वाचस्पत्यम्/कमलकीट

विकिस्रोतः तः


पृष्ठ १६८२

कमलकीट पु० कमलवर्णः कीटः । कीटभेदे तत्र भवादौ

पलद्या० अण् । कामलकीट तद्भवे त्रि० ।

कमलकीरक पु० कमलवर्णः कीर इव कायति कै--क ।

कीटभेदे तत्र भवादौ पलद्या० अण् । कामलकीर-
क तद्भवे त्रि० ।

कमलज पु० कमलात् विष्णोर्नाभिकमलाज्जायते

जनड । १ ब्रह्मणि चतुर्मुखे कञ्जजशब्दे विवृतिः । “अश्वियम-
दहनकमलजशशिशूलभूदिति” वृहत्सं० । तदभेदात् २
रोहिणीनक्षत्रे च तस्य तदधिष्ठितत्वात्तथात्वम् । ३ पद्मजात-
मात्रे मध्वादौ त्रि० । कमलजातपद्मजातादयोऽप्यत्र ।

कमलभिदा स्त्री ६ त० । कमलपाटने तयो भवादौ पलद्या०

अण् । कामलभिद तद्भवे त्रि० ।

कमलयोनि पु० कमलं विष्णुनाभिकमलं योनिरुत्पत्तिस्था-

नमस्य । १ चतुर्मुखे ब्रह्मणि । कञ्जजशब्दे विवृतिः । पद्म-
योन्यादयोप्यत्र । ६ त० । ३ कमलानामुत्पत्तिस्थाने स्त्री ।

कमलवीज न० ६ त० । (कमलगट्टा) पद्माक्षे भावप्र० तद्गुणा

उक्ता यथा “पद्मवीजं हिमं स्वादु कषायं तिक्तकं गुरु ।
विष्टम्भि वृष्यं रूक्षञ्च गर्भसंस्थापकं परम् । कफवातहरं
बल्यं ग्राहि पित्तास्रदाहनुत्” ।

कमलाकर पु० कमलानामाकरः उत्पत्तिस्थानम् । १ पद्माकरे

तड़ाके । २ पद्मानां समूहे च । “हरिदश्वःकमलाकरानि
व” रघुः । कमलाकरभट्टनिर्मिते ३ स्मृतिनिबन्धभेदे ।

कमलादि त्रि० वार्त्तिकोक्ते संघार्थे खण्डप्रत्ययनिमि-

त्ते शब्दगणे स च गणः “कमल अम्भोज पद्मिनी नलिनी
कुमुद सरोजपद्म नलिन कैरविणी” आकृतिगणः तेन
कदलीखण्डमित्यादि सिद्धिः ।

कमलापति पु० ६ त० । नारायणे समुद्रात् लक्ष्म्या

आविर्मूतिमुपवर्ण्य तया विवेचनापूर्वकं नारायणस्य पतित्वेन
वरणं भाग० ८, ८ अ० वर्णितं यथा
“ततस्ततोनूपुरवल्गुशिञ्जितै र्विसर्पती हेमलतेव साबभौ ।
विलोकयन्ती निरवद्यमात्मनः पदं ध्रुवं चाव्याभिचारिसद्-
गुणम् । गन्धर्व्वसिद्धासुरयक्षचारणत्रैपिष्टपेयादिषु
नान्वविन्दत । नूनं तपो यस्य न मन्युनिर्जयोज्ञानं क्वचि-
त्तत्र न सङ्गवर्ज्जितम् । कश्चिन्महांस्तस्य न कामनिर्जयः
स ईश्वरः किं परतोव्यपाश्रयः । धर्म्मः कवचित्तत्र न
भूतसौहृदं त्यागः क्वचित्तत्र न मुक्तिकारणम् । वीर्य्यं न
पुंसोऽस्त्यजवेगनिष्कृतं न हि द्वितीयो गुणसङ्गवर्ज्जितः ।
क्वचिच्चिरायुर्न हि शोलमङ्गलं क्वचित्तदप्यस्ति न वेद्यमा-
युषः । यत्रोभयं कुत्र च सोऽप्यमङ्गलः सुमङ्गलः कश्चन
काङ्क्षते हि माम् । एवंविमृश्याव्यभिचारिसद्गुणैर्वरं निजै-
काश्रयतागुणाश्रयम् । वव्रे वरं सर्व्वगुणैरपेक्षितं रभा
मुकुन्दं निरपेक्षमीप्सितम् । तस्यां स देश उशतीं नवकञ्ज-
मालां माद्यन्मधुव्रतवरूथगिरोपघुष्टाम् । तस्थौ निधाय
निकटे तदुरः स्वधाम सव्रीडहासविकसन्नयनेन याता ।
तस्या! श्रियस्त्रिजतोजनको जनन्या वक्षोनिवासमकरोत्
परमं विभूतेः । श्रीः स्वाः प्रजाः सकरुणेन निरीक्षणेब
यत्र स्थितैधयत साधिपतींस्त्रिलोकान् । शङ्गतूर्य्य-
मृदङ्गान । वादित्राणां पृथक् स्वनः । देवानुगानां
सस्त्रीणां नृत्यतां गायतामभूत् । व्रह्मरुद्राङ्गिरोमुख्याः सर्वे
विश्वसृजो विभुम् । ईडिरेऽवितथैर्म्मन्त्रैस्तल्लिङ्गः पुष्पव-
र्षिणः । श्रिया विलोकिता देवाः सप्रजापतयः प्रजाः ।
शीलादिगुणसम्पन्ना लेभिरे निर्वृतिं पराम् । निः सत्वा
लोलुपा राजन्निरुद्योगा गतत्रपाः । यदा चोपेक्षिता
लक्ष्म्या बभूवुर्दैत्यदानवाः” । पद्मापतिकमलाकान्तादयोल्प्यत्र ।

