदेशे तुल्ये याः
- कलास्ता गतिकलास्तास्तु महति कक्षावृत्तेऽल्पा
- लघुकक्षावृत्ते बह्व्यः सर्वकक्षापरिधीनां चक्रकलाङ्कितत्वात्
- भगणास्तु गतिवशादेव यस्य कक्षावृत्तं महत् तत्राल्पा
- यस्य च लघु कक्षावृत्तं तस्य बहवस्तदुपपन्ना गतिरपि
- तथेति न विरोधः । नन्वेकरूपगतिं विहाय भिन्नरूपा
- गतिः कथमङ्गीकृतेत्यत आह । तद्वशादिति भिन्न-
- गतिवशाद्भानि राशीन् नक्षत्राणि भुञ्जते ग्रहा भुञ्जन्ती-
- त्यर्थः । तथा च ग्रहराश्यादिभोगज्ञानार्थमियमेव
- गतिरुपयुक्ता नैकरूपेति भावः । अथ भभोगे विशेषं
- वदन् वक्ष्यमाणभगणस्वरूपमाह” र० ना० । “शीघ्रगस्ता-
- न्यथाल्पेन कालेन महताल्पगः । तेषां तु परिवर्त्तेन
- पौष्णान्ते मगणः स्मृतः” सू० सि० । “अथशब्दः पूर्वोक्त
- विशेषसूचकः शीघ्रगतिग्रहस्तानि भान्यल्पेन कालेन
- भुनक्त्यल्पगतिर्ग्रहो बहुकालेन भुनक्ति तुल्यराश्यादि-
- भोगो मन्दशीघ्रगतिग्रहयोस्तुल्य कालेत न भवतीति
- विशेषार्थः । तेषां राशीनां परिवर्त्तेन भ्रमणेन । तुका-
- राद्ग्रहादिगतिभोगजनितेन भगणः प्राज्ञैरुक्तः । क्रा-
- न्तिवृत्ते द्वादशराशीनां सत्त्वात् तद्भोगेन चक्रभोगसमा-
- प्तेर्यत् स्थानमारभ्य चलितो ग्रहः पुनस्तत् स्थानमायाति
- स चक्रभोगः परिवर्त्तसञ्ज्ञोऽपि द्वादशराशिभोगाद्भगण
- इत्यर्थः । ननु क्रान्तिवृन्ते सर्वप्रदेशेभ्यः परिवर्त्तसम्भवा-
- दत्र कः परिवर्त्तादिभूतः प्रदेश इत्यत आह पौष्णान्त
- इति । सृष्ट्यादौ ब्रह्मणा क्रान्तिवृत्ते रेवतीयोगताराऽऽ-
- सन्नप्रदेशे सर्वग्रहाणां निवेशितत्वात् तदवधितो ग्रहचल-
- नाच्च पौष्णस्य रेवतीयोगताराया अन्ते निकटे पदेशे
- तथा च रेवतीयोगतारामन्नाग्रिमस्थानमेवाद्यन्तावधि-
- भूतमिति भावः” र० ना० ।
- सूर्य्यादिग्रहाणां महायुगे भगणमानप्युक्तं तत्रैव ।
- “युगे सूर्य्यज्ञशुक्राणां खचतुष्करदार्णवाः । कुजा-
- र्किगुरुशीघ्राणां भगणाः पूर्वयायिताम्” सू० सि० । “महा-
|
पृष्ठ २४२७
- युगे ४३२०००० वर्षे सर्थ्यबुधशुक्राणां खानां चतुष्कमेक-
- स्थानादिसहस्रस्थानान्तचतुःस्थानस्थितानि शून्यानि
- ततोऽयुतादिप्रयुतस्थानपर्य्यन्तं दन्तसमुद्रास्तथा च युगे
- सौरवर्षाणि खाभ्रखाम्रद्विरामवेदमितानि ४३२०००० भगणा
- द्वादशराशिभोगात्मकपरिवर्त्तानां सङ्ख्या भवन्तीति शेषः ।
- भौमशनिवृहस्पतीनां यानि शीघ्राणि शीघ्रोच्चानि तेषामेत
- न्मिता भगणाः । चकारः समुच्चयार्थकोऽनुसन्धेयः । अत्र
- कक्षाक्रमेण चारक्रमेण वा गुरोः खलु मध्यगता भवतीति
- न तथोद्देशः स्वतन्त्रस्य नियोगानर्हत्वाद्वा । नन्वाकाश
- एषां विम्बाभावादवलम्बनासम्भवेन गत्यभावात् कथं
- भगणा उक्ता इत्यत आह पूर्वयायिन मिति पूर्व्वगा-
- मिणाम् । तथा च तेषामदृश्यरूपाणां पूर्व्वगतिसद्भावाद्भ-
- गणोक्तौ न क्षतिः । एषां स्वरूपादिनिर्णयस्तु स्पष्टा-
- धिकारे प्रतिपादयिष्वते । अथ चन्द्रभौमयोर्भगणा-
- नाह” र० ना० । “इन्दो रसाग्नित्रित्रीषुसप्तभूधरमा
- र्गणाः । दस्रत्र्यष्टरसाङ्काक्षिलोचनानि कुजस्य तु” सू०
- सि० । “पूर्वश्लोकोक्तभगणा इत्यत्राग्रिमश्लोकेष्वप्यन्वेति ।
- भूधराः सप्त न तु पर्वतस्य धराभिधानत्वादेकसप्ततिः
- मार्गणाः शरास्तथा च चन्द्रस्य भगणाः षडग्निदेवपञ्च-
- सप्तसप्तपञ्चमिताः ५७७५३३३६ भौमस्य तुकारादाकाशस्थ-
- विम्बात्मकस्येति पुनरुक्तिभ्रमवारणार्थं दन्ताष्टषडाकृति-
- मिताः २५६८३२ । अथ बुधशीघ्रोच्चगुर्योर्भगणानाह” र० ना० ।
- “बुधशीघ्रस्य शून्यर्तुखाद्रित्र्यङ्कनगेन्दवः । वृहस्पतेः
- खदस्राक्षिवेदषड्बह्नयस्तथा” सू० सि० । “वुधशीघ्रोच्चस्या-
- दृश्यरूपस्य पूर्वगतेर्भगणाः षष्टिसप्ततित्र्यङ्कात्यष्टिमिताः
- १७९३७०६० वृहस्पतेस्तथा बिम्बात्मकस्येति पुनरुक्तिभ्रम-
- वारणाय नखद्विवेदषड्राममिताः ३६४२२० । अथ शुक्र-
- शीघ्रोच्चशन्यार्भगणानाह” र० ना० । “सितशीघ्रस्य
- षट्सप्तत्रियमाश्विखमूधराः । शनेर्भुजङ्गषट्पञ्चरसवेदनिशा-
- कराः” सू० सि० । “शुक्रशीघ्रोच्चस्यादृश्यरूपस्य पूर्वगते-
- र्भगणाः षट्सप्तत्रिद्विद्विखसप्त ७०२२३७६ एतेन भूधरा
- इत्यस्यैकसप्ततिरेकादश वार्थो निरस्तः । शवेर्विम्बात्मक-
- स्याष्टषट्पञ्चरसेन्द्रमिताः १४६५६८ अथ चन्द्रस्योच्चपातयो-
- र्भगणानाह” र० ना० । “चन्द्रोच्चस्याग्निशून्याश्विवसु-
- सर्पार्णवा युगे । वामं पातस्य वस्वग्नियमाश्विशिखिद-
- स्रकाः” सू० सि० । “चन्द्रमन्दोच्चस्य पूर्व्वगतेरदृश्यरूपस्य
- भगणा महायुगे रामनखाष्टाष्टवेदमिताः ४८८२०३ ।
- भातस्य चन्द्रशब्दस्य सन्निहितत्वाच्चन्द्रपातस्यादृस्य-
|
- रूपस्य वामं पश्चिमगत्या द्वादशराशिभोगात्मकपरि-
- वर्त्तरूपभगणा महायुगे अष्टरामाकृ तरामद्विमिताः २३२२३८
- अत्र युगग्रहणं वक्ष्यमाणग्रहोच्चपातभगणसम्बन्धिकल्प-
- वारणार्थम् । ग्रहोच्चपातभगणास्तु युगे युगे नोत्पन्ना
- इत्यस्मिन् युगसम्ब न्धप्रसङ्गेनोक्ताः । मन्दोच्चपातस्वरू-
- पादिनिर्णयस्तु स्पष्टाधिकारे व्यक्तो भविष्यति” । अथ युगे
- नाक्षत्रदिवसांस्तत्स्वरूपावगमाय ग्रहसावनदितस्वरूपं
- स्वसङ्ख्याज्ञानहेतुकं चाह” र० ना० ॥ “भानामष्टाक्षि-
- वस्वद्रित्रिद्विद्व्यष्टशरेन्दवः । भोदया भगणैः स्वैः स्वैरूनाः
- स्वस्वोदया युगे” सू० सि० । “भानां नक्षत्राणां स्वतो
- गत्यभावेऽपि प्रवहवायुना परिभ्रमणात् तत्सङ्ख्यातुल्या
- भगणाः स्वदिनतुल्याः । अत एवात्र बाममिति पूर्वो-
- क्तस्य युक्तोऽन्वयः । अष्टद्व्यष्टनगाग्निजातिगजतिथि-
- मिताः १५८२२३७८२८ । ननु ग्रहाणामपि प्रवहवायुना
- परिभ्रमणनोदयसद्भावात् तेषां दिवसाः कथं ज्ञेया इत्यत
- आह । भोदया इति । उदयन्त्यस्मिन्नहनि स्वाद्यन्ता-
- वधिरूप इति व्युत्पत्त्योदयशब्देन दिनम् । तथा च भोदया
- नक्षत्रदिसा एते उक्ताः स्वैः स्वैः स्वकीयैः स्वकीयैर्भ-
- गणैः प्रागुक्तैर्वर्जिताः सन्तः स्वस्वोदया भिजनिजसावन-
- दिवसा युगे भवन्ति । युग इत्यनेनाभीष्टकाले नाक्षत्रदि-
- वसा ग्रहगतभोगादिना भगणादिनोना ग्रहसावनदिवसा
- अभीष्टा भवन्ति । परन्तु राशीन् पञ्चगुणितानंशादिकं
- दशगुणितं कृत्वा घट्यादिस्थाने होनं कार्य्यमन्यथा
- विजातीयत्वादन्तरानुपपत्तेरिति सूचितम् । अत्रोपपत्तिः
- यदि ग्रहाणां प्राग्गमनावलम्बनं न स्यात् तर्हि ग्रहो-
- दयनक्षत्रोदययोरेकहेतुकत्वान्नाक्षत्रसावनदिवसयोरभेदःस्यात्
- अतो ग्रहाणां लम्बनेन नाक्षत्रादिदिवसेभ्यः सावनादि-
- दिवसानामन्तरितत्वादवलम्बनजभगणान्तरेण युगे नाक्ष-
- त्रदिवसेभ्यो ग्रहसावनदिवसा न्यूना भवन्ति । प्रवहेण
- भगणतुल्यपश्चिमग्रहतुख्यानामकरणादिब्धुपपन्नं भोदया
- इत्यादि! अनेनैव भगणसाषनभोगो नाक्षत्रदिवसा
- इत्यव्यर्थसिद्वम्” र० ना० । महायुगे चान्द्रा दमासदिन-
- संख्यां तत्रोक्ता यथा
- “भवन्ति शशिनी मासाः सूर्य्येन्द भगणान्तरम् ।
- रविमासोनितास्ते तु शेषाः स्युरधिमासकाः” सू० ति० । “सूर्य-
- चन्द्रभगणयोरन्तरं चन्द्रस्य मासा मवन्ति ते चान्द्रतासा
- रविमासोनिताः । अत्र प्रथमं तुकारान्वयाद्द्वादश-
- गुणितरविभगणरूपपक्ष्यसाणार्कमासैहृनिताः सतः शेषा
|
पृष्ठ २४२८
- अवशिष्टा ये चान्द्रमासास्तेऽधिमासा एव भवन्ति नान्ये ।
- अनेन चान्द्रत्वमधिमासानां स्पष्टीकृतम् । अत्रोपपत्तिः ।
- त्रिंशत्तिथ्यात्मकस्य रवीन्दुयुतिकालरूपदर्शान्तावधेश्चान्द्र-
- मासस्य द्वादशराशिमितेन सूर्य्येन्द्वन्तरेणैव सिद्धिः ।
- कथमन्यथा दर्शान्ते मन्दशीघ्रयोः सूर्येन्द्वोर्योगस्य
- पुनर्दर्शान्ते सम्भवः । द्वादशराश्यन्तरं त्वेकं भगणान्तर-
- मतो भगणान्तरेण चान्द्रो मासः सिद्धः । सौरमासा-
- पेक्षया यदन्तरेण चान्द्रमासानामधिकत्वं त एवाधिमासा
- इति स्वरूपमेव वक्ष्यमाणोपयोगात् परिभाषितम् । अथ
- वक्ष्यमाणावमसूर्यसावनयोः स्वरूपमाह” र० ना० ।
- “सावनाहानि चान्देभ्यो द्युभ्यः प्रोज्झ्य तिथिक्षयाः ।
- उदयादोदयं भानोर्भूमिसावनवासराः” । चान्द्रेभ्यो द्युभ्यो
- वक्ष्यमाणचान्द्रदिवसेभ्यः सकाशादित्यर्थः । सावनाहानि
- सावनदिनानि प्रोज्झ्य त्यक्त्वावशेषं निथिक्षयाः । तिथिषु
- चान्द्रदिनेषु सावनदिनानामवशेषतुल्यः क्षयो न्यूनत्वम् ।
- यद्वा तिथिशब्देन सावनो दिवसस्तस्य चान्द्रदिवसात्
- क्षय इति स्वरूपमेव वक्ष्यमाणोपयोगात् परिभाषितम् ।
- ननु भोदया भगणैरित्यादिना पूर्वं सर्वेषां सावनदिवसा
- उक्ता इत्यत्र कस्य ग्राह्या इत्यतः सूर्य्यसावनस्वरूपकथन-
- च्छलेनोत्तरमाह । उदयादिति । सूर्य्यस्योदयकाल-
- मारभ्याव्यवहिततदुदयकालपर्य्यन्तं यः काद्धः स
- एकोदिवसः । इति ये दिवसास्ते भूमिसावनवासराः ।
- भूदिवसा उदयस्य भूसम्बन्धेनावगमात् । सावनादिवसा-
- श्चेत्यर्थः । तथा च निरुपपदसावनभूमिशब्दाभ्यां सूर्यस्य
- वासरा एव नान्येषां सोपपदत्वाभावादिति भावः । ते
- कियन्त इत्यतस्तत्प्रमाणं चान्द्रदिनप्रमाणं चाह” र० ना०
- “वसुद्व्यष्टाद्रिरूपाङ्कसप्ताद्रितिथयो युगे । चान्द्राः
- खाष्टखखव्योमखाग्निखर्तुनिशाकराः” सू० । “अष्टाश्वि-
- गजसप्तपञ्चभूमिता युगे सूर्य्यसावनदिवसाः । चान्द्रा
- दिवसा युगतिथय इत्यर्थः । अशीतिशून्यचतुष्कत्रिख-
- नृपा एते त्रिंशद्भक्ताश्चान्द्रमासा उक्तप्रायाः । अनेनैव
- चान्द्रदिवसानामुपपत्तिः सूर्य्यचन्द्रयोर्भगणयोरन्तररूप-
- चान्द्रमासास्त्रिंशद्गुणिता इति स्पष्टीकृता । अथाधि-
- मासावमयोः सङ्ख्यामाह” र० ना० । “षड्वह्नित्रिहुता-
- शाङ्कतिथयश्चाधिमासकाः । तिथिक्षया यमार्थाश्विद्व्यष्ट-
- व्योमशराश्विनः” सू० । “अधिमासकाः प्रागुक्तस्वरूपा-
- श्चकाराद्युगे षड्देवरामगोशरेन्दुमितास्तिथिक्षया
- दिनक्षया अवमानीत्यर्थः । अर्थाः पञ्च । एवं द्विशराकृत्य-
|
- ष्टखतत्त्वानि । ननु सूर्य्यमासानुक्तेरधिमाससङ्ख्या कथं
- ज्ञातेत्यतो रविमाससङ्ख्यां स्वरूपेण क्वहांश्चाह” र० ना० ।
- “खचतुष्कसमुद्राष्टकुपञ्च रविमासकाः । भवन्ति
- भोदयाभानुभगणैरूनिताः क्वहाः” सू० । “सूर्य्यमासा
- द्वादशगुणितरविभगणानुरूपाः शून्यखाभ्रखसेदधृतिशर-
- मिताः । ननु सावनदिवससङ्ख्या प्रागुक्ता कथमवगते-
- त्याह । भवन्तीति । भोदया नाक्षत्रदिवसाः प्रागुक्ता
- सूर्य्यभगणैः प्रागुक्तैर्वर्जिताः सन्तः क्वहा भूवासरा
- भवन्ति । भोदया इत्यादिप्रागुक्तेः ।
- ननु सूर्य्यादिमन्दोच्चभौमादिपातानां युगे भगणानुत्पत्तेः
- कल्पभगणकथनमावश्यकमतस्तत्पङ्क्त्यां प्रागुक्ता एते
- भगणादयः कल्प एव कथं नोक्ता इत्यत आह” र० ना० ।
- “प्राग्गतेः सूर्य्यमन्दस्य कल्पे सप्ताष्टवह्नयः । कौजस्य
- वेदखयमा बौधस्याष्टर्तुवह्नयः । खखरन्ध्राणि जैवस्य
- शौक्रस्यार्थगुणेषयः । गोऽग्नयः शनिमन्दस्य पातानामथ
- वामतः” सू० सि० । प्राग्गतेः कल्प इत्यनयोः
- शनिमन्दान्तं प्रत्येकं सम्बन्धः । पूर्व्वगतेः सूर्य्यमन्दोच्चस्य
- कल्पे सप्ताष्टराममिताः ३८७ शनिपातस्य भगणा इति
- वक्ष्यमाणस्यभगणा इति पदमत्र प्रत्येकमन्वेति । कौजस्य
- कुजसम्बन्धिनः सूर्य्यमन्दस्येत्यस्यैकदेशो मन्दस्येति
- मन्दोच्चस्येत्यर्थकमत्रान्वेति । तथा च भौममन्दोच्चस्य
- चतुरधिकं शयद्वयम् २०४ । बौधस्य बुधमन्दोच्चस्याष्टषटत्रि-
- भिताः ३६८ । जैवस्य गुरुसम्बन्धिनः । अत्र शनिमन्दस्येति
- वक्ष्यमाणस्यैकदेशो मन्दस्येति मन्दोच्चस्येत्यर्थकमन्वेत्ये-
- कवृत्तस्थत्वात् । यद्वाद्यन्तयोर्मन्दस्येत्युक्त्यैव मध्यस्थाना-
- मन्वयः सूपपन्न इति । तथा च गुरुमन्दोच्चस्य नवशतं ९००
- शौक्रस्य शुक्रमन्दोच्चस्य पञ्चत्रिंशदधिकपञ्चशतं ५३५
- शनिमन्दोच्चस्यैकोनचत्वारिंशत् ३९ । अथानन्तरं पातानां
- भौम दिपातानां वामतः पश्चिमगत्या भगणा उच्यन्त इति
- शेंषः तान् श्लोकाभ्यामाह” र० ना० । “मनुदस्रास्तु
- कौजस्य बौधस्याष्टाष्टसागराः । कृताद्रिचन्द्रा जैवस्य
- त्रिखाङ्काश्च भृगोस्तथा । शनिपातस्य भगणाः कल्पे
- यमरसर्त्तवः । भगणाः पूर्वमेवात्र प्रोक्ताश्चन्द्रोच्चपातयोः” ।
- सू० सि० । “कुजसम्बन्धिनः । तुकारात् पातस्य
- भौमपातस्य कल्पे भगणाश्चतुर्दशाधिकं शतद्वयम् २१४ ।
- बौधस्य बुधसम्बन्धिनः शनिपातस्येत्यस्यैकदेशः पातस्येत्य-
- त्रान्वेति । बुधपातस्य द्वादशोना पञ्चशती ४८८ । जैवस्य
- गुरुपातस्य चतुःसप्तत्यधिकं शतम् १७४ । भृगोः शुक्रस्य
|
पृष्ठ २४२९
- तथा सम्बन्धिनश्चकारात् पातस्य शुक्रपातस्येत्यर्थः । त्र्य-
- धिका नवशती ९०३ । शनिपातस्य द्विरसषट्का ६६२ भगणाः
- कल्पे भवन्ति । नन्वस्मिन् प्रसङ्गे चन्द्रस्योच्चपातयोर्भगणाः
- कथं नोक्ता इति मन्दाशङ्कापाकरणाय पूर्वोक्तं स्मारयति ।
- भगणा इति । चन्द्रोच्चपातयोश्चन्द्र मन्दोच्चपातयोर्भगणा अ
- त्रास्मिन्नधिकारे पूर्वं ग्रहयुगभगणकथने । एवकारो विस्मरण
- निरासार्थकः “प्रोक्ताश्चन्द्रोच्चस्येत्थादिश्लोकेनोक्ताः” र० ना० ।
- कुजादिकक्षाणां भूमिसध्यत उच्छ्रितिः श्रीपतिनोक्ता यथा
- भौमस्य गोकुरसषण्णवसूर्यसंख्या १२९६३१९ दन्ताभ्रषण्-
- णृपमिता १६६०३२ श्रुतिरिन्द्रुजस्य । पूज्यस्य नागगुण-
- पञ्चरसाद्रिभूमि नागाश्च ८१७६५३८ सर्पगजखाब्धिय-
- माब्धयोऽथ ४२४०८८ । शुक्रस्य, सूर्यतनयस्य कुसप्तखाङ्क
- भूत्र्यभ्रदस्रमित २०३१९०७१ योजनकर्ण एवम् । नागाक्ष-
- षड्रामरसाग्निकुवेदसंख्यो ४१३६२६५८ नक्षत्रमण्डलभवः
- श्रवणो निरुक्तः” । सि० शि० विशेष उक्तः ।
- “सृष्ट्वा भचक्रं कमलोद्भवेन ग्रहैः सहैतद्भगणादिसंस्थैः ।
- शश्वद्भ्रमे विश्वसृजा नियुक्तं तदन्ततारे च तथा
- ध्रुवत्वे । ततोऽपराशाभिमुखं भपञ्जरे सखेचरे शीघ्र-
- तरे भ्रमत्यपि । तदल्पगत्येन्द्रदिशं नभश्चराश्चरन्ति
- नीचोच्चतरात्मवर्त्मसु” मू० । “यदेतद्भचक्रं ग्रहैः सह
- भ्रमद्दृश्यते तद्विश्वसृजा जगदुत्पादकेन कमलोद्भवेन
- घ्रह्मणा सृष्ट्यादौ सृष्ट्वा ततः शश्वद्भ्रमेऽनवरतभ्रमणे
- नियुक्तम् । एतदुक्तं भवति । भान्यश्विन्यादीन्यन्यानि
- विशिष्टानि ज्योतींषि तेषां समूहश्चक्रं ग्रहाश्च सूर्य्या-
- दयस्तैः सह सृष्टम् । तानि भानि प्राक् संस्थया
- समन्तान्निवेशितानि । ग्रहास्तु भगणादावश्विनीमुखे निवे-
- शितास्त उपर्य्युपरि संस्थया । तत्रादौ तावदधश्चन्द्रः ।
- तदुपरि धुः । ततः शुक्रः । ततो रविः । तस्मा-
- द्भौमः । ततो गुरुः । ततः शनिः । सर्वेषामुपरि
- दूरे भचक्रम् । एषां कक्षाप्रमाणानि कक्षाध्याये प्रति-
- पादयिष्यन्ते । अहो यद्यूर्ध्वोर्ध्वस्था ग्रहास्तदुपरि
- दूरतो भगणस्तत् कथं भगणादिसंस्थैर्ग्रहैरित्युच्यते ।
- सत्यम् । अत्र भूमध्ये सत्रस्यैकमग्रं बद्ध्वा द्वितीयमग्रं
- भचक्रेऽश्विनीमुखे किल निबद्धम् । तस्मिन् सूत्रे प्रोता
- मणय इव चन्द्रादयो ग्रहाः सृष्ट्यादौ ब्रह्मणा निवे-
- शिताः । भूमण्डलं द्वादशधा विभज्यैवं भूमध्यात्
- सूत्राणि प्रतिभागं नीत्वा किल बद्धानि तैः सूत्रैः सह
- ग्रहकक्षायां ये संपातास्ते तासु कक्षासु राश्यन्ताः ।
|
- तद्वत्प्रकारा राशय इति सङ्क्षिप्तमिहोक्तम् । कक्षाध्याये
- गोले च किञ्चिद्विस्तीर्य वक्ष्यामः । एवंविधं भचक्र
- सृष्ट्वा व्रह्मणा गगने निवेशितम् । यत्र निवेशितं तत्र
- प्रवहो नाम वायुः । स च नित्यं प्रत्यग्गतिः । तेन
- समाहतं भचक्रं सखेचरं पश्चिमाभिमुखभ्रमे प्रवृत्तम् ।
- यत् तस्य प्रत्यग्भ्रमणं तच्छीघ्रतरम् । यत एकेनाह्ना
- भमण्डलस्य परिवर्त्तः । एवं तस्मिन् भपञ्जरे सखेचरे
- शीघ्रतरे भ्रमत्यपि खेचरा इन्द्रदिशं चरन्ति पूर्वाभिमुखं
- व्रजन्ति । नीचोच्चतरात्मवर्त्मसु । अनन्तरकथितेषु स्वस्व-
- मार्गेषु तेषां प्राग्भ्रमणम् । तत् तदल्पगत्या प्रत्यग्-
- गतेर्बहुत्वात् प्रागल्पगत्या व्रजन्तो नीपलक्ष्यन्ते इति
- भावः । तथा तस्य भपञ्जरस्य यौ दक्षिणोत्तराबन्तौ
- तत्र ये तारे ते ध्रुवत्वे नियुक्ते” प्रमिता० । सि० शि०
- ग्रहाणां केषां चित् कल्पेभगणा अन्यथोक्ता यथा ।
- “अर्कशुक्रबुधपर्यया विधेरह्नि कोटिगुणिता रदाब्धयः
- ४३२००००००० । एत एव शनिजीवभूभुवां कीर्त्तिताश्च
- गणकैश्चलोच्चजाः । खाभ्रखाभ्रगगनामरेन्द्रियक्ष्माधरा-
- द्रिविषया ५७७५३३००००० हिमद्युतेः । युग्मयुग्म-
- शरनागलोचनव्यालषण्णवयमाऽश्विनो २२९६८२८५२२
- ऽसृजः । सिन्धुसिन्धुरनवाष्टगोऽङ्कषट्त्र्यङ्कसप्तशशिनो
- १७९३६९९८९८४ ज्ञशीघ्रजाः । पञ्चपञ्चयुगषट्कलोचन-
- द्व्यब्धिषड्गुणमिता ३६४२२६४५५ गुरोर्मताः । द्विनन्द-
- वेदाङ्कगजाग्निलोचनद्विशून्यशैलाः ७०२२३८९४९२
- सितशीघ्रपर्ययाः । भुजङ्गनन्दद्विनगाङ्गबाणषट्कृतेन्दवः
- १४६५६७२९८ सूर्यसुतस्य पर्ययाः खाष्टाब्धयो ४८०
- ऽष्टाक्षगजेषुदिग्द्विपद्विपाब्धयो ४८८१०५८५८ द्व्यङ्कयमा
- २९२ रदाग्नयः ३३२ । शरेष्विभा ८५५ स्त्र्यक्षरसाः
- ६५३ कुसागराः ४१ स्युः पूर्वगत्या तरणेर्मृदूच्चजाः ।
- गजाष्टिभर्गत्रिरदाश्विनः । २३२३१११६८ कुभृद्रसाश्विनः
- २६७ कुद्विशराः ५२१ क्रमर्त्तबः ६३ । त्रिनन्दनागा
- ८९३ युगकुञ्जरेषवो ५८४ निशाकराद्व्यस्तगपातपर्ययाः” मू० ।
- ग्रहाणां पूर्वगत्या गच्छतां कल्प एतावन्तो भगणा
- भवन्ति । तथा मन्दोच्चानां चलोच्चानां च प्राग्गत्या
- एतावन्तः पर्यया भवन्ति । तथा पातानां पश्चिमगत्या
- एतावग्तो भवस्ति । अत्रोपपत्तिः । सा तु तत्तद्भाषाकुशलेन
- तत्तत्क्षेत्रसंस्थानज्ञेन श्रुतगोलेनैव श्रोतुं शक्यते नान्येन ।
- ग्रहमन्दशीघ्रोच्चपाताः स्वस्वमार्गेषु गच्छन्तः एतावन्तः
- पर्ययान् कल्पे कुर्वन्तीत्यत्रागम एव प्रमाणम् । स
|
पृष्ठ २४३०
- चागमो महता कालेन लेखकाध्यापकाध्येतृदोषैर्बहुधा
- जातस्तदा कतमस्य प्रमापयम् । अथ यद्येवमुच्यत
- गणितस्कन्ध उपपत्तिमानेव गमः प्रमाणम् । उपपत्त्या ये
- सिध्यन्ति भगणास्ते ग्राह्याः । तदपि न । यतीऽति-
- प्राज्ञेन पुरुषेणोपपत्तिर्ज्ञातुमेव शक्यते । न तया तेषां
- भगणानामियत्ता कर्त्तुं शक्यते पुरुषायुषोऽल्पत्वात् ।
- उपपत्तौ तु ग्रहः प्रत्यहं यन्त्रेण वेध्यः भगणान्तं
- यावत् । एवं शनैश्चरस्य तावत्वर्षाणां त्रिंशता भगणः
- पूर्यते । मन्दोच्चानां तु वर्षशतैरनेकैः । अतो नायमर्थः
