वाचस्पत्यम्/कामताल

विकिस्रोतः तः


पृष्ठ १८९३

कामताल पुंस्त्री कामं तालयति प्रतिष्ठापयति तल + प्रतिष्ठायां

णिच--अण् उप० स० । कोकिले त्रिका० । तस्य ध्वनिना
कामोद्दोपकत्वात् तथात्वम् । स्त्रियां जातित्वात् ङीष्

कामतिथि पु० स्त्री कामपूजार्था तत्स्वामिका वा तिथिः

त्रयोदश्यां तस्याः कामपूजाङ्गता काममहशब्दे दर्शयिष्यते ।

कामद त्रि० कामान् ददाति दा--क । १ अमीष्टदायके, २

कामधेनौ स्त्री मेदि० भक्तानां कामपूरके ३ परमेश्वरे पु० ।
कामं कामरूपं सौन्दर्य्येण द्यति दो--अवखण्डने--क ।
४ कार्त्तिकेये । “कामजित् कामदः कान्तः” भा० व०
२३१ अ० । कार्त्तिकेयनामकथने ।

कामदुघ त्रि० कामं दोग्धि दुह--क घादेशः । १ अभीष्टसम्पाद-

के “इन्द्रस्य कामदुघाःस्थ कामान् धुग्ध्वम्” आश्व०
श्रौ० ६, १२, ४ । “आराधय सपत्नीकः प्रीता कामदुघा
हि सा” “अवेहि मां कामदुवां प्रसन्नाम्” रघुः ।
२ सुरभौ गवि स्त्री ।

कामदुह् त्रि० कामं दोग्धि दुह--क्विप् ६ त० । काम्यनिष्पा-

दके । “एष (यज्ञः) वस्त्विष्टकामयुक्” गीता । “तस्या
थ कामधुग्धेनुर्तसिष्ठस्य महात्मनः” भा० आ० १७५ ।
“श्रद्धयार्चितसत्पात्रे न्यस्तं (मुन्यन्नम्) कामधुगक्षयम्” ।
भाग० ७, १५, ५ । “एकः शब्दः सुप्रयुक्तः सम्यग्ज्ञातेः
स्वर्गे लोके कामधुग्भवति” श्रुतिः । क (कामदुहो-
ऽप्यत्रार्थे) त्रि० तैस्तैर्गुणैः कामदुहाथ भूत्वा नरं प्रदा-
तारमुंपैति सा गौः” भा० व० १८६ अ० ।

कामदूती स्त्री कामस्य दूतीव उद्दीपकत्वात् । १ नागदन्तीवृक्षे

रत्नमा० । २ पाटलावृक्षे शब्दर० । स्वार्थे कन् । तत्रार्थे ।

कामदेव पु० कामएव देवः । कन्दर्पे तस्य ध्वेयरूपम् हेमा०

दा० विष्णुधर्मो० उक्तं यथा । “कासदेवस्तु कर्त्तव्यः शङ्ख-
पद्मविभूषणः । चापवाणकरश्चैव मदाकुञ्चितलोचनः ।
रतिः प्रीतिस्तथा शक्तिर्भार्य्या श्चैतास्तथोज्वला । चतस्रस्तस्य
कर्त्तव्याः पत्न्योरूपमनोहराः । चत्वारश्च करास्तस्य कार्य्या
भार्य्यास्तनोपगाः । केतुश्च मकरः कार्य्यः पञ्चवाणमुखो-
महानिति” । काम्यते मोक्षकाङ्क्षिभिः काम्यस्तथाभूतः
सन् दीव्यति द्योतते । २ परमेश्वरे । “कामदेवः कामपालः
कामी कान्तः कृतागमः” विष्णुस० । चक्रदत्तोक्ते ३
घृतभेदे तत्पाकादिप्रकारो यथा तत्रैव
“शणस्य कोविदारस्य वृषस्य ककुभस्य च । कल्काढ्यत्वक्
पुष्पफलप्रस्थे पलचतुष्टथम् । अश्वगन्धा पलमिता तदर्द्धं
गीक्षुरस्य च । शतावरी विदारी च शालपर्णी बला तथा ।
अश्वत्थस्य च शुङ्गानि पद्मवीजं पुनर्नवा । काश्मरी-
फलमेतत् तु माषवीजं तथैव च । पृथग्दशपलान्
भागांश्चतुर्द्रोणेऽम्भसः पचेत् । चतुर्भागावशेषन्तु कषाय
मवतारयेत् । मृद्वीकां पद्मकं कुष्ठं पिप्पलीं रक्तचन्दनम् ।
बालक नागपुष्पञ्च आत्मगुप्ताफलं तथा । नीलोत्पलं
शारिवे द्वे जीवनीयं विशेषतः । पृथक्कर्षसमञ्चैव शर्क
रायाः पलद्वयम् । रसस्य पोण्ड्रकेक्षूणामाढ़कं तत्र
दापयेत् । चतुर्गुणेन पयसा घृतप्रस्थं विपाचयेत् ।
रक्तपित्तं क्षतक्षीणं कामलां वातशोणितम् । हृल्लासकं
तथा शोथं वर्णभेदं स्वरक्षयम् । अरोचकं मूत्रकृच्छ्रं
पार्श्वशूलञ्च नाशयेत् । एतद्राज्ञां प्रयोक्तव्यं बह्वन्तः-
पुरचारिणाम् । स्त्रीणाञ्चैवानपत्यानां दुर्बलानाञ्च देहि-
नाम् । क्लीवानामल्पशुक्राणां जीर्णानामल्परेतसाम् ।
श्रेष्ठं बलकरं हृद्य दृष्यं पेयं रसायनम् । ओजस्तेज
स्करञ्चैव आयुःप्राणविवर्द्धनम् । संवर्द्धयति शुक्रञ्च पुरुषं
दुर्बलेन्द्रियम् । सर्व्वरोगविनिर्मुक्तस्तोयसिक्तो यथा द्रुमः ।
कामदेव इति ख्यातः सर्व्वरोगेषु शस्यते” ।

कामधर पु० कामरूपस्थमत्स्यध्वजपर्व्वतस्थिते सरोवरभेदे

कालि० ८१ अ० । तत्स्थानस्नानमाहात्म्याद्युक्तम् ।
“मणिकूटाचलात् पूर्व्वं मत्स्यध्वजकुलाचलः । निर्द्दग्धो
यत्र मदनो हरनेत्राग्निना पुनः । शरीरं प्राप्य तपसा
समाराध्य वृषघ्वजम् । तत्र प्राप्य स्वरूपन्तु
कामदेवेन संस्थितम् । अधित्यकायां तस्थौ स वीक्षमाणः
समन्ततः । तदा तु शाश्वती नाम तत्रास्ते दक्षिणस्रवा ।
सरः कामधरो नाम तस्मित् शैले व्यवस्थितः । आश्वि-
न्यां विधिवत् स्नात्वा पीत्वा कामधराम्भसि । विमुक्त-
पापः शुद्धात्मा शिवलोके महीयते” ।

कामधेनु स्त्री कामप्रतिपादिका धेनुः । १ अभीष्टप्रतिपादि-

काया स्वर्गधेन्वाम् सुरभिकन्यायाः रोहिण्याः २ कन्यायां
गवि च तस्या उत्पत्त्यादिकमुक्तं कालिकापु० ९१ अ० ।
“दक्षस्य तनया याऽभूत् सुरभिर्नाम नामतः । गवा माता
महाभागा सर्व्वलोकोपकारिणी । तस्यान्तु तनया जज्ञे
कश्यपात्तु प्रजापतेः । साम्रा सा रोहिणी शुभ्रा सर्व्वकाम
दुघा नृणाम् । तस्या जज्ञे शूरसेनानुसोरतितमोज्ज्वलात्
(तस्यां जज्ञे शुनःशेफान् मुनेरतितमोज्ज्वलात् वा पाठः
कामधेनुरिति ख्याता सर्व्वलतणसंयुता । सा सिताभ्र
पृष्ठ १८९४
प्रतीकाशा चतुर्व्वेदचतुष्पदा । स्तनैश्चतुर्भिर्धर्मार्थकामप्रसव-
कारिणी” ।
कामधेनुकुलजातायां ३ नन्दिन्याम् शवलानाम्न्यां वशिष्ठ-
धेनौ च तस्याश्च काम्यपदार्थसम्पादकत्वात्तथात्वम् यथा च
तस्याः कामनिष्पादकत्वं तथा रामा० आदि० ५१ स० वर्णितं
यथा “एवमुक्ता वशिष्ठेन शवला शत्रुसूदनअ! । विदधे
कामधुक्कामान् यस्य यस्येप्सितं यथा । इक्षून्मधूंस्तथा
लाजान् मैरेयांश्च सुरासवम् । पानानि च महार्हाणि
भक्ष्याश्चोच्चावचानपि । उष्णाढ्यस्यौदनस्यात्र राशयः
पर्व्वतोपमाः । सृष्टान्यन्नानि सूपाश्च दधिकुल्यास्तथैव च ।
नानास्वादुरसानाञ्च खाण्डवानां तथैव च । भोजनानि
सुपूर्णानि गौड़ानि च सहस्रशः । सर्व्वमासीत्
सुसन्तुष्टं हृष्टपुष्टजनायुतम् । विश्वामित्रवलं राम! वशिष्ठेन
सुतर्पितम् । विश्वामित्रो हि राजर्षिर्हृष्टपुष्टस्तदाभ-
वत् । सान्तःपुरचरो राजा सब्राह्मणपुरोहितः ।
सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा । युक्तः
परमहर्षेण वशिष्ठमिदमब्रवीत् । पूजितोऽहं त्वया ब्रह्मन्!
पूजार्हेण सुसत्कृतः । श्रूयतामभिधास्यामि वाक्यं वाक्य-
विशारंद! । गवां शतसहस्रेण दीयतां शवला मम ।
रत्नंहि भगवन्ने तद्रत्नहारी च पार्थिवः । तस्मान्मे शवलां
देहि ममैषा धर्म्मतो द्विज! । एवमुक्तस्तु भगवान्वशिष्ठो
मुनिपुङ्गवः । विश्वामित्रेण धर्म्मात्मा प्रत्युवाच
महीपतिम् । नाहं शतसहस्रेण नापि कीटिशतैर्गवाम् ।
राजन् । दास्यामि शवलां राशिभीरजतस्य वा । न
परित्यागमर्हेयं मत्सकाशादरिन्दम! । शाश्वती शवला
मह्यं कीर्त्तिरात्मवतो यथा । अस्यां हव्यं च कव्यञ्च
प्राणयात्रा तथैव च । आयत्तमग्निहोत्रञ्च बलिर्होमस्तथैव
च । स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा ।
आयत्तमत्र राजर्षे! सर्व्वमेतन्न संशयः । सर्व्वस्वमेतत् सत्येन
मम तुष्टिकरी तथा । कारणैर्बहुभीराजन्न दास्ये शवलां
तव” । तेनास्या अत्यागे च बलात् विश्वामित्रेण हरणो
द्योगे कृते धेन्वा उत्पादितैर्नानाविधैसैन्यैवि श्वामित्रः
पराजितः इत्यपि तत्रैव वर्णितं ५३ स० यथा
“कामधेनुं वशिष्ठोऽपि यदा न त्थजते मुनिः । तदास्य
शवलां राम! विश्वामित्रोऽन्वकर्षत । नीयमाना तु
शवला राम । राज्ञा महात्मना । दुःखिता चिन्तयामास
रुदन्ती शीककर्षिता । परित्यक्ता वशिष्ठेन किमहं
सुमहात्मना । याहं राजभृतैर्दीना ह्रियेय भृशदुः-
खिता । किं मयापकृतं तस्य महर्षेर्भावितात्मनः ।
यन्मामनागसं दृष्ट्वा भक्तां न्यजति घार्म्मिकः । इति
सञ्चिन्तयित्वा तु निश्वस्य च पुनः पुनः । जगाम वेगेन
तदा वशिष्ठं परमौजसम् । निर्धूय तांस्तदा भृत्यान्
शतशः शत्रुसूदन! । जगामानिलवेगेन पादमूलं
महात्मनः । शवला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत् ।
वशिष्ठस्याग्रतः स्थित्वा रुदन्ती मेघनिःस्वना । भगवन्!
किं परित्यक्ता त्वयाहं ब्रह्मणःसुत! । यस्माद्राजभटा मां
हि नयन्ते त्वत्सकाशतः । एवमुक्तस्तु ब्रह्मर्षिरिदं
वचनमब्रवीत् । शोकसन्तप्तहृदयां स्वसारमिव दुःखिताम् ।
न त्वां त्यजामि शवले! नापि मेऽपकृतं त्वया । एष
त्वां नयते राजा बलान्मत्तो महाबलः । न हि तुल्य
बलं मह्यं राजा त्वद्य विशेषतः । बली राजा क्षत्रियश्च
पृथिव्याः पतिरेव च । इयमक्षौहिणी पूर्णा
गजवाजिरथाकुला । हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तमः ।
एवमुक्ता वशिष्ठेन प्रत्युवाच विनितवत् । वचनं वचनज्ञा
सा ब्रह्मर्षिमतुलप्रभम् । न बलं क्षत्त्रियस्याहुर्ब्राह्मणा
बलवत्तराः । ब्रह्मन्! । ब्रह्मबलं दिव्यं क्षत्राच्च बलवत्त-
रम् । अप्रमेयबलं तुभ्यं न त्वया बलवत्तरः ।
विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम् । नियुङ्क्ष्व
मां महातेजस्त्वद्ब्रह्मबलसम्भृताम् । तस्य दर्पं बलं
यत्तन्नाशयामि दुरात्मनः । इत्युक्तस्तु तया राम ।
वशिष्ठस्तु महायशाः । सृजस्वेति तदोवाच बल
परबलार्द्दनम् । तस्य तद्वचनं श्रुत्वा सुरमिः साऽसृज-
त्तदा । तस्या हम्भारवोत्सृष्टाः पह्लवाः शतशो
नृप! नाशयन्ति बलं सर्व्वं विश्वामित्रस्य पश्यतः ।
स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः । पह्लवान्ना-
शयामास शस्त्रैरुच्चावचैरपि । विश्वामित्रार्द्दितान्
दृष्ट्वा पह्लवान् शतशस्तदा । भूय एवासृजद्घोरांच्छकान्
यवनमिश्रितान् । तैरासीत् संवृता भूमिः शकैर्य-
वनमिश्रितैः । प्रभावद्भिर्महावीर्य्यैर्हेमकिञ्जल्कसन्निभैः ।
तीक्ष्णासिपट्टिशधरैर्हेमवर्म्मभिरावृतैः । निर्दग्धं तद्बलं
सर्व्वं प्रदीप्तैरिव पावकैः । ततोऽस्त्राणि महातेजा विश्वा-
मित्रो मुमोच ह । तैस्ते यवनकाम्बोजा वर्व्वराश्चा-
कुलीकृताः ५४ स० ।
“ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्र मोहितान् । वशिष्ठो-
नोदयामास कामधुक् सृज योगतः । तस्या हुङ्कारतो
जाताः काम्बोजा रविसन्निभाः । ऊधसश्चाथ सम्भूता
पृष्ठ १८९५
वर्व्वरा शस्त्रपाणयः । योनिदेशाच्च यवनाः शकृद्देशाच्छकाः
त्मृताः । रोमकूपेषु म्लेच्छाश्च हारीताः सकिरातकाः ।
तैस्तन्निषूदितं सर्व्वं विश्वामित्रस्य तत्क्षणात् । सपदातिगजं
साश्वं सरथं रघुनन्दन! । दृष्ट्वा निषूदितं सैन्य
वशिष्ठेन महात्मना । विश्वामित्रसुतानान्तु शतं नानाविधा-
युधम् । अभ्यधावत् सुसंक्रुद्धं वशिष्ठं जपतां वरम् ।
हूङ्कारेणैव तान् सर्व्वान् निर्ददाह महानृषिः” ५५ स० ।
दानार्थकल्पिते स्वर्ण्णादिनिर्म्मिते षोडशमहादानान्तर्गते
दानीये ४ धेनुभेदे तत्प्रकारो यथा हेमा० दा० मत्स्य० पु० ।
“अथातः सम्प्रवक्ष्यामि कामधेनुविधिं परम् । सर्वकामप्रदं
नॄणां महापातकनाशनम् । लोकेशावाहनं तद्वद्धोमः
कार्य्योऽधिवासनम् । तुलापुरुषवत् कुर्य्यात् कुण्डमण्डप
वेदिकाः । स्वल्प्रेष्वेकाग्निमत् कुर्य्यात् गुरुरेव समाहितः” ।
कुण्डमण्डपवेदिका इत्युपलक्षणम् । इह हि देश--काल-
वृद्धिश्राद्ध--शिवादिपूजा--ब्राह्मणवाचनाचार्य्यर्त्विग्वरण-
मधुपर्कदान--वेदिकोपरिचक्रलेखन--पञ्चवर्णवितानतोरण-
पताकादि सर्व्वं मत्स्यपुराणोक्त--तुलापुरुषदानविहितं
वेदितव्यम् ।
“काञ्चनस्यातिशुद्धस्य धेनुं वत्सञ्च कारयेत् । उत्तमा
पलसाहस्रैस्तदर्द्धेन तु मध्यमा । कनीयसी तदर्द्धेन कामधेनुः
प्रकीर्त्तिता । शक्तितस्त्रिपलादूर्द्ध्वमशक्तोऽपीह कारयेत्” ।
अत्र यद्यपि वत्सपरिमाणमनुक्तं तथापि कामधेनुविधान
कॢप्तकाञ्चनचतुर्यांशेन वत्सः कल्पनीयः, समस्तधेनुषु
परिमितद्रव्यनिष्कृष्टवत्सनिर्माणकॢप्तिदर्शनादिहापि धेनुदान-
त्वाविशेषात् तथैव निश्चीयते । तथा च गुड़धेन्वादिषु
“चतुर्थांशेन वत्सः स्यादिति” तत्र तत्र वक्ष्यते ।
“वेद्यां कृष्णाजिनं तस्य गुड़प्रस्थसमन्वितम् । न्यसेदुपरि
तां धेनुं महारत्नैरलङ्कृताम् । कुम्भाष्टकसमोपेतां नाना
फलसमन्विताम्” ।
कल्पतरुदाने प्रस्थो व्याख्यातः । “महारत्नानि, पद्मराग-
प्रभृतीनि, वत्सन्दक्षे तु विन्यसेदिति क्वचित्पाठः, “नाना
फलानि, गोगजवाजिस्त्रीपुरुषप्रभृतीनि, सौवर्णानि,
कल्पतरुदानोक्तानि ।
“तथाष्टादशधान्यानि समन्तात् परिकल्पयेत् । इक्षुमण्य-
ष्टकं तद्वन्नानाफलसमन्वितम् । भाजनं चासनं तद्वत्
ताम्रदोहनकं तथा” ।
“कौशेयवस्त्रद्वयसम्प्रयुक्तां दोपातपत्राभरणाभिरामाम् ।
सचामरां कुण्डलिनीं सघण्टागणत्रिकापादुकरौप्यपा-
दाम् । रंसैश्च सर्वैः परितोऽभिजुष्टां हरिद्रया पुष्पफलै-
रनेकैः । अजाजिकुस्तुम्बुरुशर्कराभिः वितानकं चोपरि
पञ्चवर्णम् । स्नातस्ततो मङ्गलवेदघोषैः प्रदक्षिणीकृत्य
सपुष्पहस्तः । आवाहयेत्ताङ्गुड़धेनुमन्त्रैः द्विजाय दद्या-
दथ दर्भपाणिः” ।
घण्टागणत्रिकापादुकाभिः सह वर्त्तत इति सघण्टागण-
त्रिकापादुका सा चामौ रौप्यपादा चेति विग्रहः । गणना-
साधनत्वाद्गणत्रिका, अक्षमाला गलत्रिकेति क्वचित्पाठः ।
तत्र गलत्रिका कण्ठभूषणमिति केचित्, केचित्तु गलन्तिकेति
पठित्वा जलपूर्णा कर्करीति व्याचक्षते । रसाः परिभाषाया-
मुक्ताः । अजाजि जीरकं, कुस्तुम्बुरुःधान्यकम् । एवमुपकल्पित-
सम्भारःपूर्व्ववदधिवासनं विधाय तदन्यदिवसे प्रातः कृतपुण्या-
हवाचनोऽग्निकुण्डेषु ऋत्विगुपवेशनादिपूर्णाहुति पर्य्यन्त-
कर्म्मशेषसमाप्तिं कृत्वा सर्व्वौषधिजलस्नातः शुक्लमाल्याम्बरो
गृहीतकुसुमाञ्जलिर्यजमानस्त्रिःप्रदक्षिणमावृत्य गुड़धेनु-
मन्त्रैस्तामावाहयेत् । गुड़धेनुमन्त्राः । “या लक्ष्मीः सर्व्व-
भूतानाम्” इत्यादयः, तत्प्रकरणे द्रष्टव्याः । आवाहनान
न्तरं वक्ष्यमाणमन्त्रेणामन्त्रयेत् । “त्वं सर्ब्बदेवगणमन्दिर-
मङ्गभूता विश्वेश्वरत्रिपथगोदधिपर्व्वतानाम् । त्वद्दानशस्त्र
शकलीकृतपातकौघः प्राप्तोऽस्मि निर्वृतिमतीव परां नमामि ।
लोके यथेप्सितफलर्द्धिविधायिनीं त्वामासाद्य कोहि
भवदुःखमुपैति मर्त्त्यः । संसारदुःखशमनाय यतस्व कामं, त्वां
कामधेनुरिति विप्रगणा वदन्ति” । “आमन्त्र्य शीलकुल-
रूपगुणान्विताय विप्राय यः कनकधेनुमिमां प्रदद्यात्
प्राप्नोति धाम स पुरन्दरदेवजुष्टं, कन्यागणैः परिवृतं
पदमिन्दुमौलेः ।” दानवाक्यमत्र तुलापुरुषोक्तमूहनीयम् ।
विप्रायेत्येकवचनमेकाग्निविधानपक्षे, अनेकाग्निविधानपक्षे
तु प्रकृतीभूततुलापुरुषदानवदाचार्य्यादीनां विभागव्यवस्था
तदनन्तरं पुण्याहवाचनवेदिस्थितदेवतापूजनविसर्जनानि
कुर्य्यात् । दक्षिणाविचारश्च पूर्व्ववत् । मत्स्य पु० उक्तविधिः ।
“व्यासौवाच । राजन्निहैकामपि कामधेनुं दद्यात्
समुद्दिश्य तु केशवं वा । विप्राय वै सर्व्वगुणोपपन्नां
कृत्वा व्रतं कृच्छ्रमनोयमैस्तु । मम्यक् प्रदत्तैस्तु गवां
सहस्रैः सवत्सवस्त्रैः सहितैश्च हेम्ना । काले फलं यल्लभते
मनुष्यो न कामधेनोश्च समं द्विजेभ्यः । शतैः सहस्रैश्च
तथा हयानां सम्यक्प्रदत्तैश्च महाद्विपानाम् । कन्या
रथैर्वा करिवाजियुक्तैः शतैः सहस्रैः सततं द्विजेभ्यः ।
दत्तैः फलैर्यल्लभते मनुष्यः, समं तथा स्यान्नतु कामधेनोः ।
पृष्ठ १८९६
यो जाह्नवीतीरगतो हिमाद्रौ सन्तप्यतेऽतीव तपः सदा वै ।
ब्राह्मं पदं गन्तुमाना द्विजेन्द्रो नैतत् फलं तच्च हि
कामधेनोः । चान्द्रायणैः कृच्छ्रंमहापराकैः संशुद्ध्यते
पापयुतो मनुष्यः । कार्त्तिके कृष्णपक्षे तु नरः प्रयत-
मानसः । एकादश्यामुपोष्याथ नरो दिनचतुष्टयम् ।
घृतेन स्नापयेद्विष्णुं गव्येन पयसापि वा । नक्ताशी
गोरसैर्हव्यैः पूजयेन्मधुसूदनम् । गन्धपुष्पैः सुनैवेद्यै-
र्व्वस्त्राभरणकुण्डलैः । शङ्खासिचक्रोद्यतबाहुविष्णोर्गदा
ब्जहस्तस्य तु शार्ङ्गपाणेः । अर्घ्यं प्रयच्छामि जनार्दनस्य
श्रिया युतस्यापि धराधरस्य । श्रियः पतिं श्रीधरमेक-
कान्तं श्रियः सखायं हि श्रियोऽनुकूलम् । नमान्यहं
श्रीधरसन्निवासं समर्च्चितो मे प्रददातु कामान् । एवं
पूज्य विधानेन श्रिया युक्तैस्तु नामभिः । पृथग्जागरणं
कुर्य्यात्, श्रिया सार्द्धं जगत्पतेः । या देवी भार्गवं भेजे
कुलं सर्व्वत्र पूजिता । आयातु सा गृहे नन्दा, सुप्रीता
वरदा मम । याऽङ्गिरसं सदा देवी सुनन्दा प्रत्युपस्थिता ।
आयातु मे गृहे सा तु सुप्रीता वरदा सती । सुरभी
या भरद्वाजं कामधेनुः १ सुकामदा । सदा भेजेगृहं सात्र
ममायातु सुरार्च्चिता । सुशीला कश्वपं या तु भेजे सर्व्वत्र
कामदा । सा मे भवतु सुप्रीता कामधेनुर्गृहे सदा ।
शवलाया वशिष्ठन्तु सम्प्राप्य मुमुदे शुभा । सा मे
गृहं सदायातु कामदा वरपूजिता । एवं पूज्य विधा-
नेन प्रभाते विमले शुभे । शुक्लाम्वरधरः स्नातः शुक्लमाल्या-
नुलेपनः । कृतनित्यक्रियो हृष्टः कुण्डलाङ्गदभूषितः ।
अनुलिप्ते महीपृष्ठे कृष्णाजिनसुसंस्तृते । तिलप्रस्थेन
वाकीर्णेचतुर्वर्णविभूषिते । क्षौमवस्त्रान्विते शुभ्रे मध्वा-
ज्यपात्रसंयुते । शुभवस्त्रैः समावृत्य सर्व्वरत्नैरलङ्कृताम्
सुवर्णशृङ्गनखुराञ्चतुष्कर्षां मनोरमाम् । क्षीराब्धिपयी
सोपेतां धेनुमन्त्रैस्तु पूजयेत् । या धनुः सर्व्वदेवानामृ-
षीणां भावितात्मनाम् । क्षीराब्धिनिर्गता या च सा मे
भवतु सुस्थिरा । घृतक्षीराभिषेकं च कृत्वा विष्णोः
प्रयत्नतः । समभ्यर्च्य यथायोगं गन्धपुष्पादिभिः क्रमात् ।
गावो ममाग्रतः सन्तु गावः पार्श्वे तु पृष्ठतः । गावो मे
हृदये नित्यं गवां मध्ये वसाम्यहम् । प्राङ्मुखोदङमुखो
वापि सितयज्ञोपवीतिनीम् । इमां त्वं प्रतिगृह्णीष्व देवदेव!
जगत्पते! । सवत्सालङ्कृतां धेनुं गोविन्द! भजतामिति ।
एवं विप्राय तान्दद्यात्, कृत्वा चैव प्रदक्षिणम् । अनुव्र-
जेच्च गच्छन्तं पदान्यष्टौ नराधिप! । अनेन विधिना
यस्तु कामधेनुं प्रयच्छति । सर्वकामसमृद्ध्यर्थं स्वर्गलोके
स गच्छति । यद्दत्त्वा सकलां पृथ्वीं राहुग्रस्ते दिवाकरे ।
तत् फलं प्राप्यते राजन्! काभधेन्वा न संशयः । चिन्ता-
मणिः कामधेनुस्तथा भद्रघटो नृप! । त्रीणि समफला-
न्याहुर्दानानि मुनिसत्तमाः । सप्तावरान् सप्त परान्
आत्मानं चैव मानवः । शतजन्मकृतात्पापान्मोचयन्त्यव-
नीपते! । पदेपदेऽश्वमेधस्य फलं प्राप्नोति मानवः
दानानामेव सर्व्वेषामुत्तमं परिकीर्त्तितम् । सर्वकामप्रदं
धन्यं, पापघ्नं सर्वदं शुभम् । सर्वेषामेव पापानां जातानां
महतामपि । प्रायश्चित्तमिदं शस्तं कथितं ब्रह्मणा नृप! ।
ब्रह्मविट्--क्षत्र--शूद्राणां कर्त्तव्या यत्नतो नृप! । सर्वकाम-
फलार्थाय कामधेनुरियं सताम् । मध्वाज्यतिल--होमेन
कामधेनुं--प्रयत्नतः । सकल्पं प्रतिपाद्येह सर्वपृथ्वोप्रदो
भवेत्” । वह्निपुराणोक्तकामधेनुदानविधिः । अवशिष्टेति-
कर्त्तव्यता च मत्कृततुलादानादिपद्धत्युक्तदिशा ज्ञेया ।
अथ लिङ्गपुराणोक्तस्तद्विधिः । “सनत्कुमार उवाच ।
अथातः संप्रवक्ष्यामि हेमधेनुविधिं क्रमात् । सर्व्वपाप-
प्रशमनं देशदुर्भिक्षनाशनम् । उपसर्गविनाशञ्च सर्वव्याधि-
निवारणम् । निष्काणान्तु सहस्रेण सुवर्णेन तु कारयेत् ।
तदर्द्धेनापि वा सम्यक् तदर्द्धार्द्धेन वा पुनः । शतेन वा
प्रकर्त्तव्यं सर्वकार्य्येषु सुव्रत!” । सर्वकार्य्येष्विति अव्य-
क्नेषु अनुक्तमानेषु सौवर्णेषु देयेषु सहस्रादिशतावरमान-
त्वमवधेयमिति इयं चोक्तिः प्रासङ्गिकी वातुले मानान्तर-
मुक्तम् । “त्रिपलादिसहस्रान्तं हेम्ना धेनुं प्रकल्पथेदिति” ।
“शिवाग्रे कामधेनुन्तु पलानां पञ्चभिः शतैः । यो ददाति
महासेन! राहुग्रस्ते दिवाकरे । तेन दत्तं भवेत्सर्व-
माब्रह्मभुवनान्तिकम्” इति कालोत्तरमतम् । “गोरूपं
सखुरन्दिव्यं सर्व्यलक्षणसंयुतम् । खुराग्रे विन्यसेद्वज्रं
शृङ्गे वै पद्मरागकम् । भ्रुवोर्सध्ये न्यसेद्दिव्यं मौक्तिकं
मुनिसत्तम! । वेदूर्य्येण स्तनान् कुर्य्याल्लाङ्गूलं नीलनिर्म्मि-
तम् । दन्तस्थाने प्रकर्त्तव्यं सर्व्वरत्रविभूषितम् ।
पशुवत् कारयित्वा तु वत्सं कुर्य्यात् सुशोभनम् । दशांशकेन
कर्त्तव्यं सर्व्वरत्नविभूषितम्” । कामिके तु, “तुरीयांशेन
वत्सकः” इत्युक्तम् ।
“पूर्ब्बोक्तवेदिकामध्ये मण्डलञ्च प्रकल्पयेत् । तन्मध्ये
सुरभिं स्थाप्य सर्व्वतः सर्व्वरत्नकाम् । सवत्सां सुरभि”
तत्र वस्त्रयुग्मेन वेष्टयेत् । संपूजयेत्तु गायत्र्या
सवत्सां सुरभिं पुनः । अथैकाग्निविधानेन होमं
पृष्ठ १८९७
कुर्य्यात् यथाविधि । समिधन्त्वाज्यभागेन पूर्व्ववच्छेष-
माचरेत् । शिवपूजा प्रकर्त्तव्या लिङ्गं स्नाप्य घृतादि-
भिः । गामालभ्य च गायत्र्या विपेभ्यो दापयेच्च ताम् ।
दक्षिणा च प्रदातव्या त्रिंशन्निष्कं महामते!” । गायत्र्या
गोसावित्र्याख्यस्तोत्रमन्त्रेणेत्यर्थः, “गोसावित्रीतिमन्त्रेण
मन्त्रयीत विचक्षणः” इति वातुलोक्तेः, कामिके तु
“घृताद्यैः पूजयद्देवं सहस्रकलशादिभिः । गामाराध्य
तु गायत्र्या विप्रेभ्यो दापयेच्च ताम् । आचार्य्यं पूजयेत्
पूर्व्वं केयूरकटकादिभिः । वस्त्रयुग्मञ्च दत्त्वा तु विज्ञाप्य
विधिपूर्व्वकम् । दक्षिणा तु प्रदातव्या त्रिंशन्निष्का
महातपः! । त्रिंशन्निष्कदक्षिणादानन्तु एकाग्निपक्ष-
विषयम्, अनेकाग्निपक्षे तुलापुरुषवद्दक्षिणा । तदुक्तं
शैवे । “अथैकाग्निविधानं वा समिदाज्यं हविष्ययुक् ।
त्रिंशन्निष्कावरा देया गुरोरेकाग्निकल्पतः” इति । एकाग्नि-
पक्षश्च स्वल्पवित्तविषयः । पूर्ब्बवच्छेषमिति, शेषमनुक्तं
किञ्चित् तदखिलं लिङ्गपुराणोक्ततुलापुरुषविहितमाचरे-
दित्यर्थः । कालोत्तरे “एतस्यास्तु प्रदाता यस्तेन दत्तं
चराचरम् । त्रिःसप्तकुलसंयुक्तो विमानैर्दिव्यवर्च्चसैः ।
शिवलोकमवाप्नोति यावदिन्द्राश्चतुर्द्दश । तदन्ते चक्रवर्त्ती
स्यात्, ज्ञानवांस्तु शिवं व्रजेत्” । इति नानाशास्त्रीय-
कामधेनुदानम् । वोपदेवधातुपाठव्याख्याने ५ ग्रन्थभेदे ।

कामधेनुतन्त्र न० शिवनिर्मिते तन्त्रभेदे ।

कामध्वंसिन् पु० कामं ध्वंसयति ध्वन्स--णिच्--णिनि । महादेवे हला० ।

कामन त्रि० कम--णिङ्--ल्यु । १ कामुके अम० भावे ल्युट् ।

२ अभिलाषे न० । युच् अभिलाषे स्त्री हला० । “समु-
च्चितफलकस्यापि तत्तत्कामनासहकारेण प्रत्येकफलदा-
तृत्वम्” इति विधिस्वरूपे गदाधरेणोक्तम् ।

कामन्दकि न० कमन्दकस्यापत्यम् । विद्वद्भेदे तेनैव नीति-

शास्त्रं प्रणीतम् । तस्येदम् “वृद्धाच्छः” पा० छ० ।
कामन्दकीय तत्प्रणीतनीतिशास्त्रे न० ।

कामन्धमिन् पु० स्त्री कामं यथेष्टं धमति ध्मा--णिनि बा०

धमादेशः । कांस्यकारे (कांसारि) सङ्कोर्णजातिभेदे जटा०
स्त्रियां ङीप् ।

कामनीयक न० कमनीयस्य भावः “योपधाद्गुरूपोत्तमा-

द्वुञ्” पा० वुञ् । रमणीयतायाम् “व्यलोकयत् कानन-
कामनीयकम्” नैष० पाठान्तरम् ।

कामप(त्री)ति स्त्री कामः पतिर्यस्याः सपूर्व्वकत्वात् नान्ता-

देशः ङीष् च वा । कामदेवभार्य्यायां रत्यां शब्दरत्ना० ।

कामपाल पु० कामान् पालयति पाल--अण् उप० स०

१ बलदेवे अमरः । भक्तानां कामखाभीष्टस्य पालके
स्वपुत्रस्य कामस्य वा पालके च २ वासुदेवे । “कामहा
कामपालश्च कामी कान्तः कृतागमः” विष्ण् स० ।

कामपूर त्रि० कामं पूरयति पूर--णिच्--अण् उप० सू० ।

१ अभीष्टपूरके २ परमेश्वरे पु० । “कासपूरोस्म्यऽहं नॄणाम्”
भाग० ७ । २ । २५ ।

कामप्र त्रि० काम पिपर्त्ति पॄ--मूलविभुजा० क उप० स० ।

१ अभीष्टपूरके । “कामप्रेण मनसा चरन्ता” ऋ० १ । १०
८ । २ । बि० कि । कामप्रि तत्रार्थे “मरुतः
परिवेष्टारोमरुत्तस्यावसन्गृहे । आविक्षितस्य कामप्रेर्विश्वे
देवाः सभासदः” ऐतरेयब्राह्मणम् ।

कामप्रद त्रि० कामं प्रददाति प्र + दा + क उप० स०

१ अभीष्टस्य प्रकर्षेण दातरि । २ परमेश्वरे पु० । “कान्तःकाम-
प्रदः प्रभुः” विष्णुस० । कामं कामजरतिभेदं प्रददाति ।
“द्वौ पादौ स्कन्धसंलग्नौ क्षिप्त्वा लिङ्गं भगे तथा ।
कामयेत् कामुकः प्रीत्या बन्धः कामप्रदो हि सः” स्मरदी
पिकोक्ते ३ रतिबन्धभेदे पु० ।

कामप्रवेदन न० कामस्याभिलाषस्य प्रवेदनम् आविष्कर-

णम् । स्वाभिप्रायप्रकाशने “कच्चित् कामप्रवेदने”
अमरः । “कामप्रवेदनेऽकच्चिति” पा०

कामप्रश्न पु० कामं यथेष्टम् प्रश्नः । यथेष्टप्रश्ने “तस्मै ह

याज्ञवल्क्यो वरं ददौ सहोवाच कामप्रश्नएव” । शत० ब्रा०
११ । ६ । २ । १० । “कामप्रश्नः यथाकामं प्रश्नः” भा० “याज्ञव-
ल्क्यो वरं ददौ सह कामप्रश्नमेव” शत० ब्रा० १४, ७, १, १,

कामप्रस्थ पु० न० कामस्य कामगिरेः प्रस्थः । कामगिरिसानौ

तत्र “मालादीनाञ्च” पा० वृद्धपूर्वस्यापि पस्थशब्दे परे
आद्युदात्तता । गहा० भवाद्यर्थेछ । कामप्रस्थीय तद्भवे त्रि०

कामफल पु० कामं यथेष्टं फलमस्य । महाराजाम्रवृक्षे ।

राजनि० ।

कामम् अव्य० कम--णिङ्--बा० अमु । १ अनुमतौ, २ प्रकामे,

३ पर्य्याप्ते, ४ असूयायाम्, ५ अकामानुमतौ, ६ स्वच्छ
न्दार्थे, ७ अनिष्टस्यागत्या स्वीकारे च । अमरमेदिन्यादयः ।

