सामग्री पर जाएँ

वाचस्पत्यम्/केतुकुण्डली

विकिस्रोतः तः
पृष्ठ २२३६

केतुकुण्डली स्त्री पञ्चस्वरोक्ते जन्मनक्षत्रभेदवशेन जन्मावध्ये-

कैकवर्षे एकैकग्रहविशेषस्वामित्वाज्ञापके चक्रभेदे सा च
तत्रैव दर्शिता यथा
“अर्को बुधः कुजोजीवः सोमः शुक्रस्तथैव च । राहुः
शनैश्चरश्चैव ज्ञातव्या केतुकुण्डली । अर्कसौम्यान्तरे केतुः
कुजजीवान्तरेऽपि च । सोमशुक्रान्तरे केतूराहुसीरान्तरे
तथा । दद्यादुत्तरभाद्रादि अष्टाविंशतिऋक्षकम् ।
त्रीणि त्रीणि च रव्यादौ एकैकम् केतुषु स्मृतम् ।
जन्मर्क्षात् प्रतिनक्षत्रं जन्माद्यव्दे प्रकीर्त्तिताः” ।
अयमर्थः यदि २६ । २७ । १ नक्षत्रेषु जन्म तदा सूर्य्यः प्रथमं
वर्षेशः । तदुत्तरंकेतुप्रभृतयः शन्थन्ताः २ । भरण्यां जन्मनि
केतुः प्रथमं वर्षेशस्ततः बुधादयः सूर्य्यान्ताः । ३ । ४ । ५ ऋक्षेषु
वुधः प्रथमवर्षेशः ततः कुजादयः केत्वन्ताः । ६ । ७ । ८ । कुजः
प्रथमं ततः केत्वादयः बुधान्ताः । ९ ऋक्षे केतुः ततोजी-
वादयः कुजान्ताः १० । ११ । २२ ऋक्षेषु जीवः ततः
सीमादयः केत्वन्ताः । १३ । १४ । १५ । सोमः ततः केत्वादयः
जीवान्ताः । १६ ऋक्षे केतुः ततः शुक्रादयः सोमान्ताः ।
२७ । १८ । १९ । ऋक्षेषु शुक्रः ततः राहुप्रभृतयः केत्वन्ताः ।
२० । २१ । ० । २२ ऋक्षेषु राहुः ततः केत्वादयः शुक्रान्ताः
२३ केतुः ततः शन्यादयःराह्वन्ताः । २४ । २५ । २६ ऋक्षेषुशनिः
ततः सूर्यादयः केत्वन्ताः । सर्व्वत्र आरोहक्रमानन्तर-
मवरोहक्रमो ग्राह्यः । एवं द्वादशसु वर्षेषु तेषु
पुनः सूर्य्यादीनां वर्षाः । ग्रहाणां फलविशेषस्तु केतु-
पताकाचक्रोक्तदिशोन्नेयः । अत्र च बहुषु स्थानेषु
केतोरवस्थानेन केतुप्राधान्यात् केतुकुण्डलीत्वम् ।

केतुधर्म्मन् पु० त्रिगर्तेश्वरसूर्य्यवर्म्मानुजे नृपभेदे “केतुधर्म्मा

तु तेजस्वी तस्यैवावरजोयुवा । युयुधे भ्रातुरर्थाय
पाण्डवेन यशस्विना” भा० आश्व० ७४ अ०

केतुपताका केतोः पताकेव । जन्मनक्षत्रभेदेन जन्मावध्ये-

कैकेवर्षेशग्रहविशेषज्ञापके चक्रभेदे सा च पञ्चस्वरायां
दर्शिता यथा
“अर्केन्दू कुजसौम्यार्किगुरवः स्युर्यथाक्रमम् । राहुः सर्पो
भृगुश्चेति पताकप्रभवा ग्रहाः । वामं केतुपताकायां
कृत्तिकादिपरिभ्रमात् । जन्मर्क्षं खेचरे यत्र जन्माद्यब्दास्ततः
क्रमात् । आदित्यसौरयोर्वेधो वेधश्चन्द्रसुरेज्ययोः ।
कुजराह्वोर्ज्ञभृग्वोश्च केतुः किञ्चिन्नविध्यति” फलमाह ।
“रवेरब्दे मनुष्याणां भवेत् सर्वत्र निष्फलम् । शिरःशूलं
ज्वरोगेहदाहो विघ्नः पदेपदे” । र० । “चन्द्रस्याव्दे
लभेद्रौप्यं सुवर्णाभरणानि च० । कृषिः फलवती सिद्धिः सर्व-
त्रान्यैश्च पूज्यते” च० । “संवत्सरे महीजस्य काला-
दिव बिभेति च । गृहदाहोऽर्थहानिश्च चौरतो रा-
जतोऽपि वा” म० । “बुधस्याव्दे सुशय्यः स्यान्नानादेवा-
धिपो भवेत् । बु० स्वर्णरौप्यधनं दानं पुण्यकर्मणि
मानसम्” बु० । मन्दस्याव्दे भवेदाहो बन्धनादि प्रपीडनम् ।
धनहानिः प्रहारश्च कलिः स्वजनबन्धुभिः” श ।
“नाकनाथगुरोरव्दे बहुलोत्पत्तिसम्पदः । कृष्णलोहितछत्नेण
स्तुतो भवति भूतले” । वृ० । राहुकेत्वोः सदा बन्धो
नौका विप्लवते जले । व्रर्ण हस्ते पदे देहे स्थानं कर्त्तुं
क्षेमोन च” । रा० के० । “दानवेन्द्रगुरोरव्दे महद्भिर्विभ-
वैर्वृतः । गजाश्ववाहनैर्युक्त उत्साहश्च दिने दिने” शु० ।
अन्येतु पठन्ति “रविर्भ्रामयते देशं नरं दूःखसम-
न्वितम्ः सन्तापरोगं शोकञ्च करोति कृशतां तनोः”
र० “बहुवित्तसुखं नित्यं बन्धुमित्रसमागमम् । समस्तास्पदसं
पूर्णं चन्द्रः कुर्य्यात् दिनेदिने” च० । “मङ्गलोहन्ति
सद्भावं क्रूरकर्म्मणि योजयेत् । व्रणं रोगञ्च दुःखञ्च सन्ता-
पञ्च मुहुर्मुहुः” म० । “अर्थलाभं जयं सौख्यं राजपूजाञ्च
सम्पदम् । ददाति विपुलां लक्ष्मीं बुधो विद्यां वरश्रि
यम्” । बु० । “रोगञ्चार्थविनाशञ्च कलहं भुजगाद्भयम् ।
स्थानत्यागं शनिः कुर्य्या ज्जीवनं प्रति संशयम्” श० । “सुव-
र्णमणिमाणिक्यरत्नादिविपुलंधनम् । कन्यारत्नसमायोगं
गुरुः कुर्य्याद् दिने दिने” वृ० । “राहुःशोणितसंस्रावं
रोगशोकादिसंकुलम् । विदेशगमनं कुर्य्यात् वह्निवारिभ-
यान्वितम्” रा० । “विग्रहं बन्धुभिः सार्द्धं रोगशोकादि-
सङ्कलम् । व्याधिपीड़ां करोत्युच्चैः केतुर्वित्तविना-
शनः” के० । “गजाश्ववाहनैर्युक्तं महद्भिर्विभवैर्वृतम् ।
वराङ्गनासमायुक्तं भृगुः कुर्य्याद्दिने दिने” शु० । “खयुग्मं” २०
शून्यवाणौ ५० च वसुयुग्मञ्च २८ षट्शरौ ५६ । रामाग्नी
३३ रामषट्के ६३ । च विंशञ्च सप्ततिस्तथा । विंशमेते
ऽन्तर्दिवसाः केतावर्कादिषु क्रमात् । शुभानां
शोभना ज्ञेया अशुभानामशोभना । शुभानामशु-
भानाञ्च यत् फलं वत्सरे कृतम् । तत्फलं निर्द्दिशेत्
सर्वं तेषामन्तर्दिनेष्वपि । वर्षे वर्षे रवेः स्वीयं प्रथमं
दिनविंशकम् । ततश्चन्द्रस्य पञ्चाशदेवं शुक्रान्तमादिशेत् ।
विधोर्वर्षे विधोः स्वीयं प्रथमं वत्सरे दिनम् । ततो
भौमस्य वस्वक्षि एवं रव्यन्तमादिशेत् । कुजस्याव्दे
कुजस्यान्तरष्टाविंशं निजं दिनम् । ततो बुधस्य
षट्पञ्चाशदेवं चन्द्रान्तमादिशेत् । बुधादीनाञ्च सर्वेषामेवमेव
क्रमेण तु । कुर्य्यादन्तर्दशाभागं प्रोक्तया दिनसंख्यया” ।
ज्यो० त० तल्लेखनप्रकारो दर्शितो यथा
पृष्ठ २२३७


“रविश्चन्द्रः कुजः सौम्यः शनिजींवस्तमोभृगुः । इन्द्रे-
शाद्यष्टरेखासु मध्ये केतुरिमेऽव्दपाः । कृत्तिकादि त्रिरा
वृत्तिर्यथा कैती मघा भवेत्” यथा ३ र० । ४ च० । ५ म० । ६ बु० ।
७ श० । ८ वृ० । ९ रा० । १० केतुः । ११ शु० । १२ र० । १३ च० । १४ म०
१५ वु० १६ श० १७ वृ० १८ रा० १९ केतुः २० शु० । २१ र०
२२ च० २३ म० २४ बु० २५ श० २६ वृ० २७ रा० १ केतुः २ शु० ।
एवं जन्मनक्षत्रानुसारेण प्रथमादिवर्षेशा रव्यादयः शुक्रान्तां
दशमादिषु पुनः रव्यादयः शुक्रान्ताः । एवं चन्द्रस्य प्रथ-
माव्दाधीशत्वे रव्यन्ताः एवं क्रमेण सर्व्वत्र योज्यम्
“पताका कुण्डली केतोः कुण्डली च वृहस्पतेः ।
सर्व्वत्र पापसंपोगे संशयो जायते महान्” पञ्चस्वरा

केतुमत् त्रि० केतुरस्त्यस्य मतुस् । १ चिह्नादियुक्ते २ प्रज्ञानयुक्ते

“केतुमद्दुन्धुभिर्वावदीति” ऋ० ६, ४७, ३०, “केतुमत् प्रज्ञा-
नवत्” भा० स्त्रियां ङीप् । ३ काशीराजदिवोदास-
वंश्ये नृपभेदे पु० । “क्षेमस्य केतुमान् पुत्रः सुकेतुरस्य
चात्मजः” हरिवं० २ अ० दिवोदासवंशोक्तौ । वासु-
देवसहिष्याः मुनन्दाया निवासरूपे ४ प्रासादभेदे पु०
“सुनन्दाया निवासोऽसौ प्रशस्तः सर्वदेवतैः । महिष्या
वासुदेवस्य केतुमानिति विश्रुतः” हरिवं० १५७ अ०
५ धन्वन्तरिपुत्रभेदे “धण्वन्तरिर्दीर्घतमस आयुर्वेद प्रवर्त्तकः ।
यज्ञभुग्वासुदेवांशः स्मृतिमात्रार्त्तिनाशकः । तत्पुत्रः
केतुमानस्य जज्ञे भीमरयस्तथा” भाग० ९१७ । ५
६ दानवभेदे । “तथा गगनमूर्द्धा च वेगवान् केतुमांश्चायः”
भा० आ० ७ दानवोक्तौ । सुमालिनो राक्षमस्य भार्य्यायां स्त्री
“सुमालिनोऽपि भार्य्यासीत् पूर्ण्णचन्द्रनिभानना ।
नाम्ना केतुमती राम!” रामा० उ० ४ स० ।
“असमे सजौ सगुरुयुक्ता केतुमती समे भरनगाद्गः”
वृ० र० उक्तलक्षणे ८ विषमवृत्ते छन्दोभेदे स्त्री ।

केतुमाल पु० । १ आग्नीध्रनृपपुत्रभेदे २ तन्नामके जम्वुद्वीप-

स्थे वर्षभेदे । तद्विवृतिः उत्तरकुरुशब्दे १०९४ पृ० ।
कुरुशब्दे च २१२२ पृ० दृश्यम् । “मेरोस्तु पश्चिमे पार्श्वे
केतुमालो महीपते! । जम्बुखण्डे च तत्रैव महाजन
पदोनृप ।” भा० भी० ६ अ० । ३ अवन्तिदेशस्ये नदीभेदे
स्त्री “अवन्तिषु प्रतीच्यां वै कीर्त्तयिष्यामि ते दिशः”
इत्युपक्रमे “केतुमाला च मेध्या च गङ्गाद्वारञ्च भूमि-
प!” भा० व० ८९ अ० ।

केतुमालि(लिन्) पु० शम्बरदैत्यस्य सेनाधिपभेदे । “दुर्द्धरः

केतुमाली च शत्रुहत्ता प्रमर्द्दनः” इत्युपक्रमे “एतैः
परिवृतो योधैः शम्बरः प्रययौ तदा” । “तेनैव तस्य
चिच्छेद केतुमालेः शिरस्तदा” हरिवं० १६४ अ० ।

केतुरत्न न० केतीः रत्नम् । वैदूर्य्यमणौ (लशुनिया) राजनि०

तस्य तत्स्वामिकत्वात् तथात्वम् ।

केतुवीर्य्य पु० दानवमेदे । “विक्षोभणश्च केतुश्च केतुवीर्य्यः

शतह्रदः” हरिवं० ३ अ० दानवोक्तौ ।

केतुवृक्ष पु० केतुभूतोवृक्षः । मेरोश्चतुर्द्दिक्षु वर्त्तमानविष्क्र-

म्भपर्वतमन्दरादीनां चिह्नरूपे वृक्षभेद । “विष्कम्भशैलाः
किल मन्दरोऽस्य (मेरोः) सुगन्धशैलः (गन्धमादनः)
विपुलः सुपार्श्वः । तेषु क्रमात् सन्ति च केतुवृक्षाः कदम्ब
जम्बूवटपिप्पलाख्याः” सि० शि० । “विष्कम्भारचिता
मेरोर्योजनायतमुच्छ्रिताः । पूर्वण मन्दरोनाम दक्षिणे
गन्धमादनः । विपुलः पश्विमे भागे सुपार्श्वश्चोत्तरे स्मृतः ।
कदम्बस्तेषु जम्बश्च पिप्पलोवट एव च । एकपदशशता-
यामाः पादपाः गिरिकेतवः” विष्णुपु०

केतुशृङ्ग पु० पौरवे नृपभेदे । “बलबन्धुर्निरामर्द्दः केतुशृ-

ङ्गो वृहद्बलः” भा० आ० १ अ०

केदर पु० के दृणाति दृ--अच् कैर्विदीर्य्यतेदॄ--अप् वा । १ वृक्ष-

भेदे असरटीकायां भानुदीक्षितः । २ टेरके केकरे शब्दचि०

केदार पु० के शिरसि दारोऽस्य केन जलेन दारोऽस्य वा नि०

एत्त्वम् । हिमालयस्थे पर्व्वतभेदे तत्स्थे २ शिवलिङ्गभेदे
न० तन्माहात्म्यादि स्कन्दपु० केदारखण्डे दृश्यं तस्यैव
काशीक्षेत्रे आविर्भावात् काशीस्थे ३ लिङ्गभेदे च न०
तत्कथा काशीख० ७७ अ० यथा
“श्रीपार्व्वथुवाच । “नमस्ते देवदेवेश! प्रणमत्करुणा-
निधे! । वद केदारमाहात्म्यं भक्तानामनुकम्पया ।
तस्मिन् लिङ्गे सदा प्रीतिस्तव काश्यामनुत्तमा । तद्भक्ताश्च
जना नित्यं देवदेव । महाधियः । श्रीदेवदेव उवाच ।
शृण्वपर्ण्णे! ऽभिधास्यानि केदारेश्वरसंकथाम् । समाक-
र्ण्ण्यापि यां पापोऽप्यपाषोजायते क्षणात् । केदारं यातु-
कामस्व पुंसोनिश्चितचेतसः । आजन्मसञ्चितं पापं
तत्क्षण्णादेव नश्यति । गृहाद्विनिर्गते पुंसि केदारगति-
निश्चिते । जन्मद्वयार्जितं पापं शरीरादपि निर्व्रजेत् ।
मध्यमार्गं प्रपन्नस्य त्रिजन्मजनित त्वघम् । गेहाद्विनिः
सृतस्यापि निराशं याति निश्वसत् । सायं केदारकेदार
केदारेति त्रिरुच्चन् । गेहेऽपि निवसन्नूनं यात्राफलमवा
प्नुयात् । दृष्ट्वा केदारशिखरं पीत्वा तत्रत्यमन्यु च
जन्मजन्मकृतात् पापान्मुच्यते नात्रसंशयः हरभ्या ।
पृष्ठ २२३८
ह्रदे स्नात्वा केदारेशं प्रपूज्य च । कोटिजन्मार्जितैः पापै
र्मुच्यते नात्र संशयः । सकृत् प्रणम्य केदारं हरम्पाप-
कृतोदकः । स्थाप्य लिङ्गं हृदम्भोजे प्रान्ते मोक्षं
गमिप्यति । हरम्पापह्रदे श्राद्धं श्रद्धया यः करिष्यति ।
उद्धृत्य सप्त पुरुषान् स्वर्गलोकं गमिष्यति । पुरा
रथन्तरे कल्पे यदभूदत्र तत् शृणु । अपर्ण्णे! दत्तकर्ण्णा त्वं
वर्ण्णयामि तवाग्रतः । एकोब्राह्मणदायाद उज्जयिन्या-
इहागतः । कृतोपनयनः पित्रा ब्रह्मचर्य्यव्रते स्थितः ।
स्थलीं पाशुपतीं काशीं स विलोक्य समन्ततः । द्विजैः
पाशुपतैः कीर्ण्णां जटामुकुटमण्डितैः । कृतलिङ्गस-
मार्च्चैश्च भूतिभूषितवर्ष्मभिः । भिक्षाकृतान्नसंतुष्टैः प्लुतै
र्गङ्गोदकामृतैः । बभूवानन्दितमना व्रतं जग्राह
चोत्तमम् । हिरण्यगर्भादाचार्य्यान्महत् पाशुपताभि-
धम् । स च शिष्योवशिष्ठोऽभूत् सर्व्वपाशुपतोत्तमः ।
स्नात्वा ह्रदे हरम्पापे नित्यं प्रातः समुत्थितः । विभूत्या-
ऽहरहः स्नाति त्रिकालं लिङ्गमर्च्चयन् । नान्तरं स
विजानाति शिवलिङ्गे गुरौ तथा । स द्वादशाव्ददेशीयो-
वशिष्ठो गुरुणा सह । ययौ केदारयात्रार्थं गिरिं
गौरीगुरोर्गुरुम् । यत्र गत्वा न शोचन्ति किञ्चित् संसारि
णः क्वचित् । प्राश्योदकं लिङ्गरूपं लिङ्गरूपत्थमागताः ।
असिधारं गिरिं प्राप्य वशिष्ठस्य तपस्विनः । गुरुर्हि-
रण्यगर्भाख्यः पञ्चत्वमगमत्तदा । पश्यतां तापसानां
च विमाने सार्व्वकामिके । आरोप्य तं पारिषदाः कैला-
समनयन् मुदा । यस्तु केदारमुद्दिश्य गेहादर्द्धपथेऽप्य-
हो । अकातरस्त्यजेत् प्राणान् कैलासे स चिरं वसेत् ।
तदाश्चर्य्यंसमालोक्य स वशिष्ठस्तपोधनः । केदारमेव लिङ्गेषु
बह्वमंस्त सुनिश्चितम् । अथ कृत्वा स कैदारीं यात्रां
वाराणसीमगात् । अग्रहीन्नियमं चापि यथार्थं
चाकरोत् पुनः । प्रतिचैत्रं सदा चैत्र्यां यावज्जीवमहं
ध्रुवम् । विलोकयिष्येकेदारं वसन् वाराणसीं पुरीम् ।
तेन यात्राः कृताः सम्यव्षष्टिरेकाधिका मुदा । आनन्द-
कानने नित्यं वसता ब्रह्मचारिणा । पुनर्यात्रां स वै चक्रे
मधौ निकटवर्त्मनि । परमोत्साहसंतुष्टः पलिता-
कलितोऽप्यलम् । तपोधनैस्तन्निघनं शङ्कमानैर्निवारितः ।
कारुण्यपूर्णहृदयैरन्यैरपि च सङ्गिभिः । ततोऽपि न
तदुत्साहभङ्गोभूद्दृढचेतसः । मध्ये मार्गं मृतस्यापि
गुरोरिव गतिर्मम । इति निश्चितचेतस्के वशिष्ठे
तापस शुचौ । अशूदान्नपरिपुष्टे तुष्टोऽहं चण्डिके!
ऽभवम् । स्वप्ने मया ससंप्रोक्तो वशिष्ठस्तापसोत्तमः ।
दृढव्रत! प्रसन्नोऽस्मि केदारं विद्धि मामिह । अभीष्टं च वरं
मत्तः प्रार्थयस्वाविचारितम् । इत्युक्तवत्यपि मयि स्वप्नो
मिथ्येति सोऽब्रवीत् । ततोऽपि स मया प्रोक्तः स्वप्नोमिथ्या
शुचिस्मिते! । भवादृशाममिथ्यैव स्वाध्यायवशवर्त्ति-
नाम् । वरं ब्रूहि प्रसन्नोऽस्मि स्वप्नशङ्कां त्यज द्विज! ।
तव सत्ववतः किञ्चिन्ममादेयं न किञ्चन । इत्युक्तं मे
समाकर्ण्य वरयामास मामिति । शिष्यो हिरण्यगर्भस्य
तपस्विजनसत्तमः । यदि प्रसन्नो देवेश! तदा मे येऽनुगा-
इमे । सर्व्वे शूलिन्ननुग्राह्या एष एव वरोमम । देवि!
तस्येदमाकर्ण्य परोपकृतिशालिनः । वचनं नितरां
पीतस्तथेति तसुवाच ह । पुनः परोपकरणं तत्तपोद्विगुणी
कृतम् । तेन पुण्येन स मया पुनः प्रोक्तोवरं वृणु ।
सवशिष्ठो महाप्राज्ञो दृढपाशुपतस्थितः । देवि । मे प्रार्थ-
यामास हिमशैलादिह स्थितिम् । ततस्तत्तपसा तुष्टः
कलामात्रेण तत्र हि । हिमशैले स्थितश्चात्र सर्व्वभावेन
संस्थितः । ततः प्रभाते संजाते सर्व्वेषां पश्यतामहम् ।
हिमाद्रेः प्रस्थितः प्राप्तः स्तूयमानः सुरर्षिभिः ।
वशिष्ठं पुरतः कृत्वा सर्व्वसार्थसमायुतम् । हरम्पाप
ह्रदे तीर्थे स्थितोऽहं तदनुग्रहात् । मत्परिग्रहतः सर्वे
हरम्पापे कृतोदकाः । आराध्य मामनेनेव पुरुषाः सिद्धि-
मागताः । तदा प्रभृति लिङ्गेऽस्मिन् स्थितः साधकसि-
द्धये । अविमुक्ते परे क्षेत्रे कलिकाले विशेषतः । तुषा-
राद्रिंसमारुह्य केदारं वीक्ष्ययत् फलम् । तत् फलं सप्त-
गुणितं काश्यां केदारदर्शने । गौरीकुण्डं यथा तत्र
हंसतीर्थञ्च निर्म्मलम् । तथा मधुस्रवा गङ्गा काश्यां
तदखिलं तथा । इदं तीर्थं हरम्पापं सप्तजन्माघना-
शनम् । गङ्गायां मिलितं पश्चाज्जन्मकोटिशताघहम् ।
अत्र पूर्ब्बं तु काकोलौ युध्यन्तौ खान्निपेततुः । पश्य-
तां तत्र संस्थानां हंसौ भूत्वा विनिर्गतौ । गौरि! त्वया
कृतं पूर्ब्बं स्नानमत्र महाह्रदे । गौरीतीर्थ ततः ख्यातं
सर्वतीर्थोत्तमोत्तमम् । अत्रामृतस्रवा गङ्गा महामोहा-
न्धकारहृत् । अनेकजन्मजनितं जाड्यध्वंसविधा-
यिनी । सरसा मानसेनात्र पूर्ब्बन्तप्तं महत्तपः ।
अतस्तन्मानसं तीर्थं जने ख्यातिमिदं गतम् । अत्र पर्ब्बं जनः
स्नानमात्रेणैव प्रमुच्यते । पश्चात् प्रसादितश्चाहं त्रिदशै
र्मुक्तिदुर्दृशैः । सर्वे मुक्तिं गमिष्यन्ति यदि देवेह मानवाः ।
केदारकुण्डे सुस्नातास्तन्नश्छित्तिर्भविष्यति । सर्वेषा-
पृष्ठ २२३९
मेव वर्णानामाश्रमाणां च धर्म्मिणाम् । तस्मात्तनुवि-
सर्गेण मोक्षं दास्यसि नान्यथा । ततस्तदुपरोधेन तथेति
च मयोदितम् । तदारभ्य महादेवि! स्नानात्, केदारकु-
ण्डतः । समर्च्चनाच्च भक्त्या वै मम नामजपादपि ।
नैःश्रेयसीं श्रियं दद्यामन्यत्रापि तनुत्यजाम् । केदारतीर्थे यः
स्नात्वा पिण्डान् दास्यति चात्वरः । एकोत्तरशतं
वंश्यास्तस्य तीर्णा भवाम्बुधेः । भौमवारे यदा दर्शस्तदा यः
श्राद्वदोनरः । केदारकुण्डमासाद्य गयाश्राद्धेन किं?
ततः । केदारं गन्तुकामस्य बुद्धिर्देया नरैरियम् । काश्यां
स्पृश त्वं केदारं कृतकृत्यो भविष्यसि । चैत्रकृष्णच-
तुर्दश्यामुपवासं विधाय च । त्रिगण्ड्रषीं पिबन् प्रात-
र्मल्लिङ्गमधितिष्ठति । केदारोदकपाने तु यथा तत्र फलं
भवेत् । तथाऽत्र जायते पुंसां स्त्रीणां चापि न संशयः ।
केदारभक्तं संपूज्य वासोऽन्नद्रविणादिभिः । आजन्म-
जनितं पापं त्यक्त्वा याति ममालयम् । आषण्मासं
त्रिकालं यः केदारेशं नमस्यति । तं नमस्यन्ति सततं
लोकपाला यमादयः । कलौ केदारमाहात्म्य योऽपि
कोऽपि न वेत्स्यति । योवेत्स्यति च पुण्यात्मा सर्वं
वेत्स्यति स ध्रुवम् । केदारेशं सकृत् दृष्ट्वा देवि! मेऽनु-
चरो भवेत् । तस्मात् काश्यां प्रयत्नेन केदारेशं विलोकयेत् ।
चित्राङ्गदेश्वरं लिङ्गं केदारादुत्तरे शुभम् । तस्यार्च्चनान्न-
रोनित्यं स्वर्गभोगानुपाश्नुते । केदाराद्दक्षिणे भागे
नीलकण्ठविलोकनात् । संसारोरगदष्टस्य तस्य नास्ति
विषाद्भयम् । तद्वायव्येऽम्बरीषेशो नरस्तदवलोकनात् ।
गर्भवासं न चाप्नोति संसारे दुःखसङ्कुले । इन्द्रद्युम्नेश्वरं
लिङ्गं तत्समिपे समर्च्य च । तेजोमयेन यानेन सस्वर्गभु-
वि मोदते । तद्दक्षिणे नरोदृष्ट्वा लिङ्गं कालञ्जरेश्वरम् ।
जराकालं विनिर्जित्य मम लोके वसेच्चिरम् । दृष्ट्वा कामे-
श्वरं लिङ्गमुदक् चित्राङ्गदेश्वरात् । सर्व्वत्र क्षेममाप्नोति
लोकेऽत्र च परं दिवि । श्रीस्कन्दौवाच । देवदेवेन!
विन्व्यारे! केदारमहिमा महान् । इत्याख्यायि पुराऽ-
म्बायै मया ते ऽपि निरूपितः । केदारेश्वरलिङ्गस्य
श्रुत्वोत्पत्तिं कृती नरः । शिवलोकसवाप्नोति निष्पा-
पोजायते क्षणात्” । लिङ्गपरत्वे न० केदारेशकेदारे-
श्वरादयोप्यत्र पु० । वदर्व्याश्रमस्याऽन्तिकस्थे ३ क्षेत्रभेदे
“केदाराख्ये महाक्षेत्रे देवी सा मार्गदायिनी” देवी-
गीता ४ भूमिप्रदेशभेदे अमरः “मतङ्गस्य च केदारस्तत्रैव
कुरुनन्दन!” भा० व० ८४ अ० । “केदारे चेव राजेन्द्र!
कपिलस्य महात्मनः” भा० ८३ अ० । जलनिवारणार्थे चतुः-
पार्श्वे सेतुबन्धयुक्ते ५ क्षेत्रे ६ आलवाले च मेदि० “यथा
“तड़ागोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान् प्रविश्य
तद्वदेव चतुष्कोणाद्याकारं भवति” वेदा० प० । “भूमा-
वप्येककेदारे कालोप्तानि कृषीवलैः । नानारूपाणि
जायन्ते वीजानीह स्वभावतः” मनुः “स्थानछेदस्य
केदारमाहुः शल्यबतोमृगः” मनुः । केदारणां समूहः
“केदाराद्यञ् च” “ठञ् कवचिनश्च” पा० यञ् वुञ् ठञ्
च । केदारर्य्य कैदारक कैदारिक तत् समूहे न० “कैदा-
रिकाणामभित समाकुलाः” माघः । अत्र केदारादिति
निर्द्देशात् नि० एत्त्वम् । तस्येदमण् । कैदार तत्सम्बन्धि-
जलतण्डुलादौ त्रि० तद्गुणाः “केदारं क्षेत्रमुद्दिष्टं
कैदारं तज्जलं स्मृतम् । कैदारं वार्य्यभिष्यन्दि मधुरं गुरु
दोषकृत्” भावप्र० । “कैदारा वातवितपित्तघ्नाः गुरवः
कफशुक्रलाः । कषाया अल्पवर्चस्काः मेध्याश्चैव
बलावहाः” भावप्र० केदारशाल्यादिगुणा उक्ताः

केदारक पु० केदारे भवः कन् । कृष्टक्षेत्रजाते ब्रीहि

भेदे षष्टिककङ्गुकेत्युपक्रमे “कुरवककेदारकप्रभृतयः
षष्टिकाः” सुश्रुतः । केदारशब्दे गुणाउक्ताः

केदारकटुका स्त्री केदारस्य कटुकेव । कटुकाभेदे राजनि०

केदारखण्ड पु० व्यासप्रणीते स्कन्दपुराणान्तरर्गते अवन्ति-

खण्डस्थकेदारमाहात्म्यप्रतिपादके ग्रन्थभेदे ।

केदारज त्रि० केदारात् जायते जन--ड । १ कृष्टभूमिजाते

ब्रीहिभेदे केदारशब्दे तद्गुणा उक्ताः । २ पद्मकाष्ठे
न० राजनि० केदारजातादयोऽप्यत्र

केन न० केनेत्युप्रपक्रम्य प्रवृत्तम् । तलवकारोपनिषद्रूपे

केनेषितमित्यादिके उपनिषद्भेदे “ईशा केन कठ प्रश्न मुण्ड-
माण्डूक्यतित्तिरिः” मुक्तिको० उपनिषच्छब्दे विवृतिः

केनती स्त्री के सुखार्थं नतिः बा० ङीप् अलुक्स० । स्मर-

लीलायां त्रिका० ।

केनार पु० के मूर्द्ध्नि नारः नृ--वञ् अलुक्स० । १ कम्भिनाम-

नरके हेम० । २ शिरसि ३ कपोले ४ सन्धौ च मेदि० ।

केनिप पु० के सुखे निपतति नि + पत--ड अलुक्स० । मेधा-

विनि निवण्टुः “यथा केनिपानामिनो वृधे” ऋ० १०, ४४, ४,
“केनिपाना मेधाविनाम्” भा० । निघण्टौ अकेनिप
इति वा पाठः । तत्रार्थे ।

केनिपात पु० के जले निपात्यते नि + पत--णिच्--कर्म्मणि

अच् । (हाल)नौकात्तालनं काष्ठनिर्म्मिते पदार्था अरित्रं
शब्दमा० तं हि जले पातयित्वा चालनेन नौकां
चालतीति तस्य तथात्वम् । स्वार्थे क । तत्रार्थे अमरः ।
पृष्ठ २२४०

केन्दु पु० ईषत् इन्दुरिव कोः कादेशः । १ तिन्दुकवृक्षे

शब्दरत्ना० । संज्ञायां कन् । (गाव) गालववृक्षे ।
“लघुद्वयं विरामान्तं ताले केन्दुकसंज्ञके” इति संगी० दा०
उक्ते २ तालभेदे पु०

केन्दुवाल पु० केजले इन्दोरिब अर्द्धेन्दोरिव वालश्चलनमस्य ।

अरित्रे (हाल) इति ख्याते नौकाचालने काष्ठभेदे ।
“अरित्रशब्दः केन्दु वालवाचकः” यजुर्वेददीपः

केन्दुविल्व पु० गीतगोविन्दग्रन्थकारकजयदेवनिवासे ग्राम-

भेदे (केन्दली) “केन्दुविल्वसमुद्रसम्भवरोहिणीरम-
णेन” (जयदेवेन) गीतगो० ।

केन्द्र न० “वृत्तस्य मध्यं किल केन्द्रमुक्तम् । केन्द्रं ग्रहोच्चा

न्तरमुच्यतेऽतः । यतोऽन्तरे तावति तुङ्गदेशान्नीचोच्च
वृत्तस्य सदैव केन्द्रम्” शि० सि० गोलाध्यायोक्ते १ वृत्तक्षेत्रस्य
मध्यस्थाने २ ग्रहाणामुच्चस्थानान्तरे च । तदानयनप्र-
कारः तस्य समविषमादिसंज्ञाभेदौ च सू० सि० रङ्गना-
थाम्यां दर्शितौ यथा
“ग्रहं संशोध्य मन्दोच्चात् तथा शीघ्राद्विशोध्य च । शेषं
केन्द्रपदं तस्माद्भुजज्या कोटिरेव च” मू० । “ग्रहं राश्या-
दिकं मन्दोच्चात् प्रागानीतस्वकीयराश्यादिकं मन्दोच्चभागात्
संशोध्योनीकृत्य शीघ्रात् प्रागानीतराश्यादि शीघ्रोच्चात्,
चः समुच्चये ऊनीकृत्य शेषं राश्यात्मकं तथोच्चसम्ब-
न्धेन केन्द्रं मन्दोच्चाद्धीनो ग्रहो मन्दकेन्द्रम् । शीघ्रो-
च्चाद्धीनो ग्रहः शीघ्रकेन्द्रं भवतीत्यर्थः । तस्मात्
केन्द्रात् पदं राशित्रयात्मकं विषमं समं पदं ज्ञेयम् ।
त्रिराश्यन्तर्गतं चेत् प्रथमं विषमं पदम् । ततःषड्राश्य-
न्तर्गतं चेत् त्र्युनं केन्द्रं द्वितीयं समं पदम् । ततो
नवराश्यन्तर्गतं चेत् षडूनं तृतीयं विषमं पदम् । ततो
नवोनं चतुर्थं पदं सममित्यर्थः । तस्मात् पदाद्भुजस्य ज्या
कोटिः कोटेर्ज्या । चः समुच्चये । एवकारात्तदाकारद्वयं
साध्यमित्यर्थः । अत्रोपपत्तिः । उच्चस्थानाभिमुखमुच्च-
दैवतैर्ग्रहाणामाकर्षणोक्तेरुच्चाद्ग्रहः कियदन्तरेणेति
ज्ञानार्थसुच्चहीनो ग्रहः केन्द्रमुच्चग्रहणवशात् तदाख्यम् ।
तत्र भगवता स्पेच्छया ग्रहादुच्चं यदन्तरेण तत् केन्द्रं
कृतम् । उभयथा भुजकोट्योस्तुल्यत्वात् । द्वादशरा-
श्यङ्किते वृत्ते उच्चस्थानाच्चतुर्विभागात्मक एकैको भागो
राशित्रयात्मकः पदसंज्ञः । अथोच्चस्थानाद्ग्रहः कस्मिन्
पदेऽस्तीति शून्यत्रिषण्णवोनं केन्द्रं कृतं, ज्यानां पदान्त-
र्गतत्वात् । ग्रहाधिष्ठितपदाद्भुजज्याकोटिज्ययोर्ज्ञानम् ।
तच्च ग्रहाणां राश्यंशकलाविकलादिस्थितिज्ञानार्थंस्पष्ट-
ताकरणसाधनं तत्रैव प्रसिद्धम्” रङ्ग० ।
एतत्साम्यात् लग्नावधिकद्वादशराशिषु त्रिराश्यन्तरस्था-
नरूपे लग्नचतुर्थसप्तमदशमस्थानरूपे २ स्थानचतुष्के ।
“लग्नाम्बुद्यूनकर्म्माणि केन्द्रमुक्तञ्च कण्टकम् । चतुष्ट-
यञ्चात्र खेटो बली लग्ने विशेषतः” ज्यो० त० । केन्द्र-
गतग्रहबलञ्च बलशब्दे वक्ष्यते । केन्द्रगतग्रहवशादायुस्तु
केन्द्रायुरित्यभिधीयते तच्चाकरे दृश्यम् । “आप्नोक्लिमगते
चन्द्रे केन्द्रस्थे सुरपूजिते । योगः केन्द्र इति ख्यातो
यातुरिष्टार्थसिद्धिदः” ज्योतिषोक्ते ३ यात्राशुभयोगभेदे पु० ।
केन्द्रं स्थानत्वेनास्त्यस्य इनि । केन्द्रिन् तत्स्थे ग्रहे