- पुरुषसाध्य इति । अत एवातिप्राज्ञा गणकाः साम्प्रतो-
- पलब्ध्यनुसारिणं प्रौढगणकस्वीकृतं कमप्यागममङ्गीकृत्य
- ग्रहगणित आत्मनो गणितगोलयोर्निरतिशयं कौशलं
- दर्शयितुं तथान्यैर्भ्रान्तिज्ञानेनान्यथोदितानर्थांश्च निरा-
- कर्तुमन्यान् ग्रन्थान् रचयन्ति । ग्रहगणित इति कर्त-
- व्यतायामस्माभिः कौशलं दर्शनीयं भवत्वागमो योऽपि
- कोऽप्ययमाशयस्तेषाम् । यथात्र ग्रन्थे ब्रह्मगुप्तस्वीकृता-
- गमोऽङ्गीकृत इति । तर्हि तिष्ठतु तावदुपपत्त्या
- भगखानामियत्तासाधनम् । अथ यद्युपपत्तिरुच्यते तर्हिं
- इतरेतराश्रयदोषशङ्कया यक्तुमशक्या । तथापि संक्षिप्ता-
- मुपपत्तिं वक्ष्यामः । इतरेतराश्रयदोषोऽत्र दोषाभासः ।
- उपपत्तिभेदानां यौगपद्येन वक्तुमशकत्वात् । अथोच्यते
- अर्कशुक्रबुधपर्यया विधेरित्यादि । यावन्ति कल्पे वर्षाणि
- तावन्त एव सूर्यभगणा इत्युपपन्नम् । यतो भगणभोग-
- कालो हि वर्षमुक्तम् । बुधशुक्रौ तु रवेरासन्नावेव
- कदाचिदग्रतः कदाचित् पृष्ठतस्तस्यानुचराविव सदा
- व्रजन्तौ दृश्येते । अतस्तयोरपि रविभगणतुल्या भगणा
- इत्युपपन्नम् । चलोच्चभगणोपपत्तिमग्रे वक्ष्यामः । अथ
- समायां भूमावभीष्टकर्कटकेन त्रिज्यामिताङ्कैरङ्कितेन
- वृत्तं दिगङ्कितं भगणांशैश्चाङ्कितं कृत्वा तत्र प्राचीचिह्ना-
- द्दक्षिणतो नातिदूरे प्रदेश उत्तरेऽयने वृत्तमध्यस्थितेन
- कीलेन रवेरुदयो वेध्यः । ततोऽन्तरं वर्षमेकं रव्युदया
- गणनीयाः । ते च पञ्चषष्ट्यधिकशतत्रय ३६५ तुल्या
- भवन्ति । तत्रान्तिमोदयः पूर्वोदयस्थानादासन्नो दक्षिणत
- एव भवति । तयोरन्तरं विगणय्य ग्राह्यम् । ततोऽन्य-
- स्मिन् दिने पुनरुदयो वेध्यः । स तु पूर्वचिह्नादुत्तरत
- एव भवति । तदप्युत्तरमन्तरं ग्राह्यम् । ततोऽनुपातः ।
- यद्यन्तरद्वितयकलाभिरेकीकृताभिः षष्टि ६० घटिका
- कभ्यन्ते तदा दक्षिणेनान्तरेण किमिति । अत्र लभ्यन्ते
|
- पञ्चदश घटिकास्त्रिंशत् पलानि सार्धानि द्वाविंशतिर्विप-
- लानि १५ । ३० । २२ । ३० । आभिर्घटीभिः
- सहितानि पञ्चषष्ट्यधिकशतत्रयतुल्यानि सावनदिनान्येकखिन्
- रव्यब्दे भवन्त ३६५ । १५ । ३० । २२ । ३० । ततोऽ-
- नुपातः । यद्येकेन वर्षेणैतावन्ति कुदिनानि तदा कल्प-
- वर्षैः किमिति । एवं ये लभ्यन्ते ते सावनदिवसा भवन्ति
- कल्पे । अथ यदि तैरेव रवेर्वर्षान्तःपातिभिः कुदिनैश्चक्रकला
- लभ्यन्ते तदैकेन किमिति । फलं मध्यमा रविगतिरित्यु-
- पपन्नम् । अथ चन्द्रभगणोपपत्तिः । तत्रादौ तावद्
- ग्रहवेधार्थं गोलबन्धोक्तविधिना विपुलं गोलयन्त्रं
- कार्यम् । तत्र खगोलस्यान्तर्भगोल आधारवृत्तद्बयस्यो-
- परि विषुवद्वृत्तम् । तत्र च यथोक्तं क्रान्तिवृत्तं
- भगणांशाङ्कितं च बध्वा कदम्बद्वयकीलकयोः प्रोतमन्यच्चलं
- ग्रहवेधवलयम् । तच्च भगणांशाङ्कितं कार्यम् । तत
- स्तद्गोलयन्त्रं सम्यग ध्रुवामिमुखयष्टिकं जलसमक्षितिज-
- वलयं च यथा भवति तथा अन्तरं कृत्वा रात्रौ
- गोलमध्यचिह्नगतया दृष्ट्या रेवतीतारां विलोक्य क्रान्तिवृत्ते
- यो मीनान्तस्तं रेवतीतारायां निवेश्य मध्यगतयैव
- दृष्ट्या चन्द्रं विलोक्य तद्वेधवलयं चन्द्रोपरि निवेश्यम् ।
- एवं कृते सति वेधवृत्तस्य क्रान्तिवृत्तस्य च यः संपातस्तस्य
- मीनान्तस्य च यावदन्तरं तस्मिन् काले तावान् स्फुट-
- श्चन्द्रो वेदितव्यः । कान्तिवृत्तस्य चन्द्रविम्बमध्यस्य च
- वेधवृत्ते यावदन्तरं तावांस्तस्य विक्षेपः । ततो यावतीषु
- रात्रिगतघटिकासु वेधः कृतस्तावतीष्वेव पुनर्द्वितीयदिने
- कर्तव्यः । एवं द्वितीय दने स्फुटचन्द्रं ज्ञात्वा तयोर्यद-
- न्तरं सा तद्दिने स्फुटा गतिः । अथ तौ चन्द्रौ “स्फुट-
- ग्रहं मध्यखगं प्रकल्प्येत्यादिना” मध मौ कृत्वा तयोरन्तरं
- या मध्यमा चन्द्रग तः । तयाऽनुपातः । यद्येकेन दिने-
- नैतावती चन्द्रगतिस्तदा कुदिनैः किमित्येवं चन्द्रभगणा
- उत्पद्यन्ते । तथा चाह श्रोमान् ब्रह्मगुप्तः “ज्ञातं
- कृत्वा मध्यं भूयोऽन्यदिने तदन्तरं भुक्तिः । त्रैराशि-
- केन भुक्त्या कल्पग्रहमण्डलानयनम्” ॥ ऐवमन्येषामपि
- भगणोपपत्तिः । अथ चन्द्रेक्षस्य । एवं प्रत्यहं चन्द्र-
- वेधं कृत्वा स्फुटगतयो विलेक्याः । यस्मिन् दिने गतेः
- परमाल्पत्वं दृष्टं तत्र दिने मध्यम एव स्फुटश्चन्द्रो
- भवति । तदेवोच्चस्थानम् । यत उच्चसमे ग्रहे फलाभावो
- गतेश्च परमाल्पत्वम् । ततश्च तस्माद्दिनादारभ्यान्यस्मिं-
- श्चन्द्रपर्यये प्रत्यहं चन्द्रवेवात् तथैवोच्चस्थानं ज्ञेयम् । तच्च
|
पृष्ठ २४३१
- पूर्वस्थानादग्रत एव भवति । यत् तयोरन्तरं तज्ज्ञात्वा-
- ऽनुपातः क्रियते । यद्येतावद्भिरन्तरदिनैरिदमुच्चयोरन्तरं
- लभ्यते तदैकेन किमिति । फलं तुङ्गगतिः । तयानु-
- पातात् कल्पभगणाः । अथ चन्द्रपातभगणोपपत्तिः ।
- एव प्रत्यहं चन्द्रवेधाद्दक्षिणविक्षेपे क्षीयमाणे यस्मिन्
- दिने विक्षेपाभावो दृष्टः क्रान्तिवृत्ते तत् स्थानं चिह्नयित्वा
- तत्र यावान् विधुः स भगणाच्छुद्धः पातः स्यादिति
- ज्ञेयम् । पुनरन्यस्मिन्नपि पर्यये दक्षिणविक्षेपाभावस्थानं
- ज्ञेयम् । क्रान्तिवृत्ते तत् स्थानं पूर्वस्थानात् पश्चिमत एव
- भवति । अतो ज्ञाता पातस्य विलोमा गतिः । सा
- चानुपातात् । यद्येतत्कालान्तरदिनैरेतावत् पातयोरन्तरं
- लभ्यते तदैकेन किमिति । फलं पातगतिः । तया
- प्राग्वत् कल्पभगणाः । अथ रवितुङ्गोपपत्तिः । मिथु-
- नान्ते रवौ कस्मिंश्चिद्दिने रेवतीतारकोदयाद्यावतीभि-
- र्घटिकाभीरविरुदितस्तावतीभिर्मीनान्ताल्लग्नं साध्यम् ।
- यल्लग्नं स तदा स्फुटो रविर्ज्ञेयः । एवमन्यस्मिन् दिने-
- ऽपि । तयोः स्फुटार्कयोरन्तरं स्फुटा गतिः । एवं
- प्रत्यहं स्फुटगतयो ज्ञातव्याः । यस्मिन् दिने गतेः
- परमाल्पत्वं तद्दिने यावान् रविस्तावदेव रवेरुच्चं भवति ।
- तस्योच्चस्य चलनं वर्षशतेनापि नोपलक्ष्यते । किन्त्वाचार्यै-
- श्चन्द्रमन्दोच्चवदनुमानात् कल्पिता गतिः । सा चैवम्
- यैर्भगणैः साम्प्रताहर्गणाद्वर्षगणाद्वा एतावदुच्चं भवति
- ते भगणा युक्त्या कुट्टकेन वा कल्पिताः । अथान्येषां
- शीघ्रोच्चोपपत्तिः । तत्र “एत एव शनिजीवभूभुवामि-
- त्यादि” । उच्चो ह्याकर्षकी भवति । तेन स्वकक्षामण्डले
- भ्रमन् ग्रहः स्वाभिमुखमाकृष्यते । तेनाकृष्टः सन् कक्षा-
- मण्डले मध्यग्रहादग्रतः पृष्ठतो वा यावतान्तरेण दृश्यते
- तावत् तस्य फलं भान्द्यं शैघ्य्रं वा । अहो उच्चो नाम
- प्रदेशविशेषस्तेन कथमाकृष्यते? अतस्तस्य देवतारूपत्वमुक्तं
- सूर्यसिद्धान्ते । “अदृश्यरूपाः कालस्य मूर्तयो भगणा-
- श्रिताः । शीघ्रमन्दोच्चपाताख्या ग्रहाणां गतिहेतवः ।
- तद्वातरश्मिभिर्बद्धास्तैः सव्येतरपाणिभिः । प्राक्
- पश्चादपकृष्यन्ते यथासन्नं स्वदिङ्मुखम्” इत्यादि ।
- एवमत्रोच्चस्य देवताविशेषत्वेनाङ्गीकृतत्वाददोषः । एतदुक्तं
- भवति । शनेर्जीवात् कुजाद्वा यदा रविरग्रे वर्त्तते तदा
- मध्यग्रहात् स्फुटग्रहोऽग्रतो दृश्यते । यदा तु पृष्ठ-
- गतोऽर्कस्तदा मध्यात् स्फुटग्रहः पृष्ठतो दृश्यते ।
- अतस्तेषां त्रयाणां रविसमं शीघ्रोच्चं धीरैः कल्पितम् ।
|
- अतो रविभगणतुल्याः शीघ्रोच्चभगणा इत्युपपन्नम् ।
- अथ मन्दोच्चोपपत्तिः । तत्र वेधेन स्फुटग्रहं ज्ञात्वा तं
- मन्दस्फुटं प्रकल्प्य ततः शीघ्रफलमानीय तत् तस्मिन्
- स्फुटे विलोमं कृत्वैवमसकृन्मन्दस्फुटो ज्ञेयः । एवं
- प्रत्यहं मन्दस्फुटमुपलक्ष्य स मन्दस्फुटो धनर्ण्णं मन्दफले
- क्षीयमाणे यस्मिन् दिने मध्यमतुल्यो भवति तदा तत्तु-
- ल्यमेव मन्दोच्चं ज्ञेयम् । ततस्तस्माद्रविमन्दोच्चवद्भगणाः
- कल्प्याः । एवं सर्वेषाम् । अथ बुधशुक्रयोः शीघ्रो-
- च्चोपपत्तिः । तत्र रविशुक्रयोः पूर्वस्यां दिशि चक्रयन्त्र-
- वेधेनान्तरभागा ज्ञेयाः । ते तयोः स्फुटयोरन्तरांशा
- जातास्तैः स्फुटार्काद्विशोधितैः स्फुटः शुक्रो भवति ।
- ततः शुक्रस्य मन्दफलमानीय तत् स्फुटे शुक्रे धनर्णं
- व्यस्तं कार्य्यम् । रविश्च मध्यमः कार्यः । तयोर्यदन्तरं
- तच्छीघ्रफलमृणं धनं च ज्ञेयम् । एवं प्रतिदिनवेधेन
- तच्छीघ्रफलं परममृणं ज्ञातव्यम् । तत् तादृक् फलमर्कान
- तिर्यक्स्थितेनोच्चेनाकृष्टस्य भवति । तच्च तिर्यक्स्थत्वं
- त्रिभान्तरितस्य स्यात् । अतस्तत्र त्रिभोनेन स्फुटशुक्रेण
- तुल्यं शीघ्रोच्चं ज्ञेयम् । एवं पुनरन्यस्मिन् पर्यये प्राच्या-
- मेवान्यच्छीघ्रोच्चं ज्ञात्वानुपातः क्रियते । यद्येतत्काला-
- न्तरदिनैस्तयोरुच्चयोरन्तरं लभ्यते तदैकेन किमिति ।
- फलं तुङ्गगतिः । प्राग्बत् तया भगणाः । एवं
- बुधस्यापि । अथ भौमादीनां वेधेन प्राग्वद्दक्षिणविज्ञेपाभाब-
- स्थाने यावान् मन्दस्फुटो ग्रहश्चक्रशुद्धस्तावान् पातः ।
- बुधशुक्रयोस्तु तदा मन्दफलव्यस्तसंस्कृतं यावच्छीघ्रोच्चं
- चक्रशुद्वं तावान् पातो ज्ञेयः । ततः प्राग्वद्भगण-
- कल्पना । अथ भभ्रमानाह” प्रमि० । “खखेषुवेदषड्गुणाकृती-
- भभूतभूमयः । शताहता १५८२२३६४५०००० भपश्चिम-
- भ्रमा भवन्ति काहनि” काहनि ब्रह्मदिन एतावन्तो भानां
- पश्चिमभ्रमा भवन्ति । अत्रोपपत्तिर्गोल “समं भूसूर्यावुदिता-
- वित्यादिना” कथिता व्याख्याता च । अथ सूर्याहांश्चान्द्रा-
- हांश्चाह” प्रमि० । “विधिदिने दिनकृद्दिवसाः करेन्द्रियशरेषु-
- भुवोऽर्बुदसंगुणाः १५५५२०००००००० । नवनवाङ्ककराभ्र-
- रसेन्दवः प्रयुतसंगुणिता १६०२९९९००००००० विधुवासराः”
- अत्रोपपत्तिः । रविवर्षाणि (४३२००००००० । ३६० गुणि-
- तानि) दिनीकृतानीनि सुगमम् । चन्द्रार्कयोर्यावन्तः कल्पे
- योगास्तावन्तः किल शशिमासाः । ते तु योगा भगणा-
- न्तरतुल्याः स्युः । उभयोरपि प्राग्गमनात् । अतो भगणा-
- न्तरतुल्याः शशिमासा भवन्ति । ते त्रिंशद्गुणाः शशिदिवसा
|
पृष्ठ २४३२
- भवन्तीत्युपपन्नम् । अथ कुदिनान्याह । भूदिनानि शरवेद-
- भूपगोसप्तसप्ततिथयोऽयुताहताः १५७७९१६४५०००० ।
- मभ्रमास्तु भगणैर्विवर्जिता यस्य तस्य कुदिनानि तानि
- वा” ॥ एषामुपपत्तिः प्रागेवोक्ता । एकस्मिन्रविवर्षे
- यावन्तो भभ्रमाः स्युस्तावन्त एवैकोना रविसावनदिवसा
- भवन्ति । यतो रविः प्राग गत्या एकं पर्ययं गतः ।
- अतो भगणसंख्ययोना भभ्रमाः क्वहा भवन्ति ।
- एवमन्येषामपि ग्रहाणां कुदिनानि स्युरित्युपपन्नम्” प्रमि०
- इदानीं कलिगतादप्यहर्गणादिकमाह । “कलिगतादथ
- वा दिनसंचये दिनपतिर्भृगुजप्रभृतिस्तदा । कलिमुख-
- ध्रुवकेण समन्वितो भवति तद्द्युगणेद्भवखेचरः” सि० शि०
- “अत्र कलिगताहर्गणेऽयं विशेषः । शुक्राद्यो वारो
- गणनीयः । यतः कल्पगताहर्गणात् कलिमुखे शुक्र-
- वारी भवति । तत्र च ये ग्रहास्ते ध्रुवसंज्ञाः
- कल्पिताः । तद्द्युगणभवः खेचरश्च कलिमुखध्रुवकेण
- समन्वितः कार्य इत्यत्र वासनापि सुगमा । इदानीं
- कलिमुखग्रहानाह” प्रमि० । “खाद्रिरामाग्नयः ३३७० क्वग्नि-
- रामाङ्कका ९३३१ वेदवेदाङ्कचन्द्रा १९४४ विलिप्ताः
- क्रमात् । षड्रसाङ्गाव्धयो ४६६६ ऽङ्गाभ्रवेदाब्धयो
- ४४०६ वेदषट्काभ्रभूपाभ्रभूसंमिताः १०१६०६४ ।
- वेदचन्द्रद्विवेदाब्धिनागाः ८४४४२१४ करद्व्यब्धिवेदाब्धिशैलं
- ७४४५२२ भवेयुः कुजात् । द्वापरान्तध्रुवाश्चक्रशुद्धास्तथा
- सूर्यतुङ्गेन्दुतुङ्गेन्दुपातोद्भवाः” सि० शि० । “कुजादीनां सर्वेशां
- ध्रुवाश्चक्रशुद्धाः पठिता लाघवार्थम् स्पष्टार्थमिदम्” प्रमि०
- कल्यादौ ग्रहाः ।
- मं* वु* गु* शु* श* रतुं* चंतुं* चंपा
- ११ ११ ११ ११ ११ २ ४ ५
- १९ २७ २९ २८ २८ १७ ५ ३
- ३ २४ २७ ४२ ४६ ४५ २९ १२
- ५० २९ ३६ १४ ३४ ३६ ४६ ५८
- अत्र बालावबोधार्थं रूपमहर्गणं कृत्वा ग्रहाणां सावन
- दिनगतयः साधिताः ।
- र चं मं बु गु शु श उ पा
- ० १३ ० ४ ० १ ० ० ०
- ५९ १० ३१ ५ ४ ३६ ३ ६ ३
- ८ ३४ २६ ३२ ५९ ७ ० ४० १०
- १० ५३ २८ १८ ९ ४४ २२ ५३ ४८
- २१ ० ७ २८ ९ ३५ ५१ ५६ २०
|
- दिनगणः स्वषष्ट्यंशोनो भाग इति प्रत्यहमेकोनषष्टिः
- कला गृहीताः । शेषावयवेन सत्रिभागैः सप्तभिर्दिनै-
- रेका कला भवति” प्रमि० ।
- खगोले सप्त वायुस्कन्धा” सि० शि० उक्ताः यथा “भूवायु-
- रावह इह प्रवहस्तदूर्द्ध्वः स्यादुद्वहस्तदनु सवहसंज्ञकश्च ।
- अन्यस्ततोऽपि सुवहः परिपूर्वकोऽस्माद्बाह्यः परावंह इमे
- पवनाः प्रसिद्धाः । भूमेर्बहिर्द्वादश योजनानि भूवायुरत्राम्बु-
- दविद्युदाद्यम् । तदूर्द्ध्वगो यः प्रवहः, स नित्यं प्रत्यग्गति-
- स्तस्य तु मध्यसंस्था । नक्षत्रकक्षा खचरैः समेतो यस्मा-
- दतस्तेन समाहतोऽयम् । भपञ्जरः खेचरचक्रयुक्तो
- भ्रमत्यजस्रं प्रवहानिलेन” । श्रीपतिः “स्यादावहः
- प्रवह उद्वहसंवहौ च स्वादिर्वहः परिबहश्च
- परावहश्च । स्कन्धाः क्रमेण मरुतामिह सप्तसंख्या विश्व-
- म्भरापवनमावहमाहुरेके” ।
- मतभेदेन भूगोलभगोलयोश्चलाचलत्वविप्रतिपत्तौ
- भगोलस्यैव भ्रमणं सि० शि० भु० को० निरूपितं
- यथा “यान्तो भचक्रे लघुपूर्वगत्या खेटास्तु तस्याप-
- रशीघ्रगत्या । कुलालचक्रस्नमिवामगत्या यान्तो न कीटा
- इव भान्ति यान्तः” सि० शि० । आर्य्यभट्टमते तु मूमेरेव
- चलनं व्यवस्थापितं यथा
- “अनुलोमगतिर्नौस्थः पश्यत्यचलं विलोमगं यद्वत् ।
- अचलानि भानि तद्वत् समपश्चिमगानि लङ्कायाम्” । अनेन
- भूमेरेव गतिवशाद्भ्रचक्रस्य भ्रमणभ्रम इत्युक्तम् तेन च
- भचक्रस्थानां ग्रहाणामुदयास्तमयनिमित्तं भ्रमणमङ्गी-
- कृतम् यथा “उदयास्तमननिमित्तं प्रवहेन वायुना
- क्षिप्तः । लङ्कायां समपश्चिमगोभपञ्चस्थोग्रहोभ्रमति”
- अत उदयस्तमयनिमित्तत्वेन ग्रहगतिस्वीकारेण कालभेदे
- शुक्रादीनामिव रवेरुदयास्तमयाभावात् न गतिमत्त्वं
- प्रत्यहमुदयास्तमयौ तु तस्य भूगत्यैब सम्भवतः भूमिवृ-
- त्तार्द्धेनाच्छादनाद्दृश्यत्वाभावेनास्तत्वमिति भेदः । अत्रेदं
- बोध्यम् ग्रहगतिस्वीकारेणैव सर्वोपपत्तौ भूगतिस्वीकारो-
- ऽनर्थक इत्यभिप्रेत्य श्रीपतिना आर्य्यभट्टमतमुपन्यस्य तत्र
- दूषणमुक्त्वा भगोलस्यैव भ्रमणमुपपादितं यथा “नौस्थो-
- विलोमगमनादचलं यथावन्ना मन्यते चलति नैवमिला-
- भ्रमेण । लङ्कासमापरगतिप्रचलद्भचक्रमाभाति सुस्थिर-
- मपीति वदन्ति केचित् । यद्येवमम्बरचराविहगाः स्वनीड़-
- मासादयन्ति न खलुभ्रमणे धरित्र्याः । किञ्चाम्बुदा अपि
- न भूरिप्रयोमुचः स्युर्देशस्य पूर्वगमनेन चिराय हन्त ।
|
पृष्ठ २४३३
- भूगोलवेगजनितेन समीरणेन केत्वादयोऽप्यपरदिग्गतयः
- सदा स्युः । प्रासादभूधरशिरांस्यपि संपतन्ति तस्माद्भ्रम-
- त्युडुगणस्त्वचलाऽचलैव” । रङ्गनाथोऽपि “यदि च भ्रमति
- क्षमा तदा स्वकुलायं कथमाप्नुयुः खगाः । इषवोऽभिनभः
- समुज्झिता निपतन्तः स्युरपांपतेर्दिशि । पुरतोऽभिमुखे
- भ्रमे भुवो वरुणाशाभिमुखो व्रजेद्घनः । अथ मन्दगमात्
- तथा भवेत् कथमेकेन दिवा परिभ्रमः” इत्याह ।
- सि० शि० भूमेरेव स्थितत्वं व्यवस्थापितं यथा
- “भूमेः पिण्डः शशाङ्कज्ञकविरविकुजेज्य र्किनक्षत्रकक्षा-
- वृत्तैर्वृत्तो वृतः सन् मृदनिलसलिलव्योमतेजोमयोऽयम् ।
- नान्याधारः स्वशक्त्यैव वियति नियतं तिष्ठतीहास्य
- पृष्ठेनिष्ठं विश्वं च शश्वत् सदनुजमनुजादित्यदैत्यं
- समन्तात् । सर्वतः पर्वतारामग्रामचैत्यचयैश्चितः । कदम्ब-
- कुसुमग्रन्थिः केसरप्रसरैरिव” सि० शि० । “योऽयं
- मृदनिलसलिलव्योमतेजोमय इति पाञ्चभौतिको भूमेः पिण्डो
- वृत्तो वर्तुलाकारस्तदवहिस्थैः शशाङ्कादिकक्षावृत्तैरावृतः
- सन्ननन्याधारः स्वशक्त्यैव नियतं निश्चितं वियत्याकाशे
- तिष्ठति । तत्पृष्ठनिष्ठं च जगत् । सदनुजमनुजादित्यदै-
- त्यम् । दनुजा दानवाः । मनुजा मानवाः । आदित्या
- देवाः । दैत्या असुराः । तैः समेतं समन्तात् तिष्ठति ।
- शेषं स्पष्टार्थम्” प्रमि० । इदानीं पुराणेषु भूमेराधार-
- परम्परा या पठिता तां निराकुर्वन्नाह । “मूर्तो धर्ता
- चेद्धरित्र्यास्ततोऽन्यस्तस्याप्यन्योऽस्यैवमत्रानवस्था । अन्त्ये
- कल्प्या चेत् स्वशक्तिः किमाद्ये किं नो भूमेः साष्टमूर्तेश्च
- मूर्तिः” सि० शि० । कथमियं भूमेः स्वशक्तिरित्याशङ्कां
- परिहरन्नाह । “यथोष्णतार्कानलयोश्च, शीतता विधौ,
- द्रुतिः के कठिनत्वमश्मनि । मरुच्चलो भूरचला स्वभावतो
- यतो विचित्रा वत वस्तुशक्तयः । आकृष्टिशक्तिश्च मही
- तया यत् खस्थं गुरु स्वाभिमुखं स्वशक्त्या । आकृष्यते
- तत्पततीव भाति समे समन्तात् क्व पतत्वियं खे”
- सि० शि० । “आकृष्टिशक्तिश्व महीत्यनेन भूमेरधःपतनशङ्का
- तत्तिर्यगधःस्थितानां चाधःपतनशङ्का निरस्ता” प्रमि० ।
- तथान्यत्रापि युक्तिस्तत्र दर्शिता यथा “विलोक्याह्ना घ्रव-
- मत्स्य परिभ्रमम्” । “यदा भरणीस्थो रविर्भवति तदा
- तस्यास्तमयकाले ध्रुवमत्स्यस्तिर्यक्स्थो भवति । तस्य
- मुखतारा पश्चिमतः, पुच्छतारा पूर्वतः । तदा मुखता-
- रासूत्रे रविरित्यर्थः । अथ निशावसाने मुखतारा
- परिवर्त्य पूर्वतो याति । पुच्छतारा पश्चिमतो याति ।
|
- ततो मुखतारासूत्रगतस्यैवार्कस्योदयो दृश्यते” प्रमि० ।
- अत्रायमाशयः यदि भूमेरेव चलनं न भचक्रस्य
- चलनमुररीक्रियेत तदा ध्रुवमत्स्यस्य ध्रुवतारासन्निकृष्टस्थाने
- भचक्रे स्थितस्य शूलतारात्मकताराद्वयस्य ध्रुवचतुर्दिक्षु
- भचक्रभ्रमणवत् पश्चात् प्रत्यहमेकेनाह्ना परिभ्रमणं
- दृश्यते भरणीस्थे सूर्य्ये च अस्तमयकाले ध्रुवमत्स्य
- मुखतारायाः पश्चिमस्थत्वं पुच्छतारायाश्च पूर्बस्थत्वं दृश्यते
- दृश्यते च निशावसाने तयोर्दिग्विपर्य्ययः । भूमेरेव
- चलनात् तस्योदयास्तमयस्वीकारे यथास्थितैकरूपेणावस्थानमपि
- दृश्येत न च तथा दृश्यते । अतो भचक्रस्यैव चलनात्
- सर्बव्यवहारोपपत्तौ मुधा भूमेश्चलनाङ्गीकारेण । एवं
- सप्तर्षिमण्डलस्य मरीच्यादिक्रमेण निशामुखे उदयसमये
- पूर्वस्थत्वमस्त मयकाले निशावसाने च तद्विपर्य्ययेणावस्थानं
- भचक्रभ्रमणं विनाऽनुपपन्नमेव तेषां च राशिचक्रे यथा
- पूर्व्वादिक्रमेण स्थितिः शतवर्षेणेकैकनक्षत्रभोगस्तथा
- ऋषिशब्दे १४५१ पृ० दर्शितम् । अत्र श्रीपतिना “प्रासाद-
- शिरांशि पतन्तीति” यदुक्तं तदापाततः भूमेः स्वोर्द्ध्वाकाश-
- विभागस्थानस्थानां तयाकृष्टमूर्त्तीनामेव भूमौ पतनमिति
- नियमेन स्वाधिष्ठिततया भूभागस्यैवाधोभागतत्रैव