काममह पु० ६ त० । चैत्रमासे कर्त्तव्ये कामस्य १ महोत्-

सवे तदाधारत्वात् २ चैत्रपौर्ण्णमास्यां त्रिका० ।
काममहस्य चैत्रपौर्ण्णमास्यांकर्त्तव्यतोक्तिः प्रायिकी शत्रो-
देवताभिप्राया वा तिथितत्त्वे भविपु० “चैत्रशुक्लत्रययेश्यद्व
दमनं मदनात्मकम् । कृत्वा संपूजयेत् कामं वीजयेद्व्यजनेन
पृष्ठ १८९८
तु । तत्र सन्धुक्षितः कामः पुत्रपौत्रप्रवर्द्धनः । कामदेव-
स्त्रयोदश्यां पूजनीयो यथाविधि” । इति चैत्रत्रयोदश्यां
तत्पूजनबिधानात्” नि० सि० रामार्चनच० “द्वादश्यां
चैत्रमासस्य शुक्लायां मदनोत्सवः । बौधायनादिभिः प्रोक्तः
कर्त्तव्यः प्रतिवत्सरम्” तदीयद्वादश्यां विधानात् “तत्र
स्यात् स्वीयतिथिषु वह्न्यादेर्दमनार्पणमिति” पाद्मोक्तेः
वह्न्यादिभक्तानां स्वस्वतिथिष्वपि विधानात् । तत्र तिथि-
देवताश्च “वह्नि १ र्विरिञ्चि २ र्गिरिजा ३ गणेशः ४ फणी
५ विशाखो ६ दिनकृत् ७ महेशः । ८ दुर्गा ९ ऽन्तको १० विश्व
११ हरी १२ स्मरश्च १३ शर्वः १४ शची १५ चेति तिथीषु
पूज्याः” इत्युक्ता वेद्याः । एतदनुसारेण “शिवभक्तादिभिस्तु
चतुर्दश्यां कार्य्यमिति नि० सि० व्यवस्थापितम् ।
रघुनन्दनेन त्रयोदश्यां कार्य्यतोक्तिः त्रयोदश्याः स्मरतिथि-
त्वादन्यदेवतानुपासकाभिप्रायेणेति न विरोधः । तस्य
नित्यतोक्ता नि० सि० पाद्मे “ऊर्जे व्रतं मधौ दोलाम्
श्रावणे तन्तुपूजनम् । चैत्रे च दमनारोपमकुर्व्वाणो
व्रजत्यधः” प्रागुक्तरामार्चनच० वाक्ये च प्रतिसंवत्सर-
मित्युक्तेरपि नित्यता । सा च त्रयोदशीकरणपक्षे
द्वादशीयुक्ता ग्राह्या “त्रयोदशी प्रकर्त्तव्या द्वादशी संयुता
विभो! । ति० त० ब्रह्मवैवर्त्तात् । द्वादशीकरण-
पक्षे विशेषः” नि० सि० रामार्चनच० उक्तो यथा ।
“पारणाहे न लभ्येत द्वादशी घटिकाऽपि चेत् । तदा
त्रयोदशी ग्राह्या पवित्रदमनार्पणे” । चतुर्द्दशीकरणपक्षे
पूर्ब्बविद्धैव ग्राह्या । “मधोः श्रावणमासस्य या च शुक्ला
चतुर्द्दशी । सा रात्रिव्यापिनी ग्राह्या नान्या शुक्ला
कटाचनेति” हेमाद्रौ बौधायनोक्तेः । अन्यदिवसकरणे तु
तन्तुदामनपर्व्वणोत्युक्तवाक्योत पूर्ब्बविद्धैव तिथिर्ग्राह्या ।
दैवात् चैत्रे तदकरणे गौणः काल उक्तः” नि० सि०
रामार्चनच० । “हरौ द्विदश्यां) न दमनारोपः स्यान्मधौ
विघ्नतोयदि । वैशाखे श्रावणे वापि तत्तिथौ स्यात्तदर्प-
णम्” आवणे वापि शुक्रास्ते कर्त्तव्यमिति इति वा तत्र-
पाटः । इदञ्च मलमासे न कार्य्यम्” “उपाकर्म्मोत्-
सर्जनञ्च पवित्रदमनार्पणमिति” कालादर्शे मलमासवर्ज्येषु
परिगणनात् । उपाकर्म्म च हव्यञ्च कार्य्यं पर्व्वोत्-
सवं तथा । उतरे नियतं कुर्य्यात् पूर्ब्बे तन्निष्फलं भवेत्”
कालमा० प्रजापतियचनाच्च । शुक्रास्तादौ तु कार्य्यएव ।
रामार्चनच० पूर्व्वोक्तवचनात्” “उपाकर्म्मोत्सर्जनञ्च
पवितदमनार्पणम् । ईशानस्य बलिं विष्णोः शयनं परि-
वर्त्तनम् । कुर्य्याच्छुक्रस्य च गुरोर्मौढ्येऽपीति विनिश्चयः”
वृद्धगर्गवचनाच्च । इति दमनारोपरूपकाममहोत्सव-
स्तिथिभेदेन दर्शितः । अनङ्गव्रतरूपस्तन्महोत्सवस्तु चैत्र
शुक्लत्रयोदश्यामेव । हेमाद्रौ कालखण्डे भविष्ये “चैत्रो-
त्सवे सकललोकमनोविलासे कामं त्रयोदशतिथौ
च वसन्तयुक्तम् । पत्न्या सहार्च्य पुरुषप्रवरोऽथ
योषित् सौभाग्यरूपमुतसौख्ययुतः सदा स्यात्” सा च
पूर्ब्बयुता ग्राह्या “त्रयीदशतिथिः सिते” इति पूर्ब्बविद्धा
ग्रहणे दीपिकोक्तेः । एवं च काममहशब्देन लक्षणया
तदाधारपरत्वे चैत्रशुक्लत्रयोदश्येव ग्राह्येति तु न्याय्यम् ।

काममुद्रा स्त्री तन्त्रसा० “हस्तौ तु संपुटौ कृत्वा प्रसृता-

ङ्गुलिकौ तथा । तर्ज्जन्यौ मध्यमापृष्ठे अङ्गुष्टौ मध्यमा-
श्रितौ । काममुद्रेयमुदिता सर्व्वदेवप्रियङ्करी” ज्ञाना-
र्ण्णवोक्ते मुद्राभेदे ।

काममूत त्रि० कामेन मूतः मूर्च्छितः मव--क्त वेदे नि०

इडभावः ऊठ् काममूर्च्छिते । “काममूता बह्वे तद्रपामि”
ऋ० १०, १०, ११, “काममूता काममूर्च्छिता” भा० ।

कामयमान त्रि० काम--णिङ् शानच् । कामुके ।

कामयान त्रि० कम--णिङ् शानच् आगमशास्त्रमनित्य-

मिति मुगभावः । कामुके । “कामयानसमवस्थया तुलाम्”
रघुः । “कामयानशब्दः सिद्धोऽ नादिश्च” वामनः ।
“आने मुक्” पा० । आदौ मुक्शून्यतयाऽनादित्वेन सिद्धः ।

कामयितृ त्रि० कम--णिङ् तृच् । कामुके अमरः ।

स्त्रियां ङीप् ।

कामरूप पु० “कालेश्वरं श्वेतगिरिं त्रैपुरं नीलपर्व्वतम् ।

(यावदतिशेषः) कामरूपाभिधोदेशो गणेशगिरिमूर्द्धनि”
इत्युक्तकालेश्वरादिगिरिचतुष्टयमध्यवर्त्तिनि गणेशगिरिमूर्द्धस्थे
प्राग्ज्योतिषाख्ये देशभेदे । “योनिपीडे कामगिरौ
कामाख्या तत्र देवता” इत्युपक्रमे “सर्व्वत्र विरला चाहं
कामरूपे गृहे गृहे” तन्त्रचूड़ा० । कामेन रूपमस्य ।
२ यथेष्टरूपधारिणि त्रि० “जानामि त्वां प्रकृतिपुरुषं
कामरूपं मघोनः” मेघ० । “स्वेच्छाधीनविग्रहं दुर्ग-
सञ्चारक्षमम्” मल्लि० । कामं काम्यं सुन्दरं रूपमस्य
३ अतिशोभने त्रि० ।

कामरूपिन् त्रि० कामं काम्यरूपमस्त्वस्य प्राशस्त्येन इनि ।

१ प्रशस्तरूपवति । कामेन स्वेच्छया रूपं धार्य्यत्वेनास्त्यस्य
इनि । स्वेच्छया २ यथेष्टरूपधारिणि त्रि० । “सर्व्वमाशु
निचेतव्यं हरिभिः कामरूपिभिः” रामा० । २ विद्याधरे
पृष्ठ १८९९

कामरेखा स्त्री कामानां कामव्यापाराणां लेखा पङ्क्तिर्यत्र

लस्य रः । कामव्यापारराशियुक्तायां वेश्यायाम् शब्दमा०

कामल त्रि० कम--कलच् । १ कामुके । आधारे कलच् ।

२ वसन्तकाले पु० कस्य जलस्यामलोऽसम्बन्धो यत्र । ३
मरुदेशे च मेदिनी । ४ रोगप्तेदे पुंस्त्री मेदि० । तन्निदा-
नादि । “पाण्डुरोगी च योऽत्यर्थं पित्तलानि निषे-
वते । तस्य पित्तमसृङ्मांसं दग्ध्वा रोगाय कल्पते”
निदानम् । “हरिद्रनेत्रः सुभृशं हारिद्रदृङ्नखाननः ।
रक्तपित्तशकृन्मूत्रो भेदकर्णो हतेन्द्रियः । दाहाविपाक-
दौर्बल्यसदनारुचिकर्षितः । कामला बहुपित्तैषा कोष्ठ-
शाखाश्रया मता । कालान्तरात् खरीभूता कृछ्रा स्यात्
कुम्भकामला । तस्य सम्प्रप्तिः । तस्यारिष्टलक्षणं यथा ।
कृष्णप्रीतशकृन्मूत्रो भृशं शूनश्च भानवः । स रक्ताक्षिमुख-
च्छर्द्दिविण्मूत्री यस्य ताम्यति । दाहारुचितृषानाह-
तन्त्रामोहसमन्वितः । नश्यति श्वासकाशार्त्तो विड्भेदी
कुम्भकामली । छर्द्यरोचकहृल्लासज्वरक्लोमनिपीडितः ।
नष्टाग्निसंज्ञः क्षिप्रं हि कामलावान् विपद्यते” माधव-
निदानम् ।

कामलता स्त्री कामस्य लतेव तद्गुणभूयिष्ठत्वात् । पुंचिह्ने लिङ्गे हेम० ।

कामलायन पु० कमलस्यापत्यं नडादि० फक् । कमलापत्ये

उपकोलाख्ये मुनौ । “उपकोसलोह वै कामलायनः
सत्यकामे जावाले ब्रह्मचर्यमुवास” छा० उ० ।

कामलाक्षी स्त्री कामं यथेष्टं लाति आकर्षति ला--क तादृश

मक्षि यस्याः षच् समा० षित्त्वात् ङीष् । आकर्षणकारके
देवीमूर्त्तिभेदे” तन्त्रसा० आकर्षणप्रकरणे । “अनामारक्त
मिश्रेण कामलाक्षीमनुं जपेत्” तन्मन्त्रस्तु तत्रैव दृश्यः ।

कामलिका स्त्री कस्य जलस्यामलोऽसम्बन्धोऽस्त्यस्य ठन् ।

कङ्कुधान्ये शब्दचि० ।

कामलिन् पु० ब० व० । कमलेन वैशम्पायनान्तेवासिभेदेन

प्रोक्तमधीयते णिनि । वैशमायनान्तेवासिभेदकमलर्षि
प्रोक्ताध्यायिषु ।

कामवत् त्रि० कामोऽस्त्यस्य मतुप् मस्य वः । १ अभिलाषयुक्ते

२ मैथुनानुरागयुक्ते च स्त्रियां ङीप् “त्यागः कामवतीनां
हि स्त्रीणां सद्भिर्विगर्हितः” भा० आ० ३८६ श्लो० ।
ङीबन्तः ३ दारुहरिद्रायां राजनि० ।

कामवल्लभ पु० ६ त० । १ आमवृक्षे तन्मुकुलं हि कन्दर्पप्रियम् ।

२ ज्योत्स्नायां स्त्री राजनि० ।

कामवृक्ष पु० कामं वीजाङ्कुरनिरपेक्षतया यथेच्छं

वृक्षः । वन्दाके (परगाछा) । राजनिघण्टुः ।

कामवृत्त त्रि० कामं यथेष्टं निरङ्कुशं वृत्तमस्य । यथेष्टा-

चारिणि । “यस्तु स्यात् क्षत्रियः कश्चित् कामवृत्तः
परन्तप!” “यस्तु स्यात् कामवृत्तोऽपि पार्थ ब्रह्मपुरस्कृतः ।”
भा० आ० १७० अ० ।

कामवृत्ति स्त्री ६ त० । १ कामस्य चेष्टिते । कामेन स्वेच्छया

वृत्तिः । २ स्वेच्छाचारे । “न कामवृत्तिर्वचनीयमीक्षते”
कुमा० कामतोवृत्तिरस्य । ३ यथेष्टाचारयुक्ते त्रि० ।

कामवृद्धि पु० कामस्य वृद्धिर्यस्मात् । कर्ण्णाटदेशप्रसिद्धे (कामज)

इतिख्याते क्षुपभेदे राजनि० । ६ त० । २ कामस्य वृद्धौ स्त्री

कामवृन्ता स्त्री कामतो वृन्तं यस्याः । पाटलायाम् शब्दमा० ।

कामशक्ति स्त्री । कामस्य शक्तिर्नायिकाभेदः । पदार्था-

दर्शे राघवभट्टोक्ते १ कामदेवपत्नीभेदे । सा च पञ्चाशद्विधा
यथा “रतिः १ प्रीतिः २ कामिनी च ३, मोहिनी ४
कमलप्रिया ५ । विलासिनी ६ कल्पलता ७, श्यामला
च ८ शुचिस्मिता ९ । विस्मिताक्षी १० विशालाक्षी ११,
लेलिहाना १२ दिगम्बरा १३ । वामा १४ कुब्जा १५
धरा १६ नित्या १७, कल्याणी १८ मोहिनी १९ तथा ।
सुलोचना २० सुलावण्या २१, तथैव च विमर्द्दिनी २२ ।
कलहप्रिया २३ चेकाक्षी २४, सुमुखी २५ नलिनी २६
तथा । जटिला २७ पालिनो २८ चेव शिवा २९ मुग्धा ३०
रसा ३१ भ्रमा ३२ । चारुलोला ३३ चञ्चला ३४
च, दीर्घजिह्वा ३५ रतिप्रिया ३६ । लोलाक्षी ३७
भृङ्गिणी ३८ चैव० पाटला ३९ मादिनी ४० तथा ।
माला ४३ च हंसिनी ४२ विश्वतोमुखी ४३ नन्दिनी ४४
तथा । राञ्जनी च तथा कान्तिः ४६ । कलकण्ठी ४७
वृकोदरा ४८ । मेघश्यामा ४० रुषोन्मत्ता ५०, एवं
पञ्चाशदीरिताः । शक्तयः कुङ्कुमनिभाः सर्व्वाभरण-
भूषिताः । नीलोत्पलकरा ध्येयास्त्रैलोक्याकर्पलक्षमाः”
इति । तन्त्रसारे कामरतिन्यासे पञ्चाशद्वर्ण्णात्मकमातृ-
काया एकैकवर्ण्णयोगेन कामशबददर्शितानां पञ्चाशतः
कामानां योगेन च एतासां न्यासोऽभिहितः । तत्र-
नाममात्रे क्वचिद्भोदोऽस्ति । “पञ्चाशद्वर्ण्णगुणिता
पञ्चाशद्वर्ण्णमालिकाम् । सूते तद्वर्ण्णतोभिन्नां तथा रुद्रा-
दिकान् क्रमादिति” शा० ति० पद्यव्या० राघवभट्टेन
आदिपदेन पञ्चाशत्कामास्तच्छक्तयश्च ग्राह्या इति कीर्त्त-
णात् पञ्चाशदेव कामशक्तयः । अतः शब्दकल्पद्रुमे
कामशब्दे रतिभेदस्यैकपञ्चाशत्त्व यत् प्रतिज्ञातं तत्-
पृष्ठ १९००
प्रामादिकमेव । किञ्च एकपञ्चाशत्कामशक्तयो रतिशब्दे
द्रष्टव्या इत्युक्तिरापि प्रतिज्ञामात्रं रतिशब्दे तत्र तन्नामा-
नुल्लेखनात् पञ्चाशत्कामानामेकपञ्चाशत् शक्तयोऽ-
ऽनुपपन्ना एवेति बोध्यम् ।

कामशर पु० कामस्य शर इव । १ आम्रवृक्षे राजनि० ।

तन्मुकुलस्य कामशराकारत्वात्तस्य तथात्वम् ।

कामशास्त्र न० कामस्य काम्यस्य स्वर्गादेः प्रतिपादकं शास्त्रम् ।

१ काम्यप्रतिपादकशास्त्रे । “अर्थशास्त्रमिदम् प्रोक्त धर्म्म-
शास्त्रमिदं महत । कामशास्त्रमिदं प्रोक्त व्यासेना-
मितबुद्धिना” भा० आ० १ अ० भारतप्रशंसायान् ।
कामस्य तच्चेष्टितस्य प्रतिपादकं शास्त्रम् । २ रतिशास्त्रे च ।

कामसख पु० ६ त० टच् समा० । वसन्तकाले राजनि० ।

अतएव कुमारे “सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः” इति
“स माधवेनाभिमतन सख्या” इति “सहायमेकं मधुमेव
लब्ध्वा” इति च वसन्तस्य तत्सहायत्वं वर्ण्णितम् ।

कामसुत पु० र्द त० । अनिरुद्धे हेम० ।

कामसू त्रि० काममभीष्टं सूते सू--क्विप् ६ त० । अभीष्ट-

सम्पादके । “किमत्र चित्रं यदि कामसूर्भूः” रघुः ।
कामं कामावतारं कन्दर्पं सूते । २ रुक्मिण्यां स्त्री ।
गभाधानस्य सूतेरर्थत्वे । ३ वासुदेवे पु० ।

कामसूत्र न० कामस्य तद्व्यापारस्य प्रतिपादकं सूत्रम् ।

वात्स्यायनादिप्रणीते कामव्यापारबोधके शास्त्रभेदे ।

कामस्तुति स्त्री ६ त० । प्रतिग्रहदोषापनुत्तये प्रतिग्रहीत्रा-

पाठ्ये कामस्य स्तुतिरूपे मन्त्रभेदे स च मन्त्रः “कोऽदात्?
कस्माअदात्? कामोऽदात् कामायादात् कामोदाता कामः
प्रतिग्रहीता कामैतत्ते” यजु० ७ । ४८ । यथाचास्य
प्रतिग्रहदोषाभावज्ञापकत्वम् तथाऽस्य मन्त्रस्य व्याख्याने-
न वेददीपे दर्शितम् । यथा “दातुर्दानाभिमानाभावाय
स्वस्य प्रतिग्रहदोषाभावाय च देहेन्द्रियसघात् कामं विवि-
नक्ति कोऽदादिति । कोनरोऽदात्? दत्तवान् कस्मै
नरायादात्? । प्रश्नद्वयस्योत्तरमाह । कामोऽदात् कामा-
यैवादात् न त्वं दाता नाहं प्रतिग्रहीता । त्वत्कामा-
भिमानी देवो मत्कामाभिमानिनेऽदात् । एवञ्च कामएव
दाता कामएव प्रतिग्रहीता नान्यः । हे काम! एतद्
द्रव्यं ते तव दातृप्रतिग्रहीतृत्वात्” । अय भावः तत्तत्
फलकामनयव दात्रा तत्तद्द्रव्याणां दानात् स्वाभीष्टसिद्धये
च प्रतिग्रहीत्रा तेषां ग्रहणात कामाभिमानिनी देवस्यैव
दानप्रतिग्रहयोः प्रयोजकत्वात् द्रव्यस्वामित्वं कामदेवस्यैवेति
न प्रतिग्रहीतुरिति उक्तमन्त्रपाठे न प्रतिग्रहदोषः इति ।
अतएव “प्रतिग्रहजदोषस्य शान्त्यै कामस्तुतिं पठेत्”
स्मृतौ तत्पाठोविहितः ।

कामहन् त्रि० कामं हतवान् हन् क्विप्--६ त० । परमेश्वरे ।

“कामद्वा कामकृत् कामी” विष्णुस० । तस्य च स्वात्म-
ज्ञानेन सर्व्वकामहन्तृत्वात् तथात्वम् “छिद्यते हृदयग्रन्थि-
र्भिद्यन्ते सर्व्वसंशयाः । क्षीयन्ते चास्य कर्म्माणि दृष्टे
तस्मिन् परावरे” इति श्रुत्या तस्य दर्शनेनाविद्याग्रन्थिरूप-
कामादिविभेदकत्वमुक्तम् । तथाच तत्त्वज्ञानेन मिथ्याज्ञान-
स्य नाशे तत्कार्य्याणां रागद्वेषादिदोषाणां नाशात् तस्य
तथात्वम् तदेतदुक्तम् गौ० सू० तत्त्वज्ञानादित्यनुवृत्तौ
“दुःस्वजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापायादन-
न्तरापायादपदर्गः” इति २ महादेवे च ।

कामाक्षी स्त्री कामं शोभनमक्षि यस्याः षच् समा० षित्त्वात्

ङीष् । १ देवीमूर्त्तिभेदे तन्त्रोक्ते २ वीजभेदे च ।

कामाख्या स्त्री सतीदेव्या १ योनिपीठरूपे स्थाने २ तदधिष्ठात्र्यां

देव्याञ्च । तन्नामनिरुक्ति ५ दुर्भावादि कालि० पु० ६१ अ०
दर्शितं यथा
“श्रीभगवानुवाच । कामार्ष्टमागता यस्मान्मया सार्द्धं
महागिरौ । कामाख्या प्रोच्यते देवी नीलकूटे रहोगता ।
कामदा कमिनी कामा कान्ता कामाङ्गदायिनी । कामाङ्ग-
नाशिनी यस्मात् कामाख्या तेन चोच्यते । तत्पीठ-
कारणमुक्तं तत्रैव । “अथ काले बहुतिथे व्यतीते प्राणिस-
र्ज्जने । अगृह्णां दक्षतनयां, भार्य्यार्थेऽहं बधूवराम् । सा
मेऽभूत् प्रेयसी भार्य्या, प्रदाय समयं पितुः । अनिष्टकारी
त्वञ्चेत् स्याः, प्राणांस्त्यक्ष्ये तदा त्वहं । ततो यज्ञे समस्तन्तु
स च वब्रे चराचरम् । न मां नापि सतीं वब्रे तदनिष्टा-
न्मृता तु सा । ततो मोहसमापन्नस्तामादाय मृतानहम् ।
प्राप्तपीठवरं तन्तु भ्रममाण इतस्ततः । तस्यास्त्वङ्गानि-
पर्य्यायात् पतितानि यतो यतः । तत्तत् पुण्यतमं जातं
योगनिन्द्राप्रभावतः । तस्मिंस्तु कुब्जिकापीठे सत्यास्तद्योनि
मण्डलम् । पतितं, तत्र सा देवी महामाया व्यलीयत ।
लीनायां योगनिद्रायां मयि पर्व्वतरूपिणि । स नीलवर्णः
शैलोऽभूत् पतिते योनिमण्डले । स तु शैलो महातुङ्गः
पातालतलमाविशत् । तस्या आक्रमणाद्गाढं ततस्तं
द्रुहिणोऽभ्ययात् । स तु पूर्व्वं ब्रह्मशक्तिशिलां धर्त्तुं
चतुर्मुखः । शैलरूपोऽभवत्तेन शैलरूपेण मामधात्
ब्रह्मा पर्व्वतरूपेण मयि पर्व्वतरूपिणि । संसंक्तोऽधो
पृष्ठ १९०१
ऽगमद्गाढमाक्रान्तो मायया विधिः । ततो वराहः ससक्तो
मयि मां स तु माधवः । शैलरूपः शैलरूपं धर्त्तुं
समुपचक्रमे । सोऽप्यधोऽगान्मया सार्द्धं तदा पर्व्वतरूपिणा ।
आक्रम्य देवीं पृथिवीं स्थितो भुवि निखातकः । शतं
शतं योजनानां तुङ्गमासीद्गिरित्रयम् । तदाक्रान्तं
महादेव्या सर्व्वमेव ह्यधोगतम् । क्रोशमात्रे स्थितं तुङ्गं शेषं
तत्त्रियस्य तु । एका समस्तजगतां प्रकृतिः सा यतस्ततः ।
ब्रह्मविष्णुशिवैदेवैर्धृता सा जगतां प्रसूः । तत्र पूर्ब्बो
ब्रह्मशैलः श्वेत इत्युच्यते बुधैः । मद्रूपधारी शैलस्तु
नील इत्युच्यते तथा । स तु मध्यगतः शैलस्त्रिकोणो-
दूखलाकृतिः । विभ्राजमानः सततं मध्ये ब्रह्मवराहयोः ।
वराहः शैलरूपो यः स चित्र इति कथ्यते । स सर्व्वेषां
स्थितः पश्चात् दीर्घः सर्वेभ्य एव तु । ऐशान्यां
योऽभवत् कूर्म्मः शैलरूपो महाद्युतिः । मणिकर्णः स
नाम्ना तु ख्यातो देवौघसेवितः । योऽनन्तरूपः शैलस्तु
वायव्यां समवस्थितः । मणिपर्व्वतसंज्ञोऽसौ पर्वतो
माधवप्रियः । महामायागिरिर्यस्तु नैरृत्यां समवस्थितः ।
स गन्धमादनो नाम्ना सर्वदा शङ्करप्रियः । वराहपृष्ठभवने
यत्र छिन्नौ महासुरौ (मधुकैटभौ) । हरिणा तत्र संजातः
प्राण्डुनाथ इति स्मृतः । ब्रह्मशक्तिशिलायास्तु पूर्ब्ब-
भागे तु मध्यतः । यस्तु पर्वतरूपोऽहं स तु भस्माचला-
ह्वयः । पुण्यकूटे मया सार्द्धं देवी रहसि संस्थिता ।
सत्यास्तु पतितं तत्र विशीर्णं योनिमण्डलम् । शिला-
त्वमगमत शैले कामाख्या तत्र संस्थिता । संस्पृश्य तां
शिलां मर्त्यो ह्यमर्त्यत्वमवाप्नुयात् । तस्याः शिलाया
माहात्म्यात् यत्र कामेश्वरी स्थिता । अद्भुतं यस्य गुह्ये
तु लोहं भस्म भवेद्गतम् । सा चाप्रि प्रत्यहं पुत्र! पञ्च-
मूर्त्तिधरा भवेत् । मोहार्थं सर्वलोकानां ममापि प्रीतये
शिवा । अह पञ्चमुखेनाश पञ्चभागे व्यवस्थितः ।
ईशानः पूर्व्वभागस्थः कामेश्वर्य्याः प्रधानतः । ऐशान्यां
वै तत्पुरुषो ह्यघोरस्तस्य सन्निधौ । सद्योजातोऽथ वाय
व्यां वामदेवस्तु सङ्गतः । देव्याश्चापि सुरश्रेष्ठ! पञ्चरूपाणि
भैरव! । शृणु वेताल! गुह्यानि देवैरपि सदैव हि ।
कामाख्या त्रिपुरा चैव तथा कामेश्वरी शिवा ।
सारदाऽथ महोत्साहा कामरूपगुणैर्युता । मयि लिङ्गत्वमा-
पन्ने शिलायां योनिमण्डले । सर्वे शिलात्वमगमन्
शैलरूपाश्च निर्ज्जराः । यथाहं निजरूपेण रेमे वै सह
सायया । तिलारूपप्रतिच्छन्नास्तदा सर्वास्तु देवताः ।
शिलारूपप्रतिच्छन्नाः शैले शैवे व्यवस्थिता । रमन्ते च
स्वरूपेण नित्यं रहसि सङ्गताः । ब्रह्मा विष्णुरहञ्चात्र
दिक्पालाः सर्व एव ते । अन्येऽप्यत्र स्थिता देवाः सानु-
कूलाः सदा मयि । उपासितुं तदा देवीं कामाख्यां
कामरूपिणीम् । नीलशैलस्त्रिकोणस्तु मध्ये निम्नः
सदाशिवः । तन्मध्ये मण्डलं चारु षष्टिशक्तिसमन्वितम् ।
गुहा मनोभवा तत्र मनोभवविनिर्म्मिता । योनिस्तस्यां
शिलायान्तु शिलारूपा मनोहरा । वितस्तिमात्रविस्तीर्ण्णा
एकविंशाङ्गुलायता । क्रमसूक्ष्मविनिर्म्माणभस्मशैलानु-
गामिनी । सिन्दूरकुङ्कुमारक्ता सर्वकामप्रदायिनी । तस्यां
योनौ पञ्चरूपा नित्यं तिष्ठति कामिनी । महामाया
जगद्धात्री मूलभूता सनातनी । तत्राष्टौ योगिनीर्नित्यं
सूलभूताः सनातनीः । पूर्ब्बोक्ताः शैलपुत्राद्याः स्थिता
देव्याः समन्ततः । तासान्तु पीठनामानि शृणु चैकत्र भैरव! ।
गुप्तकामा १ च श्रीकामा २ तथा च विन्ध्यवासिनी ३ ।
कोटीश्वरी ४ धनस्था ५ तु पाददुर्गा ६ तथापरा । दीर्घे-
श्वरी ७ क्रमादेव प्रकटा भुवनेश्वरी ८ स्वयोगिन्यः
पोठनाम्ना ख्याता अष्टौ च देवताः । सर्वतीर्थानि चैकत्र
जलरूपाणि भैरव! । स्थितानि नाम्ना सौभाग्या वरेण्या
प्राणिपुण्यदा । विष्णुस्तु तीरे तस्याः स नाम्ना कमल
इत्युत । कामुकाख्यस्तु वटुकः कामाख्याभ्यर्णसंस्थितः ।
लक्ष्मीः सरस्वती देव्यौ देव्या अङ्गे व्यवस्थिते ।
ललिताख्याऽभवल्लक्ष्मीर्म्मातङ्गी तु सरस्वती । गणाध्यक्षः पूर्बभागे
तस्य शैलस्य संस्थितः । सिद्धः स नाम्ना विख्यातो द्वारि
देव्याः प्रियः सुतः । कल्पवृक्षः कल्पबल्ली तिन्तिड़ी
चापराजिता । भूतास्तस्मिन्महाशैले स्थिते देव्या धृतप्रिये ।
वराहः पाण्डुनाथाख्यः स्थितस्तत्र हरिर्यतः । जघने
शिरसी कृत्वा जघान मधुवैटभौ । तस्यासन्ने ब्रह्मकुण्डं
ब्रह्मणा निर्म्मितं पुरा । ईशानाख्यं शिरोरत्नं तत्
सिद्धेश्वरसंज्ञकम् । शिलारूलं सिद्धकुण्डं मध्यस्थं विद्धि
भैरव! । तस्यासन्ने गयाक्षेत्रं क्षेत्रं वाराणसी तथा” ।
“योनिमण्डलसङ्काशं कुण्डं भूत्वा व्यवस्थितम् ।
तत्रैवामृतकुण्डन्तु सुधासंघप्रपूरितम् । मम प्रियार्थ-
मिन्द्रेण स्थापितं सह निर्ज्जरैः । वामदेवाह्वयं शीर्षं
श्रीकामेश्वरसंज्ञकम् । कामकुण्डं महापुण्यं तस्यासन्ने
व्यवस्थितम् । केदारसंज्ञकं क्षेत्रं मध्यस्थं सिद्धकामयोः ।
दीर्घं चतुर्द्दशव्यामं छायाच्छत्राह्वयं तु तत् । तस्यासन्ने
शैलपुत्री गुप्तकामाह्वया तु सा । गुप्तकुण्डस्य मध्यम्था
पृष्ठ १९०२
कामेशग्राव्णि सङ्गता । कामेश्वरशिलासक्ता लामाख्या-
सज्ञिता सदा । पूर्व्वभागेण संसक्ता योनेस्तु परभागतः ।
कामकामाख्ययोर्म्मध्ये कालरात्रिर्व्यवस्थिता । पीठे
दीर्घेश्वरी नाम्ना सीमाभागे प्रचण्डिका । कामाख्या-
प्रस्तरप्रान्ते कुष्माण्डी नाम योगिनी । पीठे कोटीश्वरी
नाम्ना योनिरूपेण संस्थिता । यच्चाघोराह्वयं शीर्षं
तत् कामायास्तु दक्षिणे । पीठे भैरवनामा तु गीयते
परमर्षिभिः । चामुण्डाभैरवी नाम्ना भैरवासन्नसं-
स्थिता । नायिका कामदा भक्ते, चण्डमुण्डविनाशिनी ।
कामाभैरवयोर्म्मध्ये स्वयं देवी सुरापगा । हिताय सर्व्व-
जगतां देव्यास्तु प्रीतये स्थिता । सद्योजाताह्वयं शीर्षं
पीठे त्वाम्रातकेश्वरम् । भैरवाख्ये गह्वरे तु स्थितं
देवर्षिसेवितम् । विद्धि तत्रैव दुर्गाख्यां नायिकां योगरूपि-
णोम् । सिद्धकामेश्वरीं नाम्ना ख्यातां देवेषु नित्यशः ।
अजीर्णपत्रः सुच्छायो वृक्षस्तत्र तु संस्थितः । आम्रा-
तकः कल्पवृक्षः कल्पवल्लीसमन्वितः । पीठे तु सिद्धगङ्गाख्या
स्वयं गङ्गा समुत्थिता । आम्रातकस्य निकटे मम प्रीति-
विवृद्धये । पुष्कराख्यन्तु तत् क्षेत्रं पीठे त्वाम्रातका-
ह्वयम् । ऐशान्यां तत्पुरुषाख्यं मम शीर्षं व्यवस्थितम् ।
भुवनेश्वरनाम्ना तु पीठे ख्यातञ्च भैरव! । गह्वरं
भुवनेशस्य भुवनानन्दसंज्ञकम् । तस्यासन्ने तु सुरभिः
शिलारूपेण संस्थिता । कामधेनुरिति ख्याता पीठे
कामप्रदायिनी । योऽसौ सरभमूर्त्तिस्तु मध्यखण्डप्रच-
ण्डकः । चण्डभेरवनामाऽभूत् कोटिलिङ्गाह्वयस्तु सः ।
मूर्त्तिभिः पञ्चभिः पञ्चभागेष सममास्थितः । अहं पश्चा-
दतिप्रीत्या भैरवाख्यः स्थितोऽधरे । महागौरी तु या
देवी योगिनी सिद्धरूपिणी । सा ब्रह्मपर्वते चास्ते
शिलारूपेण चोर्द्धतः । अतीवरूपसम्पन्ना नाम्ना सा
त्वपराजिता । कामधेनोरदूरस्था पूर्ब्बभागे महेश्वरी ।
श्रीकामाख्या योनिरूपा चण्ड़िका सा तु योगिनी ।
आग्नेय्यां विद्धि तां संस्थां सर्व्वकामप्रदां शुभाम् ।
योगिनी चण्डघण्टाख्या पीठेऽभूत् विन्ध्यवासिनी ।
योगिनी स्कन्दमाता तत्पीठेऽभूद्वनवासिनी । कात्या-
यनीपीठनाम्ना पाददुर्गेति गद्यते । नैरृत्यां नीलशैलस्य
प्रान्ते सा संस्थिता शिवा । योऽसौ नन्दी मम तनुः स
तु पाषाणरूपधृक् । संस्थितः पश्चिमद्वारि हनूमान्
पाठनामतः” ।
क्षेत्रपरत्वमप्युक्तं देवीगीतायाम् यथा “श्रीमत् त्रिपुरभै-
रव्याः कामाख्या योनिमण्डलम् । भूमण्डले क्षेत्ररत्नं महा
मायाधिवासितम् । नातःपरतरं स्थानं क्वचिदस्ति
धरातले । प्रतिमासं भवेद्देवी यत्र साक्षाद्रजस्वला । तत्रत्याः
देवताः सर्व्वोः पर्व्वतात्मकतां गताः । पर्व्वतेषु वसन्त्येव
महत्यो देवता अपि । तत्रत्या पृथिवी सर्व्वा देवीरूपा
स्मृता बुधैः । नातःपरतरं स्थानं कामाख्यायोनि-
मण्डलात्” ।

कामाग्निसन्दीपन न० भैषज्यरत्नावलीदर्शिते मोदकभेदे

“कर्षोरसोगन्धकमभ्रकञ्च द्विक्षारचित्रे लवणानि पञ्च ।
शठीयमानीद्वयकीटहारितालीशपत्राण्यपरं द्विकर्षम् ।
जीरं चतुर्जातलवङ्गजातिफलञ्च कर्षत्रयमेवमन्यत् ।
सवृद्धदारं कटुकत्रयञ्च तथा चतुष्कर्षमितं निबोध । धन्या-
कयष्टीमधुकं कशेरु, कर्षाः पृथक् पञ्च वरी विदारी ।
वीरेभकाणेभबलात्मगुप्तावीजं तथा गोक्षुरवीजयुक्तम् ।
सवीजपत्रेन्द्ररजःसमानं समा सिता क्षौद्रघृतञ्च तुल्यम् ।
कर्षैकमिन्दोरथ मोदकं तत् कामाग्निसन्दीपनमेतदुक्तम्” ।
तद्गुणाश्च कामस्याग्नेश्च दीपकतादयस्तत्रोक्ता द्रष्टव्याः ।

कामाङ्कुश पु० कामे कामोद्दीपने अङ्कुशैव । १ नखे त्रिका०

तस्याघातेन कामोद्दीपनात् तस्य तथात्वम् । कामस्य च
तिथिभेदे स्थानविशेषे नखाघातेन यथोद्दीपनं भवति तथा
स्मरदीपिकायामुकं तच्च वाक्यं कामशब्दे दर्शितम् ।
२ पुंसोलिङ्गे जटाधरः । कामस्याङ्कुशैव । ३
कामप्रतिरोधके च ।

कामाङ्ग पु० कामं कामोद्दीपनम् अङ्गं मुकुलमस्य । आम्रवृक्षे जटाधरः ।

कामात्मज पु० ६ त० । अनिरुद्धे ।

कामात्मन् पु० कामप्रधानः रागप्रधान आत्मा मनोयस्य ।

रागप्रधानचित्ते । “कामात्मता न प्रशस्ता न चैवेहास्त्य-
कामता” मनुः । कामः तदायत्तः आत्मा स्वरूपं यस्य ।
२ कामायत्तस्वरूपे कामप्रसक्ते ३ काममये च । “कामा-
त्मानं तदात्मानं न शशाक नियच्छितुम्” भा० आ०
१८४ श्लो० । कामात्मानं काममयमात्मानमन्तःकरणम्
नियच्छितुमित्यार्षः नियन्तुमित्यर्थे ।

कामाधिष्ठान न० ६ त० । इन्द्रियमनोबुद्धिषु “इन्द्रियाणि

मनोबुद्धिरस्याधिष्ठानमुच्यते” गीतायामिन्द्रियादीनां
अस्य--कामस्याधिष्ठानत्वोक्तेस्तेषां तथात्वम् ।

कामानशन न० काममनशनम् । यथेष्टभीजनरहिते

तपोभेदे । रार्गद्वेषादिरहितैरिन्द्रियैः विषयसेवनेऽपि यथेष्टा-
नशनं भवत्येवेति बोध्यम् ।
पृष्ठ १९०३

कामान्ध पुंस्त्री कामेन कामोद्दीपनेन अन्धयति अन्ध णिच्-

अच् । १ कोकिले राजनि० । तदुध्वनिना हि कामस्योद्दी-
पनात्तस्य तथात्वम् । स्त्रियां जातित्वात् ङीष् । कामेनान्धः
६ त० । २ स्मरान्धे स्मरवेगेन कर्त्तव्यताज्ञानशून्ये त्रि० ।