केप चालने भ्वा० आत्म० सक० सेट । केपते अकेपिष्ट ।

ऋदित् केपयति ते अचकेपत्--त । प्रनिकेपते

केपि त्रि० कु + पू--इन् पृषो० । “पुनाति कर्म्म कुत्सितं दुष्पूयं

भवतीति” निरुक्तोक्ते निन्दितकर्म्मणि । “न ये शेकु-
र्यज्ञियां नावमारुहमीर्म्मैव ते न्यविशन्त केपयः” ऋ०
१०, ४४, ६, “केपयः कुत्सितपूयकर्म्माणः” भा० ।

केमद्रुम पु० ज्योतिषोक्ते योगभेदे । स च योगः जातकपद्धतौ

फलश्नङ्गभ्यां सहितोदर्शितोयथा । “शीतांशोर्धनगैर्भवेद्धि
सुनफा रिप्फस्थितैः साऽनफा । युग्मस्थैरविवर्जितैर्दुरधरा
केमद्रुमोऽतोऽन्यथा” । तत्फलम् “नृपर्त्येशजातोऽपि
केमद्रुमभवोनरः । मलिनो दुःखितो नीचो निःस्वोदासः
खलोभवेत्” तद्भङ्गस्तु तत्रैव “चन्द्रे केन्द्रगतेऽथवा ग्रहयुते
सर्व्वैश्च दृष्टे विघौ सर्व्वैः कण्टकसंज्ञितैर्ग्रहयुतैः
केमद्रुमोनेष्यते । लग्नाद्विधोर्वा वृद्धिस्थैः शुभैः सर्व्वं शुभं
फलम् । द्वाभ्यां मध्यं तथैकेनाल्पं चेन्नास्ति दरिद्रता”

केमुक पु० के मूर्द्ध्नि अमयति अम--रोगे उक अलुक्स० ।

(केँउ) १ वृक्षभेदे । २ कन्दशाकभेदे न० भावप्र० । “केमुकं
कुटकं पाके तिक्तं ग्राहि हिमं लघु । दीपनं पाचनं
हृद्यं कफपित्तज्वरापहम् । कुष्ठकासप्रमेहास्रनाशनं
वातलं कटु” । तत्र तद्गुणाउक्ताः तत्फलन्तु हविष्ये
वर्ज्ज्यम् “फलं केमुकवर्ज्जितम्” स्मृतेः ।

केयूर पु० के बाहुशिरसि याति या--ऊर किच्च अलुक् समा० ।

(वाजु) (ताड़) १ बाहुभूषणे अमरः । “विदूरे केयूरे कुरु
करयुगे रत्नवलयम्” सा० द० “केयूरबन्धोच्छ्रसितैर्नुनोद”
रघः । २ रतिबन्धभेदे पु० स च द्विधा । “स्त्रोजङ्घे चैव
पृष्ठ २२४१
संपीड्य दोर्भ्यामालिङ्ग्य सुन्दरीम् । कारयेत् स्थापनं कामी
बन्धः केयूरसंज्ञितः” स्मरदीपिका । “स्त्रीणां जङ्घान्त-
राविष्टो गाढमालिङ्ग्य सुन्दरीम् । कामयेद्विपुलं कामी
बन्धः केयूरसंज्ञितः” । रतिमञ्जरी ।

केरक पु० ब० व० । देशभेदे । “एकपादांश्च पुरुषान् केरकान्

वनवासिनः” भा० सभा० २० अ० । सहदेवदक्षिणदिग्वि-
जये । अतः तद्देशस्य दक्षिणविभागस्थत्वम् ।

केरल पु० सगरेण म्लेच्छतां प्रापिते १ क्षत्रियभेदे । तत्कथा

हरिवं० १४ अ०
“ततः शकान् सयवनान् काम्बोजान् पारदांस्तथा ।
पह्नवांश्चैव निःशेषान् कर्त्तुं व्यवसितः किल । ते बध्य-
माना वीरेण सगरेण महात्मना । वशिष्ठं शरणं गत्वा-
प्रणिपेतुर्म्मनीषिणम् । वशिष्ठस्त्वथ तान् दृष्ट्वा समयेन
महाद्यतिः । सगरं वारयामास तेषां दत्त्वाऽभयन्तदा ।
सगरः स्वाम्प्रतिज्ञाञ्च गुरोर्वाक्यं निशम्य च । धम्मं
जघान तेषां वै वेशान्यत्वं चकार ह । अर्द्धं शकानां
शिरसो मुण्डयित्वा व्यसर्ज्जयत् । यवनानां शिरः सर्वं
काम्बोजानां तथैव च । पारदा मुक्तकेशाश्च पह्नवाः
श्मश्रुधारिणः । निःस्वाध्यायवषट्काराः कृतास्तेन
महात्मना । शका यवनकाम्बोजाः पारदाः पह्नवास्तथा ।
कोलिसर्पाः समहिषा दार्व्वाश्चोलाः सकेरलाः । सर्व्वे
ते क्षत्त्रियास्तात! धर्म्मस्तेषां निराकृतः । वशिष्ठवचना-
द्राजन्! सगरेणं महात्मना” ।
३ तदधिष्ठानदेशभेदे ब० व० । स च दक्षिणस्थः वृ० सं०
कूर्म्मविभागे १४ अ० । “दशपुरगोनर्द्दकेरलकाः” दक्षिण
स्यामुक्तम् तत्रत्य पर्व्वतनद्यादि रर्घो वर्णितं यथा
“तस्यानीकैर्विसर्पद्भिरपरान्तजयोद्यतैः । रामास्त्रोत्सा-
रितोऽप्यासीत् सह्यलग्न इवार्णवः । भयोत्सृष्टविभूषाणां
तेन केरलयोषिताम । अलकेषु चमूरेणुः चूर्णप्रतिनि-
धीकृतः । मुरलामारुतोद्धूतमगमत् कतकं रजः” ।
३ होरायां ४ ज्योतिर्ग्रन्थविशेषे च स्त्री गौरा० ङीष्
शब्दरत्ना० । केरलज्योतिविद्यायाञ्च सङ्केतविशेषोदि-
ग्मात्रं दर्श्यते । “वर्गवर्ण्णप्रमाणञ्च सस्वरं ताडितं मिथः ।
पिण्डसंख्या भवेत्तस्य यथाभागैस्तु कल्पना” गर्गसंहिता ।
अयमर्थः । अ क च ट त प य शा इत्यष्टौ वर्गास्तेषा-
मेकादिसंख्या यथा अवर्गे १ । कवर्गे २ । चवर्गे ३ ।
टवर्गे ४ । तवर्गे ५ । पवर्गे ६ । यवर्गे ७ । शवर्गे ८ ।
वर्णसंख्या च प्रतिवर्गं भिन्ना यथा अवर्गे १६ वर्ण्णा यथा
अ १ आ २ इ ३ ई ४ उ ५ ऊ ६ इत्यादि । कादौ पान्ते वर्गे च पञ्च
पञ्चसख्या । यवर्गे ४ शवर्गे च ४ । एवं च दाडिमफलनामप्रश्ने
दकारस्य तवर्गत्वात् वर्गसंख्या ५ वर्ण्णसंख्या ३ मिलि-
त्वा ८ । डस्य वर्गसंख्या ४ वर्ण्णसंख्या ३ मिलित्वा ७ ।
मस्य वर्गसंख्या ६ वर्णसंख्या ५ मिलित्वा ११ एवं वर्गवर्ण-
संख्या २६ । दाडिमपदे आ इ अ इति स्वरत्रययुक्ते
अवर्गसंख्या १ आरूपसंख्या २ मिलित्वा ३ एवं इ ४ अ
२ । मिलित्वा नवसंख्या तथा समष्टौ ३५ । पश्चात्
यथोक्तक्रिया कार्य्या । प्रश्नशब्दे तद्गणनादि फलं च
वक्ष्यते । क्वचित् स्वरसंख्यामनादाय अन्यथा सङ्केतो
दर्शितो यथा । “कादयष्टादयोऽङ्काः स्युः पाद्याः
पञ्च तथा मताः । यादयोऽष्टौ ङनां शून्यं गणकैः
परिकीर्त्तितम्” इत्युक्तिमनुरुध्य कालमा० “सौरवा-
र्हस्पत्यसावनशशधरनाक्षत्रिकाः क्रमेण । मातुलपाता-
लातुलवितुलविमलवरदाश्च संवत्साराः षञ्च”
आयुर्वेदवाक्ये “गणकप्रसिद्धयाक्षरसंख्यया मातुलशब्दः
पञ्चषष्ट्यधिकशतत्रयमाचष्टे तावद्दिवसपरिमितः कालः
सौरः । पातालशब्द एकषष्ठ्यधिकशतत्रयमाचष्टे तावद्दि-
वसपरिमितः वार्हस्पत्यः । अतुलशब्दः षष्ट्यधिक
शतत्रयमाचष्टे तावद्दिवसपरिमितः सावनः । विमलशब्दः
श्रतुःपञ्चाशदधिमशतत्रयमाचष्टे तावद्दिनपरिमितश्चान्द्रः,
वरदशब्दश्चतुर्विंशत्यधिकशतत्रयमाह तावद्दिवसपरि-
मितो नाक्षत्रिकः संवत्सरः” इत्युक्रम् । अस्याय-
मर्थः । मातुलशब्दस्य स्वरत्यागे मस्य पकारात् पञ्चमत्व
तेन ५ संख्या गृह्यते । तकारस्य टादितः षष्ठत्वेन ६ संख्या
लस्य यादो तृतीयत्वेन ३ संख्या अङ्कस्य वामागत्या तेषां
यथाक्रमयोजने मातुलशब्दे ३६५ संख्या निष्पद्यते । एव
पातालशब्दे पस्य आद्यत्वात् १ संख्या तकारस्य टादितः
षष्ठत्वात् ६ स ख्या लस्य प्राग्वत् ३ संख्या । तेन पातालश-
ब्द ३६१ संख्या । अतुलशब्दस्य नञादशाकारस्य शून्य-
वाचित्वात्० । तकारस्य ६ संख्या लस्य ३ संख्या । तेन
३६० संख्या । विमलशब्दे च वस्य यादौ चतुर्थत्वात्
४ संख्या सस्य प्राग्वत् ५ संख्या लस्य ३ संख्या यथा
स्थानयोजने ३५४ संख्या । वरदशब्द व ४ र २ द ३
यथाक्रमयोजन ३२४ संख्या । ईदृशकेरलसङ्गेतमभि-
प्रेत्यैव मन्त्रविशेषपुटितसप्तशताजपस्य एकस्मिन्दिने
करण्णासामर्थ्ये ३ माहात्म्यात्मकसप्तशत्या दिनावर्शषेषु
माहात्म्यासंख्याविशेषपाठार्थं तदीकायां नागोजीं
पृष्ठ २२४२
मद्देन “पाठोऽयं विफकारः” इत्युक्तम् । तस्यायमाशयः
पस्य पादावेकत्वात् १ संख्या तेन प्रथमदिने १ माहा-
त्म्यं पाठ्यम । ठस्य टादितः द्वितीयत्वात् २ संख्या तेन
द्वितीयदिने द्वे माह्यत्म्ये । यस्य यादावाद्यत्वात् १ संख्या
तेन तृतीयदिने १ माहात्म्यं पाठ्यम् । वकारस्य यादौ
चतुर्थत्वात् ४ संख्या तेन चतुर्थदिने ४ माहात्म्यानि । फस्य
पादौ द्वितीयत्वात् २ संख्या तेन पञ्चमदिने २ द्वेमाहात्म्ये ।
कस्य कादावाद्यसंख्यात्वात् १ संख्या तेन षष्ठे दिने
एकमाहात्म्यम् रस्य यादौ द्वितीयत्वात् २ संख्या तेन सप्तम-
दिने २ माहात्म्येपाट्ये । एवं सप्तभिर्दिनैः त्रयोदश माहा-
त्म्यानि जप्यानीति । केरलोक्तदशा तु दशाशब्दे वक्ष्यते

केरव पुंस्त्री हंहे शब्दचि० । कैरवशब्दे व्युत्पत्तिर्दृश्या ।

केल चालने भ्वा० पर० सक० सेट् । केलति अकेलीत् ।

चिकेल । केलिः । ऋदित् णिचि अचिकेलत्--त ।

केलक पु० केल--ण्वुल् । खड्गधारादिनर्त्तके त्रिका० ।

केला विलासे कण्ड्वा० आ० अ० सेट् । केलायते अकेला-

यिष्ट केलायां बभूव आस चक्रे । केलायमानः

केलास पु० केला विलासः सीदत्यस्मिन् सद--आधारे बा० ड ।

स्फटिके शब्दचि० तत्तुल्यवर्णत्वात् । कैलासः

केलि पुंस्त्री० केल--इन् । १ परीहासे, अमरः २ क्रीडा-

यां ३ पृथिव्यां शब्दमाला । “विहारे सह कान्तेन
क्रीडितं केलिरुच्यते” सा० द० उक्तलक्षणे स्त्रीणां
कान्तेन सह ४ विहारक्रीड़नरूपे यौवनजालङ्कारे ।
एवं पुरुषस्य कान्तया सह ५ विहारक्रीड़ने च ।
“उपचारः क्रिया केलिः स्पर्शो भूषणवाससाम् । सहखद्वास-
नञ्चैव सर्व्वं संग्रहणं स्मृतम्” मनुः स्त्रीत्वे वा ङीप् ।
तत्र पुंस्त्वे “गोपालानन्वशात् केलीन्” मुग्धबो०
स्त्रीत्वे “मालत्याः कुसुमेषु येन सततं केली कृता
हेलया” भ्रमरा० “माद्यन्तः कलयन्तु चूतशिखरे केली-
पिकाः पञ्चमम्” सा० द० । उभयत्र “कुमुदिनीकुल-
केलिकलालसः “भ्रमरा०

केलिक पु० केलिः प्रयोजनमस्य ठन् । अशोकवृक्षे राजनि०

केलिकदम्व पु० केलेः केल्यर्थः कदम्बः । स्वनामख्याते

कदम्बवृक्षभेदे ।

केलिकला स्त्रो केलिरूपा कला । १ केलिरूपायां कलायां

केलिना कला यत्र । २ सरस्वतीवीणायां शब्दरत्ना०

केलिकिल पु० केलिना किलति किल--क्रीड़ायां क ।

२ विदूषकरूपे नाट्ये शृङ्गारवयम्ये । २ शिवस्यानुचरभेदे
कुद्माण्डके च हेमच० । ३ कामदेवपत्न्यां रतौ स्त्रा
त्रिका० ४ परिहासकारके त्रि० “सतु केलिकलो विप्रो-
भेदशीलश्च नारदः” हरिवं० ३२०९ श्लो०

केलिकिलावती स्त्री स्मरभार्य्यायां त्रिका०

केलिकीर्ण्ण पुंस्त्री० केलिना कीर्ण्णोघूलिमिः । १ उष्ट्रे हेम० स्त्रियां टाप्

केलिकुञ्जिका स्त्री० केलीनां कुञ्जिकेव । श्यालिकायां भार्य्या

भागिन्यां त्रिका० तया सह केलिप्रादुर्भावात् तथात्वम्

केलिकोष पु० केलीनां कोषैव । नटे शब्दरत्ना०

केलिगृह न० ६ त० । १ केलिमन्दिरे २ रत्यादिगृहे च केलिम-

न्दिरादयोऽप्यत्र ।

केलिनागर पु० केलिप्रधानो नागरः शा० त० । भोग प्रधाने नागरे नायकभेदे जटाधरः

केलिमुख पु० केलिः मुखमत्र । परीहासे त्रिका०

केलिरैवतक न० हल्लीशलमणयुक्ते नाटकभेदे । हल्ली-

लक्षणमुक्त्वा “केलिरैतकम्” सा० द० उदाहृतम्

केलिवृक्ष न० केलेः क्रीडार्थं वृक्षः । १ केलिकदम्बवृक्षे

शब्दरत्ना० । केलेर्वृक्षैवाश्रवत्वात् । २ विदूषके शब्दमा०

केलिशुषि स्त्री केलिना शुष्यति शुष बा० कि । धरित्र्या

शब्दमा०

केलिसचिव पु० केलौ सचिवः सहायः । नर्मसचिवे

क्रीडाविषये मन्त्रिणि विदूषकादौ शब्दमा० ।

केव सेवने भ्वा० आत्म० सक० सेट् । केवते अकेविष्ट, चिकेवे

ऋदित् णिचि अचिकेवत् त ।

केवट पु० के जलार्थमवटः अलुक्स० । जलाधारार्थे गर्त्तरूपे

कूपे निघ० “मा कीं सं शारि केवटे” ऋ० ६ । ५४ । ७
“केवटेकूपे” भा०

केवर्त्त पुंस्त्री० के जले वर्त्तते वृत--अच् अलुक्स० । कैवर्ते

जातिभेदे स्त्रियां टाप् द्विरूपकोषः “अवराय केवर्त्तम्”
यजु० ३० । १६ पुरुषमेधे बध्यकथने

केवल त्रि० केव--सेवने वृषा० कल, शिरसि बलयति चुरा०

वल--प्रापणे अच् वा । १ अद्वितीये असहाये एकमात्रे
स्त्रिया “सज्ञाछन्दसोरेव नित्यम्” ङीप् । “अथोत इन्द्रः
केवलीर्विशी बलिहृतस्करत्” ऋ० १० । १७३ । ६ “यथैव
ताः पुरः केबलीरोपधीरश्नन्ति केबलीरपः पिबन्ति”
केवलमेव पयो दुह्रे” श० ब्रा० १ । ६ । १७ । १५ “यथा पुरा
अमावास्यातः पूर्व्वदिवसे ता गावः केबलीश्चन्द्रानुप्रवेशरहि
ता ओषधीरपश्चाहारं कृत्वा केबलं चन्द्ररहितमेव पयो
द्वह्रे दुहते” भा० । लोके असंज्ञायां च टाप् । “सा स्वका-
ननभुवं न केवलाम्” रघुः “किं तया क्रियते लक्ष्म्या
पृष्ठ २२४३
या बधूरिव केवला” पञ्चत० “नमस्त्रिमूर्त्तये तुभ्यं
प्राक् सृष्टेः केवलात्मने” कुमा० “निषेदुषी स्थण्डिल
एव केबले” कुमा० “अविपर्ययाद्विशुद्धं केबलमुतपद्यते
ज्ञानम्” सा० का०, क्रियाविशेषणत्वे न० “अनन्यगुर्वा-
स्तव केन केवलम्” माघः ३ निर्ण्णये ज्ञानभेदे ४
अवधारणे न० मेदि० “न केबलं सद्मनि मागधीपतेः” रघुः
सद्मन्येवेत्यर्थः एवं सर्वत्र केवलार्थान्वितावधारणं
बोध्यम् । ज्ञानभेदश्च प्रागुक्त सा० का० वाक्योक्तः । ५ कुहने
पु० मेदि०

केवलज्ञानिन् पु० केबल शुद्धं ज्ञानमस्त्यस्य भूम्नि इनि । अर्हद्विशषे हेम०

केवलद्रव्य न० नि० क० । मरिचे शब्दचि०

केवलव्यतिरेकिन् न० अनुमानभेदे केबलान्वयिशब्दे विवृतिः

केवलान्वयिन् त्रि० केवलमन्वयोस्त्यस्य इति १ कुत्रापि

अभावरहिते वृत्तिमतोऽत्यन्ताभावाप्रतियोगिनि यथा प्रमे-
यत्वादि तस्य न कुत्राप्यभावोऽस्ति । तथाच “साध्य-
वदन्यावृत्तित्वं वा केवलान्वयिन्यभावात्” अनुमा० चि०
“तथैबानुप संहारी केबलान्वयिपक्षकः” भाषा० “केब-
लान्वयिधर्म्मावच्छिन्नकपक्षक इत्यर्थः । सर्व्वमभिधेयं
प्रमेयत्वादित्यादौ सर्व्वस्यैव पक्षत्वात् सामानाधिकरण्य-
ग्रहस्थलान्तराभावान्नानुमितिः” “केबलान्वयिसाध्यकत्वं
तत्त्वमिति तु युक्तमिति” मुक्ता० । केवलोऽन्वयव्याप्तिर-
स्त्यस्य इनि । २ अनुमानभेदे । तद्विवृतिः अनु० चि० यथा
“तच्चानुमानं त्रिविध केवलान्बयिकेवलव्यतिरेक्यन्वयव्य-
तिरेकिभेदात् । तत्रासद्विपक्षं केवलान्वयि तथाहि
केवलान्वयिनोऽभिधेयत्वस्य न विपक्षः अभिघानेऽनभिधाने
च विपक्षव्याघातात् । अथ यथा आकाशशब्दाच्छब्दा-
श्रयत्वमनभिधेयमप्युपतिष्ठते तथाभिधेयमप्युपतिष्ठते तथा
भिधेयत्वविपक्षस्यानभिधेयत्वेऽपि पदादुपस्थितिः स्यात्
एवञ्चाभिधेयत्वं कुतोऽपि व्यावृत्तं धर्म्मत्वात् गोत्वव-
दिति चेन्न व्यावृत्तत्वस्याव्यावृत्तत्वे व्यावृत्तत्वमेव केवलान्व-
यि, व्यावृत्तत्वे यत एव व्यावृत्तं व्यावृत्तत्वं तदेव केवलान्व-
यीति धर्म्मत्वस्यानैकान्तिकत्वात् । एवमत्यन्ताभावप्रतियो-
गित्वत्वात्यन्ताभावाप्रतियोगित्वे अत्यन्ताभावप्रतियोगित्व-
मेव केवलान्वयि, अत्यन्ताभावप्रतियोगित्वे यन्निष्ठात्यन्ता-
भावप्रतियोग्यत्यन्ताभावप्रतियोगित्वं तदेव केवलान्वयि ।
नचायन्ताभावप्रतियोगित्वं व्यावृत्तत्वञ्च नानेति वाच्यम्
अपुगतप्रतीतिबलेन गोत्ववत्तयोः सिद्धेः । तत्र न तावद-
व्यायवृत्त्यत्य नाभावः केवलान्वयी तस्य प्रतियोग्यवच्छिन्ने
ऽप्यत्यन्ताभावात् अत्यन्ताभावाप्रतियोगिनश्च केवलान्वयि-
त्वात् नाप्याश्रयनाशजन्यगुणनाशात्यन्ताभावः, तस्य
नाशस्य सर्वत्रात्यन्ताभावादिति वाच्यं यत्र हि प्रतियोगि-
प्रागभावो वर्त्तते तत्र नाशप्रतियोगिसमानदेशे वर्त्तते
तत्र न तदत्यन्ताभावो वर्त्तते तथाच नाशस्य प्रागभावो
यत्र नाशप्रतियोगिसमानदेशे वर्त्तते तत्र कथं नाशात्य-
न्ताभावो वर्त्ततां तर्हि नाशस्य तत्र वृत्तिः स्यादिति चेन्न
पूर्वं तत्र नाशप्रागभावस्यैव सत्त्वादुत्तरकाले आश्रस्यैवा-
भावात् । नाप्याकाशात्यन्ताभावः केवलान्वयी तस्यापि
प्रतियोगिरूपात्यन्ताभावप्रतियोगित्वात् अभावात्यन्ताभावस्य
भावत्वात् । अथाभावात्य न्ताभावो न प्रतियोगिरूपस्तथा-
सत्यन्योऽन्याभावात्यन्ताभावः प्रतियोगिरूप इति प्रतियो-
गिसमानदेशेऽन्योऽन्याभावो न स्यादिति चेन्न अत्यन्ता-
भावस्तु प्रतियोगिवृत्तिरसाधारणो धर्मैति । उच्यते
वृत्तिमदत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वम्
आकाशात्यन्ताभावो यद्यपि प्रतियोगिरूपात्यन्ताभावप्रतियोगो
तथापि स न वृत्तिभानित्याकाशात्यन्ताभावएव केव
लान्वयी तथा प्रमेयत्वाभिधेयत्वादि केवलान्वयि वृत्तिम-
तोऽत्यन्ताभावस्याप्रतियोगित्वात् । ननु प्रमेयत्वं प्रमावि-
षयत्वं तच्च न केवलान्वयि प्रमायाविषयत्वस्य चाननुग-
मादिति वाच्यं प्रमात्वमेव हि परम्परासम्बन्धात्
वटादौ प्रमेयत्वमनुगतं प्रमाजातीयविषयत्वं वा । तथापि
केवलान्वयिनि संशयाभावात् क्वथमनुमितिः प्रमेयत्वमत्र
वर्त्तते न वेति संशयश्च न प्रमेयपक्षकः किन्तु प्रमेयत्वप-
क्षको भिन्नविषयकः प्रमेयत्वपक्षके चास्तित्वसाध्यस्यान्व-
यव्यतिरेकित्वं तथाच घटः प्रमेयो न वेति संशयो
मृग्यते स च नास्त्येव । अथ पक्षः साध्यवान्न वा पक्षे
साध्यमस्ति न वेति संशयौ समानविषयकावेव तदस्यास्त्य-
स्मिन्निति मतुपोविधानादिति चेन्न विशेषणविशेष्यभा-
वभदेनार्थभेदात्, मैवं य एव हि संशयः पक्षे साध्यसि-
द्धिविरोधी स एवानुमानाङ्गमावश्यकत्वात् लाघवाच्च
न तु समानविषयकत्वमपि तत्र तन्त्रं गौरवात् प्रमेयत्वं
घटनिष्ठात्यन्ताभावप्रतियोगि न वेति संशयश्च घटः प्रमेय
इति साध्यसिद्धिविरोधी भवत्येव यद्वा संशययोग्यतै-
वानुमानाङ्गं संशयस्य तदानीं विनाशात् न च सापि
साधकवाधकप्रमाणाभावः प्रमेयत्वाभावासिद्धौ तत्प्रमा-
णासिद्धे स्तदभावासिद्धिरिति बाच्यं पक्षनिष्ठात्थन्ताभा-
वाप्रतियोगित्वज्ञानस्यैव साव्यसाधकत्वेन तदभावस्येव
पृष्ठ २२४४
योग्यतात्वात् । प्रमेयत्वमत्यन्ताभावप्रतियोगीति भ्राम्यतः
सशयः इत्यन्ये । नत्वेकरूपविकलमिदं कथं गमकं
तत्त्व वा व्यतिरेकविकलवत् रूपान्तरविकलमपि गमकं
स्यादिति चेन्न अन्वयव्यतिरेकव्याप्त्योरन्यतरनिश्चयेनानु-
मित्यनुभवात् युगपदुभयव्याप्त्युपस्थितौ विनिगमक
भावेन उभयोरपि प्रयोजकत्वे व्यतिरेकोपासना व्यतिरेकश्च
विपक्षवृत्तित्वशङ्कानिवृत्तिद्वारा व्यतिरेकव्याप्तावुपयुज्यते
अत्र तु विपक्षाभावेन शङ्कैव नोदेति ।
केवलव्यतिरेकी त्वसत्सपक्षो यत्र व्यतिरेकसहचारेण व्या-
प्तिग्रहः । ननु व्यतिरेकि नानुमानं व्याप्तिपक्षधर्मताज्ञा-
नानस्य तत्कारणत्वात् यत्र व्यतिरेकसहचारः तत्र व्या-
प्त्विरन्वयस्य पक्षधर्मता न च व्याप्तपक्षधर्मत्वं साध्याभा
वव्यापकाभावप्रतियोगित्वमुभयमप्यनुमितिप्रयोजकमिति
वाच्यं अननुगमात् नचान्यतरत्वं तथा एकप्रमाण-
परिशेषापत्तेः न च तृणारणिमणिन्यायेनानुमितिविशेषे
तद्धेतुत्वमिति वाच्य व्यतिरेकिसाध्येऽनुमितित्वासिद्धेः
उभयसिद्धकॢप्ततत्कारणस्याभावात् । न च साध्याभावव्याप-
काभावप्रतियोगित्वमेवानुमितिप्रयोजकमिति वाच्यं गौ
रवात् केवलान्वयिन्यभावाच्च । अथ साध्याभावव्यापका-
भावप्रतियोगित्वेन साध्यव्याप्यत्वमनुमेयम् एवं व्यतिरेक-
व्याप्त्यन्वयव्याप्तिमनुमाय यत्रानुमितिः सएव व्यतीरेकी-
त्युच्यते तन्न अन्वयव्याप्तेर्गमकत्वे व्यतिरेकव्याप्त्युपन्या-
सस्यार्थान्तरतापत्तेः अन्वयव्याप्त्यनुकूलतया च तदुपन्यासे
अन्वयव्याप्तिमनुपन्यस्य तदुपन्यासस्याप्राप्तकालत्वमिति ।
उच्यते निरुपाधिव्यतिरेकसहचारेणान्वयव्याप्तिरेव
गृह्यते प्रतियोग्यनुयोगिभावस्य नियामकत्वात् अन्वयव्यति-
रेकवत् । नन्वेवं व्याप्तिग्रहएव पृथिवीतरभिन्नमपि
भासितं नियतसामानाधिकारण्यरूपत्वाद्व्याप्तेरिति सत्यं
गन्धवत्त्वावच्छेदेनेतरभेदस्य साध्यत्वात् । अतएवाचार्य्यः
पक्षतावच्छेदकस्य न हेतुत्वमनुमेने । पृथिवीत्वमितरभेद-
व्याप्यमिति प्रतीतावपि सर्वपृथिवीतरभिन्नोऽपि पृथिवी-
विशेष्यकबुद्धेर्व्यतिरेकिसाध्यत्वाच्च” ।
अत्र दिग्भात्रं दीधितिरुपन्यस्यते ।
“केवलान्वयीत्यादि केवलान्वयिसाध्यकादीत्यर्थः । तत्र-
तेषु मध्ये, असिद्विपक्षम् अत्यन्ताभावाप्रतियोगिसाध्यकं
केवलान्वयि, एवमगृहीतान्वयव्यतिरेकिसाध्यकं केवलव्य-
तिरेकि, गृहीतान्वयव्यतिरेकिसाध्यकान्वयव्यतिरेकि, व्याप्ति-
ग्राहकसहचारभेदाद्भेदे त्वन्वयसंहचारमात्नगृहीतव्या-
प्तिकत्वं केवलान्वयित्वं तच्च प्रकृतव्याप्तिग्राहकज्ञानविष-
यसहचारत्वव्यापकान्वयसहचारत्वकत्वं तादृशसहचारत्व-
व्यापकप्रकृतव्याप्तिघटकसहचारत्वकत्व वा गृहीतव्या-
प्तिभेदाद्भेदे तु प्रकृतहेतुकप्रकृतसाध्यानुमितिहेतुज्ञान-
विषयव्याप्तित्वव्यापकप्रकृतसाध्यव्य प्तित्वकत्वं तत्त्वम् । जलं
निर्गन्धं पृथिवीत्वव्यापकाभावप्रतियोगिमत्त्वादित्यादौ
हेतुतावच्छेदिका च व्याप्तिर्न्न प्रकृतसाध्यानुमित्यौपयिकी
तद्विशिष्टपक्षधर्म्मताज्ञानेऽपि व्याप्त्यन्तरबोधं विना निर्ग-
न्धत्वानुमित्यनुदयादिति बाव्याप्तिः । वह्न्यभाववान् वह्नि-
व्यापकाभावप्रतियोगिमत्त्वादित्यादावन्वयव्याप्तेरवच्छेदिका
व्यतिरेकव्याप्तिर्न तु सैवेति नाप्रसङ्गः । अतएवेतरव्यापका
मावप्रतियोगित्वेनाभावप्रतियोगित्वेन वा यल्लिङ्गज्ञानं
नप्रकृतसाध्यानुमितिहेतुस्तत्केवलान्वयीत्यपि वदन्ति । एवं
केवलव्यतिरेकित्वादिकमपि निर्वाच्यम्” ।
वेदान्तिभिस्तु अनुमानत्रैविध्यं नाङ्गीक्रियते यथोक्तं वेदा० प०
“तच्चानुमानमन्वयिरूपमेकमेव न तु केवलान्वयि, सर्व-
स्यापि धर्मस्यास्मन्मते ब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वेना-
त्यन्ताभावाप्रतियोगिसाध्यकत्वरूपकेवलान्वयित्वस्यासिद्धेः
नाप्यनुमानस्य व्यतिरेकिरूपत्वं साध्याभावे साधनाभा-
वनिरूपितव्याप्तिज्ञानस्य साधनेन साध्यामुमितावनुपयो-
गात् । कथं तर्हि धूमादावन्वयव्याप्तिमविदुषोऽपि व्यति-
रेकव्याप्तिज्ञानादनुमितिः अर्थापत्तिप्रमाणादिति वक्ष्यामः
अतएवानुमानस्य नान्वयव्यतिरेकिरूपत्वं व्यतिरेकव्याप्ति-
ज्ञानस्यानुमित्यहेतुत्वात्” ।

केवलिन् पु० केवलं शुद्धज्ञानमस्त्यस्य इनि । जैनभेदे हला०

केवली स्त्री केवल--गौरा० ङीष् । १ ज्ञानभेदे मेदि० । २

केरलीशब्दार्थे हेम० तत्र रमध्यपाठः साधुः

केवाली अव्य० । उर्य्यादि । १ हिंसायां गणरत्नम् । केबाली-

कृत्य हिंसित्वेत्यर्थः २ हिंसके त्रि० स्त्रियां गौरा० ङीष् ।
केवाली

केविका स्त्री केव--ण्वुल् टाप् । (केवेर) कोङ्कणप्रसिद्धे पुष्पभेदे सद्गन्धांयां राजनि०

केश पु० क्लिश्यते क्लिश्नाति वा क्लिश--अच् ललोपश्च कस्य

जलस्य ब्रह्मणो वा ईशोवा । १ वरुणे, विश्वः । २ ह्री-
वेरे(वाला) ३ दैत्यभेदे, केशिनि ४ विष्णौ, हेम० काशते
काश अच् पृपो० । ५ सूर्य्याग्निप्रभृतिरश्मौ (केशिन्)
शब्दे विवृतिः “ब्रह्मविष्णुरुद्रसंज्ञाःशक्तयः केशसं-
ज्ञिताः” इत्युक्ते ब्रह्मादौ ६ परब्रह्मशक्तिभेदे केशवशब्दे
विवृतिः । के शिरसि शेते शी--ड अलुक्स० । ७ चिकुरं
पृष्ठ २२४५
च । अस्थिवातुजातोपधातुविशेषोऽयं केशः । अस्मात्
परवर्त्तिनः पाशादिशब्दाः केशभूयस्त्ववाचिनः ।
“वालास्तु तत्पराः पाशो रचना भारौच्चयः । हस्तः
पक्षः कलापश्च केशभूयस्त्ववाचकाः” हेमचन्द्रोक्तेः ।
केशस्तु पितृतोजायते यथाह सुश्रुतः “गर्भस्य केशश्म-
श्रुलोमास्थिनखदसिरास्नायुधमनीरेतःप्रभृतीनि स्थि-
राणि पिपृजानि” “केशाः श्मश्रु च लोमानि नखा
दन्ताः सिरास्तथा । धमन्यः स्नायवः शुक्रमेतानि पितृजानि
हि” भावप० । तस्य सर्व्वदा वृद्धिमत्त्वमाह तत्रैव
“शरीरे क्षीयमाणेऽपि बर्द्धेते द्वाविमौ सदा । स्वभावं
प्रकृतिं कृत्या नखकेशाविति स्थितिः” चेतनानामधि-
ष्ठानं मनोदेहश्च सेन्द्रियः केशलोमनखाग्रान्तर्मलद्रव्य-
गुणैर्विना” तस्योत्पत्तिप्रकारः भावप्र० दर्शितो यथा
“ततोऽस्थ्यग्निना पुनः पच्यमानं पञ्चाहोरात्रात् सार्द्धं
दण्डञ्च यावदस्थिवेव तिष्ठति । ततः पच्यमानात् तस्मा-
त् मलो र्निगच्छति । स च व्यानवायुना प्रेरितः सिरा-
मिः मार्गेणागत्याङ्गुलिषु नखाः तनौ लोमानि
च भभन्तीति” अत्र लीमसाम्यात् केशस्यापि तनौ प्ररो-
हादस्थिधातुजत्वमुन्नेयम् । एवं गर्भे षष्ठे मासि तस्य
लोमसाम्यात् प्रादुर्भावः “षष्ठे बलस्य वर्णस्य नखलोम्नां
च सम्भवः” या० उक्तेः । जनानां केशवत्त्वे कारणम्
शत० ब्राह्मणे उक्तं तद्वाक्यञ्च (केशिन्) शब्दे वक्ष्यते ।
केशनाशकारणञ्च इन्द्रलुप्तशब्दे दर्शितम् केशकौक्ल्यहे-
तुस्तु “क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः । पित्तं
च केशान् पचति पलितं तेन जायते” सुश्रुतेनोक्तः
“लताप्रतानोद्ग्रथितैः स केशैः” । रघु०
“अलक्तकाङ्कानि पदानि पादयोः” “विकीर्णकेशासु परेत
भूमिषु” कुमा० “केशः काशस्तवकविकाशः” सा० द०
“केशेषु चमरीं हन्ति” सि० कौ० । “क्लुप्तकेशनखश्मश्रुः”
मनुः “केशश्मश्रु घारयतामग्र्या भवति सन्ततिः” शु०
त० दानधर्म्मे । केशश्मश्रु इत्यत्र श्मश्रुशब्दस्य घ्यन्तत्वेऽपि
राजद० परनिपातः । तस्य मूलं कर्णा० जाहच् ।
केशजाह तन्मूले न० । अस्य स्वाङ्गत्वात् उपसर्जनत्वे
अतिकेशी सुकेशीत्यादौ स्त्रियां वा ङीष् । केशेषु
प्रसितः(तत्परः) कन् । केशक तद्रचनातत्परे त्रि० ।