कमलालया स्त्री कमलमालयो यस्याः । लक्ष्म्याम् ।

कमलासख पु० ६ त०! नारायणे “सान्यमाप कम

लासखविष्ठक्सेनेनेत्यादि” माघः ।

कमलासन पु० कमलमासनं यस्य । चतुरानने ब्रह्मणि ।

“क्रान्तानि पूर्ब्बं कमलासनेनेन” कुमा०

कमलासनस्थ पु० कमलं विष्णोर्नाभिकमलरूपमासनम् ।

तत्र तिष्ठति स्था--क । विधातरि यथा च तस्य विष्णु-
नाभिकमलोस्थितिस्तथा कञ्जजशब्दे उक्तम् ।

कमलिनी स्त्री कमलानां देशः “पुष्करादिभ्योदेशे” पा०

पुष्क० इनि । १ कमलाधारदेशे पद्माकरे शब्दर० २ कमल
समुदायरूपपद्मलतायाञ्च । “पुष्पिताः कमलिनीरिव
द्विपः” रघुः

कमलोत्तर न० कमलमिवोत्तरमुत्कृष्टम् । कुसुम्भपुष्पे अमरः

कमा स्त्रो कम--णिङ्भावे बा० स्त्रियां भावे अ । शोभायाम्

राजनि० ।

कमितृ त्रि० कम--णिङभावपक्षे तृच् । कामुके स्त्रियां ङीष् ।

कमित्री “अनुकाभिकाभीकाः कमिता” पा० ।
अतिशयेन कमिता ईयसुन् तृणोलोपः । कमीयस् कान्ततरे
त्रि० स्त्रियां ङीप् । इष्ठन् कमिष्ठ कान्ततमे त्रि०
पृष्ठ १६८३