कामान्धा स्त्री कामं यथेष्टमन्धयति अन्ध--अच् । कस्तूर्य्यां

राजनि० । तस्याः कृष्णरूपत्वेन यथेष्टान्धकारतुल्यत्वात्
तथात्वम् ।

कामायुध यु० कामस्यायुधमिव मुकुले आकारोऽस्त्यस्य अच् ।

आम्रवृक्षे राजनि० । ६ त० । कामस्यास्त्रे न० ।

कामायुस् पु० कामं यथेष्टमायुर्यस्य । गरुड़े त्रिका० ।

कामारण्य न० कामं शोभनमरण्यम् । मनोहरवने शब्दर०

कामारि पु० ६ त० । १ महादेवे । २ माक्षिकोपधातुभेदे च हेमच०

कामार्त्त त्रि० कामेन ऋतः ३ त० वृद्धिः । कामेन पीडिते

“कामार्त्ताहि प्रकृतिचपलाश्चेतनाचेतनेषु” मेघ०

कामालिका स्त्री काममलति भूषयति अल--भूषणे ण्वुल्

टापि अत इत्त्वम् । सुरायां हारा० ।

कामालु पु० कामं यथेष्टमलति पुष्पविकाशेन अल--पर्य्याप्तौ

उण् । रक्तकाञ्चने शब्दच० । तस्य पुष्पेण सर्व्वावयवव्या-
पनात् तथात्वम् ।

कामावतार पु० ६ त० । रौक्मिणेये वासुदेवात्मजे ।

कामावशायिता स्त्री कामेन इच्छया अवशाययति पदार्थान्

स्वचित्ते अव + शी--णिच्--णिनि तस्य भावः तल् । सत्यसङ्क-
ल्पत्वे योगिनामैश्वर्यभेदे शब्दचि० यथेच्छं पदार्थानां स्वचित्ते
समावेशनात् योगिनस्तथात्वम् । अन्येषां निश्चेतव्यानु-
सारेण पदार्थनिश्चयान्न तयात्वम् ।

कामावसायिता स्त्री कामेन स्वेच्छयाऽवस्यति पदार्थान्

अव + सो--णिनि तस्य भावः तल् । सत्यसङ्कल्पत्वरूपे योगि-
नामैश्वर्य्यभेदे । “अणिमा लघिमा प्राप्तिः प्राकाम्यञ्च
तथेशिता । व्यापित्वञ्च वशित्वञ्च तथा कामावसायिता” ।
“यथास्य सङ्कल्पो भवति भूतेषुतथैव भूतानि भवन्ति अन्येषां
निश्चया निश्चेतव्यमनुविधीयन्ते” इति सां० कौ० ।

कामासन न० कामस्यति क्षिपत्यनेन अस--करणे ल्युट्

६ त० । रुद्रयामलोक्ते आसनभेदे । तल्लक्षणं यथा “अथ
कामासनं वक्ष्ये काममर्दनहेतुना । गरुडासनमाकृत्य
कनिष्ठाग्रं स्पृशेद्भुवि” । गरुडासनञ्च गरुडासनशब्देवक्ष्यते

कामि त्रि० कम--णिङ्--इण् । कामुके । कामपत्न्यां रत्यां

स्त्री मेदि० ।

कामिक पुंस्त्री कामोऽस्त्यस्यठन् । १ कारण्डवपक्षिणि शब्दर०

स्त्रियां जातित्वात् ङीष् । कामेन निर्वृत्तम् ठञ् ।
२ कामेन निर्वृत्ते काम्ये । “देवतास्तस्य तुष्यन्ति कामिकं
तस्य सिध्यति” भा० अनु० ६०२५ श्लो० । स्त्रियां ङीप् ।
“ततैष्टिं चकारर्षिस्तस्य वै पुत्रकामिकीम्” भा० अनु०
१९६९ श्लो० । कामिकं काम्यमधिकृत्य कृतोग्रन्थः अण् ।
३ काम्याधिकारेण कृते ग्रन्थे हेमाद्रौ तत्प्रमाणानि
भूरीणि सन्ति कामधेनुशब्दे दिङ्मात्रं दृश्यम् ।

कामिन् त्रि० कम--णिङ्--णिनि । १ कामनायुक्ते २

अतिशयस्मरवेगयुक्ते च । “स बभूव ततः कामी तया सार्द्ध-
मकामया” भा० आ० ४१८४ श्लो० । स्त्रियां ङीप्
ङीबन्तः ३ स्त्रीसामान्ये । काम + भूम्नि प्राशस्त्ये वा इनि ङीप् ।
४ अतिस्मरवेगयुक्तायां स्त्रियां ५ सुन्दर्य्यां च स्त्री अमरः ।
“केषां नैषा भवतिकविता कामिनी कौतुकाय” प्रसन्नरा० ।
“मधूनि वक्त्राणि च कामिनीनामामोदकर्म्म व्यति-
हारमीयुः” माघः । ६ भीरुस्त्रियां ७ वन्दायां
(परगाछा) मेदि० । ८ दारुहरिद्रायां सुन्दरवर्णवत्त्वात्
तस्या तथात्वम् ९ सुरायाञ्च स्त्री राजनि० । तस्याः कामा-
धिक्यसम्पादकत्वात्तथात्वम् । प्रशस्तः कामोऽस्त्यस्य इनि ।
१० सत्यसङ्कल्पे परमेश्वरे पु० । “कामी कान्तः कृतागमः”
विष्णुस० । ११ चक्रवाके १२ पारावते च पुंस्त्री मेदि०
१३ चटके पुंस्त्री शब्दर० एतेषां कामातिशयवत्त्वात्तथा-
त्वम् । १४ चन्द्रे पु० त्रिका० कामोद्दीपकत्वात्तस्य तथात्वम् ।
१५ ऋषभोषधौ पु० सेवनेन कामपोषणात्तस्य तथात्वम् ।
१६ सारसपक्षिणि च पुंस्त्री राजनि० कामुकत्वात्तस्य
तथात्त्वम् । सर्वत्र स्त्रियां ङीप् १७ कामशक्तिभेदे स्त्री ।
कामिनीविरागानुरागचिह्नतत्सेवप्रकारादिः वृ० स० दर्शितो
यथा “शस्त्रेण वेणीविनिगूहितेन विदूरथं (राजभेदम्) स्वा
महिषी जघान । विषप्रदिग्धेन च नूपुरेण देवी विरक्ता
किल काशीराजम् । एवं विरक्ता जनयन्ति दोषान्
प्राणच्छिदोऽन्यैरनुकीर्त्तितैः किम्? । रक्ता विरक्ताः
पुरुषैरतोऽर्थात् परीक्षितव्याः प्रमदाः प्रयत्नात् ।
स्नेहं मनोमवकृतं कथयन्ति भावान्नाभीभुजस्तनविभूषण-
दर्शनानि । वस्त्राभिसंयमनकेशविमोक्षणानि भ्रूक्षेपकम्पित-
कटाक्षनिरीक्षणानि । उच्चेःष्ठीवनमुत्कटप्रहसितं शर्य्या-
सनोत्सर्पणं गात्रास्फोटनजृम्भणानि सुलभद्रव्याल्प-
सम्प्रार्थना । बालालिङ्गनचुम्बनान्यमिमुखे सख्याः
समालोकनं दृक्पातश्च पराङ्नुखे गुणकथा कर्णस्य
कण्डूयनम् । इमां च विन्द्यादनुरक्तचेष्टां प्रियाणि वक्ति
पृष्ठ १९०४
स्वधनं ददाति । विलोक्य संहृष्यति वीतरोषा प्रमार्ष्टि
दोषान् गुणकीर्तनेन । तन्मित्रपूजा तदरिद्विषत्वं कृतस्मृतिः
प्रोषितदौर्मनस्यम् । स्तनौष्ठदानान्युपगूहनं च स्वेदोऽथ
चुम्बाप्रथमाभियोगः । विरक्तचेष्टा भ्रुकुटीमुखत्वं पराङ्मु-
खत्वं कृतविस्मृतिश्च । असंभ्रमोदुष्परितोषता च तद्द्विष्ट-
मैत्री परुषं च वाक्यम् । स्पृष्ट्वाथवालोक्य धुनोति गात्र
करोति गर्वं न रुणद्धि यान्तम् । चुम्बाविरामे वदनं
प्रमार्ष्टि पश्चात्समुत्तिष्ठति पूर्वसुप्ता । भिक्षाणिका प्रव्र-
जिता दासी धात्री कुमारिका रजिका । मालाकारी
दुष्टाङ्गना सखी नापिती दूत्यः । कुलजनविनाशहेतु-
र्दूत्यो यस्मादतः प्रयत्नेन । ताभ्यः स्त्रियोऽभिरक्ष्या
वंशयशोमानवृद्यथम् । रात्रीविहारजागररोगव्यपदेश-
परगृहेक्षणिकाः । व्यसनोत्सवाश्च संकेतहेतवस्तेषु रक्ष्या-
श्च । आदौ नेच्छति नोज्झति स्मरकथां व्रीडावि-
मिश्रालसा मध्ये ह्रीपरिवर्ज्जिताभ्युपरमे लज्जाविन-
म्रानना । भावैर्नैकविधैः करोत्यभिनयं भूयश्च या सादरा
बुद्धा पुम्प्रकृतिं च यानुचरति ग्लानेतरैश्चेष्टितैः । स्त्रीणां
गुणा यौवनरूपवेषदाक्षिण्यविज्ञानविलासपूर्वाः । स्त्री-
रत्नसञ्ज्ञा च गुणान्वितासु स्त्रीव्याधयो ऽन्याश्चतुरस्य
पुंसः । न ग्राम्यवर्णैर्मलदिग्धकाया निन्द्याङ्गसम्बन्धिकथां
च कुर्य्यात् । न चान्यकार्य्यस्मरणं रहःस्था मनो हि
मूलं हरदग्धमूर्त्तेः । श्वासं प्रकम्पेण समं त्यजन्ती बाहू-
पधानस्तनदानदक्षा । सुगन्धकेशा प्रसभोपरागा सुप्ते
ऽनुसुप्ता प्रथमं विबुद्धा । दुष्टस्वभावाः परिवर्जनीया
विमर्दकालेषु च न क्षमा याः । यासाममृग्वा सितनील-
पीतमाताम्रवर्णं च न ताः प्रशस्ताः । या स्वप्नशीला
बहुरक्तपित्ता प्रवाहिनी वातकफातिरिक्ता । महाशना स्वेद-
युताङ्गदुष्टा या ह्रस्वकेशी पलितान्विता च । मांसानि
यस्याश्च चलन्ति नार्य्या महोदरा खिक्खिमिनी च या
स्यात् । स्त्रीलक्षणे याः कथिताश्च पापास्ताभिर्न कुर्य्या-
त्सह कामधर्म्मम् । शशशोणितसङ्काशं लाक्षारससन्नि-
काशमथवा यत् । प्रक्षालितं विरज्यति यच्चासृक् तद्भवेच्छु-
द्धम् । यच्छब्दवेदनावर्जितं त्र्यहात्सन्निवर्तते रक्तम् ।
तत् पुरुषसम्प्रयोगादविचारं गर्भतां याति । न दिनत्रयं
निषेवेत् स्नानं माल्यानुलेपनं च स्त्री । स्नायाच्चतुर्थ-
दिवसे शास्त्रोक्तेनोपदेशेन । पुष्पस्नानौषधयो याः
कथितास्ताभिरम्बुमिश्राभिः । स्नायात्तथात्रमन्त्रः स एव
यस्तत्र निर्द्दिष्टः । युग्मासु किल मनुष्या निशासु नार्यो
भवन्ति विषमासु । दीर्घायुषः सुरूपाः सुखिनश्च विकृष्ट
(प्रशस्त) युग्मासु । दक्षिणपार्श्वे पुरुषो, वामे नारी,
यमावुभयसंस्थौ । यदुदरमध्योपगतं नपुंसकं तन्निबोद्ध-
व्यम् । केन्द्रत्रिकोणेषु शुभस्थितेषु लग्ने शशाङ्के च शुभैः
समेते । पापैस्त्रिलाभारिगतैश्च यायात् पुञ्जन्मयोगेषु च
सम्प्रयोगम् । न नखदशनविक्षतानि कुर्य्याद् ऋतुसमये
पुरुषः स्त्रियाः कथञ्चित् । ऋतुरपि दश षट् च
वासराणि प्रथमनिशात्रितयं न तत्र गम्यम्” ।
“आयुःक्षयभयाद्विद्वान्नाह्नि सेवेत कामिनीम् । अवशो
यदि सेवेत तदा ग्रीष्मवसन्तयोः” इति सामान्यत उक्त्वा
बालाद्यवस्थापन्नकामिनीनां सेवने फलम्, कामिनीसेवन
प्रकारश्च भावप्र० दर्शितो यथा
“बालेति गीयते नारी यावद्वर्षाणि षोडश । ततस्तु
तरुणी ज्ञेया द्वात्रिंशद्वत्सरावधि । तदूर्द्ध्वमधिरूढ़ा
स्यात् पञ्चाशद्वत्सरावधि । वृद्धा तत्परतो ज्ञेया सुरतोत्स-
ववर्जिता । अधिरूढा प्रौड़ा । निदाघशरदोर्बाला हिता
विषयिणी (भोगार्हा) मता । तरुणी शीतसमये प्रौढ़ा वर्षा-
वसन्तयोः । नित्यम्बाला सेव्यमाना नित्यं वर्द्धयते बलम् ।
तरुणी ह्णासयेच्छक्तिं प्रौढोद्भावयते जराम् । सद्यो
मांसन्नवञ्चान्नं बाला स्त्री क्षीरभोजनम् । घृतमुष्णो-
दके स्नानं सद्यः प्राणकराणि षट् । पूति मांसं स्त्रियो
वृद्धा बालार्कस्तरुणं दधि । प्रभाते मैथुनं निद्रा सद्यः
प्राणहराणि षट् । प्राणशब्दोऽत्र बलवाचकः । बालार्कः
कन्यार्कः । वृद्धोऽपि तरुणीं गत्वा तरुणत्वमवाप्नुयात् ।
वयोऽधिकां स्त्रियङ्गत्वा तरुणः स्थविरायते ।
आयुष्मन्तो मन्दजरा वपूर्वर्णबलान्विताः । स्थिरोपचित
मांसाश्च भवन्ति स्त्रीषु संमताः । सेवेत कामतः कामं
बलाद्वाजीकृतो हिमे । प्रकामन्तु निषेवेत मैथुनं शिशि-
रागमे । त्र्यहाद्वसन्तशरदोः पक्षात् वृष्टिनिदाघयोः ।
सुश्रुतस्तु “त्रिभिस्त्रिभिरहोभिर्हि समेयात्प्रमदां नरः ।
सर्व्वेष्वृतुषु घर्म्मेषु पक्षात्पक्षाद्व्रजेद्बुधः” । समेयात् सङ्ग-
च्छेत घर्म्मेषु ग्रीष्मेषु । “शीते रात्रौ दिवा ग्रीष्मे वसन्ते तु
दिवानिशि । वर्षासु वारिदध्वाने शरत्सु सरसः स्मरः ।
उपेयात् पुरुषो नारीं सन्ध्ययोर्नच पर्व्वसु । गोसर्गे
चार्द्धरात्रे च तथा मध्यदिनेऽपि च । विहारम्भार्य्यया
कुर्य्याद्देशेऽतिशयसंवृते । रम्ये श्रव्याङ्गनागाने सुगन्ते
मुखमारुते । देशे गुरुजनासन्ने विवृतेऽतित्रपाकरे ।
श्रूयमाणे व्यथाहेतुवचने न रमेत ना । स्नातश्चन्दनति-
पृष्ठ १९०५
प्ताङ्गः सुगन्धः सुमनोऽन्वितः । भुक्तवृष्यः सुवसनः
सुवेशः समलङ्कृतः । ताम्बूलवदनः पत्न्यामनुरक्तो-
ऽधिकस्मरः । पुत्रार्थी पुरुषो नारीमुपेयाच्छयने
शुभे । अत्याशितोऽधृतिः क्षुद्वान् सव्यथाङ्गः पिपा
सितः । बालो वृद्धोऽन्यवेगार्त्तस्त्यजेद्रीगी च मैथुनम् ।
रोगी मैथुनसंवर्द्धनीयरोगयुक्तः । भार्य्यां रूपगुणो-
पेतां तुल्यशीलां कुलोद्भवाम् । अभिकामोऽभिकामान्तु
हृष्टो हृष्टामलङ्कृताम् । सेवेत प्रमदां युक्त्या वाजी-
करणवृहितः । रजस्वलामकामाञ्च मलिनामप्रिया-
न्तथा । वर्णवृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम् ।
हीनाङ्गीं गर्भिणीं द्वेष्यां योनिरोगसमन्विताम् ।
सगोत्राङ्गुरुपत्नीञ्च तथा प्रव्रजितामपि । नाभिगच्छेत्
पुमान्नारीं भूरिवैगुण्यशङ्कया । रजस्वलाङ्गतवतो
नरस्यासंयतात्मनः दृष्ट्यायुस्तेजसां हानिरधर्मश्च ततो
भवेत् । लिङ्गिनीं गुरुपत्नीञ्च सगोत्रामथ पर्व्वसु ।
वृद्धाञ्च सन्ध्ययोश्चापि गच्छतो जीवनक्षयः । लिङ्गिनीं
प्रब्रजिताम् । गर्भिण्यां गर्भपीड़ा स्याद्व्याधितायां
बलक्षयः । हीनाङ्गीं मलिनां द्वेष्यां क्षामाम्बन्ध्यामसं
वृते । देशेऽभिगच्छतो रेतः क्षीणं म्लानं मनो भवेत् ।
गर्भिणीं गर्भवासदिवसात् द्वितीये मासि, गर्भस्थिते-
रनिश्चये यथोक्तनक्षत्रादिलाभाभावे वा तृतीये मासि
पुंसवने कृते नाभिगच्छेत् । यतः पुंसवनानन्तरमाह
व्यासः “ततस्त्यजेन्नदीतीरं देवखातोदकं तथा । भर्त्तुः
शय्यां मृतापत्यां तथैवामिषभोजनम्” । अन्यच्च “आमिष-
स्याशनं यत्नात्प्रमदा परिवर्ज्जयेत् । देवारामनदी-
यानं प्रयोगं पुरुषस्य चेति” । क्षुधितः क्षुब्धचित्तश्च
मध्याह्ने तृषितोऽबलः । स्थितस्य हानिं शुक्रस्य वायोः
कोपञ्च विन्दति । व्याधितस्य रुजा प्लीहा मूर्च्छा मृत्युश्च
जायते । प्रत्यूषे चार्द्धरात्रे च वातपित्ते प्रकुप्यतः ।
तिर्य्यग्योनावयोनौ वा दुष्टयोनौ तथैव च । उपदं-
शस्तथा वायोः कोपः शुक्रसुखक्षयः । उच्चारिते मूत्रिते
च रेतसश्च विधारणे । उत्ताने च भवेत् शीघ्रं शुक्रा-
श्मर्य्यास्तु सम्भवः । सर्व्वमेतत्त्यजेत्तस्माद्यतो लोक
द्वयाऽहितम् । शुक्रन्तूपस्थितम्मोहान्न सन्धार्य्यं कदाचन ।
स्नानं सशर्क्वरं क्षीरं भक्ष्यमैक्षवसंयुतम् । वातोमांसरसः
स्वप्नो सुरतान्ते हिता अमी । शूलकासज्वरश्वास
कार्श्यपाण्ड्वामयक्षयाः । अतिव्यवायाज्जायन्ते रोगाश्चाक्षे-
प्रकांदयः” ।

कामिनीश पु० कामिन्याः कामिनीप्रियाञ्जनस्य इमखत्-

साधनत्वात् । शोभाञ्जनवृक्षे शब्दच० । तस्य कामिनी
प्रियाञ्जनहेतुत्वात् तथात्वम् ।

कामीन पु० काममनुगच्छति ख । १ रामपूगे त्रिका० । कामा-

नुगते त्रि० । कामील इति त्रिका० पाठान्तरं पृषो० । रामपूगे ।

कामुक त्रि० कमः उकञ् । १ अशोकवृक्षे २ माधवीलतायाम्

मेदि० । ३ चटके पुंस्त्री राजनि० । मैथुनेच्छावति त्रि०
अम० । स्त्रियां ङीप् । इच्छामात्रयुक्ते त्रि० अम० तत्र
स्त्रियां न ङीप् किन्तु टाप् इति भेदः “बोधयित्वा शुभै-
र्वाक्यैः कामिनीमिव कामुकः” रामा० ।

कामुककान्ता स्त्री ६ त० । माधवीलतायाम् राजनि० ।

कामुकायन पु० स्त्री कामुकस्यापत्यं नड़ादि० फक् । कामु-

कापत्ये स्त्रियां ङीप् ।

कामेश्वर पु० कामानामीश्वरः । १ परमेश्वरे २ भरवीभदे

स्त्री “कामेश्वरी च रुद्रार्णा पूर्व्वसिंहासने स्थिता” तन्त्रसा०
कामाख्यापञ्चमूर्त्त्यन्तर्गते ३ मूर्त्तिभेदे च स्त्री “देव्या-
श्चापि नरश्रेष्ठ! पञ्च रूपाणि भैरव! । शृणु वेताल!
गुह्यानि देवैरपि सदैव हि । कामाख्या १ त्रिपुरा २ चैव
तथा कामेश्वरी ३ शिवा ४ । सारदा ५ ऽथ महोत्साहा
कामरूपगुणैर्युता” कालिका पु० ६१ अ० ।

कामोदक न० कामेन स्वेच्छता प्रेतोद्देशेन दीयमानम्

उदकम् । मृतोद्देशेन स्वेच्छया दीयमाने उदके । स्वेच्छया
तद्दानञ्चप्रेतविशेषायैव यथाह मनुः “नाद्विवर्षस्य कर्त्तव्या
बान्धवैरुदकक्रिया । जातदन्तस्य वा कुर्य्युर्नाम्निवाऽपि कृते
सति” अत्र वाशब्देन इच्छया तद्दानम् । व्यक्तमाह लौगा-
क्षिः “तूष्णीमेवोदकं कार्यं तूष्णीं संस्कारमेव च । सर्वेषां
कृतचूड़ानामन्यत्रापीच्छया द्वयम्” चौलकर्मानन्तरकाले
नियमेनाग्न्यदकं कार्य्यम् अन्यत्रापि नामकरणादूर्द्ध्वभ-
कृतचूडेऽपि इच्छया प्रेताभ्युदयकामनया द्वयमग्न्युदक-
दानाख्यं तूष्णीं कार्य्यं न नियमेनेति विकल्पः” मिता०

कामोदा स्त्री कुत्सितो मोदो यस्याः । रागिणीभेदे हला० ।

काम्पिल्य पु० १ देशभेदे शब्दरत्ना० २ पुरभेदे च । “माकन्दी-

मथ गङ्गायास्तीरे जनपदायुताम् । सोऽध्यवात्सीत्
दीनमनाः काम्पिल्यञ्च पुरोत्तमम्” । दक्षिणांश्चापि पाञ्चालान्
यावत् चर्म्मण्वतीं नदीम् । द्रोणेन चैवं द्रुषदः परिभूया-
ऽथ पालितः” भा० आ० १८० । “काम्पिल्ये ब्रह्मदत्तस्य
त्वन्तःपुरनिवासिनी” भा० शा० १३९ अ० । तत्र
जातादि “धन्वयोपधाद्वुञ्” पा० वञ । काम्पिल्यक
पृष्ठ १९०६
तद्भवादौ । काम्पिल्यदेशः उत्पत्तिस्थानत्वेनास्त्यस्य अच् ।
(गुड़ारोचना) ३ नामगन्धद्रव्ये अस्यैव चूर्णम् (कमला
गुडि) कापिल्ल काम्पिल्यक एतावप्यत्र पृषो० साधु ।

कापिल्लका स्त्री देशभेदे हारावली ।

काम्पील पु० पृषो० काम्पिल्यशब्दार्थे “देवीं काम्पील

वासिनोम्” यजु० २३ । १८ । स्वार्थे कन् तथार्थे ।

काम्बल पु० कम्बलेन परिवृतो रथः अण् । कम्बलपरि-

वृते रथे अमरः ।

काम्बविक पु० स्त्री कम्बुः शङ्खभूषणं शिल्पमस्य ठक् ।

“येषाञ्च विरोधः शाश्वतिकः” पा० निर्देशात् “इसुसुक-
तान्तात् कः” पा० इत्यस्यानित्यत्वेन न कादेशः किन्तु
ठस्येकः । शङ्खकारे (शाँखारी) अमरः स्त्रियां जाति-
त्वात् ङीष् ।

काम्बुका स्त्री० कुत्सितमम्बु यस्य कोः कादेशः कप् । अश्वगन्धायाम् रत्नमाला ।

काम्बोज त्रि० कम्बोजोऽभिजनो यस्य सिन्ध्वा० अण् । पित्रा-

दिक्रमेण कम्बोजदेशवासिनि स्त्रियां ङीप् । कम्बोजदेशे
भवः कच्छा० अण् । कम्बोजभवेऽमनुष्ये त्रि० “शतं यस्तु
काम्बोजान् ब्राह्मणेभ्यः प्रयच्छति” भा० शा० ३५ अ० । २
सोमबल्के ३ पुन्नागवृक्षे च पु० मेदि० । कम्बोजानां जनपदानां
राजा अण् । ४ कम्बोजदेशनृपे “शकायवनकाम्बोजास्तास्ताः
क्षत्रियजातयः । वृषलत्वं प्ररिगता ब्राह्मणानामदर्शनात्”
भा० अनु० ३३ अ० । न केवलं तेषां शूद्रत्वं किन्तु सगरेण
वेशान्यत्वं धर्म्महीनत्वं च कृतं तच्च हरिवं १४ अ० वर्णितं
यया । “ततः शकान् सयवनान् काम्बोजान् पारदांस्तथा ।
पह्रवांश्चाथ निःशेषान् कर्त्तुं व्यवसितः किल । ते बध्यमाना
वीरेण सगरेण महात्मना । वशिष्ठं शरणं गत्वा प्रणि-
पेतुर्मनीषिणम् । वमिष्ठस्त्वथ तान् दृष्ट्वा सभयेन
महाद्युतिः । सगरं वारयामास तेषां दत्त्वाऽभयं तदा ।
सगरस्तु प्रतिज्ञाय गुरोर्वाक्यं निशम्य च । धर्मं जधान
तेषां वै वेशान्यत्वं चकार ह । अर्द्धं शकानां शिरसो
मुण्डयित्वा व्यसर्ज्जयत् । यवनानां शिरः सर्व्वं काम्बो-
जानां तथैव च । पारदा मुक्तकेशाश्च पह्नवाः श्मश्रुधा-
रिणः । निःस्वाध्यायवषट्काराः कृतास्तन महात्मना ।
शका यवनकाम्बोजाः पारदाः पह्नवास्तथा । कोलिसर्पाः
समहिपाः दार्व्वाश्चोलाः सकेरलाः । सर्वेते क्षत्रिया
स्तात! धर्मस्तेषां निराकृतः । वसिष्ठदचनाद्राजन्! सगरेण
महात्मना” । तेन तेषां प्राक्क्षत्रियत्वेऽपि पश्चात् सगरेण
स्वधर्मनिराकरणेन निःस्वाध्यायतादिकरणेन च म्नेच्छत्वं
कृतम् । कम्बोजेषु भवा अमनुष्यतत्स्यत्वात् कच्छा
अण् ङीप् । ५ माघपर्ण्याम् (माषाणी) अम० । ६ श्वेत-
खदिरे (पापड़ीखएर) मेदि० । ७ गुञ्जायां (कुँच)
८ वाकुच्याम् (हाकुच) च स्त्री राजनि० ।

काम्बोजक न० कम्बोजे भवो मनुष्यस्तत्स्थोवा “मनुष्यतत्

स्थयोर्वुञ्” पा० वुञ् । कम्बोजदेशभवे १ मनुष्ये २ तत्स्थे
हास्यादौ च ।

काम्य त्रि० कम--णिङ् कर्मणि यत् । १ कामनाविषये

“काम्योहि वेदाधिगमः कर्मयोगश्च वैदिकः” मनुः ।
“काम्यानां स्वफलार्थञ्च दोषघातार्थमेव च ।
अतःकाम्यं नैमित्तिकं प्रायश्चित्तमिति स्थितिः” प्रा० त०
जावालः । काम्यत्वञ्च तत्तत्फलकामनावदधिकारि-
कर्त्तव्यत्वम् । काम्यकर्मणामपि फलाभिसन्धानाभावेनानु-
ष्ठाने मोक्षदत्वम् तदेतत् मल० त० निर्णीतम् ।
मनुः “इह चामुत्र वा काम्यं प्रवृत्तं कर्म्म कीर्त्त्यते ।
निष्कामं ज्ञानपूर्व्वन्तु निवृत्तमुप्रदिश्यते । प्रवृत्तं कर्म्भ
संसेव्य देवानामेति सार्ष्टिताग् । निवृत्तं सेवमानस्तु
भूतान्यत्येति पञ्च वै” । “कामनापूर्व्वकं कर्म्म शरीर-
प्रवृत्तिहेतुत्वात् प्रवृत्तं तदेव कर्म्म कामनारहितम्
पुनर्ब्रह्मज्ञानाभ्यासपूर्व्वकं संसारनिवृत्तिहेतुत्वात् निवृ-
त्तमुच्यते । सार्ष्टितां समानगतिताम् ऋषेर्गत्यर्थत्वात् ।
पञ्च भूतान्यत्येति अतिक्रामति मोक्षं प्राप्नोतीत्यर्थः”
विष्णुपुराणम् । “विशिष्टफलदाः काम्या निष्कामाणां
विमुक्तिदाः” । भगवद्गीतापि “युक्तः कर्म्मफलं त्यक्त्वा शान्ति-
माप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तोनि-
बव्यते” । युक्तईश्वराय कर्म्माणि, न फलाय इत्येवं
समाहितः फलं त्यक्त्वा कर्म्माणि कुर्व्वन्निति शेषः
शान्तिं मोक्षाख्यां नैष्ठिकीं निष्ठायां भवाम् । सत्व-
शुद्धिज्ञानप्राप्तिसर्वकर्म्मसन्न्यासज्ञाननिष्ठाक्रमेणेति वाक्य
शेषः । अयुक्तस्तद्बहिर्मुखः कामकारेण कामप्रेरिततया
कामतः प्रवृत्तेरिति यावत् । फले सक्तः मम फलाय
इदं, कर्म्म करोमीत्येवं फले सक्तोनियतं बन्धं प्राप्नोति
तथाचार्ज्जुनं प्रति भगवद्धाक्यम् । “मयि सर्व्वाणि
कर्म्माणि सन्न्यस्याध्यात्मचेतसा । निराशीर्निर्ममोभूत्वा
युध्यस्व विगतज्वरः” । सन्न्यस्य निःक्षिप्य समर्प्य इति
यावत् । अध्यात्मचेतसा विवेकबुद्ध्या अहंकर्त्ता ईश्व-
राय भृत्यवत् करोमीत्यनया बुद्ध्या । निराशीस्त्यक्तकाम-
सङ्कल्पः । अतएव निर्म्मनोमसतारहितः विगत-
पृष्ठ १९०७
ज्वरः विगतसन्तापः । व्यक्तमाह सएव “यत् करोषि
यदश्नासि यज्झोषि ददासि यत् । यत् तपस्यसि
कौन्तेय! तत् कुरुष्व मदर्पणम्” । विष्णुपुराणे । “कर्म्मा-
ण्यसङ्कल्पिततत्फलानि सन्न्यस्य विष्णौ परमात्मरूपे ।
अवाप्य तां कर्ममहोमनन्ते तस्मिँल्लयं ते त्वमलाः प्रायन्ति” ।
तां कममहीं भारवर्षरूपाम् । भाग० एकादशस्कन्धे “वेदो-
क्तमेव कुर्व्वाणोनिःसङ्गोऽर्पितुमोश्वरे । नैष्कर्म्म्यां लभते
सिद्धिं रोचनार्था फलश्रुतिः” । वेदोक्तमेव कुर्वाणो न तु
निषिद्धम् । ननु कर्मणि क्रियमाणे तस्मिन्नासत्तिस्तत्
फलञ्च स्यात् नतु नैष्कर्म्म्यरूपा फलसिद्धिः? अतआह
निःसङ्ग इति अनभिनिवेशितवान्, ईश्वरेऽर्पितुं न
फलोद्देशेन । अथ फलस्य श्रुतत्वात् कर्मणि कृते फलं भवत्येव
इत्यत आह रोचनार्था इति । कर्मणि रुच्युत्पादानार्था ।
अतएव तत्रैव “फलश्रुतिरियं नॄणां न श्रेयो रोचनं परम् ।
श्रेयोविवक्षया प्रोक्ता यथा भैषज्यरोचनम् । उत्पत्त्यैव
हि कामेषु प्राणेषु स्वजनेषु च । आसक्तमनसोमर्त्या
आत्मनोऽनर्थहेतुषु । न तानविदुषः स्वार्थं भ्राम्यतो-
वृजिनाध्वनि । कथं युञ्ज्यात् पुनस्तेषु तांस्तमोविशतोबुधः ।
एवं व्यवस्थितं केचिदविज्ञाय कुबुद्धयः । फलश्रुतिं
कुसुमितां न वेदज्ञा वदन्ति हि” । इयं फलश्रुतिर्न श्रेयः-
परमपुरुषार्थपरा न भवति किन्तु बहिर्मुखानां मोक्ष-
विवक्षया अवान्तरकर्मफलैः कर्मसु रुच्युत्पादनमात्रम् ।
यथा भैषज्ये औषधे रुच्युत्पादनम् । यथा “पिब निन्वं
प्रदास्यामि खलु ते स्वण्डलड्डुकान् । पित्रैवमुक्तः पिबति
तिक्तमप्यतिबालकः” । अत्र यथा तिक्तनिम्बादिपानस्य न
खलु खण्डलड्डुकादिलाभ एव प्रयोजनम् किन्त्वारोग्यम् ।
तथा वेदोऽप्यवान्तरफलैः प्रलोभयन् मोक्षायैव कर्म्माणि
विधत्ते । ननु कर्मकाण्डे मोक्षस्य नामापि न श्रूयते
कुत एवं व्याख्यायते यथाश्रुतस्यैवाघटनादित्यतआह
उत्पत्त्येति द्वाभ्याम् । उत्पत्त्या स्वभावतएव कामेषु पश्वा-
दिषु प्राणिषु आयुरिन्द्रियबलवीर्य्यादिषु पुत्रदारादिषु
परिपाकतोदुःखहेतुषु अतस्तान् स्वार्थं परमसुखमविदुषः
अजानतो अतो नतान् प्रह्वीभूतान् बुधोवेदोयद्बोधयति
तदेव श्रेय इति विश्वसितानित्यर्थः तानेवम्भूतान् वृजि-
नाध्वनि पापे वर्त्मनि देवादियोनौ भ्राम्यतः । पुनस्त
मोभूतवृक्षादियोनौ विशतः पशुकाम इति चायुरिन्द्रिया-
दिकाम इति च पुत्रादिकाम इति च कथं पुनस्तेषु स्वयं
बुधोवेदोयुञ्ज्यात् । तथासत्यनाप्तः स्यादिति भावः ।
कथं तर्हि कर्ममीमांसकाः कर्मफलपरतां वदन्ति तत्राह
एवमिति व्यवस्थितम् । वेदस्याभिप्रायमविज्ञाय कुसुमिताम्
अवान्तरफलरोचनतया रमणोयां परमफलश्रुतिं वदन्ति
यतस्ते कुबुद्धयः तदाह हि यस्मात् वेदज्ञा व्यासादयः
तथा न वदन्तीति । अतएव निष्कामकर्मणात्मज्ञानमित्युक्तम् ।
यथा “अयमेव क्रियायोगोज्ञानयोगस्य साधकः । कर्म-
योगं विना ज्ञानं कस्यचिन्नैव दृश्यते” । सोऽपि दुरितक्षय-
द्वारा न साक्षात् । तथाच “ज्ञानमुत्पद्यते पुंसां क्षयात्
पापस्य कर्मणः । श्रुतिः “तमेतं वेदार्थवचनेन ब्राह्मणा
विविदिषन्ति ब्रह्मचर्थ्येण तपसा दानेन श्रद्धया यज्ञेनान-
शनेन चेति” तमात्मानम् । अतएव यज्ञादीनां ज्ञान-
शेषताञ्चावधार्य्य निष्कामेषु कर्मसु प्रवर्त्तते । पण्डिते-
नापि मूर्खः काम्ये कर्मणि न प्रवर्त्तयितव्यः इत्याह
भाग० षष्ठस्कन्धे “स्वयं निःश्रेयसं विद्वान् न वक्त्यज्ञाय
कर्म हि । न राति रोगिणेऽपथ्यं वाञ्छतेऽपि
भिषक्तमः’ । राति ददाति । फलकामनानिन्द्यत्वमुक्तं तत्रैव
“अकामः सात्विकोलोको यत्किञ्चिद्विनिवेदयेत् । तेनैव
स्थानमाप्नोति यत्र गत्वा न शोचते । धर्मबाणिजिका-
मूढ़ाः फलकामा नराधमाः । अर्च्चयन्ति जगन्नाथं ते
कामानाप्नुवन्त्यथ । अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
पद्भ्यां प्रतीच्छते देवः सकामेन निवेदितम् । मूर्द्ध्ना
प्रतीच्छते दत्तमकामेन द्विजोत्तमाः”! इति वामनपुरा०
काम्यमपि दानं विष्णुप्रीतये सार्व्वकालिकम् यथा
म० त० “पुरुषोत्तमस्य तुष्ट्यर्थं प्रदेयं सार्व्वकालिकम्
श्रीदत्तः “सार्व्वकालिकं मलमासादावपि विष्णुप्रीत्यर्थं
देयम्” मल० त० रघु० । “सम्यक् संसाधनं कर्म कर्त्तव्यमधि-
कारिणा । निष्कामेण सदा पार्थ! काम्यं कामान्वि-
तेन च” प्रा० त० भविष्यपु० । काम्यञ्च “यांत्कञ्चित् कुरुते
कर्भयज्ञदानजपादिकम् । क्रियते कायिकं यच्च तत्काम्य-
मिति कीर्त्तितम्” इत्युक्तलक्षणम् । काम्याच्च सर्वाङ्गो-
पेतात् फलनिष्पत्तिः इति कात्या० श्रौ० प्रतिपादि-
तम् तच्च कात्यायनशब्दे १८६५ पृ० प्रदर्शितम् ।
२ अभिरूपे सुन्दरे च “नासौ न काम्यो नच वेद सम्यक्”
रघुः । कामाय हितं यत् । ३ कामोद्दीपके त्रि० ।

काम्यक न० १ वनभेदे । तस्य स्थानादि भा० व० ५ अ० दर्शितं

यथा “सरस्वतीदृषद्वत्यौ यमुनां च निषेव्य ते । ययुर्वनेनैव
वनं सततं पश्चिमां दिशम्” इत्युपक्रमे “ततः सरस्वती
कूले समेषु मरुधन्वसु । काम्यकं नाम ददृशुर्वनं सुनिजन-
प्रियम्” । २ सरोवरभेदे च । “शैलाभान्नित्यमत्तांश्चाप्यभितः
काम्यकं सरः” भा० प्र० ५१ अ० ।
पृष्ठ १९०८