केशकर्म्मन् न० केशानां कर्म्मरचनादि । केशानां रचनादि-

करणेन संस्काररूपे व्यापारभेदे । “साहं ब्रुबाणा
तैरिन्ध्री कुशला केशकर्म्मणि” भा० वि० ३ अ० । २ के
शान्तकर्म्मरूपे संस्कारभेदे च केशान्तशब्दे विवृतिः

केशकलाप पु० ६ त० । केशसमूहे हेमच० ।

केशकार पु० केशं केशाकारं करोति कृ--अण् उप० स० ।

इक्षुभेदे भावप्र० इक्षुशब्दे यत् कोशकृत इति तदशुद्धम्
केशकृत इत्येव शुद्धम्

केशकारिन् त्रि० केशं तद्रचनां करोति कृ--णिनि ।

केशरचनाकारके स्त्रियां ङीप् । “निहीनवर्ण्णां सैरिन्ध्रीं
बीभत्सां केशकारिणीम्” भा० वि० १४ अ० ।

केशकीट पु० ६ त० । यूकाख्ये १ केशकीटे । (उकुण)

शब्दचि० । तद्धेतुश्च “अरूंषि बहुवक्त्राणि बहुक्लेदानि
मूर्द्धनि । कफासृक्कृमिकोपेन नृणां विद्यादरूंषिकाम्”
सुश्रुतोक्तः । केशश्च कीटश्च द्व० । २ केशे कीटे च ।
“केशकीटावपन्नञ्च पदा स्पृष्टञ्च कामतः” मनुः

केशगर्भ(क) पु० केशः गर्भेऽस्य वा कप् । कवरीरूपे पदार्थे त्रिका०

केशग्रह पु० ६ त० । १ बलात्कारेण कचग्रहणे सुरतक्रीडाङ्गे

२ तद्ग्रहणे च । “केशग्रहान् प्रहारांश्च शिरस्येतान्
विवर्ज्जयेत्” मनुः “कोपेन केशग्रहणप्रहारौ
शिरसि वर्ज्जयेत् कोपनिमित्तत्वादात्मनः परस्य च प्रति-
षेधः । अतएव सुरतसमये कामिनीकेशग्रहस्यानिषेधः”
कुल्लू० । “रतेषु केशग्रहाः” कादम्बरी “सुरतेषु नतु
युद्धेषु इत्यर्थः । कचग्रहादयोऽप्यत्र । ल्युट् केशग्रहण-
मप्यत्र न० । “शम्भोः केशग्रहणमकरोत्” मेघदूतम्

केशग्राहम् अव्य० । केशान् गृहीत्वा “स्वाङ्गेऽध्रुवे” पा०

ग्रह--णमुल् उप० स० । केशान् गृहीत्वेत्यर्थे येन
विना न जीवनं तद्ध्रुवं तद्भिन्ने इत्यर्थः । केशं विनापि
जीवनस्य सम्भवात् तस्याध्रुवत्वात् स्वाङ्गत्वाच्च तत्र णमुल् ।

केशघ्न न० केशान्हन्ति हन--हेत्वादौ टक् । इन्द्रलुप्तकरोगे

(टाक) हेमच० इन्द्रलुप्तशब्दे ९५० पृ० विवृतिः

केशच्छिद् त्रि० केशान् छिनत्ति छिद--क्विप् ६ त० । १ केशच्छे-

दके ३ नापिते पु० शब्दमा० क । केशच्छिदोऽप्यत्र

केशट पु० केशेषु केशान् वा अटति अट--अच् शक० । (उकुण)

१ मत्कुणे । २ विष्णौ ३ छागे च मेदि० । ४ भ्रात-
रि शब्दर० । ५ कामदेवस्य शोषणाख्य वाणे विश्वः ।
६ शोनकवृक्ष (शोना) त्रिका० ।

केशधर त्रि० केशान् धरति धृ--अच् । १ केशवपनाकर्त्तरि

वत्प्राये २ देशभेदे पु० ब० ब० । स च देशः वृ० सं०
कूर्म्मविभागे उत्तरस्यामुक्तः । “केशधरचिपिटनासिक
दासेरक वाटशरधानाः”
पृष्ठ २२४६

केशधृत् पु० केशमिव धरति धृ--क्विप् । भूतकेशाख्ये तृणभेदे

शब्दचि०

केशनामन् न० केशस्य नामेव नाम यस्य । (बाला) इति गन्धद्रव्यभेदे ह्रीवेरे अमरः

केशपक्ष पु० केशानां समूहः बा० पक्षादेशः केशः पक्ष

इव वा । केशसमूहे अमरः “केशपक्षे परामृष्टा पापेन
हतबुद्धिना” भा० आ० १७ अ० “अभिद्रुत्य सुशर्म्माणं
केशपक्षे परामृशत्” भा० वि० ३३ अ० केशभारोऽप्यत्र पु०

केशपर्ण्णी स्त्री केश इव पर्ण्णमस्याः जातित्वात् ङीष् ।

अपामार्गे शब्दरत्ना०

केशपाश पु० केशानां समूहः बा० पाशादेशः केशः पाशैव

वा । केशसमूहे अमरः “करेण रुद्धोऽपि च केशपा-
शः” कुमा० रघुश्च । “तां काचन प्रधावन्तीं केशपाशे
परामृशत्” भा० व० ४६१ एवं

केशप्रसाधनी स्त्री केशः प्रसाध्यते संस्कियतेऽनया प्र +

साध--करणे ल्युट् ङीप् । (कांकुइ) (चिरुणि) ख्याते
पदार्थे “केशप्रसाधनी केश्या रजोजन्तुमलापहा”
सुश्रुते तत्सेवनगुणा उक्ताः ।

केशभू स्त्री केशानां भूरुत्पत्तिस्थानम् । शिरसि राजनि०

केशभूम्यादयोऽप्यत्र स्त्री “दारुणा कण्डुरा रूक्षा
केशभूमिः प्रजायते । कफवातप्रकोपेन” सुश्रु०

केशमथनी स्त्री केशोमथ्यतेऽनया मथ--करणे ल्युट् ङीप् ।

शमीवृक्षे राजनि० तस्याः कण्टकेन तदन्तिकयातुः
केशधर्षणात्तथात्वम्

केशमार्ज्जक न० केशान् मार्ष्टि मृज--ण्वुल् । (र्काकुइ)

(चिरुणि) ख्यातायां केशप्रसाधन्यां कङ्कतिकायां जटा०

केशमार्ज्जन न० केशो मृज्यतेऽनेन मृज--करणे ल्युट् वृद्धिः

६ त० । १ कङ्कतिकायां (चिरुणि) हेमच० । भावे ल्युट् ।
२ केशसंस्कारभेदे (चुल आचड़ान)

कशमुष्टि पु० केशानां मुष्टिरिव । महानिम्बवृक्षे राजनि०

केश(स)र पुंन० के जले शिरसि वा शीर्य्यति शॄ अच् सरति

सृ--अच् अलुक्स० केशःकेशाकारोऽस्त्यस्यर वा । १ किञ्जके
पद्मादिपुष्पमध्यस्थे केशाकारपदार्थभेदे (चुमरि) अमरः ।
सकेश(स)रपुष्पवत्त्वात् २ नागकेशरे ३ बकुलवृक्षे ४ पुन्नाग-
वृक्षे ५ सिंहादिस्कन्धस्थजटायां पु० मेदि० ६ हिङ्गुवृक्षे
न० भरतः “मृगपतिरिव स्कन्धावलम्बितकेशरमालः”
काद० “व्याकीर्णकेशरकरालमुखाः मृगेन्द्राः” पञ्चत०
“पुनः पुनः केशरदामकाञ्चीम्” कुमा० “नीपं दृष्ट्वा
हरितकपिशं केशरैरङ्गरूढैः” मेघ० “दशनांशुकेशरभरैः” प-
रितः” माघः “दुधुबुर्वाजिनः स्कन्धान् लग्नकुङ्गुमकै-
शरान्” रघुः बकुले “सुरभिगन्धपराजितकेशरम्” रघुः
“रक्ताशोकश्चलकिसलयः केशरश्चात्र कान्तः” मेघ० । ७
कुङ्गुमे च तस्य किञ्जल्काकारवत्त्वेन जायमानत्वात्
तथात्वं एतेषु उदाहरणेषु दन्त्यमध्योऽपि वा पाठः ।
दन्त्यमध्यस्तु तुरगस्कन्धस्थलोमपुञ्जरूपजटायां हेमच०
कासीसे वीजपूरके पु० स्वर्णे न० राजनि० “अर्थाश्वाश्वैः
४, ७, ७, र्मभनयरयुगैर्वृत्तं मतं केसरम्” वृ० र० उक्ते
छन्दोभेदे न० ।

केशरचना स्त्री ६ त० । १ केशानां कवर्य्यादिविन्यासभेदे

“कुर्व्वन्ति केशरचनामपरास्तरुण्यः” रत्नाव० । २
केशसमूहे हेमच०

केशरञ्जन पु० केशान् रञ्जयति रन्ज--णिच्--ल्यु । भृङ्गराजवृक्षे (भीमराज) राजनि० ।

केशराज पु० केशा राजन्तेऽनेन राज--करणे घञ् ।

भृङ्गराजे (भीमराज) “भृङ्गारकः केशराजो भृङ्गारः
केशरञ्जनः । भृङ्गराजः कटुस्तिक्तो रूक्षोष्णो कफवा-
तनुत् । केश्यस्त्वच्यः कृमिश्वासकासशोथामयापहृत् ।
दन्त्योरसायनोबल्यः कुष्ठनेत्रशिरोऽर्त्तिनुत्” भावप्र० ।

केश(स)राम्लः पु० केश(स)रे तदवच्छेदेऽम्लः । धूत्तुरे जटा०

केश(स)रिन् पुंस्त्री केश(स)राः सन्त्यस्य इनि । १ सिंहे,

२ अश्वे च अमरः स्त्रियां ङीप् । ३ पुन्नागवृक्षे ४ नागके-
शरवृक्षे, पु० मेदि० ५ वीजपूरकवृक्षे पु० जटाधरः । ६
हनुमत्पितरि वानरभेदे पु० । “पिता हनुमतः श्रीमान्
केश(स)री प्रत्यदृश्यत” रामा०

केश(स)रिसुत पु० ६ त० । हनुमति केशरिक्षेत्रे अञ्जनायां

पवनात् तस्योत्पत्तेस्तथात्वम् यथा “अहं के(स)श-
रिणः क्षेत्रे वायुना जगदायुना । जातः कमलपत्राक्ष!
हनूमान्नाम वानरः” भा० व० १४७ अ० ।
“सूर्य्यदत्तवरः स्वर्णः सुमेरुर्नाम पर्वतः । तत्र राज्यं प्रशा-
स्त्यस्य केश(स)री नाम वैपिता । तस्य भार्य्या बभूवेष्टा
ह्यञ्जनेति परिश्रुता । जनयामास तस्यां वै वायुरात्म-
जमुत्तमम् । शालिशूकनिभाभासं प्रासूतेमन्तदाञ्जना”
रामा० उ० ६ स०

केशरुहा स्त्री केश इव रोहति रुह--क । भद्रदन्तिकावृक्षे राजनि०

केशरूपा स्त्री केशस्येव रूपमस्याः । वन्दाकवृक्षे

(परगाछा) राजनि० ।

केशलुञ्च पु० केशान् लुञ्चति लुञ्च--अपनयने अण् उप० स० ।

केशानामपनेतरि मुण्डितमुण्डे जैनर्षिभेदे केशोल्लुञ्चको-
ऽप्यत्र “आः पापः पाषण्डापसद! चण्डालवेश!
केशोल्लुञ्चक” प्रबोधचन्द्रोदयनाटकम् ।
पृष्ठ २२४७

केशव त्रि० । केशाः प्रशस्ताः सन्त्यस्य “केशाद्वोऽन्यत-

रस्माम्” पा० व० । १ प्रशस्तकेशयुक्ते । केशं--केशिनं वाति
हन्ति वा--क । २ विष्णौ “यस्मात् त्वया हतः केशी
तस्मान्मच्छासनं शृणु । केशवोनाम नाम्ना त्वं ख्यातो
लोके भविष्यसि” हरिवं० ८१ अ० । कश्च अश्च ईशश्च केशा
ब्रह्मविष्णुरुद्रा नियम्यतया सन्त्यस्य कश्च ईशश्च केशौ
पुत्रपौत्रत्वेन स्तोऽस्य वा व, तान् तौ वा वाति गच्छति
तथात्व न वा--क वा । ३ परमेश्वरे । “शम्भोः पितामहो
ब्रह्मपिता शक्राद्यधीश्वरः” इति पाद्मे तस्य तथात्वो-
क्तेः । तदभेदादपि वासुदेवेऽस्य वृत्तिः । अतएव
विष्णुस० “नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः”
“त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः”
इत्युक्तं तद्भाष्ये च केशवशब्दस्य निरुक्तिद्वयमाश्रित्य
नामद्वयं समर्थितम् तत्राद्यवाक्ये “अभिरूपाः केशायस्य
स केशवः कश्च अश्च ईशश्च केशास्त्रिमूर्त्तयस्ते वशे
वर्त्तन्ते यस्य स केशवः । केशिबधाद्वा केशवः “यस्मा-
त्त्वयैव दुष्टात्मा हतः केशी जनार्द्दन! तस्मात्
केशवनाम्ना त्वं लोके ज्ञैयोभविष्यसीति” विष्णु पु०”
भा० । द्वितीयवाक्ये “केशसंज्ञिताः सूर्य्यादिसंक्रान्ताः
अंशवस्तद्वत्तया केशवः “अंशवोये प्रकाशन्ते मम ते
केशसंज्ञिताः सर्व्वज्ञाः । केशवं तस्मात् प्राहुर्मां
द्विजसत्तमाः” भारतम् । “त्रयः केशिनः” इतिश्रुतेः
ब्रह्मविष्णुशिवाख्या हि शक्तयः केशसंज्ञिताः-
मत्केशा वसुधातले” इति स्मृतेश्च । आदौ केशशब्दः
शक्तिपर्य्ययत्वेन प्रयुक्तः । कोव्रह्मैति समाख्यात ईशोऽहं
सर्व्वदेहिनाम् । आवां तवांशसंभूतौ तस्मात् केशवनाम-
वान्” हरिवंशोक्तेः” भा० । तेनास्य बहुधा निरुक्तिः ।
ज्योतिर्विद्भेदे यस्य जातकादिना नानग्रन्थाः सन्ति ।
चतुर्विंशतिविष्णुमूर्त्तिमध्ये ५ विष्णुमूर्त्तिभेदे तस्य ध्यानं
ध्यानशब्दे वक्ष्यते । अलुक्स० । ६ जलस्थे शवे च
“केशवं पतितं दृष्ट्वा द्रोणो हर्षमुपागतः । रुदन्ति पाण्डवाः
सर्व्वेहाहा केशव केशव” विदग्धमु० (भेदेयथा तन्त्रसारे

केशवकीर्त्तिन्यास तन्त्रसारोक्ते विष्णुपूजाङ्गे न्यास

“अं केशवाय कीर्त्त्यै नमो ललाठे । आं नाराय-
णाय कान्त्यै नमो मुखे । इं माधवाय तुष्ट्यै नमो
दक्षनेत्रे । ईं गोविन्दाय पुष्ट्यै नमो वामनेत्रे । नमः
सर्वत्र । उं विष्णवे धृत्यै दक्षकर्णे । ऊं मधुसूदनाय
शान्त्यैवामकर्ण्णे । ऋं त्रिविक्रमाय क्रियायै दक्षनासापुटे ।
ॠं वामनाय दयायै वामनासापुटे । ऌं श्रीधराय
मेधायै दक्षगण्डे । ॡं हृषीकेशाय हर्षायै वामगण्डे ।
एं पद्मनाभाय श्रद्धायै ओष्ठे । ऐं दामोदराय लज्जायै
अधरे । ॐ वासुदेवाय लक्ष्म्यै ऊर्द्धदन्तपङ्क्तौ । औं
सङ्कर्षणाय सरस्वत्यै अधोदन्तपङ्क्तौ । अं प्रद्युम्नाय
प्रीत्यै मस्तके । अः अनिरुद्धाय रत्यै मुखे । क
चक्रिणे जयायै । खं गदिने दुर्गायै । गं शार्ङ्गिणे
प्रभायै । घं खङ्गिने सत्यायै । ङं शङ्खिने चण्डायै
दक्षवाहुकरमूलसन्ध्यग्रेषु । चं हलिने वाण्यै । छं
मुसलिने विलासिन्यै । जं शूलिने विजयायै । झं पाशिने
विरजायै । ञं अङ्कुशिने विश्वायै, वामबाहुकरमूलसन्ध्य-
ग्रेषु । टं मुकुन्दाय विनदायै । ठं नन्दजाय सुनन्दायै ।
डं नन्दिने स्मृत्यै । ढं नराय ऋद्ध्यै । णं नरक
जिते समृद्ध्यै दक्षपादमूलसन्ध्यग्रेषु । तं सूरये शुद्ध्यै
थं कृष्णाय बुद्ध्यै । दं सत्याय धृत्यै । धं सत्वाय
मत्यै । नं सौराय क्षमायै वामपादमूलसन्ध्यग्रेषु । पं
शूराय रमायै दक्षपार्श्वे । फं जनार्द्दनाय उमायै
वामपार्श्वे । बं भूधराय क्लेदिन्यै पृष्ठे । भं विश्वमूर्त्तये
क्लिन्नायै नाभौ । मं वैकुण्ठाय वसुदायै उदरे । यं
त्वगात्मने पुरुषोत्तमाय वमुधायै हृदि । रं असृगा-
त्मने बलिने परायै दक्षांशे । लं मांसात्मने बलानुजाय
परायणायै ककुदि । वं मेदआत्मने बलाय सूक्ष्मायै
वामांसे । शं अस्थ्यात्मने वृषघ्नाय सन्ध्यायै हृदादिदक्ष-
करे । षं सज्जात्मने वृषाय प्रज्ञायै हृदादिवामकरे । सं
शुक्रात्मने हंसाय प्रभायै हृदादिदक्षपादे । हं प्राणात्मने
वराहाय निशायै हृदादिवामपादे । लं जीवात्मने
विमलाय अमोघायै हृदाद्युदरे । क्षं क्रोधात्मने नृसिंहाय
विद्युतायै हृदादिमुखे । तथा च गौतमीये “केशवादिरयं
न्यासोन्यासमात्रेण देहिनाम् । अच्युतत्वम् ददात्येव सत्यं
सत्यं न संशयः” । मातृकार्ण्णं समुच्चार्य्य केशवाय इति
स्मरेत् । कीर्त्त्यै च नमसा युक्त मित्यादिन्यासमाचरेत् ।
केशवाय ततः कीर्त्त्यै कान्त्यै नारायणाय च” इत्यग-
स्त्यसंहितावचनाच्चायं क्रमः । न तु केशवकीर्त्तिभ्यां
नम इति । तथा भक्तिमुक्ति मिच्छताऽयं न्यासः श्रीवी-
जादिः कर्त्तव्यः । यथा श्रीं अं केशवाय कीर्त्त्यै नमैत्या-
दि । तथा च “एवं प्रविन्य सेन्न्यासं लक्ष्मीवीजपुरः-
सरम् । स्मृतिधृतिमहालक्ष्मीं प्राप्यान्ते हरितां व्रजेत्” ।
पृष्ठ २२४८

केशवपनीय पु० अतिरात्रयागमेदे तत्करणप्रकारादि कात्या०

श्रौ० १५ । ९ । २० दर्शितः यथा “तदन्ते केशवपनीयोऽतिरात्रः
पौर्ण्णमासीसुत्यः” सू० । “तयोः पशुबन्धयोरन्ते केशवप-
नीयसंज्ञः अतिरात्रसंस्थः सोमयागो भवति स च
पौर्ण्णमासीसुत्यः । ज्यैष्ठ्यां पौर्ण्णमास्यां तस्य सुत्या भवती-
त्यर्थः” सं० व्या० । शत० व्रा० ५, ५, ३, १, विशेषोदर्शितः
“एतौ पशुबन्धौ इत्युपक्रमे
“अभिषेचनीयेनेष्टा । केशान्न वपते तद्यत् केशान्न वपते
वीर्यं वा एतदपां रसः सम्भृतो भवति येनैनमेतदभि-
षिञ्चति तस्याभिषिक्तस्य केशान् प्रथमान् प्राप्नोति स यत्
केशान् वपेतैतां श्रियं जिह्मां विनाशयेद्व्युदुह्यात्तस्मात्
केशान्न वपते संवत्सरम् । संवत्सरसमिता वै
व्रतचर्या तस्मात् संवत्सरं न वपते स एष व्रतविस-
र्जनीयोपयोगो नाम स्तोमो भवति केशवपनीयः ।
तस्यैकविंशं प्रातःसवनम् । सप्तदशं माध्यन्दिनं सवनं,
पञ्चदशं तृतीयसवनं सहोक्थैः सह षोड़शिना सह
रात्र्या त्रिवृद्रथन्तरः सन्धिर्भवति एष एवैकविंशो य
एष तपति स एतस्मादेकविंशादपयुङ्क्ते स सप्तदशमभि-
प्रत्यवैति सप्तदशात् पञ्चदशं पञ्चदशादस्यामेव त्रिवृति
प्रतिष्ठायां प्रतितिष्ठति तस्य रथन्तरं पृष्ठं भवति इयं वै
रथन्तरमस्यामेवैतत् प्रतिष्ठायां प्रतितिष्ठत्यतिरात्रो भवति
प्रतिष्ठा वा अतिरात्रस्तस्मादतिरात्रो भवति । स वै न्येव
वर्तयते । केशान्न वपते वीर्यं वा एतदपां रसः सम्भृतो
भवति येनैनमेतदभिपिञ्चति तस्याभिषिक्तस्य केशान् प्रथमान्
प्राप्नोति स यत् केशान् वपेतैतां श्रियंजिह्मां विना-
शयेद्व्युदुह्यादथ यन्निवर्तयते तदात्मन्यवैतां श्रियं नियु-
नक्ति तस्मान्न्येव वर्तयते केशान्न वपते तस्यैषैव व्रतचर्या
भवति यावज्जीवं नास्यां प्रतितिष्ठति । आसन्द्या
उपानहाऽउपमुञ्चते । उपानद्भ्यामधि यदस्य यानं भवति
रथो वा किञ्चिद्वा सर्वं वा एष इदमुपर्य्युपरि भवत्यर्वा-
गेवास्मादिदं सर्वं भवति यो राजसूयेन यजते तस्मादस्येव
व्रतचर्या भवति यावज्जीवं नास्यां प्रतितिष्टति” मू० ।
“तृतीये केशपनीयातिरात्रस्य वैशेषिका धर्माउच्यन्ते ।
पशुबन्धद्वयादनन्तरं केशवनीयातिरात्रयागः कर्त्तव्यः ।
अभिषेचनीयसोमयागं कृत्वा संवत्सरपर्यन्तं केशवप-
नाकरणलक्षणं व्रतमाचर्य्यम् ततस्तद्व्रतविसर्जनार्थमेकः
सोमयागः पौर्णमासीसुत्यः कार्यः स एव केशवपनीया-
तिरात्रौच्यते रात्रिमतीत्य वर्तत इत्यतिरात्रः अतिरा-
त्रसंस्थया कार्य्य इत्यर्थः । विदुह्यात् गतसारोऽपि भवेत् ।
केशवपनार्थमुपयुज्यमानः क्रियमाणः स्तोमः एकविंशादि-
स्तोमवान् यागः केशवपनीयः । तत्र सामगैर्गीयमानेषु
स्तोत्रेषु चोदकेन प्रातःसवनादिषु त्रिवृदादिस्तोमप्राप्तौ
तानपवदितुं विशेषं दर्शयति तस्यैकविंशमिति । प्रातःसव-
नमेकविंशस्तोमयुक्तं कर्त्तव्यम् माष्यन्दिनं सप्तदशस्तो-
मकम् अस्य सोमयागस्यातिरात्रसंस्थानि तृतीयसवनेऽग्नि-
ष्टोमवद् द्वादश स्तोत्राणि तत उत्तरं त्रीण्युक्थस्तोत्राणि
एकं षोड़शिस्तोत्रं रात्रिपर्यायस्तोत्राणि द्वादश तानि
सर्वाण्यपि पञ्चदशस्तोमकानि कर्त्तव्यानि । स्तोमत्रिवृत्प्र-
चारस्तु प्राचीमारोहेत्यत्र दिक्समारोहणमन्त्रव्याख्या-
वसरे दर्शितः । किं च पूर्वदिवसरात्रिशेषे उत्तरदिवस-
स्योषःकाले यज्ञसंस्थापकमेकं चरमं स्तोत्रं तृतीयपर्या-
यस्यान्ते रथन्तरसाम्ना गातव्यम् तत् सन्धिस्तोत्रमित्युच्यते
तत् स्तोत्रं त्रिवृत्स्तोत्रयुक्तं कार्य्यम् । एकविंशादवरो-
हणं त्रिवृत्पर्य्यन्तं यत् स्तोमकरणमुक्तं तत् सूर्य्यलोका-
दिक्रमाद् भूम्यवस्थानात्मना प्रशंसति एष एवैकविंश इति
य एष तपति स एकविंशः सूर्य्य इत्यर्थः तस्मादपयुङ्क्ते
अवरोहतीत्यर्थः सोऽवरुह्यावरुह्य त्रिवृद्रूपायामस्यां
भूमिलक्षक्षणायां प्रतिष्ठायां प्रतिष्ठितवान् भवति साध्यन्दिन
सवने रथन्तरं वृहत्साम वा पृष्ठस्तोत्रं प्रकृतौ
विकल्पितं अत्रैकं नियमयति तस्य रथन्तरमिति । अस्य
सोमकालस्यातिरात्रसंस्थात्वं प्रतिष्ठात्मना प्रशंसति
अतिरात्र इति । अतिरात्रसंस्थात्मना कृतएष क्रतुः प्रतिष्ठा-
रूपः । अस्य क्रतोः केशावापव्रतविसर्जनार्थं क्रियमाण-
त्वात्तदन्ते केशवापः कार्य्यः तत्र कञ्चिद्विशेषं विधत्ते सवै
न्येवेति स यजमानो निवर्तयते केशान्निकृन्तेदेव न वपेत्
वपनं नाम मुण्डनं तन्न कुर्यात् निवर्तनं कर्तनं तत्कु-
र्यात् एषा केशकर्तनलक्षणा व्रतचर्या यावज्जीवनं
कर्त्तव्या न केशमुण्डनं कार्य्यम् कदाचिदप्यनुपानत्-
कोऽपादुकः कस्यां चिदपि भूमौ उपानहौ पादुके न प्रति
तिष्ठति अवस्थापनं न कुर्य्यात् । आसन्द्या अवरोहणस-
मयेऽपि उपानहौ पादुके उपसुञ्चते इतस्ततः संचरण-
समये रथं वा यानं वारोहेत्” । भा०

केशवर्द्धनी स्त्री केशावर्द्धन्तेऽनया वृध--करणे ल्युट् ङीप् ।

सहदेवीलतायाम् “उत स्थ केशदृं हणीरथो ह केशबर्द्ध-
नीः” अथ० ६ । २१ । ३
पृष्ठ २२४९

केशवर्द्धिनी स्त्री केशान् वर्द्धयति वृध--णिच्--णिनि ।

सहदेवीलतायाम् राजनि०

केशवादित्य पु० काशीस्थे आदित्यभेदे तत्कथा काशीख०

५१ अ० यथा “अतः परंशृणु मुने! केशवादित्यमुत्तमम् ।
यथा तु केशवं प्राप्य सविता ज्ञानमाप्तवान् । व्योम्नि सञ्चर-
माणेन सप्ताश्वेनादिकेशवः । एकदाऽदर्शि भावेन पूजयन्
स्निग्धमीश्वरम् । कौतुकाद्दिव उत्तीर्य्य हरेरविरुपाविशत् ।
निःशब्दोनिश्चलः सुस्थोमहाश्चर्य्यसमन्वितः । प्रतीक्ष्य
माणोऽवसरं किञ्चित् प्रष्टुमना रविः । हरिं विसर्जि-
तार्घञ्च प्रणनाम कृताञ्जलिः । स्वागतन्ते हरिः प्राह
बहुमानपुरःसरम् । स्वाभ्यासमासयामास भास्वन्तन्नत-
कन्धरम् । अथावसरमालोक्य लोकचक्षुरधोक्षजम् ।
नत्वा विज्ञापयामास कृतानुज्ञो सरारिणा । रविरुवाच ।
अन्तरात्मासि जगतां विश्वम्भर! जमत्पते! । तवापि पूज्यः
कोऽप्यस्ति जगत्पूज्यात्र माधव! । त्वत्तश्चाविर्भवेदेतत्त्वयि
सर्व्वं प्रलीयते । त्वमेव पाता सर्व्वस्य जगतोजगतां
निधे! । इत्याश्चर्य्यं समालोक्य प्राप्तोह्यत्र तवान्तिकम् ।
किमिदं पूज्यते नाथ! भवता भवतापहृत्! । इति श्रुत्वा
हृषीकेशः सहस्रांशोरुदीरितम् । उच्चैर्मात्थ च सप्ताश्वं
वारयन् करसंज्ञया । विष्णुरुवाच । देवदेवोमहादेवो
नीलकण्ठौमापतिः । एक एव हि पूज्योऽत्र सर्वेषां सर्वकार-
णम् । अत्र त्रिलोचनादन्यं समर्च्चयति मोहधीः ।
सलोचनोऽपि स ज्ञेयो लोचनाभ्यां विवर्जितः ।
एकोमृत्युञ्जयः पूज्योजन्ममृत्युजराहरः । मृत्युञ्जयं
किलाभ्यर्च्च्य लोको मृत्युञ्जयोभवेत् । कालकालं
समाराध्य भृङ्गी कालं जिगाय वै । शिलादिमपि
तत्याज मृत्युर्मृर्त्युञ्जयार्च्चकम् । विजिग्मे त्रिपुरं यस्तु
हेलयैकेषुमोक्षणात् । तं समभ्यर्च्च्य भूतेशं को न पूज्य
तमोभवेत् । त्रिजगज्जयिनस्त्रातुस्त्र्यक्षस्याराधनं परम् ।
को नाराधयति वृध्न! हरस्य स्मरविद्विषः । यस्याक्षिपक्ष्म
सङ्कोचाज्जगत् सङ्कोचमेत्यदः । विकस्वरं विकाशाच्च कथ
पूज्यतमोन सः । शम्भोर्लिङ्गं समभ्यर्च्य पुरुषार्थचतु-
ष्टयम् । प्राप्नोत्यत्र पुमान् सद्योनात्र कार्य्या विचा-
रणा । समर्च्य शाम्भवं लिङ्गमधिजन्मशतार्ज्जितम् ।
पापपुञ्जं जहात्येव पुमानत्र क्षणाद्ध्रुवम् । किं किं
न सम्भवेदत्र शिवलिङ्गसमर्च्चनात् । पुत्राः कलत्रं
क्षेत्राणि स्वर्गोमोक्षोऽप्यसंशयम् । त्रैलोक्यैश्वर्य्यसम्प-
त्तिर्मया प्राप्ता सहस्रगो! । शिवलिङ्गार्च्चनादेकात् सत्यं
सत्यं पुनः पुनः । अयमेव परोयोगस्त्विदमेव परं
तपः । इदमेव परं ज्ञानं स्थाणुलिङ्गं यदर्च्यते ।
यैर्लिङ्गं सकृदप्यत्र पूजितं पार्वतीपतेः । कुतोजन्मभयं
तेषां संसारे दुःखभाजने । सर्वं परित्यज्य रवे! तल्लिङ्गं
शरणं गतः । न तं पापानि बाधन्ते महान्त्यपि
दिवाकर! । लिङ्गार्च्चने भवेच्छुद्धिस्तेषामेवात्र भास्कर! ।
येषां पुनर्भवच्छेदं चिकीर्षति महेश्वरः । न लिङ्गा
राधनात् पुण्यं त्रिषु लीकेषु चापरम् । सर्वतीर्था-
भिषेकः स्याल्लिङ्गस्नानाम्बुसेवनात् । तस्माल्लिङ्गं त्वम-
प्यर्क! समर्च्चय महेशितुः । संप्राप्तुं परमां लक्ष्मीं
महातेजोविजृम्भिणीम् । इति श्रुत्वा हरेर्वाक्य
तदारभ्य सहस्रगुः । विधाय स्फाटिकं लिङ्गं मुनेऽ-
द्यापि समर्च्चयत् । गुरुत्वन तदाकल्प्य विवस्वानादि
केशवम् । तत्रोपतिष्ठतेऽद्यापि उत्तरेणादिकेशवात् ।
अतः स केशवादित्यः काश्यां भक्ततमोनुदः ।
समर्च्चितः सदा देयान्मनसोवाञ्छितं फलम् । केशवादित्य-
साराध्य वाराणस्यां नरोत्तमः । परमं ज्ञानमाप्नोति
येन निर्वाणभाग्भवेत् । तत्र पादोदके तीर्थे कृतस-
र्वोदकक्रियः । विलोक्य केशवादित्यं मुच्यते सर्व-
पातकैः । अगस्ते! रथसप्तम्यां रविवारो यदाप्यते ।
तत्र पादोदके तीर्थे आदिकेशवसन्निधौ । स्नात्वोष
सि नरोमौनी केशवादित्यपूजनात् । सप्तजन्मार्ज्जि-
तात् पापात् मुक्तो भवति तत्क्षणात् । यद्यज्जन्म
कृतं पापं मया सप्तसु जन्मसु । तन्मे रोगञ्च शोकञ्च
माकरी हन्तु सप्तमी । एतज्जन्मकृतं पापं यच्च
जन्मान्तरार्ज्जितम् । मनोवाक्वायजं यच्च ज्ञाताज्ञातञ्च
यत् पुन । इति सप्तविधं पापं स्नानान्मे सप्तसप्तिको
संप्तव्याधिसमायुक्तं हर माकरि! सप्तमि! । एतन्मन्त्र
त्रयं जप्त्वा स्नात्वा पादीदके नरः । केशवादित्यमालोक्य
क्षणान्निष्कल्मषो भवेत् । केशवादित्यमहात्म्यं
शृण्वन् श्रद्धासमन्वितः । नरोन लिप्यते पापैः शिवभक्तिञ्च
विन्दति” ।

केशवायुध न० ६ त० । १ विष्णोरस्त्रे । केशवस्यायुधं

तदाकारीऽस्त्यस्य अच् । २ आम्रवृक्षे पु० शब्दमाला

केशवार्क पु० ज्योतिषनिबन्धकारके विद्वद्भेदे

केशवालय पु० ६ त० । १ अश्वत्थवृक्षे त्रिका० अश्वत्थशब्दे विवृ-

तिः । २ तस्य मन्दिरे च । केशवावासादयोऽप्यत्र पु० जटा०
पृष्ठ २२५०

केशवेश पु० केशस्य वेशः । १ कवरीबन्धने अमरः । २ केशानां

रचनाविशेषे च “यथाकुलधर्म्मं केशवेशान् कारयेत्” आश्व०
गृ० १, १७, १७, “एकशिखस्त्रिशिखः पञ्चशिखो वा”
इति बौधायनः पूर्ब्बशिखः परशिखः इति कुलधर्म्माः
तेषु योयस्य कुलधर्म्मः तेन तस्य केशसन्निवेशान्
कारयेत्” नारा० वृ० ।

केशहन्तृफला स्त्री केशहन्तृ फलमस्याः । शमीवृक्षे शब्दच०

केशहन्त्री स्त्री केशान् हन्ति हन--तृच् ङीप् । शमीवृक्षे

राजनि०

केशहस्त पु० केशोहस्त इव । केशसमूहे अमरः “लक्ष्मी-

वान् सरसि रराज केशहस्तः” माघः । “केशहस्तेन
ललना जागामाथ विराजती” भा० व० ४६ अ०

केशाकिशि अव्य० केशेषु केशेषु गृहीत्वा प्रवृत्तं युद्धं

“तत्र तेनेदमिति सरूपे” पा० स० कर्म्मव्यतिहारे इच्
समा० पूर्ब्बदीर्घः तिष्ठद्गुप्रभृतित्वादव्ययत्वम् । अन्यो-
न्यकेशग्रहणपूर्ब्बकप्रवृत्तयुद्धे । एवं कचाकच्यादयो-
ऽप्यत्र अव्य० । असरूपे तु नेदं प्रवर्त्तते । “आर्छतां
बहुसंरम्भात् केशाकेशि रथारथि” भा० वि० ३ अ० “केशा-
केश्यभवद्युद्धं रक्षसां वानरैः सह” भा० व० २८३ अ०