कम्प पु० कपि--चलने घञ् । गात्रादिकम्पे १ वेपथौ । “यथा

जले चन्द्रमसः कम्पादिस्तत्कृतो गुणः” भाग० ३, ७, ११
कम्पश्चलनं स च वातादिना प्रेरणात् स्थावरस्य भूम्यादे-
र्भवति देहादेस्तु मनसोविकारभेदेन वातादिधातुना च
चालनात् भवति । स च रसविशेषे निर्वेदादिव्यभिचारि
भावविशेषजन्यः यथोक्तं सा० द० निर्वेदादिव्यभिचारि-
भावान् विभज्य तेषां लक्षणामिधाने “आवेगः सम्भ्रमस्तत्र
इत्युपक्रम्य “गजादेः स्तम्भकम्पादिः” । “शौर्य्यापराधादिभवं
भवेच्चण्डत्वमुग्रता । तत्र स्वेदःशिरः कम्पतर्ज्जमाताडना-
दयः” । मनःक्षेपस्त्वपस्मारी ग्रहाद्यावेशनादिजः । भूपा-
तकम्पप्रस्तेदफेनलालादिकारकः” । “निन्दाक्षेपापमानादेर-
मर्षोऽभिविनिष्टता । नेत्ररागशिरःकम्पभ्रूभङ्गोत्तर्ज्जनादि
कृत्” । “परकीयात्मदोषाद्यैः शङ्कानर्थस्य तर्कणम् ।
वैवर्ण्यकम्पवैस्वर्य्यैर्भूमीच्छोत्कम्पनादिकृत्” । “निर्घात
विद्युदुल्काद्यैस्त्रासः कम्पादिकारकः” । “रत्यायासमनस्ताप-
क्षुत्पिपासादिसम्भवा । ग्नानिर्निष्प्राणता कम्पकार्श्यानुत्-
साहतादिकृत्” । कम्पश्च भयानकरसस्यानुभावः यथाह तत्रैव
भयानकं प्रकृत्य “अनुभावोऽत्र वैवर्ण्ण्यगद्गदस्वरभाषणम् ।
प्रलयस्वेदरोमाञ्चकम्पदिक्प्रेक्षणादयः” । रौद्ररसस्य व्यभि-
चारिभावश्च ययाह तत्रैव रीद्रं प्रकृत्य “उग्रतावेगरोमाञ्च
स्वेदवेपथवोमदः । मोहामर्षादयश्चात्र भावाः स्युर्व्यभिचारि-
णः” । शृङ्गारादौ तु तदीयव्यभिचारिभावभेदेनैव कम्पादि
जन्यते इति भेदः । ज्वरादिकृतकम्पस्तु वैद्यके प्रसिद्धः ।
तद्विवृतिर्ज्वरशब्दे दृश्या । दिङ्मात्रमुक्तं भावप्र० “व्यथा-
वेपथुनिद्रानाशविष्टम्भादयो वातजाः” । शीतानिलेन च
देहस्य कम्पो जायते । अतएव “सहसा सहसा कृतवेपथुः”
माधे वर्ण्णितम् ।

कम्पन त्रि० कपि--युच् । १ कम्पयुक्ते । भावे ल्युट् । २ चलने

न० मेदि० । णिच्--युच् । ३ कम्पयितरि त्रि० “दुन्दुभेत्वं
सपत्नानां घोषाद्धृदयकम्पनः” । दुन्दभिपूजामन्त्रः । “प्रक-
म्पनेनानुचकम्पिरेसुराः” माघः “एवमुक्ता जरुत्कारुर्भ-
र्त्त्राहृदयकम्पनम्” भा० आ० ४७ अ० । ४ शिशिरे ऋतौ पु० ।
५ अस्त्रभेदे च । “प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा”
“जड़ता गद्गदा बाणी रात्रै निद्रा भवत्यपि । प्रस्तब्धे
नयने चेव मुखमाधुर्य्यमेव च । कफोल्वणस्य लिङ्गानि
सन्निपातस्य लक्षयेत् । मुनिभिः सन्निपातोऽयमुक्तः कम्प-
नसंज्ञकः” भावप्र० उक्ते ६ सान्निपातिकज्वरभेदे पु० ।

कम्पलक्ष्मन् पु० कम्पःलक्ष्म यस्य । वायौ त्रिका० तस्य स्था-

वराणां चलनहेतुत्वात् तथात्वम् ।

कम्पा स्त्री कपि--भावे अ । चलने हेमच०

कम्पाक पु० कम्पया चलनेन कायति प्रकाशते कै--क । वायौहेमच ० ।

कम्पित न० कपि--भावे क्त । १ कम्पे शब्दच० कपि--णिच्

भावे क्त । २ चालने “अनोकहाकम्पितपुष्पगन्धिः” रघुः
कर्त्तरि क्त । २ कम्पयुक्ते त्रि० । णिच्--कर्म्मणि क्त ।
३ चालिते त्रि० “अतिचपलकपिकुलकम्पितकम्पिल्लच्यूतप-
ल्लवफलशवलैः” काद० “आद्यकोलतुलितां प्रकम्पनैः कम्पि-
ताम्” माघः ।

कम्पिन् त्रि० कम्प--णिनि । १ कम्पयुक्ते णिच् णिनि । २ कम्प-

यितरि “गीती शीघ्री शिरःकम्पी तथा लिखितपाठकः ।
अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः” ति० त० पु० ।

कम्पिल पु० कम्प--इलच् । रोचन्याम् (कमलागुड़ि) अमरः ।

पृषो० कम्पीलकम्पिल्यशब्दौ तत्रार्थे रासमुकुटादयः ।

कम्पिल्ल पु० कपि--इल्ल । रोचने वृक्षभेदे । “कम्पिल्लः कर्कः

शचन्द्रो रक्ताङ्गोरोचनोऽपिच । कम्पिल्लः कफपित्तास्रकृमि
गुल्मोदरव्रणान् । हन्ति रेची कटूष्णश्च मेहानाहवि-
षास्रनुत्” भावप्र० । २ नगरभेदे “देवीं कम्पिल्लवासिनीम्”
यजु० २३, १८, काम्पीलेति पाठान्तरम् । काम्पीले नगरे
वासिनीम्” वेददी० कम्पिल्ल वृक्षश्चकरञ्जभेदः (लाटाकर-
मजा) इत्येके “अतिचपलकपिकुलकम्पिकम्पिल्लच्यूतपल्लवफ-
लशवलैः” काद० स्वार्थे कन् कम्पिल्लकोऽप्युक्तार्थे ।