- पतनसम्भवात् तेन न प्रासादशिरःपतनसम्भवः “क्वाधःपतेदिति
- वाक्यापर्य्यलोचनया तथैवावगमादिति सुधीभिर्भाव्यम् ।
- भूचलने अन्येऽपि दोषाः सम्भवन्ति । तथाहि पूर्वापर-
- भागे तुल्ययन्त्रेणाकृष्य क्षिप्तशरयोः समगतिरेव प्रत्यक्ष-
- सिद्धा समया गत्या च तुल्यभूमिभागे एव तयोः पतनमु-
- चितम् । भूमेः प्राग्गतित्वाङ्गीकारे च प्राक्क्षिप्तस्याधिक-
- भूम्यन्तरे, पश्चात्क्षिप्तस्य चाल्पभूम्यन्तरे पतनं स्यात् । न च
- तथा लक्ष्यते । किञ्च द्वादशयोजनात्मकभूवायुना सार्द्धं
- भूमेः प्राग्गतिस्वीकर्त्तृणामिलण्डीयज्योतिर्विदां मतेऽपि
- प्राग्गतेः शरस्य वाय्वनुकूलत्वादपि अधिकगतित्वं प्रत्यग्गतेस्तु
- प्रतिकूल वायुना प्रतिरोधात् अल्पगतित्वमपि स्रोतो-
- ऽनुकूलप्रतिकूलगतिमतोर्गतिभेदवत् स्यात् ।
- किञ्च आर्य्यभट्टमते भूमेः स्वकक्षायामेव भ्रमणाङ्गीरेऽपि
- इंलण्डीयज्योतिर्भिः प्रत्यहं भूमेरेककारं प्राग्गतावपि
- वर्षेण च क्रमशः सूर्य्यमण्डलभ्रमणमुररीकृतं तथाऽङ्गी-
- कारे च भूमेः विषुवद्स्थानावधि षड्राशिषुक्रमशो वेष्टना-
- कारेणोर्द्धगत्या षण्मासोत्तरं सूर्य्यस्योर्द्ध्वं स्थितिः स्यात् ।
- तथा च तदानीं सूर्य्यस्य भूवृत्तापेक्षया यावदुच्छ्रुतप्रदेशे-
- स्थिति स्तावद्भिर्योजनैः सूर्य्यस्योर्द्ध्वं भूमेः स्थितिः अयनद्वये च
|
पृष्ठ २४३४
- तिर्यक्स्थितिः स्यात् तथा स्वीकारे च ध्रुवतारयोरपिंविषवतो-
- नतत्वोन्नतत्वेन दृश्यत्वापत्तिः अयनयोश्च तिर्य्यक्स्थितत्वा-
- पत्तिश्च नच तथा दृश्यते सदा एकरूपेणैव तयोर्दर्शनात्
- न च तयोरतिदूरस्थत्वात् न तथा लोकनं सम्भाव्यते
- इति वाच्यं भचक्रस्य ध्रुबलग्नत्वेन नक्षत्रकक्षासन्निकृष्ट-
- तया ध्रुवस्य सिद्धतया नक्षत्रकक्षायाश्च सूर्य्यकक्षायाः
- षष्टिगुणान्तरितत्वात् तदानीं सूर्व्योर्द्ध्वस्थितस्य भूमण्डलस्य
- ततोऽल्पान्तरेण स्थितेरतिदूरस्थत्वाभावात् सूर्य्याधःस्थिति-
- काले च अधिकान्तरे भूमेः सत्त्वावश्यकत्वापत्तेः । तावद्भि-
- र्योजनैः ध्रुवसन्निकृष्टपूर्वपश्चिमतारात्मकमत्स्यस्य नतोन्नत-
- तया तिर्व्यक्तया च दर्शनापत्तेर्वज्रलेपत्वात् । किञ्च सूर्य्यो-
- र्द्धस्थितिकाले सूर्य्येण सहैकराशिगतानां कुजजीवशन्या-
- दीनामासन्नतातारतम्येन तेषां स्थूलत्वतारतम्येन दर्शना-
- पत्तिः । इत्यादि बहु वक्तव्यमस्ति विस्तरभयाद्विरम्यते ।
- सि० शि० भूवृत्तादिमानमुक्तं यथा “प्रोक्तो योजनसंख्यया
- कुपरिधिः सप्ताङ्गनन्दाब्धय ४९६७ स्तद्व्यासः कुभुजङ्गसा-
- यकभुवो १५८१ ऽथ प्रोच्यते योजनम् । याम्योदक्पुरयोः
- पलान्तरहतं भूवेष्टनं भांश ३६० हृत् तद्भक्तस्य पुरान्तराध्वन
- इह ज्ञेयं समं योजनम्” सि० शि० । “भूपरिधेरुपपत्ति-
- र्गोले कथिता । योजनलक्षणं गणिते कथितमस्ति ।
- तथाप्यत्र यदुच्यते तत्रेदं कारणम् । भूरेकैव किन्तु यत्त्वार्य-
- भट्टादिभिराचार्यैः सत्यपि नियामके पलांशदर्शनेऽन्यथा-
- न्यथा तत्प्रमाणमभिहितं तत्र षट्सप्ताष्टयवमङ्गुलं
- कनिष्ठिकादिभेदेन शास्त्रे दृश्यते । तेनाभिप्राये-
- णाऽन्येन वा तथोक्तम् । याम्योत्तरयोः पुरयोः
- पलांशान् वक्ष्यमाणप्रकारैर्ज्ञात्वा तेषामन्तरेणानुपातः ।
- यदि भांशपरिधौ दक्षिणोन्तरमण्डल एतावत् पलान्तरं
- तदा मूपरिघौ पुरान्तरे किमिति । यल्लब्धं तावन्तो
- विभागाः पुरान्तरस्य क्रियन्ते । यावानेको विभागस्ता-
- वद्योजनं ज्ञेयम् । तादृशैर्योजनैर्देशान्तरं कर्तव्यमित्यर्थः”
- प्रमि० । इदार्नीं भूपरिधिस्फुटीकरणं मध्यरेखां चाह ।
- “लम्बज्यागुणितो भवेत् कुपरिधिःस्पष्टस्त्रिभज्याहृतो
- यद्वा द्वादशसंगुणः स विषुवत्कर्णेन भक्तः स्फुटः ।
- यल्लङ्कोज्जयिनीपुरीपरि कुरुक्षेत्रादिदेशान् स्पृशत् सूत्रं
- मेरुगतं पुधैर्निगदिता सा मध्यरेखा भुवः” सि० शि० ।
- रेखापुराण्याह श्रीपतिः “लङ्का कुमारी नगरी च
- काञ्ची पानाटमद्रिश्च सितः षडास्यः । श्रीवत्सगुल्मं
- च पुरी ततश्च माहिष्मती चोज्जयिनी प्रसिद्धा ॥ स्यादा
|
- श्रमोऽस्मान्नगरं सुरम्यं ततः पुरं पट्टशिवाभिधानम् ।
- श्रीगर्गराटं च सरोहिताख्यं स्थानेश्वरं शीतगिरिः
- सुमेरुः ॥ इतीव याम्योत्तरगां धराया रेखामिमां
- गोलविदो वदन्ति । अन्यानि रेखास्थितिभाञ्जि लोके ज्ञेयानि
- तज्ज्ञैः पुटभेदनानि” ॥
- ग्रहाणां प्रतिदिनं खकक्षायोजनगतिमानं सि० शि० उक्तम्
- “कल्पोद्भवैः क्षितिदिनैर्गगनस्य कक्षा भक्ता भवेद्दिन-
- गत्रिर्गगनेचरस्य । पादोनगोऽक्षधृतिभूमितयोजनानि
- ११८५८ । ४५ खेटा व्रजन्त्यनुदिनं निजवर्त्मनीमे” सि० शि०
- अत्रोपपत्तिः । यदि कल्पदिनैः खकक्षामितयोजनानि गच्छति
- तदैकेन किमिति । फलं दिनगतियोजनानि । तानि
- च स्थूलत्वेन तावत् पादोनगोऽक्षधृतिभूमितानि स्युः”
- ग्रहाणां दिनभुक्तिमाह” प्रमि० । “महीमितादहर्गणात्
- फलानि यानि तत्कलाः । भवन्ति मध्यमाः क्रमा-
- न्नभःसदां द्युभुक्तयः । समा गतिस्तु योजनैर्नभः-
- सदां सदा भवेत् । कलादिकल्पनावशान्मृदुद्रुता चला
- स्मृता” सि० शि० । “अत्रोपपत्तिस्त्रैराशिकेन । पूर्वं
- गतिर्योजनामिका ग्रहाणां तुल्यैवोक्ता । इदानीमतुल्या सा
- कलादिकल्पनावशात् । इदानीमतुल्यत्वे कारणमाह प्रमि०
- “कक्षाः सर्वा अपि दिविसदां चक्रलिप्ताङ्कितास्ता
- वृत्ते लघ्व्यो लघुनि महति स्युर्महत्यश्च लिप्ताः । तस्मा-
- देते शशिजभृगुजादित्यमौमेज्यमन्दा मन्दाक्रान्ता इव
- शशधराद्भान्ति यान्तः क्रमेण” सि० शि० । “यतः सर्वा
- अपि कक्षाश्चक्रलिप्ताभिरेवाङ्किताः । अतो महति वृत्ते
- महत्यो लिप्ताः स्युः । “लघुनि लघ्व्यः । तद्यथा चन्द्र-
- कक्षा सर्वाधिस्था लघुः । तस्यामेका कला पञ्चदशभि-
- र्योजनैर्भवति । शनेः कक्षा सर्वोपरिस्था सा महती
- तस्यामेका कला योजनानां षडिभिः सहस्रैरेकसप्त-
- त्योनै ५९२९ र्भवति । योजनं चतुःक्रोशमेव ।
- अतश्चन्द्रात् सकाशादूर्द्धोर्द्ध्वस्था बुधशुक्रादयः क्रमेण मन्दा-
- क्रान्ता मन्दगतय इव भान्ति” प्रमि० ।
- ग्रहाणां तुङ्गादिपरिधिभेदकारणम् सि० शि० उक्तं
- यथा “उच्चस्थितो व्योमचरः सुदूरे नीचस्थितः स्यान्नि-
- निकटे घरित्र्याः । अतोऽणुविम्बः पृथुलश्च भाति भानो-
- स्तथासन्नसुदूरवर्त्ती” सि० शि० । इदानीमन्यदृक्तुं प्रका-
- रान्तरमाह” प्रमि० । “उक्ता मयैषा प्रतिवृत्तभङ्ग्य
- युक्तिः पृथक् श्रोतुरसंभ्रमार्थम् । स्पष्टीकृतेस्तां पुनरन्य
- थाहं नीचोच्चवृत्तस्य च वचमि भङ्ग्या” सि० शि० ।
|
पृष्ठ २४३५
- “इह किल स्पष्टीकरणयुक्तिः प्रतिवृत्तभङ्ग्या मयोक्ता ।
- अथ तामेव नीचोच्चवृत्तभङ्ग्या वच्मि । इदानीं तां
- भङ्गिमाह” प्रमि० । “कक्षास्थमध्यग्रहचिह्नतोऽथ वृत्तं
- लिखेदन्त्यफलज्यया तत् । नीचोच्चसंज्ञं रचयेच्च रेखां
- कुमध्यतो मध्यखगोपरिस्थाम् । कुमध्यतो
- दूरतरे प्रदेशे रेखायुते तुङ्गुमिह प्रकल्प्यम् । नीचं
- तथासन्नतरेऽथ तिर्यङ्नीचोच्चमध्ये रचयेच्च रेखाम् ।
- नीचोच्चवृत्ते भगणाङ्कितेऽस्मिन् मान्द्ये विलोमं निजकेन्द्र-
- गत्या । शैघ्य्रेऽनुलोमं भ्रमति स्वतुङ्गादारभ्य मध्यद्यु-
- चरो हि यस्मात् । अतो यथोक्तं मृदुशीघ्र-
- केन्द्रं देयं निजोच्चाद्द्युचरस्तदग्रे । दोर्ज्योच्चरेखावघि-
- खेटतः स्यात् तिर्यक्स्थरेखावघि कोटिजीवा” सि० शि० ।
- “प्राग्वत् कक्षावृत्तं चक्रांशाङ्कितं कृत्वा तत्र मध्यग्रहं च
- दत्त्वा ग्रहचिह्नेऽन्त्यफलज्याप्रमाणेनान्यद्वृत्तं लिखेत् ।
- तन्नीचोच्चसंज्ञवृत्तम् । अथ मूमव्याद्ग्रहोपरिगता रेखा
- किञ्चिद्दीर्घा कार्य्या । सात्रोच्चरेखा । नोचोच्चवृत्ते भूमे-
- र्दूरतरे प्रदेशे रेखायुते उच्चं प्रकल्यम् । आसन्ने रेखा-
- युते नीचम् । नीचोच्चचिह्नाभ्यां मत्स्यमुत्पाद्य तिर्य-
- ग्रेखा सध्ये कार्य्या । तस्मिन् वृत्ते केन्द्रगत्योच्चस्थाना-
- दारभ्य मध्यग्रहो भ्रमति । मान्द्ये विलोमं, शैघ्रेऽनु-
- लोमम् । अतः कारणान्मन्दकेन्द्रमुच्चाद्विलोमं देयम् ।
- शीघ्रकेन्द्रमनुलोमम् । तदग्रे ग्रहः” प्रमि० ।
- ग्रहाणामस्तकालांशाश्च सि० शि० उक्ताः
- तच्च वाक्यं १९९१ पृ० कालशब्दे उक्तम् । ग्रहविम्बानां
- गोलाकारत्वेऽपि सूर्य्याभिमुखानामेव द्युतिलाभः
- यथाहार्य्यभट्टः । “भूग्रहभानां गोलार्द्धानि यथा विवर्ण्णानि ।
- अर्द्धानि यथासारं सूर्य्याभिमुखानि दीप्यन्ते” । सि० शि०
- रविचन्द्रराहुबिम्बमानम् उक्तं यथा “बिम्बं रवेर्द्वि द्वशरर्तु
- ६५२२ संख्यानीन्दोः खनागाम्बुधि ४८० योजनानि ।
- भूव्यासहीनं १५८१ रविबिम्बमिन्दुःकर्णाहतं भास्करकर्णभ-
- क्तम् । भूविस्तृतिर्लब्धफलेन हीना भवेत् कुभावि-
- स्तृतिरिन्दुमार्गे” सि० शि० । “सूर्य्यस्य विम्बं मध्यमं
- द्वियमवाणषट्कतुल्यानि ६५२२ योजनानि । इन्दोस्तु
- शून्यवसुवेद ४८० मितानि । राहोरुच्यते ।
- रविबिम्बं ६५२२ भूव्यासेन १५८१ हीनं कृत्वेन्दुतर्णेन स्फुटेन
- योजनात्मकेन संगुण्य रविकर्णेन स्फुटेन भजेत् फतेन
- भूव्यासो वजितश्चन्द्रकक्षायां भूभाव्यासो भवति ।
- एतानि योजनविम्बानि । अत्रोपपत्तिः । यस्मिन्
|
- दिनेऽर्कस्य मध्यतुल्यैव स्फुटा गतिः स्यात् । तस्मिन्
- दिने उदयकाले चक्रकलाव्यासार्धमितेन यष्टिद्वितयेन
- मूलमिलितेन तत्रस्थदृष्ट्या तद्यष्ट्यां बिम्बप्रान्तौ विध्येन् ।
- या यष्ट्यग्रयोरन्तरकलास्ता रविबिम्बकला मध्यमाः भवन्ति
- ताश्च द्वात्रिंशत् किञ्चिदधिकैकत्रिंशद्विकलाधिकाः ३२ । ३१
- ३३ । एवं विधोरपि पौर्णमास्यां यदा मध्यैव गतिः
- स्पष्टा सिध्येत् तस्यैवं किञ्चिदधिकाः द्वात्रिंशत्
- कलाः ३२ । ० । ९ उत्पद्यन्ते बिम्बकलानां योजनीकरणा-
- यानुपातः । यदि त्रिज्याव्यासार्धे एतावत्प्रमाणं बिम्बं
- तदा पठितश्रुतियोजनैः किमित्येवमुत्पद्यन्ते द्विद्विशरर्तु
- ६५२२ संख्यानि योजनानि । विधस्तु खनागाम्बुधिः
- ४८० मितानीति” “अत्र श्रीपतिः व्यासा रवीन्दुक्षिति-
- गोलकानां क्रमेण तेजोजलमृण्मयानाम् । स्युर्योजनै-
- राकृतिवाणषड्भिः ६५२२ र्व्योमाष्टवेदैः ४८० कुगजेषु
- चन्द्रैः १५८५” । अन्येषां गुरुगुरुतरकक्षास्थितानां
- ग्रहाणां गुरुगुरुतरत्वादिकं बोध्यं न तु विशेष संख्या
- सौरागमेषुक्ता विष्णुपुराणादौ उक्ताऽपि उपपत्तिहीन-
- त्वादत्र न प्रदर्शिता ।
- भास्कराचार्य्येण स्वल्पान्तरेणाङ्गीकृतानि मेषादिराशि-
- स्थितेऽर्के सावनदिनानि ।
- मे वृ मि क सिं क तु वृ ध म कु मी
- ३० ३१ ३१ ३१ ३१ ३० २९ २९ २९ २९ २९ ३०
- ५५ २४ ३७ २८ २ २९ ५७ २७ १५ २४ ४९ २३
- ३३ ५६ ३२ ३५ ५२ ४ २ ३९ ३ ० ४३ ३१
- एतन्निबन्धनश्लोकाश्च । “त्रिंशत् पञ्चशरा देवा मेषेऽर्के
- दिवसादिकम् । वृषे धराग्नयः सिद्धाः षट्शरा मिथुने
- क्रमात् ॥ धराग्नयः सप्तरामा रदः कर्के धराग्नयः ।
- गजाश्विनोऽक्षरामाश्च, सिंहे भूवह्नयो द्वयम् ॥ द्विशराश्च,
- स्त्रियां त्रिंशद्गोऽश्विनः श्रुतय, स्तुले । गोऽश्विनोऽद्रिशराः
- पक्षौ, गोऽश्विनो भानि गोऽग्नयः ॥ कौर्प्ये, धनुधि
- गोदस्नास्तिथयो वह्नयो, मृगे । गोऽश्विनोऽब्धियमाः,
- कुम्भे गोदस्रा गोऽब्धयस्तथा ॥ रामाब्धयो, झषे त्रिंश-
- द्रामदस्रा धराग्नयः” ।
- सर्बेषां राशीनां त्रिंशद्भागात्मकत्वेऽपि कालभेदेनैव
- तेपामुदयो देशभेदात् भिन्नएव तेन देशभेदेन
- दिनरात्रिमानभेदश्च तत्र कारणं च सि० शि० निरूपितं यथा
- “यो हि प्रदेशोऽपममण्डलस्य तिर्यक्स्थितोयात्युदयं
|
पृष्ठ २४३६
- तथास्तम् । सोऽल्पेन कालेन य ऊर्ध्वसंस्थोऽनल्पेन
- सोऽस्मादुदया न तुल्याः । य उद्गमे याम्यनतामृगाद्याः
- खखापमेनापि निरक्षदेशे । याम्याक्षतस्तेऽतिनतत्वमाप्ता
- उद्यन्ति कालेन ततोऽल्पकेन । कर्क्यादयः सौम्यनताहि
- येऽत्र ते यान्ति याम्याक्षवशादृजुत्वम् । कालेन तस्माद्ब-
- हुनोदयं ते तदन्तरे स्वञ्चरखण्डमेव” सि० शि० । “विषुव-
- दहोरात्रवृत्तानि लङ्कायां समपश्चिमगानि राशिवलयं तु
- मकरादौ परमक्रान्त्या २४ विषुवन्मण्डलाद्दक्षिणतो मिथु-
- नान्त उत्तरतो सग्नमतस्तिरश्चीनं तत्रापि मेषः स्वक्रा-
- न्त्या महत्या तिरश्चीन उदेति अतोऽल्पकालोदयं वृषभ-
- स्तदल्पयातस्वस्मात्किञ्चिदधिककालः मिथुनस्तदल्पयात-
- स्तदधिककालः एवं निरक्षेऽपि न समा उदयाः । अथ ये
- मकरादयो याम्ये नतास्ते याम्याक्षवशात् अतिनता उद्ग-
- च्छन्ति स्वदेशेऽतोऽल्पकालादयाः, ये तु कर्क्यादयः खस्व-
- क्रान्त्या सौम्ये नतास्ते याम्याक्षवशादृजुत्वं गता उद्यन्ति
- अतश्चिरकालोदयाः लङ्कास्वदेशोदययोरन्तराले स्वञ्चर-
- खण्डमेव भवति यतस्तत्क्षितिजयोरन्तराले चरम् । अथ
- चरखण्डैरूनाधिकत्वं गोलभ्रमणोपरि यथा प्रतीयते
- तथाह” प्रमि० । “भचक्रपादास्तिथिनाडिकाभिः पृथक्
- समुद्यन्ति निरक्षदेशे । चक्रार्धमाद्यं च तथा द्वितीयं सर्वत्र
- पूर्णाग्निमिताभिरेव । मेषादेर्निथुनान्तो नाडीभि-
- स्तिथिमिताभिरुद्वृत्त । लगति कुजे तदघःस्थें प्रथमं
- ताभिश्चरोनाभिः । कन्यान्ताडतषोऽन्तस्तिथिमितना-
- डीभिरुद्वलये, लगति कुजे चोर्ध्वस्थे पश्चात्ताभिश्चरा-
- ढ्याभिः । तद्रहितत्रिंशद्भिः कन्थान्तो वा झषान्तो वा ।
- चरखण्डैरूनाढ्यास्तेन निरक्षादयाः खदेशे स्वुः ।
- क्षितिजेऽजादिं कृत्वा गोलं भ्रमयन् प्रदर्शयेत्सर्वम् । उक्त
- भनुक्तं चान्यत् शिष्याणां बोधजननार्थम्” । सि० शि० ।
- चरखण्डकालमाह सि० शि० “उन्मण्डलक्ष्माबलयान्तराले
- द्युरात्रवृत्ते चरखण्डकालः । तज्ज्यात्र कुज्याचरशिञ्जिनी
- स्याद्व्यासार्घवृत्ते परिणामिता सा” सि० शि० । “क्षिति-
- जोन्मण्डलयोर्मध्येऽहोरात्रवृत्ते यावान् कालः स
- चरखण्डकालः तत्रोन्मण्डलादुभयतश्चरतुल्येऽन्तरै चिह्ने
- कृत्वा तथे र्निबद्धसूत्रस्यार्द्धं कुज्या सैव त्रिज्यावृत्तपरिणता
- सती चरज्या स्यादित्यादि त्रिप्रश्ने व्याख्यातम्” प्रमि० ।
- डदानीं लङ्कास्वदेशार्कोभयोरन्तरं चरकालमाह ।
- “निरक्षदेशे क्षितिजाख्यवृत्तमुन्मण्डलं तज्जमुरन्यदेशे ।
- स्वे स्वे कुजऽर्कस्य सनुद्गमोऽस्माच्चरार्द्धमर्कोदययोस्तु
|
- मध्ये” सि० शि० । चरफलस्थ धनर्णवासनामाह ।
- “आदौ स्वदेशेऽथ निरक्षदेशे सूर्य्योदयोह्यस्तमयोऽन्यथातः ।
- ऋणं ग्रहेऽस्मादुदये स्वमस्ते फलं चरोत्थं रविसौम्य-
- गोले । याम्ये विलोमं खलु तत्र यस्मादुन्मण्डलं स्वक्षि-
- तिजादधस्तात् । नाड्याह्वयादुत्तरयाम्यभागौ गोलस्य
- तावुत्तरयाम्यगोलौ” सि० शि० ।
- चरस्थानञ्च सि० शि० दर्शित यथा
- “यल्लङ्कोज्जयिनीपुरोपरि कुरुक्षेत्रादिदेशान् स्पृशत्
- सूत्रं मेरुगतं बुधैर्निगदिता सा मध्यरेखा भुवः । आदौ
- प्रागुदयोऽपरत्र विषये पश्चाद्धि रेखोदयात् स्यात् तस्मात्
- क्रियते तदन्तरभवं खेटेष्वृणं स्वं फलम्” सि० शि० ।
- “लङ्काया मेरुपर्य्यन्तं नीयमाना रेखोज्जयिनी कुरु-
- क्षेत्रादिदेशान् स्पृशन्वी या याति सा मध्यरेखत्युच्यते ।
- रेखायां यदार्कोदयस्तत्कालात् पूर्वमेव पूर्वदेशे भवति
- रेखोदयकालादनन्तरं पश्चिमदेशेऽर्कोदयः । तदन्तराल
- स्तदन्तरयोजनैः स्पष्टभूवेष्टनादनुपातेन ज्ञायते । यदि
- स्फुटपरिधियोजनैः षष्ठि ६० घटिका लभ्यन्ते तदा
- रेखाखपुरुयोरन्तरयोजनैः किमितीति त्रैराशिकेन देशा-
- न्तरवटिका सभ्यन्ते । सब्धगत्था च या आनीता नाह्य-
- स्ताभिरनुपातः । यदि घटीषष्ठ्या ग्रहस्यगतिकला लभ्यन्ते
- तदा देशान्तरघटीभिः किभिति । अथ योजनैरेवानु-
- पातः । यदि स्फुठपरिधियोजनैर्गतिः प्राप्यते तदा
- देशान्तरयोजनैः किमिति । फलं कलाः प्रागृणं यतस्तत्रा-
- दावुदयः । पश्चाद्धनम् । यतस्तत्र रेखोदयादनन्तरमर्को-
- दय इत्युपपन्नम्” प्रमि० ।
- चरखण्डानयनञ्च सि० शि० “एकस्य राशेर्वृहतो ज्यका
- या द्वयोस्त्रिभस्यापि कृतीकृतानाम् । खस्वापमज्याकृति-
- वर्जितानां मूलानि तासां त्रिगुणा ३४३८ हृतानि ।
- खखद्युमौर्व्या विमजेत् फलानां चापान्यधोऽधः
- परिशोधिताति । क्रमोत्क्रमस्थानि निरक्षदेशे मेषादिकाना-
- मुदयासवः स्थुः” सि० शि० । “एकस्य राशेर्वृहती ज्ये-
- त्यष्टमी १७१९ ज्या । द्वयोरिति षोडशी २९७७ ज्या ।
- त्रिभस्येति ३०३८ त्रिज्या । आसां वर्गितानां खकीय-
- स्तकीयक्रान्तिज्यावर्गैर्वर्जितानां मूलानि त्रिज्यागुणितानि-
- खखद्युज्यया विभजेत् । फलानां चापान्यधोऽधः
- परिशोधिताषीति तृतीयात् द्वितीयं द्वितीयात् प्रथमं शोध्यम् ।
- प्रथमं तथाविधमेव । एवं लङ्कीदयासवः स्युः । अत्रोप-
- पत्तिः अत्रोद्गच्छतः क्रान्तिवृत्तस्यंतिर्यक्स्थितत्वात् त्र्य-
|
पृष्ठ २४३७
- स्राणि क्षेत्राण्युत्पद्यन्ते । तद्यथा मेषान्तस्य ज्या
- क्रान्तिवृते कर्णः, तत्क्रान्तिज्या लङ्काक्षितिजे भुजः ।
- तद्वर्गान्तरपदं मेषान्तेऽहीरात्रवृत्ते कोटिः । एवं राशि-
- द्ववस्य ज्या कर्णः, तत्क्रान्तिज्या भुजः, तव्वर्गान्तरपदं
- वृषभान्तेऽहोरात्रवृत्ते कोटिः । एवं त्रिराशिज्या कर्णः,
- परमा क्रान्तिज्या भुजः, परमाल्पद्युज्या कोटिः ।
- एताः कोटयश्चापकरणार्थं त्रिज्यावृत्ते परिणामिताः ।
- त्रिज्यागुणाः खखद्युज्यया भक्तास्तासां चापानि । प्रथमं
- मेषोदयस्य कालः । द्वितीयं राशिद्वयस्य । तृतीयं
- राशित्रयस्य । अतो विश्लेषितानीत्युपपन्नम्” प्रनि० ।
- “इदानीं प्रकारान्तरेणाह । “कीटादिराश्यन्तजकोटिजी-
- वास्त्रिज्या ३४३८ गुणाः खखदिनज्ययाप्ताः । चापीकृताः
- प्राग्नदधो विशुद्धाः कीटादिकानामुदयासवो वा” सि० शि० ।
- “कीटादिराशान्तजकोटिजीवास्ता एकद्वित्रिराशिज्या
- भवन्ति १७१९ । २९७७ । ३४३८ एवास्त्रिज्यया ३४३८ गुण्याः
- स्वस्वदिनज्ययाः भक्ता इति यैव वृषभान्ते द्युज्या सैन
- कीटान्तेऽपि ३२१८ । यैव मेषान्ते द्युज्या सैव सिंहा-
- न्तेऽपि ३३६६ । कन्यान्ते द्युज्या त्रिज्यैव ३४३८ ।
- आभिस्ता भाज्याः । फलानां चावान्यधोऽधः शुद्धानि
- कीटादीनामुदयासवः स्युर्निरक्षे वा । त एव मिथुन-
- वृषभमेषाणामित्यर्थः । अत्रोपपत्तिः । क्रान्तिवृत्ते
- वृषभान्ते सूत्रस्यैकमग्रं बद्धा द्वितीयमग्रं कीटान्ते
- निबध्यते तस्य सूत्रस्यार्धमेकराशेर्ज्या भवति । एवं सूत्रस्यै-