केशान्त पु० केशानन्तयति छेदनात् हन्ति अन्ति (नामधातुः)

अण् । द्विजातीनां षोडशादिषु वर्षेषु कर्त्तव्ये केशच्छेदना-
ख्येगोदानकर्मणि । केशान्ताख्य गोदानकर्मप्रकारादि आश्व०
गृ० १ । १८ । १ । सूत्रादौ दर्शितं यथा “एतेन गीदानम्” सू०
व्याख्यातमिति शेषः एतेनेति कृत्स्नोपदेशः तत्रविशेषमाह ।
ना० दृ० । “षोड़शे वर्षे” सू० । तृतीयस्यापवादः अत्र
मातुरुप स्थोपवेशनं न भवति अयुक्तत्वात्” ना० वृ० ।
“केशशब्दे तु श्मश्रुशब्दान् कारयेत्” सू० । केशशब्दे
त्विति जातावेकवचनं श्मश्रुशब्दानिति व्यक्तिपरोनिर्देशः
तेन यत्र श्मश्रुशब्दाः तत्र “अदितिः केशान् वपतु” ।
“वप्ता केशान्” “दक्षिणे केशपक्ष इति” त्रिषु ते कार्याः ।
तन्त्रगतस्य तृतीयस्य केशशब्दस्याभावाद्विधिगतस्य ग्रहणं
तेन दक्षिणे श्मश्रुपक्ष इति साधितं भवति” वृ० ।
“श्मश्रुणीहोन्दति” सू० । “शिरस्युन्दनस्यापवादः” ।
वृ० । “शुन्धि शिरोमुखं मास्यायु प्रमोषीरिति” सू० ।
“क्षुरनिमार्जनेऽयं विशेषः” वृ० । “केशश्मश्रुलोमन-
खान्युदक्संस्थानि संप्रव्यति” सू० । “शीतोष्णाभि-
रद्भिरबर्थं कुर्वाणोऽक्षुण्वन् कुशली केशश्मश्रुलोमन-
खान्युदक्संस्थानि कुर्विति नापितशासनम्” ना० वृ० ।
“काल्पुत्य वाग्यतः स्थित्वाऽहःशेषमाचार्यसकाशे-
वाचं विसृजेत् वरं ददामीति” सू० । “तत आल्पुत्य
स्नात्वेत्यर्थः । वाग्यत इत्यमन्त्रयमाणः । स्थित्वेत्युपवेशन
प्रतिषेधः । एवमहःशेषं स्थित्वाऽस्तमिते आचार्यसमीपे
वरं ददामीति वाचं विसृजेत् । वरद्रव्यमाह” ना०
वृ० । “गोमिथुनं दक्षिणा” सू० । ननु भिक्षुरयं
कथमस्य गोमिथुनसम्भवः उच्यते यथास्य प्रावरणादि
सम्भवस्तथास्यापि” वृ० । संवत्सरमादिशेत्” सू० ।
एवं गोदानं कृत्वा संवत्सरं व्रतमादिशेत् वक्ष्यमाणेन
विधिना चरेत् । रात्रौ व्रतादेशाऽनुपपत्तेः अपरेद्युः
कार्य्यम्” ना० वृ० ।
एतेनेत्यनेन चूडाविहितनक्षत्रादिग्रहणातिदेशः यथाह
मू० चि० “केशान्तं षोडशे वर्षे चौलोक्तदिवसे शुभम्”
“षोडशे वर्षे चौलोक्तदिवसे चूडावर्षतृतीयात् प्रभ-
वतीत्यादिना कथितशुभदिवसे गोदानपर्यायं केशान्त
संज्ञं कर्म्म शुभं स्यात्” गावः केशा दीयन्ते खण्ड्यन्ते
यस्मिन्नितिव्युत्पत्तिः यदाह् “केशान्तं षोडशे वर्षे
कुर्याच्चौलोक्तभादिके” इति । महेश्वरोऽपि “कर्म केशान्त
संज्ञं हि स्मृतं वर्षे तु षोडशे । चौलकर्मोक्तधिष्ण्यादौ”
षोडश इत्येतद्ब्राह्मणविषयं द्रष्टव्यं क्षत्रियविशोस्तु
द्वाघिंशतिचतुर्विंशतितमवर्षयोः केशान्तमित्यर्थः तदुक्तं
मनुना “केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते ।
राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके ततः” पी० धा० ।
चूडोक्तनक्षत्रादि च चूडाशब्दे वक्ष्यते । अत्र कर्मपर तया
क्लीवता । मनुवचने तु संस्कारपरतया पुंस्त्वमिति बोध्यम् ।
एतस्मात् पूर्वं महानाभ्र्यादिव्रतत्रयं वर्षत्रये कर्त्तव्यं तच्च
उपनिषच्छब्दे सप्रमाणं दर्शितम् । केशस्यान्तः । २ केशस्व
रूपे ३ केशाग्रे च । “केशान्तमन्तः कुसुमं तदीयम्” कुमा० ।

केशान्तिक त्रि० केशान्तः केशपर्य्यन्तः परिमाणमस्य ठन् ।

केशान्तप्रमाणके “केशान्तिको ब्राह्मणस्य दण्डः कार्य्यः
प्रमाणतः । ललाटसंमितोराज्ञः स्यात्तु नासान्तिको विशः”
मनुः ।

केशारुहा स्त्री केशा आरुहन्ति अनया आ + रुह घञर्थे करणे क । सहदेवीलतायां राजनि० ।

केशार्हा स्त्री केश केशवर्णमर्हति अर्ह--अण् उप० स० ।

महानीलीवृक्षे राजनि० ।

केशि पु० १ दानवभेदे । खसृमः कालवदनः करालः केशिरेव

च” हरि वं २६३ अ० । २ केशिनि दानवे च “अरिष्टं
वृषभं केशिं पूतनां दैत्यदारिकाम्” हरिव० ४२ अ० ।

केशिक त्रि० प्रशस्तः केशोऽस्त्यस्य टन् । प्रशस्तकेशयुक्ते जने

पृष्ठ २२५१

केशिका स्त्री केशीव कायति कै--क । शतावरीवृक्षे राजनि०

केशिध्वज पु० निमिवंश्ये नृपभेदे “कुशध्वजस्तस्य पुत्रस्ततो

धर्म्मध्वजोनृपः । धर्म्मध्वजस्य द्वौ पुत्रौ कृतध्वजसुत-
ध्वजौ । कृतध्वजात् केशिध्वजः” भाग० ९ । १३ । १२ ।

केशिन् त्रि० केश + प्राशास्त्ये भूम्निवा इनि । १ प्रशस्तबहुकेश-

युक्ते “वहतामिन्द्र केशिना” ऋ० ३ । ४१ । ९ स्त्रियां ङीप् ।
केशिनैदंख र्थे वा अण् । “गाथिविदथिकाशीत्यादिना”
पा० प्रकृतिभावः । कैशिन तत्सब्बन्धिनि केशयुक्ते
च स्त्रियां ङीप् । “कैशिनीरेवेमा अप्येतर्हि प्रजाः
प्रजायन्ते” शत० व्रा० ११ । ८ । ४ । ६ । २ केशतुल्यकार्ष्ण्ययुक्ते
त्रि० स्त्रियां ङीप् । “तमग्रुवः केशिवीः सं हि रेभिरे” ऋ०
१, १४०, ८, “केशिनीः केशस्पानीयोर्द्धभाविकार्ष्ण्योपेताः
ज्वाला” भा० । केशिविद्याप्रकाशके २ गृहपतिस्वामि-
भेदे पु० । केशीगृहपतीनामुह सम्राड् दुघा शार्द्दूलो-
जघान” इत्यादि शत० ब्रा० ११, ८, ४, उक्तम् ।
तत्सम्बन्घाच्च प्रजानां केशयुक्तत्वम् उपसंहारे “ततो-
हैव स उत्ससाद कैशिनीरेवेमा अप्येतर्हिप्रजाःजायन्ते”
इत्युक्तत्वात् । “एवमुपदिष्टः स केशी ततोदेशात् उत्स-
साद विनष्टोऽभूत्तस्मादेतर्हि इदानीमपि वर्त्तमानाः प्रजा
कैशिनीरेव केशवत्यएव अथ वा केशिसम्बन्धित्वो
जायन्ते केशिना वृद्धिकरविद्यया लब्धत्वात्” भा० ४ द्वापर-
युगीये कृष्णनिहतेऽसुरभेदे केशिनिसूदनशब्दे विवृतिः

केशिनिसूदन न० केशिनं निसूदयति नि + सूद--ल्यु ।

वासुदेवे कृष्णे तन्निसूदनकथा च हरिव० ८१ अ० यथा
“प्रागेव तु नरेन्द्रेण माथुरेणौग्रसेनिना । क शिनः प्रेषि-
तो दूतो बधायोपेन्द्रकारणात् । स तु दूतवचः श्रुत्वा
केशी क्लेशकरो नृणाम् । वृन्दावनगतो गोपान् वाधते
स्म दुरासदः । मानुषं मांसमश्नानः क्रुद्धो दुष्टपराक्रमः ।
दुर्द्दान्तो वाजिदैत्योऽसावकरोत् कदनं महत् । निघ्नन्
गा वै सगोपालान् गवा पिशितभोजनः । उद्दाम
कामचारी च स केशी निरवग्रहः । तदरण्यं श्मशा-
नाभं नृणामस्थिभिरावृतम् । यत्रास्ते स हि दुष्टात्मा
केशी तुरगदानवः । खुरैर्द्दारयते भूमिं वेगेनारुजते
द्रुमान् । ह्रेषितैः स्पर्द्धते वायुं प्लुतैर्लम्बयते नभः ।
अतिप्रवृद्धो मत्तश्च दुष्टाश्वो वनगोचरः । प्रकम्पितशटो
रौद्रः कंसस्य चरितानुगः । इरिणं तद्वनं सर्वं तेनासीत्
पापकारिणा । कृतं तुरगदैत्येन सर्वान् गोपान् जिषां-
सता । तेन दुष्टप्रचारेण दूषितं तद्वनं महत् । न नृभि-
र्गोवनैश्चापि सेव्यते वनवृत्तिभिः । निःसम्पातः कृतः
पन्थास्तेन तद्विषयाश्रितः । मदाञ्चलितवृत्तेन नृमांसान्य-
श्नता भृशम् । नृशब्दानुसरः क्रुद्धः स कदाचिद्दिना-
गमे । जगाम घोषसंवासं चोदितः कालधर्मणा । तं
दृष्ट्वा दुद्रुवुर्गोपाः स्त्रियश्च शिशुभिः सह । क्रन्दमाना
जगन्नाथे कृष्णं नाथमुपाश्रिताः । तासां रुदितशब्देन
गोपानां क्रन्दितेन च । दत्त्वाऽभयन्तु कृष्णो वै केशिनं
सोऽभिदुद्रुवे । केशी चाप्युद्धतग्रीवः प्रकाशदशनेक्षणः ।
ह्रेषमाणो जवोदग्रो गोविन्दाभिमुखो ययौ । तमापतन्तं
सम्प्रेक्ष्य केशिनं हयदानवम् । प्रत्युज्जगाम गोविन्द-
स्तोयदः शशिनं यथा । केशिनस्तु तमभ्यासे दृष्ट्वा कृष्ण-
मवस्थितम् । मनुष्यबुद्धयो गीपाः कृष्णमूचुर्हितैषिणः ।
कृष्ण! तात! न खल्वेष सहसा ते हयाधमः । उपसर्य्यो
भवान् बालः पापश्चैर्ष दुरासदः । एष कंसस्य सहजः
प्राणस्तात! बहिश्चरः । उत्तमश्च हयेन्द्राणां दानवोऽ-
प्रतिमो युधि । त्रासनः परसैन्यानां तुरगाणां
महाबलः । अबध्यः सर्वभूतानां प्रथमः पापकर्मणाम् ।
गोपानां तद्गचः श्रुत्वा वदतां मधुसूदनः । केशिना सह
युद्धाय मतिञ्चकेऽरिसूदनः । ततः सव्यं दक्षिणञ्च
मण्डलानि परिभ्रमन् । पद्भ्यामुभाभ्यां स हंयः क्रोधे-
नारुजते द्रुमान् । मुखे लम्बशटे चास्य स्कन्धे
केशघनावृते । बलयो भ्रूतरंङ्गाभाः सुस्रुवुः क्रोधजं जलम् ।
सफेनं वक्त्रजञ्चैव ववर्ष रजसावृतम् । हिमकाले यथा
व्योम्नि नीहारमिव चन्द्रमाः । गोविन्दमरविन्दाक्षं
ह्रेषितोद्गारशीकरैः । सफेनैर्वक्त्वनिर्गीर्णैः प्रोक्षयामास
भारत! । खुरोद्धूतासक्तेन मधुकक्षोदपाण्डुना ।
रजसा स हयः कृष्णं चकारारुणमूर्द्धजम् । प्लुतवल्गित-
पादस्तु तक्षमाणो धरां खुरैः । दन्तान् निर्दशमानस्तु
केशी कृष्णमुपाद्रवत् । स संसक्तस्तु कृष्णेन केशी तुरग-
सत्तमः । पूर्बाभ्याञ्चरणाभ्यां वै कृष्णं वक्षस्यताडयत् ।
पुनः पुनश्च स वली प्राहिणोत्पार्श्वतः खुरान् । कृष्णख
दानवो वोरं प्रहारममितौजसः । वक्त्रेण चास्व घोरेण
तीक्ष्णदंष्ट्रायुधेन वै । अदशद्बाहुशिखरं कृष्णस्य रुषितो
हयः । सं लम्बकेशरशटः कृष्णन सह सङ्गत । रराज
केशी मेघेन संयुक्तः खं इवाशुमान् उरश्चास्योरसा
हन्तुमियेष बलवान् हयः । वेगेन वासुदेवस्य क्रोधाद्-
द्विगुणविक्रमः । तस्योत्सिक्तस्य बलवान् कृष्णोऽप्यमित-
विक्रभः । बाहुमाभोगिनं कृत्वा मुखे क्रुद्धः समादधत् ।
पृष्ठ २२५२
स तं बाहुमशक्तो वै खादितुं भेत्तुमेव वा । दशनैर्मूल-
निर्मुक्तैः सफेनं रुधिरं वमन् । विपाटिताभ्यामोष्ठाभ्यां
कटाभ्यां विदलीकृतः । अक्षिणी विकृते चक्रे विसृते
मुक्तबन्धने । निरस्तहनुराविष्टः शोणिताक्तविलोचनः ।
उत्कर्णो नष्टचेतास्तु स केशी बह्वचेष्टत । उत्पतन्नसकृत्
पादैः शकृन्मूत्रं समुत्सृजन् । स्विन्नार्द्ररोमा श्रान्तस्तु
निर्यत्नचरणोऽभवत् । केशिशक्थिविलग्नस्तु कृष्णबाहुर-
शोभत । व्याभुग्न इव घर्मान्ते चन्द्रार्द्धकिरणैर्घनः ।
केशी च कृष्णसंसक्तः श्रान्तगात्रो व्यरोचत । प्रभाता-
वनतश्चन्द्रः श्रान्तो मेरुमिवाश्रितः । तस्य कृष्णभुजोद्धूताः
केशिनो दशना मुखात् । पेतुः शरदि निस्तोयाः
सिताभ्रावयवा इव । स तु केशी भृशं श्रान्तः कृष्णेना-
क्लिष्टकर्मणा । स्वभुजं स्वायतं कृत्वा पाटितो बलवत्तदा ।
स पाटितो भुजेनाजौ कृष्णेन विकृताननः । केशी
नदन्महानादं दानवो व्यथितस्तदा । विघूर्णमानः स्रः-
स्ताङ्गो भुखाद्रुधिरमुद्वमन् । भृशं व्यङ्गीकृतवपुर्निकृ-
त्तार्द्ध इवाचलः । व्यादितास्यो महारौद्रः सोऽसुरः
कृष्णबाहुना । निपपात यथा कृत्तो नागो द्विविदली-
कृतः । बाहुना कृत्तदेहस्य केशिनो रूपमाबभौ ।
पशोरिव महाघोरं निहतस्य पिनाकिना । द्विपादपुच्छ-
कृष्टार्द्धे श्रवणैकाक्षिनासिके । केशिनस्ते द्विघा भूते द्वे
त्वर्द्धे रेजतुः क्षितौ । केजिदन्तक्षतश्चापि कृष्णस्य
शुशुभे भुजः । कृत्तस्ताल इवारण्ये गजेन्द्रदशनाङ्कितः ।
तं हत्वा केशिनं युद्धे कल्पयित्वा च भागशः । कृष्णः
पद्मपलाशाक्षो हसंस्तत्रैव तस्थिवान् । तं हतं केशिनं
दृष्ट्वा गोपा गोपस्त्रियस्तथा । बभूवुर्म्रुदिताः सर्वे
हतविघ्ना हतक्लमाः दामोदरन्तु श्रीमन्तं यथास्थानं
यथावयः । अभ्यनन्दन् प्रियैर्वाक्यैःपूजयन्तः पुनः पुनः”
“वैशम्पायन उवाच अथाहान्तर्हितो विप्रो नारदः खगमो
मुनिः । प्रीतोऽस्मि विष्णो! देवेति कृष्ण! कृष्णेतो
चाव्रवीत् । यदिदं दुष्करं कर्म्म कृतं केशिजिघांसया ।
त्वय्येव केवलं युक्तं त्रिदिवे त्र्यम्बकेऽपि वा । अहं
त्वतेन गोविन्द! कर्मणा परितोषितः । हयादस्मा-
न्महेन्द्रोऽपि विभेति बलसूदनः । कुर्वाष्णस्य वपुर्घोरं
केशिनो दुष्टचेतसः । यत्त्वया पाटितं देह भुजना-
यतपर्वणा । एषोऽस्य मृत्युरन्ताय विहितो विश्वयो-
निना । यस्मात्त्वया हतः केशी तस्मान्मच्छासनं शृणु ।
केशवो नाम तस्मात् त्वं ख्यातिं लोके गमिष्यसि” ।
केशिहन् इत्यादयोऽप्यत्र । “त्रिलोकात्मा त्रिलोकेशः
केशवः केशिहा हरिः” विष्णुस० । “प्रकाशनात् केशाः
रश्मयस्ततः अस्त्यर्थे इनि । ५ परमेश्वरे ६ सूर्य्यादित्रये च । “के
शी केशा रश्मयस्तद्वान् भवति काशनाद्वा प्रकाशनाद्वेति”
१२ । ३६ । निरु० निरुच्य “केश्यग्निं केशी विषं
केशी बिभर्त्ति रोदसी । केशी विश्वं स्वर्द्दशे केशीदं
ज्योतिरुच्यते” ऋ० १० । १३६ । १ ऋचसुदाहृत्य व्याकृतं
यथा “केशी अग्निञ्च विषञ्च विषमित्युदकनाम विष्णातेः
विपूर्ब्बस्य स्नातेः शुड्यर्थस्य विपूर्ब्बस्य वा सचतेः । द्यावा
पृथिव्यौ धारयति केशीदं सर्वमिदमभिरोहति केशीदं
ज्योतिरुच्यते इत्यादित्यमाह अथाप्येते इतरे ज्योतिषी
केशिनी उच्येते धूमेनाग्निः रजसा च मध्यमः” इत्युक्त्वा
च तेषामेषा सारधाणाभवतीत्युक्त्वा च । “त्रयः केशिन
ऋतुधा विचक्षते संवत्सरे वपत एकएषाम् । विश्वमेको
अभिचष्टे शचीभिर्व्राजिरेकस्य ददृशे न रूपम्” ॠ०
१ । १६४ । ४४ । ऋगुदाहृता । व्याख्याताचैषा भाष्ये
“केशस्थार्नायप्रकृष्टरश्मियुक्तास्त्रयोऽग्न्यादित्यवायवः
ते च ऋतुधा काले काले विचक्षते विविधलक्षाणां भूमिं
पश्यन्ति तेषां पृथक् पृथक् कार्य्यमाह एषां मध्य
एकोऽग्निः संवत्सरेऽतीते सति संवत्सरं वपते दाहेन केश
स्थानीयोषधिवनस्पत्यादिकच्छेदनेन नापितकार्य्यं
करोति एकः अन्यः आदित्यो विश्वं सर्वं जगत् शचीभिः
स्वकीयैः प्रकाशवृष्ट्यादिकर्मभिरभिचष्टे सर्वतः पश्यतिं
एकस्य वायोर्व्राजिर्गतिर्ददृशे दृश्यते सर्वैः न रूपं अप्र-
त्यक्षत्वात् स्पर्शशब्दधृतिकम्पलिङ्कैर्गम्यत इति हि न्याय-
विदोवदन्ति” भा०

केशिनी स्त्री केशाः तदाकारा जटाः सन्त्यस्य इनि ङीप् ।

१ जटामास्यां राजनि० २ चोरपुष्पीवृक्षे (चोरर्काचकी)
अमरः । ३ प्रशस्तकेशयुक्ताथां स्त्रियां, छन्नरूपनलं
प्रति दमयन्तीप्रेरिते ४ तद्दूतीभेदे “गच्छ केशिनि ।
जानीहि” “एवमुक्तस्य केशिन्या नलस्य कुरुनन्दन!” । “ततः
सा केशिनी गत्वा दमयन्त्यै न्यवेदयत्” इति च
भा० व० ७४ अ० । कश्यपपत्नीप्रधायाः ५ कन्यारूपे
अपसरोभेदे । “प्रधाऽसूत महाभागा देवी देवर्षितः पुरा”
इत्युपक्रमे “केशिनी च सुबाहुश्च सुरता सुरजा तथा”
भा० आ० ६५ अ० । ६ पार्व्वतीसहचरीभेदे “गौरी विद्या-
ऽथ गान्धारी केशिनी मित्रसाह्वया । सावित्र्या सह
सर्व्वास्ताः पार्व्वत्या यान्ति पृष्ठतः” भा० व० २३० अ०
पृष्ठ २२५३
७ अजमीढनृपपत्नीभेदे । “अजमीढ़ोवरस्तेषां तस्मिन्
वंशः प्रतिष्ठितः । षट् पुत्रान् सोऽप्यजनयत् तिसृषु स्त्रीषु ।
भारत! । ऋक्षं धूमिन्यथो नीली दुष्मन्तपरमेष्ठिनौ ।
केशिन्यजनयज्जह्नुं सुतौ व्रजनरूपिणौ” भा० आ० ९४ अ० ।
“अजमीढस्य केशिन्यां जज्ञे जह्नुः प्रतापवान्” हरिवं
३२ अ० । ८ सुहोत्रनृपभार्य्यायाम् “मौहोत्रिरभवज्जह्नुः
केशन्या गर्भसम्भवः” हरिवं० २७ अ० । ९ सगरभार्य्याभेदे
“द्वे भार्य्ये सगरस्यास्तां तपसा दग्धकिल्विषे । ज्येष्ठा
विदर्भदुहिता केशिनी नाम विश्रुता । केशिन्यसूत
सगरादसमञ्जसमात्मजम्” हरिवं० १६० । १० रावणमातरि
कैकस्याम् “ततस्तौ राक्षसौ जातौ केशिन्यां विश्रवः-
सुतौ । रावणः कुम्भकर्ण्णश्च सर्व्वलोकोपतापनौ” भाग०
७ । १ । ४ । २ । कैकस्या नामान्तरमिदम्

केशी स्त्री केश--गौरा० ङीष् । १ नीलीवृक्षे राजनि० २

भूतकेशीवृक्षे ३ अजलोमावृक्षे रत्नमा०

केशोच्चय पु० ६ त० । केशसमूहे हेमच०

केश्य त्रि० केशाय हितः यत् । १ केशहितकारकेतत्का-

र्ष्ण्यापादके २ पदार्थे । “तिलोहि पाके मधुरोबलिष्ठः”
इत्युपक्रमे “स्तन्योऽथ केश्योऽनिलहा गुरुश्च” “केश्यंरसा-
यनं मेध्यं काश्मर्य्यं फलमुच्यते” “केशप्रसादनी (काँकि)
केश्या रजोजन्तुमलापहा” सुश्रु० । मधुररससेवनस्य
केश्यत्वं तत्रोक्तं तदुपक्रमे “चक्षुष्यः केश्योवर्ण्ण्य” इति
सुश्रु० २ कृष्णागुरुणि न० ३ भृङ्गराजे पु० राजनि० तयोः
केशहितत्वात् तथात्वम् ।

केसर न० के जले सरति सृ--अच् । केशरशब्दार्थे तत्र विवृतिः

केसरवर न० केसरेण किञ्जकेन वृणाति वृ--अच् ।

कुङ्कुमे । राजनि० ।

के(श)सराचल पु० भूपद्मस्य केसरे स्थितः केशराकरतया वा

स्थितः । सुमेरुपर्वते । तस्य च भूरूपपद्मस्य कर्ण्णिका-
रूपेण मध्यस्थितत्वात् तथात्वं यथोक्तं विष्णु पु०
“जम्बुद्वीपः समस्तानां द्वीपानां मध्यतः स्थितः । तस्यापि
मेरुर्मैत्रेय! मध्ये कनकपर्वतः” इत्युप क्रमे
“भूपद्मस्यास्यशैलोऽसौ कर्ण्णिकासंमितः स्थितः ।
तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः । भारताः केतु-
मालाश्चः भद्राश्वाः कुरवस्तथा । पद्मानि लोकपद्मस्य
मर्व्यादाश्चैव वाह्यतः” इति च विष्णुपु० । “सीता
(नदी) तु ब्रह्मसदनात् केसराचलाद्रिशिखरेभ्योऽधोऽधः
स्ववन्ती” भाग० ५ । ७ । ८ ।

केसराम्ल पु० के जलनिमित्तं सरति अम्लो रमोऽस्य ।

वीजपूरकेजम्बीरभेदे जटा० । दर्शनेनापि जिह्वाया रसनिः-
स्रावकत्वात्तस्य तथात्वम् ।

केसरिका स्त्री के जले सरति साधुकारितया सृ--वुन्

अलुक्स० टाप् अतैत्त्वम् । सहदेवीलतायां राजनि० ।

केसरिन् पुंस्त्री केसरोऽस्त्यस्य इनि । १ सिंहे २ घीटके च

अमरः “धनुर्द्धरं केसरिणं ददर्श” रघुः । स्त्रियां ङीप् ।
३ पुन्नागे ४ नागकेसरे पु० मेदि० । ५ रक्तशोभाञ्जने
राजनि० । ६ हनूमत्पितरि पु० (केशरिन्)शब्दे दृश्यम्

केसरिसुत पु० ६ त० । हनूमति तत्कथा केशरिसुतशब्दे

उक्ता केसरितनयादयोऽपि तत्रार्थे पु० ।

कै शब्दे भ्वा० पर० अक० अनिट् । कायति अकासीत् । चकौ ।

कैंशुक न० किंशुकस्येदम् “पुष्पफले बहुलम्” पा० बहुल

ग्रहणात् तस्य नलुक् । किंशुकपुष्पे “योषित् स्तन्यं शात
कुम्मं विघृष्टं क्षौद्रोपेतं कैंशुकञ्चापि पुष्पम्” सुश्रु० लुपि
तु किंशुकमित्येव तत्रार्थे न०

कैकय पु० त० स्वार्थेऽण् बा० न यादेरियादेशः । केकयशब्दार्थे तच्छब्दे उदा० दृश्यम्

कैकस पु० कीकसमस्थि सारतयाऽस्त्यस्य प्रज्ञा० अण् । १

राक्षसे स्त्रियां शार्ङ्गरवा० ङीन् कैकसी । सा च २ सुमा-
लिकन्याभेदे “राका पुष्पोत्कटा चैव कैकसी च शुचि-
स्मिता कुम्भीनसी च इत्येताः सुमालेः प्रसवाः सुताः” रामा०
उ० ६ स० । सा च रावणादिमाता तत्कथा रामा० उ० ९ स०
“किं तु मां विद्धि ब्रह्मर्षे! शासनात् पितुरागताम् ।
कैकसी नाम नाम्राहं शेषं त्वं ज्ञातुमर्हसि । स तु गत्वा
मुनिर्ध्यानं वाक्यमेतदुवाच ह । विज्ञातं ते मया भद्रे!
कारणं यन्मनोगतम् । सुताभिलाषो मत्तस्ते मत्तमात-
ङ्गगामिनि! । दारुणायां तु वेलायां यस्मात् त्वं मासु
पस्थिता । शृणु तस्मात् सुतान् भद्रे! यादृशान् जनयिष्य-
सि । दारुणान्दारुणाकारान्दारुणाभिजनप्रियान् । प्रस-
विष्यसि सुश्रोणि! राक्षसान् क्रूरकर्मणः । सा तु तद्व-
चनं श्रुत्वा प्रणिपत्याब्रवीद्वचः । भगवन् नेदृशान्
पुत्रांस्त्वत्तोऽहं ब्रह्मवादिनः । नेच्छामि सुदुराचारान्
पसादं कर्तुमर्हसि । कन्यया त्वेवमुक्तस्तु विश्रवा मुनि
पुङ्गवः । उवाच कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम् ।
पश्चिमो यस्तव सुतो भविष्यति शुभानने! । मम वंशानु
रूपः स घर्मात्मा च न संशयः । एवमुक्ता तु साकन्या राम ।
कालेन केनचित् । जनयामास वीभत्सं रक्षोरूपं सुदा-
रुणम् । दशग्रीवं महादंष्ट्रं नीलाञ्जनचयोपगम् ।
पृष्ठ २२५४
ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् । तस्मिन्
जाते ततस्तस्मिन् सज्वालाकवलाः शिवाः । क्रव्यादा-
श्चापसव्यानि मण्डलानि प्रचक्रमुः । ववर्ष रुधिरं देवो
मेघाश्च खरनिःस्वनाः । प्रबभौ न च सूर्योवै महोल्का-
श्चापतन् भुवि । चकम्पे जगती चैव ववुर्वाताः सुदारुणाः ।
अक्षोभ्यः क्षुभितश्चैव समुद्रः सरितां पतिः । अथ
नामाकरोत् तस्य पितामहसमः पिता । दशग्रीवः प्रसूतोऽयं
दशग्रीपो भविष्यति । तस्य त्वनन्तरं जातः कुम्भकर्णो-
महाबलः । प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते ।
ततः शूर्पणखा नाम संजज्ञे विकृताननना । विभीषणश्च
धर्मात्मा कैकस्याः पश्चिमः सुतः” ।

कैकेय पु० केकयानां राजा अण् यादेरियादेशः । १ केकय-

देशनृपे केकयशब्दे उदाहरणादि । तस्यापत्यम् अण्
ङीप् । २ भरतमातरि स्त्री “कैकेयीशङ्कयेवाह
पलितच्छद्मना जरा” “दूषयामास कैकोयी शोकेष्णैः
पार्थिवाश्रुंभिः “श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः
पितुः” रघुः

कैटज पु० कुटज + पृषो० । कुठजवृक्षे भावप्रकाश इति शब्द-

कल्पद्रुमः भावप्रकाशे तु कुटजः कुटज इत्येव पाठः
कूटजशब्दे दृश्यः

कैटभ पु० असुरभेदे तत्कथा हरिवं० ५३ अ०

“अहमादौ पुराणेन संक्षिप्ता पद्मयोनिना । माञ्च कृत्वा
कृतौ पूर्बं मृण्मयौ द्वौ महासुरौ । कर्णस्रोतोभवौ द्वौ
हि विष्णोरस्य महाबलौः । महार्णवे प्रस्वपतः काष्ठकुड्य-
समौ स्थितौ । तौ विवेश स्वयं वायुर्ब्रह्मणासाधुचोदितः ।
तौ दिवं छादयन्तौ तु ववृधाते महासुरौ । वायुप्राणौ तु
तौ गृह्य ब्रह्मा परिमृशच्छनैः । एकं मृदुतरं मेने कठिनं
वेद चापरम् । नामनी तु तयोश्चक्रे सवितुः कमलो-
द्भवः । मृदुस्त्वयं मधुर्नाम कठिनः कैटभोऽभवत् । तौ
दैत्यौ कृतनामानौ चेरतुर्बलदर्पितौ । सर्वमेकार्णवं
लोकं योद्धुकामौ सुनिर्भयौ । तावागतौ समालोक्य
ब्रह्मा लोकप्रितामहः । एकार्णवाम्बुनिचये तत्रैवान्तरधी-
यत । स पद्मे पद्मनाभस्य नाभिमध्यात् समुत्थिते । रोचया-
मास वसतिं गुह्यं ब्रह्मा चतुर्म्मुखः । तातुभौ
जलगर्भस्थौ नारायणपितामहौ । बहून् वर्षागणानप्सु
शयानौ न चकम्पतुः । अथ दीर्घस्य कालस्य तावुभौ
मधुकैटभौ । आजज्ञतुस्तमुद्देशं यत्र ब्रह्मा व्यवस्थितः ।
दृष्ट्वा तावसुरौ घोरौ महाकायौ दुरासदौ । ब्रह्मणा
ताडितो विष्णुः पद्मनालेन बै पुरा । उत्पपाताशु शयनात्
पद्मनाभो महादुतिः । तद्युद्धमभवद्घोरं तयोस्तस्य च वै
तदा । एकार्णवे तदा लोके त्रैलोक्ये जलतां गते ।
तदाभूत्तुमुलं युद्धं वर्षसङ्घ्यासहस्रशः । न च तावसुरौ
युद्धे तदा श्रमतवापतुः । अथ दीर्घस्य कालस्य तौ दैत्यौ
युद्धदुर्म्मदौ । ऊचतुः प्रीतमनसौ देवं नारायणं प्रभुम् ।
प्रीतौ स्वस्तव युद्धेन श्लाघ्यस्त्वं मृत्युरावयोः । आवां
जहि न यत्रोर्वी सलिलेन परिप्लुता । हतौ च तव
पुत्त्रत्वं प्राप्नुयाव सुरोत्तम! । यो ह्यावां युधि निर्जेता
तस्यावां विहितौ सुतौ! स तु गृह्य मृधे दोर्भ्यां
दैत्यौ समपीडयत् । जग्मतुर्निधनञ्चापि तावुभौ
मधुकैटाभौ । तौ हतौ चाप्लुतौ तोये वपुर्भ्यामेकताङ्गतौ ।
मेदो सुमुचतुर्द्दैत्यौ मथ्यमानौ जलोर्मिभिः । मेदसा
तज्जलं व्याप्तं ताभ्यामर्न्तर्दधे ततः । नारायणस्य
भभवानसृजत् स पुनः प्रजाः । दैत्ययोर्म्भेदसा दृन्ना मेदि-
नीति ततः स्मृता । प्रभावात् पद्मनाभस्य शाश्वती जगतो
कृता” ।

कैटभजित् पु० कैटभं जितवान् जि--भूते क्विप् । विष्णौ

अमरः तद्वधकथा च कैटभशब्दे उक्ता “उदमज्जि
कैटभजितः शयनात्” कैटभद्विष् इत्यादयोऽप्यत्र “तनौ
मसुस्तत्र न कैटभद्विषः” मावः ६ त० । कैटभारि तत्रार्थे
अमरः । कैटभशत्रु प्रभृतयोऽप्यत्र पु०

कैटभी स्त्री कैटभे कैटभनाशकाले स्तुत्या अण् ङीप् ।

महाकाल्याम् योगनिद्रायाम् । “यामस्तौच्छयिते हरौ
कमलजोहन्तुं मधुकैटभौ” महाकालीध्याने तदर्थं
तस्याः स्तुतिरुक्ता । तत्स्तुतिश्च “योगनिद्रां यदा विष्णु
र्जगत्येकार्ण्णवीकृते आस्तीर्य्य शेषशयनं कल्पान्ते
भगवान्प्रभुरितित्युपक्रम्य देवीमाहात्म्ये दर्शिता ।

कैटभेश्वरी स्त्री “कैटभं निहत कृत्वा गृहीता तत्पुरी

यतः । तेन सा गीयते देवी पुराणे कैटभेश्वरीतिदेवीपु०
४५ अ० उक्तनिरुक्तियुक्तायां दुर्गायाम्

कैटर्य्य पु० किट--त्रासे घञ्केटं राति अतितिक्तत्वात्

रा + क स्वार्थे ष्यञ् । १ भूनिम्वे, अमरः २ कट्फले,
रत्नमा० ३ पूतिकरञ्जे ४ मटनवृक्षे च राजनि०

कैडर्य्य पु० कैटर्य्य + पृषो० । कैटर्य्यशब्दार्थे राजनि०

कैतव न० कितवस्य भावः कर्म्म वा युवा० अण् । १ शाठ्ये

२ द्यूते ३ वैदूर्य्यमणौ राजनि० । स्वार्थे अण् । ४ कितवे ५ शठे
६ द्यूतकारके ७ धचूरे च पु० “कैतवेनाक्षवत्यां वा युद्धे
पृष्ठ २२५५
वा नाम्यतां धनुः” भा० व० ७८ अ० । “दीव्य यत् कैतवं
पाण्डव! तेऽवशिष्टम्” भा० स० ६३ अ० । “यदवोच-
स्तदवैमि कैतवम्” कुमा०