कम्प्य त्रि० कपि--णिच् कर्म्मणियत् । चालनीये “सत्यधर्म्म

इवाकम्प्यः” रामा० ।

कम्प्र त्रि० कपि--र । कम्पशीले “विधाय कम्प्राणि मुस्वानि

कम्प्रति” नैष० ।

कम्ब गतौ भ्वा० पर० सक० सेट् । कम्बति अकम्बीत् चकम्ब प्रनिकम्बति

कम्बर पु० कम्ब--अरन् । १ चित्रवर्ण्णे २ तद्वति त्रि० शन्दर० ।

कम्बल पु० कम्ब--कलच् कं, कुत्सितं शिरोऽम्बु वा बलति बल

संबरे अच् बा । १ सर्पभेदे २ गवादेर्गलस्थरोमरूपसास्नायां,
३ प्रावारे, ४ कृमौ च । ५ स्वनामख्याते मषलोमनिर्म्मिते
वस्त्रासनादौ, ६ जले न० ७ उत्तरासङ्गे च मेदि० । ८
मृगभेदे पुं स्त्री० जटा० स्त्रियां ङीष् । “त तथा सुखयत्यग्निर्न प्रा-
वारान कम्बलाः” रामा० । “कम्बलवन्तं न बाधते शीतम्” ।
विदग्धमु० । कम्बलनागश्च नागलोकपतिः “ततोऽधस्तात्
पाताले नागलोकपतयो वासुकिप्रमुखाः शङ्खकलिकम-
हाशङ्खश्वेतधनञ्जयधृतराष्ट्रशङ्खचूड़कम्बलाश्चतदत्तादयो
महाभोगिनो महामर्षानिवसन्ति” भाग० ५, २४, ४२ ।
“कम्बलाश्वतरौ चापि नागः कालीयकस्तथा” भा० आ०
३५, नागनामकीर्त्तने । अयञ्च वरुणसभास्थः “कम्बलाश्वतरौ
पृष्ठ १६८४
नागौ धृतराष्ट्रबलाहकौ” भा० स० ९ अ० वरुणसभ्यकथने ।
तदधिष्ठिते प्रयागस्थे ९ तीर्थभेदे च । “प्रयागं सुप्रतिष्ठानं
कम्बलाश्वतरौ तथा । तीर्थं भोगवती चैव वेदिरेषा
प्रजापतेः” भा० व० ८५ अ० । प्रयागस्थतीर्थकथने ।

कम्बलबर्हिष पु० अन्धकनृपस्य पुत्रभेदे “कुकुरोभजमानश्च

शुचिः कम्बलबर्हिषः” माग० ९, २४, ११ । अन्धकस्येति
शेषः । “कुकुरभजमानशचिकम्बलवर्हिषाख्यास्तथान्धकस्य
पुत्राः” तट्टीकायां, श्रीधरधृतपराशरवाक्यम्

कम्बलहार त्रि० कम्बलं हरति हृ--अण् उप० स० ।

१ कम्बलहारके । २ ऋषिभेदे पु० तस्य गीत्रापत्यम् इञ् ।
कम्बलहारि तदपत्ये पुं स्त्री बहुत्वेऽस्त्रियां तस्य लुक् ।
कम्बलाःतद्गोत्रपुमपत्येषु ।

कम्बलार्ण्ण न० कम्बरूपमृणम् वृद्ध्विः । १ कम्बलरूपे ऋणे बहु० । २ तथणेयुक्ते त्रि० ।

कम्बलिका स्त्री क्षुद्रः कम्बलः ई--स्वार्थे कन् ह्रस्वः । १ क्षुद्र-

कम्बले । २ कम्बलमृगजातिस्त्रियाञ्च । ततः चतुरर्थ्यां
पक्षा०फक् । काम्बलकायन तत्सन्निकृष्टदेशादौ त्रि० ।