- कमग्रं मेषान्ते बद्ध्वा द्वितीयं सिहान्ते तस्य सूत्रस्यार्द्धं
- राशिद्वयस्य ज्या भवति । एवं मेषतुलादौ बद्धसूत्रस्यार्द्धं
- त्रिज्या । एता एव वृषभान्तमेषान्तमानान्ताऽहोरात्र-
- वृत्तानां ज्या भवन्ति । यतस्तत्सम्पातेषु क्रान्तिवृत्ते
- सूत्राणि बद्धानि । अतस्तासां त्रिज्यावृत्तपरिणतानां
- चापान्तराणि कीटादिकानामुदया भवन्तीति गोले प्रद-
- र्शयेत्” । इदानीं पुनः प्रकारान्तरेणाह प्रमि० ।
- “मेषादिजीवास्त्रिगृहद्युमौर्व्या ३१४१ क्षुणा हृताः
- स्वस्वदिनज्यया वा । चापीकृताः प्राग्वदधो विशुद्धा
- मेषादिकानामुदयासवो वा” सि० शि० । अस्योपपत्तिर्गोले
- कथितैव सुगमा च । अथ निष्पन्नांस्तानसूनाह । “ते
- ऽभ्राद्रिभूपा १६७० गुणगोऽद्रिचन्द्राः १७९३ सप्ताग्नि-
- नन्देन्दुमिता १९३७ अथैते । क्रमोत्क्रमस्थाश्चरखण्डकैः
- स्वैः क्रमोत्कृमस्थैश्च विहीनयुक्ताः । मेषादिषण्णामुदयाः
- स्वदेशे तुलादितोऽमी च विलोनसंस्थाः । उदोत राशिः
|
- समयेन येन तत्सप्तमोऽस्तं सपुपैति तेन” सि० शि० ।
- अत्र प्रथमप्रकारेण प्रथम उदयो गृह्यते । द्वितीयप्रकारेण
- द्वितीयतृतीयौ । “अत्रोपपत्तिः । निरक्षस्वदेशार्को-
- दययोरन्तरं चरम् । निरक्षे स्वदेशे च मेषादिः
- सममुदेति मेषान्त आदौ स्वक्षितिजे तत उन्मण्डले लगति ।
- अतश्चरखण्डोनो मेषोदयः स्वदेशोदयो भवति । एवं
- वृषमिथुनयोरणि । कर्क्यादौ तु चरखण्डानामपचीय-
- मानत्वाद्धनं तानि परिणमन्ति । तुलादौ तून्मण्डल-
- स्याधःस्थित त्वाच्चरखण्डानि धनं भवन्ति । मकरादौ तु
- चरखण्डानामपचीयमानत्वादृणं परिणमन्ति । इत्यादि
- गोले सम्यग्बिलोक्यम्” प्रमि० ।
- दिननिशोर्लघुत्वमहत्त्वे हेतुमाह “अतश्च
- सौम्ये दिबसो महान् स्याद्रात्रिर्लघुर्व्यस्तमतश्च याम्ये ।
- द्युरात्रवृत्ते क्षितिजादधस्थे रात्रिर्यतः स्याद्दिनमानमूर्द्धे ।
- सदा समत्वं द्युनिशोर्निरक्षे नोन्मण्डलं तत्र कुजाद्यतो-
- न्यत्” सि० शि० । “क्षितिजादुपरिस्थेऽहोरात्रवृत्तखण्डे
- यावान् कालस्तावान् दिवसः यावांस्तदधस्थे तावती
- रात्रिरिति” प्रमि० । इदानीं विशेषमाह “षट्षष्टि-
- भागाभ्यधिकाः पलांशा यत्राथ तत्रास्त्यपरो विशेषः ।
- लम्बाधिका क्रान्तिरुदक् च यावत्तावद्दिनं सन्ततमेव तत्र ।
- यावच्च याम्ये सततं तमिस्रा ततश्च मेरौ सततं समार्द्धम्”
- सि० शि० । “यत्र देशे षट्षष्टे (६६) रधिकाः पलांशा-
- स्तत्रायं विशेषः अर्कस्योत्तरा क्रान्तिः (२४) र्यावत्कालं
- लम्बाधिका भवति तावत्कालं सततं दिनमेव याम्या क्रान्ति
- (२४) र्यावत् तावत्सततं रात्रिरेव तद्यथा यत्र किल सप्ततिः
- (७०) पलांशास्तत्र लम्बो विंशतिः (२०) तत्र देशे विषुवद्वृत्तं
- दक्षिण क्षितिजादुपरिभागविंशत्योत्तरक्षितिजादधश्च तावत
- यदा रवेरुत्तरा क्रान्तिर्भागविंशतिर्भवति तदोत्तरक्षितिजे
- रविविम्बमर्धोदितं भूत्वान्मध्याह्ने दक्षिणक्षितिजादुपरि-
- याम्योत्तरमण्डले भागचत्वारिंशतोन्नतं भवति तदा
- त्रिंशत्घटिका दिनदलम् अतोदिनं षष्टिः रात्रिः शून्यं
- तता द्वितीयदिने उत्तरक्रान्तेरधिकत्वाद्रविरुत्तरक्षितिजं
- नस्पृशति एवं प्रतिपर्ययं परमक्रान्ति (२४) र्यावदुपर्युपरि
- परिभ्रमति एवं मिथुनान्ते उत्तरक्षितिजादुपरिभाग-
- चतुष्टयं याति पुनस्तेनैव क्रमेणावरोहति विंशतिभागा-
- धिका क्रान्ति र्यावत्तावत्कालं रविः सततं दृश्यः
- तावद्दिनमेव अनयैव युक्त्या दक्षिणगोले क्षितिजादधस्थेऽर्के
- सततं रात्रिरिति अतएव मेरौ षण्मासं दिनम्” प्रमि० ।
|
पृष्ठ २४३८
- तेनात्र देशे सौम्ययाम्ययोर्दिनरात्रिमानं वर्षः ।
- “विषुवद्वृत्तं द्युसदां क्षितिजत्वमितं तथा च दैत्यानाम् ।
- उत्तरयाम्यौ क्रमशोमूर्धोर्द्ध्वगतौ ध्रुवौ यतस्तेषाम् ।
- उत्तरगोले क्षितिजादूर्द्ध्वं परितो भ्रमन्तमादित्यम् । सव्यं
- त्रिदशाः सततं पश्यन्त्यसुरा अपसव्यगं याम्ये” सि० शि० ।
- अयनकालभेदे संहितोक्तेरन्यार्थपरत्वमाह ।
- “दिनं सुराणामयनं यदुत्तरं निशेतरत्सांहितिकैः प्रकी
- र्तितम् । दिनोन्मुखेऽर्के दिनमेव तन्मतं निशा तथा
- तत्फलकीर्तनाय तत् । द्वन्द्वान्तमारोहति यैः क्रमेण
- तैरेव वृत्तैरवरोहतीनः । यत्रैव दृष्टः प्रथमं स देवैस्तत्रैव
- तिष्ठन्न विलोक्यते किम्?” सि० शि० । “सांहितिकानां न
- चेदयमभिप्रायस्तर्हमेषादेरूर्ध्वं मिथुनान्तं यावत् यैर्वृत्तै
- रेवारोहणं कुर्वन्नपि देवैर्दृष्टः तैरेव पुनरवरोहणं कुर्वन्
- किं न दृश्यत इति” प्रमि० । तत्फलं दर्शितं श्रीपतिना
- “मृगादिराशिद्वयभानुभोगात् षट्चर्त्तवः स्युः शिशिरो
- वसन्तः । ग्रीष्मश्च वर्षा च शरच्च तद्वद्धेमन्तनामा कथितोऽत्र
- षष्ठः । शिशिरपूर्वमृतुत्रयमुत्तरं ह्ययनमाहुरहश्च
- तदामरम् । भवति दक्षिणमन्यदृतुत्रयं निगदिता रजनी मरुतां
- च सा । गृहप्रवेशत्रिदशप्रतिष्ठाविवाहचौलव्रतबन्धपूर्वम् ।
- सौम्यायने कर्म शुभं विधेयं यद्गर्हितं तत् खलु दक्षिणे च” ।
- इदानीं दिनरात्रिस्वरूपे पितृदिनञ्चाह “दनं दिनेशस्य
- यतोऽत्र दर्शने तमी तमोहन्तुरदर्शने सति । कुपृष्ठ-
- गानां द्युनिशं यथा नृणां तथा पितॄणां शशिपृष्ठ-
- वासिनाम्” सि० शि० । पितृदिनस्योदयास्तकालानाह ।
- “विधूर्ध्वभागे पितरोवसन्तः स्वाधः सुधादीधितिमाम-
- नन्ति । पश्यन्ति तेऽर्कं निजमस्तकोर्ध्वे दर्शे यतोऽस्मात्
- द्युदलं तदेपाम्! भार्द्धान्तरत्वान्न विधोरधःस्थं तस्मान्नि-
- शीथः खलु पौर्णमास्याम् । कृष्णे रविः पक्षदलेऽभ्युदेति
- शुक्लेऽस्तमेत्यर्थत एव सिद्धम्” सि० शि० ।
- इदानीं देशविशेषेण राशिभेदान् सदोदिताननुदितांश्चाह ।
- त्र्यंशयुङ्नवरसाः (६९११२०) पलांशका यत्र तत्र विषये
- कदाचन । दृश्यते न मकरो नकार्मुकं किञ्च कर्कमिथुनौ
- सदोदितौ । यत्र साङ्घ्रिगजवाजिसंमिता (७८ । १४)
- स्तत्र वृश्चिकचतुष्टयं न च । दृश्यतेऽथ वृषभाच्चतुष्टयं
- सर्वथा समुदितं च लक्ष्यते । यत्र तेऽथ नवतिः (९०)
- पलांशकास्तत्र काञ्चनगिरौ कदाचन । दृश्यते न भदलं
- तुलादिकं सर्वदा समुदितं क्रियादिकम्” सि०
- शि० । “अयमर्थस्त्रिप्रश्ने “लम्बाधिका क्रान्तिरुदक् च
|
- यावात्तावद्दिनं सन्ततमेव तत्र” इत्यादिना सम्यक्क-
- थित एव । यत्र वृश्चिकान्तक्रान्तितुल्यो लम्बस्तत्र ते
- पलांशाः” । ६९ । १२० । तत्र धनुर्मकरौ क्षितिजादधस्थिता-
- वेव भ्रमतः” कर्कमिथुनौ तूपर्येव । (तेन देवभागे
- धनुर्मकरस्थसूर्य्यकौ द्वौ मासौ रात्रिः शिष्टा दश मासा-
- दिनम्) । एवमसुरभागे तथा पलांशके कक दिस्थरविकौ
- द्वौ मासौ रात्रिः शिष्टा दशमासा दिनम् । यत्र तुलान्त-
- क्रान्तितुल्योलम्बस्तत्राष्टसप्ततिःपञ्चदशकलाधिकाः । ७८ । १५ ।
- पलांशास्तत्र वृश्चिकादिचतुष्टयं क्षितिजादधो वृषभादि-
- कमुपरि । “तेन देवभागे वृश्चिकादिस्थरविकाश्चत्वारोमासा-
- रात्रिः शिष्टा अष्टौमासादिनम् । दैत्यभागे तु विपर्य्ययेण
- तथा दिनरात्री । एवं मेरौ नवतिः ९० पलांशास्तत्र तुला
- दिषट्कमधोमेषादिकमुपरीति (तेन मेषादिषड्राशि-
- स्थरविकाः षण्मासादेवानां दिनं शिष्टा रात्रिः ।
- एवं तुलादिषडाशिस्फरविकाः षण्मासादैत्यानां दिनं
- शिष्टा रात्रिः) सर्बं भगोले भ्रामिते सति दृश्यते”
- प्रमि० । “यन्त्रवेधविधिना ध्रुवोन्नतिर्या नतिश्च
- भवतोऽक्षलम्बकौ । तौ क्रमाद्विषुवदह्न्यहर्द्दलेयेऽथवा
- नतसमुन्नतालवाः” सि० शि० । “चक्रयन्त्रेण ग्रहवेधवत् ध्रुवं
- विध्येत् तत्र नेम्यां ये उन्नतांशास्तेऽक्षांशाः ये नतास्ते
- लम्बांशाः । अथ वा विषुवद्दिनार्धे येऽर्कस्य नतोन्नतां-
- शास्तेऽक्षलम्बांशा इति युक्तियुक्तम्” प्रमि० । सप्तमरा-
- श्युदयस्यास्तकालताहेतुमाह तत्रैव “योऽभ्युदेति समयेन
- येन तत् सप्तगोऽस्तमुपयाति तेन च । राशिरूर्ध्वमपमण्डलं
- कुजादर्धमेव सततं यतः स्थितम्” मू० । “यो राशिर्येन कालेन
- उदेति तेन तत्सप्तमोऽस्तं याति ये मेषादीनामुदयास्ते तुला-
- दीनामस्तमयाः ये तुलादीनामुदयास्ते मेषादीनामस्त मया
- इत्यर्थः । यतः अपमवृत्त क्षितिजादुपरि अर्धमेव भवति
- अर्धमधश्च अतो राश्योरुदयमस्तमयञ्च गच्छतोस्तुल्यकालता
- उपपद्यते इदानीं विशेषमाह” प्रमि० । “यत्र लम्बजल-
- वा जिनो २४ नकास्तत्र नोदयचराद्यमुक्तवत् । नान्यसं-
- स्थिततयान्यथोदितं येन नैष विषयो नृगोचरः” । यस्मि-
- न्देशे षट्षष्टिभागाधिकः पलस्तत्र केचक राशयः
- सदोदयाः केचन सदा अस्तमिताः केचन प्रान्तादुद्गच्छान्त
- अतस्तत्र यथा कथितास्तथा उदया न भवन्ति यावत्सदो-
- दितो रवि स्तावदहोरात्रवृत्तं क्षितिजं न स्पृशति
- अहोरात्रवृत्ते क्षितिजोन्मण्डलयोरन्तरं हि चरम् अतस्तत्र
- कुज्याचरज्यादिकमसत् शेषं स्पष्टम्” प्रमि० ।
|
पृष्ठ २४३९
- कालविभागाः सि० शि० दर्शिता यथा । “गुर्वक्षरैः
- खेन्दुमितै १० रसुः स्यात् षड्भिः पलं तैघटिका
- खषड्भिः । स्याद्वा घटोषष्टिरहः खरामैर्मासो दिनैस्तैर्द्वि-
- कुभिश्च वर्षम्” “एकमात्रो लघुः । द्विमात्रो गुरुः । तथाच
- “स्वानुस्वारोविसर्गान्तोदीर्घोयुक्तपरस्तु यः” इति छन्दो-
- लक्षणप्रतिपादितम् यदक्षरं स्वानुस्वारं विसर्गात्तं
- दीर्घं यस्याक्षरस्य परतः संयोगस्तल्लघ्वपि गुरुसंज्ञं ज्ञेयम् ।
- गुर्वक्षरस्योच्चार्यमाणस्य यावान् कालस्तद्दशकेनैकोऽसुः
- प्राणः प्रशस्तेन्द्रियपुरुषस्य श्वासोच्छ्वासान्तर्वर्त्ती काल
- इत्यर्थः । षड्भिः प्राणैरेक पानीयपलम् पलानां षष्ट्या
- घटी । वटीनां षष्ट्या दिनम् । त्रिंशद्दिनैरेकोमासः
- मासैर्द्वादशभिर्वर्षमिति कालस्य विभागो दशितः” प्रमि० ।
- भचक्रविभागस्तत्रैव विकलानां कला षष्ट्या तत्षष्ट्या
- भाग उच्यते । तत्त्रिंशता भवेद्राशिर्भगणो द्वादशैव ते” ।
- ब्राह्मादि दिनभेदाः सू० सि० उक्ता यथा
- “ब्राह्मं दिव्यं तथा पित्र्यं प्राजापत्यं गुरोस्तथा । सौरं
- च सावनं चान्द्रमार्क्षं मानानि वै नव । चतुर्भि-
- र्व्यवहारोऽत्र सौरचान्द्रर्क्षसावनैः । बार्हस्पत्येन-
- षष्ट्यव्दं ज्ञेयं नान्यैस्तु नित्यशः” सू सि० । “अत्र
- मनुष्यलोके सौरचान्द्रनाक्ष स वनैश्चतुनिर्मानैर्पर्व हारः
- कर्मघटना । षष्ट्यव्दं प्रभवादिषष्टिवर्षं जात्यभिप्राये-
- णैकवचनम् । बार्हस्पत्येन बृहस्पतिमानेन बृहस्पति-
- मध्यमराशिभोगात्मककालेन प्रत्येकं ज्ञेयम् । अन्यैरव-
- शिष्टैर्ब्राह्मदिव्यपित्र्यप्राजापत्यैः । नित्यशः सदेत्यर्थः ।
- व्यवहारो नास्ति । तुकारात् कादाचित्कत्वेन तैर्व्यव-
- क्षारः” र० ना । अथ सौरेण व्यवहारं प्रदर्शयति
- “सौरेण द्युनिशोर्वामं षडशीतिमुखानि च । अयनं
- विषुवच्चैव संक्रान्तेः पुण्यकालता” सू० सि० । “अहो-
- रात्र्योर्मानं सौरेण ज्ञेयम् । प्रात्यहिकसूर्य्यगति-
- भोगादहोरात्रं भवतीत्यर्थः । षडशीतिमुखानि वक्ष्य-
- माणानि । चः समुच्चये । तेन सौरमानेन ज्ञेयानि
- अयनं विपुवत् । चः समुच्चये । संक्रान्तेः पुण्यकालता
- सूर्य्यबिम्बकलासम्बद्धा सौरमानेन” र० ना० । अथ
- षडशीतिमुखमाह “तुलादिषडशीत्याह्नां षडशीतिमुखं
- क्रमात् । तच्चतुष्टयमेव स्याद्द्विस्वभावेषु राशिषु” सू० सि० ।
- “तुलारम्मात् षडशीतिदिवसानां सौराणां षडशीति-
- सुखं भवति । तच्चतुष्टयं षडशीतिमुखस्य चतुःसङ्ख्या
- द्विस्वभावेषु राशिषु चतुर्षु क्रमादेवं वक्ष्यमाणा भवति”
|
- र० ना० । “षड्विंशे थनुषो भागे द्वाविंशेऽनिमिषस्यच ।
- मिथुनाष्टादशे भागे कन्यायास्तु चतुर्दशे” सू० सि० ।
- “धनुराशेः षड्विंशतितमेऽंशे षडशीतिमुखं, मीनराशे-
- र्द्वाविंशतितमेऽंशे षडशीतिमुखम् । चकारः समुच्चया-
- र्थकः प्रत्येकमन्वेति । मिथुनराशेरष्टादशेऽंशे षडशीति-
- मुखं, कन्यायाश्चतुर्दशे भागे षडशीतिमुखम् । अत एव
- तुलादितः षडशित्यंशो गणनया येषु राशिषु भवति ते
- राशयो द्विस्वभावाः षडशीतिमुखसञ्ज्ञा संक्रान्तिप्रकरणे
- सांहितिकैरुक्ताः” र० ना० । अथ शडशीत्यंशगणनया
- चत्वारि षडशीतिमुखान्युक्त्वा भगणांशपूर्त्त्यर्थमवशिष्टांशाः
- षोडशातिपुण्या इत्याह “ततः शेषाणि कन्याया
- यान्यहानि तु षोडश । क्रतुभिस्तानि तुल्यानि पितॄणां
- दत्तमक्षयम्” सू० सि० । “ततः कन्यादिचतुर्दशभागा-
- नन्तरं शेषाणि भगणभागेऽवशिष्टानि कन्याया यान्य-
- हानि सौरभागसमानि तानि षोडश । तुकारात् पूर्व-
- दिनासमानि क्रतुभिर्यज्ञैः समानि । अतिपुण्यानीत्यर्थः ।
- तत्र पितृणां दत्तं श्राद्धादि कृतमक्षयमनन्तफलदं भवति”
- र० ना० । “अथ राश्यधिष्ठितक्रान्तिवृत्ते चत्वारि स्थानानि
- पदसन्धिस्थाने विषुवायनाभ्यां प्रसिद्धानीत्याह
- “भचक्रनाभौ विषुवद्द्वितयं समसूत्रगम् । अयनद्वितयं
- चैव चतस्रः प्रथितास्तु ताः” सू० सि० । “भचक्रनाभौ
- भगोलस्य ध्रुबद्वयाभ्यां तुल्यान्तरेण मध्यभागे विषुवद्द्वि-
- तयं विषुवद्द्वयं समसूत्रगं परस्परं व्याससूत्रान्तरितं
- ध्रुवमध्ये विषुवद्वृत्तस्थानात् तद्वृत्ते क्रान्तिवृत्तभागौ
- यौ लग्नौ तौ च क्रमेण पूर्वापरौ विषुवत्सञ्ज्ञौ
- मेषतुल्याख्यौ चेत्यर्थः । अयनद्वितयमयनद्वयं कर्कमकरादि-
- रूपम् । चः समुच्चये । तेन समसूत्रगं ता विषुवाय-
- नाख्याः क्रान्तिवृत्तप्रदेशरूपा भ्रमयश्चतस्रश्चतुःङ्ख्याकाः
- प्रथिता गणितादौ पदादित्वेन प्रसिद्धाः । एवकारा-
- दन्यराशोनां निरासः । तुकारात् तासां समसूत्रस्थत्वे-
- ऽपि विषुवायनत्वाभावात् पदादित्वेनाप्रसिद्धिरित्यर्थः”
- र० ना० । अथावशिष्टनामादिस्वरूपमन्यदप्याह ।
- “तदन्तरेषु संक्रान्तिद्वितयं द्वितयं पुनः । नैरन्तर्यात् तु
- संक्रान्तेर्ज्ञेयं विष्णुपदीद्वयम्” सू० सि० । “तदन्तरेषु
- विषुवायनान्तरालेषु । अत्रान्तरालानां चतुःस्थाने सद्भा-
- वाद्बहुवचनम् । संक्रान्तिद्वितयं द्वितयं पुना राश्यादि-
- गागे ग्रहाणामाक्रमणं वारद्वयं भवति । तदन्तराले
- राश्यादिभागौ द्वौ भवत इत्यर्थः । तथा हि मेषाख्य-
|
पृष्ठ २४४०
- विषुवकर्काख्यायनयोरन्तराले वृषमिथुनयोरादी । कर्क-
- तुलयोरन्तराले सिंहकन्ययोरादी । तुलामकरयोरन्त-
- राले वृश्चिकधनुषोरादी । मकरमेषयोरन्तराले कुम्भ
- मीनयोरादी इति । एवं विषुवानन्तरं संक्रमणद्वयमनन्तर-
- नयनं तदनन्तरं संक्रान्तिद्वयं तदनन्तरं विषुवमनन्तरं
- संक्रान्तिद्वयमनन्तरमयनमित्यादि पौनःपुन्येन ज्ञेय-
- मित्यर्थः । संक्रान्तिद्वयमध्ये प्रथमसंक्रान्तौ विशेषमाह
- नैरन्तर्य्यादिति । निरन्तरतया सम्भूतायाः मंक्रान्तेः
- सकाशाद्विष्णुपदीद्वयं तदन्तराले इत्यर्थः । अवगम्यं
- प्रथमसंक्रान्तिर्विष्णुपजसञ्ज्ञा तयोर्द्वयं तदभ्यन्तरे प्रत्येकं
- भवतीति तात्पर्य्यार्थः । षडशीतिसञ्ज्ञं द्वितीयसंक्रमणं
- पूर्वसूचितं तयोरपि द्वयं तदन्तराले भवतीति ध्येयम्”
- र० ना० । अथायनद्वयमाह “भानोर्मकरसंक्रान्तेः
- षण्मासा उत्तरायणम् । कर्कादेस्तु तथैव स्यात्
- षण्मासा दक्षिणायनम्” सू० सि० । “सूर्यस्य मकरसंक्रान्तेः
- सकाशात् षट् सौरमासा उत्तरायणं भवति । कर्कादेः
- कर्कसंक्रान्तेः सकाशात् तथा सूर्यभोगात । एवकारा-
- दन्यग्रहनिरासः । षण्मासाः तुकारात् सौराः ।
- दक्षिणायणं भवति” र० ना० । अथर्तुमासवर्षाण्याह
- “द्विराशिनाथा ऋतवस्ततोऽपि शिशिरादयः । मेषादयो
- द्वादशैते मासास्तैरैव वत्सरः” सू० मि० । “ततो
- मकरसंक्रान्तेः सकाशात् । अपिशब्दः उत्तरायणावधिना
- समुच्चयार्थकः । द्विराशिनाथा राशिद्बयस्वामिका
- राशिद्वयार्कमोगात्मका इत्यर्थः । शिशिरादयः शिशिर-
- वसन्तग्रीष्मवर्षाशरद्धेमन्ता ऋतवः कालविभागविशेषा
- भवन्ति । एते सूर्यभोगविषयका मेषादयो राशयो द्वा-
- दश मासास्तैर्द्वाददशभिर्मासैः । एवकारान्न्यूनाधिकव्यव-
- च्छेदः । वत्सरः सौरवर्षं भवति” र० ना० । अथ प्रस-
- ङ्गात् संक्रान्तौ पुण्यकालानयनमाह । “अर्कबिम्बकलाः
- पष्ट्या गुणिताभुक्तिभाजिताः । तदर्धनाड्यः संक्रान्ते-
- रर्वाक् पुण्यं तथापरे” सू० सि० । “सूर्यस्य बिम्बप्रमाण-
- कला षष्ट्या गुणिताः सूर्यगत्या भक्तास्तस्य फलस्यार्द्धं
- तत्सङ्ख्याका घटिका इत्यर्थः । संक्रान्तेः सूर्यस्य राशि-
- प्रवेशकालादित्यर्थः । अर्वाक् पूर्वं पुण्यं स्नानादिधर्म-
- कृत्ये पुण्यघटिकाः पुण्यवृद्धिकारिकाः । अपरे संक्रान्त्यु-
- त्तरकाले तथा । स्नानादिधर्भकृत्ये पुण्यवृद्धिदा इत्यर्थः ।
- अत्रोपपत्तिः । सूर्यविम्बकेन्द्रस्य राश्यादौ सञ्चरणकालः
- संक्रसणकालस्तस्य सूक्ष्मत्वेन दुर्ज्ञेयत्वात् स्थूलकालः को-
|
- ऽप्यभ्युपेयः स तु राश्यादौ बिम्बसञ्चरणरूपोऽङ्गीकृतो
- बिम्बसम्बन्धात् । अतोयदिसूर्य्यगत्या षष्टिसावनघटिका-
- स्तदा सूर्य्यबिम्बकलाभिः का इत्यनुपातानीता विम्बघटिकाः
- संक्रान्तिकालः स्थूलेः प्राङ्नेमिसञ्चरणकालात् पश्चिम-
- नेमिसञ्चरणकालपर्य्यन्तं तदर्द्धघटिका व्यासार्द्धघटिका
- इति । संक्रान्तिकालात् ताभिः पूर्वमपरत्र काले प्रागपर-
- नेम्योः क्रमेण सञ्चरणात् पूर्वोत्तरकाले पुण्या इति” र० ना
- अथ सौरमुक्त्वा क्रमप्राप्तं चान्द्रमानमाह । “अर्काद्वि-
- निःसृतः प्राचीं यद्यात्यहरहः शशी । तच्चान्द्रमानमंशैस्तु
- ज्ञेया द्वादशभिस्तिथिः” सू० सि० । “सूर्य्यात् समागमं
- त्यक्त्वा विनिर्गतः पृथग्भूतः संश्चन्द्रोऽहरहः प्रतिदिनं
- यत् तत्सङ्ख्यामितं प्राचीं पूर्वा दिशं गच्छति तत्
- प्रतिदिनं चान्द्रमानं तत्तु गत्यन्तरांशमितम् । ननु
- सौरदिनं सूर्यांशेन यथा भवति तथैतद्रूपैर्भागैः कियद्भिः
- पूर्णं चान्द्रं दिनं भवतीत्यत आह अंशैरिति । भागैस्तु-
- कारात् सूर्य्यचन्द्रान्तरोत्पन्नैः, तस्य तद्रूपत्वात् द्वादशभि-
- र्द्वादशसङ्ख्याकैस्तिथिर्ज्ञेया । एकं चान्द्रं दिनं ज्ञेयमि-
- त्यर्थः । एतदुक्तं भवति । सूर्य्यचन्द्रयोगाच्चान्द्रदिनप्रवृत्तेः
- पुनर्योगे माससमाप्तेर्भगणान्तरेण चान्द्रे मासस्त्रिंशच्चान्द्र-
- दिनात्मकः । अतस्त्रिंशद्दिनैर्यदि भगणांशान्तरं तदैकेन
- किमिति । द्वादशभागैरेकं चान्द्रःदनम् । “दर्शः सूर्य्येन्दु-
- सङ्गमः” इत्यभिधानाद्दर्शावधिकमासस्य त्रिंशत्तिथ्यात्मकत्वात्
- तिथिश्चान्द्रदिनरूपेति” र० ना० । अथ चान्द्रव्यवहारमाह