कैतवेय पु० कितवायाः अपत्यं ढक् । अंशुमन्नृपसुते उलूके

क्षत्रियभेदे “उलूकः कैतवेयश्च वीरश्चांशुमतः सुतः”
हरिवं० ९९ अ० । बा० ञ्य । कैतयोऽप्यत्र “उलूकः गच्छ
क्वैतव्य! पाण्डवान् सहसोमकान्” भा० उ०५ ९ अ० ।

कैन्दासायन पुंस्त्री० किन्दासस्य युवापत्यम् हरिता० फक् ।

निन्दितदासस्य यून्यपत्ये

कैन्नर त्रि० किन्नरः तन्नामवर्षमभिजनोऽस्य तक्षशिला०

अञ् । पित्रादिक्रमेण १ किन्नरवर्षवासिनि । किन्नरस्येदम्
अण् । २ किंपुरुषसम्बन्धिनि त्रि० उभयत्र स्त्रियां ङीप् ।

कैमुतिक पु० किमुत इत्यर्थात् आगतः ठक् । किमुतेत्यर्थतः

प्राप्ते न्यायभेदे । यथा वह्वायाससाध्यकर्मसमर्थस्य अल्पा-
याससाध्यकर्म्मसामर्थ्यं तन्न्यायसिद्धमेवन्यदप्यूह्यम् ।

कैरलेय त्रि० केरलानां राजा बा० ढक् । केरलदेशनृपे

“उत्तमोजास्तथा शाल्वः कैरलेयश्च कौशिकः” हरिव० ९९ अ०

कैरव न० के जले रौति रु--अच् अलुक् स० केरवो

हंसस्तस्य प्रियम् अण् । १ कुमुदे, शुक्लोत्पले, अमरः २ शत्रौ
पु० कैतवे न० मेदि० । “जाग्रत्कलं कैरवध्वंसं
हस्तयते च या सुमनसामुल्लासिनी मानसे” चन्द्रालो० ।
“कस्मै नाथ! समर्प्य कैरवकुलं व्योमान्तमालम्बसे” उद्भ-
टः । ततः पुष्करा० इनि ङीप् । कैरविणी कुमुदयु-
क्तलतायां तत्समूहे च स्त्री ।

कैरविणीखण्ड पु० समूहे कमला० खण्ड । कुमुदलतासमूहे

कैरविणीफल न० ६ त० । (वेरा) इति ख्याते कुमुदिनीवीजे

कैरविन् पु० कैरवं प्रकाश्यतऽल्यस्य इति चन्द्रे शब्दमा०

कैरवी स्त्री कैरवस्य प्रिया अण् ङीप् । १ चन्द्रिकायां मेदि० ।

२ मेथिकायां राजनि०

कैराटक पु० किरं पर्य्यन्तभूमिमटति अट--ण्वुल् ६ त० ततः स्वार्थे अण् । स्थावरविषभेदे हेम० ।

कैरात पु० किरात इव शूरः इवार्थे अण् । १ बलवत्पुरुषे,

किरातदेशे (पर्य्यन्तदेशे) मवः अण् । २ भूनिम्बे शब्दच०
३ शम्बरचन्दने न० राजनि० ४ भूनिम्बे पु० राजनि० ।
किरातस्येदम् अण् । ५ किरातसम्बन्धिनि त्रि० “कैरा-
तं वेशमास्थाय” भा० व० ३९२ अ० ।

कैराल न० किरं पर्य्यन्तभूमिमलति अल--अण् उप० स० ततः

स्वार्थे अण् । १ विडङ्गे वैद्यकम् । गौरा० ङीष् । २ कैराली
तत्रार्थे स्त्री राजनि० ।

कैलास पु० के जले लासो लसनं दीप्तिरस्य अलुक्स० केलस

स्फटिकस्तस्येव शुभ्रः अण्, केलीनां समूहः अण्--
कैलं तेनास्यतेऽत्र आस--आधारे घञ् वा । शिवकवेरयोः
स्थाने पर्व्वतभेदे । स च वृह० सं० कूर्म्मविभागे उत्त-
रस्यामुक्तः “उत्तरतः कैलासोहिमवान् गिरिर्धनुष्मां-
श्च” । स च अलकासमीपस्थितः “अलकां समया चैष
कैलासः शङ्करालयः” काशी० १३ अ० । तत्स्वरूपञ्च
हरिव० २१७ अ० वर्ण्णितं यथा
“मन्दरश्चोग्रशिखरः, स्फाटिकैर्म्मणिभिश्चितः । वज्रगर्मै-
र्निरालम्बै स्वर्गोपम इवाबभौ । सह शृङ्गैश्च कैलासः
शिलाधातुविभूषितः । तोरणैश्चैव निविड़ैः प्राशुभि-
श्चैव पादपैः । प्रवादयद्भिर्गन्धर्ब्बैः किन्नरैश्च प्रगायि-
भिः । देवकन्याङ्गहावैश्च प्रकीडित इवाबभौ । मधुरै-
र्व्वाद्यगीतैश्च नृत्यैश्चाभिनयोद्गतैः । शृङ्गारैः सुप्र-
हावैश्च कैलासो मदनायत” ।
तस्य विष्णुनाभिपद्मस्य गर्भाङ्वुररूपत्वं हरिवं० २०२ अ०
वर्ण्णित यथा
“तस्मिन् हिरण्मये पद्मे बहुयोजनविस्तृते । सर्व्वतेजो-
गुणमये पार्थिवैर्लक्षणैर्युते । तच्च पद्मं पुराणज्ञाः पृथि-
वीरुहमुत्तमम् । नारायणात् समुत्पन्नं प्रवदन्ति महर्ष-
यः । या तु पद्मासना देवी तां पृथ्वीं परिचक्षते । ये तु
गर्भाङ्कुराः सारास्तान् दिव्यान् पर्व्वतान् विदुः ।
हिमवन्तञ्च मेरुञ्च नीलं निषधमेव च । कैलासं क्रौञ्चवन्तञ्च
तथाऽद्रिं गन्धमादनम् । पुण्यं त्रिशिखरं चैव कान्त
मन्दरमेव च । उदयञ्च गिरिश्रेष्ठं विन्ध्यमस्तञ्च पर्व्वतम् ।
एते देवगणानाञ्च सिद्धानाञ्च महात्मनाम् । आश्रयाः
सर्वभूतानां पुण्याः कामयुजोऽद्रयः । एतेषामन्तरो देशो
जम्बुद्वीप इति स्मृतः” ।
कैलासप्रमाणञ्च भाग० ५, १६, २३, उक्तं यथा
“जठरदेयकूटौ मेरुं पूर्व्वेण द्वादशयोजनसहस्रमुदगायतौ
द्विसहस्रपृथुतुङ्गौ मवतः एवमपरेण पवनपारिपात्रौ”
दक्षिणेन कैलासकरवीरौ प्रागायतौ” । “शुभ्रं
पाण्डरमेघाभं कैलासञ्च नगोत्तमम्” हरि० २२६ अ० ।
“कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः” मेध०

कैलासनाथ पु० ६ त० । १ शिवे २ कुवेरे च “कैलासनाथं

तरसा जिगीषुः” रघुः । कैलासपत्यादयोऽप्यत्र ।
पृष्ठ २२५६

कैलासयात्रा स्त्री कैलासयात्रामधिकृत्य कृतोग्रन्थो अण्

आख्यायिकायां तस्य लुक् । हरिवंशानर्गते “किमर्थं
मगवान् विष्णुर्देवदेवो जनार्द्दनः । गतः कैलासशि-
खरमालयं शङ्करस्य च” २६४ स० अध्यायावधिके २८१
अध्यायपर्य्यन्ते ग्रन्थे । उपसंहारे अनुक्रमणिकाध्याये
“कैलासयात्रा कृष्णस्य पौण्ड्रकस्य बधस्तथा” इत्युक्तं तेन
गौड़पुस्तके कैलासयात्राग्रन्थाभावः प्रामादिक एव

कैलासाकस् पु० कैलासओकोयस्य । १ शिवे २ कुवेरे च हेमच०

कैवर्त्त पुं स्त्री के जले वर्त्तते वृत--अच् अलुक्स० ततः

स्वार्थे अण् । “निषादो मार्गवं सूते दाशं नौकर्म्मजी-
विनम् । कैवर्त्तमिति यं प्राहुरार्य्यावर्त्तनिवासिनः”
मनक्तायं(जेले)धीवरजातौ । “ब्राह्मणेन शूद्रायां जातो
निषादः प्रागुक्तः प्रकृतायामायोगव्यां मार्गवं दाशा-
परनामानं नौव्यवहारजीविनं जनयति । आर्य्यावर्त्त-
देशवासिनः तं कैवर्त्तशब्देन कीर्त्तयन्ति” कुल्लू०

कैवर्त्तमुस्त न० के जले वर्त्तते वृत--अच् अलुक्स० स्वार्थे

अण् कर्म्म० । मुस्तकमेदे (केसुरिया) शब्दर० स्वार्थे क ।
तत्रार्थे भरतः

कैवर्त्तिका स्त्री कैवर्त्तीव इवार्थे कन् ह्रस्यः ।

मालवदेश प्रसिद्धे लताभेदे वस्त्ररङ्गायाम् राजनि०

कैवर्त्तिमुस्तक न० । कैवर्त्याः कैवर्त्तपत्न्याः प्रियं मुस्तकं

संज्ञायां “ङ्यापोः” पा० वा ह्रस्वः । कैवर्त्तमुस्तके
ह्रस्वाभावे कैवर्त्तीमुस्तकमप्यत्र (केसुरुया) ख्याते मुस्त-
कभेदे भरतः

कैवर्त्ती स्त्री के जले वर्त्तते वृत--अच् अलुकस० के वर्त्ताजलस्था-

सव स्वार्थे अण् ङीप् । (केसुरिया) १ मुस्तकभेदे वैद्य-
कम् पुंयोगे ङीप् । २ कैवर्त्तपत्न्याञ्च

कैवल न० के वलते वल--अच् अलुक्स० स्वार्थे अण् । विडङ्गे रत्नमा०

कैवल्य न० केवलस्य भावः ष्यञ् । १ आत्यन्तिकदुखविगमरूपे

मुक्तिभेदे तत्स्वरूपसत्त्वादिकारणानि च सा० का० तत्त्वकौ-
मुद्योर्दर्शितानि यथा “पुरुषोऽस्ति भोक्तृ भावात् कैवल्यार्थं
प्रवृतेश्च “इतश्चास्ति पुरुष इत्याह कैवल्यार्थं प्रवृत्तेश्च
शास्त्रकाराणां महर्षीणाञ्च दिव्यलोचनानां कैवल्यञ्चात्य-
लिकदुःखत्रयप्रशमलक्षणं न बुद्ध्यादीनां सम्भवति ते हि
दुःखाद्यात्मकाः कथं स्वभाबाद्वियोजयितुं शक्यन्ते
तदतिरिक्तस्य त्वतदात्मन आत्मनस्ततो वियोगः शक्यसम्पा-
दः तस्मात्कैवल्यार्थं प्रवृत्तेरागमानां महर्षीणाञ्चास्ति
बुद्ध्याद्यतिरिक्त आत्मेति सिद्धम्” तत्त्वकौमुदी
“कैवल्यं माध्यस्थ्यं द्रल्वत्वमकर्त्तृभावश्च” सा० का०
“आत्यन्तिकदुःखत्रयाभावः कैवल्यं तच्च स्वभावादेव
अत्रैगुण्टात् सुखदुःखमोहरहितत्वात् सिद्धम्” कौ०
“पुरुषस्य दर्शनांर्थं कैवल्यार्थं तथा प्रधानस्य” का०
“षुरषस्यापेक्षां दर्शयति पुरुषस्य कैवल्यार्थम् । तथा
हि प्रधानेन सम्मिन्नः पुरुषस्तद्गतं दुःखत्रयं स्वात्मन्यभि-
मन्यमानः कैवल्यं प्रार्थयते तच्च सत्वपुरुषान्यता-
ख्यातिनिबन्धनम् । न च सत्वपुरुषान्यताख्यातिः प्रधा-
नमन्तरेणेति कैवल्यार्थं पुरुषः प्रधानमपेक्षते । अनादि-
त्वाच्च संयोगगपरम्परायाः भोगाय संयुक्तोऽपि
कैवल्याय पुनः संयुज्यते इति युक्तम्” त० कौ० विवृतञ्चै-
तदस्माभिः “व्यवहितमपि पुरुषस्येति पदं कैवल्या
र्थमित्यत्रान्वेतोयाख्यातुं पुरुषस्यापेक्षामुत्थापयति पुरुष-
स्यापेक्षमिति प्रकृसेरिति शेषः । कैवल्यं केवलीभावः
स च अतुभूयमानस्य बुद्धिधर्म्मस्य दुःस्वत्रयस्य विनाश-
एव, तदर्थं तदुद्देशेन पुरुषस्य प्रकृत्यपेक्षा । तथा हि
इष्टविषवेच्छया इष्टसाधनाय प्रवर्त्तमानो दृष्टः । पुरुषश्च
आत्मन्यनुभूयमानं दुःखत्रयं जिहासुस्तत्परिहारसाध-
नमर्थयते दुःखत्रयाभिघातश्च प्रकृतिपुरुषविवेकाधीन इति
प्रकृतिं विना कथङ्कारं पुरुषस्तद्भेदमात्मनि प्रतीयादिति
दुःखत्रयाभिधाताथेमपेक्षणीयज्ञानसाधनत्वेन पुरुषस्य
प्रकृत्यपेक्षा” ।
“सम्यग्ज्ञानाधिगमाद्धर्म्म, दीनामकारणप्राप्तौ । तिष्ठति
संस्कारवशाच्चक्रम्रमिवद्धृतशरीरः” सा० का०
“तत्त्वसाक्षात्कारोदयादेवानादिरप्यनियतविपाककालोऽपि
कर्म्माशयप्रचयोदग्धवीजभावतया न जात्याद्युपगोगल-
क्षणाय फलाय कल्पते । क्लेशसलिलावसिक्तायां हि
बुद्धिभूमौ कर्म्मवीजान्यङ्गुरं प्रसुवत तत्त्वज्ञाननिदावनि-
पीतसकलक्लेशसलिलायामूषरायां कुतः कर्म्मवीजानाम-
ङ्गुरप्रसवः । तदिदमुक्तं धर्म्मादीनामकारणप्राप्ताविति
अकारणत्व्याप्तावित्यर्थः । उत्पन्न तत्त्वज्ञानेऽपि च
संस्कारवशात्तिष्ठति यथोपरतेऽपि कुलालव्यापारे चक्रं
वेगाख्यसंस्कारवशाद्भ्रमत्तिष्ठति कालप रपाकवशात्तूपर-
ते संस्कारे निष्क्रियं भवति । शरीरस्थितौ च प्रारब्ध-
परिपाकौ धर्माधर्म्मौ संस्कारौ । तथाचानुश्रूयते
“भेगेन त्वितरे क्षपयित्वाथ सम्पद्यते” इति “तावदेवास्य
चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये” इति । प्रक्षीयमा-
णाविद्याविशेषश्च संस्कारस्तद्वशात्तत्सामर्थ्याद्धृतशरीर-
स्तिष्ठति” त० कौ० विवृतमेतदम्माभिः-
“इतरे उत्पन्नविवेकज्ञानाः भोगेन प्रारब्धकर्म्माणीति शेषः
क्षपयित्वा नाशयित्वा समाप्येति यावत् अथ--प्रारब्धक-
पृष्ठ २२५७
र्म्मक्षयानन्तरं सम्पद्यते बन्धशून्यतया कैवल्यभाजनता-
रूपेण सम्पद्यते । अस्य--उत्पन्नबिवेकज्ञानस्य तावदेव चिरं
कैवल्यप्राप्तौ विलम्बः, यावत् विमोक्ष्ये प्रारब्धकर्म्म-
भिरिति शेषः विमोक्ष्ये ततोमुक्तिं प्रापस्यतीत्यर्थः । अथ
प्रारब्धकर्म्ममोचनानन्तरं सम्पत्स्ये कैवल्यरूपेण सम्पन्नो
भविष्यतीत्यर्थः” ।
“प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तेः ।
एकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति” सा० का० ।
“अनारब्धविपाकानां तावत्कर्म्माशयानां तत्त्वज्ञानाग्निना
वीजभावोदग्धः प्रारब्धविपाकानां तूपभोगेन क्षये सति
प्राप्ते शरीरभेदे विनाशे चरितार्थत्वात्कृतप्रयोजनत्वात्-
प्रधानस्य तं पुरुषं प्रति निवृत्तावैकान्तिकमवश्यम्भावि
आत्यन्तिकमपिनाशीत्युभयं कैवल्यं दुःखत्रयविगमं प्रा-
प्रोति पुरुषः” त० कौ० विवृतञ्चैतदस्माभिः
“ज्ञानाग्निः सर्वकर्म्माणि भस्मसात् कुरुतेऽर्ज्जुन!” इति
“मा भुक्तं क्षीवते कर्म्म कल्पकोटिशतैरपीति” शास्त्रयोः
प्रारब्धाप्रारब्धकर्म्मविषयकत्वेन क्षयाक्षयौ व्यवस्थापिता-
वित्याशयेनाह तत्त्वज्ञानाग्निनेत्यादि” ।
पातञ्जले कैवल्यपादे कैवल्यकारणमुक्त्वा तत्स्वरूपमुक्तं यथा
“विशेषदर्शिनआत्मभावभावनानिवृत्तिः” सू० । “यथा प्रावृ-
षि तृणाङ्कुरस्योद्भेदेन तद्वीजसत्तानुमीयते तथा मोक्षमार्ग
श्रवणेन यस्य रोमहर्षाश्रुपातौ दृश्येते तत्राप्यस्ति
विशेषदर्शनवीजमपवर्गभागीयं कर्म्माभिनिर्वत्तितमित्यनु-
भीयते तस्यात्मभावभावन स्वाभाविकी प्रवर्त्ततते यस्या
भावादिदमुक्तं स्वभावं मुक्त्वा दोषाद्येषां पूर्ब्बपक्षे रुचि-
र्भवत्यरुचिश्च निर्ण्णवे भवति तत्रात्मभावभावना कोऽह-
मासं, कथमहमासं किं स्विदिदंमे, कथं खिदहं, के
भविष्याम, इति” सा तु विशेषदर्शिनो निवर्तते कुतः चित्त-
स्येवैष विचित्रः परिणामः पुरुषस्त्वसत्यामविद्यायां
शुद्धश्चित्तधर्म्मैरपरामृष्ट इति ततोऽस्यात्मभावभावना
कुशलस्य निवर्त्तते इति” भाष्यम् ।
“तदा विवेकनिम्नं कैवल्यप्राग्भारञ्चित्तम्” सू० ।
“तदानीं यदस्य चित्तं विषयप्रागभारमज्ञाननिम्न-
मासीत्तदस्यान्यथा भवति कवल्यप्रागभारं विवेकजज्ञान-
निम्नमिति” भाष्यम् । “प्रसंख्यानेऽप्यकुसीदस्य सर्वथा
विवेकख्यातेर्धर्म्मनेघः समाधिः” सू० । “यदायं ब्राह्मणः
प्रसंख्यानेऽप्यकुसीदस्ततोऽपि न किंचित् प्रार्थयते तत्रापि
विरक्तस्य सर्वथा विवेकख्यातिरेव भवतीति संस्का-
रवीजक्षयान्नास्य प्रत्ययान्तराण्युत्पद्यन्ते तदास्य धर्म्म-
मेघोनाम समाधिर्भवति” भा० । “ततः क्लेशकर्म्म-
निवृत्तिः” सू० । “तल्लाभादविद्यादयः क्लेशाः समूलकाष
कषिता भवन्ति कुशलाकुशलाश्च कर्म्माशयाः समूलवातं
हताभवन्ति क्लेशकर्म्मनिवृत्तौ जीवन्नेव विद्वान् बिमुक्तो
भवति कस्मात्? यस्माद्विपर्य्ययो भवस्य कारणं न हि
क्षोणविपर्य्ययः कश्चित्केनचित् क्वचिज्जातो दृश्यते” भा० ।
“तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्यं ज्ञेयमल्पम्” सू०
“सर्व्वैः क्लेशकर्म्मावरणैर्विमुक्तस्य ज्ञानस्यानन्त्य
भवति तमसाभिभूतमावृतज्ञानसत्वं क्वचिदेव रजसा प्रव-
र्तितमुद्द्वाटितं ग्रहणसमर्थं भवति तत्र यदा सर्वैरा-
वरणमलैरपगतमलम्भवति तदा भवत्यस्यानन्त्यं ज्ञानस्या
नन्त्याञ्ज्ञेयमल्पं सम्पद्यते यथाकाशे खद्योतः,
यत्रेदमुक्तम् “अन्धोमणिमघ्यविध्यत्तमनङ्गुलिरावयत् ।
अग्रीवस्तं प्रत्यमुञ्चत्तमजिह्वोभ्यपूजयदिति” भा० ।
“ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम्” सू० ।
“तस्य धर्म्ममेवस्योदयात्कृतार्थानां गुणानां परिणाम-
क्रमः परिसमाप्यते न हि कृतभोगापवर्गाः परिसमाप्त-
क्रमाः क्षणमप्यवस्थातुमुत्सहन्ते” भा०
“गुणाधिकारक्रमसमाप्तौ कैवल्यमुक्तन्तत्स्वरूपमवधार्य्यते” भा०
“पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कवल्यं स्वरूप
प्रतिष्ठा वा चितिशक्तिरिति” सू० । कृतभोगापयर्गाणां
पुरुषार्थशून्यानां यः प्रतिप्रसवः कार्य्यकारणात्मना गुणा-
नान्तत्कैवल्यं स्वरूपप्रतिष्ठा पुनर्बुद्धिसत्वानभिसम्बन्धात्पु-
रुषस्य चितिशक्तिरेव केवला तस्याः सदा तथैवावस्थानं
कैवल्यमिति” भा० ।
“कैवल्यरूपावधारणपरस्य सूत्रस्यावान्तरसङ्गतिमाह
गुणाधिकारेति पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः
केल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति । कुतः
करणीयतया पुरुषार्थशून्यानां यः प्रतिप्रसवः स्वकारणे प्रधा-
ने लयः, तेषां कार्य्यकारणात्मनां गुणानां व्युत्थानस-
माधिनिरोधसंस्कारा मनसि लीयन्ते मनोऽस्मितायाम्,
अस्मिता लिङ्गे, लिङ्गमलिङ्गे” इति योऽयं गुणानां
कार्य्यकारणात्मकानां प्रतिसर्गः तत् कैवल्यं, यं कञ्चित् पुरुषं
प्रति प्रधानस्य मोक्षः स्वरूपप्रतिष्ठा पुरुषस्य वा मोक्ष
इत्याह । स्वरूपेति । अस्ति हि महाप्रलयेऽपि स्वरूप
प्रतिष्ठा चितिशक्तिर्न चासौ मोक्ष इत्यत आह पुन
रिति सौत्र इतिशब्दः शास्त्रपरिसमाप्तौ “वा० विवरणम्
पृष्ठ २२५८
केदान्तिमते अविद्याकल्पितदेहादिप्रपञ्चनिवृत्तौ
२ अद्वितीयब्रह्मभावापत्तिरूपे केवलत्वे च । तच्च कैवल्यं
द्विविधं जीवन्मुक्तिर्विदहकैवल्यञ्च । तत्र जीवन्मु-
क्तिलक्षणम् विस्तरेण जीवन्मुक्तशब्दे वक्ष्यते दिग्मात्र
मत्राभिधीयते तत्र विवेकचूड़ामणौ जीवन्सुक्तलक्षण
मुक्त्वोक्तं यथा
“विज्ञातब्रह्मतत्त्वस्य यथापूर्बं न संसृतिः । अस्ति
चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः । प्राचीनवासनावे-
गादसौ संसरतीति चेत् । न सदेकत्वविज्ञानाम्मन्दी-
भवति वासना । अत्यन्तकामुकस्यापि वृत्तिः कुण्ठति मा
तरि । तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीषिणः ।
निदिध्यासनहीनस्य बाह्यप्रत्ययैष्यते । ब्रवीति श्रुति-
रेतस्य प्रारब्धफलदर्शनात् । सुखाद्यनुभवो यावत्तावत् प्रा-
रब्धमिष्यते । फलोदयः क्रियापूर्बो निष्क्रियो न हि
कुत्रचित्? । अहंब्रह्मेति विज्ञानात् कल्पकोटिशतार्जि-
तम् । सञ्चितं विलयं याति प्रबोधात् स्वप्नकर्म्मवत् ।
यत् कृतं स्वप्नवेलायां पुण्यं वा पापमुल्वणम् । सुप्तोत्थि-
तस्य किं तत् स्यात्? स्वर्गाय नरकाय वा । स्वमसङ्ग-
मुदासीनं परिज्ञाय नभो यथा । न श्लिष्यति च
यत्किञ्चित् कदाचिद्भाविकर्मभिः । न नभो घटयोगेन
सुरागन्धेन लिप्यते । तथात्मोपाधियोगेन तद्धर्मैर्नैव लिप्य
ते । ज्ञानोदयात् पुराऽऽरब्धं कर्म ज्ञानान्न नश्यति । अ
दत्त्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टवाणवत् । व्याघ्रबुद्ध्या
विनिर्मुक्तो वाणः पश्चात्तु गोमतौ । न तिष्ठति
छिनत्त्येव लक्ष्यं बेगेन निर्भरम् । प्रारब्धं बलवत्तरं खलु
विदां भोगेन तस्य क्षयः सम्यग्ज्ञानहुताशनेन विलयः
प्राक्सञ्चितागामिनाम् । ब्रह्मात्मैक्यमवेक्ष्य तन्मयतया ये
सर्वदा संस्थितास्तेषां तत्त्रितयं नहि क्वचिदपि ब्रह्मैव
ते निर्गुणम् । उपाधितादात्म्यविहीनकेवलब्रह्मात्मनै-
वात्मनि तिष्ठतोमुनेः । प्रारब्धसद्धावकथा न युक्ता स्वप्नार्थ
सस्वद्धकथेव जाग्रतः । न हि प्रबुद्धः प्रतिभासदेहे
देहोपयोगिन्यपि च प्रपञ्चे । करोत्यहन्तां ममतामि-
दन्तां किन्तु स्वयं तिष्ठति जागरेण । तदाऽस्य मिथ्या-
र्थममर्थनेच्छा न संग्रहस्तज्जगतोऽपि दृष्टः ॥ तत्रानुवृ-
त्तिर्यदि चेन्मृषार्थे न निद्रया मुक्त इतीष्यते ध्रुवम् ।
तद्वत् परे ब्रह्मणि वर्त्तमानः सदात्मना तिष्ठति नान्य-
दीक्षते । स्मृतियैथा स्वप्नविलोकितार्थे तथा विदः प्राश-
नमोचनादौ । कर्म्मणा निर्मितोदेहः प्रारब्धं तस्य
कल्पताम् । नानादेरात्मनो युक्तं नैवात्मा कर्मनिर्मितः ।
अजीनित्यः शाश्वतश्च ब्रूते श्रुतिरमोघवाक् । यदात्मना
तिष्ठतोऽस्य कुतः प्रारब्धकल्पना । प्रारब्धं सिध्यति
तदा सदा देहात्मना स्थितिः । देहात्मभावो वैवेष्टः
प्रारब्धं त्यज्यतामतः । शरीरस्यापि प्रारब्धकल्पनाभ्रा-
न्तिरेव हि । अध्यस्तस्य कुतः सत्त्वम्? असत्यस्य कुतो-
जनिः? । अजातस्य कुतोनाशः? प्रारब्धमसतः कुतः? ।
ज्ञानेनाज्ञानकार्य्यस्य समूलस्य लयो यदि । तिष्ठत्ययं
कथं देह! इति शङ्कावतो जड़ान् । समाधातुं
बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः । न तु देहादिसत्यत्ववो-
धनाय विपश्चिताम् । परिपूर्णमनाद्यन्तमप्रमेयमविक्रि-
यम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन । सद्घ-
नं चिद्घनं नित्यमानन्दघनमक्रियम् । एकमेवाद्वयं ब्रह्म
नेह नानास्ति किञ्चन । प्रत्यगेकरसं पूर्णमनन्तं सर्व-
तोमुखम् । एकमेवाद्वयमित्यादि । अहेयमनुपादेयमना-
देयमनाश्रयम् । एकमेवाद्वयमित्यादि । निर्गुणं निष्कलं
सूक्ष्मं निर्विकल्पं निरञ्जनम् । एकमेवाद्वयमित्यादि ।
अनिरूप्यस्वरूपं यन्मनोवाचामगोचरम् । एकमे-
वाद्वयमित्यादि । सत्समृद्धं स्वतः सिद्धं शुद्धं
बुद्धमनीदृशम् । एकमेवाद्वयमित्यादि । निरस्तरागाश्च
निरस्तभोगाः शान्ताः सुदान्ता यतयो महान्तः । विज्ञाय
तत्त्वं परमं तदन्ते प्राप्ताः परां निर्वृतिमात्मयोगात् ।
भवानपीदं परतत्त्वमात्मनः स्वरूपमानन्दघनं विचार्य्य ।
विधूय मोहं स्वमनःप्रकल्पितं मुक्तः कृतार्थो भवतु प्रबु-
द्धः । समाधिना साधुविनिश्चलात्मना पश्यात्मतत्त्वं स्फु-
टबोधचक्षुषा । निःसंशयं सम्यगवेक्षितश्चेच्छ्रुतः पदार्थो
न पुनर्विकल्पते । स्वस्याविद्याबन्धसम्बन्धमोक्षात् सत्यज्ञा-
नानन्दरूपात्मलब्धौ । शास्त्रं युक्तिर्दौशकोक्तिः प्रमाणं
चान्तःसिद्धाः स्वानुभूतिः प्रमाणम् । बन्धोमोक्षश्च तृप्तिश्च
चिन्तारोग्यसुखादयः । स्वेनैव वेद्या यज्ज्ञानं परेषामा-
नुमानिकम् । तटस्थिता बोधयन्ति गुरवः श्रुतयो यथा ।
प्रज्ञयैव तरेद्विद्वानीश्वरानुगृहीतया । स्वानुभूत्या स्वयं
ज्ञात्वा स्वमात्मानमखण्डितम् । संसिद्धः सन्मुखं तिष्ठेत्
निर्विकल्पात्मनात्मनि । वेदान्तसिद्धान्तनिरुक्तिरेषा ब्रह्मैव
जीवः सकलं जगच्च । अखण्डरूपस्थितिरेब मोक्षो
ब्रह्माद्वितीये श्रुतयः प्रमाणम्” ।
तदीयज्ञानाकारोऽपि तत्र दर्शितो यथा
“अकर्त्ताहमभोक्ताहमविकारोऽहमक्रियः । शुद्धबोध-
पृष्ठ २२५९
स्वरूपोऽहं केवलोऽहं सदाशिवः । द्रष्टुः श्रोतुर्वक्तुः
कर्त्तुर्भोक्तुर्विभिन्नएवाहम् । नित्यनिरन्तरनिष्क्रियो
निःसीमाऽसङ्गपूर्णबोधात्मा । नाहमिदं नाहमदोऽप्यु-
भयोरवभासकं परं शुद्धम् । बाह्याभ्यन्तरशून्यं पूर्णं
व्रह्माद्वितीयमेवाहम् । निरुपममनादितत्त्वं त्वमहमिद-
मदैति कल्पनादूरम् । नित्यानन्दैकरसं सत्यं ब्रह्माद्विती-
यमेवाहम् । नारायणोऽहं नरकान्तोऽहं पुरान्तकोऽहं
पुरुषोऽहमीशः । अखण्डबोधोऽहमशेषसाक्षी निरीश्वरो-
ऽहं निरहञ्च निर्म्ममः । सर्व्वेषु भूतेष्वहमेव संस्थितो
ज्ञानात्मनान्तर्बहिराश्रयः सन् । भोक्ता च भोग्थं स्वय-
मेव सर्व्वं यद्यत् पृथक् दृष्टमिदन्तया पुरा । मय्यखण्ड-
सुखाम्भोधौ बहुधा विश्ववीचयः । उत्पद्यन्ते विलीयन्ते
मायामारुतविभ्रमात् । स्थूलादिभावा मयि कल्पिता भ्रमा-
दारोपितानुस्फुरणेतलोके । काले यथा कल्पकयत्सराय-
नर्त्वादयो निष्कलनिर्व्विकल्पे । आरोपितं नाश्रय-
दूषकं भवेत् कदापि मूढैरतिदोषदूषितैः । नार्द्रीकरो-
त्यूषरभूमिभागं मरीचिकावारिमहाप्रवाहः । आकाश-
वत् कल्पविदूरगोऽहमादित्यवद्भास्वरलक्षणोऽहम् ।
आहार्य्यवन्नित्यविनिश्चलोऽहमम्भोधिवत् पारविवर्जितो-
ऽहम् । न मे देहेन सम्बन्धो मेघेनेव विहायसः । अतः
कुतो मे तद्धर्म्मा जाग्रत्स्वप्तसुषुप्तयः । उपाविरायाति स
एव गच्छति स एव कर्म्माण करोति भुङक्ते । स एव
जीर्य्यन् म्रियते सदाहं कुलाद्रिवन्निश्चल एव संस्थितः ।
न मे प्रवृत्तिर्न च मे निवृत्तिः सदैकरूपस्य निरंश-
कस्य । एकात्मको यो निविडो निरन्तरो व्योमेव पूर्णः
स कथं नु चेष्टते? । पुण्यानि पापानि निरिन्द्रियस्य
निश्चेतसो निर्विकृतेर्निराकृतेः । कुतोममाखण्डसुखा-
नुभूतेः? ब्रूते ह्मनन्वागतमित्यपि श्रुतिः । छायया
स्पृष्टमुष्णं वा शीतं वा सुष्ठु दुष्ठु वा । न स्पृशत्येव
यत् किञ्चित् पुरुषं तद्विलक्षणम् । न साक्षिणं साक्ष्य-
धर्म्माः संस्पृशन्ति विलक्षणम् । अविकारमुदासीनं
गृहधर्म्माः प्रदीपवत् । रधेर्यथा कर्म्मणि साक्षिभावो
वह्नेर्यथा दाहनियामकत्वम् । रज्जोर्यथारोपितवस्तुसङ्ग-
स्तथैव कूटस्थचिदात्मनोमे । कर्त्तापि वा कारयित, पि
नाहं भोक्तापि वा भोजयितापि नाहम् । द्रष्ठापि वा
दर्शयितापि नाहं सोऽहं, स्वयंज्योतिरनीदृगात्मा ।
चलत्युपाधौ प्रतिविम्बलौल्यमौपाधिक । मूढधियो
नमन्ति । स्वपिम्वभूतं रविवद्विनिष्क्रियं कर्त्तास्मि भोक्ता-
स्मि हतोऽस्मि हन्ता । जले वापि स्थले वापि लुठत्वेष
जड़ात्मकः । नाहं विलिप्ये तद्धर्म्मैर्घटधर्म्मैर्नभो यथा ।
कर्त्तृत्वभोक्तृत्वखलत्वमत्तताजडत्वबद्धत्वविमुक्ततादयः ।
बुद्धेर्विकल्पा न तु सन्ति वस्तुतः स्वस्मिन् परे ब्रह्मणि
केवलेऽद्वये । सन्तु विकाराः प्रकृतेर्दशधा शतधा
सहस्रधा वापि । किं मे सङ्गिभिरेभिर्न ह्यम्बुदा वरमम्बरं
स्पृशन्ति । अव्यक्तादिस्थूलपर्य्यन्तमेतद्विश्वं यत्राभास-
मात्रं प्रतीतम् । व्योमप्रख्यं सूक्ष्ममाद्यन्तहीनं ब्रह्मा-
द्वैतं यत्तदेवाहमस्मि । सर्व्वाधारं सर्व्ववस्तुप्रकाशं
सर्व्वाकारं सर्व्वगं सर्वशून्यम् । नित्यं शुद्धं निश्चलं
निर्विकल्पं ब्रह्माद्वैतं यत्तदेवाहमस्मि । यस्मिन्नस्ताशेष-
मायाविशेषं प्रत्यग्रूपं प्रत्ययागम्यमानम् । सत्यज्ञाना-
नन्दमानन्दरूपं ब्रह्माद्वैतं यत्तदेवाहमस्मि । निष्क्रि-
योऽस्म्यविकारोऽस्मि निष्कलोऽस्मि निराकृतिः ।
निर्विकल्पोऽस्मि नित्योऽस्मि निरालम्बोऽस्मि निर्द्वयः ।
सर्वात्मकोऽहं सर्वोऽहं सर्वातीतोऽहमद्वयः । केवला-
खण्डबोधोऽहमानन्दोऽहं निरन्तरम् । स्वाराज्य-
साम्राज्यविभूतिरेषा भवत्कृपाश्रीमहिमप्रसादात् । प्रा-
प्ता मया श्रीगुरवे महात्मने नमो नमस्तेऽस्तु पुनर्नमोऽस्तु” ।
पुनस्तल्लक्षणं तत्रैवोक्तं यथा
“क्षुधां देहव्यथां त्यक्त्वा बालः क्रीड़ति वस्तुनि । तथैव
विद्वान् रमते निर्म्ममी निरहं सुखी । चिन्ताशून्यम-
दैन्यभैक्ष्यमशनं, पानं सरिद्वारिषु, स्वातन्त्र्येण निरङ्गु-
शा स्थितिरसो निद्रा श्मशाने वने । वस्त्रं क्षालनशोष-
णादिरहितं दिग्वास्तु शय्या मही सञ्चारो निगमान्त
वीथिषु विदां क्रीड़ा परे ब्रह्मणि । विमानमालम्व्य
शरीरमेतद् भुनक्त्यशेषान् विषयानुपस्थितान् । परेच्छया
बालवदात्मवेत्ता योव्यकलिङ्गोननु सक्तबाह्यः ।
दिगम्बरो वापि च साम्बरो वा त्वगम्बरो वापि चिदम्ब-
रस्थः । उन्मत्तवद् वापि च बालवद् वा पिशाचवद्
वापि चरत्यवन्याम् । काभान्निष्णामरूपी संश्चरत्येकचरो-
मुनिः । स्वात्मनैव सदा तुष्टः स्वय सर्वात्मना स्थितः ।
क्वचिन्मूढ़ो विद्वान् क्वचिदपि महाराजविभवः क्वचि-
द्भ्रान्तः सौम्यः क्वचिदजगराचारकलितः । क्कचित्
पात्रीभूतः क्वचिदवमतः क्वाप्यविदितश्चरत्येवं प्राज्ञः
सततपरमानन्दसुखितः । निर्धनोऽपि सदा तष्टोऽप्यसहायो
महाबलः । नित्यतृप्तोऽप्यभुञ्जानोऽप्यसमः समदर्शाः ।
अपि क्रर्वन्नकुर्वाणश्चाभोक्ता फलगोग्यपि । शरीर्थप्प-
पृष्ठ २२६०
शरीर्य्येष परिच्छिन्नोऽपि सर्वगः । अशरीरं सदा सन्त-
मिमं ब्रह्मविदं क्वचित् । प्रियाप्रिये न स्मृशतस्तथैव च
शुभाशुभे । स्थूलादिसम्बन्धवतोऽभिमानिनः सुखञ्च
दुःखञ्च शुभाशुभे च विध्वस्तबन्धस्य सदात्मनी मुनेः कुतः
शुभं वाप्यशुभं फल वा । तमसा ग्रस्तवद्भानादग्ररतोऽपि
रविर्जनैः । ग्रस्त इत्युच्यते भ्रान्त्या ह्यज्ञात्वा वस्तुल-
क्षणम् । तद्वद्देहादिबन्धेन्यो विमुक्तब्रह्मवित्तमम् ।
पस्यन्ति देहवन्मूढ़ाः शरीराभासदर्शनात् । अहिनि-
र्णयनीवायं मुकदेहस्तु तिष्ठति । इतस्ततश्चाल्यमानो
यत् केञ्चित् प्राणवायुना । स्रोतसा नोयते दारु यथा
निम्नोन्नतस्थलम् । दैवेन नोयते देहो यथाकालोपभु-
क्तिषु । प्रारब्धकर्म्मपरिकल्पितवासनाभिः संसारिवच्चरति
भुकिषु मुकदेहः । सिद्धः स्वयं वसति साक्षिवदत्र
तूष्णीं चक्रस्य मूलमिव कल्पविकल्पशून्यः । नैवेन्द्रि-
याणि विपयेषु नियुङ्क्त एष नैवापयुङ्क्त उपदर्शनल-
क्षणस्थः । नैव क्रियाफलमपोषदवेक्षते स सानन्दसान्द्र-
रसवानसुप्तत्त चतः । लक्ष्यालक्ष्यग त त्यक्त्वा यस्तिष्ठेत्
केवलात्मन० । शिवएव स्वयं साक्षादय ब्रह्मविदुत्तमः ।
जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः” ।
विदेहकैवत्यमपि तत्र दर्शितं यथा “उपाधिनाशाद्
ब्रह्मैव सन् ब्रह्मावेति निर्द्वयम् । शैलूषवंशस
द्भावाभावयोश्च यथा पुमान् । तथैव ब्रह्मविच्छेष्ठः सदा
ब्रह्मैव नापरः । यत्र क्वापि विशोर्णं सत् पर्णमिव
तरोर्वपुषः पतनात् । ब्रह्मोभूतस्य यतेः प्रागेव तच्चिदग्निमा
दग्धम् । सदात्मनि ब्रह्मणि तिष्ठतो मुनेः पूर्णाद्वयान-
न्दमयात्मना सदा । न देशकालाद्युचितप्रतीक्षा त्वङ्मां
सविट्पिण्डविसर्जनाय । देहस्य मीक्षो मोक्षोन
न दण्डस्य कमण्डलोः । अविद्याहृदयग्रन्थिनोक्षोमोक्षो
यताततः । कुल्यायामथ नद्यां वा शिवक्षेत्रेऽपि चत्थरे ।
पणे पतति चेत्तेन तरोः किं नु शुमाशुभम्? । पत्रस्य
पुष्पस्य फलस्य नाशबद् देहेन्द्रयप्राणधियां विनाशः ।
नैवत्मनः स्वस्य सदात्मकत्यानन्दाकृतेर्वृक्षवदस्ति चैवः ।
प्रज्ञानषनैत्यात्मलक्षणं सत्यसूचकम् । अविद्योपाधिक-
स्यैव कथयलि विनाशनम् । अविनाशी वा अरेऽथमा-
त्मेति श्रुतिरात्मनः । प्रववीत्यविनाशित्व विनश्यत्सु
विकारिषु । काषाणवृक्षतृणधान्यकटाम्बराद्या दग्धा
भवन्ति हि नृदेव यथा तथैव । देहेन्द्रियासुमनआदि
समक्षदृश्यं ज्ञानाग्निदग्धमुपयाति परात्मभावम् । विलक्षणं
यथा ध्वान्तं लीयते भानुतेजसि । तथैव सकलं दृश्यं
ब्रह्मणि प्रविलीयते । घटेनष्टे यथा व्योम व्योमैव भवति
स्फुटम् । तथैवोपाधिविलये ब्रह्मैव ब्रह्मवत् स्वयम् ।
क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले । संयु-
क्तमेकतां याति तथात्मन्यात्मविन्मुनिः” ।
एवं विदेहकैवल्यं सन्मात्रत्वमखण्डितम् । ब्रह्ममावं
प्रपद्यैष यतिर्नावर्त्तते पुनः । सदात्मैकत्वविज्ञानदाधावि-
द्यादिवर्ष्मणः । अमुष्य व्रह्मभूतत्वाद्व्रह्मणः कुत उद्भवः? ।
मायाकॢप्तौ बन्धमेक्षो न स्तः स्वात्मनि वस्तुतः । यथा रज्वौ
निष्क्रियाया सर्पाभासविनिर्गमौ । आवृतेः सदसत्त्वाभ्यां
वक्तव्ये बन्धमोक्षणे । नावृतिर्ब्रह्मणः काचिदन्याभावा-
दनावृतम् । यद्यस्त्यद्वैतहानिः स्यात् द्वैतं न सहते
श्रुतिः । बन्धश्च मोक्षश्च मृषैव मूढ़ा बुद्धेर्गुणं वस्तुनि
कल्पयन्ति । दृगावृतिं मेवकृतां यथा रवौ यतोऽद्वया-
सङ्गचिदेकमक्षरम् । अस्तीति प्रत्ययो यश्च यश्च नास्तीति
वस्तुनि । बुद्धेरेव गुणावेतौ न तु नित्यस्य वस्तुनः । अतस्तौ
मायया क्लृमौ बन्धमोक्षौ न चात्मनि । निष्कले निष्क्रिये
शान्ते निरवद्ये निरञ्जने । अद्वितीये परे तत्त्वे व्योमवत्
कल्पना कुतः? । न निरोधो न चोत्पत्तिर्न बन्धो न च
साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ।
सकलभिगभचूडास्वान्तसिद्धान्तगुह्यं परमिदमतिगुह्यं
दर्शित ते मयाद्य । अपगतकलिदोषं कामनिर्भुक्तबुद्धिं
त्वमनुवद सकृत्त्वं भावयित्वा मुनुक्षुम्” । कैवल्यं स्वरूपत्वे-
नास्त्यस्य अर्श० अच् । ३ कैवल्यस्वरूपे त्रि० “ज्ञानविज्ञा-
नयुक्तानां निरुपाख्या निरञ्जना । कैवल्या या गतिर्ब्र-
ह्मसदने सा गतिर्भवाम्” भा० अनु० १६ अ० । “कैवल्या
मोक्षाख्या गतिः” नीलक० । केवल एव स्वार्थे ष्यञ् ।
४ अद्वितीये वस्तुनि न० “धातारमजमव्यक्तं यमाहुः
परमव्ययम् । कैवल्यं निर्गुणं विश्वमनादिमजमक्षरम्”
भा० अ० ६३ अ०