काम्यकर्म्मन् न० कर्मधा० । स्वर्गादीष्टकामनावदधिकारि-

कर्त्तव्ये ज्योतिष्टोमादौ “तथैव काम्यं यत्कर्म वत्सरात्
प्रथमादृते” लघुबौधा० ।

काम्यदान न० कर्मधा० । स्वर्गादिफलकामनया कर्त्तव्ये दाने

“अपत्यविजयैश्वर्य्यस्वर्गार्थं यत्प्रदीयते । दानं तत्काम्यमा-
ख्यातमृषिभिर्धर्मचिन्तकैः” मरुड़पु० । तस्य बन्धहेतुत्वे
नामरे प्रावरणसंज्ञा कृता ।

काम्यफल न० काम्यस्य फलम् । काम्यकर्म्मणः अभिसन्धी-

यमाने फले । “पितॄन्नमस्ये दिवि ये च मूर्त्ताः
स्वधाभुजः काम्यफलाभिसन्धौ । प्रदानशक्ताः सकलेप्सि-
तानां विमुक्तिदा येऽनभिमंहितेषु” प्रा० त० रुचिस्तवः ।
काम्यानामपि फलाभिसन्धानाभावे मुक्तिफलकत्वमुक्तं
काम्यशब्दे । कृत्रिमदेवानां पितॄणां तथात्वोक्त्या स्वतः-
सिद्धानामाजानदेवानामिन्द्रादीनां तथात्वस्यौचित्यमेव ।

काम्या स्त्री कम--णिङ् भावे बा० क्यप् स्त्रीत्वम् ।

कामनायाम् “अष्टैतान्यव्रतघ्नानि आपोमूलं फलं पयः ।
हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम्” प्रा० त० बौधा० ।
“प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानाञ्च काम्यया” मनुः ।
“पुंसः कथं स्यादिह पुत्रकाम्या” इत्यादौ तु “काम्यच्च”
पा० सुबन्तात् कर्म्मण इच्छायां काम्यच् ततोभावे अ ।
स्वपुत्रेच्छा इत्यर्थः ।