- “तिथिः करणमुद्वाहः क्षौरं सर्बक्रियास्तथाः व्रतोपबास-
- यात्राणां किया चान्द्रेण गृह्यते” सू० सि० । “तिथिः
- प्रतिपदाद्या करणं बवादिकमुद्वाहो विवाहः क्षौरं
- चौलकर्म । एतदाद्याः सर्वक्रिया व्रतबन्धाद्युत्सवरूपा
- व्रतोपवासयात्राणां नियभोपवासगमनानां क्रिया करणम् ।
- तथा समुच्चयार्थकः । चान्द्रमानेन गृह्यते अङ्गी-
- क्रियते” र० ना० । अथ चान्द्रमासं प्रसङ्गात् । पतृमानं
- चाह “त्रिंशता तिथिभिर्मासश्चान्द्रः, पित्र्यमहः स्मृतम् ।
- निशा च, मासपक्षान्तौ तथोर्मध्ये विभागतः” सू० सि० ।
- “त्रिंशता त्रिंशन्मितैस्तिथिभिश्चान्द्रो मासः । पित्र्यं
- पि सम्बन्धि । अहर्दिनम निशा च रात्रिः पितृ-
- सम्बद्धा । चकारो व्यवस्थार्थकः । तेनोभयं नैकं प्रत्येकं,
- किन्तु मिलितम् । स्मृतमिति लिङ्गानुरोधेनोभयत्रान्वेति
- तथा च चान्द्रो मासः पित्र्याहोरात्रञ्चेत्यर्थः फलितः ।
- मासपक्षान्तौ मासान्तो दर्शान्तः, पक्षान्तः पूर्णिमान्तः
|
पृष्ठ २४४१
- एतावित्यर्थः । विभागतः क्रमेणेत्यर्थः । तयोः
- पित्र्याहोरात्रयोर्मध्येऽर्द्धे भवतः । दर्शातः पितॄणां
- मध्याह्नः, पूर्णिमान्तः पितॄणां मध्यरात्रमित्यर्थः । अर्थात्
- कृष्णाष्टम्यर्धे दिनप्रारम्भः । शुक्लाष्टम्यर्धे दिनान्त इति
- सिद्धम्” र० ना० । अथ क्रमप्राप्तं नाक्षत्रमानं प्रसङ्गा-
- न्माससञ्ज्ञां चाह “भचक्रभ्रमणं नित्यं नाक्षत्रं
- दिनमुच्यते । नक्षत्रनाम्ना मासास्ते ज्ञेयाः पर्वान्तयोगतः”
- “नित्यं प्रत्यहं भचक्रभ्रमणं नक्षत्रसमूहस्य प्रवहवायुकृत-
- परिभ्रमः नाक्षत्रं नक्षत्रसम्बन्धि दिनं मानज्ञैः कथ्यते
- नित्यमित्यनेन चन्द्रभोगनक्षत्रभोगो नाक्षत्रमित्यस्य निरासः
- भचक्रभ्रमणानुपपपत्तेः । मासमञ्ज्ञा महानक्षत्र-
- नाम्नेति । पर्वान्तयोगतः पर्बान्तः पूर्णिमान्तः तस्य
- योगात तत्सम्बन्धात् नक्षत्रसञ्ज्ञया मासाः । तुका-
- राच्चान्द्रा अवगम्याः पूर्णिमान्तस्थितचन्द्रनक्षत्रसञ्ज्ञो मासो
- ज्ञेय इति तात्पर्य्यार्थः । तथाहि यद्दर्शान्तावधिकश्चान्द्री
- मासस्तदभ्यन्तरस्थितपूर्णिमान्तस्थितचन्द्रनक्षत्रसञ्ज्ञः । यथा
- चित्रासम्बन्धाच्चैत्रः । विशाखासम्बन्धाद्वैशाखः । ज्ये-
- ष्ठासम्बन्धाज्ज्यैष्ठः । आषाढासम्बन्धादाषाढः । श्रवण-
- सम्बन्धाच्छ्रावणः । भाद्रपदासम्बन्धाद्भाद्रपदः । अश्वि-
- नीसम्बन्धादाश्विनः । कृत्तिकासम्बन्धात् कार्त्तिकः ।
- मृगशीर्षसम्बन्धान्मार्गशीर्षः । पुष्पसम्बन्धात् पौषः ।
- मघासम्बन्धान्माघः । फाल्गुनीसम्बन्धात् फाल्गुन इति”
- र० ना० । ननु पूर्णिमान्ते तत्तन्नक्षत्राभावे कथं
- तत्सञ्ज्ञा मासानामुचितेत्यत आह “कार्त्तिक्यादिषु
- संयोगे कृत्तिकादि द्वयं द्वयम् । अन्त्योपान्त्यौ पञ्चमश्च
- त्रिधा मासत्रयं स्मृतम्” सू० सि० । नक्षत्रसंयोगार्थमिति
- निमित्तसप्तमी । कार्त्तिक्यादिषु कार्त्तिकमासादीनां
- पौर्णमासीष्वत्यिर्थः । कृत्तिकादि द्वयं द्वयं नक्षत्रं कथितं
- कत्तिकारोहिणीभ्यां कार्त्तिकः । मृगार्द्राभ्यां मार्ग शीर्षः ।
- पुनर्बसुपुष्पाभ्यां पौषः । आश्लेषामघाभ्यां माघः ।
- चित्रास्वातिभ्यां चैत्रः । विशाखानुराधाभ्यां वैशाखः ।
- ज्येष्ठामूलाभ्यां ज्यैष्ठः । पूर्वोत्तराषाढाभ्यामाषाढः ।
- श्रवणधनिष्ठाभ्यां श्रावण इति फलितम् । अविशिष्ट-
- मासानामाह । अन्त्योपान्त्याविति । अत्र कार्तिक-
- स्यादित्वेन ग्रहणादन्त्य आश्विनः । उपान्त्यो भाद्रपदः ।
- एतौ मासौ पञ्चमः फाल्गुनः । चकारः समुच्चये इति
- मासत्रयं त्रिधा स्थानत्रय उक्तम । रेवत्यश्विनीभरणीति
- नक्षत्रत्रयसम्बन्धादाश्विनः । शततारापूर्वोत्तराभाद्रपदेति
|
- नक्षत्रत्रयसम्बन्धाद्भाद्रपदः । पूर्वोत्तराफाल्गु नीहस्तेति
- नक्षत्रत्रयसम्बन्धात् फाल्गुन इति सिद्धम्” र० ना० ।
- अथ प्रसङ्गात् कार्त्तिकादिबृहस्पतिवर्षाण्याह । “वैशा-
- खादिषु कृष्णे च योगः पञ्चदशे तिथौ । कार्त्तिकादीनि
- वर्षाणि गुरोरस्तोदयात् तथा” सू० सि० । यथा पौर्ण-
- मास्यां नक्षत्रसम्बन्धेन तत्सञ्ज्ञो मासो भवति । तथेति
- समुच्चयार्थकम् । बृहस्पतेः सूर्यसान्निध्यदूरत्वाभ्यामस्ता-
- दुदयाद्वा वैशाखादिषु द्वादशसु म सेषु कृष्णवक्षे पञ्चदशे
- तिथौ अमायामित्यर्थः । चकारः पौर्णमासीसम्ब-
- न्धात् समुच्चयार्थकः । योगो दिननक्षत्रसम्बन्धः कार्त्ति-
- कादीनि द्वादश वर्षाणि भवन्ति । वैशाखकृष्णपक्षपञ्च-
- दश्याममारूपायां बृहस्पतेरस्त उदये वा जाते सति
- तदादि वृहस्पतिवर्षं कृत्तिकादिनक्षत्रसम्बन्धात् कार्त्तिक-
- सञ्ज्ञम् । एवं ज्येष्ठाषाढश्रावणभाद्रपदाश्विनकार्त्तिक-
- मार्गशीर्षपौषमाघ फाल्गुनचैत्रामासु मृगपुष्पगघापूफा-
- चित्राविशाखाज्येष्ठापूषाश्रवणपूभाश्विनीदिननक्षत्रसम्बन्धा
- न्मार्गशीर्षादीनि भबन्ति । अत्रापि प्रोक्तनक्षत्रद्वयत्रय-
- सम्बन्धः प्रागुक्तो बोध्यः । पञ्चदशे इत्युपलक्षणम् । तेन
- यद्दिने वृहस्पतेरुदयोऽस्तो वा तद्दिने यच्चन्द्राधिष्ठित-
- नक्षत्रं तत्सञ्ज्ञं वार्हस्पत्यं वर्षं भवतीति तात्पर्य्यम् ।
- संहिताग्रन्थेऽस्तोदयवशाद्वर्षोक्तिः परमिदानीमुदयवर्ष-
- व्यवहारो गणकैर्गण्यते “येनोदितेज्य इत्युक्तेरिति” र० ना०
- अथ क्रमप्राप्तं सावनमाह “उदयादोदयं भानोः
- सावनं तत् प्रकीर्त्तितम् । सावनानि स्युरेतेन यज्ञकाल-
- विधिस्तु तैः” सू० सि० । सूर्य्यस्योदयादुदयकालमारभ्या-
- व्यवहितोदयकालपर्य्यन्तं यत् कालात्मकं तत् सावनं
- मानज्ञैरुक्तम् । एतेनोदयद्वयान्तरात्मकालस्य गणनया
- सावनानि वसुद्ध्यष्टाद्रीत्यादिना मध्याधिकारोक्तानि
- भवन्ति । तद्व्यवहारमाह यज्ञकालविधिरिति ।
- यज्ञस्य यः कालस्तस्य गणना तैः सावनैः । तुकारोऽन्य-
- माननिरासार्थकैवकारपरः” र० ना० । अथ व्यवहारा-
- न्तरमाह । “सूतकादिपरिच्छेदो दिनमासाव्दपास्तथा ।
- मध्यमा ग्रहभुक्तिस्तु सावनेनैव गृह्यते” सू० सि० । “सूतकं
- जन्ममरणसम्बन्धि । आदिपदग्राह्यं चिकित्सितचान्द्रा-
- यणादि । तस्य परिच्छेदो निर्णयः । दिनाधिपमासे-
- श्वरवर्षेश्वराः । तथा समुच्चये ग्रहाणां गतिर्मध्यमा ।
- तुकारात् स्पष्टगतेर्निरासः तस्याः प्रतिक्षणं वैलक्षण्या-
- द्दिनसम्बन्धस्याभावात् । एतेन स्पष्टगत्या स्पष्टग्रहस्य
|
पृष्ठ २४४२
- चालनं निरस्तं स्थूलत्वादिति सूचितम् । सावनमानेन
- एवकारादन्यमाननिरासः । गृह्यते सुधीभिरङ्गीक्रियते ।
- अत्र बहुवचनानुरोधेन गृह्यत इत्यत्र बहुवचनं ज्ञेयम् ।
- अथ दिव्यमानमाह । “सुरासुराणामन्योन्यमहोरात्रं
- विपर्ययात् । यत् प्रोक्तं तद्भवेद्दिव्यं भानोर्भगणपूरणात्”
- सू० सि० । “पूर्वार्धं पूर्वं व्याख्यातम् । यदहोरात्रं
- पूर्वार्वोक्तं सूर्य्यस्य भगणभोगपूर्तेः प्रोक्तं पूर्वमनेकधा
- निर्णोतं तदहोरात्रं दिव्यमानं स्यात्” र० ना० । अथाव-
- शिष्टे प्राजापत्यब्राह्ममाने आह “मन्वन्तरव्यतस्था
- च प्राजाप्रत्यमुदाहृतम् । न तत्र द्युनिशोर्भेदो ब्राह्मं
- कल्पः प्रकीर्त्तितम्” सू० सि० ।
- दृष्टान्त भूगोलभगोलरचनापकारः सू० सि० दर्शितो यथा
- “भूभगोलस्य रचानां कुर्व्यादाश्चर्य्यकारिणीम् ।
- ट्यभीष्टं पृथिवीगोलं कारयित्वा तु दारवम् । दण्डं तन्म-
- ध्यगं मेरोरुभयत्र विनिर्गतम् । आधारकक्षाद्वितयं
- कक्षां वैषुवतीं तथा” सू० सि० । “भगोलस्य भूगोलाद-
- भितः संस्थितस्य नक्षत्राधिष्ठितगोलस्य प्रागव्यायोक्तार्थस्य
- रचनां स्थितिज्ञानार्थं दृष्टान्तात्मकगोलस्य निर्मितिं
- सुधीर्गणको गोलशिलपज्ञः कुर्य्यात् । ननु त्वदुक्तेन सर्वं
- ज्ञानं भवतीति दृष्टान्तगोलनिबन्धनं व्यर्थमेवेत्यत आह
- आश्चर्य्यकारिणीमिति । उक्तप्रतीत्युद्भूताद्भुतबुद्धिजन-
- यित्रीं तथाचोक्तेन खाधस्तिर्य्यग्भागयोर्लोकावस्थानस्य
- तद्भागस्थभगोलप्रदेशस्य च भूरेर्निराधारत्वादेश्च ज्ञानं
- मनसि सप्रतीतिकं न भवत्यतो दृष्टान्तगोले तन्निश्चयस-
- म्भवात् तन्निवन्धनमावश्यकमिति भावः । कथं रचनां
- कुर्य्या दथत आह अभीष्टमिति । मुवो गोलमभीष्टं
- स्वेच्छाकल्पितपरंधिप्रमाणकं दारवं काष्ठघटितं सच्छिद्रं
- कारयित्वा काष्ठशिल्पज्ञद्वारा कृत्वेत्यर्थः । मेरोरनु
- कलपरूपं दण्डकाष्ठं तन्मध्यगं तस्य क ष्ठघटितभूगोलस्य
- मध्ये छिद्रमध्ये शिथिलतया स्थितम् । उभयत्र भूगो-
- लस्थव्यासप्रमाणच्छिद्रस्याग्राभ्यां बहिरित्यर्थः । विनि-
- र्गतमेकाग्रादन्यतराग्रावशिष्टदण्डप्रदेशतुल्यं निःसृतम् ।
- उभयाग्राभ्यां तुल्यौ दण्डपदेशौ यथा स्यातां तथा
- कुर्य्यादित्यर्थः । भगोलनिबन्धनार्थमाधारवृत्तद्वयमाह
- आधारकक्षाद्वितयमिति । भगोलनिबन्धनार्थमादावा-
- श्रयार्थं वृत्तयोर्द्वितयमुर्द्ध्वाधस्तिर्यगवस्थानक्रमेणैकमेक-
- मेवं द्वयमित्यर्थः । भूगोलादुभयतस्तुल्यान्तरेण दण्डप्र-
- देशयोः प्रोतमेकं वृत्तं कुर्य्यात् । तत्तुल्यं वृतमपरं त-
|
- दर्धच्छेदेन दण्डप्रोतं कुर्यादिति सिद्धोऽर्थः । एतद्वृत्त-
- द्वयव्यतिरेकेण भूगोलादभितो भगोलनिबन्धनानुपपत्तेः ।
- भगोलनिबन्धनारम्भमाह कक्षेति । वैषुवतीं विषुवस-
- म्बन्धिनीं कक्षां वृत्तपरिधिं विषुवद्वृत्तमित्यर्थः । तथाधा-
- रवृत्तद्वयस्यार्द्धच्छेदेन भगोलमध्यवृत्तानुकल्पेन गणकेन
- निबद्धामित्यर्थः” र० ना० । अथ मेषादिद्वादशराशीनाम-
- होरात्रवृत्तनिबन्धनमन्यदपि श्लोकपञ्चकेनाह “भगणां-
- शाङ्गुलैः कार्य्या दलितैस्तिस्र एव ताः । स्वाहीरात्रा-
- र्धकर्णैश्च तत्प्रमाणानुमानतः । क्रान्तिविक्षेपभागैश्च
- दलितैर्दक्षिणोत्तरैः । स्वैः स्वैरपक्रमैस्तिस्रो मेषादीनाम-
- पक्रमात् । कक्षाः प्रकल्पयेत् ताश्च कर्कादीनां विपर्य-
- यात् । तद्वत् तिस्रस्तुलादीनां मृगादीनां विलोमतः ।
- याम्यगोल श्रिताः कायांः कक्षाधाराद्द्वयोरपि । याम्यो-
- दग्गोलसंस्थानां भानामभिजितस्तथा । सप्तर्षीणामग-
- स्त्यस्य ब्रह्मादीनां च कल्पयेत् । मध्ये वैषुवती कक्षा
- सर्वेषावेव संस्थिता” सू० सि० । “भगणांशाङ्गुलैः द्वा-
- दशराशिभागैः षष्ट्यधिकशतत्रयपरिमितङ्गुलैः दलितः
- समविभागेन खण्डितैरङ्कितैरित्यर्थः । ताः कक्षाः
- वंशशलाकावृत्तात्मिकास्तिस्रः त्रिसङ्ख्याकाः । एवकारा-
- दङ्कने वृत्ते च न्यूनाधिकव्यवच्छेदः । शिल्पज्ञेन
- गोलगणितज्ञेन कार्याः । एताः पूर्ववृत्तप्रमाणेन न कार्या
- इत्यभिप्रायेणाह स्वाहोरात्रार्द्धकर्णैरिति । स्वशब्देन
- मेषादित्रिकं तस्य प्रतिराश्यहोरात्रवृत्तस्यार्द्धकर्णो व्यासा-
- र्द्धं द्युज्या ताभिरित्यर्थः । चकारात् कार्याः ।
- स्वस्वद्युज्यामितेन व्यासार्द्धेन मेषादित्रयाणां वृत्तत्रयं
- कार्थमित्यर्थः । ननु स्पष्टाधिकारोक्ताहोरात्रार्द्धकर्णा-
- नयने युक्त्यभावात् तैर्वृत्तनिर्माणं कुतः कार्यमित्यतः
- आह तत्प्रमाणानुमानत इति । विषुवतकक्षाप्रमा-
- णानुमानाद्वृत्तत्रयं कार्यम् । यथा विषुवद्वृत्तं पूर्ववृत्त-
- समम् । तथा तदनुरोधेन मेषान्तवृत्तमल्पं तदनुरोधेन
- वृषान्तवृत्तमल्पं तदनुरोधेन मिथुनान्तवृत्तमल्पमित्युत्तरो-
- त्तरमल्पव्यासार्द्धवृत्तम् । तत्त्वहोरात्रवृत्तमिति द्युज्या-
- व्यासार्द्धेन वृत्तनिर्माणं युक्तियुक्तं क्रान्तिज्यावर्गो-
- नात् त्रिज्यावर्गान्मूलस्याहोरात्रवृत्तव्यासार्द्धत्वादिति
- भावः । वृत्तत्रयं सिद्धं कृत्वा दृष्टान्तगोले निबध्नीतः ।
- क्रान्तिविक्षेषभागैरिति क्रान्तिवृचस्य विषुवद्वृत्तप्रदे-
- शाद्विक्षिप्तपद्दशा यैरंशैः । चकारादाधारवृत्तस्थैर्दलितैः
- समपिभागेन स्वण्डितैरङ्कितैः । दक्षिणोत्तरैर्विषुवद्वृत्त-
|
पृष्ठ २४४३
- क्रान्तिवृत्तपदेशयोर्दक्षिणोत्तरान्तरात्मकैरुक्तलक्षणैः स्वकीयैः
- खकीयैः स्वराशिसम्बद्धैरपक्रमैः स्पष्टाघिकारानीतक्रा-
- न्त्यंशैर्मेषादीनां मेषादिराशित्रयान्तानां मेषान्तवृषान्त-
- मिथुनान्तानामित्यर्थः । तिस्रस्त्रिसङ्ख्याकाः प्राङ्निर्मिता
- वृत्तरूपाः कक्षाः । अपक्रमात् । अपशब्दस्योपसर्गत्वात्
- क्रमादित्यर्थः । प्रकल्पयेत् । शिल्पज्ञगणको विषुव-
- द्वृत्तानुरोधेनाषारवृत्तद्वये उत्तरतो निबन्धयेदित्यर्थः ।
- कर्कादीनामाह ता इति । मेषादिकक्षा निबद्धाः
- कर्कादीनां कर्कसिंहकन्यानामादिप्रदेशानां विपर्ययात्
- व्यत्यासात् । चकारः समुच्चये । तेन प्रकल्पयेदित्यर्थः ।
- मिथुनान्तवृत्तं कर्कादे, र्वृषान्तवृत्तं सिंहादे, र्मेषान्तवृत्तं
- कन्यादेरिति फलितम् । तुलादीनामाह तद्वदिति ।
- तुलादीमां तुलावृश्चिकधन्विनां तिस्रः अन्यास्त्रि-
- सङ्ख्यकाः कक्षास्तद्घदेकद्वित्रिराशिक्रान्त्यंशैस्तुलान्तवृश्चि-
- कान्तधनुरन्तानां याम्यगोलाश्रिताः । विषुवद्वृत्ताद्द-
- क्षिणनाग आधारवृत्तद्वये निबद्धाः कार्याः । गणके-
- नेति शेषः । मकरादीनामाह । मृनादीनामिति ।
- विलोमत उत्क्रमात् तुलादिसम्बद्धाः कक्षा मकरादीनां
- भवन्ति । धनुरन्तवृत्तं मकरादे, र्वृश्चिकान्तवृत्तं कुम्भादे,-
- स्तुलान्तवृत्तं मीनादेरिति फलितम् । ताराणां कक्षा-
- निबन्धनमाह । कक्षाधारादिति । मानामश्विन्यादिसप्त-
- विंशतिनक्षत्रविम्बानां याम्योदग्गोलसंस्थानां विषुवद्वृ-
- त्ताद्दक्षिणोत्तरभागयोर्यषायोग्यमवस्थितानां यन्नक्षत्रध्रु-
- बकस्पष्टक्रान्तिरुत्तरा तन्नक्षत्राणामुत्तरभागावस्थितानां
- येषां स्पष्टक्रात्तिदक्षिणा तेषां दक्षिणभागावस्थिताना-
- मित्यर्थः । द्वयोर्दक्षिणोत्तरभागयोः । अपिशब्दो
- याम्योत्तरनक्षत्रक्रमेण संबन्धार्थकः । कक्षाधारात् कक्षा-
- णामाधारवृत्तद्वयात् तयोरित्यर्थः । सप्तम्यर्थे पञ्चमी ।
- कक्षाः स्वस्पष्टक्रान्तिज्येत्पन्नद्युज्याव्यासार्द्धप्रमाणेन
- वृत्ताकाराः प्रकल्पयेत् । शिलपज्ञो निबन्धयेत् । अन्येपा-
- मप्याह अभिजित इति अभिजिन्नक्षत्रविम्बस्य सप्त-
- र्षिविम्बानामगस्त्यनक्षत्रविब्धानां चकारोऽवृसन्धेयः ।
- तथा कक्षा यथायोग्यं प्रकलपयेदित्यर्थः । निबन्धनप्र-
- कारमुपसंहरति मध्य इति । सर्वासामुक्तकक्षाणां
- मध्ये तुल्यभागेऽनाधारवृत्तमध्यप्रदेशे । एवकारादन्थ-
- योगव्यवच्छेदः । वैषुवती कक्षा विषुवसन्वन्धिनी वृत्त-
- रूपा संस्थिता यथाऽवस्थिता भवति तथा शिल्पज्ञः कक्षां
- निवन्धयेदित्यर्थः । विषुवद्वृत्तात् स्वस्पष्टक्रान्त्यन्तरेण
|
- स्वद्युज्याव्यासार्द्धप्रमाणेनाहोरात्रवृतमाधारवृत्तयोर्निबन्ध-
- येदिति निष्कृष्टोऽर्थः” र० ना० । अथ गोले मेषादि-
- राशिसन्निवेशं सार्धश्लोकेनाह “तदाधारयुतेरूर्द्ध्वम-
- यने विषुवद्द्वयम् । विषुवत्स्थानतो भागैः स्फुटैर्भगण-
- सञ्चरात् । क्षेत्राण्येवमजादीनां तिर्यग्ज्याभिः प्रकल्-
- पयेत्” सू० सि० । “तदाधारयुतेस्तत् विषुवद्वृत्तमाधार-
- वृत्तं च तयोर्युतेः सम्पातादूर्द्धमुपरि । अन्तिमाहोरात्रा-
- धारवृत्तयोः सम्पातेऽयने दाक्षणोत्तरायणसन्धिस्थाने भवतः
- अत्रोर्ध्वपदसञ्चाराधारवृत्तमूर्ध्वाधरं ग्राह्यं न तिर्यगु-
- न्मण्डलाकारम् । तेनैतत् फलितम् विषुवद्वृत्तस्योर्ध्वा-
- धराधारवृत्ते ऊर्ध्वमधश्च यत्र सम्पातस्तत्रीर्द्ध्वसम्पातान्म-
- कराद्यहोरात्रवृत्तं चतुर्विंशत्यंशैस्तदाधारवृत्ते दक्षिणतो
- यत्र लग्नं तत्रोत्तरायणसन्धिस्थानम् । एवमधः
- सम्प तात् कर्काद्यहोरात्रवृत्तं चतुर्वंशत्यंशैस्तदाधारवृत्ते
- उत्तरतो यत्र लग्नं तत्र दक्षिणायणसन्धिस्थानमिति ।
- अयनाद्विषुवस्य विपरीतस्थितत्वादूर्ध्वशब्दयोजितविपरी-
- ताधःशब्दसम्बन्धाद्विषुबद्वयं भवति । तात्पर्य्यार्थस्तु
- तिर्यगुन्मण्डलाकाराधारवृत्तविषुवद्वृत्तसम्पातौ पूर्वापरौ
- क्रमेण मेषादितुलादिरूपौ बिषुवत्स्थाने भवत इति ।
- अथ राशिसाकल्यसन्निबेशमाह विषुवत्स्थानत इति ।
- विषुवप्रदेशात् स्फुटैराशिसम्बन्धिभिस्त्रिंशन्मितैरंशैर्भग-
- णसञ्चाराद्राशिसाकल्यसन्निवेशात् तिर्यग्ज्याभिरुक्तवृत्तानु-
- कारातिरिक्तानुकारसूत्रवृत्तप्रदेशैरजादीनां मेषादीनाम् ।
- एवमयनविषुवकल्पनरीत्या तदन्तराले क्षेत्राणि स्थानानि
- सुधोर्मणकः प्रकल्पयेदङ्कयेत् । यद्यथा पूर्वदिक्स्थविषुवस्था-
- नाद्गोलवृत्तद्वादशांशखण्डप्रदेशेन मेषान्ताहोरात्रवृत्ते पूर्वभागे
- यत्र स्यानं तस्मात् तदन्तरेण वृषान्ताहीरात्रवृत्ते तदस्तरेण
- वृषान्तस्थानमस्मादयनसन्धिस्थानं तत्प्रदेशान्तरेणामिथुनान्त-
- स्थानमस्मात् पश्चिमभागे कर्कान्ताहोरात्रवृत्ते तदन्तरेण
- कर्कान्तस्थानमस्मादपि सिंहान्ताहोरात्रवृत्ते तदन्तरेण सिंहा
- न्वस्थानमस्म दपि तदत्तरेण पश्चिमविषुवस्थानं कन्यान्तस्था-
- नमस्मादपि तुलान्ताहोरात्रवृत्ते तदनरेण तुलान्तस्थान-
- नस्मादपि वृश्चिकाकान्ताहोरात्रवृक्षे तदन्तरेण वृश्चिकान्त-
- स्थानमस्मादपि तदन्तरेण दक्षिणायनसन्धिस्थानं धनुरन्त-
- स्थानमस्मात् कुम्भाद्यहोरात्रवृत्ते तदन्तरेण मकरान्तस्थान-
- मस्मादपि मीनाद्यहोरात्रवृत्ते तदन्तरेण कुम्भान्तस्थानं
- मीनादिस्थानं च अस्मादपि पूर्वविषुवे मीनान्तस्थानं मेषादि-
- स्थानं च तदन्तरेणेति व्यक्तम्” र० ना० । ननु गोले वृत्ते द्वा-
|
पृष्ठ २४४४
- दशराशीनां सत्त्वादन्यथा चक्रकलानुपपत्तेरित्यत्रैकवृत्ता-
- भावात् कथं राश्यङ्कनं? राशिविभानुपपत्तिश्च अन्तरा-
- लभागस्याकाशात्मकत्वादित्यतो वृत्तकथनच्छलेन पूर्वोक्तं
- स्पष्टयन् सूर्यस्तद्वृत्ते भगणभोगं करोतीत्याह “अयना-
- दयनं चैव कक्षा तिर्यक् तथापरा । क्रान्तिसञज्ञा तया
- सूर्यः सदा पर्येति भासयन्” सू० सि० । “अयनस्थान-
- मारभ्य परिवर्त्ततदयनस्थानपर्य्यन्तं चकार आरम्भ-
- समाप्त्योर्भिन्नायनस्थाननिरासार्थकः । अपरा गोल
- आधारवृत्तसमा वृत्तरूपा कक्षा तथा राश्यङ्कमार्गेण । एव
- कारोऽन्यमार्गव्यवच्छेदार्थकः । तिर्यक् उक्तवृत्तानु-
- कारविलक्षणानुकारा क्रान्तिसंज्ञा क्रमणं क्रान्तिः ।
- ग्रहगमनभोगज्ञानार्थं वृत्तं तत्सञ्ज्ञमनुकल्पतम् ।
- अयनविषुवद्वयसंसक्तं क्रान्तिवृत्तं द्वादशराश्यङ्कितं गोले
- निबन्धयेदिति तात्पर्यार्थः । भासयन् भुवनानि प्रकाशयन्
- सन् स सूर्यः । एतेन चन्द्रादीनां निरासः । सदा