कैशिक न० केशानां समूहः ठक् । १ केशसमूहे । २ नाटकप-

सिद्धे वृत्तिभेदे स्त्री ङीप् हेमच० सा० द० सरस्वतीकण्ठा-
भरणे च कौशिकीत्थेव पाठः । व्यलङ्कारशब्दे ३८८ पृ०
तल्लक्षणमुक्तम् । ३ शृङ्गारे पु० जटा० तस्य केशवेश-
पूर्व्वकत्वेन तदधीनत्वात् तथात्वम् । ५ नृपभेदे पु०
“आहृतिः कैशिकश्चैव भीष्मकश्च नराधिपः” हरिवं० ९६ अ०
पृष्ठ २२६१

कैशीर न० किशोरस्य भावः कर्म्मवा प्राणभृद्वये वाचित्वात्

अञ । “कौमारं पञ्चमाव्दान्तं पौगण्डं दशमावधि ।
कैशोरमा पञ्चदशात् यौवनं तु ततः परमिति” श्रीध-
रदर्शिते एकादशावधिपञ्चदशपर्य्यन्तवर्षपयमि “मन्तं
वयसि कैशोरे भृयानुग्रहकारकम्” भाग० ३१२८ । १८
स्वार्थे क । तत्रार्थे “कैशोरकं मानयन् वै सह ताभिर्मु-
मोद ह” हरिवं० ७७

कैशोरिकेय पुंस्त्री० कशोरी + स्वार्थे क ततः शुभ्रा० अपत्ये ढक् । किशोर्य्या अपत्ये

कोक पुंस्त्री कुक--आदाने अच् । १ चक्रवाके “हंसारवैः

कोकरवैश्च” भा० आनु० २६ अ० “विरहविधुरकोकद्वन्द्व-
शोकं विभिन्दन्” उद्भटः । २ वृके “वनेयूथपरिभ्रष्टा
मृगी कोकै (वृकैः) रिवार्द्दिता” रामा० । ३ भेके
च स्त्रियां ङीप् । ४ ज्येष्ठ्याम् (टिकटिकी) ५ खर्ज्जूरी
वृक्षे च पु० मेदि० ६ विष्णौ पु० त्रिका०

कोकड पुंस्त्री कोकं तद्रवं लाति ला--क लस्य डः । विलेशय-

मृगभेदे चमरमृगे राजनि० स्त्रियां ङीष् ।

कोकदेव पुं स्त्री कोकैव दोव्यति दिव--अच् । कपिते राजनि०

कोकनद न० कोकान् चक्रवाकान् नदति नादयति अन्तर्भूत-

ण्यर्थे नद--अच् । १ रक्तकनुदे, २ रक्तपद्मे च । “व्याको-
शकोकनदतां दधते नलिन्यः” माघः । “सरसः
कोकनदभ्रमादिव” नैप०

कोकतदच्छवि पु० कोकनदस्य छविरिव छविर्दी प्तर्यस्य ।

१ रक्रवर्णे २ तद्वति त्रि० अमरः ।

कोकबन्धु पु० कोकयोश्चक्रवाकयोमेर्लनकारित्वात् बन्धुरिव । सूर्य्ये शब्दच० ।

कोकरक पु० ब० व० देशभेदे । “वकाः कोकरकाः प्रोष्ठाः

समवेगवशास्तया” भा० भी० ९ देशकथते ।

कोकवाच पुंस्त्री कोकस्य वाचेव वाचा वाक् रवोयस्य ।

विलेशयमृगभेदे राजनि०

कोकाग्र पु० कोकस्येवाग्रमस्य । समष्ठिनक्षुपभेदे राजनि०

कोकामुख न० भारतप्तसिते तीर्यभेदे “कोकामुखमुपस्पृश्य

ब्रह्मचारो यतव्रतः । जातिस्मरत्वमाप्नोति दृष्टमेतत्
पुरातनैः” भा० व० ८४ अ० “कोकामुखे विगाह्याथ” भा०
आनु० । २५ अ०

कोकाह पु० कोकैवाहन्ति आ + हन--ड । श्वेताश्वे हेमच०

कोकिल पुंस्त्री कुक--इलच् । स्वनामख्याते पक्षिणि अमरः ।

“पुस्कोकिलो यन्मधुरं चुकूज” कुम० स्त्रियाम् जाति-
त्वऽपि--अजा० टाप् । “कोकिलाकलरवो वनेवने
नूनमल निगडो भविष्यति” उद्भटः । “अवक्रुष्टः कोकि-
ति” सि० की० “र तदूतिपदेपु कोकिलाम्” कुमा०
“कोकिलामञ्जुवादिनीम्” रघुः । अङ्गारे पु० त्रिका०
संज्ञायां कन् । “हयदशभिर्नजौ भजजला गुरु नद्द-
टकम् । मुनिगुहकार्णवैः कृतयति वद कोकिलकम्”
वृ० र० उक्ते २ छन्दोभेदे न० ।

कोकिलनयन पु० कोकिलस्य नयनमिव रक्तं पुष्पमस्य ।

अतिरक्तपुष्पे (तालमाखना) (कुलेखाड़ा) वृक्षभेदे रमानाथः

कोकिलाक्ष पु० कोकिलस्याक्षीव रक्तं पुष्पमस्य षच्समा० । (तालमाखना) वृक्षभेदे अमरः

कोकिलावास पु० ६ त० । आम्रवृक्ष राजनि०

कोकिलासन न० रुद्रयामलोक्ते आसनभेदे तल्लक्षणम् यथा

“अथान्यदासनं वक्ष्ये येन सिद्धो भवेन्नरः । निरुन्ध्याद्-
वायुसञ्चारं कोकिलाख्यासनेन च । ऊर्द्धं हस्तद्वयं कृत्वा
तदग्रे पादयोः सुधीः । बद्ध्वाङ्गुष्ठद्वयं नाथ । शनैः सनैः
प्रकारयेत् । पद्मासनं समाकृत्य कुर्परोपरि संस्थितः”

कोकिलेक्षु पु० कोकिल इव कृष्णः इक्षुः । (काजला)इक्षु-

भेदे । राजनि०

कोकिलेष्टा स्त्री० ६ त० । महाजम्बूवृक्षे राजनि०

कोकिलोत्सव पु० कोकिलानामुत्सवोऽत्र । आम्रवृक्षे

राजनि०

कोङ्क पु० ब० व० । देशभेदे । “चक्रमाणं कोङ्कवेङ्कटकान्” (देशान्) भाग० ५ । ६ । ८

कोङ्कण पु० ब० व० । देशभेदे स च देशः वृ० सं० कूर्मविभागे

दक्षिणस्यामुक्तः “शिविकफणिकारकोङ्कणामीराः” ।
“अथापरे जनपदा दक्षिणा मरतर्षभ! । कौकुट्टकास्तथा
चोलाः कोङ्कणा मलवानरा” भा० भी० ९ अ० । क्वचि-
देकत्वम् “नायं वर्ज्यः कोङ्कणे मागधे च” मु० चि०
“मालवे गौडदेशे च सिन्धदेशे च कोङ्कणे । व्रतं चूडां
विवाहश्च वर्ज्जयेन्मकरे गुरौ” पी० धा० । तेषां राजा
अण् । कौङ्कण तद्देशनृपे वहुषु तस्य लुक् । तत्रार्ये
स्वार्थे क “कुन्तलांश्च तथा वङ्गान् शाल्वान् कोङ्गणकां-
स्तथा (विजिथ) हरिवं० १४ अ०

कोङ्कणासुत पु० कोङ्कणदेशोद्भवा अण् तस्य लुक् कोङ्कणा

रेणुका ६ त० । परशुरामे शब्दमा०

कोच त्रि० कुच--ज्वला० कर्त्तरि ण । १ सङ्कोचके, । भावे

वञ् । २ सङ्कोचे “एकैकस्य त्वक्वोचभदस्वपनाङ्गसादाः
कुष्ठे महत्पूर्वयुते भवन्ति” सुश्रु० ब्रह्मवे० पु० उक्ते
३ जातिभेदे(क्ॐच)“तीवरस्यैव स पुत्रः मांसच्छेदिससद्भवः ।
कोचजातिरिति इति तत्रोक्तेः । स्त्रिया ङीष् । ४
ततप्रधाने देशे पु० । सोऽभिजव स्य अण् । कोच तद्वेश-
वासिनि बहुषु तस्य अणोलुक् ।
पृष्ठ २२६२

कोजानर पु० कोजागर्त्ति इति लक्ष्म्याउक्तिरत्र काले पृषो० ।

आश्विनपौर्ण्णपास्याम् । तत्कृत्यव्यवस्थादि ति० त०
कल्पतरौ ब्रह्मपुराणम् “आश्वयुज्यां पौर्णमास्यां भिकु-
म्भोवालुकार्णवात् । आयाति सेनया सार्द्धं कृत्वा युद्धं
सुदारुणम् । तस्मात्तत्र नरैर्मार्गाः स्वगेहस्य समीपतः ।
शोधितव्याः प्रयत्नेन भूषितव्याश्च मण्डनैः । पुष्पार्घ्य-
फलमूलान्नसर्षपप्रकरैस्तथा । वेश्मानि भूषितव्यानि ना
नावर्णैर्विशेषतः । सुस्नातैरनुलिप्तैश्च नरैर्भाव्यं
सवान्धवैः । दिवा तत्र न भीक्तव्यं मनुष्यैश्च विवेकेभिः । स्त्री-
वालमूर्खवृद्धैश्च भोक्तव्यं पूजितैः सुरैः” । पूजितैः
सुरैः पूजितसुरैरित्यर्थः । “पूज्याश्च सफलैः पुष्पैस्तथाद्वारो-
र्द्धभित्तयः । द्वारोपान्ते सुदीप्तस्तु संपज्योहव्यवाहनः ।
यवाक्षतघतोपेतैस्तण्डुलैश्च सुतर्पितः । संपूजितव्यः
पूर्ण्णेन्दुः पयसा पायसेन च । स्कन्दः सभार्य्यरुद्रश्च
तथा नन्दीश्वरोमुनिः । गोमद्भिः सुरभिः पूज्या
छागवद्भिर्हुताशनः । उरभ्रवद्भिर्व्वरुणोगजवद्भिर्विनायकः ।
पूज्यः साश्वैश्च रेवन्तो यथाविभवविस्तरैः । ततः पूज्यो-
निकुम्भोऽपि समांसैस्तिलतण्डुलैः । सुगन्धिभिर्घृतो-
पेतैः कृशराख्यैश्च भूरिभिः । ब्राह्मणान् भोजयित्वा
तु भोक्तव्यं मांसवर्जितम् । वह्निपार्श्वगतैर्नेया दृष्ट्वा
क्रीड़ाः पृथग्विधाः” । ततश्च द्वारोर्द्ध्वभित्तिह-
व्यवाहपूर्णेन्दुसभार्य्यरुद्रस्कन्दनन्दीश्वरमुनयः सर्व्व
पूज्याः । द्वारोर्द्ध्वभित्तिशब्दोऽत्र बहुवचनान्तः ।
नन्दीश्वरोमुनिरेकः । गोमता सुरभिः,
छागवता हुताशनः मेषवता वरुणः, हस्तिमता विनायकः,
अश्ववता रेवन्तः सर्व्वैरव निकुम्भः पूज्यः, महार्णवे
मिङ्गपुराणम् । “आश्विने पौर्ण्णमास्यान्तु चरेज्जागरणं
निशि । कौमुदी सा समाख्याता कार्य्या लोकविभूतये ।
कौमद्यां पूजयेल्लक्ष्मीमिन्द्रमैरावते स्थितम् । सुगन्धि-
र्निशि सद्वेशो अक्षैर्ज्जागरणं चरेत्” । तथा “निशीथे
वरदा लक्ष्मीः कोजागर्त्तीत भाषिणी । तस्मै वित्तं
प्रयच्छामि अक्षैः क्रीड़ां करोति यः । नारिकेलैश्चिपिटकैः
पितन् देवान् समर्च्चयेत् । बन्धूंश्च प्रीणयेत्तेन स्वयं
तदशनोभवेत्” । अत्र निशीति निशीथ इति चाभिधानात्
रात्रिकृत्यमिदम् । ततश्च “प्रदीषव्यापिनी ग्राह्या तिथि-
र्नक्तव्रते सदा । प्रदोषोऽस्तमयादूर्द्ध्वं घटिकाद्वयमिध्यते”
इति वत्सवचनात् यद्दिने प्रदोषनिशीथोभयव्यापिनी
पौर्णमासी तद्दिने कोजागरकृत्यम् उभयव्माप्त्यनुरो-
धात् । यदा तु पूर्बदिने निशीथव्याप्तिः परदिने प्रदोष-
व्याप्तिस्तदा परेद्युस्तत्कृत्यम् । प्रधानपूजाकालव्याप्त्य-
नुरोधात् । यदा तु पूर्ब्बदिने निशीथव्याप्तिः परदिने न
प्रदोषव्याप्तिस्तदा सुतरा पूर्ब्बेद्युस्तत्कृत्यम् “अहःसु
तिथयः पुण्याः कर्म्मानुष्ठानतोदिवा । नक्तादिव्रतयोगे तु
रात्रियोगोविशिष्यते” इति वचनात्” ।
“नारिकेलोदकं पीत्वा अक्षैर्जागरणं निशि । तस्मै वित्तं
प्रयच्छामि कोजागर्त्ति महीतले” कृत्यकौमुदी । तत्राक्ष-
क्रीड़ा कार्य्या । अक्षक्रीडाविशेषश्च चतुरङ्गशब्दे वक्ष्यते ।
“या तु कोजागरे याते” ति० त० राजमार्त्तण्डः ।

कोट पु० कुट--घज् । १ कौटिल्ये । आधारे घञ् । दूर्गे(गड)

मेदि० । ततः चतुरर्थ्याम् अश्मा० र कोटर कोटसन्नि-
कृष्टदेशादौ त्रि०

कोटक पुं स्त्री कुट--ल्वुल् जातिभेदे ब्रह्मवै० जातिशब्दे विवृतिः स्त्रियां ङीष् ।

कोटचक्र न० कोटस्य दुर्गस्य शुभाशुभज्ञापनार्थे अष्टविध

चक्रभेदे चक्रशब्दे विवृतिः । “कोटचक्रमष्टविधं चतुर-
स्रादिभेदतः “इति नरपतिजयचर्य्या

कोटर पुंन० कोटं कौटिल्यं राति रा--क । वृक्षस्कन्धादिस्थग-

ह्वरे । “चलत्फणाधरमिव कोटरं तरुः” माघः ।
“महाहङ्कारविटपैन्द्रियाङ्कुरकोटरः” भा० आश्व०
४७ अ० र दुर्गसन्निकृष्टदेशादौं त्रि० व्युत्पत्तिः लोटशब्दे
दृश्या । कोटर दुर्गसन्निकृष्टं वनम् तथाभूतवृक्षाणां वा
वनम् कोटरा० पूर्ब्बपददीर्घः णत्वञ्च । कोटरावणम्
वनभेदे न० ।

कोटरादि पु० वनशब्दे परे पूर्ब्बस्वरदीर्घनिमित्ते पा० ग०

सृत्रोक्ते शब्दगणे स च गणः । “कोटर मिश्रक सिध्रक
पुरग शारिक” ।

कोटरी स्त्री कोटं कौटिल्यं रीणाति री--बधे गतौ च क्विप्

१ नग्नायां स्त्रियां २ दुर्गायाञ्च अमरटीका ।

कोटवी स्त्री कोटं कौटिल्यं दुर्गं वा वाति वा--गतौ हिंसने

क गौरा० ङीष् । १ दुर्गायाम् धरणिः । २ नग्नायां स्त्रियां
अमरटीका ।

कोटि स्त्री कुट--इञ् । १ धनुषोऽग्रभागे अमरः २ वस्तुमात्र-

स्याग्रभागे, ३ अस्त्राणां कोणे ४ उत्कर्षे ५ शतलक्षामत-
संख्यायां, ६ तत्संख्येये च मेदि० । ७ पृक्कायाम्
(पिड़िङ्गशाक) अमरः ८ संशयस्यालम्बने, वादे निर्ण-
यार्थं कृते ९ पूर्व्वपक्षे, वा ङीप् कोटीत्यप्यत्र । “धनु-
ष्कोट्यातुद्य कर्णेन वीरम्” भा० आ० १ अ० । “तेन
पृष्ठ २२६३
मूमिनिहितैककोटि तत्” (कार्म्मुकम्) रघुः ।
“आवर्जितजटामौलिविलम्बिशशिकोटयः” कुमा० “मूर्द्ध्नि-
स्खलत्तुहिनदीधितिकोटिमेनम्” माघः “विप्रतिपत्तिवा-
क्यजन्यकोट्युपस्थितिः” संशयहेतूक्तौ गदाधरः । “इष्टा-
द्वाहोर्यः स्यात्तत्स्पर्द्धिन्यां दिशीतरोबाहुः । त्र्यस्रे
चतुरस्रे वा सा कोटिः कीर्त्तिता तज्ज्ञैः” १० लीलावत्युक्ते
त्रिकोणादिक्षेत्रावयवरेखाभेदे स्त्री “तथायते तद्भुजकोटि
वातः” लीला० “त्रिनिर्मैः पदं तानि चत्वारि चक्रे
क्रमात् स्यादयुग्युग्मसंज्ञा च तेषाम् । अयुग्ये पदे यातम्
एष्यन्तु युग्मे भुजोबाहुहीनं त्रिमं कोटिरुक्ता” सि० शि०
उक्ते राशिचक्रस्य ११ वृतीयांशे १२ तत्रोक्ते छायानि-
रूपणार्थे कल्प्यमानक्षेत्रावयवरेस्वाभेदे यथा “दिक्सूत्र-
सम्पातगतस्य शङ्कोश्छायाग्रपूर्व्वापरसूत्रमध्यम् । दोर्दोः-
प्रभावर्गवियोनमूलं कोटिर्नरात् प्रानपरा ततः स्यात्”
सि० शि०” “दिक्संपातस्थस्य शङ्कोर्भाग्रं यत्र पतति
तस्य पर्ब्बापरसूत्रस्य च यदन्तरं स दोरित्युच्यते देश्छा-
ययोर्वर्गान्तरपदं पूर्ब्बापरा कोटिरिति” प्रमि० १३ चन्द्रस्य
शृङ्गोन्नतिज्ञानार्थं तत्रैव दर्शिते क्षेत्रावयवभेदे च यथा
“योऽधो नरो दिनकृतः स विधोरुदग्रशङ्क्वन्वितो मम
मता खलु सैव कोटिः” सि० शि०
“यो रवेरधः शङ्कुरसौ विधोरूर्ध्वशङ्कुना युतः सैव
कोटिर्मम मता अत्रोपपत्तिः । इहार्केन्द्वोर्याम्योत्तरभावेन
यदन्तरं स भुजः । ऊर्ध्वाधरभावेन यदन्तरं मा कोटिः ।
सा चैवं भवति । उदयेऽस्ते वा यदि शृङ्गोन्नतिस्तदा
रविशङ्कोरभावाच्छशिवङ्कुरेव कोटिः । यदा निशि रवेर-
धः शङ्कुस्तदा स शङ्कु र्वधोरुदयशङ्कुना युतो यावांस्ता-
वत् तयोर्यत्रस्थयारूर्द्धावरमन्तरं सैव कोटिरुचिता ।
यतो द्रष्ट्रा पुरुषेणात्मनोऽवस्थानवशेन शशिनः शृङ्गमु
न्नतमवलोक्यम् । अतः स्वावस्थानसमसूत्रादूध्वेरूपिण्या
कोट्या भवितव्यम् । भुजकोटिकर्णकृतं त्र्यस्रं दृष्टेरग्रत
आदर्शवत् संमुखं यथा भवति तथा कल्प्यम्” प्रमि०
तत्रैवोक्ते १४ उदयास्तसूत्रकल्पितक्षेत्रावयवभेदे यथा
“सूत्राद्दिवाशप्रुतलं यमंशं याम्यां गतं हि द्युनिशं
कुजोर्द्धे । अधश्च सौम्यां निशि सौम्यमस्मात् सद्युक्ति-
युक्तं नृतल निरुक्तम् । सौन्याग्रकाग्रान्नृतलं हि
याम्यं याम्याग्रकाग्रात् पुनरेव याम्यम् । तदन्तरैक्यं
समवृत्तखेटमध्यांशजीवां भुवि बाहुमाहुः । दृग्ज्यां श्रुतिं
चाथ तयोस्तु कोटिं पूर्वापरां वर्गवियोगमूलम्” सि० शि०
“क्षितिजस्याहोरात्रवृत्तसंपातयोर्बद्धं सूत्रमुदयास्तसूत्रम् ।
ग्रहस्थानाल्लम्बः शङ्कुः! तस्य तलमुदयास्तसूत्राद्दक्षिणतो
भवति । यतः क्षितिजादुपरि दक्षिणतोऽहोरात्रवृत्तं
गतम् । अधस्तूत्तरतो गतम् । अतो निश्युत्तरं नृतलम् ।
अथ भुज उच्यते । उत्तरगोलेऽग्रीत्तरा नृतल याम्य-
मतस्तेनोनाग्रा बाहुभेवति । बाहुर्नाम शङ्कुप्राच्यपर-
सूत्रयोरन्तरम् । यदाऽग्रा शङ्कुतलादूना तदा तयोन्तरं
दक्षिणं शङ्कुतलं बाहुः स्यात् । एवं समवृत्तप्रवेशादुपरि
दक्षिणगोले त्वग्रा याम्या शङ्कुतलं च याम्यं तयोर्योगे
कृते बाहुः स्यात् । रविसमसण्डलयोरन्तरांशानां ज्या
बाहुः । तत्र या दृग्ज्या सृ कर्णः । तयोर्वर्गान्तरपदं
पूर्व्वापरा कोटिः” प्रमि०
“शतं शतसहखाणां केटिमाहुर्मनीषिणः” रामा० ।
तत्र संख्यायाम् “योनिकोटिसहस्रेषु सृतिं चास्याहुरा-
त्मनः” मनुः । “कोटिकोटिगुणितं दिवि दायि” नैष० ।
संख्यान्विते “कोटीश्चतस्रोदश चाहरेति” रघुः । ततो वारे
कृत्वसुच् । कोटिकृत्वस् कोटिवारार्थे अव्य० । कारकार्थवृ-
त्तेस्ततः वीप्सायां शम् । कोटिशस् वीप्सान्वितकारकरूपे
तदर्थे अव्य० कोटिशोददाति ।

कोटिक पु० कोट्या बहुधा कायति प्रकाशते कै--क । इन्द्रगोपकीटे जटाधरः

कोटिकास्य पु० कोटिकस्येवास्यमस्य । शिविधंश्ये सुरथपुत्रे

नृपभेदे “अहन्तु राज्ञः सुरथस्य पुत्रः यं कोटिकास्येति
विदुर्मनुष्याः” भा० व० २६४ अ० । द्रौपदीं प्रति तदुक्तिः

कोटिजित् पु० कोटिं कविकोटिं, पणे केटिमितं द्रव्यं वा

जितवान् जि--भूते क्विप् । रघुवंशादिकाव्यकारे कालिदामे
त्रिका० ।

कोटिज्या स्त्री सू० ति० उक्ते अहस्पटतासाधनाङ्गे

चापावयवभेदे तदानयनं यथा
“गताद्भुजज्या विषमे गम्यात् कोटिः पदे भवेत् । युग्मे
तु गम्याद्वाहुज्या कोटिज्या तु मताद्भवेत्” सू० सि० ।
“विषमे पदे गताद्ग्रहस्य पदादितो यद्गतं राशित्रिभागात्मकं-
प्राग् ज्ञातं तस्मादित्यर्थः भुञज्या स्यात् । गम्याद्गतोनं
त्रिभं ग्रहात् पदान्तावधिकमेत्यम् । तस्मात् कोटिः
केटिज्या स्यात् । युग्मे समे तुकारात् पदे एव्याद्भुजज्या,
गतात् कोटिज्या स्यात् तुकारो विशेषद्योतकः । एकस्मा-
देवोक्तरीत्या द्वयं साधितमित्यर्थः । अत्रोपपत्तिः विषमपदे
ग्रहोच्चोर्ध्वाधररेखान्तरानुसारेण फलमुत्पद्यते ततो
वृत्तात्तस्तदतरमर्धज्या भूजरूपा तदर्द्धचाप तदन्तरांशा
पृष्ठ २२६४
वृत्तभागस्था गताः । ऊर्ध्वाधररेखामत्स्यसम्पन्नतिर्यग्रे-
खाग्रहयोरन्तरसूत्रमर्धज्यापदान्तः कोटिज्या भुजोत्क्र-
मज्योनव्यासार्धरेखारूपकोटितुल्यत्वात् । तदद्धचापं
भुजांशोनं त्रिभमित्रि गम्यात् कोठिज्या । समपदे ग्रहोर्ध्वा-
धररेखान्तर तिर्यगर्धज्या भुजज्येति तदर्धं चापं यद्येष्यं
तिर्यग्रेखाग्रहान्तरं तिर्यगर्धज्याकोटितुल्यत्वात् कोटि-
स्तच्चापं पदगतमित्युपपन्नं गतादित्यादि” रङ्गनाथः

कोटितीर्य न० कोटिः तीर्थान्यत्र । १ अवन्तिकेशमहाकालस-

न्निधिरये तीर्थभेदे । “महाकालं ततोगच्छेत् नियतो
नितयाशनः । कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत्”
भा० व० ८२ अ० । २ पञ्चनदातर्गते तीर्थभेदे च । “ततः
पञ्चतदं गत्वा नियतोनियताशनः । कोटितीर्थमुप-
स्पृश्य हयमेधफलं लभेत्” भा० ८३ अ०

कोटिपात्र न० कोटिरग्रं पात्रे जलाशयेऽस्य । केनिपातके

हेमच० तदग्रस्य जले पातनेन नौचालनात्तस्य
तथावम् । शब्दकल्पद्रुमे पुंख्वोक्तिः प्रामादिकी “केनिपातः
कोटिपात्रमरित्रञ्चोडुपः प्लव” इति हेमचन्द्रे क्लीवत्व-
निर्द्देशात् ।

कोटिफल न० ६ त० । त्रिकोणादिक्षेत्रावयवस्य कोटेः फले ।

सि० शि० तदायनप्रकारोदर्शतोयथा । “स्वेनाहते परिधिना
भुजकोटिजीवे भांशै ३६० र्हृते च भुजकोटिफलाह्वये
स्तः” मू० । “अत्रोपपत्तिः । यावत् केन्द्रप्रतिमण्डले
तावदेव नीचोच्चवृत्ते स्यात् । अतः प्रतिमण्डलदोःकोटिज्ये
अनुपातेन नीचोच्चवृत्ते परिणाम्येते यदिभांशवृत्ते ३६० एते
दोः कोटिज्ये तदा परिध्यंशवृत्ते किमिति । अथवा त्रि-
ज्याव्यासार्धे एते दोःकोटिज्ये तदान्त्यफलज्याव्यासार्धे
किमिति । फलं तुंल्यमेव” प्रमि० ।
उक्तञ्च सू० सि० रङ्गनाथाम्यां यथा
“तद्गुणे भुजकोटिज्येभगणांशविभाजिते । तद्भुजज्याफल-
धनुर्मान्दं लिप्तादिकं फलम्” मू० “भुजकोटिज्ये मन्द-
शीघ्रान्यतरसम्बन्धेन केन्द्रभुजकोटिज्ये तद्गुणे स्वीयस्फु-
टपरिधिना गुणिते मगणांशैः षष्ट्यतिकशतत्रयेण भक्ते
भुजफतकोटिफले भवतः । मन्दकेन्द्रभुजज्योत्पन्नफलस्य
धनुःफलादिकं मान्दं फलं भवदि । अत्रोपपत्तिः ।
कक्षास्थोच्चस्थानस्थितदेवतया स्वहस्तस्थितसूत्रपोतं ग्रह-
विव्वं स्वाभिमुखाकर्पणेन कक्षास्थमध्यग्रहस्थानात्
परमफलज्यान्तरितस्थाने आकर्षणसूत्रमार्गरूपतिर्यक्कर्ण-
मार्गेणाकृयते । तेन मध्यग्रहस्थानीयकक्षाप्रदेशादन्त्यफ-
लज्याव्यासार्धेनोत्पन्नवृत्ते भगणांशाङ्किते भूमध्यग्रहस्पृ-
ग्रेस्वासक्ततद्वृ त्तप्रदेशरूपोच्चस्थानात् केन्द्रान्तरेण कक्षावि-
परीतमार्गे तद्वृत्तपरिधौ ग्रहो भवति । तस्मिन्नीचोच्च-
वृत्ते ऊर्ध्वरेखाग्रहयोस्तिर्यगन्तरसूत्रमर्धज्याकारं
परमफलज्यानुरुद्धं भुजफलम् । तस्मिन्नेव वृत्ते व्यासमित-
तिर्यग्नेखाग्रहयोरन्तरमूर्ध्वाधरमर्धज्याकारं परमफल-
ज्यानुरुद्धं कोटिफलम् । एते तत्र कक्षास्थभुजज्याको-
टिज्यावद्भुजकोटिसृपे इति । कक्षास्थभगणाशप्रमाणेनैते
भुजज्याकीटिज्यारूपे भुजकोटी तदा कक्षास्थभागप्रमा-
णानुरद्धप्रागुक्तनीचोच्चपरिधिभागैः केइत्यनुपातेन
फलवृत्तस्थत्वाद्भुजफलकोटिफले” रङ्गनाथः