काम्ल न० कुगतिस० कोः कादेशः । ईषदम्ले १ रसे २ तद्वति त्रि० ।

काय त्रि० कः प्रजापतिः, कं सुखं वा ततः देवताद्यर्थे

तस्येदं वा अण् “कस्येत्” पा० इदन्तादेशे वृद्धिः ।
प्रजापतिदेवताके हविरादौ “अथ काय एककपालः पुरो
डाशोभवति कं वै प्रजापतिः प्रजाभ्यः कायेनैकादशकपाले
न पुरोडाशेन कुरुते तस्मात्काय एककपालः पुरोडाशो-
भवति” शत० ब्रा० २, ५, २, १३! स्त्रियां ङीप् कायी वशा ।
“कायं कनिष्ठिकामूले तीर्थमुक्तं करस्य तु” शङ्खोक्ते
२ कनिष्ठाङ्गुलिमूलस्थानरूपे प्रजापतितीर्थे न० । “ब्राह्मेण
विप्रस्तीर्थेन नित्यकालमुपस्पृशेत् । कायत्रैदशिकाभ्यां वा
न पित्र्येण कदाचन । अङ्गुष्ठ मूलस्य तले ब्राह्मं तीर्थं प्रच-
क्षते । कायमङ्गुलिमूलेऽग्रे दैवं पित्र्यं तयोरधः” मनुना
पवित्रतासाधनतया तत्तत्स्थानस्य तीर्थत्वमुक्तम् । याज्ञ०
कनिष्ठदेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च । प्रजापतिपितृ-
ब्रह्मदेवतीथान्यनुक्रमात्” । तेन कनिष्ठाङ्गुलिमूलस्य प्रजा-
पतितीर्थत्वात् कायत्वं सुव्यक्तमुक्तम् । एतेन शब्दकल्प-
द्रुमे मेदिनिस्थकदैवतशब्दस्य ब्राह्मतीर्थपरताव्याख्यानं
निर्मूल ब्राह्मप्राजाप्रत्यतीर्थयो उक्तस्मृतिषु भेदेन
निर्देशात् । कायसम्बन्धिकार्य्योपयोगित्वात् ३ मनुष्यतीर्थे
न० मेदि० । ४ प्रजापतिदेवताके विवाहभेदे पु० । “इत्यु-
क्त्वाऽऽचरतां धर्म्ममिति वाचानुभाष्य च । कन्याप्रदान-
मभ्यर्च्य प्राजापत्योविधिः स्मृतः” इति प्राजाप्रत्यं
परिभाष्य प्राजापत्यकाययोः पर्य्यायत्वाशयेन मनुना तारय-
न्तीत्यनुवृत्तौ “आर्षोढाजः सुतस्त्रीं स्त्रीन् षट् षट् कायो-
ढजः सुतः” इत्युक्तम् । “कायोढज इत्यत्र वह भावे क्त ऊढं
विवाहः कायादूढात् विवाहाज्जायते इत्यर्थः । चीयतेऽदः
चि--कर्म्मणि घञ् चेः कत्वम् । ५ मूलधने पु० । मूलधनस्य
वृद्ध्या उपचीयमानत्वात् तथात्वम् “कायाविरोधिनी
शश्वत् पणवृद्ध्या तु कायिका” नारदस्मृतिः । करणे घञ् ।
स्वभावे ६ वस्तुस्वभावेन प्रदार्थानां चीयमानत्वात्
तथात्वम् । चिधातोर्निश्चयपरत्वे कर्म्मणि घञ् । ७ लक्ष्ये-
मेदि० लक्षणेन लक्ष्यस्य निश्चीयमानत्वात्तथात्वम् ।
भावे घञ् । ८ संघे पु० मेदि० चीयते भक्षितान्नादिरसैः
कर्म्मणि, चीयतेऽस्थ्यादिकमत्र आधारे वा घञ् । ९ देहे
तस्य विशेषस्वरूपं याज्ञ० मिताक्षरयोर्दर्शितं यथा
“कायस्वरूपं विवृण्वन्नाह “तस्य षोढा शरीराणि षट् त्वचो
धारयन्ति च । षडङ्गानि तथास्थ्नाञ्च सह षष्ट्या
शतत्रयम्” याज्ञ० । तस्यात्मनोयानि जरायुजाण्डज-
शरीराणि तानि प्रत्येकं षट्प्रकाराणि रक्तादिषड्धातु-
परिपाकहेतुभूतषडग्निस्थानयोगित्वेन । तथाह्यन्नरसो
जाठराग्निना पच्यमानो रक्तताम्प्रतिपद्यते रक्तञ्च
स्वकोशस्थाग्निना पच्यमानं मांसत्वम्, मांसञ्च स्वकोशा-
नलपरिपक्वं मेदस्त्वम्, मेदोऽपि स्वकोशवह्निना पक्व-
मस्थिताम्, अस्थ्यपि स्वकोशशिस्विपरिपक्वं मज्जात्वम्,
मज्जापि स्वकीशपावकपरिपच्यमानश्चरमधातुतया
परिणमते । चरमधातीस्तु परिणतिर्नास्तीति सएवात्मनः
प्रथमः कोश इत्येवं षट्कोशाग्नियोगित्वात्षट्प्रकारत्वं
शरीराणाम् । अन्नरसरूपस्य तु प्रथमधातोरनियतत्वान्न
तेन प्रकारान्तरत्वम् । तानि च शरीराणि षट्
त्वचोधारयन्ति रक्तमांसमेदोस्थिमज्जाशुक्राख्याः
षट्धातव एव रम्भास्तम्भत्वगिव बाह्याभ्यन्तररूपेण स्थिताः ।
त्वगिवाच्छादकत्वाच्च षट् त्वचोधारयन्ति । तदिदमायु-
र्वेदे प्रसिद्धम् । तथाङ्गानि च षडेव । करयुग्मं चरण-
पृष्ठ १९०९
युगलमुत्तमाङ्गङ्गात्रमिति । अस्थ्नान्तु षष्टिसहितं
शतत्रयमुपरितनषट्श्लोक्या वक्ष्यमाणमवगम्यम् । किञ्च
“स्थालैः सह चतुष्रष्टिर्दन्ता वै विंशतिर्नखाः । पाणिपाद-
शलाकाश्च तासां स्थानचतुष्टयम्” या० । स्थालानि
दन्तमूलप्रदेशस्थान्यस्थीनि द्वात्रिंशत् तैः सह द्वात्रिंश-
द्दन्ताश्चतुःषष्टिर्भवन्ति । नखाः कररुहा विंशतिर्हस्त
पादस्थानि शलाकाकाराण्यस्थ्नीनि मणिबन्धस्योपरि-
वर्त्तीन्यङ्गुलिमूलस्थानि विंशतिरेव । तेषां नखानां
शलाकास्थ्नाञ्च स्थानचतुष्टयं, द्वौ चरणौ द्वौ करौ चेत्येवमस्थ्ना-
ञ्चतुरुत्तरं शतम् । किञ्च । “षष्ट्यङ्गलीनां द्वे पार्ष्ण्योर्गु-
ल्फेषु च चतुष्टयम् । चत्वार्य्यरत्निकास्थीनि जङ्घयोस्तावदेव
तु” या० । विंशतिरङ्गुलयस्तासामेकैकस्य त्रीणि त्रीणीत्येव
मङ्गुलिसम्बद्धान्यस्थीनि षष्टिर्भवन्ति । पादयोः पश्चिमौ
भागौ पार्ष्णी तयोरस्थिनी द्वे एकैकस्मिन् पादे गुल्फौ
द्वावित्येवञ्चतुर्षु गुल्फेषु चत्वार्य्यस्थोनि । बाह्वोररत्नि-
प्रमाणानि चत्वार्य्यस्थीनि । जङ्घयोश्च तावदेव चत्वार्य्ये
वेत्येबञ्चतुः सप्ततिः । किञ्च “द्वेद्वे जानुकपोलोरुफल-
कांससमुद्भवे । अक्षतालूषके श्रोणिफलके च विनिर्दि-
शेत्” या० । जङ्घोससन्धिर्जानुः । कपोलोगल्लः । ऊरुः
सक्थि तत्फलकम् । अंसोभुजशिरः । अक्षः कर्ण-
नेत्रयोर्मध्ये शङ्खादधोभागः । तालूषकङ्काकुदम् । श्रोणी
ककुद्मती तत्फलकम् । तेषामेकैकत्रास्थिनी द्वे द्वे
विनिर्दिशेदित्येवं चतुर्दशास्थीनि भवन्ति । किञ्च “भगा-
स्थ्येकन्तथा पृष्ठे चत्वारिंशच्च पञ्च च । ग्रीवा पञ्चदशा-
स्थिः स्याज्जत्त्व्रकैकन्तथा हनुः” या० । गुह्यास्थ्येकं, पृष्ठे
पश्चिमभागे पञ्चचत्वारिंशदस्थीनि भवन्ति । ग्रीवा कन्ध-
रा सा पञ्चदशास्थिःस्यात् भवेत् । वक्षोऽसयोः सन्धि-
र्जत्रु प्रतिजत्त्वेकैकम् । हनुश्चिवुकम् । तत्राप्येक-
मस्थि इत्येवञ्चतुःषष्टिः । किञ्च “तन्मूले द्वे ललाटाक्षि-
गण्डे नासाघनास्थिका । पार्श्वकाः स्थालकैः सार्द्धमर्बु-
दैश्च द्विसप्ततिः” या० । तस्य हनोर्मूलेऽस्थिनी द्वे । ललाट-
म्भालम् । अक्षि चक्षुः । गण्डः कपोलाक्षयोर्म्मध्यप्रदेशः
तेषां समाहरोललाटाक्षिगण्डम् । तत्र प्रत्येकमस्थि-
युगलम् । नासाघनसंज्ञकाऽस्थिमती । पार्श्वकाः कक्षाधः-
प्रदेशसंबद्धान्यस्थीनि । तदाधारभूतानि स्थालकानि तैः
स्थालकैः अर्बुदैश्चास्थिविशेषैः सह पार्श्वका द्विसप्ततिः ।
पूर्ब्बोक्तैश्च नवभिः सार्द्धमेकाशीतिर्भवन्ति । किञ्च “द्वौ”
शङ्खकौ कपालानि चत्वारि शिरसस्तथा । उरःसप्तदशा-
स्थि स्यात् पुरुषस्यास्थिसंग्रहः” या० । भ्रूकर्णयोर्मध्यप्रदे-
शावस्थिविशेषौ शङ्खकौ । शिरसः सम्बन्धीनि चत्वारि
कपालानि । उरोवक्षः तत्सप्तदशास्थिकं इत्येवं त्रयोविंश-
तिः । पूर्वोक्तैश्च सह षष्ट्यधिकं शतत्रयमित्येवं पुरुषस्या-
स्थिसंग्रहः कथितः । सविषयाणि ज्ञानेन्द्रियाण्याह ।
“गन्धरूपरसस्पर्शशब्दाश्च विषयाः स्मृताः । नासिकालो-
चने जिह्वात्वक्श्रोत्रञ्चेन्द्रियाणि च” या० । एते गन्धादयो
विषयाः पुरुषस्य बन्धनहेतवः विषयशब्दस्य षिञ् बन्धन
इत्यस्य धातोर्व्युत्पन्नत्वात् । एतैश्च गन्धादिभिर्बोध्यत्वेन
व्यवस्थितैः । स्वस्वगोचरसंवित्साधनतयाऽनुमेयानि घ्राणा-
दीनि पञ्चेन्द्रियाणि भवन्ति । कर्मेन्द्रियाणि दर्शयितु-
माह । “हस्तौ पायुरुपस्थञ्च जिह्वा पादौ च पञ्च वै ।
कर्मेन्द्रियाणि जानीयान्मनश्चैवोभयात्मकम्” या० । हस्तौ
प्रसिद्धौ । पायुर्गुदम् । उपस्थं रतिसम्पाद्यसुखसाधनम् ।
जिह्वा प्रसिद्धा, पादौ च एतानि हस्तादीनि पञ्च-
कर्मेन्द्रियाणि । आदाननिर्हारानन्दाहारविहारादि-
कर्मसाधनानि जानीयात् । मनोऽन्तःकरणं युगपज्ज्ञाना-
नुत्पपत्तिगम्यं तच्च बुद्धिकर्मेन्द्रियसहकारितयोभयात्मकम् ।
प्राणायतनानि दर्शयितुमाह “नाभिरोजो गुद शुक्रं
शोणितं शङ्खकौ तथा । मूर्द्धांसकण्ठहृदयं प्राणस्यायतनानि
तु” या० । नाभिप्रभृतीनि दश प्राणस्य स्थानानि ।
समाननाम्नः पबनस्य सकलाङ्गचारित्वेऽपि नाभ्यादिस्थान-
विशेषवाचीयुक्तिप्राचुर्य्याभिप्रायेण । प्राणायतनानि प्रप-
ञ्चयितुमाह । “वपावसावहननं नाभिः क्लोम यकृत् प्लिहा ।
क्षुद्रान्त्रं बुक्वकौ वस्तिः पुरीषाधानमेव च । आमाशयोऽथ
हृदयं स्थूलान्त्रं गुदएव च । उदरञ्च गुदौ कोष्ट्यौ विस्ता-
रोऽयमुदाहृतः” या० । वपा प्रसिद्धा । वसा मांसस्नेहः ।
नाभिः प्रसिद्धा । अवहननं पुप्पुसः । प्लीहा
आयुर्वेदप्रसिद्धः । तौ च मांसपिण्डाकारौ सव्यकुक्षिगतौ ।
यकृत्कालिका । क्लोम मांसपिण्डस्तौ च दक्षिणकुक्षिगतौ ।
क्षद्रान्त्रं हृत्स्थान्त्रम् । बुक्वकौ हृदयसमीपस्थौ मांस
पिण्डौ । वस्तिर्मूत्राशयः । पुरीषाधानं पुरीषाशयः ।
आमाशयोऽपक्वान्नस्थानम् । हृदयं हृत्पुण्डरीकस् ।
स्थूलान्त्रगुदोदराणि प्रसिद्धानि । बाह्यात् गुदवलयदि-
न्तर्गुदवलये द्वे । तौ च गुदौ कोष्ठ्यौ कोष्ठे नाभेरधः-
प्रदेशेभवौ । अयञ्च प्राणायतनस्य विस्तार उक्तः पूर्व-
श्लोके तु संक्षेपः । अतएव पूर्वश्लोकोक्तानां केषाञ्चिदिह
पाठः । पुनः प्राणायतनप्रपञ्चार्थमाह । कनीनिके
पृष्ठ १९१०
चाक्षिकूटे शष्कुली कर्णपत्रकौ । कर्णौ शङ्खौ भ्रुवौ दन्त-
वेष्टावोष्ठौ ककुन्दरे । वङ्क्षणौ वृषणौ बुक्वौ श्लेष्मसङ्घात-
जौ स्तनौ । उपजिह्वस्फिजौ बाहू जङ्घोरुषु च पिण्डि-
का । तालूदरस्वस्तिशीर्षं चिवुके गलशुण्डिके ।
अवटश्चैवमेतानि स्थानान्यत्र शरीरके । अक्षिकर्णचतुष्कञ्च
यद्धस्तहृदयानि च । नवच्छिद्राणि तान्येव प्राणस्यायतना-
नि तु” या० । कनीनिके अक्षितारके । अक्षिकूटे अक्षिनास-
योःसन्धी, शष्कुली कर्ण्णशष्कुली । कर्णपत्रकौ कर्णपाल्यौ ।
कर्णौ प्रसिद्धौ । दन्तवेष्टौ दन्तपाल्यौ । ओष्ठौ प्रसिद्धौ ।
ककुन्दरे जघनकूपकौ । वङ्क्षणौ जघनोरुसन्धी । बुक्कौ
पूर्वोक्तौ । स्तनौ च श्लेष्मसंघातजौ । उपजिह्वा घण्टिका ।
स्फिचौ कटिप्रोथौ । बाहूप्रसिद्धौ । जङ्घोरुषु च तथा
पिण्डिका । जङ्घयोरूर्वोश्च पिण्डिका मांसलप्रदेशः ।
गलशुण्डिके हनुमूलगलयोः सन्धी । शीर्षं शिरः ।
अवटः शरीरे यः कश्चिन्निम्नोदेशः कण्ठमूलकक्षादिः ।
अवटुरिति पाठे कृकाटिका । तथाक्ष्णोः कनीनिकयोः
प्रत्येकं श्वेतपार्श्वद्वयमिति वर्णचतुष्टयम् । यद्वाक्षिपुटचतु-
ष्टयम् । शेषं प्रसिद्धम् । एवमेतानि कुत्सिते शरीरे
स्थानानि । तथाक्षियुगलं कर्णयुग्मं नासाविवरद्वयमास्यं
पायुरुपस्थमित्येतानि पूर्वोक्तानि नव छिद्राणि च प्राण-
स्यायतनान्येव । किञ्च “सिराशतानि सप्तैव नव स्नायु
शतानि च” या० । सिरा नाभिसम्बद्धाः चत्वारिंशत्सं ख्याः
वातपित्तश्लेष्मवाहिन्यः सकलकलेवरव्यापिन्यो नाना-
शाखाः सत्यः सप्तशतसंख्या भवन्ति । तथाङ्गप्रत्यङ्गसन्धि-
बन्धनाःस्नायवो नव शतानि । धमन्यो नाम नाभेरुद्भूताश्च-
तुर्व्वि शतिसंख्याः प्राणादिवायुवाहिन्यः शाखाभेदेन द्विशतं
भवन्ति । पेश्यः पुनर्मांसलाकारा ऊरुपिण्डकाद्यङ्गप्रत्यङ्ग-
सम्बन्धिन्यः पञ्च शतानि भवन्ति । पुनश्चासामेव शिरादीनां
शाखाप्राचुर्य्येण संख्यान्तरमाह । “एकोनत्रिंशल्लक्षाणि
तथा नव शतानि च । षट्पञ्चाशच्च जानीत शिराधमनि
संज्ञिताः” या० । शिराधमन्यो र्मिलिताः शाखोप
शाखाभेदेन एकोनत्रिंशल्लक्षाणि नव शतानि षट्पञ्चाशच्च
भवन्तीत्येवं हे सोमश्रवःप्रभृतयो मुनयः! जानीत ।
किञ्च “त्रयोलक्षास्तु विज्ञेयाः श्मश्रुकेशाः शरीरिणाम् ।
सप्तोत्तरं मर्मशतं द्वे च सन्धिशते तथा” या० । शरीरिणां
श्मश्रूणि केशाश्च मिलिताः सन्तस्त्रयो लक्षाविज्ञेयाः ।
मर्माणि मरणकराणि क्लेशकराणि च स्थानानि तेषां
सप्तोत्तरं शतं विज्ञेयम् । अस्थ्नान्तु द्वे सन्धिशते स्नायु-
शिरादिसन्धयः पुनरनन्ताः । सकलशरीरमुषिरादिसंख्या
माह । “रीम्णां कीष्ट्यस्तु षञ्चाशच्चत्स्रः कीष्ट्यएव च ।
सप्तषष्टिस्तथा लक्षाः सार्द्धाः स्वेदायनैः सह । वायवीयै-
र्विगण्यन्ते विभक्ताः परमाणवः । यद्यप्येकोऽनुवेदैषां भावा-
नाञ्चैव संस्थितिम्” या० । पूर्वोदितशिराकेशादिसहितानां
रोग्णां परमाणवः सूक्ष्मसूक्ष्मतररूपाभागाः स्वेदस्रवणसु-
षिरैः सह चतुःपञ्चाशत्कोट्यः तथा सप्तोत्तरषष्टिलक्षाः
सार्द्धाः पञ्चाशत्सहस्रसहिताः वायवीयैर्विभक्ताः पवनपर-
माणुभिः पृथक् कृताविगण्यन्ते । एतच्च शास्त्रदृष्ट्या
अभिहितम् चक्षुरादिकरणपथगोचरत्वाभावादस्यार्थस्य ।
इममतिगहनमर्थं शिरादिभावसंस्थानरूपं हे मुनयः! भवतां
मध्ये यदि कश्चिदनुवेद वेत्ति सोऽपि एकोमहान् अग्र्यो
बुद्धिमताम् । अतो यत्नतो बुद्धिमता बोद्धव्या भावसंस्थितिः ।
शारीररसादिपरिमाणमाह “रसस्य नव विज्ञेया जलस्या-
ञ्जलयो दश । सप्तैव तु पुरीषस्य रक्तस्याष्टौ प्रकीर्त्तिताः ।
षट्श्लेष्मा पञ्च पित्तन्तु चत्वारो मूत्रमेव च । वसात्रयी द्वौ
तु मेदो मज्जैकोऽर्द्धऽन्तु मस्तके । श्लेष्मौजसस्तावदेव रेतस-
स्तावदेव तु । इत्येतदस्थिरं वर्ष्म यस्य मोक्षायकृत्यसौ” याज्ञ०
सम्यक्परिणताहारस्य सारोरसस्तस्य परिमाणं नवाञ्जलयः ।
पार्थिवपरमाणुसंश्लेषनिमित्तस्य जलस्याञ्जलयो दश
विज्ञेयाः । पुरीषस्य वर्चस्कस्य सप्तैव । रक्तस्य जाठरा-
नलपरिपाकापादितलौहित्यस्यान्नरसस्याष्टावञ्जलयः प्रकी-
र्त्तिताः । श्लेष्मणः कफस्य षड़ञ्जलयः । पित्तस्य
तेजसः पञ्च । मूत्रस्योच्चारस्य चत्वारः । वसायामांस-
स्नेहस्य त्रयः । मेदसो मांसरसस्य द्वावञ्जली । मज्जा
त्वस्थिगतसुषिरगतस्तस्यैकोऽञ्जलिः । मस्तके पुनरर्द्धाञ्जलिः ।
श्लेष्मौजसः श्लेष्मसारस्य । तथा रेतसश्चरमधातोस्तावदेवा-
र्द्धाञ्जलिरेव । एतच्च समधातुपुरुषाभिप्रायेणोक्तम् । विषम-
धातोस्तु न नियमः । “वैलक्षण्याच्छरीराणामस्थायित्वात्
तथैव च । दोषधातुमलानां च परिमाणं न विद्यते”
इत्यायुर्वेदस्मरणात् । इतीदृशमस्थिस्नाय्वाद्यारब्धमेतदशुचि
निधानं वर्ष्मास्थिरमिति यस्य बुद्धिरसौ कृतो पण्डितो-
मोक्षाय समर्थो भवति वैराग्यनित्यानित्यविवेकयोर्मोक्षोपा-
यत्वात्” मिता० ।
सुश्रुते कायोत्पत्तिकारणोक्तिपूर्ब्बकं तत्स्वरूपविभा-
गादिकं दर्शितं यथा ।
“अग्नि सोमो वायुः सत्वं रजस्तमः पञ्चेन्द्रियाणि भूतात्मेति
प्राणाः तस्य खल्वेवम्प्रवृत्तम्य शुक्रशोणितस्याभिपर्च्यमानस्य
पृष्ठ १९११
क्षेरस्येव सान्तानिकाः सप्त त्वचो भवन्ति । तासां प्रथमाऽव
भासिनी नाम्, या सर्व्ववर्णानवभासयति पञ्चविधाञ्च छायां
प्रकाशयति सा व्रीहेरष्टादशभागप्रमाणा सिध्मपद्मकण्टका-
धिष्ठाना, द्वितीया लोहिता नाम षोडशभागप्रमाणा
तिलकालकन्यच्छव्यङ्गाधिष्ठामा, तृतीया श्वेता नामद्वादशभाग-
प्रमाणा चर्मदलाजगल्लीमशकाधिष्ठाना, चतुर्थीताम्रा नामा-
ऽष्टभागप्रमाणा विविधकिलासकुष्ठाधिष्ठाना, पञ्चभी वेदि-
नी नाम व्रीहिपञ्चभागप्रमाणा, कुष्ठविसर्पाधिष्ठाना, षष्ठी
रोहिणी नाम व्रीहिप्रमाणा ग्रन्थ्यपच्यर्बुदश्लीपदगलग-
ण्डाधिष्ठाना, सप्तमी मांसधरा नाम व्रीहिद्वयप्रमाणा
भगन्दरविद्रध्यर्शीऽधिष्ठाना, यदेतत्प्रमाणम् निर्दिष्टं तन्मांले-
ष्ववकाशेषु न ललाटे सूक्ष्माङ्गुल्यादिष । यतो वक्ष्यत्यु-
दरेषु व्रीहिमुखेनाङ्गुष्ठोदरप्रमाणमवगाढम् विध्येदिति ।
कलाःखल्वपि सप्त सम्भवन्ति धात्वाशयान्तरमर्य्यादाः ।
भवतश्चात्र । यथाहि सारः काष्ठेषु छिद्यमानेषु दृश्यते ।
तथा धातुर्हि मांसेषु छिद्यमानेषु दृश्यते । स्नायुभिश्च प्रति-
च्छन्नान् सन्ततांश्च जरायुणा । श्लेष्मणा वेष्टितांश्चापि
कलाभागांस्तु तान् विदुः । तासां प्रथमा मांसधरा
नामयस्यां मांसे शिरास्नायुधमनीस्रोतसां प्रताना भवन्ति
भवति चात्र । यथा विसमृणालानि विवर्द्धन्ते समन्ततः ।
भूमौ पङ्कोदकस्थानि तथा मांसे शिरादयः । द्वितीया रक्त-
धरा नाम मांसस्याभ्यन्तरतस्तस्यां शोणितं विशेषतश्च
शिरासु यकृत्प्लीह्नोश्च भवति । भवति चात्र वृक्षाद्यथा-
भिप्रहतात् क्षीरिणः क्षीरमावहेत् । मांसादेवं क्षतात् क्षिप्रं
शोणितं सम्प्रसिच्यते । तृतीया मेदोधरा नाम, मेदोहि
सर्व्वभूतानामुदरस्थमण्वस्थिषु च महत्सुच मज्जा भवति ।
भवति चात्र । स्थूलास्थिषु विशेषेण मज्जा त्वभ्यन्तराश्रितः ।
अथेतरेषु सर्व्वेषु सरक्तं मेदौच्यते । शुद्धमांसस्य यः
स्नेहः सा वसा परिकीर्त्तिता । चतुर्थी श्लोष्मधरा नाम
सर्व्वसन्धिषु प्राणभृतां भवति । भवति चात्र । स्नेहा-
भ्यक्ते यथा त्वक्षे चक्रं साधु प्रवर्त्तते । सन्धयः साधु
वर्त्तन्ते संश्लिष्टाः श्लेष्मणा तथा । पञ्चमी पुरीषधरा
नाम, याऽन्तःकोष्ठे मलमभिविभजते पक्वाशयस्था । भवति
चात्र । यकृत्समन्तात् कोष्ठञ्च तथान्त्राणि समाश्रिता ।
उण्डुकस्थं विभजते मलं मलधरा कला । षष्ठी पित्तधरा
नाम या चतुर्व्विधमन्नपानमुपयुक्तमामाशयात् प्रच्युतं पक्वा-
शयोपरिस्थितं धारयति । भवति चात्र । अशितं खादितं
पीतं लीढंकोष्ठगतं नृणाम् । तज्जीर्य्यति यथाकालं शोषितं
पित्ततेजसा । सप्तमी शुक्रधरा नाम, या सर्व्वप्राणिनां
सर्व्वशरीरव्यापिनी । भवन्ति चात्र यथा पयसि सर्पिस्तु
गूडश्चेक्षौ रसो यथा । शरीरेषु तथा शुक्रं नॄणां विद्याद्
भिषग्वरः । द्य्वङ्गुले दक्षिणे पार्श्वे वस्तिद्वारस्य चाप्यधः ।
मूत्रस्रोतःपथाच्छ्रुक्रं पुरुषस्य प्रवर्त्तते । कृत्स्नदेहाश्रितं
शुक्रं प्रसन्नमनसस्तथा । स्त्रीषु व्यायच्छतश्चापि हर्षात्तत्
सम्प्रवर्त्तते ।
गृहीतगर्भाणामार्त्तववहानां स्रोतसां वर्त्मान्यवरुध्यन्ते
गर्भेण, तस्माद्गृहीतगर्भाणामार्त्तवं न दृश्यते । ततस्तदधः
प्रतिहतः मूर्द्धमागतमपरञ्चोपचीयमानमपरेत्यभिधीयते ।
शेषञ्चोर्द्धतरमागतं पयोधरावभिप्रतिपद्यते तस्माद्गर्भिण्यः
पीनोन्नतपयोधरा भवन्ति ।
गर्भस्य यकृत्प्लीहानौ शोणितजौ, शोणितफेनप्रभवः षुप्-
पुसः शोणितकिट्टप्रभवौण्डुकः ।
असृजः श्लेष्मणश्चापि यः प्रसादः परोमतः । तं पच्यमानं
पित्तेन वायुश्चाप्यनुधावति । ततोऽस्यान्त्राणि जायन्ते
गुदं वस्तिश्च देहिनः । उदरे पच्यमानानामाध्मानाद्रुक्म-
सारवत् । कफशोणितमांसानां सारो जिह्वा प्रजायते ।
यथार्थमूष्मणा युक्तो वायुः स्रोतांसि दारयेत् । अनुप्रविश्य
पिशितं पेशीर्विभजते तथा ।
मेदसः स्नेहमादाय शिरा स्नायुत्वमाप्नुयात् । शिराणां च
मृदुः पाकः स्नायूनाञ्च ततः स्वरः । आशय्याऽभ्यासयो-
गेन करोत्याशयसम्भवम् । रक्तमेदःप्रसादाद्बुक्कौ मांसासृक-
कफमेदःप्रसादाद्वृषणौ, शोणितकफप्रसादजं हृदयं
यदाश्रया हि धमन्यः प्राणवहाः । तस्याधोवामतः प्लीहा
फुप्पुसश्च दक्षिणतो यकृत् क्लोम च । तद्धृदयं विशेषेण
चेतनास्थानमतस्तस्मिंस्तमसाऽऽवृते सर्व्वप्राणिनः स्वपन्ति ।
भवति चात्र । पुण्डरीकेण सदृशं हृदयं स्यादधोमुखम् ।
जाग्रतस्तद्विकसति स्वपतश्च निमीलति । निद्रान्तु वैष्णवी”
पाप्मानमुपदिशन्ति सा स्वभावत एव सर्वप्राणिनोऽभि-
स्पृशति” । इतः परं निद्राविशेषकारणादिकमुक्तं तच्च
निद्राशब्दे वक्ष्यते ।
“शुक्रशोणितं गर्भाशयस्थमात्मप्रकृतिविकारसंमूर्च्छितं गर्भं
इत्युच्यते । तञ्च चेतनावस्थितं वायुर्व्विभजते तेज एन
पचति, आपः क्लेदयन्ति, पृथिवी संहन्ति, आकाशं
विवर्द्धयति । एवंविवर्द्धितः स यदा हस्तपादजिह्वाघ्राण-
कर्ण्णनितम्बादिभिरङ्गरुपेतस्तदा शरीरमिति संज्ञां लभते
तच्च षडङ्गं शाखाश्चतस्रो मध्यं पञ्चमं षष्ठं शिर इति ।”
पृष्ठ १९१२
ततः प्रत्यङ्गविभाग उक्तः तच्च अङ्गशब्दे ७२ पृ० दर्शि-
तम् । एवं समासत उक्त्वा विस्तारत उक्तं यथा
“विस्तारो ऽत ऊर्द्धम् । त्वचोऽभिहिताः कला धातवो
मला दोषा यकृत्प्लीहानौ पुष्पुस उण्डुको हृदयं
बुक्कौ च । आशयास्तु वाताशयः पित्ताशयः श्लेष्माशयो
रक्ताशय आमाशयः पक्वाशयो मूत्राशयः स्त्रीणां गर्भा-
शयोऽष्टम इति । सार्द्धत्रिव्यामान्यन्त्राणि पुंसां, स्त्रीणा
मर्द्धव्यामहीनानि । श्रवणनयनवदनघ्राणगुदमेढ्राणि नव
स्रोतांसि नराणां बहिर्मुखान्येतान्येव, स्त्रीणामपराणि
च त्रीणि द्वेस्तनयोरधस्ताद्रक्तवहञ्च ।
षोडश कण्डराः । तासाञ्चतस्रः पादयोस्तावत्यो हस्त-
ग्रीवापृष्ठेषु । तत्र हस्तपादगतानां कण्डराणां नखाः
प्ररोहाः । ग्रीवाहृदयनिबन्धिनीनामधोभागगतानां
मेढ्रश्रोणिपृष्ठनिबन्धिनीनामधोभागगतानां विम्बः मूर्द्धो-
रुवक्षोऽक्षपिण्डादीनाञ्च ।
मांसशिरास्नाय्वस्थिजालानि पत्येकं चत्वारि चत्वारि ।
तानि मणिबन्धगुल्फसंश्रितानि परस्परनिबद्धानि
परस्वरसंश्लिष्टानि परस्परगवाक्षितानि चेति यैर्गवाक्षितमिदं
शरीरम् ।
षट् कूर्च्चास्ते हस्तपादग्रीवामेढ्रेषु । हस्तयोर्द्वौ
पादयोर्द्वौ ग्रीवामेट्रयोरेकैकः ।
महत्यो मांसरज्जवश्चतस्रः पृष्ठवंशमुभयतः पेशीनि-
बन्धनार्थं द्वे बाह्मे आभ्यन्तरे च द्वे ।
सप्त सेवन्यः । शिरसि विभक्ताः पञ्च, जिह्वाशेफसोरे-
कैका । ताः परिहर्त्तव्याः शस्त्रेण
चतुर्दशास्थ्रां संघाताः । तेषां त्रयोगुल्फजानुवङ्क्षणेषु
एतेनेतरसक्थि ३ बाहू च ६ व्याख्यातौ त्रिकशिरसोरेकैकः २ ।
चतुर्द्दशैव सीमन्ताः । तेचास्थिसंघातवद्गणनीया
यतस्तैर्युक्ता अस्थिसङ्घाताः । ये ह्युक्ताः । सङ्घातास्तु खल्व-
ष्टादशैकेषाम् । त्रीणि सषष्टीन्यस्थिशतानि वे दवादिनो
भाषन्ते । शल्यतन्त्रेतु त्रीण्येव शतानि । तेषां सविंश-
मस्थिशतं शाखासु । सप्तदशोत्तरं शतं श्रोणिपार्श्व-
पृष्ठोदरोरस्सु । ग्रीवां प्रत्युर्द्ध्वं त्रिषष्टिः । एवमस्थ्रां
त्रीणि शतानि पूर्य्यन्ते” अस्थिशब्दे ५६८ पृ० विवृतिः ।
“एकैकस्यान्तु पादाङ्गुल्यां त्रीणि त्रीणि तानि पञ्चदश ।
तलकूर्च्चगुल्फसंश्रितानि दश । पार्ष्ण्यामेकम् । जङ्घायां
द्वे । जानुन्येकम् । एकमूराविति । त्रिंशदेवमेकस्मिन्
सक्थ्नि भवन्ति । एतेनेतरसक्थि ३० बाहू ६० च व्याख्यातौ ।
श्रोण्यां पञ्च तेषां गुदभगनितम्बेषु चत्वारि । त्रिकसं-
श्रितमेकम् । पार्श्वे षट्त्रिं शदेवमेकस्मिन्, द्वितीयेऽप्येवम्
३६ । पृष्ठे त्रिंशत् । अष्टावुरसि । द्वे अक्षकसंज्ञे । ग्री-
काथां नवकम् । कण्ठनाड्यां चत्वारि । द्वे हन्वोः । दन्ता
द्वात्रिंशत् । नासायां त्रीणि । एकं तालुनि । गण्ड-
कर्ण्णशङ्खेष्वेकैकम् । षट् शिरसि ।
एतानि पञ्चविधानि भवन्ति । तद्यथा कपालरुचकतरुण
वलयनलकसंज्ञानि । तेषां जानुनितम्बांसगण्डतालुशङ्ख-
शिरस्सु कपालानि । दशनास्तु रुचकानि । घ्राणकर्ण्ण-
ग्रीवाक्षिकोशेषु तरुणानि । पाणिपादपार्श्वपृष्ठोदरो-
रस्सुवलयानि, शेषाणि नलकसंज्ञानि । भवन्ति चात्र ।
अभ्यन्तरगतैः सारैर्यथा तिष्ठन्ति भूरुहाः । अस्थिसारै-
स्तथा देहा ध्रियन्ते देहिनां ध्रुवम् । तस्माच्चिर-
विनष्टेषु त्वङ्मांसेषु शरीरिणाम् । अस्थीनि न विनश्य-
न्ति साराण्येतानि देहिनाम् । मांसान्यत्र निबद्धानि
शिराभिः स्नायुभिस्तथा । अस्थीन्यालम्बनं कृत्वा न
शीर्य्यन्ते पतन्ति वा ।
सन्धयस्तु द्विविधाश्चेष्टावन्तः स्थिराश्च । शाखासु हन्वोः
कढ्याञ्च चेष्टावन्तस्तु सन्धयः । शेषास्तु सन्धयः सर्वे
विज्ञेया हि स्थिरा बुधैः । सङ्ख्यातस्तु दशोत्तरे
द्वे शते तेषां शाखास्वष्टषष्टिरेकोनषष्टिः कोष्ठे ग्रीवां
प्रत्यूर्द्ध्वं त्र्यशीतिः । एकैकस्यां पादाङ्गुल्यां त्रयस्त्रयो द्वा-
वङ्गुष्ठे ते चतुर्दश । जानुगुल्फवङ्क्षणेष्वेकैकः ३ । एवं
सप्तदशैकस्मिन् सक्थ्नि भवन्ति । एतेनेतरसक्थि १७ बाहू
३४ च व्याख्यातौ । त्रयः कटीकपालेषु । चतुर्विंशतिः
पृष्ठेवंशे तावन्त एव पार्श्वयोः । उरस्यष्टौ तावन्त एव ग्रीवा-
याम् । त्रयः कण्ठे । नाड़ीषु हृदयक्लोमनिबद्धास्व-
ष्टादश । दन्तपरिमाणा ३२ दन्तमूलेषु । एकः काकलके
नासायाञ्च । द्वौ वर्त्ममण्डलजौ नेत्राश्रयौ । गण्डकर्णश-
ङ्खेष्वेकैकः । द्वौ हनुमन्धी । द्वावुपरिष्टाद्भ्रुवोः शङ्ख-
योश्च । पञ्च शिरःकपालेषु । एको मूर्द्ध्नि । त एते सन्ध-
योऽष्टविधाः । कोरोदूखलसामुद्गप्रतरतुन्नसेवनीवायस-
तुण्डमण्डलशङ्खावर्त्ताः । तेषामङ्गुलिमणिबन्धगुल्फ-
जानुकूर्परेषु कोराः सन्धयः । कक्षावङ्क्षणदशनेषू-
दूखलाः । अंसपीठगुदभगनितम्बेषु सामुद्गाः । ग्रीवां
पृष्ठवशंयोः प्रतराः । शिरःकटीकपालेषु तुन्नसेवनी । हन्वौ
रुभयतस्तु वायसतुण्डाः । कण्ठहृद्यनेत्रक्लोमनाडीषु
मण्डलाः । श्रोत्रशृङ्गाटकेषु शङ्खावर्त्ताः । तेषां नाम-
पृष्ठ १९१३
भिरेवाकृतयः प्रायेण व्याख्याताः । अस्थ्रान्तु सन्धयो
ह्येते केवलाः परिकीर्त्तिताः । प्रेशीस्नायुशिराणान्तु
सन्धिसङ्ख्या न विद्यते ।
नव स्नायुशतानि तासां शाखासु षट् शतानि । द्वे शते
त्रिंशच्च कोष्ठे । ग्रीवां प्रत्यूर्द्ध्वं सप्ततिः । एकैकस्यान्तु पादा-
ङ्गुल्यां षट् निचितास्तास्त्रिंशत् । तावत्य ३० एव तलकू-
र्च्चगुल्फेषु । तावत्य ३० एव जङ्घायाम् । दश जानुनि ।
चत्वारिंशदूरौ । दश वङ्क्षणे । शतमध्यर्द्धमेवमेकस्मिन् १५०
सक्थ्नि भवन्ति । एतेनेतरसक्थि १५० बाहू च ३०० व्या-
ख्यातौ । षष्टिः कठ्याम् । अशीतिः पृष्ठे । पार्श्वयोः षष्टिः ।
उरसि त्रिंशत् । षट्त्रिंशद्ग्रीवायाम् । मूर्द्ध्निचतुस्त्रिं-
शत् । एवं नव स्नायुशतानि व्याख्यातानि ।
भवन्ति चात्र । स्नायुश्चतुर्विधा विद्यात्तास्तु सर्व्वा निबोध
मे । प्रतानवत्यो वृत्ताश्च पृथ्व्यश्च शुषिरास्तथा । प्रतान-
बत्थः शाखासु सर्व्वसन्धिषु चाप्यथ । वृत्तास्तु कण्डराः
सर्व्वा विज्ञेयाः कुशलैरिह । आमपक्वाशयान्तेषु वस्तौ च
शुषिराः खलु । पार्श्वोरसि तथा पृष्ठे पृथुलाश्च शिरस्यथ ।
नौर्यथा फलकास्तीर्ण्णा बन्धनैर्ब्बहुभिर्युता । भारक्षमा
भवेदप्सु नृयुक्ता सुसमाहिता । एवमेव शरीरेऽस्मिन्
यावन्तः सन्धयः स्मृताः । स्नायुभिर्बहुभिर्बड़ास्तेन
भारसहा नराः । नह्यस्थीनि न वा पेश्यो न शिरा नच
सन्धयः । व्यापादितास्तथा हन्युर्यथा स्नायुः शरीरिणम् ।
यः स्नायुः प्रविजानाति बाह्याश्चाभ्यन्तरास्तथा । स गूढं
शल्यमाहर्त्तुं देहाच्छकोति देहिनाम् ।
पञ्च पेशीशतानि भवन्ति । तासां चत्वारि शतानि
शाखासु । कोष्ठे षट्षष्टिः । ग्रीवां प्रत्यूर्द्धञ्चतुस्त्रिंशत् ।
एकैकस्यान्तु पादाङ्गुल्यां तिस्रस्तिस्रस्ताः पञ्चदश । दश
प्रपदे । पादोपरिकूर्च्चसन्निविष्टास्तावत्य एव । दश गुल्फ-
तलयोः । गुल्फजान्वन्तरेविशंतिः । पञ्च जानुनि । विंश-
तिरूरौ । दश वङ्क्षणे । शतमेवमेकस्मिन् सक्थ्नि भवन्ति ।
एतेनेरसक्थ १०० वाहू च २०० व्याख्यातौ । तिस्रः पायौ ।
एकामेढ्रे । सेवन्यां चापरा । द्वे वृषणयोः । सिफचोः पञ्च
पञ्च । द्वे वस्तिशिरसि । पञ्चोदरे । नाभ्यामेका । पृष्ठोर्द्धसं
निविष्टाः पञ्च पञ्च दीर्घाः । षट् पार्श्वयोः । दश वक्षसि ।
अक्षकांसौ प्रति समन्तात् सप्त । द्वे हृदयामाशययोः ।
षट् यकृत्प्लीहोण्डुकेषु । ग्रोवायाञ्चतस्रः । अष्टौ
हन्वोः । एकैका काकलकगलयोः । द्वे तालुनि । एका
जिह्वायाम् । ओष्ठयोर्द्वे । घोणायां द्वे । द्वे नेत्रयोः ।
गण्डयोश्चतस्रः कर्णयोर्द्वे । चतस्रो ललाटे । एका
शिरसीत्येवमेतानि पञ्च पेशीशतानि ।
शिरास्नाय्वस्थिपर्व्वाणि सन्धयश्च शरीरिणाम् । पेशीभिः
संवृतान्यत्र बलवन्ति भवन्त्यतः । स्त्रीणान्तु विंशतिरधिका ।
दश तासां स्तनयोरेकैकस्मिन् पञ्च पञ्च यौवने तासां
परिघृद्धिः । अपत्यपथे चतस्रस्तासां प्रसृते अभ्यन्तरतो द्वे
मुखाश्रिते बाह्ये च प्रवृत्ते द्वे । गर्भच्छिद्रसंश्रितास्तिस्रः ।
शुक्रार्त्तवप्रवेशिन्यस्तिस्र एव । पित्तपक्वाशयमध्ये गर्भा-
शयो यत्र गर्भस्तिष्ठति । तासां बहलपेलवस्थूलाणुपृथु-
वृत्तह्रस्वदीर्घस्थिरमृदुश्लक्ष्णकर्कशभावाः सन्ध्यस्थिशिरा-
स्नायुप्रच्छादका यथादेशं स्वभावत एव भवन्ति ।
भवन्ति चात्र । पुंसां पेश्यः पुरस्ताद् याः प्रोक्ता लक्षण-
मुष्कजाः । स्त्रीणामावृत्य तिष्ठन्ति फलमन्तर्गतं हि ताः ।
मर्म्मशिराधमनीस्रोतसामन्यत्र प्रविभागः ।
शङ्खनाभ्याकृतिर्य्योनिस्त्र्यावर्त्ता सा प्रकीर्त्तिता । तस्यास्तृ-
तीये त्वावर्त्ते गर्भशय्या प्रतिष्ठिता । यथा रोहितमत्स्यस्य
मुखं भवति रूपतः । तत्संस्थानां तथारूपां गर्भशय्यां
विदुर्बुधाः । आभुग्नोऽभिमुखः शेते गर्भो गर्भाशये
स्त्रियाः । स योनिं शिरसा याति स्वभावात् प्रसवं
प्रति । त्वकूपर्य्यन्तस्य देहस्य योऽयमङ्गविनिश्चयः । शल्य-
ज्ञानादृते नैष र्वर्ण्यतेऽङ्गेषु केषुचित् । तस्मान्निःसंशयं
ज्ञानं हर्त्रा शल्यस्य वाञ्छता । शोधयित्वा मृतं सम्यग्द्र-
ष्टव्योऽङ्गविनिश्चयः । प्रत्यक्षतो हि यद्दृष्टं शास्त्रदृष्टञ्च
यद्भवेत् । समासतस्तदुभयं भूयो ज्ञानविवर्द्धनम् ।
तस्मात्समस्तगात्रमविषोपहतमदीर्घव्याधिपीडितमवर्षशतिक
निःसृष्टान्त्रपुरीषं पुरुषमपवहन्त्यामापगायां निबद्धं पञ्जरस्थं
मुञ्जवल्कलकुशशणादीनामन्यतमेनावेष्टिताङ्गसप्रकाशे देशे
कोथयेत् सम्यक्प्रकुथितञ्चोद्धृत्य ततो देहं सप्तरात्रादुशी-
रबालवेणुवल्कलकूचीनामन्यतमेन शनैः शैनरवघर्षयंस्त्व-
गादीन् सर्व्वानेव बाह्याम्यन्तराङ्गप्रत्यङ्गविशेषान् यथोक्तान्
लक्षयेच्चक्षुषा । श्लोकौ चात्र भवतः । न शक्यश्चक्षुषा
दूष्टं देहे सूक्ष्मतमो विभुः । दृश्यते ज्ञानचक्षुभिर्स्तपश्च-
क्षुर्भिरेव च । शरीरे चैव शास्त्रे च दृष्टार्थः स्याद्विशारदः ।
दृष्टश्रुनाभ्यां सन्देहमथापोह्याचरेत् क्रियाः” ।
“अथातः प्रत्येकमर्मनिर्देशं शारीरं व्याख्यास्यामः । सप्तो-
त्तरं मर्मशतम् । तानि मर्म्माणि पञ्चात्मकानि । तद्यथा
मांसमर्म्माणि, शिरामर्म्माणि, स्नायुमर्म्माणि, अस्थि-
मर्म्माणि सन्धिमर्म्माणि चेति । न खलु मांसशिरा-
पृष्ठ १९१४
स्नाय्वास्थिसन्धिव्यतिरेकेणान्यानि मर्म्माणि भवन्ति यस्मा-
न्नोपलभ्यन्ते । तत्रैकादश मांसमर्म्माणि । एकचत्वा-
रिंशत् शिरामर्म्माणि । सप्तविंशंतिः स्नायुमर्माणि ।
अष्टावस्थिमर्माणि । विशंतिः सन्धिमर्माणि । तदेतत्
सप्तोत्तरं मर्मशतम् ।
तेषामेकादशैकस्मिन् सक्थ्नि भवन्ति । एतेनेतरसक्थि ११
बाहू २२ च व्याख्यातौ । उदरोरसोर्द्वादश चतुर्द्दश वा
पृष्ठे । ग्रीवां प्रत्यूर्द्धं सप्तत्रिंशत् । तत्र सक्थिमर्म्माणि क्षिप्र-
तलहृदयकूर्च्चकूर्च्चशिरोगुल्फेन्द्रवस्तिजान्वाण्युर्व्वीलोहिता-
क्षाणि विटपञ्चेति । एतेनेतरं सक्थि व्याख्यातम् ।
उदरोरसोस्तु गुदवस्तिनाभिहृदयस्तनमूलस्तनरोहिता-
पलापान्यपस्तम्भौ चेति । पृष्ठमर्म्माणि तु कटीकतरुणकुकु-
न्दरनितम्बपार्श्वसन्धिवृहत्यंसफलकान्यंसौ चेति । बाहुम-
र्माणि तु क्षिप्रतलहृदयकूर्च्चकूर्च्चशिरोमणिबन्धेन्द्रवस्ति-
कूर्पराण्यूर्व्वीलोहिताक्षाणिं कक्षधरञ्चेति । एतेनेतरो
बाहुर्व्याख्यातः ।
जत्रूर्द्धमर्म्माणि, चतस्रो धमन्यो,ऽष्टौ मातृका, द्वेकृकाटिके,
द्वे विधुरे, द्वौ फणौ, द्वावपाङ्गौ द्वावावर्त्तौ द्वावुत्क्षेपौ द्वौ
शङ्खावेका स्थपनो पञ्च मीमन्ताश्चत्वारि शृङ्गाटकान्येकोऽ
धिपतिरिति ।
तत्र तलहृदयेन्द्रवस्तिगुदस्तनरोहितानि मांसमर्म्माणि ।
नीलधमनीमातृकाशृङ्गाटकापाङ्गस्थपनीफणस्तनमूलापलापा
पस्तम्भहृदयनाभिपार्श्व सन्धिवृहतीलोहिताक्षोर्व्यः शिरा-
मर्माणि । आणिविटपकक्षधरकूर्च्चकूर्च्चशिरोवस्तिक्षिप्रां-
सविधुरोत्क्षेपाः स्नायुमर्माणि । कटीकतरुणनितम्बां-
सफलकशङ्खास्त्वस्थिमर्म्माणि । जानुकूर्परसीमन्ताधिपति-
गुलफमणिबन्धकुकुन्दरावर्त्तकृकाटिकाश्चेति सन्धिमर्म्माणि ।
तान्येतानि पञ्चविकल्पानि मर्म्माणि भवन्ति तद्यथा,
सद्यःप्राणहराणि, कालान्यरप्राणहराणि, विशल्यघ्नानि,
वैकल्यकराणि, रुजाकराणीत्मि । तत्र सद्यः प्राणहरा-
ण्येकोनविशंतिः । कालान्तरप्राणहराणि त्रयस्त्रिंशत् ।
त्रीणि विशल्यघ्नानि । चतुश्चत्वारिंशद्वैकल्यकराणि ।
अष्टौ रुजाकराणीति ।
भवन्ति चात्र । शृङ्गाटकान्यधिपतिः शङ्खौ कण्ठ शिरा-
गुदम् । हृदयं वस्तिनाभी च घ्नन्ति सद्यो हतानि तु ।
वक्षोमर्म्माणि सीमन्ततलक्षिप्रेन्द्रवस्तयः । कटीकतरुणे सन्धी
पार्श्वजौ वृहती च या । नितम्बावितिचैतानि कालान्तर
हराणि तु । उत्क्षेपौ स्थपनी चैव विशल्यघ्नानि निर्दि-
शेत् । लोहिताक्षाणि जानूर्व्वीकूर्च्चाविटपकूप्र्पराः । कुकु-
न्दरे कक्षधरे विधुरे सकृकाटिके । अंसांसफलकापाङ्गनीले
मन्ये फणौ तथा । वैकल्यकरणान्याहुरावर्त्तौ द्वौ तथैव च ।
गुल्फौ द्वौ मणिबन्धौ द्वौ द्वे द्वे कूर्चशिरांसि च । रुजा-
कराणि जानीयादष्टावेतानि बुद्धिमान् । क्षिप्राणि विद्ध-
मात्राणि घ्नन्ति कालान्तरेण च ।
मर्म्माणि नाम सांसशिरास्नाय्वस्थिसन्धिसन्निपातस्तेषु
स्वभावत एव विशेषेण प्राणास्तिष्ठन्ति तस्मान्मर्म्मस्वभिहतास्तां-
स्तान् भावानापद्यन्ते ।
तत्र सद्यःप्राणहराण्याग्नेयान्यग्निगुणेष्वाशुक्षीणेषु क्षप-
यन्ति । कालान्तरप्राणहराणि सौम्याग्नेयान्यग्निगुणेष्वाशु
क्षीणेषु क्रमेण च सोमगुणेषु कालान्तरेण क्षपयन्ति ।
विशल्यप्राणहराणि वायव्यानि शल्पमुखनिरुद्धौ यावदन्तर्वायु-
स्तिष्ठति तावज्जीवत्युद्धृतमात्रे तु शल्ये मर्म्मस्थानाश्रितो
वायुर्निष्क्रामति तस्मात्सशल्यो जीवत्युद्धृतशल्यो म्रियते ।
वैकल्यकराणि सौम्यानि सोमोहि स्थिरत्वाच्छैत्याच्च प्राणा-
वलम्बनं करोति । रुजाकराण्यग्निवायुगुणभूयिष्ठानि
विशेषतश्च तौ रुजाकरौ । पाञ्चभौतिकीञ्च रुजामाहुरेके ।
केचिदाहुर्मांसादोनां पञ्चानामपि समस्तानां विवृद्धानाञ्च
समवायात्सद्यःप्राणहराणि । एकहीनानामल्पानां वा
कालान्तरप्राणहराणि । द्विहीनानां विशल्यप्राणहराणि ।
त्रिहीनानां वैकल्यकराणि । एकस्मिन्नेव रुजाकराणीति ।
यतश्चैवमतोऽस्थिमर्म्मस्वप्यभिहतेषु शोणितागमनं भवति ।
चतुर्व्विधा यास्तु शिराः शरीरे प्रायेण ता मर्म्म सु
सन्निविष्टाः । स्नाय्वस्थिमांसानि तथैव सन्धीन् सन्तर्प्य देहं
प्रतिपालयन्ति । ततः क्षते मर्मणि ताः प्रवृद्धः समन्ततो
वायुरभिस्तृणोति । विवर्द्धमानस्तु स मातरिश्वा रुजः
सुतीव्राः प्रतनोति काये । रुजाभिभूतन्तु पुनः शरीरं
प्रलीयते नश्यति चास्य संज्ञा! अतोहि शल्यं विनिहर्त्तु-
मिच्छन्मर्म्माणि यत्नेन परीक्ष्य कर्षेत् । एतेन शेषं
व्याख्यातम् ।
तत्र सद्यः प्राणहरमन्तेविद्धं कालान्तरेण मारयति ।
कालान्तरप्राणहरमन्तेविद्धं वैकल्यमापादयति । विशल्य-
प्राणहरमन्तेविद्धं कालान्तरेण क्लेशयति रुजाञ्च करोति ।
रुजाकरमतीव्रवेदनं भवति ।
कालान्तरप्राणहराणि पक्षान्मासाद्वा । तेष्वपितु क्षिप्राणि
कदाचिदाशु मारयन्ति । विशल्यप्राणहराणि वैकल्यकराणि
च कदाचिदत्यभिहतानि मारयन्ति । अतऊर्द्धं प्रत्येकशो
पृष्ठ १९१५
भर्म्मस्थानान्यनुव्याख्यास्यामः । तत्र पादाङ्गुष्ठाङ्गुल्योर्मध्ये
क्षिप्रं नाम मर्म्म तत्र विद्धस्याक्षेपकेण मरणम् । मध्यमा-
माङ्गुलीसनुपूर्व्वेण मध्ये पादतलस्य तलहृदयं नाम,
तत्रापि रुजाभिर्भरणं । क्षिप्रस्योपरिष्टादुभयतः कूर्च्चोनाम,
तत्र पादस्य भ्रमणवेपने भवतः । गुल्फसन्धरधौभयतः
कूर्च्चशिरो नाम, तत्र रुजाशोफौ । पदजङ्घयोः सन्धाने
गुल्फो नाम, तत्र रुजः स्तब्धपादता खञ्जता वा । पार्ष्णिं
प्रति जङ्घामध्ये इन्द्रवस्तिर्नाम, तत्र शीणितक्षये मरणम् ।
जङ्घोर्व्वोः सन्धाने जानु नाम, तत्र खञ्जता । जानुन
ऊर्द्धमुभयतस्त्र्यङ्गुलमाणिर्नाम, तत्र शोफाभिवृद्धिः स्तब्ध
सक्थिता च । ऊरुमध्ये ऊर्व्वी नाम, तत्र शोणितक्षयात्
सक्थिशोषः । ऊर्व्या ऊर्द्ध्वमधोवङ्क्षणसन्धेरूरुमूले लोहि-
ताक्षं नाम, तत्र लोहितक्षयेण पक्षाघातः । वङ्क्षणवृषण-
योरन्तरे विटपं नाम, तत्र षाण्ड्यमल्पशुक्रता वा भवति ।
एवमेतान्येकादश सक्थिमर्माणि व्याख्यातानि । एतेनेत-
रसक्थि ११ बाहू २२ च व्याख्यातौ । विशेषतस्तु यानि सक्थि
गुल्फजानुविटपानि तानि बाहौ मणिबन्धकूप्र्परकक्षध-
राणि यथा षङ्क्षणवृषणयोरन्तरे विटपमेव, वक्षःकक्षयो-
र्मध्ये कक्षधरं, तस्मिन्विद्धे तएवोपद्रवाः । विशेषतस्तु
मणिबन्धे कुण्ठता । कूप्र्पराख्ये कुणिः । कक्षाधरे पक्षा-
घातः । एवमेतानि चतुश्चत्वारिंशच्छाखासु मर्माणि
व्याख्यातानि ।
अत ऊर्द्धमुदरोरसोर्मर्मस्थानान्यनुव्याख्यास्यामः । तत्र
वातवर्चोनिरसनं स्थूलान्त्रप्रतिबद्धं गुदं नाम मर्म, तत्र
सद्योमरणम् । अल्पमांसशोणितोऽभ्यन्तरतः कट्यां मूत्रा-
शयो वस्तिर्नाम, तत्रापि सद्योमरणमश्मरीव्रणादृते
तत्राप्युभयतो भिन्ने न जीवत्ये कतोभिन्ने मुत्रस्रावी व्रणी
भवति स तु यत्नेनोपक्रान्तो रोहति । पक्वामाशययो-
र्भध्ये सिराप्रभवा नाभिर्नाम, तत्रापि सद्य एव
मरणम् । स्तनयोर्मध्यमधिष्ठायोरस्यामाशयद्वारं सत्व-
रजस्तमसामधिष्ठानं हृदयं नाम, तत्र सद्यएव मरणम्
स्तनयोरधस्तात् ह्यङ्गुलमुमयतः स्तनमूले नाम मर्मणी, तत्र
कफपूर्णकोष्ठतया कासश्वासाभ्यां म्रियते । स्तनचूचुकयो
रूर्द्धं द्व्यङ्गुलमुभयतः स्तनरोहितौ नाम, तत्र लोहित-
पूणकोष्ठतया कासश्वासाभ्यां य म्रियते । अंसकूटयो
रधस्तात् पार्श्वोपरिभागयोरपलापौ नाम, तत्र रक्तेन
पूयभावं गतेन मरणम् । उभयत्रोरसोनाड्यौ वातवहे
अपस्तम्भौ नाम, तत्र वातपूणकोष्ठतया कासश्वासाभ्यां च
मरणम् । एवमेतान्युदरोरसोर्द्वादश मर्माणि व्याख्यातानि ।
अत ऊर्द्ध्वं पृष्ठमर्माण्यनुव्याख्यास्यामः । तत्र पृष्ठवंशमु-
भयतः प्रतिश्रोणीकाण्डमस्थिनी कोटीकतरुणे नाम मर्मणी,
तत्र शोणितक्षयात् पाण्डुर्व्विवर्णो हीनरूपश्च म्रियते ।
पार्श्वजघनबहिर्भागे पृष्ठर्वशमुभयतो नातिनिम्ते कुकुन्दरे
नाम मर्मणो, तत्र स्पर्शाज्ञानमधः काये चेष्टोपघातश्च ।
श्रोणीकाण्डयोरुपर्य्याशयाच्छादनौ पार्श्वान्तरप्रतिबद्धौ
नितम्बौ नाम, तत्राधःकायशोषो दौर्ब्बल्याच्च मरणम् ।
अधःपार्श्वान्तरप्रतिबद्धौ जघनपार्श्वमध्ययोसिर्य्यगूर्द्धं च
जघनात् पार्श्वसन्धी नाम, तत्र लोहितपूर्णकोष्ठतया
म्रियते । स्तनमूलादुभयत पृष्ठवं शस्य वृहती नाम,
तत्र शोणितातिप्रवृत्तिनिमित्तैरुपद्रवैर्म्रियते । पृष्ठेपरि-
पृष्ठवंशमुभयतस्त्रिकसम्बद्धे अंसफलके नाम, तत्र षाह्वोः
स्वापः शोषोवा । बाहुभूर्द्धग्रीवामध्येऽसंपीठस्कन्धनिब-
न्धनावंसौ नाम, तत्र स्वब्धबाहुता । एवमेतानि चतुर्द्दश
पृष्ठमर्माणि व्याख्यातानि ।
अत ऊर्द्ध्वं जत्रुगतानि व्याख्यास्यामः । तत्र कण्ठ-
नाडीमुभ्यत्श्चतस्रो धमन्यो द्वे नीले, द्वे च मन्ये, व्यत्या-
सेन तत्र मूकता स्वरवैकृतभरसग्राहिता च । ग्रीवाया-
मुभयतश्चतस्रः सिरामातृकाः तत्र सद्योमरणम् । शिरो-
ग्रोवयोः सन्धाने कृकाटिके नाम, तत्र चलमूर्द्धता ।
कर्ण्णपृष्ठतोऽधः संश्रिते विधुरे नाम, तत्र बाधिर्य्यम् ।
घ्राणमार्गमुभयतः स्रोतोमार्गं प्रतिबद्धे अभ्यन्तरतः फणे
नाम, तत्र गन्धाज्ञानम् । भ्रूपुच्छान्तयोरधोऽक्ष्णीर्बाह्यतो
ऽपाङ्गौ नाम, तत्रान्ध्यं दृष्ठ्युपघातो वा । भ्रुवोरुपरि निम्न
योरावर्त्तौ नाम, तत्रान्ध्यं दृष्ट्युपधातश्च । भ्रुवोः पुच्छा-
न्तयोरुपरि कर्णललाटयोर्मध्ये शङ्घौ नाम, तत्र सद्यो
मरणम् । शङ्खयोरुपरि केशान्त उत्क्षेपौ नाम, तत्र
सशल्यो जीवति पाकात् पतितशल्यो वा नोद्धृतशल्यः ।
भ्रुबोर्मध्ये स्थपनी नाम, तत्रोत्क्षेववत् । पञ्च सन्धयः
शिरसि विभक्ताः सीमन्ता नाम, तत्रोन्मादभयचित्तनाशै-
र्मरणम् । घ्राणश्रोत्राक्षिजिह्वासन्तर्पणीनां सिराणां
मध्ये सिरासन्निपातः शृङ्गाटकानि, तानि चत्वारि
मर्माणि तत्रापि सद्योमरणम् । मस्तकाभ्यन्तरोपरिष्टात्
सिरासन्धिसन्निपातो रोमावर्त्तोऽधिपतिः, तत्रापि सद्यो-
मरणम् । एवमेतानि सप्तत्रिंशदूर्द्धजत्रु गतानि मर्माणि
व्याख्यातानि ।
भवन्ति चात्र । ऊर्व्यः शिरांसि विटपे च सकक्षपार्श्वे
पृष्ठ १९१६
एकैकमङ्गुलमिताः स्तनपूर्ब्बमूलम् । विद्ध्यङ्गुलद्वयमितं
मणिवन्धगुल्फं त्रीण्येव जानु सपरं सह कूर्पराभ्याम् ।
हृद्वस्तिकूर्च्चगुदनाभि वदन्ति मूर्द्ध्नि चत्वारि पञ्च च गले
दश यानि च द्वे । तानि स्वपाणितलकुञ्चितसंमितानि
शेषाण्यवेहि परिविस्तरतोऽङ्गुलार्द्धम् । एतत्प्रमाणमभि-
वोक्ष्य वदन्ति तज्ज्ञाः शस्त्रेण कर्म करणं परिहृत्य मर्म ।
पार्श्वाभिघातितमपीह निहन्ति मर्म तस्माद्धि मर्मसदनं
परिवर्जनीयम् । छिन्नेषु पाणिचरणेषु सिरा नराणां
सङ्कोचमीयुरसृगल्पमतो निरेति । प्राप्यामितव्यसनमुग्र-
मतो मनुष्याः संछिन्नशाखतरुवन्निधनं न यान्ति । क्षिप्रेषु
तत्र सतलेषु हतेषुरक्तं गच्छत्यतीव पवनश्च रुजं करोति ।
एवं विनाशमुपयान्ति हि तत्र विद्धा वृक्षा इवायुधविघात-
निकृत्तमूलाः । तस्मात्तयोरमिहतस्य तु पाणिपादं
छेत्तव्यमाशु मणिबन्धनगुलफदेशे । मर्माणि शल्यविषया-
र्द्धमुदाहरन्ति यस्माच्च मर्मसु हता न भवन्ति सद्यः ।
जीवन्ति तत्र यदि वैद्यगुणेन केचित्ते प्राप्नुवन्ति विकल-
त्वमसंशयं हि । सम्भिन्नजर्ज्जरितकोष्ठशिरःकपाला
जीवन्ति शस्त्रविहतैश्च शरीरदेशैः । छिन्नैश्च सक्थिभुज-
पादकरैरशेषैर्येषां न मर्म्मपतिता विविधाः प्रहाराः ।
सोममारुततेजांसि रजःसत्वतमांसि च मर्मसु प्रायशः
पुंसां भूतात्मा चावतिष्ठते । मर्मस्वभिहतास्तस्मान्न
जीवन्ति शरीरिणः । इन्द्रियार्थेष्वसम्प्राप्तिर्मनोबुद्धि-
विपर्य्ययः । रुजश्च विविधास्तीव्रा भवन्त्याशुहरे हते ।
हते कालान्तरघ्ने तु ध्रुवो धातुक्षयो नृणाम् । ततो धातु
क्षयाज्जन्तुर्व्वेदनाभिश्च नश्यति । हते वैकल्य जनने केवलं
वैद्यनैपुणात् । शरीरं क्रियया युक्तं विकलत्वमवाप्नु-
यात् । विशल्यघ्नेषु विज्ञेयं पूर्व्वोक्तं यच्च कारणम् । रुजा-
कराणि मर्माणि क्षतानि विविधा रुजः । कुर्वन्त्यन्ते च
कैकल्यं कुवैद्यवशगो यदि । छेदभेदाभिघातेभ्यो दहनाद्दा-
रणादपि । उपघातं विजानीयान्मर्मणान्तुल्यलक्षणम् ।
मर्माभिघातश्च न कश्चिदस्ति योऽल्पयो वापि निरत्ययो
पा । प्रायेण मर्मस्वभिताडितास्तु वैफल्यमृच्छन्त्यथ वा
म्रियन्ते । मर्माण्यधिष्ठाय हि ये विकारा मूर्च्छन्ति काये
विविधा नराणाम । प्रायेण ते कृच्छ्रतमा भवन्ति नरस्य
यत्नैरपि साध्यमानाः” ।
अथातः सिरावर्णनविभक्ति नाम शारीरं व्याख्यास्यामः ।
सप्त सिराशतानि भवन्ति । याभिरिदं शरीरमाराम
दूष जलप्रचारिणीभिः केदार इव च कुल्याभि-
रुपस्निह्यतेऽनुगृह्यते चाकुञ्चनप्रसारणादिभिर्विशैषैः ।
द्रुमपत्रसेवनीनामिव च तासां प्रतानास्तासां नाभि-
मूलं ततश्च प्रसरन्त्यूर्द्ध्वमधस्तिर्य्यक् च । भवतश्चात्र
यावत्यस्तु सिराः काये सम्भवन्ति शरीरिणाम् । नाभ्यां सर्व्वा
निबद्धास्ताः प्रतन्वन्ति समन्ततः । नाभिस्थाः प्राणिनां
प्राणाः प्राणान्नाभिर्व्युपाश्रिता । सिराभिरावृता नाभि-
श्चक्रनाभिरिवारकैः । तासां मूलसिराश्चत्वारिं शत्तासां
वातवाहिन्यो दश, पित्तवाहिन्यो दश, कफवाहिन्यो दश, दश
रक्तवाहिन्यः । तासान्तु वातवा हिनीनां वातस्थानगतानां
पञ्चसप्ततिशवं भवति तावत्य १७५ एव पित्तवाहिन्यः
पित्तस्थाने । कफवाहिन्यश्च १७५ कफस्थाने रक्तवाहि-
न्यश्च १७५ यकृत्प्लोह्नोः, एवमेतानि सप्त सिराशतानि ।
तत्र वातवाहिन्थः सिरा एकस्मिन् सक्थ्नि पञ्चविंशतिः ।
एतेनेतरसक्थि २५ बाहू ५० च व्याख्यातौ । विशेषतस्तु
कोष्ठे चतुस्त्रिंशत्तासां गुदमेढ्राश्रिताः श्रोण्यामष्टौ द्वे द्वे
पार्श्वयोः, षट् पृष्ठे, तावत्य ६ एव चोदरे, दशवक्षसि
एकचत्वारिशंज्जत्रुण ऊर्द्ध्वं, तासां चर्तुदश ग्रीवायाम् ।
कर्णयोश्चतस्रः । तव जिह्वायाम् । षड् नासिकायाम् । अष्टौ
तेत्रयोः । एवमेतत् पञ्चसप्तत्यधिकशतं वातवहानां
सिराणां व्याख्यातम्! एष एव विभागः शेषाणामपि ।
विशेषतस्तु पित्तवाहिन्यो नेत्रयोर्दश, कर्णयोर्द्वे, एवं
रक्तवहाः कफवहाश्च । एवमेतानि सप्त शिराशतानि
सविभागानि व्याख्यातानि” ।
“अथातो धमनीव्याकरणं शरीरं व्याख्यास्यामः ।
चतुर्व्विंशतिर्धमन्यो नाभिप्रभवा अभिहिताः । तत्र केचि-
दाहुः सिराधमनीस्रोतसामविभागः सिराविकारा एव
धमन्यः स्रोतांसि चेति । तत्तु न सम्यक् । अन्या एव हि
धमन्यः स्रोतांसि च सिराभ्यः, कस्मात्? व्यञ्जनान्यत्वा-
न्मूलसन्नियमात् कर्मवैशेष्यादागमाच्च केवलन्तु परस्परसन्नि-
कर्षात् सदृशागमकर्मत्वात् सौक्ष्म्याच्च विभक्तकर्मणामप्य-
विभाग इव कर्मसु भवति ।
तासान्तु नाभिप्रभवाणां धमनीनामूर्द्धगा दश, दश
चाधोगामिन्यः, चतस्रस्तिर्य्यग्गाः । ऊर्द्धगाः शब्दस्पर्शरूप-
रसगन्धप्रश्वासोच्छ्वासजृम्भितक्षुद्धसितकथितरुदितादीन् विशे-
षानभिवहन्त्यः शरीरं धारयन्ति । तास्तु हृदयमभिप्रप-
न्नास्त्रिधा जायन्ते तास्त्रिशत् । तासान्तु वातपित्तकफशो-
णितरसान् द्वे द्वे वहतस्ता दश, शब्दरूपरसगन्धानष्टाभि-
र्गृह्णीते । द्वाभ्यां भाषते च, द्वाभ्यां घोषं कूरोति, हाभ्यां
पृष्ठ १९१७
स्वपिति, द्वाभ्यां प्रतिबुध्यते । द्वे चाश्रुवाहिन्यौ । द्वे
स्तन्यं स्त्रिया वहतः स्तनसंश्रिते । ते एव शुक्रं नरस्य
स्तनाभ्यामभिवहतः । तास्त्वेतास्त्रिंशत्सविभागा व्याख्याता
एताभिरूर्द्ध्वं नाभेरुदरपार्श्वपृष्ठोरःस्कन्धग्रीवाबाहवो धार्यन्ते
याप्यन्ते च ।
भवति चात्र । ऊर्द्ध्वं गतास्तु कुर्व्वन्ति कर्माण्येतानि
सर्व्वशः । अधोगमास्तु वक्ष्यामि कर्म तासां यथायथम् ।
अधोगमास्तु वातमूत्रपुरीषशुक्रार्त्तवादीन्यधो वहन्ति ।
तास्तु पित्ताशयमभिप्रपन्नास्तत्रस्थमेवान्नपानरसं विपक्व-
मौष्ण्याद्विवेचयन्त्योऽभिवहन्त्यः शरीरं तर्पयन्त्यर्पयन्ति
चोर्द्धवगतानां तिर्य्यग्गतानां रसस्थानञ्चाभिपूरयन्ति मूत्र-
पुरीषस्वेदांश्च विवेचयन्त्यामपक्वाशयान्तरे च त्रिधा
जायन्ते तास्त्रिंशत् । तासान्तु वातपित्तकफशोणितरसान् द्वे
द्वे वहतस्ता दश, द्वे अन्नवाहिन्यावन्त्राश्रिते, तोयवहे द्वे,
द्वे मूत्रवस्तिमभिप्रपन्ने मूत्रवहे, द्वे शुक्रवहे, द्वे शुक्रप्रादुर्भा-
वाय, द्वे विसगाय, ते एव रक्तमभिवहतो नारीणामार्त्तव-
संज्ञम् । द्वे वर्चोनिरसन्यौ स्थूलान्त्रप्रतिबद्धे । अष्टावन्या
स्तिर्यग्गानां धमनीनां स्वेदमर्पयन्ति । तास्त्वेतास्त्रिशत्
सविभागा व्याख्याताः एताभिरधोनाभेः पक्वाशयकटी-
मूत्रपुरीषगुदवस्तिमेढ्रसक्थोनि धार्यन्ते याप्यन्ते च ।
भवति चात्र । अधोगमास्तु कुर्व्वन्ति कर्माण्येतानि
सर्वशः । तिर्य्यग्गाः संप्रवक्ष्यामि कर्म तासां यथायथम् ।
तिर्य्यग्गानान्तु चतसृणां धमनीनामैकैका शतधा
सहस्रधा चोत्तरोत्तरं विभज्यन्ते तास्त्वसंख्येयास्ताभिरिदं
शरीरं गवाक्षितं विबद्धमाततञ्च । तासां मुखानि
रोमकूपप्रतिबद्धानि यैः स्वेदमभिवहन्ति रसञ्चापि सन्तर्पयन्त्य-
न्तर्बहिश्च, तैरेव चाभ्यङ्गपरिषेकावगाहालेपनवीर्य्याण्यन्तः-
शरोरमभिप्रतिपद्यन्ते त्वचि विपक्वानि, तैरेव स्पर्शसुखम-
सुखं वा गृह्णाति । तास्त्वेताश्चतस्रो धमन्यः सर्वाङ्गगताः
सविभाग व्याख्याताः ।
भवतश्चात्र । यथा स्वभावतः खरनि मृणालेषु विसेषु
च । धसनीनां तथा खानि रसो यैरुपचीयते । पञ्चाभि-
भूतास्त्वथ पञ्चकृत्वः पञ्चेन्द्रियं पञ्चसु भावयन्ति । पञ्चे-
न्द्रियं पञ्चसु भावयित्वा पञ्चत्वमायान्ति विनाशकाले ।
अत ऊर्द्ध्वं स्रोतसां मूलविद्धलक्षणमुपदेक्ष्यामः । तानि
तु प्राणान्नोदकरसरक्तमां समेदोमूत्रपुरोषशुक्रार्त्तववहानि,
येष्वधिकार एकेषां बहूनि । एतेषां विशेषा बहवः । तत्र
घाणवहे द्वे, तयोर्मूलं हृदयं रसवाहिन्यश्च धमन्यः । तत्र
विद्धस्य क्रोशनविनमनमोहनभ्रमणवेपनानि मरणं वा
भवति । अन्नवहे द्वे, तयोर्मूलमामाशयः अन्नवाहिन्यश्च
धमन्यस्तत्र विद्धस्याध्मानं शूलान्नद्वेषौ छर्दिः पिपासान्ध्यं
मरणं वा । उदकवहे द्वे, तयोर्मूलं तालु क्लोम च । तत्र
विद्धस्य पिपासा सद्योमरणं च । रसवहे द्वे, तयोर्मूलं
हृदयं, रसबाहिन्यश्च धमन्यस्तत्र विद्धस्य शोषः प्राणवह-
विद्धवच्च मरणं तल्लिङ्गानि च । रक्तवहेद्वे, तयोर्मूलं यकृत्-
प्लीहानौ रक्तवाहिन्यश्च धमन्यस्तत्र विद्धस्य श्यावाङ्गता
ज्वरो दाहः पाण्डुता शोणितातिगर्भमरक्तनेत्रता
चेति । मांसवहे द्वे, तयोर्मूलं स्नायुत्वचं, रक्तवहाश्च
धमन्यस्तत्र विद्धस्य श्वयथुर्मांसशोषः सिराग्रन्थयो मरणम् ।
मेदोवहे द्वे तयोर्मूलं कटीबुक्कौ च तत्र विद्धस्य स्वेदाग-
मनं स्निग्धाङ्गता तालुशोषः स्थूलशोफता पिपासा च ।
मूत्रवहे द्वे, तयीर्मूलं वस्तिमेढ्रञ्च तत्र विद्धस्याऽऽनद्धवस्तिता
मूत्रनिरोधः स्तब्धमेढ्रता च । पुरीषवहे द्वे, तयोर्मूलं
पक्वाशयो गुदञ्च तत्र विद्धस्याऽऽनाहो दुर्गन्धता ग्रथिता-
न्त्रता च । शुक्रवहे द्वे, तयोर्मूलं स्तनौ वृषणौ च तत्र
विद्धस्य क्लीवता चिरात् प्रसेको रक्तशुक्रता च । आर्त्तव-
वहे द्वे, तयोर्सूलं गर्भाशयः आर्त्तववाहिन्यश्च धमन्यस्तत्र
विद्धायां बन्ध्यात्वं मैथुनासहिष्णुत्वमार्त्तवनाशश्च । सेवनी-
च्छेदाद्रुजाप्रादुर्भावः । वस्तिगुदविद्धलक्षणं प्रागुक्तमिति ।
स्रोतोविद्धन्तु प्रत्याख्यायोपचरेदुद्धृतशल्यन्तु क्षतविधानेनो-
पचरेत् । मूलात् स्यादन्तरं देहे प्रसृतन्त्वभिवाहि यत् ।
स्रोतस्तदिति विज्ञेयं सिराधमनिवर्ज्जितम् ।” शारीकस्थाने
एतच्च मनुष्यकायविषयं तुल्यप्रकरणे शा० ति० “पञ्च-
भूतात्मकं सर्व्वं चराचरमिदं जगत् । अचरा बहुधा
भिन्ना गिरिवृक्षादिभेदतः । चरास्तु त्रिविधाः
प्रोक्ता स्वेदाण्डजजरायुजाः । स्वेदजाः कृमि-
कीटाद्याः अण्डजाः पन्नगादयः । जरायुजा
मनुष्याद्यास्तेषु नॄणां निगद्यते । उद्भवः पुंस्त्रियोयोर्गे
शुक्राच्छोणितसंयुतात् । विन्दुरेको विशेद्गर्भमुभयात्मा
क्रमादसौ । रजोधिको भवेन्नारी भवेद्रेतोऽधिकः पुमान् ।
पूर्ब्बकर्मानुरूपेण मोहपाशेन यन्त्रितः । कश्चिदात्मा