- निरन्तरं तया क्रान्तिसञ्ज्ञया कक्षया पर्येति स्वशक्त्या ग
- च्छन् भगणपरिपूर्त्तिभोगं करोति । सूर्य्यगत्यनुरोधेन
- नियतं क्रान्तिवृत्तं कलिपतमिति भावः” । ननुचन्द्राद्याः
- क्रान्तिवृत्ते कुतो न गच्छन्तीत्यत आह” र० ना० । “चन्द्राद्याश्च
- स्वकैः पातैरपमण्डलमाश्रितैः । ततोऽपकृष्टा दृश्यन्ते
- विक्षेपान्ते ष्वपक्रमात्” सू० सि० । “चन्द्रादयोऽर्कव्यति-
- रिक्ता ग्रहाः स्वकैः स्वीयैः पातैः पाताख्यदैवतैरपम-
- ण्डलं क्रान्तिवृत्तमाश्रितैः स्वस्वभोगस्थानेऽधिष्ठितैस्ततः
- क्रान्तिवृत्तान्तर्गतग्रहभोगस्थानादित्यर्थः । चकाराविक्षे
- पान्तरेणापकृष्टा दक्षिणत उत्तरतो वा कर्षिता भवन्ति ।
- अतः कारणादपक्रमात् क्रान्तिवृत्तान्तर्गतस्वभोगस्थाना-
- दित्यर्थः । दक्षिणत उत्तरतो वा विक्षेपान्तेषु गणिता-
- गतविक्षेपकलाग्रस्थानेषु भूस्थजनैर्द्दश्यन्ते । तथाच क्रा-
- न्तिवृत्तं यथा विषुवन्मण्डलेऽवस्थितं तथा क्रान्तिवृत्ते
- पातस्थाने तत्षड्भान्तरस्थाने च लग्नमुकपरमविक्षेपक-
- लाभिस्तत्त्रिभान्तरस्थानादूर्ध्वावःक्रमेण दक्षिणोत्तरतो
- लग्नं च वृत्तं विक्षेपवृत्तं चन्द्रादिगत्यनुरोधेन स्वं स्वं
- मिन्नं कल्पितं तत्र गच्छतीति भावः” र० ना० ।
- अथ त्रिप्रश्नाधिकारोक्तलग्नमध्यलग्नयोः स्वरूपमाह
- “उदयक्षितिजे लग्नमस्तं गच्छच्च तद्वशात् । लङ्कोदयै
- र्यथासिद्धं खमध्योपरि मध्यमम्” सू० सि० ।
- “उदयक्षितिजे क्षितिजवृत्तस्य पूर्वदिग्देश इत्यर्थः । लग्नं
- क्रान्तिवृत्तं यत्प्रदेशे प्रवहवायुना संसक्तं तत्पदेशो मे-
|
- षाद्यवधिभोगेनोदयलग्नमुच्यत इत्यर्थः । प्रसङ्गादस्तलग्न-
- स्वरूपमाह अस्तमिति । तद्वशादुदयलग्नानुरोधाद-
- स्तमस्तक्षितिजं क्षितिजवृत्तस्य पश्चिमदिक्प्रदेशमित्यर्थः ।
- क्रान्तिवृत्तं गच्छत् । यत्प्रदेशेन प्रवहवायुना संलम्मं
- तत्प्रदेशो मेषाद्यवधिभोगेनास्तलग्नमुच्यत इत्यर्थः ।
- तथा च क्षितिजोर्द्ध्वं तथा क्रान्तिवृत्तस्य सद्भावादुदयास्त-
- लग्नयोः षट्राश्यन्तरं सिद्धम् लङ्कोदयैर्निरक्षदेशीयराश्यु-
- दयासुभिः । यथा त्रिप्रश्नाधिकारोक्तप्रकारेण तत्सङ्ख्या-
- मितं सिद्धं निष्पन्नम् । मध्यमं मध्यमलग्नं तत् खमध्यो-
- परि खस्य दृश्यांशविभागस्य मध्यं मध्यगतदक्षिणोत्तरसू-
- त्रवृत्तानुकारप्रदेशरूपं नतु खमध्यं मास्कराचार्याभि-
- मतं खखस्तिकं तल्लग्नस्य कादाचित्कत्वेन तदानुत्पत्तेः ।
- तस्योपरि स्थितं क्रान्तिवृत्तं याम्योत्तरवृत्ते यत्प्रदेशेन
- लग्नं तत्प्रदेशो मेषाद्यवधिभोगेन मध्यलग्नमुच्यत इति
- तात्पर्यार्थः” र० ना० । अथ त्रिप्रश्नाकिकारोक्तान्त्यायाः
- स्वरूपं स्पष्टाधिकारोक्तचरज्यायाः स्वरूप चाह
- “भमध्याक्षतिजयोर्मध्ये या ज्या सान्त्याभिधीयते । ज्ञेया
- चरदलज्या च पिषुवत्क्षितिजान्तरम्” सू० सि० । “या
- उत्तरगोले त्रिज्या चरज्यायुतिरूपा दक्षिणगोले चरज्योन-
- त्रिज्यारूपा त्रिप्रश्नाधिकारोक्ता । सा अन्त्या मध्ये
- याम्योत्तरवृत्तं क्षितिजं स्वाभितदेशक्षितिजवृत्तं तयोर्मध्ये-
- ऽन्तरालेऽहोरात्रवृत्तस्यैकदेशप्रदेशे ज्या । उदयास्तसूत्र-
- याम्योत्तरसूत्रसम्पातादहोरात्रयाम्योत्तरवृत्तसम्पातावधि-
- सूत्ररूपा ज्यासूत्रानुकारा न तु ज्या अहोरात्र-
- क्षितिजवृत्तसम्पातद्वयबद्धोदयास्तसूत्रस्याहोरात्रवृत्तव्यास-
- सूत्रत्वाभावात् । अतएवोत्तरगोलेऽन्त्या त्रिज्याधिका
- सङ्गच्छते । अभिधीयते गोलज्ञैः कथ्यते । नन्वन्त्योपजी-
- व्यचरज्यैव किंस्वरूपा यया तत्सिद्धिरित्यत आह ज्ञे-
- येति । “उन्मण्डलं च विषुवन्मण्डलं परिकीर्त्त्यते” इति
- त्रिप्रश्नाधिकारोक्तेन द्वयोः शब्दयोरेकार्थवाचकत्वात्
- तिर्यगाधारवृत्तानुकारं स्थिरं निरक्षक्षितिजवृत्तमुन्मण्डलं
- क्षिनिजं स्वाभिमतदेशक्षितिजवृत्तमनयोरन्तरम् । चकारो
- विशेषार्थकस्तुकारपरस्तेन तदन्तरालस्थिताहोरात्रवृत्तैक-
- देशस्यार्द्धज्यारूपमृजुसूत्रयोरन्तरविशेषात्मकम् । तथा च
- स्वनिरक्षदेशस्वदेशयोरुदयास्तसत्रयोरन्तरमूर्द्ध्वाधरमिति
- फलितार्थः । चरदलज्या तदन्तरालस्थिताहोरात्रवृत्तैकदे-
- शरूपचराख्यखण्डकस्य । न तु दलमर्द्धम् । ज्या
- चरज्येत्यर्थः । गोलज्ञैर्ज्ञातव्या” र० ना० । ननु पूर्वश्लोक-
|
पृष्ठ २४४५
- द्वयोक्तं क्षितिजज्ञानं विना दुर्बोधमित्यतः श्लोकार्धेन क्षिति-
- जस्वरूपप्ताह “कृत्वोपरि स्वकं स्थानं मध्ये क्षिति-
- जमण्डलम्” स० सि० । भूगोले स्वकं स्वीयं स्थानं
- भूप्रदेशैकदेशरूपमुपरि सर्वपदेशेभ्य ऊर्द्ध्वं कृत्वा प्रकल्प्य
- मध्ये तादृशभूगोल ऊर्द्ध्वावःखण्डसन्धौ यद्वृत्तं तत् क्षि-
- तिजवृत्तं तदनुरोधेन दृष्टान्तगोले क्षितिजवृत्तं स्थिरं
- संसक्तं कार्य्यमिति भावः” र० ना० । अथैनं दृष्टान्तगोलं
- सिद्धं कृत्वास्य स्वत एव पश्चिमभ्रमो यथा भवति तथा
- प्रकारमाह “वस्त्रच्छन्नं बहिश्चापि लोकालोकेन वेष्टि-
- तभ् । अमृतस्रावयोगेन कालभ्रमणमाधनम्” सू० सि० ।
- “बिहिः गोलोपरीत्यर्थः । गोलाकारेण वस्त्रेण छन्नं
- छादितं दृष्टान्तगोलम् । चकाराद्वस्त्रोपरि तत्तद्वृत्ताना-
- महनं कार्यम् । लोकालोकेन वेष्टितं दृश्यादृश्यसन्धिस्थ-
- वृत्तेन क्षिनिजाख्येन संसक्तम् । अपिः समुच्चये ।
- एतेन क्षितिजं वस्त्रच्छन्नं न कार्यं किं तु वस्त्रोपरि
- क्षितिजं गोलसंसक्तं केनापि प्रकारेण स्थिरं यथा
- भवति तथा कार्य्यमिति तात्पर्यम् । अमृतस्रावयोगेनैता-
- दृशं गोलं कृत्वा जलप्रवाहाधोघातेन कालभ्रमणसा-
- धनं षष्टिनाक्षत्रघटीभिर्दृष्टान्तगोलस्य भ्रमणं यथा भवति
- तथा साधनं कारणं कार्य्यं स्वयंवहगोलयन्त्रं
- कार्य्यमित्यर्थः । एतदुक्तं भवति दृष्टान्तगोलं वस्त्रच्छन्नं
- कृत्वा तदाधारयष्ट्यग्रे दक्षिणोत्तरभित्तिक्षिप्तनलिकयोः
- क्षेप्ये । यथा यष्ट्यग्रं ध्रुवाभिमुखं स्यात् । ततो यष्ट्य-
- ग्रर्जुमार्गगतजलप्रवाहेण पूर्वाभिमुखेन तस्याधः पश्चाद्भागे
- घातोऽपि यथा स्यात् तथाऽस्य दर्शनार्थमेव वस्त्रच्छन्नत्वमु-
- क्तम् अन्यथा गोलवृत्तान्तरवकाशमार्गेण जलाघातद-
- र्शनभ्रमेण चमत्कारानुत्पत्तेः । आकाशाकारतासम्पा-
- दनार्थमपि वस्त्रच्छन्नत्वमुक्तम् । इदं वस्त्रमार्द्रं यथा न
- भवति तथा चिक्वणवस्तुना भस्मादिना लिप्तं कार्य्यम् ।
- क्षितिजवृत्ताकारेणाधो गोलो दृश्यो यथा स्यात् तथा
- परिखारूपा भित्तिः कार्य्या । परन्तु दक्षिणयष्टिभाग-
- स्तत्र शिथिलो यथा भवति अन्यथा भ्रमणानुपपत्तेः ।
- पूर्वदिक्स्थपरिखाविभागाद्बहिर्जलप्रवाहोऽदृश्यः कार्य्य
- इत्यादि स्वबुध्यैव ज्ञेयमिति” र० ना० ।
- सि० शि० अत्र विशेषोऽभिहितो यथा
- “कृत्वादौ ध्रुयिष्टिमिष्टतरुजामृज्वीं सुवृत्तां ततो यष्टी-
- मध्यगतां विधाय शिथिलां पृथ्वीमपृथ्वीं बहिः । बध्नी-
- याच्छशिसौम्यशुकतपनारेज्याकिभानां दृढ़ान् गोनां-
|
- स्तत्परितः श्लथौ च नलिकासंस्थौ खदृग्गोलकौ” सि० शि०
- “आदौ सारदारुमयीं यष्टिं कृत्वा तदर्द्धस्थाने तत्र प्रोताम्
- अपृथ्वीं सूक्ष्मां शिथिलां च पृथ्वीं विधाय तस्या बहिश्चन्द्रा-
- दीनां गोलान् यष्ट्या सह दृढ़ान् बघ्नीयात् । तेषां
- बहिर्नलिकासंस्थौ खदृग्गोलावितिंसाधारण्येनोक्तम्” प्रमि० ।
- इदानीं सविशेषमाह “पूर्पापरं विरचयेत् सममण्ड-
- लाख्यं याम्योत्तरं च विदिशोर्वलयद्वयं च । ऊर्द्ध्वाव
- एवमिह वृत्तचतुष्कमेतदावेष्ट्य तिर्यगपरं क्षितिजं
- तदर्वे” सि० शि० । “एकं पूर्वापरमन्यद्याम्योत्तरं तथा
- कोणवृत्तद्वयमेवं वृत्तचतुष्टयमूर्द्धाधोरूपमावेष्ट्य तदर्धे
- वृत्तं क्षितिजाख्यं निवेशयेत् । अत्र याम्योत्तरवृत्त
- उत्तरक्षितिजादुपरि पलांशान्तर एकं ध्रुवचिह्नं कार्यम् ।
- दक्षिणक्षितिजादधोऽन्यत् । इदानीमुन्मण्डलमाह” प्रमि०
- “पूर्वापरक्षितिजसंगमयोर्विलग्नं याम्ये ध्रुवे पललवैः
- क्षितिजादधःस्थे । सौम्ये कुजादुपरि चाक्षलवैर्ध्रुवे
- तदुन्मण्डलं दिननिशोः क्षयवृद्धिकारि” सि० शि० ।
- “समवृत्तक्षितिजयोर्यौ पूर्वापरौ संपातौ तयोर्ध्रुवचिह्नयोश्च
- सक्तं यन्निवध्यंते तदुन्मण्डलसंज्ञम् । दिनरात्र्योर्वृद्धि-
- क्षयौ तद्वशेन भवतः । इदानीं विषुवन्मण्डलमाह” प्रमि-
- “पूर्वापरस्वस्तिकयोर्विलग्नं खखस्तिकाद्दक्षिणतोऽक्ष-
- भागैः । अधश्च तैरुत्तरतोऽङ्कितं च षष्ट्यात्र नाडीवलयं
- विदध्यात्” सि० शि० । “तयोरेव पूर्वापरसंपातयोर्विलग्नं
- तथा याम्योत्तरवृत्ते खखस्तिकाद्दक्षिणतोऽधःस्वस्तिका-
- दुत्तरतोऽक्षांशान्तरे यद्वृत्तं निबध्यते तद्विषुवद्वृत्तम् ।
- इदानीं दृङ्मण्डलमाह” प्रमि० । “ऊर्द्धाधरस्वस्ति-
- ककीलयुग्मे प्रोतं श्लघं दृग्वलपं तदन्तः । कृत्वा
- परिभ्राम्य च यत्र तत्र नेयं ग्रहो गच्छति यत्र यत्र” सि० शि०
- “खखस्तिके चाधःस्वस्तिके चान्तःकीलकौ कृत्वा तयोः
- प्रोतं श्लथं दृग्वलयं कार्यम् । तत्तु पूर्ववृत्तेभ्यः किञ्चि-
- न्न्यूनं कार्यम् । यथा खगोलान्तर्भ्रमति । यद्येक एव
- ग्रहगोलस्तदैकमेव दृङ्मण्डलम् । यो यो ग्रहो यत्र
- यत्र वर्त्तते तत्र तस्योपरिगमेव परिभ्राम्य विन्यस्य दृग्-
- ज्याशङ्क्वादिकं दर्शनीयम् । अथ वा पृथक् पृथगष्टौ
- दृङ्मण्डलानि रचयेत् । तत्राष्टमं वित्रिभलग्नस्य ।
- तच्च दृक्क्षेपमण्डलम् । अथ विशेषमाह” प्रमि० ।
- “ज्ञेयं तदेवाखिलखेचराणां पृथक् पृथग्वा रचयेत्
- तथाष्टौ । दृङमण्डलं वित्रिभलग्नकस्य दृव्क्षेपवृत्ताख्य-
- मिदं वदन्ति” सि० शि० । व्याख्यातमेवेदम् । इदानीमेवं
|
पृष्ठ २४४६
- खगोलबन्ध्वप्रकारमुक्त्वा दृग्गोलबन्धप्रकारं दर्शयति ।
- “बद्धा खगोले नलिकाद्वयं च ध्रुवद्वये तन्नलिकास्थमेव ।
- बहिः खगोलाद्विदवीत धीमान् दृग्गोलमेवं खलु वक्ष्य-
- माणम् । भगोलवृत्तैः सहितः खगोलो दृग्गोलसंज्ञो-
- ऽपममण्डलाद्यैः । दृग्गोलजातं खलु दृश्यतेऽत्र क्षेत्रं
- हि दृग्गोलमतो वदन्ति” सि० शि० । “तस्मिन् खगोले
- ध्रुवचिह्नयोर्नलिकाद्वयं बद्धा तन्नलिकाधारमेव खगोला-
- द्वहिरङ्गुलत्रयान्तरे दृग्गोलं रचयेत् । कथितैः खगोलो-
- वृत्तैर्बक्ष्यमाणैर्भगोलवृत्तैः क्रान्तिविण्डलाद्यैर्यो निबध्यते
- स दृग्गोलः । कथमस्य दृग्गोलसंज्ञेति तदर्थमाह
- दृभ्मोलजातमित्यादि । यतोऽजादिकुज्यासमशङ्क्वाद्यक्ष-
- क्षेमाणि दृग्गोलजातानि भगीलवृत्तैः खगोलवृत्तमि-
- लितैस्तान्युत्पद्यन्ते । भिन्नगोलबन्धे सम्यङ्नोपलक्ष्मन्त
- इति दृग्गोलः कृतः । इदानीं भगोलबन्धमाह” प्रमि० ।
- “याम्य त्तरक्षितिजवत् सुदृढ़ं विदध्यादाधारवृत्तयुगलं
- ध्रुवयष्टिबद्धम् । षष्ट्यङ्कमत्र सममण्डलवत् तृतीयं
- नाड्याह्वयं च विषुवद्वलयं तदेव” सि० श० । यथा खगोले
- क्षितिजं याम्योत्तरं च तदाकारप्रपरमांधारवृत्तद्वयं ध्रुब-
- यष्टिस्थं कृत्वा तदुपर्यन्यत् तृतीयं सममण्डलाकारं
- घटीषष्ट्या चाङ्कितं कार्यम् । तन्नाडीवृत्तं विषुवद्वृत्तसंज्ञं
- च” प्रमि० । इदानीं क्रान्तिवृत्तमाह “क्रान्तिवृत्तं विधेय
- गृहाङ्कं भ्रमत्यत्र भानुश्च भार्धे कुभा भानुतः । क्रान्ति-
- पातः प्रतीपं तथा प्रस्फुटाः क्षेपपाताश्च तत्स्थानकान्यङ्क-
- येत्” सि० शि० । “अथान्यत् तत्प्रमाणमेव वृत्तं कृत्वा
- तत्र मेषादिं प्रकल्प्य द्वादशराशयोऽङ्क्याः । तत् क्रान्ति-
- वृत्तसंज्ञम् । तस्मिन् वृत्ते रविर्भ्रमति । तथा रवेर्भा-
- र्धाचरे भूभा च तथा तत्र क्रान्तिपातो मेषादेर्विलोमं
- भ्रमति । तथा ग्रहाणां विक्षपपाताः प्रस्फुटाः विलोप्रं
- भ्रमन्ति । अतः क्रान्तिपातादीनां स्थानानि तत्राङ्क्यानि ।
- इदानीं क्रान्तिवृत्तस्य निवेशनमाह” प्रमि० ।
- “क्रान्तिपाते च पाताद्भषट्कान्तरे नाडिकावृत्तलग्नं
- विदध्यदिदम् । पाततः प्राक् त्रिभे सिद्धभागैरुदग्दक्षणे तैश्च
- भागैर्विभागेऽपरे” सि० शि० । क्रान्तिपातचिह्नात्
- षड्भेऽन्तरेऽन्यच्चिह्नं कार्यम् । ते चिह्ने नाडीवृत्तेन संसक्ते
- कृत्वा पातचिह्नादग्रतस्त्रिभेऽन्तरे नाडीवृत्ताद्भागचतुर्विंश-
- त्योत्तरतो यथा भवति, अपरविभागे त्रिभेऽन्तरे दक्षिणतश्च
- तैर्भागैर्यथा भवति तथा बध्नीयात् । इदानीं विमण्डल-
- माह” प्रमि० । “नाडिकामण्डले क्रान्तिवृत्तं यथा
|
- क्रान्तिवृत्ते तथा क्ष्येवृत्तं न्यसेत् । क्षेपवृत्तं तु राश्य-
- ङ्कितं तत्र च क्षेपपातेषु चिह्नानि कृत्वोक्तवत् । क्रान्ति-
- वृत्तस्य विक्षेपवृत्तस्य च क्षेपपाते सषड्भे च कृत्वा युतिम् ।
- क्षेपपाताग्रतः पृष्ठतश्च त्रिभे क्षेपभागैः स्फुटैः सौम्य-
- याम्ये न्यसेत् । शीघ्रकर्णेण भक्तास्त्रिभज्यागुणाः स्युः
- परक्षेपभागा गृहाणां स्फुटाः । क्षेपवृत्तानि षण्णां
- विदध्यात् पृथक् खखवृत्ते भ्रमन्तीन्दुपूर्वा ग्रहाः”
- सि० शि० । “अस्य सप्तग्रस्य व्याख्यानम् यथा क्रान्तिवृक्षं
- पृथक् कृतमेवं विमण्डलमपि राश्यङ्कं पृथक् कृत्वा तत्र
- मेषादेर्व्यस्तं स्फुटं क्षेपपातं दत्त्वाग्रे चिह्नं कार्यम् ।
- अथ क्रान्तिवृत्तस्य विमण्डलस्य च क्षेपपातचिह्नयोः
- संपातं कृत्वा तस्मात् षड्भान्तरेऽन्यं च सपातं कृत्वा
- क्षेपपाताग्रतस्त्रिभेऽन्तरे क्रान्तिवृत्तादुत्तरतः स्फुटैः क्षेप-
- भागैःपृष्ठतश्च त्रिभेऽन्तरे तैरेव भागैर्दक्षिणतः स्थिरं
- कृत्वा विमण्डलं निवेशनीयम् । अथ पठिता ये विक्षेप-
- भागास्ते त्रिज्यागुणाः शीघ्रकर्णेन भक्ताः स्फुटाः ज्ञेयाः
- अत्रानुपातः । यदि कर्माग्र एतावन्तस्तर्हि त्रिज्याग्रे
- कियन्त इति । यतो भगोले त्रिज्यैव व्यासार्धम् । एवं
- चन्द्रादीनां षड्विमण्डलानि कार्या ण । स्वस्वविमण्डले
- ग्रहा । भ्रमन्ति । इदानीं क्रान्थिं विक्षेपं चाह” । मि० ।
- “नाडिकामण्डलात् तिर्यगत्रापमः क्रान्तिवृत्तावधिः
- क्रान्तिवृत्ताच्छरः । क्षेपवृत्तावधिस्तिर्यगेवं स्फुटो
- नाडिकावृत्तखेटान्तरालेऽपमः” सि० शि० । क्रान्तिवृत्ते यत्
- स्फुटग्रहस्थ नं तस्य क्रान्तिवृत्ताद्यत् तिर्यगन्तरं स
- विक्षेपः । अथ विमण्डलस्थग्रहस्य नाडिवृत्ताद्यत्
- तिर्यगन्तरं सा स्फुटा क्रान्तिः । इदानीं क्रान्तिपातमाह”
- प्रमि० “विषुवत्क्रान्तिवलययोः संपातः क्रान्तिपातः स्यात् ।
- तद्भनणाः सौरोक्ता व्यस्ता अयुतत्रयं कल्पे । अयन
- चलनं यदुक्तं मुञ्जालाद्यैः स एवायम् । तत्पक्षे तद्भ-
- गणाः कल्पे गोऽङ्गर्तुनन्दगोचन्द्राः १९९६६९ ।
- तत्संडातं पातं क्षिप्त्वा स्वेटेऽर्पमः साध्यः । क्रान्ति-
- बशाच्चरमुदयाश्चरदललग्नागमे ततः क्षेप्यः” सि० शि० ।
- “क्रान्त्यर्थं पातः क्रान्तिपातः । पातो नाम संषातः
- कयोः । विषुवरक्रान्तिवलययोः । तयोर्मेषादावेव
- संपातः । किन्तु तस्मापि चलनमस्ति । येऽयनचलन-
- भागाः प्रसिद्धास्त एव विलोमगस्य क्रान्तिपातस्य भागाः ।
- मेषादेः पृष्ठतस्तावद्भ गान्तरे क्रान्तिवृत्ते विषुवदवृत्तं लग्न-
- मित्यर्थः । म हि क्रान्विपातो नास्तीति वक्तुं शक्यते ।
|
पृष्ठ २४४७
- प्रत्यक्षेण तस्योपलब्धत्वात् । उपलब्धिप्रकारमग्रे वक्ष्यति ।
- तत् कथं ब्रह्मगुप्तादिदिभिर्निपुणैरपि नोक्त इति चेत्
- तदा स्वल्पत्वात् तैर्नोपलब्धः, इदानीं बहुत्वात् साम्प्र-
- तैरुपलब्धः । अत एव तस्य गतिरस्तीत्यवगतम् । यद्येव-
- मनुपलब्धोऽपि सौरसिद्धान्तोक्तत्वादागमप्रामाण्येन
- भगणपरिध्यादिवत् कथं तैर्नोक्तः । सत्यम् । अत्र गणित-
- स्कन्ध उपपत्तिमानेवागमः प्रमाणम् । तर्हि मन्दोच्च-
- पातभगणा आगमप्रामाण्येनैव कथं तैरुक्ता इति न च
- वक्तव्यम् । यतो ग्रहाणां मन्दफलाभावस्थानानि प्रत्य-
- क्षणैवोपलभ्यन्ते । तान्येव मन्दोच्चस्थानानि । यान्येव
- विक्षपाभावस्थानानानि तान्येव पातस्थानानि । किन्तु
- तेषां गतिरस्ति नास्ति वेति सन्दिग्धम् । तत्र मन्दोच्च-
- पातानां गतिरस्ति चन्द्रमन्दोच्चपातवदित्यनुमानेन
- सिद्धा । सा च कियती तदुच्यते । यैर्भगणैरुपलब्धि-
- स्थानानि यानि गणितेनागच्छन्ति तद्भगणसम्भवा वार्षिकी
- दैनन्दिनी वा गतिर्ज्ञेया! नन्वेवं यद्यन्यैरपि भगणै-
- स्तान्येव स्थानान्यागच्छन्ति तदा कतरस्या गतेः प्रामा-
- ण्यम् । सत्यम् । तर्हि साम्प्रतोपलब्ध्यनुसारिणी कापि
- गतिरङ्गीकर्तव्या । यदा पुनर्महता कालेन महदन्तरं
- भविष्यति तदा महामतिमन्तो ब्रह्मगुप्तादीनां समान-
- धर्म्माण एवोत्पत्स्यन्ते । ते तदुपलब्ध्यनुसारिणीं
- गतिमुररीकृत्य शास्त्राणि करिष्यन्ति । अतएवायं गणित-
- स्कन्धो महामतिमद्भिर्धृतः सन्ननाद्यन्तेऽपि काले खिलत्वं
- न याति । अतोऽस्य क्रान्तिपातस्य भगणाः कल्पेऽयुत-
- त्रयं तावत् सूर्य्यसिद्धान्तोक्ताः । तथा मुञ्जालाद्यैर्यद-
- यनचलनमुक्तं स एवायं क्रान्तिपातः । ते गोऽङ्गर्तु-
- नन्दगोचन्द्रा १९९६६९ उत्पद्यन्ते । अथ च ये वा
- ते वा भगणा भवन्तु । यदा येऽंशा निपुणैरुपलभ्यन्ते
- तदा स एव क्रान्तिपातः इत्यर्थः । तं विलोमगं क्रा-
- न्तिपातं ग्रहे प्रक्षिप्य क्रान्तिः साध्या । इदानीं विक्षेप-
- पातानाह” प्रमि० । “एवं क्रान्तिविमण्डलसंपाताः
- क्षेपपाताः स्युः । चन्द्रादीनां व्यस्ताः क्षेपानयने तु ते
- योज्याः । मन्दस्फुटो द्राक्प्रतिमण्डले हि ग्रहो भ्रम-
- त्यत्र च तस्य पातः । पातेन युक्ताद्गणितागतेन मन्द-
- स्फुटात् खेचरतः शरोऽस्मात् । पातोऽथ वा शीघ्रफलं
- विलोमं कृत्वा स्फुटात् तेन युताच्छरोऽतः । चन्द्रस्य
- कक्षावलये हि पातः स्फुटाद्विधीर्मध्यमपातयुक्तात्” सि०
- शि० । “तथा क्रान्तिवृत्तविमण्डलयोः संपातः क्षेपपातः
|
- तं ग्रहे प्रक्षिप्य क्षेपः साध्यः । एतदुक्तं भवति क्रा-
- न्तिपातः प्रसिद्धः । यथा तं ग्रहे प्रक्षिप्य क्रान्तिः
- साध्यते । एवं विक्षेपपातं ग्रहे प्रक्षिप्य क्षेपः साध्य
- इत्यर्थः । अथ विक्षेपपातो मन्दस्फुटे यत् प्रक्षिप्यते
- तत्कारणमाह मन्दस्फुट इति । यतः शीघ्रप्रति-
- मण्डले मन्दस्फुटगत्या ग्रहो भ्रमति । तत्र च वृत्ते
- पातोऽतो गणितागतं पातं मन्दस्फुटे प्रक्षिप्य क्षेपः
- साध्यते । शेषं स्पष्टम् । इदानीं ज्ञशुक्रयोर्विशेषमाह”
- प्रमि० “ये चात्र पातभगणाः पठिता ज्ञभृग्वोस्ते शीघ्रके-