कोटिर पु० काटिं राति रा--क । १ इन्द्रे, २ नकुले, ३ इन्द्रगो-

पकीटे च मेदि०

कोटि(टी)वर्षा स्त्री० कोटिभिरग्रेर्वर्षति मधु वृष--अण् ।

(पिड़िङ्ग) १ शाकभेदे । अमरः दीर्घमध्यस्तदर्थे शब्दच०
२ वाणामुरपुरे न० शब्दर०

कोटि(टी)श पु० कोट्या अग्रेण श्यति शो--क । १ लोष्टभेद-

नेऽस्त्र (मै)(नुगर)इति वा ख्याते पदार्थे रत्नको० ह्रस्व-
मध्यः वासुकिवंश्ये २ नागभेदे पु० “कोटिशोमानसः पुर्ण्णः
शलः पालोहलीमकः” भा० आ० ५७ अ० कासुकिवंश्योक्तौ

कोटी स्त्री० कुट--इन् ङीप् । (पिड़िङ्ग) १ शाकभेदे शब्दरत्ना०

२ कोटिशब्दार्थे च “प्रतोदैश्चापि कोटीभिर्हुङ्कारैः साधु-
वाहितः” भा० द्रो० ८९ अ०

कोटीर पु० कोटिमीरयति ईर--अण् । १ किरीटे, हेमच०

२ जटायां त्रिका० “कोटीरबन्धनधनुर्गुणयोगपट्टेति” नैष०

कोट्ट पु० कुट्ट--घञ् नि० गुणः । दुर्गे (गड़) अमरः २ पुरभेदे

(कोटकाङ्गडा) ३ राजधानीभेदे च न० हेमच०

कोट्टवी स्त्री० कोट्टं वाति वा--क गौरा० ङीष् । १ नग्नायां

मुक्तकेश्यां स्त्रियाम् २ दुर्गायाञ्च जटा० ३ वाणासुरमातरि
च तत्र दुर्गायाम् हरिबं० १८५ अ०
“कुमाररक्षणार्थाय विम्रती सुतनुं तदा । दिम्वासा
देववचनात् प्रातिष्टदथ कोट्टवी । लम्बा नाभ महाभागा
भागो देव्यास्तथाष्टमः । चित्रा कनकशक्तिस्तु सा च
लग्ना स्थितान्तरे । अथान्तरा कुमारस्य देवीं दृष्टा
महाभुजः । पराड्मुखस्ततो वाक्यमुवाच मधुसूदनः ।
भगवानुवाच अपमच्छावगच्छ त्वं धिक् तामिति च
सोऽब्रवीत् । किमेवं कुरुषे विघ्नं निश्चितस्य बधम्प्रति ।
वैशम्पायन उवाच । श्रुत्वैव वचनं तस्य कोटृवी तु तदावि-
पृष्ठ २२६५
भौः । नैब वासः समाधत्ते कुमार रिरक्षणात्” । १८५ अ०
वाणमातरि भाग० १० । ६ । ३९ “तन्माता कोट्टवी नाम
नग्ना मुक्तशिरोरुहा । पुरोऽवतस्थे कृष्णस्य पुत्रप्राण-
विरक्षया” उभयत्र नग्नत्वमुक्रकेशत्वविशेषणं तत्काले
तथाभूतत्वज्ञापनाय अतस्तयोस्तदा लग्नत्वमुक्तकेशयुक्त-
त्वात्तथात्वत्वम्

कोट्टवीपुर न० ६ त० वाणासुरपुरे तन्मातुस्तत्र प्रधानत्वात्

तयैव वाणासुरस्य रक्षणात् तत्पुरस्य तन्नामत्वम् ।

कोट्टार पु० कुट्ट--आरक् पृषो० । १ कूपे २ नागरे ३ पुष्करिण्याः

पाटके च । (पाड) मेदि०

कोठ पु० कुठि--अच् नि० नलोपः । मण्डलाकारे कुष्ठरोगे ।

तल्लक्षणमुक्तं निदाने “असम्यावमनो दीर्णपित्तश्लेष्मान्न
निग्रहैः मण्डलानि” सनण्डूनि रागवति बहूनि च ।
उत्कोठः सानुवन्धश्च कोठइत्यभिधीयते” इति माधवकरः ।
रक्षितेन चान्यथोक्वम् “वरटीदष्टनिकाशः कण्डूमान्
लोहितोऽस्रकफपितात् । क्षणिकोत्पादविनाशः कोठैति
निगथ्यते तज्ज्ञैः” “उद्धर्षणन्तु विज्ञेयं कण्डूकोठा-
निलापहम्” “कण्डूकोठ निलस्तम्भमलरोगापहश्च सः”
“उद्घर्षण न्त्विष्टिकया कण्डूकोठविनाशनम्” इति च सुश्रुतः

कोठर पु० कुठि--अर पृषो० । अङ्कोठकवृक्षे राजनि०

कोठरपुष्पो स्त्री कोठरस्य पुष्पमिव पुष्पमस्या ङीप् ।

वृद्धकारके राजनि०

कोण पु० कुण--करणे घज् कर्त्तरि अच् वा । येन धनुरा-

कृतिना काष्ठेन वीणादयोवाद्यन्ते तस्मिन् वांदनसाधने
१ काष्ठभेदे २ अश्रौ, अमरः । ३ गृहादोनामेकदेशे,
४ अस्त्राणामग्रभागे, ५ लगुडे, मेदि० ६ मङ्गलग्रहे हेम०
७ शनिग्रहे विश्वः । द्वयो र्दशोर्मध्यभागे ८ विदिशि राजनि०
“कनककोणैरभिहन्यमानः” काद० “भेरीमृदङ्गवीणानां
कोणसंघटितः पुनः” रामा० “स्वगृहस्याङ्गणे तेन चत्वारः
स्वर्णपूरिताः । कुम्भाश्चतुर्षु कोणेषु निगूढाः स्थापिता
भुवि” कथास० । “सुवर्णकीणाभिहतः प्राणदद्वामदु-
न्दुभिः” रामा० “विन्दुत्रिकोणवसुकोणदशारयुग्मम्”
तन्त्रण० । समकोणं विषमकोणम् क्षेत्रम्

कोणकुण पु० कोणे मस्तकैकदेशे कुणति चलति कुण--क ।

मत्कुणे (उकुण) हेमच०

कोणाघात पु० “ढक्काशतसहस्राणि भेरीशतशतानि च ।

एकदा यत्र हन्यन्ते कोणाधातः सौच्यते” इति
भरतोक्ते वाद्यसंघाते ३ त० । काष्ठेन वीणादेस्ताडने
च । “कोणाघातेषु गर्ज्जत्प्रलयघनघटान्येन्यसंध
ट्टचण्डः” वेणी०

कोणि त्रि० कुण्--इन् । आदानशक्तिहीनहस्तयुक्ते (कोपा) अमरः

कोथ पु० कुथ--पातित्ये वञ् । १ नेत्ररोगमेदे (केँथो) । कर्त्तरि

अच् । २ गलिते त्रि० मेदि० “मूढेन मांसलुब्धेन यदस्थिशल्यम-
न्नेन सहाभ्यवहृतं यदावगाढ़पुरीषोन्मिश्रमपानेनाधः
प्रेरितमसम्यगागतं गुदं क्षिणोति तत्र क्षतनिमित्तः कोथ
उपजायते” इति सुश्रुतोक्ते गुह्यक्षयकारके ३ भगन्दर
रोगोपद्रवमेदे । भावे घञ् । ४ गलने “तस्मिन् क्षते पूयरुधि-
रावकीर्णमांसकोथे भूमाविव जलसिक्तायां कृमयो
जायन्ते” सुश्रुतः “तत्र सविषमत्स्यकीटदर्द्दुरमूत्रपुरीषकोथ
जाताः” सुश्रु० “कीटमूत्रपुरीषाण्डशवकोथप्रदूषितम्”
(जलम्) सुश्रु० “गोशकृत्कोयजा मन्दा, मध्याः कार्ष्ठष्टि-
कोद्भवाः” सुश्रु०

कोदण्ड न० कु--शब्दे विच् कौःशब्दितोदण्डोऽस्य । १ धनुषि,

“विस्फुर्जच्चण्ड कोदण्डः” भाग० ३ । २१ । ५१ । तत्तुल्यत्वात्
२ भ्रूलतायां, ३ देशभेदे च । अमरः ४ धनूराशौ च ।

कोदार पु० ईषदुदारः कोःकादेशः । धाव्यभेदे “न ग्राह्यं

सर्व्वथा माघवरकोदारकोद्रवम्” कात्या० १, ६, ८, सूत्र
भाष्ये कर्कधृतवाक्यम्

कोद्रव पु० कु--विच् कौः सन् द्रवति द्रु--अच् कर्म्म० । (कोदो)

धान्यभेदे अमरः “कोद्रवोवातलो ग्राही हिमः पित्त-
कफापहः” भावप्र० तद्गुणाउक्ताः । “अयज्ञिया वै
कोद्रवाः” श्रुतिः । “अतोऽन्यदपि संग्राह्यं सदृशं धान्य-
मात्रकम् । न ग्राह्यं सर्वथा माषवरकादारकोद्रवम्”
कात्या० श्रौ० १, ६, ८, सू० भा० कर्कधृतवाक्यम् । तस्य वैश्वदेवे
अग्राह्यता “पचनाग्निं समुज्ज्वाल्य वैश्वदेवं समाच-
रेत् । निष्पावान् कोद्रवान् माषान् कलायांश्चनकांस्त्र्य-
जेत्” काशी० ३५ अ० । तस्याश्राद्धीयता भा० अनु०
४३६३ श्लोके उक्ता यथा “अश्राद्धीयानि धान्यानि
कोद्रवाः पुलकास्तथा”

कोनालक पुंस्त्री कोने जलोने अलति अपर्य्याप्तोति अल--

ण्वुल् । संघ्रचारिणि प्लवे कृष्णपुच्छ श्वेतेदरे जलचर-
पक्षिभेदे हंससारसेत्युपक्रमे कोनालकं पठित्वा “प्लवाः
संवचारिणः” सुश्रु० । इन् कोनालि अप्यत्र । “कुनावी-
कोनालिप्रभृतीन् सेवेत” सुश्रु० स्त्रियां ङीप् ।
पृष्ठ २२६६

कोन्वशिर पु० ब्राह्मणशापेन शूदत्वप्राप्तेक्षत्रियभेदे भा०

अनु० ३५ अ०
“सन्ति चाशीविषसमाः सन्ति मन्दास्तथाऽपरे । विवि-
धानीह वृत्तानि ब्राह्मणानां युधिष्ठिर! । मेकला
द्रविडा लाटाः पौण्ड्राः कोन्वशिरास्तथा । शौण्डीका
दरदा दार्व्वाश्चोलाः शवरवर्व्वराः । किराता
यवनाश्चैव तास्ताः क्षत्त्रयजातयः । वृषलत्वमनुप्राप्ता
ब्राह्मणानाममर्षणात्” ।

कोप पु० कुप--भावे घञ् । १ क्रोधे कामानाप्तिजे चित्तवृत्ति-

भेदे अमरः । “क्रूधद्र हेर्ष्यासूयार्थानां यं प्रति कोपः”
पा० बधाद्यनुकूलश्चित्तकृतिभेदः कोपः । अमर्षशब्दे
विवृतिः । “पादेन प्रहरन् कोपात्” मनुः । “मानः
कोपः सतु द्वेधा प्रणयेर्ष्यासमुद्भवः । द्वयोः प्रणयम नः
स्यात् प्रमोदे सुमहत्यपि । प्रेम्णः कुटिलगामित्वात्
कोपो यः कारणं विना” सा० द० उक्ते शृङ्गाररसाङ्गे
२ प्रणयकोपे च
“अपकह्ररिणि चेत् कोपः कोपे कोपः कथं नहि ।
धर्म्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि” नीतिसा० ।
“रिपौ बन्धौ स्वदेहे च समैकात्म्यं प्रपश्यतः । विवेकिनः
कुतः कोपः स्वदेहावयवेष्विवेति” ३ धातुवैषम्यकारिदोषाणां
विकारभेदे सुश्रु० “तत्र एते स्वभावत एव दोषाणां सञ्च-
यप्रकोपप्रशमप्रतीकारहेतवः” शारीराणां विकाराणा-
मेष वर्गश्चतुर्विधः । चये कोपे शमे चैव हेतुरुक्तश्चि-
कित्सने” सुश्रु० “स्वदेशे निचिता दोषा अन्यस्मिन्
कोपमागताः” सुश्रु०

कोपक्रम न० उपक्रम्यते कर्म्मणि घञ् ६ त० उपक्रमान्त-

त्वात् क्लीवता । कस्य ब्रह्मण उपक्रमे--उपक्रम्यमाणे
१ ब्रह्मणा आदौ ज्ञात्वा उपक्रम्यमाणायां जगतः सृष्टौ
अमरः । कोषज्ञमप्यत्र न० । ६ त० । २ कोपस्य क्रमे पु०

कोपन त्रि० कुप--ताच्छील्ये युच् । कोपशीले जटाध० “चण्ड-

स्त्वत्यन्तकोपनः” अमरः । “आसीद्विभावसुर्नाम महर्षिः
कोपनो भृशम्” भा० आ० २९ अ० । “तपस्वी कोपनो
भृशम्” भा० व० ११ ० अ० “पादानतः कोपनयाऽवधूतः” कुमा०
२ असुरभेदे पु० “शरभः शलभश्चैध कुपनः कोपनः क्रथः”
हरि० ४२ अ० कुप--णिच्--भावे ल्युट् । ३ कोपनिष्पादने
४ दोषविकारकारकव्यापारभेदे न० “स्वदोषकोपनाद्रोगं
लभते मरणान्तिकम्” भा० आश्व० १७ अ० । “यथोंक्तैः
कोपनैर्दोषाः कुपिताः कोष्ठमागताः” सुश्रु० कुप--णिच्
कर्त्तरि ल्यु । ५ कोपसाधके त्रि० “कोपनं कफवातानाः
दुर्न्नाम्रां चाविकं दधि” सुश्रुतः

कोपनक पु० कोपनः कोपशील इव कायति कै--क । १

चीरनामकगन्धद्रव्ये राजनि० स्वार्थेक । २ कोपने त्रि०

कोपनीय त्रि० कुप--कर्म्मणि अनीयर् । द्वेषविषये “ते च

शब्दादयौपस्थिताः परस्परेणाभिहन्यमानास्तदु पायाश्चा-
णिमादयः स्वरूपेणैव कोपनीया भवन्तीति” सा० त० कौ०

कोपयिष्णु त्रि० कुप--णिच् बा० इष्णुच् । परस्य

कोपकारके “वैरायैव तदा न्यस्तं क्षत्रियान् कोपयिष्णुभिः
भा० आ० १७९ अ०

कोपलता स्त्री कोपहेतुर्लता । कर्ण्णस्कोतलतायां राजनि०

कोपिन् पुं स्त्री० अवश्यं कुप्यति णिनि । १ जलपारावते

२ अवश्यकोपशालिनि त्रि० राजनि० स्त्रियां ङीष् ।
कोपयति णिजन्तात् णिनि । ३ कोपसम्पादके त्रि० “सिद्धा-
र्थकः शोणितपित्तकोपी” सुश्रुतः स्त्रियां ङीप् ।

कोमल न० कु--कलच् मुट् च नि० गुणः । १ जले । २ मृदौ,

अकठिने, च त्रि० मेदि० ३ क्षीरिकायां स्त्री० टाप्
शब्दच० । ४ मनोहरे त्रि० शब्दर० । “निशा च शय्या
च शशाङ्ककोमला” नैष० । शशस्याङ्कवन्मृदुला शय्या ।
शशाङ्केन मनोहरा निशा च इत्यर्थः । “अन्तश्चुतः
कोमलरत्नराशीन्” माघः ।

कोमलक त्रि० स्यार्थे क । १ कोमलशब्दार्थे । संज्ञायां क ।

२ मृणाले शब्दच० ।

कोमलवल्कली स्त्री कोमलं बल्कलं यस्याः । लवलील-

तायां (नोयाड़) शब्दचिन्ता० ।

कोमलासन न० आसनशब्ददर्शितमृनादिचर्म्मनिर्म्मिते

आसनभेदे “इदानीं शृणु देवश! रहस्यं कोमलासनम् ।
योगसिद्धिप्राचाराय सिद्ध्यै चर्म्मासनं तु तत्” रुद्रया० ।

कोमासिका स्त्री ईषदुमेव अतसीवृक्षैव आस्ते

आसण्वुल् टाप् अतैत्त्वम् । जालिकायाम् (फलेर जालि)
हारावली ।

कोम्य त्रि० कम--कर्म्मणि ण्यत् पृषो० । काम्ये । “ऊर्द्धा नः

सन्तु कोम्या” ऋ० १ । १७१ । ३ । “कोम्या काम्यानि” भा०

कोयष्टि पु० कं जलं यष्टिरिवास्य पृषो० अत ओत्त्वम् ।

जलकुक्वुभे पक्षिणि । “प्रतुदान् जालपादांश्च कोयष्टिन-
खविष्किरान्” । मनुः संज्ञायां कन् कोयष्टिक (टिटिर)
टिट्टिभपक्षिणि “कपोतपारावतभृङ्गराजपरभृतेत्यादिः
प्रतुदपक्षिगणे कोयष्टिकमुक्त्वा “कषाया मधुरारूक्षाः
फलाहाराः मरुत्कराः । पित्तश्लेष्महराः शीता वद्धमू-
त्राल्पवर्चसः” सुश्रुते तन्मांसगुणां उक्ताः ।
पृष्ठ २२६७

कोर पु० कुल--संस्त्याने अच् लस्य रः । १ संस्त्यानवति कोरका

कारे सुश्रुतीक्ते देहस्थसन्धिभेदे यथा
“त एते सन्धयोऽष्टविधाः । कोरोदूखलसामुद्गप्रतरतुन्नसे-
वनीवायसतुण्डमण्डलशङ्खावर्त्ताः । तेषामङ्गुलिमणि-
बन्धगुलफजानुकूर्परेषु कोराः सन्धयः” । “नाममिरेवा-
कृतयः व्याख्याताः” । कुल--घञ् । २ संस्त्याने पु०

कोरक पुंन० कुल--संस्त्याने ण्वुल् लस्य रः । कलिकायाम् ।

“कलिका कोरकः पुमानित्यमरोक्तिः प्रायिकाभिप्राया
“कोरकं कुद्मलेऽपि स्यात् कक्कोलकमृणालयोः” विश्वोक्तेः
तेन “समुपहरन् विचकार कोरकाणि” म्मर्घ क्लीव
प्रयोगः “कोरकोऽस्त्री कुद्मले स्यात्” मेदि० । २ कक्कोले
३ मृणाले च विश्वः । ४ चोरनामपन्धद्रव्ये जटाध० । ततः
तारका० संजातेऽर्थे इतच् । कोरकित जातमुकुले त्रि०

कोरङ्गी स्त्री० कुर--अङ्गच् गोरा० ङीष् । १ सूक्ष्मैलायाम्

(छोटएलाइच्) अमरः २ पिप्पल्यां राजनि०

कोरदूष पु० कोरं संस्त्यानं दूषयति दूषेर्ण्यन्तात् अण् उप०

स० । (क्ॐदो) ख्याते व्रीहिभेदे अमरः । “निशाषष्टिक
यवगीधूमकोरदूषेत्यादि” सुश्रु० “श्यामाककोरदूषान्नं
तक्रं पित्याकसक्तुभिः” सुश्रु० । ण्वुल् । कोरदूषकोऽप्य-
त्रार्थे । “ईदृशोभविता लोको युगान्ते पर्युपस्थिते ।
वस्त्राणां प्रवरा शाणी धान्यानां कोरदूषर्कः” भा० व० १९० अ०

कोल पु० कुल--संस्त्याने अच् । १ शूकरे २ प्लवे(भेला) अमरः

३ क्रोड़े ४ शनिग्रहे ५ चित्रके (चिता) ६ अङ्कपालौ
७ आलिङ्गने मेदि० । ८ देशभेदे पु० ब० व० शब्दरत्ना० ९ । अस्त्रभेदे पु०
धर० “नेटात् धीवरकत्थाजाते १० जातिभेदे ब्रह्मवै० पु० ।
११ नृपभेदे “करुत्थामादथाक्रीडश्चत्वारस्तस्य चात्मजाः ।
पाण्ड्यश्च केरलश्चैव कोलश्चोलश्च पार्थिवः । तेषां
जनपदाःस्फीताः पाण्ड्याः कोलाः सकेरलाः” हरिवं० ३३ अ० ।
१२ मरिचे न० राजनि० १३ चव्ये(चै)वैद्य० । १४ तोलक
परिमाणे वैद्यकम् । १५ कर्कन्धूवृक्षे स्त्री० गौरा० ङीष् ।
तस्याः फलम् अण् तस्य लुक् । १६ वदरीफले न० । कर्कन्धूश-
ब्दे विवृतिः “वदरीसडशाकारोवृक्षः सूक्ष्मफलोभवेत् ।
अटव्यामेव सा घोण्टा कोलवोण्टेति योच्यते” सूभूतिः
“हस्तिकोलिर्गोपघोण्टा घोण्टा च वदरीच्छदा । शृमाल-
कोलिः कर्कन्धूः” रत्नकोषः “आद्यकोलतुलितप्रका-
शनैः” । “यः कोलतां बल्लवताञ्च बिभ्रत्” मावः ।
कोलवृक्षश्च सुश्रुते अम्लवर्गे उक्तः । तच्च वाक्यं ३३३ पृ० दृश्यम्

कोलक पु० कुल--ण्वुल । १ अङ्कोठवृक्ष, राजनि० २ बहु-

वारवृक्षे जटाधरः (कांकला)च ३ गन्धद्रव्यभेदे, ४ मरिचे,
५ कक्कोले च न० अमरः ।

कोलकन्द पु० कोलैव कन्दोऽस्य । महाकन्दभेदे

राजनि० “कोलकन्दः कटूष्णश्च कृमिशोयविनाशनः । वस्ति-
च्छर्द्दिप्रशमनः विषदोषानिलापहः” राजनि०

कोलकर्कटिका स्त्री० कोलैव कर्कटिका । मधुखर्ज्जूरि-

कायां राजनि०

कोलघोण्टा स्त्री । वदरीभेदे सुभूतिः ।

कोलदल न० कोलं वदरीफलमिव दलमस्य । नखीनामगन्धद्रव्ये अमरः ।

कोलगिरि पु० दक्षिणदिक्स्थे पर्वतभेदे “कृत्स्नं कोलगि-

रिञ्चैव सुरभीपट्टनं तथा” भा० स० ३० अ० सरदेवदक्षि-
णदिग्विजये । कोलाचलादयोऽप्यत्र । कोलाचलमल्लि-
नाथेति तस्य विशेषणं तत्पर्वतस्थितत्वात्

कोलनासिका स्त्री० कोलस्य शूकरस्य नासिकेव । रङ्किणीवृक्षे हारा०

कोलपुच्छ पु० कोलस्य शूकरस्येव पुच्छोऽस्य । कङ्कप-

क्षिणि हारा० ।

कोलमूल न० कोलं वदरीफलमिव मूलमस्य । पिप्पलीमूले राजनि०

कोलम्बक पु० कुल--अम्बच् ओष्ठबमध्यः संज्ञायां कन् ।

तन्त्रीभिन्ने अलाबूप्रभृतिसमुदाये वीणायाः अवयवे भरतः

कोलवल्ली स्त्री० कोलोवराह इव वल्ली तल्लोमतुल्यशुङ्गावत्त्वात् ।

गजपिप्पल्याम् राजनि० । २ शूकरपादिकायां राजनि०

कोलशिम्बि स्त्री कोलपादाकारा शिम्बिरस्याः । (आल्क-

शीति) ख्यातायां शूकरपादिकायां लतायाम् । वा ङीप् ।
“कोलशिभ्वी स्मीरध्नी गुरूष्णा कफवातहृत् । शुक्रा-
ग्निसादलद्वल्या रुचिकृत् बद्धविड़् गुरुः” इति भावप्र०

कोला स्त्री कुल--ज्वला० ण टाप् । १ पिप्पल्याम्, २ चव्ये(चै)

दि० ३ कोलिवृक्षे शब्दरत्ना० । ४ कोलापुरे च

कोलाञ्च पु० ब० व० । देशभेदे शब्दरत्ना०

कोलापुर न० दक्षिणदेशप्रसिद्धे लक्ष्मीदेव्याः स्थाभे पुरभेदे

कोलाविध्वंसिन् त्रि० कोलां पुरभेदे विध्वंसितुं वस्तुं शीलमस्य

विशब्देन धाभोरन्यार्थपरत्वम् । पर्वतवासिनि म्लेच्छभेदे,
“एवं पालयतस्तस्य म्लेच्छाः पर्वतवासिनः । कोलावि-
ध्वंसिनः प्राप्ताः” इति देवीभागवतम् । “कोलाविध्वंसि-
नस्तथेति” देवीमाहा० । कोलाशब्दः कोलाहलवाचकस्तथा
च कोलाहलेनैव राज्यविध्वंसं ये कुर्वन्ति । २ तेषु च ।

कोलाहल पु० कुल--मञ् तमाहलति अच् । बहुविधे दूर

गामिन्यव्यक्ते शब्दे अमरः “शीघं भेरीनिनादेन स्फुट-
कोलाहलेन वै” रामा०
पृष्ठ २२६८

कोलि स्त्री कुल--इन् । वदर्य्याम् पक्षे वा ङीष् अमरः

कोलिसर्पः पु० सगरेण म्लेच्छतां प्रापिते क्षत्रियभेदे । उदा०

केरलशब्दे हरिवं० वाक्यमुक्तम् “कोलिसर्पामाहिषका-
स्तास्ताः क्षत्रियजातयः । वृषलत्वं परिगता ब्राह्मणाना-
मदर्शनात्” भा० आनु० ६६ अ०

को(कौ)लूत पु० कुलूतशब्दार्थे वृ० स० पाठान्तरम् । तस्य राजा अण् कौलूत तन्नृपे

कोल्या स्त्री कोलमर्हति यत् । पिप्पल्यां रत्नमा०

कोल्ल पु० भारतवर्षस्थे पर्वतभेदे “भारतेऽप्यस्मिन् वर्षे सरि

च्छैलाः सन्ति बहवः” इत्युपक्रमे “ऋषभः कूटकः कोल्लः
सह्यगिरिः” इत्यादि भाग० ५ । १९ । १० । उक्तम् । स च
गिरिः वृ० सं० कूर्म्मविभागे “अथ दक्षिणेन लङ्का” इत्युक्रमे
“कर्ण्णाटकमहाटविचित्रकूटनासिककोल्लगिरिचोलाः” इति
दक्षिणस्यामुक्तः । कोल्लगिर्य्यादयोप्यत्र । तत्र भवः तस्य
राजा वा बा० ढक् । कौल्लगिरेय तत्रभवे तन्नृपे च ।
“अर्च्चितः प्रययौ भूयो दक्षिणं सलिलार्ण्णवम् । तत्रापि
द्वाविडैरान्ध्रैरौद्रैर्माहिषकैरपि । तथा कौल्लगिरेयैश्च
युद्धमासीत् किरीटिनः” आ० आश्व० ८३ अ० ।

कोविद पु० कुङ् शब्दे--विच् कोर्वेदस्तं वेत्ति विद--क ।

१ पण्डते २ विदुषि अमरः “समीक्ष्यकारिणं प्राज्ञं धर्म्म
कामार्थकीविदम्” मनुः । “आत्मनैव गुणदोषकोविदः” ।
“श्रौभमार्गसुखगानकोविदेति च” माघः ।

कोविदार पु० कुं भूमिं विदृणाति--वि + दॄ--अण् पृषो० ।

१ रक्तकाञ्चनारे (रक्तकाञ्चन) । अमरः । “कोविदार
कलिकाऽतिकोमला तक्रसिद्धतिलतैलपाचिता । हिङ्गु-
वासकसुवासवासिता वेसवारलुलिताऽतिलोभदा”
पाकशास्त्रम् । काञ्चनारशब्दे गुणाद्युक्तम् । “कशेरु कोवि-
दारश्च तालकन्दस्तथा विषम्” । श्राद्धेदेयकथने वायुपु० ।
“श्वेतकाञ्चनसवृशः कोविदारः” इति श्राद्धविवेकः । २
पारिजाते च । हरिवं० १२६ अ० तड्युत्पत्तिर्दर्शिता यथा
“कोऽप्ययं दारुरित्याहुरजानन्तोयतोजनाः । कोवि-
दार इति ख्यातस्तत्त्वतः स महातरुः । सन्दारः कोवि-
दारश्च पारिजातश्च नामभिः । स वृक्षो ज्ञायते दिव्यो
यस्यैतत् कुसुमोत्तमम्” पारिजातहरणे । “पारि-
जातान् कोविदारान् देवदारदुमास्तथा” भा० व० १५५ अ० ।
अत्र पारिजाताद्भिन्नत्वेन निर्द्देशात रक्तकाञ्चनपरता
स्वार्थे कं । रक्तकाञ्वनवृक्षे “अमन्दैः पिचुमर्द्दैश्च मन्दारैः
कोविदारकैः” काशी० ।