तदा तस्मिन् जीवभावं प्रपद्यते । अथ मात्राहृतैरन्न-
पानाद्यैःपोषितः क्रमात् । दिनात् पक्षात् ततो मासा-
द्वर्द्धते तत्त्वदेहवान् । दोषदूष्यैः सुखं प्राप्तोव्यक्तिं याति
निजेन्द्रियैः । वातपित्तकफाः दोषाः दूष्याः म्युः सप्त
धातवः । त्वगसृङ्मांसमेदोऽस्थिमज्जशुक्राणि तान् विदुः”
पृष्ठ १९१८
इत्यन्तेन मनुष्याणामेव विशेष्योक्तेः । एतद्या० पदा०
“द्वाविंशती रजोभागाः शुक्रमात्राश्चतुर्द्दश । गर्भसंजनने
काले पुंस्त्रियोः सम्भवन्ति हि । नारी ग्जोऽधिकांशे
स्यान्नरः शुक्राधिकेऽशके । उभयोस्तुल्यसंख्वायां स्यान्न
पुंसकसम्भवः” इति । किन्तु पशुपक्ष्यादीनामपि यथा
सम्भवमस्थ्यादिसञ्चयोज्ञेयः । षट्त्वग्धारित्वन्तु अण्ड
जादीनामप्यस्ति “तस्य षोढा शरीराणि षट् त्वचोधार-
यन्ति च” या० व्या० “तस्यात्मनोयानि जरायुजाण्डजशरी-
राणि तानि प्रत्येकं षट्प्रकाराणि रक्तादिषड्घातु-
परिपाकहेतुभूतषडग्निस्थानयोगित्वेनेति” मिता० उक्तेः ।
चीयते कर्मभिः कर्मणि घञ् । १० स्वस्वादृष्टसञ्चितभोगायत-
नमात्रे च । वक्ष्यमाणचतुर्विधकायानां कर्मजत्वेन तथात्वम् ।
ततश्च कायोद्विविधः चरोऽचरश्च । तत्र
चरास्त्रिविधाः स्वेदजाण्डजजरायुजभेदात् अचरा गिरि-
वृक्षभेदात् नानाविधाः प्रागुक्त शा० ति० वाक्यात् ।
एषाञ्चोत्पत्तिभेदात् चतुर्विधत्वम् यथोक्तं पदार्थादर्शे
“देहश्चतुर्विधोज्ञेयो जन्तोरुत्पत्तिभेदतः । उद्भिज्जः
स्वेदजोऽण्डोत्यश्चतुर्थस्तु जरायुजः” इति । उद्भिज्जशब्दे
११८० पृ० उद्भिज्जोत्पत्तिप्रकारो दर्शितः । चरेषु स्वेदजाः
“कृमिकीटपतङ्गाद्याः स्वेदजा नाम देहिनः”
पदादर्शोक्ता बोध्याः । तदुत्पत्तिप्रकारस्तत्रेवोक्तो यथा
“स्वेदजं स्विद्यमानेभ्यो भूभागेभ्यः प्रजायते” इति ।
एषां स्थिराणां चायोनित्वं प्रयोगसारे उक्तं यथा
“किन्त्वत्र स्वेदजा ये तु ज्ञेयास्ते चाप्ययोनिजाः ।
स्थिरा इव बायुभिन्नाश्चत्वारिंशत्सहस्रधा” । अण्ड-
जास्तु “अण्डजाः पक्षिणः सर्पा नक्रमत्स्याश्च कच्छ-
पा, इति तत्रोक्ताः बोध्याः । तेषादुत्पत्तिप्रकारो यथा ।
“अण्डजा वर्त्तुलीभूतात् शुक्रशोणितसंयुतात् । कालेन
भिन्नात् पूर्ण्णात्मा निगर्च्छन् प्रक्रमिष्यति” । जरायुजास्तु
मनुष्याद्याः गर्भाशयरूपचर्म्मवेष्टनजातत्वात् तेषां
तथात्वम् । ते च योनिजाः “योनिजाः प्राणिनोभिन्ना-
श्चतुःषष्टिसहस्रधा” इति तत्रोक्तेः । तथाऽन्येऽपि
अयोनिजाः देहाः सन्ति ते च अयोनिजशब्दे ३४७ पृ०
उक्ताः । तत्र मनुष्याणां कायस्य पाञ्चभौतिकत्वं तदुत्-
पत्तिप्रकारश्चयाज्ञ० मिता० दर्शितोयथा “सर्गादौ स
यथाऽऽकाशं वायुं ज्योतिर्जलम्महीम । सृजत्येकोत्तर-
गुणांस्तथाऽऽदत्ते भवन्नपि” या० । सृष्टिसमये स
परमात्मा यथाऽऽकाशादीन्, शब्दैकगुणं गगनम्, शब्द-
स्पर्शगुणं पवनम्, शब्दस्पर्शरूपगुणन्तेजः शब्दस्पर्श-
रूपरसगुणवदुदकम्, शब्दस्पर्शरूपरसगन्धगुणां, जगती-
मित्येवमेकोत्तरगुणान् सृजति । तथात्मा जीवभावमापन्नो
भवन्नुत्पद्यमानोऽपि स्वशरीरस्यारम्भकत्वेनापि तानुपादत्ते
गृह्णाति । कथं शरीरारम्भकत्वं पृथिव्यादोनाम्? इत्यत
आह । “आहुत्याऽऽप्यायते सूर्य्यः सूर्य्याद्वृष्टिरथौषधिः ।
तदन्नं रसरूपेण शुक्रत्वमधिगच्छति” या० । यजमानैः प्रक्षि-
प्रयाऽऽहुत्या पुरोडाशादिरसेनाप्ययते सूर्य्यः सूर्य्याच्च
कालवशेन परिपकाज्यादिहवीरसाद्वृष्टिर्भवति । ततो
व्रीह्याद्योषधिरूपमन्नम् । तच्चान्नं सेवितं सत् रसरु-
धिरादिक्रमेण शुक्रशोणितभावभापद्यते । ततः किम्?
इत्याह “स्त्रीपुंसयोश्च संयोगे विशुद्धे शुक्रशोणिते । पञ्च
धातून् स्वयं षष्ठआदत्ते युगपत्प्रभुः” या० । ऋतुवेलायां
स्त्रीपुंसयोः संयोगे शुक्रञ्च शोणितञ्च शुक्रशोणितम्
तस्मिन् परस्परसंयुक्ते विशुद्धे “वातपित्तश्लेष्मदुष्टग्रन्थि
पूयक्षीणमूत्रपुरोषगन्धिरेतांस्य वीजानीति” स्मृत्यन्तरोक्त
दाषरहिते स्थित्वा पञ्च धातून् पृथिव्यादिपञ्चभूतानि
शरीरारम्भकतया स्वयं षष्ठश्चिद्धातुरात्मा प्रभुः शरीरा-
रम्भकारणादृष्टकर्म्मयोगितया समर्थो युगपदादत्ते
भीगायतनत्वेन स्वीकरोति । तथा च शारीरके “स्त्रो-
पुंसयोः संयोगे योनौ रजसाभिसंसृष्टं शुक्रन्तत्क्षणमेव
सह भूतात्मना गुणैश्च सत्वरजस्तमोभिः सह वायुना
प्रेर्य्यमाणं गर्भाशये तिष्ठतीति” । किञ्च “इन्द्रियाणि
मनप्राणोज्ञानमायुः सुखन्धृतिः । धारणा प्रेरणं दुःखमि-
च्छाहङ्कार एव च । प्रयत्न आकृतिर्वर्ण्णः स्वरद्वेषौ
भवाभवौ । तस्यैतदात्मजं सर्वमनादेरादिमिच्छतः” या० । इन्द्रि
याणि ज्ञानकर्म्मोन्द्रयाणि वक्ष्यमाणानि । भनश्चोभय-
साधारणम् । प्राणोऽपानोव्यान उदानः समान इत्येव
म्पञ्चवृत्तिभेदभिन्नः शारीरोवायुः प्राणः, ज्ञानमवगमः,
आयुः कालविशषावच्छिन्नञ्जीवनम्, सुखं निर्वृतिः,
धृतिश्चित्तस्य स्थैर्य्यम्, धारणा प्रज्ञा मेधा च, प्रेरणं
ज्ञानकर्म्मोन्द्रियाणामधिष्ठातृत्वम्, दुःखमुद्वेगः, इच्छा-
स्पुहा अहङ्कारोऽहङ्कृतिः प्रयत्नः कृतिः आकृति-
राकारः, क्षर्णोगौरिमादिः, स्वरः षड्जगान्धारादिः,
द्वेषोवैरम्, भवः पुत्रपश्वादिविभवः, अभवस्तद्विपर्ययः,
तस्यानादेरात्मनोनित्यस्यादिमिच्छतः शरीरञ्जिघृक्षमाणस्व
सर्वमेतदिन्द्रियादिकमात्मजनितं प्राग्भवीयकर्मवीजजन्य-
मित्यर्थः । संयुक्तशुक्रशोणितस्य कायरूपपरिणतौ क्रम-
पृष्ठ १९१९
माह “प्रथमे मासि सक्लेदभूतो धातुविमूर्च्छितः । मास्य-
र्बुदं द्वितीये च तृतायेऽङ्गेन्द्रियैर्युतः । असौ च चेतनः षष्ठो
धातुर्धातुविमूर्च्छितः” या० । धातुषु पृथिव्यादिषु मूर्च्छितो
लोलीभूतः क्षीरनीरवदेकीभूतैति यावत् । प्रथमे गर्भ-
मासे संक्लदभूतो द्रवरूपतां प्राप्तएवावतिष्ठते न कठिनतया
परिणमते । द्वितीये तु मास्यर्बुदमीषत्कठिनं मांसपिण्ड-
रूपम्भवति । अयमभिप्रायः--कोष्ठप्रवनजठरदहनाभ्यां
प्रतिदिनमीषदीषच्छोष्यमाणं शुक्रसम्पर्कसम्पादितद्रवीभावं
भूतजातं त्रिंशद्भिर्दिनैः काठिन्यमापद्यत इति । तथाच
शुश्रुते--“द्वितीये मासि शीतोष्णानिलैरभिपच्यमानो
भूतसंघातो घनोजायत” इति । तृतीये तु मास्यङ्गैरिन्द्रि-
यैश्च संयुक्तो भवति । किञ्च “आकाशाल्लाघवं सौक्ष्म्यं
शब्दं श्रोत्रं बलादिकम् । वायोश्च स्पर्शनं चेष्टां व्यूहनं
रौक्ष्यमेव च । पित्तात्तु दर्शनम्पक्तिमौष्ण्यं रूपं प्रका-
शिताम् । रसात्तु रसन शैत्यं स्नेहं क्लदं समार्दवम् ।
भूमेगन्धं तथा घ्राणं गौरवं मूर्त्तिमेव च । आत्मा गृह्ला-
त्यजः सर्वं तृतीये स्पन्दते ततः” या० । आत्मा गृह्णातीति
सर्वत्र सम्बध्यते । गगनाल्लघिमानं लङ्घनक्रियोपयोगि-
ताम्, सौक्ष्म्यं सूक्ष्मोक्षित्वम्, शब्दं विषयम्, श्रोत्रं
श्रवणेन्द्रियम्, बलं दार्ढ्यम्, आदिग्रहणात् शुषिरत्वं
विविक्ततां च । “आकाशाच्छब्दं श्रोत्रं विविक्ततां
सर्वच्छिद्रसमूहांश्चेति” गर्भांपनिषद्दर्शनात् । पवनात् स्पर्श-
नेन्द्रियम्, चेष्टाङ्ग्यनागमनादिकाम्, व्यूहनम् अङ्गानां
विविधं प्रसारणम्, रौक्ष्यं कर्कशत्वम्, चशब्दात्
स्पर्शं च । पित्तात्तेजसो दर्शनं चक्षुरिन्द्रियम्, पक्तिं
भुक्तस्यान्नस्य पचनम्, औष्ण्यम् उष्णस्पर्शत्वम्, अङ्गानां
रूपं श्यामिकादि प्रकाशितां भ्राजिष्णुताम् । तथा सन्ता-
पामर्षादि च, “शौर्यामर्षतैक्ष्ण्यं पक्त्यौष्ण्यं भ्राजि-
ष्णुतां सन्तापवर्णप्रकर्षरूपेन्द्रियाणि तैजसानीति” गर्भोप-
निषद्दर्शनात । एवं रसादुदकाद्रसनेन्द्रियम् शैत्यम-
ङ्गानां, स्नेहं स्निग्धताम्, मृदुत्वसहितं क्लेदमार्दताम्,
तया भूमेर्गन्धं घ्राणेन्द्रियं गरिमाणंमूर्त्तिं च । सर्वमेतत्
परमार्थतो जन्ममरणरहितोऽप्यात्मा तृतीये मासि गृह्णाति
ततश्चतुर्ये मासि स्पन्दते चलति । तथाच शारीरके
“तस्माच्चतुथ मासि चलनादावभिप्रायङ्करोतोति” । किं च
“दोहदस्याप्रदानेन मर्भोदोषमवाप्नुयात् । वैरूप्यं मरणं
वापि तस्मात्कार्यं प्रियं स्त्रियाः” । गर्भस्यैकं हृदयं गर्भि-
ण्याश्चापरमित्येवं द्विहृदयायाः स्त्रिया यदभिलषितन्तद्दो-
हदम् । तस्याप्रदानेन गर्भोविरूपतां मरणरूपं वा दोष
प्राप्नोति तस्मात् तद्दोषपरिहारार्थं गर्भपुष्ट्यर्थं च गर्भिण्याः
स्त्रिया यत्प्रियमभिलषितं तत्सम्पादनीयम्” ।
किं च “स्थैर्यं चतुर्थे त्वङ्गानाम्पञ्चमे शोणितोद्भवः । षष्ठे
बलस्य वर्णस्य नखरोमणां च सम्भवः” या० । तृतीये मासि
प्रादुर्भूतस्याङ्गसंघस्य चतुर्थे मासि स्थर्यं स्थेमा
भवति । पञ्चमे लोहितस्योद्भव उत्पत्तिः । तथा षष्ठे
बलवर्णकररुहरोम्णां सम्भवः । किं च “मनश्चेतन्ययुक्तो
ऽसौ नाडीस्नायुसिरायुतः । सप्तमे चाष्टमे चैव त्वग्मांम-
स्सृतिमानपि” या० । असौ पूर्वोक्तो गर्भः सप्तमे मासि मनसा
चेतनया च युक्तो नाडीमिर्वायुवाहिनीभिः, स्नायुभि-
रस्थिबन्धनैः सिराभिर्वातपित्तश्लेष्मवाहिनोभिश्च संयुतः ।
तथाऽष्टमे मासि त्वचा मांसेन स्मृत्या च युक्तो भवति ।
किं च “पुनर्द्धात्रीं पुनर्गर्भमोजस्तस्य प्रधावति । अष्टमे
मास्यतोगर्भोजातः प्राणैर्वियुज्यते” या० तथाष्टममासिकस्य
गर्भस्यौजः कश्चन गुणविशेषोधात्रीं गर्भं चप्रति पुनः
पुनरतितरां चञ्चलतया शीघ्रं गच्छति । अतोऽष्टमे मासि
जातो गर्भः प्राणैर्विबुज्यते । अनेनौजःस्थितिरेव
जीवनहेतुरिति दर्शयति । ओजःस्वरूपं च स्मृत्यन्तरे दर्शितम्
“हृदि तिष्ठति यत् शुद्धमीषदुष्णं सपोतकम् । ओजः शरीरे
संख्यातन्तन्नाशान्नाशमृच्छतीति” । किं च “नवमे दशमे
वापि प्रबलैः सूतिमारुतैः । निःसार्यते वाणैव यन्त्रच्छिद्रेण
सज्वरः” या० एवं प्रकारेण चतुरादिपरिपूर्णाङ्गेन्द्रियो
नवमे दशमे वापि मासेऽपिशब्दात् प्रागपि सप्तसे वाष्टमे
वा अत्यायासादिदोषवशात्, प्रबलसूतिहेतुप्रभञ्जनप्रेरितः
स्नाय्वस्थिचर्मादिनिर्मितवपुर्यन्त्रस्य छिद्रेण सूक्ष्मशुषिरेण
सज्वरो दुःसहदुःखेरभिभूयमानोनिःसार्यते धनुर्यन्त्रेण
सुधन्वप्रेरितवाणूइवातिवेगेन । निगमसमनन्तरञ्च बाह्य-
पवनस्पृष्टो नष्टप्राचीनस्मृतिर्भवति “जातःस वायुना स्पृष्टो
न स्मरतिवपूर्व जन्ममरणं कर्म च शुभाशुभमिति” निरुक्त-
स्याष्टादशेऽभिधानात्” ।
पदार्थादर्शे योगार्ण्णवे त्वत्र विशेषौक्तो यथा “कललं
चैकरात्रेण पञ्चरात्रेण बद्बुदस । शोणितं दशरात्रेण मांसपेशी
चतुर्द्दशे । घनमांसं च विंशाहे पिण्डीभावोपलक्षितम् ।
पञ्चविंशतिपूर्ण्णाहे कललमङ्कुरायते । एकमासे तु सम्पूर्ण्णे
पञ्च भूतानि धारयेत् । मासद्वये तु संप्ताप्ते शिरा मेदश्च
जायते । मज्जास्थि च त्रिभिर्मासैः केशाङ्गुल्यश्चतुर्यके ।
कर्ण्णाक्षिनासिकानां च रन्ध्रं मासे तु पञ्चमे । आस्य-
पृष्ठ १९२०
रन्ध्रोदरं षष्ठे वायुरन्ध्नं तु मप्तमे सर्व्वाङ्गं सन्धिसम्पूर्ण्णं
मासैरष्टभिरिष्यते” ।
तत्रैव अध्यात्मविवेके विशेषः । “द्रवत्वात् प्रथमे मासे-
कललाख्यं प्रजायते । द्वितीये तु धनः पिण्डः पेश्या
त्मा घनमर्वुदम् । पुंस्त्रीनपुंसकानान्तु प्रागवस्थाः क्रमा-
दिमाः । घृतीये त्वङ्कुराः पञ्च कराङ्घ्रिशिरसां मताः ।
अङ्गप्रत्यङ्गभागाश्च सूक्ष्माः स्युर्युगपत्तदा । विहाय श्मश्रु-
दन्तादीन् जन्मानन्तरसम्भ्रवान् । एषा प्रकृतिरन्या तु
विकृतिः सम्मता सताम् । चतुर्थे व्यक्तता तेषां भावानामपि
जायते” ।
सुश्रुते तु कायोत्पत्तिप्रकारश्चेत्थमुक्तं यथा
“आयुर्वेदशास्त्रेष्वसर्व्वगताः क्षत्रेज्ञा नित्याश्च तिर्यग्योनिमा-
नुषदेवेषु सञ्चरन्ति धर्म्माधर्म्मनिमित्तं, तएतेऽनुमानग्राह्याः
परमसूक्ष्माश्चेतनावन्तः शाश्वता लोहितरेतसोः सन्नि
पातेष्वऽभिव्यज्यन्ते यतोऽभिहितं पञ्चमहाभूतशरीरसम-
वायः पुरुष इति । सं एव कर्म्मपुरुषश्चिकित्साधिकृतः” ।
इत्युपक्रम्य सात्विकराजसतामसगुणान् कर्म्मपुरुषस्योक्त्वा
पञ्चभूतकार्य्याणि शरोरे दर्शितानि यथा “आन्तरीक्षास्तु
शब्दः शब्देन्द्रियं सर्व्वच्छिद्रसमूहो विविक्तता च ।
वायव्यास्तु स्पर्शः स्पर्शेन्द्रियं सर्वचेष्टासमूहः सर्वशरीर-
स्पन्दनं लघुता च । तैजसास्तु रूपं रूपेन्द्रियं वर्ण्णः
प्नन्तापो भ्राजिष्णुता पक्तिरमर्षस्तैक्ष्ण्यं शौर्यञ्च । आप्यास्तु
रसो रसनेन्द्रियं सर्वद्रवसमूहो गुरुता शैत्यं स्नेहो रेतश्च ।
पार्थिवास्तु गन्धो गन्धेन्द्रियं सर्वमूर्त्तिसमूहो गुरुता
चेति । तत्र सत्वतमोबहुला आपः । तमोबहुला पृथि-
वीति । श्लोकौ चात्र भवतः । अन्योन्यानुप्रविष्टानि
सर्व्वाण्येतानि निर्दिशेत् । स्वे स्वे द्रव्ये तु सर्वेषां व्यक्तं
लक्षणमिष्यते”
ततः शुक्रशोणितयोर्दोषगुणप्रदर्शनेन शुद्धयोस्तयोर्गर्भ-
हेतुत्वमुकं
यथा“अथातः शुक्रशोणितशुद्धिनाम शारीरं व्याख्यास्यामः ।
वातपित्तश्लेष्मकुणपगन्धिग्रन्थिभूतपूतिपूयक्षीणमूत्रपुरीषग-
न्धिरेतसः प्रजोत्पादने न समर्थाभवन्ति । तेषु वातवर्णवेदनं
वातेन । पित्तवर्ण्णवेदनं पित्तेन । श्लेष्मवर्णवेदनं श्लेष्मणा ।
शोणितवर्प्पवेदनं कुणपगन्ध्यनल्पं रक्तेन । ग्रन्थिभूतं
श्लेष्मवाताभ्याम् । पूतिपूयनिभं पित्तश्लेष्मभ्याम् । क्षीणं
प्रागुक्त पित्तमारुताभ्याम् । मूत्रपुरीषगन्धि सन्निपातेनेति ।
तेषु कुणपगन्धि--ग्रन्थिभूत--पूतिपूय--क्षीण रेतसः कृच्छ्र-
साध्याः । मूत्रपुरीषगन्धिरेतसस्स्वसाध्याः साध्यमन्यच्चेति”
तत आर्त्तवदोषगुणादिकमुक्तं तच्च आर्त्तवशब्दे पृ० ८०८
दर्शितम् । “लब्धगर्भायाश्चैतेष्वहःसु लक्षणावटशुङ्गासह-
देवाविश्वानामन्यतमं क्षीरेणाभिषुत्य त्रींश्चतुरो वा विन्दून्-
दद्याद्दक्षिणे नासापुटे पुत्रकामायै न च तान्निष्ठीवेत्” ।
“ध्रुवञ्चतुर्ण्णां सान्निध्याद्गर्भः स्याद्विधिपूर्व्वकः । ऋतुक्षेत्रा-
म्बुवीजानां सामग्र्यादङ्कुरो यथा । एवं जातरूपवन्तो
महासत्वाश्चिरायुषः । भवन्त्यृणस्य मोक्तारः सुपुत्राः पुत्रिणे
हिताः । तत्र तेजोधातुः सर्ववर्ण्णानां प्रभवः स यदा
गर्भोत्पत्तावब्धातुप्रायो भवति तदा गर्भं गौरं करोति,
पृथिवीधातुप्रायः कृष्णं, पृथिव्याकाशधातुप्रायः कृष्णश्यामं,
तोयाकाशधातुप्रायो गौरश्यामम् । यादृग्वर्णमाहारमुप-
सेवते गर्भिणी, तादृग्वर्णप्रसवा भवतीत्येके भाषन्ते । तत्र
दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धं करोति । तदेव रक्तानुगतं
रक्ताक्षं, पित्तानुगतं शुक्लाक्षं, वातानुगतं विकृताक्षमिति ।
भवन्ति चात्र । घृतपिण्डो यथैवाग्निमाश्रितः प्रविलीयते ।
विसर्पत्यार्त्तवं नार्य्यास्तथा पुंसां समागमे । वीजेऽन्तर्व्वा-
युना भिन्ने द्वौ जीवौ कुक्षिमागतौ । यमावित्यभिधीयेते
धर्म्मेतरपुरःसरौ । पित्रोरत्यल्पवीजत्वादासेक्यः पुरुषो
भवेत् । सशुक्रं प्राश्य लभते ध्वजोच्छ्रायमसंशयम् ।
यः पूतियोनौ जायेत स सौगन्धिकसंज्ञितः । स योनि-
शेफसोर्गन्धमाघ्राय लभते बलम् । स्वे गुदेऽब्रह्मचर्य्याद्यः
स्त्रीषु पुंवत् प्रवर्त्तते । कुम्भीकः स च विज्ञेयईर्ष्यकं
शृणु चापरम् । दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रव-
र्त्तते । ईर्ष्यकः स च विज्ञेयः षण्डकं शृणु पञ्चमम् ।
यो भार्य्यायामृतौ मोहादङ्गनेव प्रवर्त्तते । ततः स्त्री-
चेष्टिताकारो जायते षण्डसंज्ञितः । ऋतौ पुरुषवद्वापि
प्रवर्त्तेताङ्गना यदि । तत्र कन्या यदि भवेत् सा भवेन्नर-
चेष्टिता । आसेक्यश्च सुगन्धी च कुम्भोकश्चेर्ष्यकस्तथा ।
सरेतसस्त्वमी ज्ञेया अशुक्रः षण्डसज्ञितः ।
अनया विप्रकृत्या तु तेषां शुक्रवहाः सिराः । हर्षात्
स्फुटत्वमायान्ति ध्वजोच्छ्रायस्ततो भवेत् । आहाराचार-
चेष्टाभिर्य्यादृशीभिः समन्वितौ । स्त्रीपुंसौ समुपेयाता
तयोः पुत्रोऽपि तादृशः । यदा नार्य्यावुपेयातां वृषस्यन्त्यौ
कथञ्चन । मुञ्चन्त्यौ शुक्रमन्योन्यमनस्थिस्तत्र जायते ।
ऋतुस्नाता तु या नारी स्वप्ने मैथुनमावहेत् । आर्त्तवं
वायुरादाय कुक्षौ गर्भं करोति हि । मासि मासि
विवर्द्धेत गर्भिण्या गर्भलक्षणम् । कललं जायते तस्या बर्द्धितं
पृष्ठ १९२१
पैतृकैर्गुणैः । सर्पवृश्चिककुष्माण्डधिकृताकृतयश्व ये । गर्भा-
स्त्वेते स्त्रियाश्चैव ज्ञेयाः पापकृता भृशम् । गर्भो
वातप्रकोपेण दोहदे चावमानिते । भवेत् कुब्जः कुणिःपङ्गु-
र्मूको मिन्मिण एव च । मातापित्रोस्तु नास्तिक्याद-
शुभैश्च पुराकृतैः । वातादीनाञ्च कोपेन गर्भो विकृतिमा-
प्नुयात् । मलाल्पत्वादयोगाच्च वायोः पक्वाशयस्य च ।
वातभूत्रपूरीषाणि न गर्भस्थः करोति हि । जरायुणा
मुखे च्छन्ने कण्ठे च कफवेष्टिते । वायोर्मार्गनिरोधाच्च न
गर्भस्थः प्ररोदिति । निश्वासोच्छ्वाससङ्क्षोभस्वप्नान् गर्भोऽ-
धिगच्छति । मातुर्निश्वसितोच्छ्वाससङ्क्षोभस्वप्नसम्भवान् ।
सन्निवेशः शरीराणां दन्तानां पतनोद्भवौ । तलेष्वसम्भवो
यश्च रोम्णामेतत् स्वभावतः । भाविताः पूर्ब्बदेहेषु सततं
शास्त्रबुद्धयः । भवन्ति सत्वभूयिष्ठाः पूर्व्वजातिस्मरा नराः ।
कर्म्मणा नोदितो येन तदाप्नोति पुनर्भवे । अभ्यस्ताः
पूर्व्वदेहे ये तानेव भजते गुणान्” ।
अथातो गर्भावक्रान्तिशारीरं व्याख्यास्यामः । मौम्यं
शुक्रमार्त्तबमाग्नेयमितरेषामप्यत्र भूतानां सान्निध्यमस्त्य-
णुना विशेषेण परस्परोपकारात्परस्परानुग्रहात्परस्परानु-
प्रवेशाच्च ।
तत्र स्त्रीपुंसयोः संयोगे तेजः शरीराद्वायुरुदीरयति ।
ततस्तेजोऽनिलसन्निपाताच्छुक्रं च्युनं योनिमभिप्रतिपद्यते
संसृज्यते चार्त्तवेन । ततोऽग्निसोमसंयोगात् संसृज्य-
मानो गर्भो गर्भाशयमनुप्रतिपद्यते । क्षेत्रज्ञो वेदयिता
स्प्रष्टा घ्राता द्रष्टा श्रोता रसयिता पुरुषः स्रष्टा गन्ता
साक्षी धाता वक्ता योऽसावित्येवमादिभिः पर्य्यायवाचकै
र्नामभिरभिधीयते दैवसंयोगादक्षयोऽव्ययोऽचिन्त्यो भूता-
त्मना सहान्वक्षं सत्वरजस्तमोभिर्देवासुरैरपरैश्च भावैर्वा-
युनाभिप्रेर्य्यमाणो गर्भाशयमनुप्रविश्याबतिष्ठते तत्र शुक्र-
वाहुल्यात पुमान्, आर्त्तवबाहुल्यात् स्त्री, साम्यादुमयोर्न
पुंसकमिति । ऋतुस्तु द्वादशरात्रं भवति दृष्टार्त्तवः ।
अदृष्टार्त्तवाप्यस्तीत्येके भाषन्ते ।
भवन्ति चात्र । पीनप्रसन्नवदनां प्रस्विन्नात्ममुखद्विजाम् ।
नरकामां प्रियकथां स्रस्तकुक्ष्यक्षिमूर्द्धजाम् । स्फुरद्भुजकुच-
श्रोणिनाभ्यूरुजघनस्फिचम् । हर्षौत्सुक्यपराञ्चापि विद्या-
दृतुमतीमिति । नियतं दिवसेऽतीते सङ्कुचत्यम्बुजं यथा ।
ऋतौ व्यतीते नार्य्यास्तु योनिः संव्रियते तथा । मासे-
नोपचितं काले धमनीभ्यान्तदार्त्तवम् । ईषत् कृष्णं
विगन्धञ्च वायुर्योनिसुखं नयेत् । तद्वर्षाद्द्वादशात्काले वर्त्तमान-
मसृक् पुनः । जरापक्वशरीराणां याति पञ्चाशतः क्षयम् ।
युग्मेषु तु पुमान् प्रोक्तो दिवसेष्वऽन्यथाऽबला । पुष्प काले
शुचिस्तस्मादपत्यार्थी स्त्रियं व्रजेत् । तत्र सद्योगृहीतग-
भोया लिङ्गानि श्रमो ग्लानिः पिपासा सक्थिसदनं
शुक्रशोणितयोरनुबन्धः स्फुरणञ्च योनेः । स्तनयोःकृष्ण-
मुखता रोमराज्युद्गमस्तथा । अक्षिपक्ष्माणि चाप्यस्याः
संमोल्यन्ते विशेषतः । अकामतश्छर्दयति गन्धादुद्विजते
शुभात् । प्रसेकः सदनञ्चापि गर्भिण्या लिङ्गमुच्यते ।
तदा प्रभृत्येव व्यायामं व्यवायमपतर्पणमतिकर्षणम् दिवा-
स्वप्नं रात्रिजागरणम् शोकंयानारोहणं भयमुत्कुटासनं
चैकान्ततः स्नेहादिक्रियां शोणितमोक्षणं चाकाले वेगविधा-
रणं च न सेवेत । दोषाभिघातैर्गर्भिण्या यो यो भागः
प्रपीड्यते । स स भागः शिशोस्तस्य गर्भस्थस्य प्रपीड्यते ।
तत्र प्रथमे मासि कललं जायते । द्वितीये शीतोष्मानि-
लैरभिप्रपच्यमानानां महाभूतानां सङ्घातो घनः सञ्जायते
यदि पिण्डः पुमान्,स्त्री चेत्पेशी, नपुंसकं चेदर्बुदमिति ।
तृतीये हस्तपादशिरसां पञ्च पिण्डका निर्वर्त्तन्तेऽङ्गप्रत्य-
ङ्गविभागाश्च सूक्ष्मा भवन्ति । चतुर्थे सर्व्वाङ्गप्रत्थङ्गविभागः
प्रव्यक्ततरो भवति गर्भहृदयप्रव्यक्तभावाच्चेतनाघातुरभिव्य-
क्तो भवति, कस्मात्? तत्स्थानत्वात्तस्माद्गर्भश्चतुर्थे मास्यभि-
प्रायमिन्द्रयार्थेषु करोति द्विहृदयां च नारीं दौहदिनी-
माचक्षते । दौहदविमाननात् कुब्जं कुणिं खञ्ज जडं
यामनं विकृताक्षमनक्षं वा नारी सुतं जनयति । तस्मात्
सा यद्यदिच्छेत्तत्तस्यै दापयेत् । लब्धदोहदा हि वीर्य्य-
वन्तम् चिरायुषं च पुत्रं जनयति । भवन्ति चात्र ।
इन्द्रियार्थांस्तु यान् यान् सा भोक्तुमिच्छति गर्भिणी ।
गर्भाबाधभयात्तांस्तान भिषगाहृत्य दापयेत् । सा प्राप्त-
दौहदा पुत्रं जनयेच्च गुणान्वितम् । अलब्धदौहदा गर्भे
लभेतात्मनि वा भयम् । येषु येष्विन्द्रियार्थेषु दौहदे वै
विमानना । प्रजायेत सुतस्यार्त्तिस्तस्मिस्तस्मि स्तथेन्द्रिये ।
राजसन्दर्शने यस्या दौहदं जायत स्त्रियाः । अर्थ-
वन्तं महभिगं कुमारं सा प्रसूयते । दुकूलपट्टकौ-
शेयभूषणादिषु दौहदात् । अलङ्कारैषिणं पुत्रं ललितं
वा प्रसूयते । आश्रेमे, संयतात्मानं धर्म्मशीलं प्रसू-
यते । देवताप्रतिमायान्तु, प्रसूते पार्षदोपमम् । दर्शने
व्यालजातीनां हिंसाशीलं प्रसूयते । गोधामांसाऽशने
पुत्र सुषुप्सुं धारणात्मकम् । गवां मांसे च बलिनं
सर्व्वक्लेशसहन्तथा । माहिषेदौहदाच्छूरं रक्ताक्षं लोम-
पृष्ठ १९२२
संयुतम् । वराहमांसात् स्वप्नालुं शूरं सञ्जनयेत्सुतम् ।
मार्भादुविक्रान्तजङ्घालंसदा वनचरं सुतम् । सृमराद्विग्न-
मनसं नित्यभीतं च तैत्तिरात् । अतोऽनुक्तेषु या नारी
समाध्यायति दौहदम् । शरीराचारशीलैः सा समानं
जनयिष्यति । कर्म्मणा नोदितं जन्तोर्भवितव्यं पुनर्भवेत् ।
यथा तथा दैवयोगाद्दौहदं जनयेद्धृदि ।
पञ्चमे मनः प्रतिबुद्धतरं भवति । षष्ठे बुद्धिः । सप्तमे
सर्वाङ्गप्रत्यङ्गविभागः प्रव्यक्ततरः । अष्टमेऽस्थिरीभवत्योज-
स्तत्र जातश्चेन्न जीवेन्नैरृतभागत्वाच्च ततो बलिं मांसौ-
दनमस्मै दापयेत् । नवमदशमैकादशानामन्यतमे जायते
अतो, ऽन्यथा विकारी भवति ।
मातुस्तु खलु रसवहायां नाड्यां गर्भनाभिनाडी प्रतिबद्धा
सास्य मातुराहाररसवीर्य्यमभिवहति । तेनोपस्नेहेनास्या-
भिवृद्धिर्भवति । असञ्जाताङ्गप्रत्यङ्गप्रविभागमानिषेकात्-
प्रभृति सर्व्वशरीरावयवानुसारिणीनां रसवहानां तिर्य्य-
ग्गतानां धमनीनामुपस्नेहो जीवयति ।
गर्भस्य हि सम्भवतः पूर्व्वं शिरः सम्भवतीत्याह शौनकः
शिरोमूलत्वाद्देहेन्द्रियाणाम् । हृदयमिति, कृतवीर्य्यो
बुद्धेर्मनसश्च स्थान त्वात् । नाभिरिति पाराशर्य्यस्ततो हि
वर्द्धते देहो देहिनः । पाणिपादमिति मार्कण्डेयस्तन्मू-
लत्वाच्चेष्टाया गर्भस्य । मध्यशरीरमिति सुभूतिर्गौत-
मस्तन्निबद्धत्वात् सर्व्वगात्रसम्भवस्य । तत्तु न सम्यक्
सर्व्वाङ्गप्रत्यङ्गानि युगपत् सम्भवन्तीत्याह धन्वन्तरिर्गर्भस्य
सूक्ष्मत्वान्नोपलभ्यन्ते वंशाङ्कुरवच्चूतफलवच्च । तद्यथा
चूतफले परिपक्वे केशरभांसास्थिमज्जानः पृथग्दृश्यन्ते
कालप्रकर्षात्, तान्येव तरुणे नोपलन्यन्ते सूक्ष्मत्वात्तेषां
सूक्ष्माणां केशरादीनां कालः प्रव्यक्ततां करोति । एतेनैव
वंशाङ्कुरोऽपि व्याख्यातः । एबं गर्भस्य तारुण्ये सर्वेष्वङ्गप्रत्य-
ङ्गेपु सत्स्त्रपि सौक्ष्म्यादनुपलब्धिः । तान्येव कालप्रर्कषात्
प्रव्यक्तानि भवन्ति ।
तत्र गर्भस्यपितृजमातृजरसजात्मजसत्वजसात्म्यजानि शरीर-
लक्षणानि व्याख्यास्यामः । गर्भस्य केशश्मश्रुलोमास्थिनख-
दन्तशिरास्नायुधमनीरेतःप्रभृतीनि स्थिराणि पितृजानि ।
मांसशोणितमेदोमज्जहृनाभियकृत्प्लोहान्त्रगुदप्रभृतीनि मृ
दूनि मातृजानि । शरीरोपचयो बलं वर्णः स्थितिर्हा-
निश्च रसजानि । इन्द्रियाणि ज्ञानं विज्ञानमायुः सुखदुः-
खादिकान्यात्मजानि । सत्वजान्युत्तरं वक्ष्यामः । वीर्य्य-
मारोग्य बलवर्णौ मेधा च सात्म्र्यजानि ।
तत्र यस्या दक्षिणे स्तने प्राक् पयोदर्शनं भवति दक्षिणाक्षिम
हत्त्वं च पूर्वं च दक्षिणं सक्थ्युत्कर्षति बाहुल्याच्चपुन्नामधे-
येषु द्रव्येषु दौहदमभिध्यायति स्वप्नेषु चोपलभते पद्मोत्प
लकुमुदाम्रातकादीनि पुन्नामान्येव, प्रसन्नमुखवर्णा च मवति
तां ब्रूयात् पुत्रमियं जनयिष्यतीति । तदुविपर्य्यये कन्याम् ।
यस्याः पार्श्वद्वयमुन्नतम्पुरस्तान्निर्गतमुदरं प्रागभिहितलक्षणं
च तस्या नपुंसकमिटि विद्यात् । यस्य मध्ये निम्नं
द्रोणीप्रभूतमुदरं सा युग्मं प्रसूते इति । भवन्ति चात्र-
देवताब्राह्मणपराः शौचाचारहिते रताः ।
महागुणान् प्रसूयन्ते विपरीतास्तु निर्गुणान् । अङ्गप्रत्यङ्ग-
निर्वृत्तिः स्वभावादेव जायते । अङ्गप्रत्यङ्गनिर्वृत्तौ ये भबन्ति
गुणागुणाः । ते ते गर्भस्य विज्ञेयाधर्माधर्मनिमित्तजाः” ।
एवं याज्ञवल्क्यसुश्रुतादिवाक्यैः कायस्य पाञ्च-
भौतिकत्वे स्थितेऽन्येऽपि भूतविशेषगुणादिभेदाः
पदार्थादर्शे उक्ता यथा । “अस्थि मांसं त्वचा स्नायूरोम
चैव तु पञ्चमम् । एते पञ्चविधा प्रोक्ता पृथिवी कठिना-
त्मिका । लाला मूत्रं तथा शुक्रं शोणितं मज्जपञ्चमम् ।
अपां पञ्च गुणा एते द्रवरूपाः प्रकीर्त्तिताः । क्षुधातृष्णा-
ऽऽमयं निद्रा आलस्यं क्षान्तिरेव च । उष्णात्मका गुणाएते
तेजसः परिकीर्त्तिताः । धावनं गमनं भुक्तिराकुञ्चन-
प्रसारणे । एते पञ्चगुणावायोः क्रियारूपा व्यवस्थिताः ।
रागद्वेषौ तथा लज्जा भयं मोहस्तथै च । व्योम्नः पञ्च
गुणा एते शून्याख्ये शुषिरात्मनि” । तत्रायं विशेषः
मनुष्यकायस्य पार्थिवत्वं, चन्द्रालोकस्थकायस्याप्यत्वं
सूर्य्यादिलोकस्थकायस्य तैजसत्वं वायुलोककायस्य
वायव्यत्वम् बाहुल्येन तत्तत्कायेष पृथिव्यादिगुणाधिक्यो
पलब्धेः । इतरभूतानान्तु उपष्टम्भकतामात्रं तदेतत्
गौत० सू० भाष्ययोर्निर्ण्णीतं यथा ।
“पार्थिवं गुणान्तरोपलब्धे” ३ अ० २८ सू०
तत्र मानुषं शरीरं पार्थिबम् । कस्मात्? गुणान्तरोपलब्धे ।
गन्धवती पृथिवी, गन्धवच्छरीरम्, अवादीनामगन्धत्वात्
तत्प्रकृत्यगन्धं स्यात् न त्विदमबादिभिरसंपृक्तया
अथिव्यारब्धं चेष्टेन्द्रियार्थाश्रयभावेन कल्प्यत इत्यतः पञ्चानां
संयोगे सति शरीरं भवति भूतसंयोगीहि मिथः पञ्चानां
न निषिद्ध इति, आप्यतैजसवायव्यानि लोकान्तरे
शरीराणि, तेष्वपि भूतसंयोगः पुरुषार्थतन्त्र इति स्थाल्यादि-
द्रव्यनिष्पत्तावपि निःसंशयं, नाबादिसंयोगमन्तरेण निष्प-
त्तिरिति । पार्थिवाप्यतैजसं तद्गुणोपलब्धेः, निश्वासो-
पृष्ठ १९२३
च्छासोपलब्धेश्चातुर्भौतिकम्, गन्धक्लेदनव्यूहावकाशदानेभ्यः
पाञ्चभौतिकम्, त इमे सन्दिग्धा हेतव इत्यपेक्षितवान्
सूत्रकारः । कथं सन्दिग्धाः? सति च प्रकृतिभावे भूतानां
धर्मोपलब्धिः, असति च संयोगाप्रतिषेधात् सन्निहिता-
नामिति यथा स्थाल्यामुदकतेजोवाय्वाकाशानामिति,
तदिदमेकभूतप्रकृति शरीरनगन्धमरसमरूपमस्पर्शं च प्रकृत्य-
नुविधानात् स्यात् नत्विदमित्थंभूतम् तस्मात् पार्थिवं
गुणान्तरोपलब्धेः भा० ।
“श्रुतिप्रामाण्याच” ३ अ० २९ सू०
“सूर्यंते चक्षुर्गच्छवात्” इत्यत्र मन्त्रे “पृथिवीं ते शरीरमिति”
श्रूयते तदिदं प्रकृतौ विकारस्य प्रलयाभिधानमिति “सूर्य्यं
ते चक्षुः स्तृणोमि” इत्यत्र मन्त्रान्तरे “पृथिवीं ते शरोरमिति”
श्रूयते, सेयं कारणाद्विकारस्य स्तृतिरभिधीयत इति,
स्थाल्यादिषु च तुल्यजातीयानामेककार्य्यारम्भदर्शनाद्भिन्न-
जातीयानामेककार्य्यारम्भानुपपत्तिः” वात्स्या० भा०
सां० सूत्रेषु च “पाञ्चभौतिकोदेहः” सू० पञ्चानां भूतानां
मिलितानां परिणामोदेह इत्येकीयमतम् । “चातुर्भौतिक-
मित्येके” सू० । आकाशस्यानारम्भकत्वमभिप्रेत्येदम् । एतच्च
चार्वाकादिप्तते तस्पते भूतचतुष्टयस्यैव स्वीकारात् चार्वाकशब्दे
विवृतिः । “ऐकभौतिकमित्यपरे” सू० । “पार्घिवमेव
शरीरमन्यानि भूतान्य, पष्टम्भकमात्राणि । अथवा ऐक
भौतिकमैकैकभौतिकमित्यर्थः ततश्च मनुष्यदेहे पार्थिवां-
शाधिक्येन पार्थिवता । चन्द्रादिलोकेषु अबाद्यंशाधिक्ये-
न आप्यत्वादि । हिमकरकसुवर्ण्णादीनामिव भूतान्तर-
संसर्गमात्रम्” भा० । ऊष्मजादिदेहानुक्त्वा “सर्व्वेषु पृथि-
व्येवोपादानम् असाधारण्यात् तद्व्यपदेशः पूर्ब्बवत्” सू० ।
सर्व्वेष स्थावरास्थावरदेहेषु पृथिव्येवोपादानम् असाधा-
रण्यात् आधिक्यादिभिरुत्कर्षात् अत्रापि काये पञ्च-
चतुरादिभूतजत्वव्यपदेशः पूर्ब्बवत् इन्द्रियाणां भौतिकत्व
वदुपष्टम्भमात्रेणेत्यर्थः” भा० ।
शा० सू० भाष्ययोश्च छा० उ० मांसादीनां पृथिव्यादिकार्य्यत्व
न्योक्त्याकयिस्य त्रैभौतिकत्वं व्यवस्थापित यथा
“मांसादि भौमं यथाशब्दमितरयोश्च” सू० । “भूमेस्त्रिवृत्-
कृतायाः पुरुषेणोपयुज्यमानायाः मांसादि कार्य्यं
यथाशब्दं निष्पद्यते । तथाहि (छा०) श्रुतिः “अन्नमशितं त्रेधा
विधीयते तस्य यः स्थविष्ठोधातुस्तत्पुरीषं भवति, यो मध्यम
स्तन्मासं, योऽणिष्ठस्तन्मनः” इति । त्रिवृत्कृता भूमिरेवैषा
व्रीहियवाद्यन्नरूपेणाद्यते इत्यभिप्रायः । तस्याश्च स्थ-
विष्ठं रूपं पुरीषभावेन बहिर्निर्गच्छति मध्यममध्यात्मं
मांसं वर्द्धयति अणिष्ठन्तु मनः । एवमितरवोरप्तेजसो-
र्यथाशब्द कार्य्यमवगन्तव्यम् । मूत्रं लोहितं प्राणश्चापां
कार्य्यम् । अस्थि मज्जा वाक् च तेजस इति । अत्राह यदि
सर्वमेव त्रिवृत्कृतं भूतभौतिकम् अविशेषश्रुते “तासां त्रिवृतं
त्रिवृतमेकैकामकरोदिति” किकृतस्तर्ह्ययं विशेषव्यपदेशः
इदं तेजः इमा आप इदमन्नमिति तथा ध्यात्ममिदमन्नस्याशि-
तस्य कार्य्यं मांसादि, इदमपां पोतानां कार्य्यं लोहितादि,
इदं तेजसोऽशितस्य कार्य्यं मज्जादि । अत्रोच्यते-
“वैशेष्यात्तु तदुवादस्तदुवादः” सू० । तुशब्देन नोदितं
दोषमपनुदति । विशेषस्य भावो वैशेष्यं भूयस्त्वमित्येतत् ।
सत्यपि त्रिवृत्करणे क्वचित् कस्यचिद्भूतधातोर्भूयस्त्वमुपल-
भ्यते । अग्नेस्तेजोभूयस्त्वम्, उदकस्याब्भूयस्त्वं, पृथिव्या
अन्नभूयस्त्वमिति व्यवहारप्रसिद्ध्यर्थं चैवं त्रिवृत्करणम् ।
व्यवहारश्च त्रिवृत्कृतरज्वुवदेकत्वापत्तौ सत्यां न भेदेन
भूतत्रयगोचरोलोकस्य प्रसिद्ध्येत् । तस्मात् सत्यपि त्रिवृत्-
करणे वैशेष्यादेव तेजोबन्नविशेषवादो भूतभौतिकविषय
उपपद्यते” भा० ।
उत्तरपादे च बाहुण्यात् देहस्व त्रैमौतिकत्वमुक्तं यथा ।
“तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाव्याम्”
सू० । तदन्तर प्रतिपत्तौ देहाद्देहान्तरप्रतिपत्तौ देहवीजै-
र्भूतसूक्ष्मैः संपरिष्वक्तो गच्छतीत्यवगन्तव्यं कुतः? प्रश्ननि-
रूपणाभ्याम् । तथाहि प्रश्नः “वेत्थ यथा सौम्य! पञ्च-
म्यामाहुतावापः पुरुषवचसो भवन्तीति” । निरूपणं च प्रति-
वचनं द्युपर्जन्यपृथिवीपुरुषयोषित्सु पद्यस्वग्निष श्रद्धा-
मेघवृष्ट्यन्नरेतोरूपाः पञ्चाहुतीर्दर्शयित्वा “इति तु
पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति” तस्मा-
दद्भिः परिवेष्टितो जीवोरह्तीति गम्यते । नन्वन्या
श्रुतिर्जलूकावत् पूर्व्वं देहं न मुञ्चति यावद्देहान्तरं
न क्रामतोति दर्शयति “तद्यया तृणजलायूकेति” । वत्रा-
प्यप्परिवेष्टितस्यैव जीवस्य कर्मोपस्थापितप्रतिपत्तव्यदेह
विषयभावनया दोर्धीभावमात्रं जलूकयोपमीयते इत्यविरोधः
एवं श्रुत्युक्ते देहान्तरपतिपत्तिप्रकारे सति याः पुरुषमतिप्र-
भवाः कल्पनाः व्यापिनां करणानामात्मनश्च देहान्तर-
प्रतिपत्तौ कर्मवशाद्वृत्तिलाभस्तत्र भवति, केवलस्येव वात्मनो
वृत्तिलाभस्तत्र भवति, इन्द्रियाणि तु देहवदमिनवान्येव
तत्र तत्र भोगस्थान उत्पद्यन्ते, मनएव वा केवद्भं
भोगस्थानमभिप्रतिष्ठते, जीवएव वा उत्प्लुत्य देहाद्वेहान्तरं
पृष्ठ १९२४
प्रतिपद्यते शुकैव वृक्षाद्वृक्षान्तरमित्येवमाद्याः ताः सर्वा-
एवानादर्त्तव्याः श्रुतिविरोधात् । ननूदाहृताभ्यां प्रश्न-
प्रतिवचनाभ्यां केवलाभिरद्भिः सपरिष्वक्तोरंहति इति
प्राप्नोति अप्शब्दश्रवणसामर्थ्यात् तत्र कथं सामान्येन
प्रतिज्ञायते? सर्वैरेव भूतसूक्ष्मैः संपरिष्रक्तोरंहतीत्यत
उत्तरं पठति ।
“त्र्यात्मकत्वात्तुभूयस्त्वात् तद्व्यपदेशः” सू० । तुशब्देन
नोदितामाशङ्कामुच्छिनत्ति त्र्यात्मिकाह्यापः त्रिवृत्करणश्रुतेः
तास्वारम्भिकास्वप्स्वभ्युपगतास्वितरदपि भूतद्वयमवश्याभ्युपग-
न्तव्यं भवति त्र्यात्मकश्च देहःत्रयाणामपि तेजोबन्नानां तस्मि-
न् कार्य्योपलब्धेः पुनश्च त्र्यात्मकः त्रिधातुकत्वात् त्रिभिर्वात
पित्तश्लेष्माः । न स भूतान्तराणि प्रत्याख्याय केवलाभि
रद्भिरारब्धुं शक्यते । तस्माद्भूयस्त्वापेक्षोऽयमापः पुरुष-
वचस इति प्रश्नप्रतिवचनयोरप्शब्दो न कैवल्यापेक्षः । सर्व-
देहेषु हि रसलोहितादिद्रवभूयस्त्वं दृश्यते । ननु पार्थिवो
धातुर्भूयिष्ठो देहेषूपलभ्यते! नैष दोषः इतरापेक्षया अपां
बाहुल्यं मविष्यति, दृश्यते च शुक्रशोणि तलक्षणेऽपि
देहवीजे द्रवद्रव्यबाहुल्यम् । कर्म च निमित्तं कारणं देहा-
न्तरा रम्भे, कर्माणि चाग्निहोत्रादीनि सोमाज्यपयःप्रभृति
द्रवद्रव्यव्यपाश्रयाणि, कर्मसमवायिन्यश्चापः श्रद्धाशब्दोदिताः
सह कर्मिभिर्द्युलोकाख्येऽग्नौ हूयन्त इति वक्ष्यति तस्माद-
प्यपां बाहुल्यप्रसिद्धिः । बाहुल्याच्चाप्शब्देन सर्वेषामेव
देहवीजानां भूतसूक्ष्माणामुपादानमिति निरवद्यम्” ।
तथा च त्रैभौतिकत्वं बाहुल्याभिप्रायेण ऐतरेयोपनिषदि
पाञ्चभौतिकत्वोक्तेः । यथा
“एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि
च पञ्च महाभूतानि--पृथिवी वायुराकाश आपो ज्योतीं-
षीत्येतानोमानि च क्षुद्रमिश्राणीव वीजानीतराणि
चेतराणि चाण्डजानि च जारुजानि च स्वे दजानि
चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो--यत् किञ्चेदं
प्राणि जङ्गमं च पतत्रि च यच्च स्थावरम्, सर्वं तत्
प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा
प्रज्ञानं ब्रह्म” उप० ३ अ० ।
“स एष प्रज्ञानरूप आत्मा ब्रह्म । अपरं सर्व्वशरी-
रस्थप्राणप्रज्ञात्मान्तःकरणोपाधिष्वनुप्रविष्टो जलभेदगतसूर्य-
प्रतिविम्बवद्धिरण्यगर्भः प्राणः प्रज्ञात्मा । एष एवेन्द्र
इन्द्रगुणवान् देवराजो वा । एषः प्रजापतिर्यः प्रथमजः
शरीरी, यतो सुखादिनिर्भेदद्वारेणाग्न्यादयो लोकपाला
जाताः । सप्रजो वा एषः प्रजापतिरेष एष येऽप्येते
अग्न्यादयः सर्वे देवा एष एव । इमानि च सर्वशरीरो-
पादानभूतानि--पञ्च पृथिव्यादीनि महाभूतान्यन्नान्नहेत्वादि
लक्षणान्येतानि । किञ्चेमानि च क्षुद्रैरल्पकैर्मिश्राणि
सर्पादीनि । इवशब्दोऽनर्थकः । वीजानि कारणानि चेतराणि
चेतराणि च द्वैराश्येन चलाचलतया निर्दिश्यमानानि ।
कानि तानि? इत्युच्यन्ते--अण्डजानि पक्ष्यादीनि । जारु-
जानि जरायुजानि मनुष्यादीनि । स्वेदजानि यूकादीनि
उद्भिज्जानि च वृक्षादीनि । अश्वाः, गावः, मनुष्याः,
हस्तिनः । अन्यच्च यत्किञ्चिदिदं प्राणिजातम् । किं तत्?
जङ्गमं यच्चलति पद्भ्यां गच्छति । यच्च पतत्रि आकाशेन
पतनशीलम् । यच्च स्थावरमचलं सर्व्वं, तदशेषतः प्रज्ञा-
नेत्रम्--प्रज्ञप्तिः प्रज्ञा, तच्च ब्रह्मैव, नीयते सत्ता प्रा-
प्यते अनेनेति नेत्रं, प्रज्ञा नेत्रं यस्य तदिदं प्रज्ञानेत्रम् ।
प्रज्ञाने ब्रह्मण्युत्पत्तिस्थितिलयकालेषु प्रतिष्ठितं प्रज्ञाश्रय-
मित्यर्थः । प्रज्ञानेत्रो लोकः पूर्ववत् । प्रज्ञाचक्षुर्वा सर्व
एव लोकः । प्रज्ञा प्रतिष्ठा सर्व्वस्य जगतः । तस्मात्
प्रज्ञानं ब्रह्म । तदेतत् प्रत्यस्तमितसर्व्वोपाधिविशेषं सन्निर-
ञ्जनं निर्मलं निष्क्रियं शान्तमेकमद्वयं, नेति सर्व्वविशेषा-
पोहसंवेद्यं सर्व्वशब्दप्रत्ययागोचरं तदत्यन्तविशुद्धप्रज्ञोपाधि
सम्बन्धेन सर्व्वज्ञमीश्वरसंज्ञं भवति । सर्व्वसाधारणा-
व्याकृतजगद्वीजप्रवर्त्तकं नियन्तृत्वादन्तर्यामिसञ्ज्ञं भवति ।
तदेव जगद्वीजभूतबुद्ध्यात्माभिमानलक्षणहिरण्यगर्भसञ्ज्ञं
भवति । तदेवान्तरण्डोद्भूतप्रथमशरोरोपाधिमद्विराट्
प्रजापतिसञ्ज्ञं भवति । तदुद्भूताग्न्याद्युपाधिमद्देवता-
टिसञ्ज्ञं भवति । तथा विशेषशरीरोपाधिष्वपि ब्रह्मा-
दिस्तम्बपर्य्यन्तेष तत्तन्नामरूपलाभो ब्रह्मणस्तदेवैकं सर्व्वोपा-
धिभेदभिन्नं सर्वैः प्राणिभिस्तार्किकैश्च सर्व्वप्रकारेन ज्ञाय-
ते विकल्प्यते चानेकधा । एतमेके वदन्त्यग्निं मनुमन्ये
प्रजापतिम् । इन्द्रमेकेऽपरे प्राणमपरे ब्रह्म शाश्वतभि-
त्याद्या स्मृतिः” शाङ्करभाष्यम् ।
कणादसूत्रवृत्त्योस्तु कायस्य पञ्चादिभौतिकत्व
निराकरणेन एकैकभूतारब्धत्वं व्यवस्थापितं यथा
“पृथिव्यादि कार्य्यद्रव्यं त्रिविधं--शरीरेन्द्रियविषयसंज्ञ-
कम्” क० सू० । तत्र शरीरत्वं प्रयत्नवदात्मसं योगा-
समवायिकारणवत्क्रियाबदन्त्यावयवित्वम् उपाधिभेदः
न तु शरीरत्वं जातिः पृथिव्यादिना परापरभावानुप-
प्रत्तेः” उपस्करवृत्तिः । तथा च शरीरत्वम् अन्त्यावय-
पृष्ठ १९२५
विमात्रवृत्तित्वे सति चेष्टावद्वत्तिजाति मत्त्वं । हस्तत्व-
पृथिवीत्वद्रव्यत्वसत्तादिवारणाय सत्यन्तम् । घटत्वादिवार-
णाय चेष्टावद्वृत्तोति । घटशरीरसंयोगादिवारणाय
जातीति । मनुष्यत्वचैत्रत्वादिजातिमादाय मानुषादि-
शरोरे लक्षणसमन्वयः । वृक्षादावपि चेष्टा अस्त्येव
आध्यात्मिकवापुसम्बन्धातु अन्यथा भग्नक्षतसंरोहणादिकं
न स्यात् । कल्पभेदेन नृसिंहशरीरस्य नानात्वात् नृसिंह-
त्वजातिमादाय तत्र लक्षणसमन्वयः नतु शरीरत्वं जातिः
पृथिवीत्वादिना सङ्करात् नापि चेष्टाश्रयत्वम् मिश्चेष्ट-
शरोरेऽव्याप्तेः ।
“इदानीं शरीरस्य त्रैभौतिकत्वचातुर्भौतिकत्वप्रवादं
निराकर्त्तुमाह” उपस्करवृत्तिः ।
“प्रत्यक्षाप्रत्यक्षाणां सयोगस्याप्रत्यक्षत्वात् पञ्चात्मकं न
विद्यते” सू०
“यदि गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकं शरीरं
भवेत् तदाऽप्रत्यक्षं भवेत् यथा प्रत्यक्षाप्रत्यक्षाणां वायुवनस्प-
तीनां संयोगोऽप्रत्यक्षस्तथा शरीरमप्यप्रत्यक्षं स्यादिति दृष्टा-
न्तद्वारकं सूत्रं, पञ्चात्मकं न विद्यत इति शरीरमिति शेषः ।
क्लेदपाकादयस्तु उपष्टम्भकजलानलगता एव, चातुर्भौति-
कमप्येवम् । नन्वस्तु त्रैभौतिकम्, त्रयाणां भूतानां प्रत्य-
क्षत्वादिति चेन्न विजातीयारम्भस्य प्रतिषेधात् । एकस्य
गुणस्यावयविनि गुणानारम्भकत्वात् । तथा च यदि पृथिवी-
जलाभ्यामारम्भः स्यात्! तदा तदारब्धमगन्धमरसञ्च स्यात्!
एवं पृथिव्यनलाभ्यामगन्धमरूपमरसञ्च स्यात्! पृथिव्यनिला-
भ्यामगन्धमरसमरूपमस्णर्शञ्च स्यादित्याद्यूह्यम्” उ० वृत्तिः
“गुणान्तराप्रादुर्भावाच्च न त्र्यात्मकम्” सू० ।
“पृथिव्यप्तेजसां प्रत्यक्षाणामेवारब्धं शरीरं प्रत्यक्षं स्यादपि
यदि तत्र गुणान्तरं कारणगुणपूर्व्वकं प्रादुर्भवेत्, न त्वेत-
दस्ति एकस्य गन्धादेरनारम्भकत्वस्योक्तत्वात् तथाच न
त्र्यात्मकमपि शरीरं न रूपवद्भूतत्रयारब्धमपीत्यर्थः ।
कथं तर्ह्येकस्मिन्नेव शरीरे पाकादीनामुपलम्भः? इत्यत
आहं” वृत्तिः । “अणुसंयोगस्त्वप्रतिषिद्धः” सू० “मिथः
पञ्चानां भूतानां परस्परमुपष्टम्भकतया संयेगो न
निषिध्यते, किन्तु विजातीययोरण्वोर्द्रव्यं प्रत्यसमवायि-
कारणं संयोगो नेष्यते । तथाच तदुपष्टम्भात् पाकादीनां
शरीरे भवत्युपलम्भ इति तर्हि किंप्रकृतिकमिदं मानुषश-
रीरम्? इत्यत्र गोतमीयं सूत्रमुपतिष्ठते “पार्थिवं तद्वि-
शेषगुणोपलब्धेः” (पाठान्तरम्) पृथिवीविशेषगुणो गन्धो
मानुषशरीरे आनाशमनपायी दृश्यते, पाकादयस्तु शुष्क-
शरीरे नोपलभ्यन्ते इति तेषामौपाधिकत्व गन्धस्य स्वा-
भाविकत्वमिति पार्थिवत्वव्यवस्थितेः” उपस्करवृत्तिः ।
वेदान्तिनस्तु मनुष्यादिकायस्य पाञ्चभौतिकत्वमेव प्रति-
पेदिरे । तच्च प्रमेयविवरणोपन्यासे उक्तं तच्च ६६४ पृ०
दर्शितम् । चार्वाकास्तु कायस्यैव भोक्तृत्वं मन्यन्ते तन्मतं
तत्रैव निराकृतं तच्च ६६४ पृ० दर्शितम् ।
अत्रेदमभिधीयते । प्राधान्येन यद्येकैकभूतारब्धत्वं तथापि
कस्य मानबदेहारम्भकत्वम् तद्विवेचनीयम् । प्रागुक्तसु-
श्रुतवाक्येन या० वाक्येन प्रत्यक्षेण अवरोहशब्दे ४४० पृ०
दर्शितशा० सूत्रभाष्येण वक्ष्यमाणैतरेयश्रुत्या च शुक्रशोणि-
तयोरेव योनिनिषेकेण चेतनाधिष्ठाने देहारम्भस्योक्त-
त्वात् शुक्रशोणितयोरुपादानत्वं युक्तं ताभ्यामेव देहा
रम्भणात् शुक्रशोणितोपादानवत्वात् देहस्याप्यत्वं शुक्रस्य
तैजसत्वात् तैजसत्वञ्च युक्तं, श्रुतौ “वेत्थ यथा सौम्य!
पञ्चम्यामाहुतावापः पुरुषवचसोभवन्तीति” प्रश्ने
“इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति”
प्रतिवचने च छा० उ० पुरुषशब्दवाच्यदेहेन्द्रियसंघातस्य
अम्मयत्वमुक्तम् शुक्रस्य च ब्रीह्यन्नोपादनकत्वेन पार्थि-
वत्वमपि “आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः”
इति मनुना प्राग्दर्शितेन याज्ञ० वचनेन च अन्नोपादान-
कत्वस्योक्त्या च पार्थिवत्वसिद्धेः । तथा च नूथस्त्वेन त्र्यत्म-
कत्वमेव मानवदेहानां युक्तम् अतएव “त्र्यात्मकत्वात्तुभूय-
स्त्वात्तद्व्यपदेशः” शा० सू० त्र्यात्मकत्वमेवोक्तं तेन पाञ्च-
भौतिकत्वोक्तिरितरभूतोपष्टम्भकतामात्राभिप्राया । श्रुत्या
बलवदागमेश्च विरोधात् कायस्य एकभूतारब्धावानुमानं
नरशिरःकपालशुचित्वानुमानवत् न प्रसरति । ६६४ पृ०
दर्शितविवरणोपन्यासोक्तदिशा पाञ्चभौतिकत्ववत् त्रैभौ-
तिकत्वस्याप्युपपत्तेरिति ।
गर्भत उत्पत्तिप्रकारः ऐतरयोपनिषदि तद्भाष्ये च
दर्शितो
यथा“पुरुषे ह वा अयमादितो गर्भो भवति । यदेतद्रेतस्तदेतत्
सर्वेभ्योऽङ्गेभ्यस्तेजः सम्भृतमात्मन्ये वात्मानं बिभर्त्ति । तद्यदा
स्त्रियां सिञ्चत्यथैतज्जनयति तदस्य प्रथमं जन्म ।
तत् स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं तथा ।
तस्मादेनां न हिनस्ति सास्यैतमात्मानमत्र गतं भावयति ।
सा भावयित्री भावयितव्या भवति तं स्त्रीगर्भं बिभर्त्ति
सोऽग्र एव कुमारं जन्मनोऽग्रेऽधिभावयति । स यत् कुमार्
पृष्ठ १९२६
जन्मनोऽग्रेऽधिभावयति आत्मानमेव तद्भावयत्येषां लोकानां
सन्तत्याएवं सन्तता हीमे लोकास्तदस्य द्वितीयं जन्म ।” उप०
“वैराग्यहेतोरयमेवाविद्याकामकर्मवान् यज्ञादिकर्म कृत्वा
अस्माल्लोकाद्धूमादिक्रमेण चन्द्रमसम्प्राप्य क्षीणकर्मा वृष्ट्या
दिक्रमेणेमं लोकं प्राप्यान्नभूतः पुरुषेऽग्नौ हुतः ।
तस्मिन् पुरुषे ह वै अयं संसारी रसादिक्रमेणादितः
प्रथमं रेतोरूपेण गर्भो भवतीति तदाह तदेतत् पुरुषे
रेतस्तेन रूपेणेति । तच्चैतद्रेतोऽन्नमयस्य पिण्डस्य सर्वेभ्यः
अङ्गेभ्यो रसादिलक्षणेभ्यस्तेजः साररूपं शरीरस्य, सम्भृतं
परिनिष्पन्नं तत् पुरुषस्याऽऽत्मभूतत्वादात्मा । तमात्मानं
रेतोरूपेण गर्भीभूतमात्मानमात्मन्येव स्वशरीरे एव बिभर्त्ति
धारयति । तद्रेतो यदा यस्मिन् काले भार्य्या ऋतुमती
तस्यां योषाऽग्नौ स्त्रियां सिञ्चति । उपगच्छन्नथ तदैतद्रेत
आत्मनो गर्भभूतं जनयति पिता । तस्य सुरुषस्य स्थाना-
न्निर्गमनं रेतःसेककाले रेतोरूपेणास्य संसारिणः प्रथमं
जन्म प्रथमावस्थाभिव्यक्तिः ।
तदेतदुक्तं पुरस्तादसावात्माऽमुमात्मानमित्यादिना । तद्रे-
तो वस्यां स्त्रियां सिक्तं सत् तस्या आत्मभूयमात्माव्यति-
रेकतां यथा पितुरेवं गच्छति प्राप्नोति यथा स्वमङ्गं
स्तनादि तथा तद्वदेव । तस्माद्धेतोरेनां मातरं स गर्भो न
हिनस्ति पिटकादिवत् । यस्मात् स्तनादि स्व ङ्गवदात्मभूयं
गतं तस्रान्न हिनस्ति न बाधते इत्यर्थः । साऽन्तर्वत्नी
एवमस्य भर्त्तुरात्मानमन्नात्मन उदरे प्रविष्टं गतं बुध्वा भावयति
वर्द्धयति परिपालयति गर्भविरुद्धाशनादिपरिहारमनुकूला-
शनाद्युपयोगञ्च कुर्वती । सा भावयित्री वर्द्धयित्री भर्त्तु-
रात्मनो गर्भभूतस्य भावयितव्या रक्षयितव्या च भर्त्रा
भवति । न ह्युपकारप्रत्युपकारमन्तरेण लोकेकस्वचित्
केनचित् सम्बन्ध उपपद्यते । तं गर्भं स्त्री यथोक्तेन गर्भधा-
रणविधानेन बिभर्त्ति धारयति प्राग्जन्मनः । सा पिता
अग्र एव पूवमेव कुमारं जातमात्रं जन्मनोऽध्यूर्द्घञ्जन्मनो
जातं कुमारं जातकर्म्मादिना यद्भावयति तदात्मानमेव
भावयति पितुरात्मैव पुत्ररूपेण जायत । तथा ह्युक्तं
“पतिर्जायां प्रविशतःत्यादि” तत् किमर्थमात्मानं पुत्ररूपेण
जनयित्वा भावयति? उच्यते--एषां लोकानां सन्तत्यै
अविच्छेदायेत्यर्थः । विच्छिद्येरन् हीमे लोकाः पुत्रोत्पाद-
नादि यदि न कुर्य्युः ते च पुत्रोत्पादनादिकर्म्माऽविच्छेदेनै-
व सन्तता हि प्रबन्धरूपेण वर्त्तन्ते यस्मादिमे लोकास्त-
स्मात्तदविच्छेदाय तत्कर्त्तव्यं न मोक्षायेत्यर्थः । तदस्यं
संसारिणः पुंसः कुमाररूपेण मातुरुदराद्यन्निर्गमनं तद्रे-
तोरूपापेक्षया द्वितोयं जन्मद्वितीयावस्थाभिव्यक्तिः अस्य
पितुः” शाङ्करभाष्यम् ।
स्थावराणामपि भोगायतनदेहवत्त्वमस्ति । तदेतदुद्भिज्जशब्दे
८०८ पृ० उक्तप्रायमपि सां० सू० प्र० भाष्ययोर्व्यक्तं दर्शितं
यथा । “न बाह्यबुद्धिनियमो वृक्षगुल्मलतौषधिवनस्पति-
तृणवीरुदादीनामपि भोक्तृभोगायतनत्वं पूर्ववत्” सू० ।
“न बाह्यज्ञानं यत्रास्ति तदेव शरीरमिति नियमः किन्तु
वृक्षादीनामन्तःसंज्ञानामपि भोक्तृभोगायतनं शरीरं
मन्तव्यम् । यतः पूर्व्ववत् पूर्वोक्तो यो भोक्त्रधिष्ठानं विना
मनुष्यादिशरीरस्य पूतिभावस्तद्वदेव वृक्षादिशरीरेष्वपि
शुष्कतादिकमित्यर्थः । तथा च श्रुतिः “अथ यदेकां शाखां
जीवो जहात्यथ सा शुष्यतीत्यादिरिति” । न बाह्य-
बुद्धिनियम इत्यशस्य पृथकसूत्रत्वेऽपि सूत्रद्वयमेकोकृत्येत्थ-
मेव व्याख्येयम् । सूत्रभेदस्तु दैर्घ्यभयादिति बोध्यम्” भा० ।
“स्मृतेश्च” सू० । “शरिरजैः कर्मदोषैर्याति स्थावरतां नरः ।
वाचिकैः पक्षिमृगतान् मानसैरन्त्यजातिताम्” इत्यादि-
स्मृतेरपि वृक्षादिषु भोक्तृभोगायतनत्वमित्यर्थः । ननु
वृक्षादिष्वप्येवं चेतनत्वेन धर्माधर्मोत्पतिप्रसङ्गस्तत्राह ।
“न देहमात्रतः कर्माधिकारित्वं वैशिष्ट्यश्रुतेः” सू०
“न देहमात्रेण धर्माधर्मोत्पत्तियोग्यत्वं जीवस्य, कुतः?
वैशिष्ट्यश्रुतेः ब्राह्मणादिदेहविशिष्टत्वेनैवाधिकारश्रवणा-
दित्यर्थः” भा० ।
तस्य कायस्य षाड्विध्यं सां० सू० भा० उक्तं यथा ।
“स्थूलशरीरगतं विशेषं प्रसङ्गादबधारयति” भा० । “ऊष्म-
जाण्डजजरायुजोद्भिज्जसाङ्कल्पिकसांसिद्धिकं चेति न
नियमः” सू० । “तेषां खल्वेषां भूतानां त्रीण्येतवीजानि भवन्ति
अण्डजं जीवजमुद्भिज्जमिति” श्रुतावण्डजादिरूपं शरीर-
त्रैविध्य प्रायिकाभिप्रायेणोक्तं न तु नियमः । यत ऊष्म-
जादिषड्विधमेव शरीरं भवतीत्यर्थः । तत्रोष्मजा दन्दं-
शूकादयः । अण्डजाः पक्षिसर्पादयः । जरायुजा
मनुष्यादयः । उद्भिज्जा वृक्षादयः । सङ्कल्पजाः सनकादयः ।
सांसिद्धिका मन्त्रतपआदिसिद्धिजाः । यथा रक्तवीजशरी-
रोत्पन्नशरीरादयः इति” भा० ।
कणादेन संक्षेपेण कायस्य योनिजायोनिजत्वभेदेन
द्वैविध्यमुक्तम् तच्च अयोनिजशब्दे ३४७ पृ० दर्शितम् ।
प्रकारान्तरेण कायस्य चातुर्विध्यमुक्तं सां० सू० भा० यया ।
“त्रिधा त्रयाणां व्यवस्था कर्मदेहोपभोगदेहोभयदेहाः”
पृष्ठ १९२७
सू० त्रयाण मुत्तमाधममध्यमानं सर्वप्राणिनां त्रिप्र-
कारो देहविभागः, कर्मदेहभोगदेहोभयदेहा इत्यर्थः ।
तत्र कर्म्मदेहः परमर्षीणाम्, भोगदेह इन्द्रार्दनाम्, उभय
देहश्च राजर्षीणामिति । अत्र प्राधान्येन त्रिधा
विभागः । अन्यथा सर्वस्यैव भोगदेहत्वापत्तेः । चतुर्थमपि
शरीरमाह” भा० ।
“न किञ्चिदप्यनुशयिनः” सू० । “विद्यादनुशयं द्वेष्यं
पश्चात्तापानुतापयोः” इतिवाक्यादनुशयो वैराग्यम्
विरक्तानां शरीरमेतत्त्रयविलक्षणमित्यर्थः । यथा दत्ता-
त्रेयजडभरतादीनामिति” भा० ।
सर्व्वेषु च कायेषु भोक्तुरधिष्ठानमेव तदारम्भे प्रयोजकं
तदेतत् सां० सू० भाष्ययोर्दर्शितं यथा
“भोक्तु रधिष्ठानाद्भोगायतननिर्माणमन्यथा पूतिभावप्रस-
ङ्गात्” सू० ।
“भोक्तुः प्राणिनो धिष्ठानाद्व्यापारादेव भोगायतनस्य
शरीरस्य निर्माणं भवति । अन्यथा प्राणव्यापाराभावे शुक्र-
शोणितयोः पूतिभावप्रसङ्गात् मृतदेहवदित्ययेः । तथा च
रससञ्चारादिव्यापारविशेषैः प्राणो देहस्य निमित्तकारणं
धारकत्वादिति भावः । ननु प्राणस्यैवाधिष्ठानत्वं सम्भ-
वति व्यापारवत्त्वात्, न प्राणिनः, कूटस्थत्वात् निर्व्या-
पारस्याधिष्ठाने प्रयोजनाभावाच्चेति तत्राह” भा० ।
“भृत्यद्वारा स्वाम्यधिष्ठितिर्नैकान्तात्” सू० । “देहनिर्माणे
व्यापाररूपमधिष्ठानं स्वामिनश्चेतनस्येकान्तात् साक्षान्नास्ति,
किन्तु प्राणरूपभृत्यद्वारा, यथा राज्ञः पुरनिर्माण इत्यर्थः ।
तथा च प्राणस्याधिष्ठातृत्वं साक्षात्, पुरुषस्याधिष्ठातृत्वं
प्राणसंयोगमात्रेणेति सिद्धम् । कुलालादीनां घटादिनि-
र्माणेष्वप्येवम् । विशेषस्त्वय तत्र चेतनस्य बद्ध्यादेश्चाप्युप-
योगोऽस्ति बुद्धिपूर्वकसृष्टित्वादिति । यद्यपि प्राणाधि-
ष्ठानादेव देहनिर्माणं तथापि प्राणद्वारा प्राणिसंयोगोऽ-
प्यपेक्ष्यते पुरुषार्थमेव प्राणेन देहनिर्माणादित्याशयेन
भोक्तुरधिष्ठानादित्युक्तम्” भा० ।
स च प्रकारान्तरेण द्विबिधः स्थूलसूक्ष्मभेदात् तत्र-
स्थूलकायोऽपि व्यष्टिसमष्टिभेदात् द्विविधः । तत्र व्यष्टि
कायोऽस्मदादीनां, तदुत्पत्तिप्रकारो विस्तरेण दर्शितः ।
समष्टिकायस्तु विराट्शब्दवाच्यः । तस्योत्पत्तिप्रकारः
संक्षेपेण ऐतरेयोपनिषदि तद्भाष्ये च दर्शितो यथा ।
“स ऐक्षतेमे नु लोका लोकपालाम्नु सृजा इति ।
सोऽद्भ्य एव पुरुषं समुद्धृत्यामूर्च्छयत्” उपनि० ।