- न्द्रभगणैरधिका यतः स्युः । स्वल्पाः सुखार्थमुदिताश्चल-
- केन्द्रयुक्तौ पातौ तयोः पठितचक्रभवौ विधेयौ ।
- चलाद्विशोध्यः किल केन्द्रसिद्ध्यै केन्द्रे सपाते द्युचरस्तु योज्यः ।
- अतश्चलात् पातयुताज्ज्ञभृग्वोः सुधीभिराद्यैः शरसिद्धि-
- रुक्ता । स्फुटोनशीघ्रोच्चयुतौ स्फुटौ तयोः पातौ भगोले
- स्फुट एव पातः” सि० शि० । “ननु ज्ञशुक्रयोः शीघ्रोच्च-
- पातयुतिं केन्द्रं कृत्वा यो विक्षेप आनीतः स शीघ्रोच्च-
- स्थान एव भवितुमर्हति । न ग्रहस्थाने । यतो
- ग्रहोऽन्यत्र वर्तते । अत इदमनुपपन्नमिव प्रतिभाति ।
- तथा च ब्रह्मसिद्धान्तभाष्ये “ज्ञशुक्रयोः शीघ्रोच्चस्थाने
- यावान् विक्षेपस्तावानेव यत्रतत्रस्थस्थापि ग्रहस्य भवति ।
- अत्रोपलब्धिरेव वासना नान्यत् कारणं वक्तुं शक्यत
- इति” । चतुर्वेदेनाप्यनध्यवसायोऽत्र कृतः । सत्यम् ।
- अत्रोच्यते । येऽत्र ज्ञशुक्रयोः पातभगणाः पठितास्ते शीघ्र-
- केन्द्रभगणैयुताः सन्तस्तद्भगणा भवन्ति । तथा च
- माधवीये सिद्धान्तचूड़ामणौ पठिताः “अतोऽल्पभगणभवः
- पातः स्वशीघ्रकेन्द्रेण युतः कार्यः, । शीर्घ्रोच्चाद्ग्रहे
- शोधिते शीघ्रकेन्द्रम् । तस्मिन् सपाते क्षेपकेन्द्रकरणार्थं
- ग्रहः क्षेप्यः । अतस्तुल्यशोध्यक्षेपयोर्नाशे कृते शीघ्रोच्च-
- पातयोग एवावशिष्यत इत्युपपन्नम् ।
- किञ्च मन्दस्फुटोनं शीघ्रोच्चं प्रतिमण्डले चलकेन्द्रम्
- तत्पाते क्षेप्तुं युज्यते । एवं कृते सति विक्षेपकेन्द्रं
- मन्दफलेनान्तरितं स्यात् । ग्रहच्छायाधिकारे “सितज्ञपातौ
- स्फुटौस्तश्चलकेन्द्रयुक्तौ” इत्यत्र मन्दस्फुटोनं शीघ्रोच्च
- शीघ्रकेन्द्रपाते क्षिप्तम् । अतस्तत्र मन्दफलान्तरमङ्गीकृत-
- मित्यर्थः इतरकेन्द्रस्यानुपपत्तेः । अतो मन्दफलं पाते-
- ऽव्यस्तं देयम् । यतोऽनुपातसिद्धं चलकेन्द्रं मध्यग्रहो-
- नशीघ्रोच्चतुल्यं भवति । यत्तु भगोले क्रान्तिवृत्तं तत्
- कक्षावृत्तम् । तत्र यद्विमण्डलं तत्र स्फुटग्रहः । तत्
|
पृष्ठ २४४८
- स्फुटपातयोगो हि विक्षेपकेन्द्रम् । अतः स्फुटपात-
- स्थाने संपातं कृत्वा ततस्त्रिभेऽन्तरे स्फुटीकृतैः
- परमविक्षेपांशैः प्राग्वदुत्तरे दक्षिणे च विन्यस्यम् । तथा
- न्यस्ते विमण्डले स्फुटग्रहस्थाने विक्षेपः स्फुटविक्षेपेण
- गणितागतेन तुल्यो दृश्यते नान्यथेत्यर्थः । इदानीं ग्रह-
- गोले विशेषमाह” प्रमि० । “ग्रहस्य गोले कथिताप-
- मण्डलं प्रकल्प्य कक्षावलयं यथोदितम् । निबध्य शीघ्र-
- प्रतिवृत्तमस्मिन् विमण्डलं तत् पठितैः शरांशैः । मध्यो-
- ऽत्र पातो द्युसदां ज्ञभृग्वोः स्वशीघ्रकेन्द्रेण युतस्तु देयः”
- सि० शि० । “भगोल एव तावद्ग्रहगोलः कल्प्यः । तत्र
- स्फुट एव पातः । अथ यदि तदन्तर्ग्रहगोलोऽन्यो
- निबध्यते तदा तत्र यथोक्तं विषुवद्वृत्तं क्रान्तिवृत्तं च
- बद्ध्वा तत् क्रान्तिवृत्तं कक्षामण्डलं प्रकल्प्य तत्र छेद्यकोक्त-
- विधिना शीघ्रप्रतिमण्डलं बद्ध्वा तत्र प्रतिमण्डले गणिता-
- गतं पातं मेषादेर्विलोमं गणयित्वा तत्र चिह्नं कार्यम्
- अथ त्रिज्याव्यासार्धमेवान्यद्वृत्तं राश्यङ्कं विमण्डलाख्यं
- कृत्वा तत्रापि मेषादेर्व्यस्तं पाताग्रे चिह्नं कृत्वा प्रति-
- मण्डलविमण्डलयोः पातचिह्ने प्रथमं संपातं ततो
- भार्द्धान्तरे द्वितीयं च संपातं कृत्वा पातादग्रतः पृष्ठतश्च
- त्रिभेऽन्तरे परमविक्षेपांशैः पठितैः प्रतिवृत्तादुत्तरे दक्षिणे
- च विमण्डलं विन्यस्यम् । तत्र मन्दस्फुटगत्या पारमा-
- र्थिको ग्रहो भ्रमति । अतो मेषादेरनुलोमं मन्दस्फु-
- टो विमण्डले देयः । स तत्रस्थः प्रतिमण्डलाद्यावता-
- न्तरेण विक्षिप्तस्तावांस्तत्प्रदेशे विक्षेपः । यतो वृत्तसं-
- पातस्थे ग्रहे विक्षेपाभावः । त्रिभेऽन्तरे परमो विक्षेपः ।
- मध्येऽनुपातेन । अतो वृत्तसंपातग्रहयोरन्तरं ज्ञेयम् ।
- तदन्तरं पातग्रहयोगे कृते भवति पातस्य विलोम-
- गत्वात् । स योगः शरार्थं केन्द्रम् । यदि त्रिज्या-
- तुल्यया केन्द्रज्यया परमः शरस्तदाभीष्टयाऽनया क इति
- फलं प्रतिमण्डलविमण्डलयोस्तिर्यगन्तरं स्यात् ।
- विमण्डलस्थग्रहाद्यद्भूमध्यगं सूत्रं तद्भूग्रहान्तरम् । स च
- शीध्रकर्णः । यदि भूमध्यात् कर्णाग्रे एतावान् विक्षेप-
- स्तदा त्रिज्याग्रे कियानिति द्वितीयं त्रैराशिकम् ।
- आद्ये त्रिज्या हरी द्वितीये गुणस्तयोर्नाशे कृते केन्द्र-
- ज्यायाः परमशरगुणायाः कर्णो हरः । फलं कक्षा
- वृत्तसूत्रयोस्तिर्यगन्तरम् । स स्फुटः शरः । इदानी-
- महोरात्रवृत्तमाह” प्रमि० । “ईप्सितक्रान्तितुल्येऽन्तरे
- सर्वती नाडिकाख्यादहोद्यत्रवृत्ताह्वयम् । तत्र बद्ध्वा
|
- घटीनां च षष्ट्याङ्कयेदस्य विष्कम्भखण्डं द्युजीवा मता”
- सि० शि० । “नाडीवृत्तादुत्तरतो दक्षिणतो वा सर्वत इष्ट-
- क्रान्तितुल्येऽन्तरे यद्वृत्तं निबध्यते तदहोरात्रवृतम् ।
- तेन वृत्तेन तस्मिन् दिने रविर्भ्रमतीत्यर्थः । तस्य वृत्तस्य
- व्यासार्धं द्युज्या । इदानीमन्यदाह” प्रमि० । “अथ
- कल्प्या मेषाद्या अनुलोमं क्रान्तिपाताङ्कात् । एवां
- मेषादीनां द्युरात्रवृत्तानि बध्नीयात् । नाडीवृत्तो-
- भयतस्त्रीणि त्रीणि क्रमोत्क्रमात् तानि” सि० शि० ।
- क्रान्तिपाताङ्कादारभ्य त्रिंशता त्रिंशता भागैरन्यान्
- मेषादीन् प्रकल्प्य तदग्रेपूक्तवदहीरात्रवृत्तानि बध्नीयात् ।
- तानि च नाडीवृत्तस्योभयतस्त्रीणि त्रीणि भवन्ति ।
- तान्येब क्रमीत्क्रमतः सायनांशार्कस्य द्वादशराशीनाम्”
- प्रमि० । “एष भगोलः कथितः खेचरगोलोऽयमेव-
- विज्ञेयः । अत्रापमण्डले वा सूत्राधारैरधश्च तस्यैव ।
- शन्यादीनां कक्षा बध्नीयादूर्ण्णनाभजालाभाः । बद्ध्वा
- भगोलमेवं यष्ट्यां यष्टिं खगोलनलिकान्तः । प्रक्षिप्य भ्रम-
- येत्तं यष्ट्याधारं स्थिरौ खदृग्गोलौ” सि० शि० ।
- “यथायं भगोलोबद्धस्तथैव ग्रहगोलाअपि बन्धनीयाः ।
- किन्तु तेषां छेद्यकमन्तश्चालयितुं नायातीति बहिःस्थमेव-
- दर्शनीयम् । अथ वा भगोले यदपमण्डलं तस्याध्रोऽध-
- स्तन्निबद्धैः सूत्राधारैर्बद्ध्वा शन्यादीनां कक्षा दर्शनीयाः ।
- एवंविधं भगोलं यष्ट्यां दृढ़ं बद्ध्वा यष्ट्यग्रयोः प्रोते
- नलिकाद्वये निबद्धौ खगोलदृग्गोलौ कृत्वा भगोलभ्रमणं
- दर्शयेत्” प्रमि० ।
- तदयं खगोलस्थपदार्थसंक्षेपः ।
- कटाहद्वितयवत् सम्पुटाकारस्यान्तरवकाशवतो ब्रह्मा-
- ण्डस्य मध्ये सूर्यकिरणसञ्चारावधिर्व्योमकक्षा । तदवः
- नक्षत्रकक्षा तदधः क्रमेण दृश्याः पूर्वगाः शनिजीवकुज-
- सूर्य्यशुक्रबुधशशिनः अदृश्याश्च राहुपातादयः पश्चिम-
- गतयः, वक्ष्यमाणस्वस्वकक्षायां स्थिताः । अश्विन्यादिन-
- क्षत्राणि स्थिराण्यपि तत्समुदायात्मकं भचक्रं
- पश्चाद्गतिमता प्रवहवायुनाऽभिहतं पश्चात् भ्रमत्
- नाक्षत्रषष्टिघटिकाभिः भूगोलमेकवारं भ्रमति तत्स्था
- रव्यादयः ग्रहाश्च स्वगत्या पूर्वयायिनोऽपि तदाधाराति-
- शीघ्रभचक्र पश्चाद्भ्रमणेन पश्चाद्भ्रमणभ्रमविषया भवन्ति ।
- राशिचक्रञ्च ३६० अंशैर्विभक्तमंशाश्च षष्टिकलाभि-
|
पृष्ठ २४४९
- र्विभक्ताः, कलाश्च षष्टिविकलाभिर्बिभक्तास्तेन ३६० अंशैः,
- २१६०० कलाभिः, १२९६००० विकलाभिर्विभक्तं भचक्रम् ।
- भचक्रद्वादशविभागोराशिरित्युच्यते राशयश्च मेषादयः
- द्वादशमिताः । तेनेकैकराशौ त्रिंशदंशाः, १८०२ कलाः
- १०८०० विकलाः सन्ति । मेषादिराशयोऽपि अश्विन्यादि २७
- नक्षत्रात्मकाः । तेन सपादनक्षत्रेणैकैकोराशिः प्रतिनक्षत्रं च
- १३ । २० । विंशतिकलाधिकास्त्रयोदश अंशाः सन्ति । तथाहि
- अश्विनी १३ । २० भरणी १३ । २० कृत्तिकाद्यप दश्च ३ । २०
- मेषः । कृत्तिकान्त्यपादत्रयम् १० । रोहिणी १३ । २० ।
- मृगस्याद्यार्द्धञ्च ६ । ४० । वृषः । मृगस्यान्त्यार्द्धम् ६ । ४० आर्द्रा
- १३ । २० । पुनर्वस्वाद्यपादत्रयं च १० । मिथुनम् ।
- पुनर्वस्वन्त्यपादः ३ । २० । पुष्यम् १३ । २० अश्लेषा च १३ । २० ।
- कर्कः । मघा १३ । २० । पूर्वफल्गुनी १३ । २० । उत्तरफाल्गुन्या-
- द्यपादश्च ३ । २० । सिंहः । उत्तरफाल्गुन्यन्त्यपादत्रयं १० ।
- हस्तः १३ । २० । चित्राद्यार्द्धञ्च ६ । ४० । कन्या । चित्रा-
- न्त्यार्द्धं ६ । ४० । स्वातिः १३ । २० । विशाखाद्यपादत्रयञ्च १० ।
- तुला । विशाखान्त्यपादः ३ । २० अनुराधा १३ । २० । ज्येष्ठा
- च १३ । २० । वृश्चिकः । मूलं १३ । २० । पूर्वाषाढा १३ । २०
- उत्तराषाढ़ाद्यपादश्च ३ । ३० । धनुः । उत्तराषाढ़ान्त्यपादत्रयं
- १० । श्रवणं १३ । २० । धनिष्ठाद्यार्द्धञ्च ६ । ४० । मकरः ।
- धनिष्ठान्त्यार्द्धं ६ । ४० । शतभिषा १३ । २० । पूर्वभाद्र-
- पदाद्यपादत्रयञ्च १० । कुम्भः । पूर्वभाद्रपदान्त्यपादः ३ । २० ।
- उत्तरभाद्रपदा १३ । २० रेवती च १३ । २० मीनः । उत्तरा-
- षाढ़ायाः शेषपादश्रवणाद्यणिप्तिकाचतुष्टयस्याभिजित्संज्ञा
- किञ्चित् कार्य्यार्था । तस्य स्थानादि २८७ पृ० उक्तम् ।
- एते च राशयः तत्रत्याश्विन्यादयश्च यथा पूर्वमवस्थिताः
- तेषां स्वरूपमश्लेषाशब्दे ४९९ पृ०, विक्षेपा ध्रुवकाश्च
- २४२३ पृ० दर्शिताः । वक्ष्यमाणभचक्रयोजनानि द्वादशधा
- विभक्तानि मेषादिराशीनां स्थानमानयोजनानि ।
- २७ विभक्तानि अश्विन्यादिनक्षत्रादीनां स्थानमानयोजनानि ।
- ३६० विभक्तानि अंशस्थानमानयोजनानि । २१६००
- विभक्तानि कलास्थानमानयोजनानि । भचक्रस्य शन्याद्यूर्द्धस्थ-
- त्वात् तदाश्रितनक्षत्राणामप्यूर्द्ध्वस्थत्वम् । भचक्रवत् भूगो-
- लस्य तावदंशकलाद्याद्यत्मकतया भूगोलांशकलादिस्थान-
- संलग्नसूत्रैकाग्रस्य निवेशने नक्षत्रकक्षायामंशकलाद्यात्मक-
- स्थानेषु सूत्राग्रान्तरस्य निवेशने च तन्मध्यस्थानां शन्या-
- दिकक्षाणामंशकलादिस्थानविभागः भचक्रकलादिस्थाना
- धःस्थानानां तत्तद्राशितदंशकलाविकलाद्यात्मकत्वं गौणम्
|
- चन्द्रकक्षातोऽधः सिद्धविद्याधरघनाः क्रमेणाधोधःस्थिताः ।
- ते च भूगोलात् द्वादशयोजनपर्य्यन्तमूर्द्धगामिनि आवह
- नाम्नि भूवायौ स्थितत्वात् प्रवहवाय्ववस्थानाभावाच्च न
- राशिचक्रगत्या पश्चात् गच्छन्ति । तदधः भकक्षायाः
- समानान्तरालाकाशप्रदेशरूपकेन्द्रस्थाने भूगोलः स्थितः ।
- भूगोलशब्दे बिवृतिः । संक्षेपेणेह किञ्चिदुच्यते । स च ब्रह्मणो
- धारणात्मकशक्त्याश्रयत्वात् निराधारः एवाकाशे स्थितः ।
- तस्य च स्थिरत्वं भचक्रस्यैव चलत्वं च परमतनिराशेन
- २४३३ पृ० समर्थितम् । भूगोलमध्यगतोपेरुः स च भूगो-
- लादूर्द्धाधोनिर्गतः । तत्र ऊर्द्धस्थे मेरौ देवानां वासः,
- अधःस्थे चासुराणाम् । स च भूगोलः देवासुरभागतया
- द्विधा विभक्तः तद्बिभाजकश्च महार्णव एव । स च पृथिव्या
- मेखलेव चतुर्दिक्षु वेष्टनाकारेण स्थितः । मेरुमध्यात्
- चतुर्दिक्षु तुल्यभागेषु ९० अंशेषु समुद्रद्वीपमध्ये लङ्कादीनि
- भूभृवृत्तपाद १२४६ योजनान्तरदेशस्थितानि चत्वारि
- पुराणि । यथा पूर्बस्यां भद्राश्ववर्षे यमकोटी ।
- दक्षिणस्यां भारतवर्षे लङ्का । पश्चिमायां केतुमालवर्षे
- रोमकपुरी । उत्तरस्यां कुरुवर्षे सिद्धपुरी । ताभ्यः
- पुरीभ्यः (१२५६) योजनान्तरे देवाश्रयः मेरुरत्तरतः
- स्थितः । असुराश्रयश्च तथैव दक्षिणतः । विषुवस्थः
- सूर्य्यः तासाममुपरिगो याति । तासु च विषुवच्छा-
- यापातोनास्ति न वा तदपेक्षयान्यत्राक्षस्योन्नतिः
- तत्रैब भचक्रस्य सर्व्वोन्नतत्वात् इत्यतस्तासां
- निरक्षेति संज्ञा मेर्वोरुपरिस्थितैः ध्रुवतारे, मूर्द्धस्थिते निरक्ष-
- पुरीषु च ते क्षितिसंलग्ने दृश्येते । तत्स्थानात् उत्तरां
- गच्छतः क्रमशः उत्तरध्रुवः क्षितिजवृत्तादुन्नतो भवति
- दक्षिणध्रुवश्च क्षितिमध्यप्रविष्टो भवति । एवं दक्षिणां
- गच्छतः क्रमशः दक्षिणध्रुवस्योन्नतिः उत्तरध्रुवस्य नतत्वात्
- भूवृत्तेनाच्छादनम् । भूवृत्तस्य ३६० अंशात्मकत्वेन निरक्ष-
- स्थानेभ्यः पादान्तरितस्थानस्थितत्वेन मेरौ ९० अंशाः
- अक्षांशाः । तदन्तरदेशेषु त्रैराशिकेनानुपातात् अक्षांशा
- ज्ञेयाः । यदि ९० अंशेः १२५६ योजनानि तदा १ अंशे
- किमिति । किञ्चिन्यून १४ योजनैः एकोऽक्षांशः । सौम्य
- याम्ययोः सूर्यस्य भूवृत्तपञ्चदशांश एव निरक्षस्थानात्
- परमक्रान्त्यंशाः २४ । तेन निरक्षस्थानात् १४ गुणिते
- २४ अंशे ३३६ एतद्योजनमितस्थानपर्य्यन्तं सूर्य्यस्यतयो-
- र्दिशोरुपरिगमनम् । अवन्ती च लङ्कातः क्षितिषोड़शांशे
- ३०१४ योजनान्तरे स्थिता । तेन तत्र २२ । १२ अक्षांशाः ।
|
पृष्ठ २४५०
- ततः १ । १२ अंशान्तरिते २१ योजनान्तरितदेशपर्य्यन्त
- स्थितदेशोर्द्धगः सूर्य उत्तरायणान्तगो गच्छति । ततः
- पूर्वस्यां पश्चाद्वा तत्समसूत्रपातस्थदेशेऽपि । राशिचक्रञ्च
- निरक्षदेशोपरि पश्चाद्गत्या भ्रमदपि देवासुराभ्यां सव्यापस-
- व्यगतिमत्तया, निरक्षदेशे क्षितिलग्नमध्यतया च दृश्यते ।
- राशिचक्रमध्यस्थानमेव विषुबस्थानं तच्च सुरासुराणां
- क्षितिजवृत्तलग्नतया दृश्यम् । तत्र भचक्रे मेषादिषट्क-
- मुतरोन्नतं तुलादिषट्कं च दक्षिणनतमत उत्तरमेरुस्थ-
- देवैः मेषादिषट्कमेव दृश्यते तुलादिषट्कं तु भूवृत्ते-
- नाच्छादनात् न दृश्यते । दक्षिणमेरुस्थदैत्यैस्तु तुलादि-
- षट्कमेव दृश्यते मेषादिषट्कं तु भूवृत्ताच्छादनात् न
- दृश्यते । अतो मेषादिषट्कस्थरविकाः षण्मासा देवानां
- दिनम्, सूर्यदर्शनयोग्यकालस्यैव दिनत्वात् तुलादि-
- षट्कस्थरविकाः षण्मासाः रात्रिः, सूर्य्यादर्शनयोग्य-
- कालस्यैव रात्रित्वात् । दैत्यानां तु तुलादिषट्कस्थरविकाः
- षण्मासाः दिनं, मेषादिषट्कस्थरविकाः षण्मासा रात्रिः ।
- निरक्षदेशात् सौम्ययाम्ययोः ६६ अंशान्तरितदेशे तु
- द्वादशमासा एव दिनम् रात्रिर्नास्ति तद्वासिभिः सूर्य्यस्य
- सदा दर्शनात् । तथाहि पूर्वापरयोरिव याम्यसौम्ययोरपि
- उभयत्र ९० अंशपर्य्यन्तदृष्टिप्रचारात् सौम्ययाम्ययोश्च
- २४ अंशपर्यन्तमेव रवेः परमक्रान्तेरुक्तत्वात् सौम्ये
- ६६ अंशान्तरितदेशस्थानाम् याम्ये २४ अंशपर्य्यन्तरवेः-
- स्थितावपि मिलित्वा ९० रवेः अंशान्तरालस्थितत्वात्
- दृष्टियोग्यता । एवं याम्ये ६६ अंशान्तरितदेशस्थाना-
- मपि सौम्ये २४ अंशपर्य्यन्तदेशोपरिगरवेर्दृष्टियोग्यता
- ९० अंशमध्यस्थत्वात् । सौम्ये निरक्षस्थानात् ६९ । १२०
- पलांशान्तरितदेशे धनुर्मकरराशी न दृश्येते । अतः
- धनुर्मकरस्थरविकौ द्वौ मासौ तत्र रात्रिः शिष्टादश मासा
- दिनम् । याम्ये तु तदंशस्थदेशे कर्कमिथुने न
- दृश्येते अतस्तत्र कर्कमिथुनस्थरविकौ द्वौ मासौ रात्रिः
- शिष्टादश मासा दिनम् । निरक्षात् सौम्ये ७८ । १३
- अंशान्तरितदेशे वृश्चिकादिराशिचतुष्कं न दृश्यते ।
- तेन तत्स्थरविकाश्चत्वारोमासा रात्रिः । शिष्टा अष्टौ
- मासा दिनम् । याम्ये तु निरक्षात् तथान्तरितदेशे वृषा-
- दिचतुष्कं न दृश्यते । अतस्तत्स्थरविकाश्चत्वारो मासा
- रात्रिः । शिष्टा अष्टौ मासा दिनम् ।
- सौम्ययाम्यायनवृत्तयोः सम्पातस्थानं विषुवद्वयं तच्च निरक्षो-
- प्ररिगतम् । अयनवृतञ्च सृष्टिमारभ्य मिथुनान्तात् ६६ । ८ कालेन
|
- प्राक् पश्चात् वा एवैकमंशमतीत्य चलतीति अयनशब्दे
- ३३७ पृ० दर्शितम् । अयनवृत्तचलनाच्च तत्सम्पातस्थानादिक-
- मपि भिद्यते । इदानीञ्च पश्चात् २१ अंशचलनम् तेन
- मिथुनस्य नवमांशे उत्तरायणान्तकालः । धनुषोनवमांशे च
- याम्यायनान्तकालः । तदनुसारेण तयोः सम्पातस्थानरूप-
- विषुवस्थानद्वयमपि भिन्नम् । इदानीञ्च भीननवमांशे पूर्व
- विषुवस्थानं कन्यानवमांशे त्वपरविषुवस्थानम् । एवं विषु-
- वायनमध्यगविष्णुपद्यादिस्थानमपि भिन्नम् ।
- अयनञ्च द्विधा सौम्ययाम्यभेदात् । मीननवमांशात् कन्या-
- नवमांशं यावत् सौम्यं, कन्यादशमांशात् मीननवमांशं
- यावच्च याम्यम् । एते एवायने देवासुरयोर्दवारात्रि-
- विभाग दनरात्रिमानज्ञानोपयोगि मुख्यतया ।
- धनुर्नवमांशात् मिथुननवमांशं यावत् सौम्यायनं मिथुननव-
- मांशात् धनुर्नवमांशं यावत् याम्यायनन्तु सौम्ययाम्य
- दिशोरर्कस्य गत्यारम्भकालतया चूड़ादिषु वर्ज्यावर्ज्यतया
- गोणं सौम्यायन एव चूड़ादेविधानात् याम्यायने तन्नि-
- वेवाच्च तथात्वमिति सि० शि० स्थितम् । इदानीं मीननव-
- मांशरूपविषुवस्थाने च भूवृत्ताद्विनिर्गतः सूर्य्यः क्रमेण
- मेषादीन् त्रीन् राशीन् ९० अंशान् मिथुननवमांशपर्य्यन्तम्
- उत्तरोत्तरमारोहन् देवानां पूर्वार्द्ध्वं सम्पादयति मिथुन-
- दशमांशात् कन्यानवमांशान्तञ्चावरोहन् अपरार्द्धम् । एवं
- कन्थादशमांशात् धनुर्नवमांशान्तं यावत् सञ्चरन् दैत्याना-
- महः पूर्वार्द्धं सम्पादयति धनुषोदशमांशात् मीननवमांशं
- यावत् सञ्चरंश्च उत्तरार्द्धमिति विवेकः ।
- विधूर्द्धभागस्थितपितॄणाञ्च चान्द्रमासेनाहोरात्रम् ।
- तथाहि सूर्य्याचन्द्रमसोरेकराश्येवांशावच्छेदेन स्थिति-
- कालरूपामावस्या । सूर्य्यस्य चन्द्रोपरिगतया तदानींतेषां
- मध्याह्नकालः अतएवामावस्यायां पितॄणां श्राद्धविधानम्
- स्वस्वमध्याह्नस्यैव भोजनकालत्वात् । पौर्ण्णमास्याञ्च
- चन्द्रापेक्षया सप्तमराशिस्थतया सूर्यस्य तदा चन्द्राधा
- वर्त्तमानतयाऽदृश्यत्वात् अर्द्धरात्रम् । पुराणादौ चन्द्रात्
- सूर्य्यस्याधःस्थत्वकीर्त्तनमपि पितॄणां दृष्ट्या पौर्ण्णमास्य-
- भिप्रायेण । तेन पञ्चदश्योरहोरात्रमध्यकालतया कृष्णा-
- ष्टम्यर्द्धसमये तेषां सूर्य्योदयः । शुक्लाष्टम्यर्द्धकाले चास्त-
- मनमिति तद्दिनस्य चान्द्रमासरूपता ।
- निरक्षदेशात् भूवृत्तस्य पञ्चदशभागपर्य्यन्तमेव सूर्य्यस्य
- सौम्ययाम्ययोः परमक्रान्तेरुक्तत्वात् । भूवृत्तपञ्चदशभाग ३३६
- योजनान्तरालोत्तरदेशे तदपेक्षया सूर्य्यस्य दक्षिणस्थत्वे
|
पृष्ठ २४५१
- छायाग्रमुत्तरम्, उत्तरस्थत्वेछायाग्र दक्षिणम् । निरक्षात्
- याम्ये तथान्तराल ३३६ विभागस्थदेशे तदपेक्षया सूर्य्यस्य
- दक्षिणत्वे छायाग्रमुत्तरम् उत्तरत्वे छायाग्रं दक्षिणम् ।
- ततोऽधिकयोजनान्तरिते तु देशे, सूर्य्यस्य सौम्ययाम्यस्थ-
- त्वेऽपि सदा छायाग्रं विभाजकमेरुमुखम् । तथा च
- सौम्ये तथाविधदेशे छायाग्रं सौम्यसेरुमुखं याम्ये तु
- याम्यमेरुमुखमिति भेदः । लङ्कापुरे यदा सूर्य्योदयः तदा