कोश(षं) पुंन० अद्धच्चादि कुश्(ष)--आधारादौ घञ्

कर्त्तरि अच् वा । १ अण्डे शब्दर० । कृताकृतयोः
२ हेमरूप्ययोः अमरः । ३ कुट्मले मुकुले ४ खङ्गपिधाने ।
(खाप) ५ समूहे ६ दिव्यभेदे अमरः । मूर्द्धन्यमध्यस्तु
अभिधानरूपे ७ शब्दपर्य्यायज्ञापकग्रन्थे मेदि० ८
धनाद्यागारे ९ पानपात्रे चषके १० शिम्बायां हेमच० ।
षनसादिमध्यस्थे (कोया) ख्याते ११ पदार्थे धर० ।
शब्दान्तरपूर्व्वस्तु गोलकाकारे १२ पदार्थे यथा “नेत्र-
कोषः” क्षीरस्वामी । तत्र खङ्गपिधाने “वैयाघ्रकोषे
निहितो हेमचित्रत्सरुर्म्महान्” । “पृथुलश्चित्रकोशश्च”
तस्य हेममये कोषे सुतप्ते षावकप्रभे” भा० वि० ४२ अ० ।
बहुशः प्रयोगः । धनागारे “निःशेषविश्राणितकोषजातम्”
मुकुले “मामक्षिणोद् यत्र विभिन्नकोशैः” “भिन्नाद्रिगैरिक-
तटा इव दन्तकोशाः” रघुः १३ त्वगाद्यावरणे कोषवदाव-
रकत्वात् “शरीरकोशाद्यत्तस्याः पार्वत्यानिःसृताम्बिका ।
कौशिकीति समाख्याता ततोलोकेषु गीयते” देवीमा० ।
१४ पिधानमात्रे “सुजातयोः पङ्कजकोशयोः श्रियम्” रघु ।
“कोशमङ्गुष्ठाङ्गुलिपर्वसु विदध्यात्” सुश्रु० “योवा अयं
द्वीपः कुवलयकमलकोषाभ्यन्तरकोशः:” भाग० ५ । १६ । ६ ।
कोश(ष)पानदिव्यञ्च वीरमि० दर्शितोयथा “अथ
कोश(ष)विधिः । तत्र “अतः पं प्रवक्ष्यामि कोश(ष)स्य
विधिमुत्तमम् । शास्त्रविद्भिर्यथा प्रोक्तं सर्वकाला-
विरोधिनम् । पुर्वाह्णे सोपवासस्य स्नातस्यार्द्रपटस्य
च । सशङ्कस्याऽव्यसनिनः कोशपानं विधीयते । इच्छतः
श्रद्दधानस्य देवव्राह्मणसन्निधाविति” । सशङ्कस्य असत्येन
दिव्यकरणेऽनिष्टशङ्कायुक्तस्य कोशपानम् । उग्रदेवता-
स्नानोदकषानं देवतास्नानोदकञ्च प्रसृतित्रर्य ग्राह्यमित्याह
चिष्णुः “उग्रान् देवान् समभ्यर्च्य तत्स्नानोदकात्प्रसृ-
तित्रयं पिबेदिदम्मया न कृतमिति व्याहरन् देवतामिमुखः”
इति । याशवक्ल्योऽपि “देवानुग्रान् समभ्यर्च्य तत्स्ना-
नोदकमाहरेत् । संश्राव्य पाययेत्तस्माज्जलात्तु प्रसृतित्रय-
मिति” । उग्रान्देवान्दुर्गादित्यादीन् । तेषामन्यतमं देवं
प्राड्विवाकः सोपवासो गन्धपुष्पादिभिः सम्प्रूज्य स्नापयि-
त्वा तत्स्नानोदकं दिव्यदेशन्नयेदित्यर्थः । नीत्वा च तत्र
निधाय धर्मावाहनादि शोध्यशिरसि पत्रारोपणार्न्तं सर्व-
दिव्यसाधारणविधिं विधाय देवतायतनसमीपे मण्डलञ्च
विधाय तत्र शोध्यं प्राङमुखं स्थापयित्वा तमसत्येनैतद्दि-
व्यकरणेऽनिष्टं संश्राव्य जलविधानोक्तेन “तोय! त्वंप्राणिनां
प्राणः” इत्यादिना मन्त्रेणाभिमन्त्र्य पूर्वनिहितोदवात् प्र
पृष्ठ २२६९
सृतित्रयं पाययेत् । शोध्यश्च जलविधानोक्तेन “सत्यानृत-
विभागस्य” इत्यादिना मन्त्रेणाभिमन्त्र्य पिवेत् । तथा च
नारदः “तमाहूयाभिशस्तन्तु मण्डलाभ्यन्तरे स्थितम् ।
आदित्याभिमुखं कृत्वा पाययेत् प्रसृतित्रयमिति” । पिताम-
होऽपि “प्राङ्मुखं कारिणं कृत्वा पाययेत् प्रसृतित्रयम् ।
पूर्व्वोक्तेन विधानेन स्नानमात्रोचितं शुचिमिति” ।
कारिणं दिव्यकारिणं शोध्यमिति यावत् । पूर्व्वोक्तेन
लकलदिव्यसाधारणतया प्रागुक्तेनेत्यर्थः । नारदोऽपि “अर्च-
यित्वा तु तं देवं प्रक्षाल्य सलिलेन तु । एनश्च श्रावयि-
त्वा तु पाययेत् प्रसृतित्रयमिति” । एनः पापम् । तच्च
तत्प्रलापाभिधानमुखेन तेनैव दर्शितम् । “स्वेच्छया यः पिबेत्को-
शन्न क्वचिद्दूषितो नरः । न संवदेन्नरो लोभात् क्षवी
भवति दुर्मतिः । जानानः कामकारेण कोशम्पोत्वा विसंव-
देत् । दरिद्रो व्याधितो मूर्खः सप्तजन्मनि जायते” इति ।
सशिरस्केऽभियोगे अभियोक्तुः श्राव्यमनिष्टमप्याह
सएब “बलात्कोर्श हि यो दत्त्वा हितमिच्छेत चात्मनः ।
स विनाशो भवेत्तस्य तच्च कार्य्यंन सिह्यतीति” । एवं यस्य
कस्यचिदुग्रदेवस्य स्नानोदकमाहृथ कोशानुष्ठाने प्राप्ने
नियमार्थमाह पितामहः “भक्तो यो यस्य देवस्य पाययेत्त-
स्य तज्जलम् । समभावे तु देवानामादित्यस्य तु
पाययेत् । दुर्गायाः पाययेच्चौरान् ये च शस्त्रोपजीविनः ।
भास्करस्य तु यतोयं ब्राह्मणं तन्न पाययेदिति” । उग्रदे-
वतायुधानि स्नापयित्वा तदुदकं स्वल्पेऽपराधे षाययेत् ।
तथा च कात्यायनः “स्वल्पेऽपराधे देवानां पाययि-
स्वाऽऽयुधीदकम् । पाय्योविकारे चाशुद्धो नियम्यः शुचिर-
न्यथेति । पाय्यः पाययितत्यः । नियम्यो दण्ड्यः ।
आयुधग्रहणं ताम्रादिनिर्मितादित्यमण्डलस्याप्युपलक्षणम्
अतएव वृहस्पतिः “यद्भक्तः सोऽभियुक्तः स्यात्तदेवायुधम-
ण्डलम् । प्रक्षाल्य पाययेत्तस्माज्जलात्तु प्रसृतित्रयमिति”
अत्र विशेषमाह पितामहः “दुर्गायाः पाययेच्छूलमा-
दिव्यस्य तु मण्डलम् । अन्येषागपि देवानां स्नापयेदा-
युधानि त्विति” । कृतकोशपानस्य किं तत्कालमेव शुद्धि-
र्नेत्याह कात्यायनः “अथ दैवविसंवादस्तिसप्ताहात्तु
दापयेत् । अभियुक्तं प्रयत्नेन तमर्थं दण्डमेवचेति” ।
दैवविसंवादः दैविकव्याध्युद्भवः । दैविकव्याध्यादीनपि स
एव दर्शयति “ज्वरातिसारविस्फोटाः शूलास्थिपरिपी-
ड़नम् । नेत्ररुग्भालरोगश्च तथोन्मादः प्रजायते ।
सिरोरुभुजभङ्गश्च दैविका व्याधयोनृणामिति” । शुद्धिकाला-
वधिं विष्णुरप्याह “यस्य पश्येद्द्विसप्ताहात् त्रिसप्ताहा-
दयापि वा । रोगोऽग्निर्ज्ञातिमरणं राजदण्डमयापि वा ।
तमशुद्धं विजानीयात् तथा शुद्धं विवर्द्धयेत् । दिव्ये च
शुद्धं पुरुषं सत्कुर्य्याद्धार्मिको नृपः” इति । पितामहोऽ-
पि “त्रिरात्रात्सप्तरात्राद्वा द्विसप्ताहादथापि वा । वैकृतं
यस्य दृश्येत पापकृत्स तु मानवः । तस्यैकस्य न सर्व्वस्य
जनस्य यदि तद्भवेत् । रोगोऽग्निर्ज्ञातिमरणं सैव तस्य
विभावनेति” । तदोगवैकृतं कृतकोशपानस्यैकस्य यदि
भवेत् तदैव स पापकृदिति न, किन्तु तदीयसर्व्वस्य जनस्य
मध्येऽपि यदि कस्यचिद्भवेत् तदापीत्यर्थः । अतएव वृ
हस्पतिः “सप्ताहाद्वा द्विसप्ताहाद्यस्यार्त्तिर्न प्रजायते
पुत्रदारधनानाञ्च स शुद्धः स्यान्न संशयः” इति । याज्ञव-
ल्क्योऽपि “अर्वाक्चतुर्दशादङ्गो यस्य नो राजदैविकम् ।
व्यसनञ्जायते घोरं स शुद्धः स्यान्न संशयः” इति । एतेषाञ्च
त्रिरात्रादीनां पक्षाणाम् अभियीगाल्पत्वमहत्त्वाभ्यां
व्यवस्था ज्ञातव्या । अवधेरूर्द्धन्तु रोगाद्युद्भवेऽपि न
पराजयः तथा च नारदः “ऊर्द्ध्वं यस्य द्विसप्ताहाद्वैकृतन्तु
महद्भवेत् । नाभियोज्यस्तु विदुपा कृतकालव्यतिक्रमादि-
ति” । अत्र द्विसप्ताह इत्यवत्बिकालमात्रोपलक्षणम्
कृतकालव्यतिक्रमहेतोरभिधानात् । तेनैकविंशतिरात्रस्याव-
धिकालत्वाश्रयणे चतुर्दशरात्रादूर्द्धमपि वैकृतोत्पत्तौ
पराजयः एवं त्रिरात्रसप्तरात्रात् प्रागपि वैकृतोत्पत्तौ-
पराजय इति सिद्धम्
१५ कोषवदारकेषु वेदान्त प्रसिद्धेषु अन्नमयादिषु पञ्चसु पदार्थे-
वु अन्नमय प्राणमयः मनोमयः विज्ञानमयः आनन्दमयः
इत्येते पञ्च पदार्था अनात्मकाः तेषाप्तात्मतोविवेकार्थं वेदा-
न्तिभिः कल्पिताः । तत्र पञ्चकोषविवृतिः विवेकचूड़ामणौ
“देहोऽयमन्नमवनोऽन्नमयस्तु कोषश्चान्नेन जीवति
विनश्यति तद्विहीनः । त्वक्चर्म्ममांसरुधिरास्थिपुरीषराशि
र्नायं स्वयं भवितुमर्हति नित्यशुद्धः । पूर्व्वं जनेरपि
मृतेरधुनायमस्ति जातक्षणः क्षणगुणीऽनियतस्वभावः ।
नैकोजड़श्च घटवत्परिदृश्यमानः स्वात्मा कथं भवति
भावविकारवेत्ता । पाणिपादादिमान् देहो नात्मा व्यङ्ग्योऽपि
जीवनात् । तत्तच्छक्तेरनाशाच्च न नियम्योनियामकः ।
देहतद्धर्म्मतत्कर्म्मतदवस्थादिसाक्षिणः । स्वतएव स्वतः
सिद्धं तद्वैलक्षण्यमात्मनः । शल्यराशिर्मांसलिप्तो
मलपूर्णोऽतिकश्मलः । कथं भवेदयं वेत्ता स्वयमेतद्विलक्षणः ।
त्वङ्मांसमेदोऽस्थिपुरीषराशावहंमतिं मूढजनः करोति ।
पृष्ठ २२७०
विलक्षणं वेत्ति विचारशीली निजस्वरूपं परमार्थ-
भूतम् । देहोऽहमित्येव जडस्य बुद्धिर्देहे च जीवा-
ऽविदुषस्त्वहंधीः । विवेकविज्ञानवतोमहात्मनो व्रह्माह-
मित्येव मतिः सदात्मनि । अत्रात्मबुद्धिं त्यज मूढ़वुद्धे!
त्वङ्मासमेदोस्थिपुरीषराशौ । सर्व्वात्मनि ब्रह्मणि
निर्विकल्पे कुरुष्व शान्तिं परमां भजस्व । देहेन्द्रियादा-
वसति भ्रमोदितां विद्वानहन्तां न जहाति यावत् ।
तावन्न तस्यास्ति विमुक्तिवार्त्ताप्यस्त्येष वेदान्तनयान्तदर्शः ।
छायाशरीरे प्रतिविम्बगात्रे यत् स्वप्नदेहे हृदि कल्पिता-
ङ्गे । यथात्मबुद्धिस्तव नास्ति काचित् जीवच्छरीरे च त
थैव मास्तु । देहात्मवीरेव नृणामसद्धियां जन्मादिदुःख-
प्रभवस्य वीजम् । यतस्ततस्त्वं जहि तां प्रयत्नात् त्यक्ते
तु चित्ते न पुनर्भवाशा । कर्म्मेन्द्रियैः पञ्चभिरन्वितोऽयं
प्राणो भवेत् प्राणमयस्तु कोषः । येनात्मवानन्नमयोऽन्न
पूर्णात् प्रवर्त्त तेऽसौ सकलक्रियासु । नैवात्मापि प्राण-
मयो वायुविकारो गन्ता गन्ता वायुवदन्तर्व्धहिरेषः ।
यस्मात् किञ्चित् क्वापि न वेत्तीष्टमनिष्टं स्वं वान्यं वा
किञ्चन नित्यं परतन्त्रः । ज्ञानेन्द्रियाणि च मनश्च
मनोमयः स्यात् कोषोममाहमिति वस्तुविकल्पहेतुः ।
संज्ञादिभेदकलनाकलितो बलीयांस्तत्पूर्ब्बकोषमभिपूर्य्यं
विजृम्भते यः । पञ्चेन्द्रियैः पञ्चभिरेव होतृभिः प्रचीय-
मानोविषयाज्यधारया । जाज्वल्यमानो बहुवासनेन्धनैर्म-
नोमयाग्निर्दहति प्रपञ्चम् । न ह्यस्त्यविद्या मनसोऽतिरिक्ता
मनोह्यविद्या भवबन्धहेतुः । तस्मिन् विनष्टे सकलं
विनष्टं विजृम्भितेऽस्मित् सकलं विजृम्भते । स्वप्नेऽर्थशू-
न्ये सृजति स्वशक्त्या भोक्त्रादि विश्वं मनएव सर्व्वम् ।
तथैव जाग्रत्यपि नो विशेषस्तत्सर्व्वमेत्न्मनसो विजृम्भ-
णम् । सुषुप्तिकाले मनसि प्रलीने नैवास्ति किञ्चित्
सकलप्रसिद्धेः । अतो मनःकल्पितएव पुंसः संसार
एतस्य न वस्तुतोऽस्ति । वायुना चीयते मेघः पुनस्ते-
वैव लीयते । मनसा कल्प्यते बन्धोमोक्षस्तेनैव कल्प्यते ।
देहादिसर्व्वविषये परिकलप्य रागं बध्नाति तेन पुरुषं
पशुवद्गुणेन । वैरस्यमत्र विषवत् सुविधाय पश्चादेनं विमो-
चयति तन्मन एव बन्धात् । तस्मान्मन कारणमस्य
जन्तोर्बन्धस्य मोक्षस्य च वा विधाने । बन्धस्य हेतुर्मलिनं
रजोगुणैर्मोक्षस्य शुद्धं विरजस्तमस्कम् । विवेकवैराग्य-
गुणातिरेकाच्छुद्धत्वमासाद्य मनोविमुक्त्यै । भवत्यतो-
वुद्धिमतो मुमुक्षोस्ताभ्यां दृढाभ्यां भवितव्यमग्रे । मनो
नाम महाव्याघ्रो विषयारण्यभूमिषु । चरत्यत्र न
गच्छन्तु साधवो ये मुसुक्षवः । मनः प्रसूते विषयानशेषान्
स्थूलात्मना सूक्ष्मतया च भोक्तुः । शरीरवर्णाश्रमजा-
तिभेदान् गुणक्रियाहेतुफलानि नित्यम् । असङ्गचिद्रू-
पममुं विमोह्य देहेन्द्रियप्राणगुणैर्निबध्य । अहंममेति
भ्रमयत्यजस्रं मनः स्वकृत्येषु फलोपभुक्तिषु । अध्या-
सदोषात् पुरुषस्य संसृतिरध्यासबन्धस्त्वमुनैव कल्पितः ।
रजस्तमोदोषवतोऽविवेकिनो जन्मादिदुःखस्य निदानमे-
तत् । अतः प्राहुर्भनोऽविद्यां पण्डितास्तत्त्वदर्शिनः ।
येनैव भ्राम्यते विश्वं वायुनेवाब्भ्रमण्डलम् । तन्मनः
शोधनं कार्य्यं प्रयत्नेन मुमुक्षुणा । विशुद्धे सति चैतस्मिन्
मुक्तिः करफलायते । मोक्षैकसक्त्या विषयेषु रागं
निर्मूल्य संन्यस्य च सर्वकर्म्म । सच्छ्रद्धया यः श्रवणा-
दिनिष्ठो रजःस्वभावं स धुनोति बुद्धेः । मनोमयो
नापि भवेत् परात्मा ह्याद्यन्तवत्त्वात् परिणामिभावात् ।
दुःखात्मकत्वाद्विषयत्वहेतोर्द्रष्टा हि दृश्यात्मतया न दृष्टः ।
बुद्धिवुद्धीन्द्रियैः सार्द्धं सवृत्तिः कर्त्तृलक्षणः । विज्ञान-
मयकोषः स्यात् पुंसः संसारकारणम् । अनुव्रजेच्चित्प्रति-
विम्बशक्तिर्विज्ञानसंज्ञः प्रकृतेर्विकारः । ज्ञानक्रियावान-
हमित्यजस्रं देहेन्द्रियादिष्वभिमन्यते भृशम् । अनादि-
कालोऽयमहंस्वभावो जीवः समस्तव्यवहारवोढ़ा ।
करोति कर्म्माण्यथ पूर्ववासनः पुण्यान्यपुण्यानि च तत्फ-
लानि । भुङ्क्ते विचित्रास्कपि योनिषु व्रजन्नायाति
निर्यात्यध ऊर्द्ध्वमेषः । अस्यैव विज्ञानमयस्य जाग्रत्स्व-
प्नाद्यवस्थासुखदुःखभोगाः । देहादिनिष्ठाश्रमधर्म्मकर्म्म
गुणाभिमानः सततं ममेति । विज्ञानकोषोऽथमतिप्रकाशः
प्रकृष्टसान्निध्यवशात् परात्मनः । अतोभवत्येव उपाधिरस्य
यदात्मधीः संसरति भ्रमान्न । योऽयं विज्ञानमयः
प्राणेषु हृदि स्फुरत्ययं ज्योतिः । कूटस्थः सन्नात्मा
कर्त्ता भोक्ता भवत्युपाधिस्थः । स्वयं परिच्छेदमुपेत्य
बुद्धेस्तादात्म्यदोषेण परं मृषात्मनः । सर्व्वात्मकः
सन्नपि वीक्षते स्वयं स्वतः पृथक्त्वेन मृदोघटानिव ।
उपाधिसम्बन्धवशात् परात्मा ह्युपाधिधर्म्माननुयाति
तद्गुणः । अयोविकारानविकारिबह्निवत् सटैकरूपोऽपि
परः स्वभावात् । शिष्य उवाच । भ्रमेणाप्यन्यथा वाऽस्तु
जीवभावः परात्मनः । तदुपाधेरनादित्वान्नानादेर्नाशै-
ष्यते । अतोऽस्य जीवभावेऽपि नित्या भवति संसृतिः ॥
न निवर्त्तेत, तन्मोक्षः कथं? भे श्रीगुरो! वद ॥
पृष्ठ २२७१
श्रीगुरुरुवाच । सम्यक् पृष्टं त्वया विद्वत्! सावधानेन
तत् शृणु । प्रामाणिकी म भवति भ्रान्त्या मोहितक-
ल्पना । भ्रान्तिंविना त्वसङ्गस्य निष्क्रि यस्य निराकृतेः ।
न वटेतार्थसम्बन्धो नभसो नीलतादिवत् । स्वस्य द्रष्टु-
र्निर्गुणस्याक्रियस्य प्रत्यगबोधानन्दरूपस्य बुद्धेः । भ्रान्त्या
प्राप्तो जीवमावो न सत्यो मोहापाये नास्त्यवस्तु
स्वभावः । यावद्भ्रान्तिस्तावदेवास्य सत्ता मिथ्याज्ञानो-
ज्जृम्मितस्य प्रमादात् । रज्ज्वां सर्पोभ्रान्तिकालीनएव
भ्रान्तेर्नाशे नैव सर्पोऽपि तद्वत् । अनादित्वमविद्यायाः
कार्य्यस्यापि तथेष्यते । उपन्नायान्तु विद्यायामाविद्यिक-
मनाद्यपि । प्रबोधे स्वप्नवत् सर्व्वं सहमूलं विनश्यति ।
अनाद्यपीदं नो नित्यं प्रामभाव इव स्फुटम् ।
अनादेरपि विध्वंसः प्रागभावस्य वीक्षितः । यद्बुद्ध्युपाधि-
सन्बन्धात् परिकल्पितमात्मनि । जीवत्वं न ततोऽन्यस्तत्-
स्वरूपेण विलक्षणः । सम्बन्धः स्वात्मनो बुद्ध्या
मिय्याज्ञानपुरःसरः । विनिवृत्तिर्भवेत्तस्य संम्यग्ज्ञानेन
नान्यथा । ब्रह्मात्मैकत्वविज्ञानं सम्यक् ज्ञानं श्रुतेर्म्मतम् ।
तदात्मानामनोः सम्यग्विवेकेनैव सिध्यति । ततोविवेकः
कर्त्तव्यः प्रत्यगात्मसदात्मनोः । जलं पङ्कवदत्यन्तं पङ्का-
पाये जलं स्फुटम् । यथा भाति, तथात्मापि दोषाभावे
स्फुटप्रभः । असन्निवृत्तौ तु सदात्मना स्फुटं प्रतीतिरेतस्य
भवेत् प्रतीचः । ततो निरासः करणीय एव सदात्मनः
साध्वहमादिवस्तुनः । अतीनायं परात्मा स्याद्विज्ञान-
मयशब्दभाक् । विकारित्वाज्जड़त्वाच्च परिच्छिन्नत्व-
हेतुतः । दृश्यत्वात् व्यभिचारित्वात् नानित्योनित्य इष्यते” ।
आनन्दमयकोषस्तु आनन्दमयकोषशब्दे ७२६ पृ० उक्तः
धननिचयात्मककोषस्य राज्याङ्गतामाह “स्वाम्यमात्यौ
पुरं राष्ट्रं कोषदण्डौ सुहृत्तथा । सप्त प्रकृतयोह्येताः
सप्ताङ्गं राज्यमुच्यते । सप्तानां प्रकृतीनां तु राज्यस्यासां
यथाक्रमम् । पूर्व्वं पूर्व्वं गुरुतरं जानीयाद्व्यसनं महत्” मनुः
“स्वामी राजा अमात्योमन्त्र्यादिः । पुरं राज्ञः कृतदुर्ग-
निवासनगरं, राष्ट्रं देशः, कोषोवित्तनिचयः, दण्डो हस्त्य-
श्वरथपादातं, मित्रं त्रिविधं सप्तमाध्यायोक्तमित्येते
सप्त प्रकृतयोऽङ्गानि सप्ताङ्गमिदं राज्यमित्युच्यते ।
ततः किमतआह सप्तानामिति । आसां राज्यस्य
प्रकृतीनां सप्तानां क्रमिकोक्तानामुत्तरस्याविनाशमपेक्ष्य
पूर्व्वस्वाविनाशरूपं व्यसनं गरीयोजानीयात् । तथाहि
मित्रव्यसनात् स्वबलव्यसनं गरीयः सम्पन्नबलस्यैव मित्रा-
नुग्रहे सामर्थ्यात् । एवं वलात् कोषोगरीयान् कोषनाशे
बलस्यापि नाशात् । कोषाद्राष्ट्रं गरीयः राष्ट्रनाशे कुतः
कोषोत्पत्तिः । एवं राष्ट्राद्दुर्गं गरीयः दुर्गादेव
यवसेन्धनादिसम्पन्नाद्राज्यरक्षासिद्वेः । दुर्गादमात्यो
गरीयान् प्रधानामात्यनाशे सर्वाङ्गवैकल्यात् । अमात्या-
दपि आत्मा सर्वस्यात्मार्थत्वात्” कुल्लू०
कोषसञ्चयस्यावश्यकता युक्तिकल्पतरौ दर्शिता यथा
“कोषो महीपतेर्जीवो न तु प्राणाःकथञ्चन । द्रव्यं हि
देहो भूपस्य न शरीरभिति स्थितिः । धर्म्महेतोः
सुखार्थाय भृत्यानां भरणाय च । आपदर्थञ्च संरक्ष्यः
कोषः कोषवता सदा । धनात् कुलं प्रभवति धनाद्धर्म्मः
प्रवर्त्तते । नाधनस्य भवेद्धर्म्मः कामश्चैव कथञ्चन ।
अधर्म्मान्निधनं कुर्य्यातद्धनं गृह्यते परैः । स्वयं पापस्य
पात्र स्यात्सिंहो हस्तिबधादिव । तादात्मिको मूलहरः
कदर्य्यस्त्रिबिधो ऽर्जकः । उत्पन्नार्थव्ययकरो यो
मविष्यद्धनाशया । स तादात्मिक आख्यातः कल्याणी तस्य
नायतिः । यः पित्राव्यर्ज्जितं वित्तमन्यायेन तु भक्षयेत् ।
स मूलहर आख्यातस्तदुदर्को ऽपि चाशुभः । स कदर्य्यस्तु
भृत्यात्मपीड़नैरर्थसञ्चयी । तद्वनं राजदायादतस्कराणां
निधिर्भवेत् । भिक्षा च राजकोषश्च स्तोकस्तोवेन वर्द्धते ।
अञ्जनञ्च धनञ्चैव स्तोकस्तोकेन हीयते । कोषस्य
साधनोपायो मुख्यं राष्ट्रमिति स्मृतम् । भूगुणैर्वर्द्धते राष्ट्रं
तद्वृद्धिर्नृपवृत्तता । राज्ञोपायेन संरक्ष्या ग्रामे ग्रामे कृषी-
वलाः । तेभ्यः कृषिस्ततश्चार्था अर्थेभ्यः सर्वसम्पदः ।
शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा । तथा
वर्षेषु वर्षेषु कर्षणात् भूगुणक्षयः । एकस्यां गुणहीनायां
कृषिमन्यत्र कारयेत्” ।
तत्सञ्चयोपायाश्च भा० शा० ८८ अ० दर्शिताः यथा
“यदा राजासमर्थोऽपि कोषार्थे स्यान्महामते! ।” इत्यादि
युधिष्ठिरप्रश्ने भीष्मोक्तिः “यथादेशं यथाकालं
यथाबुद्धि यथाबलम् अनुशिष्यात् प्रजा राजा धर्म्मार्थी
तद्धिते रतः । यथा तासाञ्च मन्येत श्रेय आत्मन एव च ।
तथा कर्म्माणि सर्व्वाणि राजा राष्ट्रेषु वर्त्तयेत्” इत्यु-
पक्रमे “मदुदोहमित्याद्युक्तं” तच्च करशब्दे १६८७ पृ०
दर्शितम् । तत्र ९० अ० इत्युक्तिः प्रामादिकी ८८ अ०
इत्येव साधु । ततः परं कियदन्तरे
“प्रयोगं कारयेयुस्तान् यथा बलिकरांस्तथा । कृषिगोरक्ष-
बाणिज्यं यच्चान्यत् किञ्चिदीदृशम् । पुरुषैः कारयेत्
पृष्ठ २२७२
कर्म्म बहुभिः कर्म्मभेदतः । नरश्चेत् कृषिगोरक्षाबा-
णिज्यञ्चाप्यनुष्ठितौ । संशयं लभते किञ्चित्तेन राजा
विगर्ह्यते । धनिनः पूजयेन्नित्यं पानाच्छादनभोजनैः ।
बक्तव्याश्चानुगृह्णीध्वं प्रजाः सह मयेति वै । अङ्गमेत-
न्महद्राज्ये धनिनो नाम भारत! । ककुदं सर्वभूतानां
धनस्थो नात्र संशयः । प्राज्ञः शूरो धनस्थश्च स्वामी
धाम्मि क एव च । तपस्वी सत्यवादी च बुद्धिमांश्चापि
रक्षति । तस्मात् सर्वेषु भूतेषु प्रीतिमान् भव पार्थिव! ।
सयमार्ज्जवमक्रोधमानृशंस्यञ्च पालय । एवं दण्डञ्च
कोषञ्च मित्रं भूमिञ्च लप्स्यसे । सत्यार्ज्जवपरो
राजन्मित्रकोषबलान्वितः” । १६ तदाधारे गृहे जटा० (खाज-
नाघर) “तस्मात्द्विजेन्धोदत्त्वार्द्धमर्द्धं कोषे निवेशयेत्”
मनुः । १७ भेघे निघ० ।

कोश(ष)कार पु० कोशं(षं)करोति कृ--ण्वुल् उप० स० । १

खड्गाद्यावरणकारके स्त्रियां टाप् सि० कौ० तस्य पत्नी ङीष् ।
मुग्धबोधमते ईप् । “नेरृत्यै कोषकारीम्” यजु०
३० । १४ । “खड्गावरणकोश(ष)कारिणीम् स्त्रियम्” वेददी० ।
२ इक्षुभेदे शब्दरत्ना० । कोषं स्ववेष्टनं तन्तुभिः करोति
कृ--अण् । ३ कींटभेदे (गुटिपोका) । “संवेष्टमानं बहुभिः
मोहात्तन्तुभिरात्मजैः । कोषकारमिवात्मानं वेष्टयन्नाव-
वघ्यते” भा० शा० ३३१ अ० ।

कोश(ष)कृत् त्रि० कोषं खङ्गाद्यावरणं वेष्टनं वा करोति

कृ--किप् ६ त० । १ कोषकारार्थे । २ इक्षुभेदे सुश्रुतः “नैपा-
लो दीर्घपत्रश्च नीलपोरोऽथ कोषकृत्” सुश्रु० इक्षुभेदोक्तौ

कोश(ष)चञ्चु पु० कोशः चञ्चौ यस्य । सारसपक्षिणि शब्दच०

कोश(ष)पाल पु० कोषं राज्याङ्गघनसंचयं पालयति पालि-

अण् उप० स० । कोषरक्षके तल्लणसुक्तं हेमा० परि० ख०
लक्षणसमुच्चपे । “घातुवस्त्राजिनादीनां रत्नानां प्रविभा-
गवित् । विज्ञाता फल्गुसाराणामसंहार्स्यः शुचिः
सदा । निपुणश्चाप्रमत्तश्च धनाध्यक्षः प्रकीत्तितः । आयद्वारेषु
सर्व्वेषु घनाध्यक्षसमानराः । व्ययद्वारेषु च तथा
कर्त्तव्याः पृथिवीक्षिता । आयव्ययज्ञो लोकज्ञो देशोत्-
पत्तिविशारदः । कृताकृतक्षो भृत्यानां ज्ञेयः स्यादर्थरक्ष-
कः” । “निर्यान्तु कोश(प)पालाश्च कुरुक्षेत्राश्रमं प्रति”
भा० आश्र० २२ अ० । ण्वुल् कोश(ष)पालकोऽप्यत्र ।

कोश(ष)फल न० कोशे(षे)फलमस्य । कक्कोले अमरः

२ महाकोषातक्याम् स्त्री अजा० टाप् । ३ त्रपुव्यां च स्त्री
राजनि० गौरा० ङीप् ।

कोशयी पु० कुश--वा० अयी । स्वर्ण्णादिपूर्ण्णे । “कोशयीर्दश

वाजिनोऽदात्” ऋ० ६ । ४७ । २२ । छान्दसः प्रयोगः

कोश(स)ला स्त्री कुश(स) वृषा० कल नि० गुणः । १ सरयू-

तटस्थायामयोध्ययां पुर्य्यां २ तद्युक्त देशे पु० ब० व० । “कुन्त-
लाः काशिकोश(स)लाः” भा० भी० ९ अ० जनपदकथने ।
पूर्व्वदिक्स्थदेशभेदेषु प्राच्यकोशलेषु पु० ब० व० ते च कोशल-
कावर्द्धमानश्च” वृ० व० कर्म्मविभागे पूर्व्वस्यामुक्ताः । क्वचि
देकत्वमपि । “कोश(स)लोनाम मुदितः स्फीतोजनपदो-
महान् । निविष्टः सरयूतीरे पशुधान्यसमृद्धिमान्”
रामा० १ । ५ । ५ । कोशलदेशोद्विविधः प्राच्योत्तरभेदाद् तत्र
अयोध्यायुक्तदेशस्योत्तरकोशलत्वम् “पितुरनन्तरमुत्तरको-
शलान्” “तस्मै विसृज्योत्तरकोश(स)लानाम्” “प्रिया-
सखीरुत्तरकोशलेश्वरः” रघुः प्राच्यकोशलास्तु कोसल-
शब्दे वक्ष्यते । तद्देशस्य राजाञ्य । कौस(श)ल्य कोशलदे-
शनृपे । “कौ(श)सल्यवृत्युत्तरको(श)सलानाम्” रघुः स्त्रियां
टाप् कौसल्या । “कौसल्यानन्दिवर्द्धनोरामः” रामा०

कोश(म)लात्मजा स्त्री कोश(स)लाः पूर्व्वकोश(स)लदेशः

लक्षणया तदधिपः तस्यात्मजा । प्राच्यकोसलाधिपनृप-
सुतायाम् राममातरि शब्दर०

कोशलिक न० कुशलाय कर्म्मणे दीयते ठक् पृषो० ओत्त्वम् ।

निजकार्य्यसाधनार्थं राजादिकार्य्यकरेभ्योदीयमाने
उत्कोचे (घुस) हेम० कौशलिकमिति पाठान्तरं साधु

कोश(ष)वत् त्रि० कोषः(शः)अस्त्यस्य मतुप् मस्य वः । १ कोश(ष)-

युक्ते । “धर्म्मात्मा कोषवांश्चापि देवराज इवापरः” भा०
आनु० २ अ० । स्त्रियां ङीप् कोश(ष)वती सा च २
कोषातकीदृक्षे “दन्तीयुतं वा मगधोद्भवानां कल्कं पिबेत्
कोषवतीरसेन” “शुकाख्याकोषवत्योश्च मूलं मदन एव
च” “जीमूतकैः कोशवतीफलैश्च दन्तीद्रवन्तीत्रिवृतासु
चैव” इति च सुश्रु०

कोश(ष)वासिन् पु० कोशे(षे)वत्तति वस--णिनि ७ त० ।

कोषाभ्यन्तरस्थे जन्तुभेदे “कोशवासिनां पादिनां च तदेव”
(अनुपानम्) सुश्रु० कोशस्थशब्दे विवृतिः

कोश(ष)वृद्धि पु० कोषस्य मुकुलस्य वृद्धिर्यत्र । १ कुरण्डक वृक्षे ।

६ त० । २ अण्डकोषवृद्धौ रोगभेदे ३ धनसञ्चयवृद्धौ च स्त्री

कोश(ष)शायिका स्त्री कोषे(शे) पिधानमध्ये शेते शी

ण्वुल् ७ त० अतैत्त्वम् । छुरिकायां जटाधरः

कोश(ष)स्कृत् पु० कोशं(षं)करोति कृ--क्विप्नि० सुट् ।

कोषकारके जन्तुभेदे (गुटिपोका) “त्यजेत् कोश(ष)स्कदिवेह
मानः” भाग० ७ । ४ । ११ “कोश(ष)स्का कोशकारः” श्रीधरः
पृष्ठ २२७३

कोश(ष)स्थ पु० कोशे(षे)तिष्ठति स्था--क ७ त० । सुश्रुतोक्ते

शङ्घादिके जन्तुभेदे । “आनूपवर्गस्तु पञ्चविधः” इत्युपक्रम्य
कोशस्था इत्युदिश्य “शङ्ख शङ्खनख शुक्तिशम्बूकभल्लू-
कप्रभृतयः कोशस्थाः पादिनश्च” इत्युक्त्वा कूर्म्मादींश्चोक्त्वा
तन्मांसगुणाउक्ता यथा “शङ्खकूर्म्मादयः स्वादुरस-
गन्धा मरुन्नुदः । शीताःस्निग्धा हिताः पित्ते वर्चस्याः
श्मेष्मवर्द्धनाः”

कोशा(षा)गारं न० ६ त० । धनागारे (खाजनाघर) “कोषा-

गारमायुधागारमश्वशालां हस्तिशालाञ्च क्रुद्धः” भा० व०
१९७ कोश(ष)गृहादयोऽप्यत्र न०

कोशा(षा)ङ्ग न० कोशः(षः)इवाङ्गमस्य । बहुमूले इत्कटौ(ओकड़ा)क्षुपमेदे हारा०

कोशा(षा)तक पु० कोश(ष)मतति अत--क्वुन् । १ कठे

वेदशाखाभेदे २ पटोल्याम् घोषके (तरुइ) (झीडग)
ख्याते शाकभेदे स्त्री मेदि० गौरा० ङीष् । भावप्र०
इयं राजसेव्यत्वात् महत्त्वाद्वा राजोपपदा निर्द्दिष्टा
“धामार्गवः पीतपुष्पा जालिनी कृतवेधना ।
राजकोशातकी चेति तथोक्ता राजिमत्फला । राजकोशातकी
शीता मधुरा कफवातला । पित्तघ्नी दीपनी श्वासज्वरका-
सकृमिप्रणुत्” “कोषातकीवल्लिभवाऽग्रपल्लवास्तक्रेण
युक्ताः सुघृतेन संस्कृताः । सम्भर्जिताः सैन्धवहिङ्गु-
साधिते तैलेऽतिरुच्या बहुपुष्टिदायकाः” तस्याः फलम्
अण् हरीतक्या० लुप् । तत्फले स्त्री “कोशातकीप्तष्पगु
लुच्छकान्तिभिः” माघः

कोशा(षा)म्र पु० को(शे)षे आम्र इव । १ फलप्रधानवृक्षमेदे

(कोशाम) “कोशाम्रः कुष्ठशोथास्रपित्तव्रणकफापहः ।
तत्फलं ग्राहि वातघ्नमम्लोष्णं गुरु पित्तलम् । पक्वं तु
दीपनं रुच्य लघूष्णं कफवातहृत्” भावप्र० । (केओड)
२ फलवृक्षे राजवल्लभः

कोशि(षि)न् त्रि० कोश(ष) + अस्त्यर्थ इनि । १ कोश(ष)युक्ते

आमोपपदकोशी तु सुश्रुतोक्ते कर्ण्णनन्धनजे रोगभेदे “बद्ध-
मात्रस्तु यः कर्ण्णं सहसैवाभिवर्द्धयेत् । आमकोशी
समाख्यातः क्षिप्रमेव विमुव्यते” । २ आम्रवृक्षे पु० शब्दमाला ।

कोशि(षि)ला स्त्री कोश + अस्त्यर्थे पिच्छादित्वाद् इलच् ।

मुद्गपर्ण्याम् राजनि०

कोशी(षी) स्त्री कुश--(कुष) अच् गौरा० ङीष् । १ चर्म्म-

पादुकायाम् २ धान्याद्यग्रभागे च (शुङ्गा) हेम०

कोश्य(ष्य) त्रि० कोशे हृदयकोशे(षे)भवः यत् । हृदयकोश

मांसपिण्डे “शिङ्गानि कोश्याभ्याम्” यजु० ३९२८
“कोश्याभ्यां हृदयस्थ मांसपिण्डाभ्याम्” वेददी०

कोष पु० न० । कुष--पचादि० अच् । १ कोशशब्दार्थे कोशशब्दे

विवृतिः । २ ऋषिभेदे । “अथोह कोषा धावयन्तः शत०
ब्रा० १० । ५ । ५ । ८ “कोषानाम ऋषयः” भा० ।

कोषक पु० कोष--स्वार्थे क । अण्डकोषे शब्दर०

कोषला स्त्री० कोष--अलच् । अयोध्यायां पुर्य्यां शब्दरत्ना०

कोष्ठ पु० कुष--थन् । १ गृहमध्ये, २ उदरमध्ये, ३ धान्यादिस्था-

पने ४ कुशूले च (कुठी) ५ आत्मींये त्रि० मेदि० “स्था-
नान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च । हृदुण्डुकः
पुप्पुषश्च कोष्ठैत्यभिधीयते” ६ सुश्रुतोक्ते आमाग्निपक्वमूत्र
रुधिरस्थाने “प्रवाहिका शिरः शूलं कोष्ठशूलञ्च दारुणम्”
“चले दोषे मृदौ कोष्ठे नेक्षेतात्र बलं नृणाम्” सुश्रु० “भुक्तं
भुक्तमिदः कोष्ठे कथमन्नं विपच्यते” भा० आश्र० ५७ श्लो०
“पतिं भार्य्योपतिष्ठेत ध्यायेत् कोष्ठगतं यथा” भा० भी०
६ । १८ । ५२ । अकथहादिचक्रचतुःपार्श्वस्थरेखाचतु-
ष्कान्विते ७ स्थानभेदे अकथहशब्दे ३८ पृ० उदा० । ८ पदे
स्थानमात्रे “पञ्चारामं नवद्वारमेकपालं त्रिकोष्ठकम् । यत्
पञ्चविपणम् क्षेत्रं पञ्चप्रकृतिस्त्रीधरम् । पञ्चेन्द्रियार्था
आरामा द्वारः प्राणा नव प्रमो! । तेजोऽबन्नानि कोष्ठानि
कुलमिन्द्रियसंग्रहः । विपणस्तु क्रियाशक्तिर्भूतप्रकृतिर-
व्यया” भाग० ४ । २८ । ५१ । ५२ । ५२ । कुशूले “जरत्कोष्ठाद्-
व्रीहीञ्छर्कराभिमिश्रानाहरति” कौषीतकिब्रा०

कोष्ठागार न० कोष्ठमगारमिव । धान्यधनादेःस्थापने गृहे

(कुठी) “कोष्ठागारायुधागारदेवतागारभेदकान्” मनुः
“कोष्ठागारं तु ते नित्यं स्फीतं धान्यैः सुसंवृतम् । सदास्तु
सत्सु संन्यस्तं धनधान्यपरोभव” भा० आ० ११९ अ०

कोष्ठागारिक त्रि० कोष्टागरे भवः तत्र नियुक्तोवा बा० ठन् ।

१ कोष्ठागारभये । “अत्यर्थं स्रवति रक्ते कोष्ठागारिकाङ्गार
मृत्पिण्डेत्यादि” सुश्रु० २ कोष्ठागारे नियुक्ते च ।

कोष्ठागारिन् पु० कोष्ठरूपमागारमिवास्त्यस्य इनि । कीटभेदे

“कोष्ठागारी कृमिकरश्च मण्डलपृथुकः” सुश्रुते प्राणना-
शककीटोक्तौ

कोष्ण न० ईषदुष्णम् कोः कादेशः । १ ईषदुष्णस्पर्शे २ तद्वति

त्रि० अमरः । “भुवं कोष्णे न पीनोध्री शेध्नेघावभृथा
दपि” रघुः “घृतेन सा शान्तिसुपैति जिह्वा कोष्णेन यष्टी-
मधुकान्वितेन” “शोथं सतोदं कोष्ठेन सर्पिषा परिषे-
चयेत्” सुश्रु०