“सर्व्वप्राणिकर्म फलोपादानाधिष्ठानभूतान् चतुरो लो
कान् सृष्ट्वा स ईश्वरः पुनरेवैक्षत--इमे त्वम्भःप्रभृतयो
मया सृष्टा लोकाः परिपालयितृवर्जिता विनश्येयुः,
तस्मादेषां रक्षणार्थं लोकपालान् लोकानां पालयितॄन्
सृजे ऽहमिति । एवमीक्षित्वा सोऽद्भ्य एवाप्प्रधानेभ्यः
पञ्चभूतेभ्यो येभ्योऽम्भःप्रभृतीन् सृष्टवान् तेभ्य एवेत्यर्थः ।
पुरुषं पुरुषप्रकारं शिरःपाण्यादिमन्तं समुद्धृत्याद्भ्यः
समुपादाय मृत्पिण्डमिव कुलालः पृथिव्या असूर्च्छयत् संमूर्च्छि-
तवान् सम्पिण्डितवान् स्वावयवसंयोजनेनेत्यर्थः” शाङ्क० भा०
“तमभ्यतपत्तस्याऽभितप्तस्य मुखं निरभिद्यत यथाण्डम्,
मुखाद्वाग्वाचोऽग्निः, नासिके निरभिद्येतां, नासिकाभ्यां
प्राणः, प्राणाद्वायुः, अक्षिणी निरभिद्येताम्, अक्षिम्याञ्चक्षुश्च-
क्षुष आदित्यः, कर्ण्णो निरभिद्येतां, कर्ण्णाभ्यां श्रोत्रं श्रोत्रा-
द्दिशः, त्वङ्निरभिद्यत, त्वचो लोमानि, लोमभ्य
ओषधिवनस्पतयो, हृदयं निरभिद्यत, नाभ्या अपानः, अपाना-
न्मृत्युः, शिश्नं निरभिद्यत, शिश्नाद्रेतो, रेतस आपः” उप० ।
“तं पिण्डं पुरुषविधमुद्दिश्याभ्यतपत् तदभिध्यानं
सङ्कल्पं कृतवानित्यर्थः । “यस्य ज्ञानमयं तपः” इति श्रुतेः
तस्याभितप्तस्येश्वरसङ्कल्पेन तपसाभितप्तस्य पिण्डस्य मुखं
निरभिद्यत मुखाकारं सुषिरमजायत । यथा पक्षिणोऽण्डं
निर्भिद्यते एवम् । तस्मान्निर्भिन्नान्मुखाद्वाक्करणमिन्द्रियं
निरवर्त्तत ततोवाचस्तदधिष्ठाताग्निर्लोकपालः । तथा
नासिके निरभिद्येताम्, नासिकाभ्यां प्राणः, प्राणा-
द्वायुरिति सव्व त्राधिष्ठानं करणं देवता च त्रयं क्रमेण
निर्भिन्नमिति । अक्षिणी कर्ण्णौ त्वक् । हृदयमन्तःकरणा-
धिष्ठानम् । मनोऽन्तःकरणम् । नाभिः सर्वप्राणनिबन्धन-
स्थानम् । तस्मादपानसंयुक्तत्वादपान इति पाय्विन्द्रिय-
मुच्यते । तस्याधिष्ठात्री देवता मृत्युर्यथान्यत्र तथा, शिश्नं
निरभिद्यत प्रजनेन्द्रियस्थानमिन्द्रियं, रेतोविसर्गार्थत्वात्स-
ह रेतसा उच्यते रेतस आपः इति” भा० ।
एवं साधिदैवतेन्द्रियादिसृष्टिमुक्त्वा सृष्टदेवतानां
यथायतनं प्रवेशोऽपि तत्रोक्तो यथा
“ता अब्रवीद्यथायतनं प्रविशतेति” उप० ।
“ता देवता ईश्वरोऽब्रवीत्--इष्टमासामिदमधिष्ठानमिति
मत्वा, सर्व्वोहि स्वयोनिषु रमन्ते, अतो यथाऽऽयतनं
यस्य यद्वदनादिक्रियायोग्यमायतनं तत्प्रविशेति” भा० ।
“अग्निर्वाग्भूत्वा मुखं प्रायिशद्वायुः प्राणोभुत्वा नासिके
प्राविशदादित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशद्दिशः श्नोत्रं
पृष्ठ १९२८
भूत्वा कर्ण्णौ प्राविशन्नोषधिवनस्पतयो लोमानि भूत्वा त्वचं
प्राविशन्, चन्द्रमा मनो भूत्वा हृदय प्राविशत् मृत्युरपानो
भूत्वा नाभिं प्राविशत् आपो रेतो भूत्वा शिश्नं प्रावि-
शत्” उपनि० ।
“तथास्त्वित्यनुज्ञां प्रतिलभ्य ईश्वरस्य नगर्य्यामिव
बलाधिकृताः । अग्निर्वागभिमानी वागेव भूत्वा स्वां योनिं
मुखं प्राविशत्तथोक्तार्थमन्यत् । वायुर्नासिके ।
आदित्योऽक्षिणो । दिशः कर्ण्णौ । औषधिवनस्पतयस्त्वचम् ।
चन्द्रमा हृदयम् । मृत्युर्नाभिम् । आपः शिश्नं
प्राविशन्” भा० ।
विस्तरस्तु भाग० २ स्क० १० अ० उक्तोयथा
“पुरुषोऽण्डं विनिर्भिद्य यदासौ स विनिर्गतः ।
आत्मनोऽयनमन्विच्छन्नपोऽस्राक्षीच्छुचिः शुचिः” ११ ।
“उक्तमेवाध्यात्मादिविभागं प्रपञ्चयन् “यदुताहं त्वया
पृष्टो वैराजात् पुरुषादिदम् । यथासीत्तदुपाख्यास्ये” इति
प्रतिज्ञातं तदुत्पत्तिप्रकारमाह पुरुष इत्यादिना पुरुषो
वैराजः अण्डं विनिर्भिद्य पृथक्कृत्य विनिर्गतः पृथक्
स्थितैत्यर्थः अयनं स्थानमन्विच्छन् यतः शुचिः स्वयं
अतः शुचीः शुद्धाः अपः गर्भोदकसंज्ञाः अस्नाक्षीत्
ससर्ज” ११ श्रीधरः ।
“तास्ववात्सीत् स्वसृष्टासु सहस्रं परिवत्सरान् ।
तेन नारायणो नाम यदापः पुरुषोद्भवाः” १२ ।
“अप्सु निवासं नारायणनामनिरुक्त्या स्पष्टयति
तेन अप्सुवासेन, यत् यस्मात् पुरुषो नरः तस्मादुद्भवो यासां
तानारा आपोऽयनमस्य इति नारायण इत्यर्थः । तदुक्तं
“आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं
तस्य ताः पूर्व्वं तेन नारायणः स्मृतः इति” १२ श्रीधरः
“द्रव्यं कर्म च कालश्च स्वभावो जीवएव च । यदनु-
ग्रहतः सन्ति न सन्ति यदुपेक्षया” १३ ।
“तस्य प्रभावमाह द्रव्यमुपादानं कर्मादीनि निमि-
त्तानि, जीवो भोक्ता यस्याऽनुग्रहात् सन्ति कार्य्यक्षमा
भवन्तीत्यर्थः” १३ श्रोधरः ।
“एको नानात्वमन्विच्छन् योगतल्पात् समुत्थितः ।
वीर्य्यं हिरण्मयं रेतो मायया व्यसृजत् त्रिधा” १४ ।
“योगएव तल्पं शय्या तस्मात् । वीर्य्यं गर्मरूपं देहं
हिरण्मयमिव प्रकाशबहुलम्” १४ श्रीधरः ।
“अधिदैवमथाध्यात्ममधिभूतमिति प्रभुः । अथैकं
पौरुषं वीर्य्य त्रिधाऽभिद्यत तच्छृणु” १५ ।