- यमकोट्यां मध्याह्नः, भारताधःस्थे सिद्धपुरेऽस्तकालः,
- रोमकेऽर्द्धरात्रम् । एवं सर्वत्र भूवृत्ते ऊर्द्धाधःस्थितदेशयो-
- रुदयास्तकालौ स्वस्वतिर्य्यक्पूर्वस्थितदेशे भूवृत्तपादान्तरिते
- मध्याह्नकालः, स्वस्वतिर्य्यक्पश्चात्तथास्थितदेशेऽर्द्धरात्रम् ।
- तदतरालस्यदेशानान्तुत्रैराशिकेनोदयास्तकाला वेदितव्याः ।
- इत्यवं राशिचक्रस्यानिशभ्रमणात् तद्गतसूर्य्यस्यापि
- तद्वशात् भ्रमणन देशभेदेनैवोदयास्तादिकालव्यवस्था ।
- निरक्षदेशात् उत्तरमेरुं गच्छतः क्रमेण उत्तरध्रुव
- उन्नतो दृश्यते, दक्षिणस्तु भूवृत्तेनाच्छादनात् न दृश्यते ।
- भचक्रमध्यं च क्रमेण नतं दृश्यते । सौम्यमेरुसन्निकृष्ट-
- देशात् निरक्षं गच्छतश्च उत्तरध्रुवः क्रमेण नतः, भचक्रञ्च
- क्रमेणोन्नतं दृश्यते । एवं निरक्षात् दक्षिणमेरुं गच्छ-
- तश्च क्रमेण दक्षिणध्रुवः उन्नतः, भचक्रञ्च नतमुत्तर-
- ध्रुवस्तु भूवृत्तेनाच्छादनात् न दृश्यते । ततो निरक्षाभि-
- मुखं गच्छतश्च क्रमेण दक्षिणध्रुवो नतो भचक्रञ्चोन्नतं
- भवति । तथा प्रवहवायुगोलस्थपूर्वापरविषुवद्वृत्ताधःस्थ-
- निरक्षदेशे ध्रुवयोः क्षितिलग्नत्वभ्रान्तिः, तत्र च भचक्रस्य
- मस्तकोपरिभ्रमणं च दृश्यते । तेन मेर्वभिमुखं गच्छतः
- क्रमेण ध्रुव उच्चः, भचक्रं च नीचमिति युक्तम् ।
- भचक्रस्येव तदधोऽधःस्थानां ग्रहकक्षाणामपि तत्तुल्यांश-
- कलाविकलाद्यात्मतयाऽङ्कने महत्याः कक्षाया अंशादेर्ब-
- हुस्थलात्मकत्वम्, अल्पकक्षायां च अल्पस्थलात्मकत्वं, तेन
- महाकक्षायां स्थितस्य बहुकालेन भगणपूर्त्तिर्लघुकक्षास्थितस्य
- खल्पकालेन । अतोविधोः सर्वावोलघुकक्षानिष्ठत्वेन मासे-
- नैव भचक्रभ्रमणं, शनेस्तु सर्वोपरिमहाकक्षास्थितत्वात्
- ३० वर्षैर्भचक्रभ्रमणम् । एवमन्येषां तदन्तरालस्थितानां
- भचक्रभ्रमणकालविशेषः त्रैराशिकेन कल्पनीयः ।
- खकक्षादिमानयोजनानि अघोऽधःस्थग्रहकक्षामानयो-
- जनानि च सू० सि० उक्तानि तासां भूमध्यस्थ चक्र ।
- खकक्षायाः १८७१२०८०८६४००००००
- नक्षत्रकक्षायाः २५९८९०००० उ० । ४१३६२६५८
|
- शनिकक्षायाः १२७६६८२५५ उ० । २०३१९०७१
- अदृश्यराहुकक्षायाः ८०५७२८६४
- गुरुकक्षायाः ५१३७५७६४ उ० । ८१७६५३८
- अदृश्यचन्द्रमन्दोच्चकक्षायाः ३८३२८४८४
- कुजकक्षायाः ८१४६९०९ उ० । १२९६६१९
- बुधशुक्रसूर्य्यकक्षाणाम् ४३३१५०० उ० । सू० ३८९३७७
- अदृश्यशुक्रशीघ्रोच्चकक्षायाः २६६४६७७ उ० । ४०४०८८
- अदृश्यबुधशोघ्रोच्चकक्षायाः १०४३२०९ उ० । १६६०३३
- चन्द्रकक्षायाः ३२४००० उ० । ५१५६६
- भूवृत्तपरिधेः ५० २६ स्थुलम् ४९६७ सूक्ष्मम्
- अगस्त्यादीनां भचव्रस्थितिस्थानांशविक्षेपास्तु सृ० सि०
- उक्ता यथा ।
- अगस्त्यः मिथुनान्ते भचक्रस्य ९० अंशे स्थितः । मिथु-
- नान्तक्रान्तिवृत्तात् याम्ये ८० अंशास्तस्य विक्षेपः ।
- मृगव्याधः मिथुनविंशांशे भचक्रस्य ८० अंशे स्थितः
- तदीयक्रान्तिवृत्तात् ४० अंशास्तस्य याम्ये विक्षेपः ।
- वह्निनक्षत्रं वृषराशिद्वाविंशभागे भचक्रस्य ५२ अंशे
- स्थितम् । तस्याष्टावंशाः स्वक्रान्तिस्थानात् उत्तरे विक्षेपः ।
- ब्रह्महृदयम् वृष २२ भागे भचक्रस्य ५२ भागे स्थितं
- स्वक्रान्तिवृत्तात् सोम्येऽस्य ३० अंशाः विक्षेपः ।
- एतच्च मिथुनान्तेऽयनांशकाले, अयनांशचलने तु अन्यत्र
- विक्षेपः ।
- रोहिणीशकटम् वृषराशिसप्तदशांशे भचक्रस्य ४७ अंशे
- स्थितं स्वक्रान्तिस्थानात् अंशद्वये याम्येऽस्य विक्षेपः ।
- ब्रह्मनामनक्षत्रम् वृषसप्तविंशांशे भचक्रस्य ५७ अंशे स्थितम्
- स्वक्रान्तिस्थानात् सौम्ये ३८ अंशा अस्य विक्षपः ।
- अपांवत्सनक्षत्रं चित्रातुल्यध्रुवके स्थितं चित्राविक्षेपात्
- अंशद्वयात् ५ अंशाः सौम्ये अस्य विक्षेपः ।
- आपसंज्ञनक्षत्रं चित्रायामेव स्थितं अपांवत्सात् ६ अंशा-
- न्तरेऽस्य सौम्ये विक्षेपः ।
- सप्तर्षयस्तु उत्तरस्यां स्थिताः विक्षपभेदस्तु सौरागमे नोक्तः
- तेषां शतवर्षैरकैकर्क्षभोगः वृ० स० उक्तः ऋषिशब्दे
- १४५१ पृ० विवृतिः ।
- अश्विन्यादीनां योगतारादिकमश्लेषाशब्दे ४९७ पृ० उक्तम्
- ध्रुवकविक्षेपास्तु २४५२ पृ० उक्ताः ।
- वीथिविवृतिः वृहत्संहितायां यथा
- नागवीथिः अश्विनीभरणीकृत्तिकाः
- गजवीथिः रोहिणोमृगशीर्षाद्राः
|
पृष्ठ २४५२
- ऐरावतवीथिः पुनर्व्वसुपुष्याश्लेषाः
- वृषभवीथिः मघादित्रयम्
- गोवीथिः हस्तादित्रयम्
- जरद्गववीथिः विशाखादित्रयम्
- मृगवीथिः मूलादित्रयम्
- अजवीथिः श्रवणादित्रयम्
- दहनवीथिः पूर्वभाद्रपदादित्रयम्
- सूर्य्यादिग्रहाणां ४३२०००० वर्षात्मकयुगे राशिचक्र
- भ्रमणसंख्या सू० सि० उक्ता यथा
- रवेः ४३२०००० पूर्वगत्या
- बुधस्य ४३२०००० तथा
- शुक्रस्य ४३२०००० तथा
- अदृश्यभौमशीघ्रोच्चस्य ४३२०००० तथा
- अदृश्यगुरुशीघ्रोच्चस्य ४३२०००० तथा
- अदृश्यशनिशीघ्रोच्चस्य ४३२०००० तथा
- चन्द्रस्य ५७७५३३३६ तथा
- भौमस्य २५६८३२ तथा
- अदृश्यबुधशीघ्रोच्चस्य १७९३७०६० तथा
- गुरोः ३६४२२० तथा
- अदृश्यशुक्रशीघ्रोच्चस्य ७०२२३७६ तथा
- शनेः १४६५६८ तथा
- अदृश्यचन्द्रमन्दोच्चस्य ४८८२१२ तथा
- अदृश्यराहोः (पातस्य) २३१२३८ पश्चाद्गत्या
- एत एव सहस्त्रगुणिताः कल्पे सूर्य्यादिभगणाः ।
- तत्र सि० शि० सूक्ष्मनमलानशेष उक्तः स च २४२९ पृ० दर्शितः ।
- कल्पे सूर्यमन्दोच्चादिभगणसंख्या
- सू० सि० मते सि० शि० मते
- प्राग्गतेः सूर्यमन्दोच्चस्य ३८७ ४९०
- तथा कुजमन्दोच्चस्य २०४ २९२
- तथा बुधमन्दोच्चस्य ३७८ ३३२
- तथा जीवमन्दोच्चस्य ९०० ८५५
- तथा शुक्रमन्दोच्चस्य ५३५ ६५३
- तथा शनिमन्दोच्चस्य ३९ ३१
- पश्चाद्गतेः कुजपातस्य २१४ २६७
- तथा बुधपातस्य ४८८ ५२१
- तथा जीवपातस्य १७४ ६३
- तथा शुक्रपातस्य ९०३ ८९३
- तथा शनिपातस्य ६१२ ५८४
|
- कल्पादौ पातं धिहाय सर्वे ग्रहाः मीनान्ते मेघादौ
- प्राग्गत्या स्थिताः
- पातस्तु विलोमगत्या तुलादौ स्थित इत्ति भेदः ।
- तदुत्तरकाले तु स्वस्वगत्यनुसारेण राशिकलादौ स्थितिः प्राभ्गत्या
- पश्चाद्गत्या वा बोध्या ॥ चैत्रशुक्लप्रतिपदि शनिवारे कल्पारम्भः
- इदानीञ्च श्वेतवराहकल्पः । तत्र च वर्त्तमानकालपर्य्य-
- न्ताहर्गणानयनम् अहर्गणशब्दे ५७७ पृ० दर्शितरीत्या
- ज्ञेयम् । अस्य कलेश्च शुक्रवारे प्रवृत्तिः ।
- महायुगे नाक्षत्रादिदिनसंख्या सू० सि० उक्ता
- नाक्षत्रदिनसंख्या १५८२२३७८२८
- सावनदिनसंख्या १५७१९१५७८२८
- चान्द्रदिनरूपतिथिसंख्या १६०३००००८०
- सूर्य्यादिबिम्बमानयोजनानि सि० शि० उक्तानि
- रवेर्बिम्बव्यासयोजनानि ६५२२
- चन्द्रमण्डलव्यासयोजनानि ४८०
- भूमण्डलव्यासयोजनानि स्थूलानि १६०० सू० सि० उक्तानि
- १५८१ सूक्ष्माणि सि० शि० उक्तानि । योजने करमाना-
- ङ्गुलस्य षट्सप्ताष्टयवमितत्वभेदेन योजनसंख्याभेदः ।
- अन्येषां ग्रहाणां बिम्बमानं सौरागमे नोक्तम् ।
- कल्यादौ ग्रहाणां ध्रुवकाः २४३२ पृष्ठे उक्ता ग्रहाणां
- सावनदिने मध्यगतिमानं तत्रैव पृष्ठे उक्तं, मेषादौ सूर्यस्य
- सावनमानेन भोगकालः ४२३४, ३५ पृ० दर्शितः
- दशगुर्वक्षरोच्चारणकालः प्राणः असुरिति चोच्यते
- ६ षड्भिः प्राणैः पलं विनाडी च, षष्ट्या पलैः नाडी-
- दण्ड इति चोच्यते षष्ट्या दण्डैर्नाक्षत्रमहोरात्रम् ।
- भचक्रस्य तावता कालेन भूवृत्तभ्रभणात् तस्य नाक्षत्रत्वम् ।
- सावनदिनं सूर्य्योदयाद्द्वितीयसूर्य्योदयपर्य्यन्तकालरूपम्
- तच्च नाक्षत्रदिनात् सूर्य्यस्य स्वाक्रान्ततत्तद्राश्यंशादि
- भोगकालाधिकम् । सावनदिनमपि नाक्षत्रदिनवत्
- स्वपरिमाणानुसारिषष्टिदण्डात्मकमिति भेदः ।
- नक्षत्रचक्रस्य षष्ट्या दण्डैर्भूवृत्तभ्रमणेऽपि तस्य द्वादश-
- राश्यात्मकतया षष्टिदण्डमध्ये द्वादशराशीनामुदयः ।
- राश्युदयश्च स्वस्वदृष्टिगोचरकुजवृत्ते पूर्वस्यां प्राथमिक-
- दृष्टिगोचरयोग्यस्थानसम्बन्धः । राशीनां मध्ये यस्य
- यत्किञ्चित्कलाद्युदयः तस्योदय इति व्यवह्रियते । राशि-
- चक्रस्य तिर्य्यक्स्थिततया देशभेदेन दृष्टियोग्यकालतार-
- तम्येन कालभेदेनैव मेषादीनामुदयः न तु समकालेन ।
- तत्र निरक्षदेशषु मेषादीनामुदयासवः सू० सि० उक्ता यथा
|
पृष्ठ २४५३
- असवः पलानि दण्डादि ।
- मेषस्य १६७० २७८।२६, ४।३८।२६
- वृषस्य १७९३ २९८।५६ ४।५८।५६
- मिथुनस्य १९३७ ३२२।५६ ५।२२।५६
- कर्कस्य १९३७ ३२२।५६ ५।२२।५६
- सिंहस्य १७९३ २९८।५६, ४।५८।५६
- कन्यायाः १६७० २७८।२६, ४।३८।२६
- तुलायाः १६७० २७८।२६ ४।३८।२६
- वृश्चिकस्य १७९३ २९८।५६ ४।५८।५६
- धनुपः १९३७ ३२२।५६ ५।२२।५६
- मकरस्य १९३७ ३२२।५६ ५।२२।५६
- कुम्भस्य १७९३ २९८।५६, ४।५८।५६
- मीनस्य १६७० २७८।२६ ४।३८।५६,
- मेषादीनामुदयकालभेदे कारणम् २४३६ पृ० दर्शितम्
- अन्यदेशेषु चरखण्डवशेन लग्नमानभेद उन्नेयः ।
- चरस्थानञ्च द्विविधं सौम्ययाम्यं पूर्वापरञ्च ।
- तत्र लङ्कातोमेरुपर्य्यन्तदेशः सौम्ययाम्यं चरस्थानं मध्य-
- रेखातः समसूत्रपातस्थपूर्वापरदेशः पूर्वापरचरस्थानम् ।
- चरखण्डानयनञ्च २४३६ पृ० दर्शितम् ।
- देशभेदेन सूर्य्योदयादिव्यवस्था सि० शि० उक्ता
- लङ्कामारभ्य उत्तरमेकं नीयमाना रेखा अवन्तीकुरुक्षेत्रा-
- दिदेशान् स्पृशन्ती या याति सा मध्यरेखा । मध्यरेखायां
- यदा सूर्य्योदयः तत्पूर्वदेशे ततः पूर्वमेव तदुदयः । ततः
- पश्चिमे भागे तु पश्चात् । तत्र यदि ६० घटीभिः
- भूवृत्तयोजनानि लम्यन्ते तदा रेखास्वपुरान्तरालयोज-
- नानि कियत्या घट्या इत्यनुपातेनोदयकालज्ञानम् ।
- सौम्यायने देवभागस्थदेशे दिवसो महान् तदुपरि सूर्य्यस्य
- गतत्वात्, रात्रिस्तु स्वल्पा । याम्यायने देवभागे दिनं
- स्वल्पं रात्रिर्महती । निरक्षे तु सर्वदैव अहोरात्रं
- समानम् पूर्वप्रदर्शितप्रमाणकोदयकालकानां मेषादीनां
- मध्ये यंकञ्चिदारभ्य दिनारम्भे त्रिंशद्घटिकामानत्व-
- सिद्धेः । तत्र मेषादौ देवभागस्थतया सूर्य्यस्यासन्नत्वात्
- तत्रत्यदेशे ग्रीष्मप्रधानता । तुलादौ तु दैत्यभागस्थत्वात्
- सूर्य्यस्य विप्रकृष्टतया देवभागे शिशिरप्रधानता । दैत्य-
- भागे तु वैपरीत्येन शिशिरग्रीष्मते । द्वादशराशिषु मध्ये
- द्वयोः सौम्ययाम्यायनसक्रान्ती द्वयोर्विषुवसंक्रान्ती
- अष्टसु विष्णुपत्यः संक्रान्तयः । तथाहि विषुवायनयोर्मध्ये
|
- द्वे विष्णुपद्याख्यौ संक्रान्ती । तेन मेषारम्भे पूर्वविषुव-
- संक्रान्तिः । वृषे विष्णु पदीसंक्रान्तिः मिथुनेऽपि विष्णुपदी
- संक्रान्तिः तस्यांशविशेषे च षडशीतिमुखं तेनेयं संक्रान्तिः
- षडशीतिमुखेऽतीते जायमानत्वात् षडशीतिरिति च
- भण्यते । मिथुनान्ते कर्कादौ याम्यायनसंक्रान्तिः सूर्य्यस्य
- दक्षिणगतेरारम्भात् तस्य दक्षिणायनत्वं तच्च चूडादिषु
- वर्ज्यतया गौणम् । सिंहे विष्णुपदी । कन्यारम्भे
- विष्णुपदी प्राग्वत् षडशीतिरिति च कथ्यते । कन्यान्ते
- तुलादौ अपरविषुवसंक्रान्तिः तुलान्ते वृश्चिकादौ विष्णु-
- पदी, धनुरादौ विष्णुपदी प्राग्वत् षडशीतिरिति च ।
- धनुरन्ते सौम्यायनसंक्रान्तिः सूर्य्यस्योत्तरगत्यारम्भात् ।
- तच्च चूडादौ विहितत्वेन गौणम् । मकरान्ते कुम्भादौ
- विष्णुपदी, कुम्भान्ते मीनादौ विष्णुपदी षडशीति
- रिति च कथ्यते । षडशीतिमुखवञ्च षडशीत्यंश मिता-
- न्तरकालस्थित्या । तथाहि तुलादितः षडशीतितमोऽंशः
- धनुषः षड्विंशोऽंशः तत्र प्रथमं तन्मुखम् तत आरभ्य
- मीनद्वाविंशेऽंशे द्वितीयं, ततोमिथुनस्याष्टादशांशे तृतीयं
- कन्यायाश्चतुर्द्दशांशे चतुर्थमिति भेदः । अतश्चराचर-
- द्व्यात्मकराशिषु षडशीतिमुखसद्भावात् तिस्रः षडशीतयः ।
- सुरासुराणां दिनरात्रिविभागकारि अयनन्तु मेषादि-
- मारभ्य कन्यान्तं यावत् सौम्यायनं तुलादिमीनान्तं च
- याम्यायनमिति भेदः । संक्रान्तिश्च द्विविधा स्थिरा चला
- च विवृतिरयनसंक्रान्तिशब्दे ३३९ पृ० दृश्या ।
- अयनचलनवत् विषुवविष्णुपद्यादीनां चलनात् कालभेदेन
- राशिविशेषाद्यंशभेदेनैव तत्तत्संक्रान्तिर्भवति ।
- इदानीञ्च मीनस्य पश्चात् एकविंशांशे अर्थात् तन्नवमांशे
- विषुबारम्भः मिथुननवमांशे च अयनारम्भः । इत्येवं
- सर्वसंक्रान्तीनां तत्तदंशभेदे चलसंक्रान्तिरित्युन्नेयम् ।
- राशिचक्रस्य तत्स्थाश्विन्यादिसप्तविंशतिनक्षत्राणाञ्च
- एकस्यां रात्रौ दृष्टियोग्यता । तथाहि सूर्य्यस्थ यस्मिन्
- राशौ यदंशादौ उदयः, ततः सप्तमे राशौ तथाविधांशादा-
- वस्तमनम् । तेन सूर्य्याक्रान्तांशापेक्षया १८० भचक्रांशाः
- क्रमेण दिवसे उदिता अपि सूर्य्यकिरणाच्छन्नतया
- दिवसे न दृष्टियोग्या अस्तमिते तु सूर्य्ये रात्र्यारम्भक्षणे
- ते सर्वे पूर्वकुजवृत्तात् पश्चिमकुजवृत्तमध्य नतोन्नततया
- दृश्यन्ते । यथा यदा मेषस्य प्रथमांशे सूर्य्योदयात् दिना-
- रम्भः ततः पूर्वस्था मेषावशिष्टांशाः, वृषादिराशिपञ्चकं
- १५० अंशात्मकं तुलायाः प्रथमांशाद्यार्द्धं च क्रमेण दिने उद्ग-
|
पृष्ठ २४५४
- च्छति । ततः रात्र्यारम्भे तुलायाः प्रथमांशद्वितीयार्द्धं, ततो
- धनुरादि पञ्चकम् १५० अंशात्मकं, मेषस्याद्यांशश्च क्रमेण रात्रौ
- उद्गच्छति । अत एकस्यां रात्रौ सर्वराशिचक्रांशदर्शनम् ।
- इयांस्तु विशेषः पूर्वकुजवृत्तात् स्वमस्तकोपरिस्थाकाश-
- भागरूपं खस्वस्तिकं यावत् ९० अंशात्मकं राशित्रयं
- मध्याह्नकालमध्ये क्रमेणोन्नतं भवति अपराह्णे तु तदेव
- ९० अंशात्मकं राशित्रयं खस्वस्तिकात् पश्चिमकुजवृत्ताभिमुखं
- सत् नतं भवति । उन्नतांशानां मध्ये यस्य यस्य स्वापेक्षया
- पूर्वस्थैकनवतितमांशस्योदयः तस्य तस्य नतिर्भवति ।
- नतांशानाञ्च मध्ये यस्य स्वापेक्षया १८१ पूर्वस्थैकाशी-
- त्युत्तरशततमांशस्योदयः तस्य तस्य पश्चिमकुजवृत्तेनाच्छा-
- दनादस्तत्वम् भवति । राशिचक्रवत् तत्स्थानि अश्वि-
- न्यादीनि नक्षत्राणि तत्स्था भौमादिग्रहाश्च एकरात्रौ
- दर्शनयोग्या भवन्ति । अस्तंगतास्तु सूर्य्येण सह दिन एव
- उदिता अपि सूर्य्यकिरणाविभूततेजस्कत्वात् न दृश्यन्ते ।
- कालशब्दे १९९१ पृ० दर्शितास्तांशमध्यवर्तिनस्तु सूर्य्यसन्नि-
- कर्षविशेषेण मन्दकिरणतया दृश्या अपि न सम्यक्
- हश्यन्ते । चन्द्रस्य दर्शने त्वयं विशेषः चन्द्रोहि
- जलमयः तस्य स्वतोदीप्तिर्नास्ति तस्य दूरस्थितजलमयस्य दृष्ट्य-
- योग्यत्वात् । सूर्य्यकिरणप्रवेशेनैव दीप्त्या दर्शनयोग्यता
- तन्मण्डलस्य सूर्य्याधःस्थितत्वेऽपि एकराश्येकांशावस्थिति-
- कालसूपामावास्यान्तकालात् क्रमेण सूर्य्यात् पूर्वगतस्य
- तिर्यग्रूपेण स्थितत्वात् तत्प्रवेशः । तत्रापि ४८०
- योजनात्मक चन्द्रबिम्बस्य गोलाकृतितया सूर्य्याभिमुखार्द्ध एव
- सूर्य्यकरप्रवेशः नेतरार्द्धे । तथा च पूर्णिमान्तसमय
- एव तयोः सम्यक्तिर्य्यग्रूपेणं स्थितत्वात्तदानीमेव चन्द्र-
- बिम्बार्द्धे २४० योजनात्मके तत्करसंपूर्ण्णप्रवेशः । पूर्णि-
- मान्तकालश्च सूर्य्याक्रान्तराश्यादितः भचक्रस्य १८० अंशस्थे
- चन्द्रे भवति । स च पञ्चदशतिथिभिर्भवति तथा च यदि
- १५ दिनैः १८० अंशगत्याकरप्रवेशपूर्त्तिकालः तदा एकेन
- दिनेन क इत्यनुपातेन फलम् १२ अशाः । यदि १८० अंशगत्या
- २४० योजनात्मकपूरणं तदा द्वादशांशगत्या किमत्यनुपातेन
- फलं १६ योजनात्मकं चन्द्रबिम्बार्द्धस्य पञ्चदशांशरूप्रकला-
- पूरणं लभ्यते ततश्च चन्द्रबिम्बार्द्धस्यपूर्वगतौ पञ्चदशांशात्मक
- १६ योजनरूपायाः कलायाः पश्चिमस्थ सूर्य्यापेक्षया तिर्य्य-
- क्स्थित्या सूर्य्यकिरणप्रवेशानुकूलतया तत्क्रियात्व मारो-
- प्यते । पञ्चदशकलात्मकचन्द्रमण्डलस्य तु शुक्लप्रतिपद्यपि
- सूर्य्याक्रान्तांशादितो विभागानुकूलक्रियारूपनिःसरणस्य
|
- सत्त्वात् न केवलैकादिमात्रकलाक्रिया, तथाङ्गीकारे च
- केवलायास्तस्या विम्बं विहाय गत्यसम्भवात् न
- तन्निःसरणं सम्भवति न वा दृश्यते । दृश्यते च
- द्वितीयादौ सूर्य्याक्रान्तांशादिभ्योबहुदूरतया चन्द्र-
- बिम्बस्य स्थितिः । किञ्च प्रथमादि दिने प्रथमादिकला-
- मात्रस्य पूर्वतोनिःसरणस्वीकारे चन्द्रविम्बस्य पूर्वादि-
- कलानामेव दृश्यतापत्तिः । न च तथा दृश्यते प्रत्युत
- पश्चिमस्थकलानामेव क्रमशः दृष्टिर्जायते । अतः सूर्य्य-
- किरणप्रवेशयोग्यत्वसम्पादिका तिर्य्यक्स्थित्यनुकूलैव प्रथ-
- मादिकलाक्रियेति वस्तुस्थितिः । तत्रामावस्यान्त्यक्षणे सूर्य्या-
- क्रान्तराश्यंशादिसाम्येन तदधःस्थचन्द्रस्य सर्वथाऽदर्शनम्
- सूर्य्येण सह दिन एव तस्योदयात् । ततः शुक्लप्रतिपदि
- द्वादशांशान्तरितत्वेन तस्य सूर्य्यात् पूर्व्वगत्या १६
- योजनात्मकचन्द्रबिम्बार्द्धकलायाः तिर्य्यक्स्थितत्वेऽपि
- कालशब्दे १९९० पृ० दर्शितास्तांशमध्यवर्त्तित्वात् अस्तांशमध्य-
- वर्त्ति भौमादीनामिव न दृष्टिः । एवं कृष्णचतुर्द्दश्यामपि
- द्वादशांशान्तरित्वेन पश्चात्तिर्यक्स्थित्यापि न दृष्टियोग्यता ।
- शुक्लद्वितीयायान्तु सूर्य्याक्रान्तराश्यंशात् दिनद्वयेन २४
- अंशान्तरितत्वेन पूर्व्वापेक्षया सूर्य्यादधिकतिर्य्यक्स्थित्या
- २४ योजनात्मकस्य चन्द्रबिम्बार्द्धपञ्चदशांशरूपकलाद्वयस्य
- सूर्य्यकिरणप्रवेशात् दृष्टियोग्यता । एवं तृतीयादिष्वपि
- क्रमेण सूर्य्यकिरणप्रवेशाधिक्यात् अंशविशेषे दीप्तिपरि-
- वृद्धिः । शुक्ले पक्षे सूर्य्यक्रान्तराशितः द्वित्रादिराश्य-
- न्तरितत्वेन स्थितस्य दिवोदितस्यापि चन्द्रबिम्बस्य सूर्य्य-
- किरणविशेषप्रवेशेऽपि सौरालोकेनाविभूतत्वात् धूम्रतयैव
- दृष्टियोग्यता । पूर्णिमायान्तु चन्द्रस्य सूर्य्याक्रान्तराशितः
- १८० भचक्राशगत्या परमतिर्य्यक्स्थित्या सर्वकलासु २४०
- योजनात्मिकासु सूर्य्यकिरणप्रवेशः । कृक्ष्णप्रतिपदि तु द्वा-
- दशांशान्तरितत्वेन सूर्य्यात् पश्चात् स्थित्या तिर्य्यग्गत्यल्पतया
- १५ योजनरूपप्रथमकलायां न सूर्य्यकरप्रवेश इत्यतस्तस्य
- न दर्शनम् तत्र सूर्य्यकराप्रवेशनानुकूलतिर्य्यग्गतिभेद
- एव कृष्णपक्षीयकलाक्रियोत भेदः । अधिकमिन्दुशब्दे
- ९३० पृ० उक्तम् ।
- तिथिकरणयोगनक्षत्रवारेशादिस्वरूपादिकं तत्तच्छब्दे
- दृश्यमितिदिक् ।
खग्गड पु० खे आकाशे गलति गल--अच् पृषो० लस्य डः ।
- (खागडा) ख्याते तृणभेदे रत्नमा० ।
खङ्कर पु० खन्यते खन--क्विप् कीर्य्यते क--अप् कर्मधा० । चूर्णकुन्तले हेमच० ।
|