“तस्यैव प्रपञ्चः अधीत्यादिना” १५ श्रीधरः ।
“अन्तःशरीर आकाशात् पुरुषस्य विचेष्टतः । ओजः
सहोबलं जज्ञे ततः प्राणो महानऽसुः” १६ ।
“अन्तःशरीर यआकाशः तस्मात्, क्रियाशक्त्या तत्र
विविधं चेटमानस्य सतः, ओजः--इन्द्रियशक्तिः, सहो--मनः
शक्तिः, बलं--देहशक्तिः, ततः शक्त्यात्मकात् सूक्ष्माद्रूपात्
प्राणः सूत्राख्यः महान् सुख्यः असुः प्राणः सर्वे-
षाम्” १६ श्रीधरः ।
“अनुप्राणन्ति यं प्राणाः प्राणन्तं सर्व्वजन्तुषु ।
अपानन्तमपानन्ति नरदेवमिवाऽनुगाः” १७ ।
“महत्त्वं दर्शयति अन्विति यं प्राणन्तं चेष्टां कुर्व्वन्तं
प्राणा इन्द्रियाणि अनु पश्चात् प्राणन्ति चेष्टां कुर्व्वन्ति
अपानन्तं चेष्टां त्यजन्तं अनु अपानन्ति चेष्टां त्यजन्ति,
राजानमनु भृत्या इव” १७ श्रीधरः ।
“प्राणेन क्षिपता क्षुत्तृडऽन्तराजायते विभोः । पिपा-
सतोजक्षतश्च प्राङ्मुखं निरभिद्यत” १८ ।
“क्षिपता चालयता निमित्तेन क्षुत्तृडादिकन्तु विराड्
जीवाभेदेनोपासनार्थमुक्तम् आजायते स्म ततः जक्षतो
भक्षयितुमिच्छत इत्यर्थः प्राक् प्रथमं निरभिद्यत विभक्तम-
भूत्” १८ श्रीधरः ।
“मुखतस्तालु निर्भिन्नं जिह्वा तत्रोपजायते । ततो
नानारसो जज्ञे जिह्वया योऽधिगम्यते” १९ ।
  • “तालु अधिष्ठानं, जिह्वा इन्द्रियं मानारसो विषयः
षरुणश्च देवता ज्ञातव्या एवं सर्व्वत्र अधिष्ठानमिन्द्रियं
देवता विषय इत्येतच्चतुष्टयमनुक्तमप्यूह्यम्” १९ श्रीधरः ।
“विवक्षोर्मुखतो भूम्नो वह्निर्वाग्व्याहृतं तयोः । जले
वै तस्य सुचिरनिरोधः समजायत” २० ।
“विवक्षोर्वक्तुभिच्छोर्मुखतएव वह्निर्देबता वाक् इन्द्रियं
व्याहृतं भाषणं तयोरिति इन्द्रियदैवताधीनत्वं कर्मणो
दर्शयति” २० श्री० ।
  • “नासिके निरभिद्येतां दोधूयति मभस्वति । तत्र
वायुर्गन्धवहो घ्राणोनसि जिघृक्षतः” २१ ।
  • “नभस्वति प्राणवायौ दोधूयति दोधूयमाने अत्यन्तं
प्रचलति सति । तत्र नसि नासिकायां वायुर्देवता गन्धं
वहतीति तथा, अनेन गन्धो विषयो दर्शितः घ्राण इन्द्रियं
जिघृक्षतः गन्धं गृहोतुमिच्छतः” २१ श्रीधरः ।
  • “यदात्मनि निरालोकमात्मानञ्च दिदृक्षतः । निर्भिन्ने
अक्षिणी तस्य ज्योतिश्चक्षुर्गुणग्रहः” २२ ।
पृष्ठ १९२९
  • “निरालोकं प्रकाशशून्यम् आसीदिति शेषः निर्म-
क्षिकमितिवदव्ययीगावः । तदा आत्मानं देहं चकारा-
दन्यच्च वस्तु दिदृक्षतः अक्षिणी स्थानं ज्योतिरादित्यो
देवता, चक्षुरिन्द्रियं, ततो गुणस्य रूपस्य ग्रहोग्रहणम्
अनेन रूपं विषयो दर्शितः” २२ श्रीधरः ।
“बोध्यमानस्य ऋषिभिरात्मनस्तज्जिघृक्षतः । कर्णौ
च निरभिद्येतां दिशः श्रोत्रं गुणग्रहः” २३ ।
“ऋषिभिवेर्दैर्बोध्यमानस्य तदात्मनः प्रबोधनं ग्रहीतु-
मिच्छतः ततो गुणग्रहः शब्दग्रहणम्” २३ । श्रीधरः
“वस्तुनो मृदुकाठिन्यलघुगुर्व्वोष्णशीतताम् । जिघृक्षत-
स्त्वङ् निर्भिन्ना तस्यां रोम महीरुहाः” २४ ।
“मृदुत्वञ्च काठिन्यञ्च लघुत्वञ्च गुरुत्वञ्च आउष्णत्वञ्च
ईषदुष्णत्वं शीतताञ्चेत्यर्थः । यद्यप्यत्युष्णत्वमपत्वगीन्द्रिय-
विषयमेव तथापि तस्य जिघृक्षाभावात् ओष्णत्वमित्युक्तं
गुर्वुष्णेति पाठे वङादेशश्छान्दसः । वस्तुन एतान् धर्मान्
जिघृक्षतस्त्वङ्निर्भिन्ना त्वगिन्द्रियाधिष्ठानं चर्म जातमित्यर्थः ।
तस्यां रोमाणि, इन्द्रिवं, महोरुहाश्च देवता जाता वस्तुनि
हस्तेनोत्तोलिते लघुत्वगुरुत्वयोर्ज्ञानात्तयोरपि त्वगि-
न्द्रियविषयत्वमिति पौराणिकाः २४ । श्रीधरः ।
“तत्र चान्तर्बहिर्वातस्त्वचालब्धगुणोवृतः” २५ ।
तत्र त्वचि अन्तर्बहिश्च वातो वायुर्वृतः आवृत्यस्थितः कर्त्तरि
निष्ठा । कथम्भूतः? त्वचा लब्धो गुणस्पर्शो येन । अयमर्थः
त्वगिन्द्रियमेव बहिःकण्डूतिसहितं स्पर्शं गृह्लत्रोमशब्दे-
नोच्यते । तत्र महीरुहाणां देवतात्वम् । अन्तर्बहिश्च स्पर्शं
गृह्णत् तदेव त्वक्शब्दे नोच्यते तत्र वातो देवता । तथाच
तृतीये वक्ष्यति “त्वचमस्य विनिर्भिन्नां विविशुर्धिष्ण्यमो-
षधीः । अंशेन लोमभिः कण्डूं यैरसौ प्रतिपद्यते ।
निर्भिन्नान्यस्य मर्माणि लोकपालोऽनिलोऽविशत् । प्राणि-
नांशेन संस्पशें येनासौ प्रतिपद्यते” इति । तत्र मर्मा-
णोति मर्मोपलक्षिता त्वगित्यथेः प्राणेनांशेनेति प्राण-
वायुना व्याप्तेन त्वगिन्द्रियेणेत्यर्थः । बह्वृचश्रुतौ त्वेक एवां-
शोनिर्दिष्टः “त्वङ्निरभिद्यत त्वचोलोमानि लोमभ्य
ओषधिवनस्पतय इति” २५ । श्रीधरः
“हस्तौ रुरुहतुस्तस्य नानाकर्मचिकीर्षया । तयोस्तु
बलवानिन्द्र आदानमुभयाश्रयम्” २६ ।
“रुरुहतुः निर्भिन्नौ बलमिन्द्रियम् इन्द्रो देवता तदुभ-
याश्रयम् आदानं कर्म” २६ । श्रीधरः
“गतिं जिगीषतः पादौ रुरुहातेऽभिकामिकाम् ।
पद्भ्यां यज्ञः स्वयं हव्यं कर्मभिः क्रियते नृभिः” । २७
“अभिकामिक्ताम् अभीष्टां विहितामित्यर्थः । पद्भ्यां
सहयज्ञो विष्णुरेव स्वयं तदधिष्टातृरूपेण स्थितः । कर्मभिरिति
गत्याख्यकर्मशक्तिरिन्द्रियमुक्तं हव्यं क्रियते इति
गतिप्राप्यं यज्ञार्थं द्रव्यं विषय इत्युक्तं नृभिरिति व्यष्टि-
जीवेष्वपीयमेव रीतिरिति दर्शयन्नराधिकारित्वं यज्ञादीनां
दर्शयति” २७ श्रीधरः ।
“निरभिद्यत शिश्नोवै प्रजानन्दामृतार्थिनः ।
उपस्थ आसीत् कामानां प्रियं तदुभयाश्रयम्” २८ ।
“प्रजा अपत्यम् आनन्दोरतिः अमृतं स्वर्गादि तदर्थिनः
शिश्नोऽधिष्ठानम् उपस्थ इन्द्रियं प्रजापतिश्चासिदिति
ज्ञेयम् । तदुभयाश्रयम् इन्द्रियदेवताश्रयम् । कामानां
स्त्रीसम्भोगानां मम्बन्धि प्रियं सुखम्” २८ श्रीधरः
“उत्सिसृक्षोर्धातुमलं निरनिद्यत वै गुदम् । ततः
पायुस्ततो मित्र उत्सर्ग उभयाश्रयः” २९ ।
“धातुमलं भुक्तान्नादीनाम् असारांशं त्यक्तुमिच्छोः
गुदपायुमित्रोत्सर्गा अधिष्ठानेन्द्रियदेवताविषयाः” २९ श्री०
“आसिसृप्सोः पुरःपुर्य्या नाभिद्वारमपानतः । तत्रा-
पानस्ततो मृत्युः, पृथक्त्वमुभयाश्रयम्” ३० ।
“पुर्य्या देहात् पुरा देहान्तराणि आसिसृप्सोः सर्वतो
गन्तुमिच्छोः, निरभिद्यत इत्यनुषङ्गः । अपानतः
अपगच्छतः पृथक्त्वंमरणं । नाभ्यादीन्यधिष्ठानादीनि नाभ्यां हि
प्राणापानयोर्बन्धविश्लेषे मृत्युरिति प्रसिद्धम्” ३० । श्री०
“आदित्सोरन्नपानानामासन् कुक्ष्यन्त्रनाडयः । नद्यः
समुदाश्च तयोस्तुष्टिः पुष्टिस्तदाश्रये” ३१ ।
“अन्नपानमादित्सोः संग्रहेच्छोः कुक्षिश्च अन्त्राणि च
नाड्यश्चासन् । तत्र कुक्षिरधिष्ठानम् । अन्त्राणि अन्नसंग्रहे-
करणम् इन्द्रियस्थानीयं, नाड्यस्तु पानसंग्रहे तयोर्नाड्यन्त्र-
वर्गयोः क्रमेण नद्यः समुद्राश्च देवते तुष्टिरुदरभरणं पुष्टिस्तु
रसपरिणामतः स्थौल्यं, तदाश्रये तदुभयनिमित्ते तत्रान्न-
संग्रहेच्छोः कुक्ष्यन्त्रसमुद्रतुष्टय इति चतुष्टयं, पेयसंग्र-
हेच्छोः कुक्षिनाडीनदीपुष्टय इति विवेकः” ३१ श्री०
“निदिध्यासोरात्ममायां हृदयं निरभिद्यत ।
ततोमनश्चन्द्रैति सङ्कल्पः कामएव च” ३२ ।
“निदिध्यासोर्नितरां चिन्तयितुमिच्छोः कामोऽभिलाषः
हृदयमनश्चन्द्रसङ्कल्पा अधिष्ठानादयः” ३२ श्रीधरः ।
“त्वक्चर्ममांसरुधिरमेदोमज्जास्थिधातवः । भूम्यप्-
तेजोमयाः सप्त, प्राणोव्योमाम्ब वायुभिः” ३३ ।
पृष्ठ १९३०


“तदेवम् अधिदैवादिभेदं विभज्य उक्त्वा तदंशभूतानं
धात्वादीनां स्वरूपमाह त्वगिति द्वाभ्यां, त्वक्स्थूलं चर्म्म,
तदुपरिस्थितं सूक्ष्म, त्वगादयोऽस्थ्येन्ताद्वन्द्वैकवद्भावेन
निर्दिष्टाः सप्त ये धातवस्ते भूम्यप्तेजोमयाः तेषां पाञ्च-
भौतिकत्वेऽपि वाय्वाकाशयोराहाररूपत्वेन संवर्द्धकत्वाभा-
वादेवमुक्तम्” ३३ श्रीधरः ।
“गुणात्मकानीन्द्रियाणि भूतादिप्रभवा गुणाः । मनः
सर्व्वविकारात्मा बुद्धिर्विज्ञानरूपिणी” ३४ ।
“गुणात्मकानि गुणेषु शब्दादिषु आत्मा येषां विषया-
भिमुखस्वभावानीत्यर्थः । गुणाः शब्दादयः भूतादिरह-
ङ्कारः ततः प्रकर्षेण भवतीति तथा, अहङ्कारकल्पितशोभ-
नस्वभावा न वस्तुतस्तथेत्यर्थः । अत्र हेतुः यतो मनएव सर्व्व-
विकाराणाम् आत्मा स्वरूपं, बुद्धिस्तु तथा भूतार्थ-
विज्ञानरूपिणी । न तु परमार्थग्राहिणीति वैरा-
ग्यार्थमुक्तम् अनेनैव बुद्धिमनसोः स्वरूपञ्चोक्तम्” ।
“एतद्भगवतो रूपं स्थूलं ते व्याहृतं मया । मह्यादिभि
श्चावरणैरष्टभिर्बेहिरावृतम्” ३५ ।
“उपसं हरति एतदिति प्रकृत्या सह अष्टभिः” ३५ श्री० ।
विस्तरस्तु विराट्शब्दे दृश्यः ।
सूक्ष्मोऽपि द्विविधः आधाराधेयभेदात् । तत्रा-
धारभूतस्य आतिवाहिकत्वं तत्स्वरूपादिकं च ६६३ पृ०
दर्शितम् । “तत्क्षणादेव गृह्णाति शरीरमातिवाहिक-
मिति” विष्णुध० । “आतिवाहिकस ज्ञोऽसौ देहो
भवति भार्गव! । केवलं तन्मनुष्याणां नान्येषां प्राणिनां
क्वचित्” विष्णुध० । “आतिवाहिक एकोऽस्ति देहोऽन्य-
स्त्वाधिभौतिकः । सर्व्वासां भूतजातीनां ब्रह्मणस्त्वेक एव किम्”
सां० प्र० भा० धृतवाक्यम् । आधेयकायस्तु तदाश्रितं
सप्तदशावयवं सूक्ष्मशरीरम् तच्च आतिवाहिकशब्दे
६६३ पृ० दर्शितम् । तच्च वेदान्तिमते “पञ्चप्राणमनो-
बुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभुतोत्थं सूक्ष्माङ्गम्
भोगसाधनम्” इत्युक्तलक्षणम् । साङ्ख्यमते पञ्चप्राणस्थले
पञ्चभूतानीति भेदः आतिवाहिकशब्दे ६६३ पृ० विवृतिः । स
च प्रथमतः हिरण्यगर्भस्यैवोत्पेदे तत एव कर्म्मविशेषात्
उच्चावचकायोत्पत्तिर्यथोक्तं सां० सू० भा० “ननु लिङ्गं चेदेकं
तर्हि कथं पुरुषभेदेन विलक्षणा भोगाः स्युः? तत्राह ।
“व्यक्तिभेदः कर्मविशेषात्” सू० । “यद्यपि सर्गादौ
हिरण्यगर्भोपाधिरूपमेकमेव लिङ्गं तथापि तस्य पश्चा-
द्व्यक्तिभेदो व्यक्तिरूपेणांशतो तानात्वमपि भवति यथेदा-
नीमेकस्य पितृलिङ्गदेहस्य नानात्वमशतो भवति पुत्रकन्या-
दिलिङ्गदेहरूपेण । तत्र कारणमाम् कर्मविशेषादिति ।
जीवान्तराणां भोगहेतुकर्मारेरित्यर्थः । अत्र विशेषवचनत्
समष्टिसृष्टिर्जीवानां साधारणै कर्मभिर्भवतीत्यायातम् ।
अयं च व्यक्तिभेदो मन्वादिभिरप्युक्तः । यथा मनौ पुरु-
षस्य षडिन्द्रियोत्पत्त्यनन्तरम्
“तेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम् ।
सन्निवेश्यात्ममात्रासु सर्वभूतानि निर्ममे” इति षण्णामिति
समस्तलिङ्गशरीरोपलक्षणम् । आत्ममात्रासु चिदंशेषु
संयोज्येत्यर्थः । तथा च तत्रैव वाक्यान्तरम्
“तच्छरीरसमुत्पन्नैः कार्यैस्तैः करणैः सह । क्षेत्रज्ञाः
समजायन्त गात्रेभ्यस्तस्य धीमतः” ।
तस्य च सर्व्वकायव्यापित्वेऽपि शास्त्रेऽङ्गुष्ठमात्रतया
कल्पनं यथा साङ्ख्यप्रवचनभाष्ये-
“अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्नि-
विष्टः” । “अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष बलाद्यमः”
इति श्रुतिस्मृती न हि लिङ्गशरीरस्य सकलशरीर-
व्यापिनः स्वतोऽङ्गुष्ठमात्रत्वं सम्भवति । अत आधार-
स्याङ्गुष्ठमात्रत्वमर्थात् सिद्ध्यति । यथा दीपस्य सर्वगृह-
व्यापित्वेऽपि कलिकाकारत्वं तैलवर्त्त्यादिसूक्ष्मांशस्य
दशोपरि सम्पिण्डितस्य पार्थिवभागस्य कलिकाकारता तथेव
लिङ्गदेहस्य देहव्यापित्वेऽप्यङ्गुष्ठपरिमाणत्वं सूश्मभूतस्या-
ङ्गुष्ठप्ररिमाणत्वेनानुमेयमिति” ।
तथा च भोगसाधनत्वेन मोगायतनत्वं लिङ्गशरीरस्थैव
तदाश्रयत्वात् स्थूलशरीरस्य तथा व्यवहार उपचारात्,
तदेतत् सां० प्र० भाष्ययोर्दर्शितं यथा
“तदधिष्ठानाश्रये देहे तद्वादात् तद्वादः” मू० । “तस्य लिङ्गस्य
यदधिष्ठानमाश्रयो वक्ष्यमाणभूतपञ्चकं तस्याश्रये षाट्कौ-
षिकदेहे तद्वादो देहवादस्तद्वादात् तस्याधिष्ठानशब्दोक्तस्य
देहवादादित्यर्थः लिङ्गसम्बन्धादधिष्ठानस्य देहत्वम्,
अधिष्ठानाश्रयत्वाच्च स्थूलस्य देहत्वमिति पर्यवसितोऽर्थः ।
अधिष्ठानशरीरं च सूक्ष्मं पञ्चभूतात्मकं वक्ष्यते तथा च
शरोरत्रयं सिद्धम्” भा० ।
वेदान्तिमते कारणशरीरमप्येकमस्ति तच्चाविद्यारूपं
वेदान्तसारे तच्चोक्तम् । चीयते सञ्चीयते संघातरूपेण
चि--कर्म्मणि घञ् । आर्हतमतसिद्धे जोवधर्म्माधर्म्मा
काशपुद्गलोपाधिके विद्यमाने १३ संघातभेदे जीवास्ति-
कायः धर्मास्तिकायः अधर्म्मास्तिकायः आकाशास्तिकायः
पृष्ठ १९३१
पुद्गलास्तिकायः इति हि तेषां मते पञ्च पदार्थाः ।
अर्हच्छब्दे ३८४ पृ० विवृतिः ।
“कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिनः कर्म्म
कुर्व्वन्ति” गीता । “पश्चार्द्धेन प्रविष्टः शरपतनभयात्
भूयसा पूर्व्वकायम्” शकु० । “पर्य्यङ्कबन्धस्थिरपूर्व्व-
कायम्” कुमा० ।

कायचिकित्सा स्त्री ६ त० अष्टविधेषु आयुर्वेदाङ्गेषु मध्ये सुश्रु-

तोक्ते चिकित्साङ्गभेदे । “ततोऽल्पायुष्ट्वमल्पमेधस्त्वञ्चाव-
लोक्य नराणां भूयोऽष्टधा प्रणीतवान्--तद्यथा शल्यं
शालक्यं कायचिकित्सा भूतविद्या कौमारभृत्यमगदतन्त्रं
रसायनतन्त्रं वाजीकरणतन्त्रमिति” विभज्य सुश्रुते
लक्षितं यथा “कायचिकित्सा नाम सर्व्वाङ्गसंसृतानां
व्याधीनां ज्वरातिसाररक्तपित्तशोथोन्मादापस्मारकुष्ठा-
दीनामुपशमनार्थम्” ।

कायबन्धन न० कायं बध्नाति बन्ध--ल्यु । चेतनाधिष्ठेते शुक्र

शोणितयोः संयोगभेदे । “भोक्तुरधिरष्ठानात् भोगायतन-
निर्म्माणमन्यथा पूतिभावप्रसङ्गात्” सा० सू० चेतनाधिष्ठाने-
नैव शुक्रशोणितसंयोगस्य देहारम्भहेतुत्वीक्तेस्तस्य तथात्वम् ।

कायमान न० कायस्य मानमिव मानमस्य । २ पर्ण्णकुटीरे

त्रिका० । तस्य विशालत्वाभावेन काममात्रपरिच्छेदकत्वा-
त्तन्मानत्वम् । ६ त० । २ देहपरिमाणे न० ।

कायरूपसंयम पु० मात० सूत्राद्युक्ते ध्यानविशेषरूपे संयम

भेदे स च तत्र सविस्तरं फलसहितो दर्शितो यथा ।
“कायरूपसयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुप्रकाशासंयोगे-
ऽन्तर्द्धानम्” सू० ।
“कायरूपे संयमाद्रूपस्य या ग्राह्मा शक्तिस्तां प्रतिब-
ध्नाति ग्राह्यशक्तिस्तम्भे सति चक्षुःप्रकाशासंयोगेऽन्तर्धान-
मुत्पद्यते योगिनः । एतेन शब्दाद्यन्तर्द्धानमुक्तं वेदि-
तव्यम्” व्यासभाष्य० ।
“पञ्चात्मकः कायः स च रूपवत्तया चाक्षुषो भवति
रूपेण हि कायश्च तद्रूपञ्च चक्षुर्ग्रहणकर्मशक्तिमनुभवति
तत्र यदा रूपे संयमविशेषो योगिना क्रियते तदा रूपस्य
ग्राह्यशक्तौ रूपवत्कायप्रत्यक्षताहेतुः स्तभ्यते तस्मात्
ग्राह्यशक्तिस्तम्भे सत्यन्तर्द्धानयोगिनस्ततः परकीयचक्षुर्जनि-
तेन प्रकाशेन ज्ञानेनासम्प्रयोगः चक्षुर्ज्ञानाविषयत्वं योगिनः
कायस्यैवेति यावत् तस्मिन् कर्त्तव्येऽन्तर्द्धानं कारणमित्यर्थः ।
एतेनेति कायशब्दस्पर्शरसगन्धसंयमात्तदुग्राह्यशक्तिस्तम्भे
श्रोत्रत्वग्रसनघ्राक्षप्रकाशासम्प्रयोगेऽन्तर्द्धानमिति” विव० ।

कायवलन न० कायोवल्यते आच्छाद्यतेऽनेन वल--स्तृतौ

करणे ल्युट् । कवचे वर्मणि हारा० ।

कायव्य पु० भारतोक्ते दस्युप्रभुभेदे तदुत्पत्तिकथादि भा० शा०

१३५ अ० यथा ।
“निषाद्यां क्षत्रियाज्जातः क्षत्रधर्मानुपालकः ।
कायव्यो नाम नैषादिर्दस्युत्वात् सिद्धिमाप्तवान् । अरण्ये
सायं पूर्ब्बाह्णे मृगयूथप्रकीपिता । विधिज्ञो मृगजातीनां
नैषादानाञ्च कोविदः । सर्व्वकालप्रदेशज्ञः पारियात्र-
चरः सदा । धर्भज्ञः सर्व्वभूतानाममोघेषुर्दृढायुधः ।
अप्यनेकशता सेना एक एव जिगाय सः । स वृद्धावन्ध-
बधिरौ महारण्येऽभ्यपूजयत् । मधुमांसैर्मूलफलैरन्नैरु-
च्चावचैरपि । सत्कृत्य भोजयामास मान्यान् परिचचार
च । आरण्यकान् प्रव्रजितान् ब्राह्मणान् परिपूजयन् ।
अपि तेभ्यो मृगान् हत्वा निनाय सततं वने । येऽस्मान्न
प्रतिगृह्णन्ति दस्युतो जनशङ्कया । तेषामासज्य गेहेषु
कल्य एव स गच्छति । बहूनि च सहस्राणि ग्रामणीत्वे-
ऽभिवव्रिरे । निर्मर्य्यादानि दस्यूनां निरनुक्रोशवर्त्तिनाम् ।
दस्यवः ऊचुः । मुहूर्त्तदेशकालज्ञः प्राज्ञः शूरो
दृढव्रतः । ग्रामणीर्भव नो मुख्यः सर्वेषामेव सङ्गतः । यथा
यथा वक्ष्यसि नः करिष्यामस्तथा तथा । पालयास्मान्
यथान्यायं यथा माता यथा पिता । कायव्य उवाच ।
सा बधास्त्वं स्त्रियं भीरुं मा शिशुं मा तपस्विनम् ।
नायुध्यमानो हन्तव्यो न च ग्राह्या बलात् स्त्रियः ।
सर्व्वथा स्त्री न हन्तव्या सर्व्वसत्त्वेषु केनचित् । नित्यन्तु
ब्राह्मणे स्वस्ति योद्धव्य्ञ्ज तदर्थतः । सत्यञ्च नाभिहन्तव्यं
सारबिघ्नञ्च मा कृथाः । पूज्यते यत्र देवाश्च पितरोऽतिथ-
यस्तथा । सर्व्वभूतेष्वपि च वै ब्राह्मणो मोक्षमर्हति ।
कार्य्या चोपचितिस्तेषां सर्व्वस्वेनापि या भवेत् । यस्य
ह्येते सम्प्ररुष्टा मन्त्रयन्ति पराभवम् । न तस्य त्रिषु
लोकेषु त्राता भवति कश्चन । यो ब्राह्मणान् परिवदेद्वि-
नाशञ्चापि रोचयेत् । सूर्य्योदय इव ध्वान्ते ध्रुवं तस्य
पराभवः । इहैव फलमासीनः प्रत्य काङ्क्षेत सर्वशः । ये ये
नो न प्रदास्यन्ति तांस्तांस्तेनाभियास्यति । शिष्ठ्यर्थं
विहितो दण्डो न वृद्ध्यर्थं विनिश्चयः । ये च शिष्टान्
प्रवाधन्ते दण्डस्तेषां बधः स्मृतः । ये च राष्ट्रापरोधेन
वृद्धिं कुर्वन्ति केचन । तदैव तेऽनुमीयन्ते कुणपे क्रमयो
यथा । ये पुनर्द्धर्म्मशास्त्रेण वर्त्तेरन्निह दस्यवः । अपि ते
दस्यवो भूत्वा क्षिप्र सिद्धिमवाप्नुयुः” ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/कामताल&oldid=314818" इत्यस्माद् प्रतिप्राप्तम्