कम्बलिन् त्रि० कम्बलः गलकम्बलः प्रशस्तोऽस्त्यस्य कम्बल +

प्राशस्त्ये इनि । वृषे “गन्त्री कम्बलिवाह्यकम्” अमर० ।

कम्बलिवाह्यक न० कम्बलिना वृषेण वाह्यम् बह--कर्मणि

ण्यत् संज्ञायां कन् । वृषवाह्ये शकटे गन्त्र्याम् अमरः ।

कम्बलीय त्रि० कम्बलाय हितं छ । कम्बलसाधने उर्णा-

याम् । संज्ञायान्तु “कम्बलाच्च संज्ञायाम्” पा० यत्
कम्बल्य उर्ण्णापलशते न० ।

कम्बि स्त्री कम्बति अन्नाद्यनया कम्ब--गतौ करणे इन् ।

दर्व्याम् कमरः (हाता) वा ङीप् कम्बीत्यप्यत्र

कम्बु पुंन० कम--उन् बुक् च, कम्ब--गतौ मृगय्वा० उन् वा ।

१ शङ्खे अमरः । “कम्बोः सपत्नीकृतः” मुरारिः ।
“महात्मा चारुसर्व्वाङ्गः कम्बुग्रीवोमहाभुजः” भा० व०
१६० अ० । २ गले ३ शम्बूके ४ वलये च मेदि० । ५ कर्वुर
यर्ण्णेपु० ६ तद्वति त्रि० । ७ ग्रीबायाम् ८ नलके च
(फाँपाहाड़) स्त्री हेम० स्त्रीत्वे अप्राणिजातित्वात् वा
ऊङ् । वलयश्चात्र शङ्खमयः सधवाधार्य्यालङ्कारभेदः ।
“शतं दासीसहस्राणि तरुण्यो हेमवल्लिकाः । कम्बु-
केयूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः” भा०
स०५९ अ० ११ “पिनद्धकम्बुः पाणिभ्यां तृतीयां प्रकृतिं गतः”
भा० वि० २ अ० ग्रीवार्थे “प्रतिमुच्य कुण्डले दीर्घ च
कग्बूपरि हाटके शुभे” भा० वि० ११ अ० ।

कम्बुकण्ठी स्त्री कम्बुरिव कण्ठोऽस्याः स्वाङ्गत्वात् ङीष् ।

१ कम्बु ग्रीवायाम् । स्वार्थेकन् कम्बुकण्ठिकाप्यत्र । बहु०
२ तथाकण्ठयुक्तेत्रि० स्त्रियां स्वाङ्गत्वात् वा ङीष् ।

कम्बुका स्त्री कम्बुरिव काष्ठेन कायति कै--क । १ अश्वमन्घा

याम् रत्नमा० । स्वार्थेकन् । कम्बुशव्दार्थे ३ ग्रीवायाम् स्त्री

कम्बुकाष्ठा स्त्री कम्बु चित्रवर्ण्ण काष्ठमस्याः । अश्वगन्धा-

याम् । राजनि० ।

कम्बुग्रीवा स्त्री कम्बुरिव रेखात्रययुता ग्रीवा । शङ्खतुल्य-

रेखात्रययुक्तायां १ ग्रीवायाम् । कम्बुरिव ग्रीवास्य । ३ तथा
भूतग्रीवायुक्ते त्रि० ।

कम्बुग्रीवादि पु० कम्बुग्रीवा आदि र्यस्य । घटत्वजातिव्यञ्जके

आकृतिभेदे कम्बुग्रीवापृथुवुध्नोदरप्रभृतयोहिघटत्वजाति-
व्यञ्जकाः । कम्बुग्रीवादेश्च गुरुत्वात् नावच्छेदकत्वं तेन
कम्बुग्रीवादिमान्नास्तीत्यादौ कन्बुग्रीवादेर्नाभाल्ग्रप्रतियो-
गितावच्छेदकत्वम् किन्तु “सम्भवति लघौ गुरौ तदभावा-
दिति” न्यायात् समनियतं अनतिरिक्तवृत्ति घटत्वमेव-
तत्रावच्छेदकम् । इतरत्र गुरुधर्म्मस्यावच्छेदकत्वानङ्की-
कारेऽपि शक्यताया अवच्छेदकत्वं स्वीक्रियतएवातः कम्बु-
ग्रीवादिमानिति पदस्य कम्बुग्रीवादिमत्त्वमेव शक्यताव-
च्छेदकं नघटत्वमिति भेदः इत्याकरे स्थितम् ।

कम्बुपुष्पी स्त्री कम्बुः शङ्ख इव पुष्पमस्याः । शङ्खपुष्प्याम्

राजनि० ।

कम्बुमालिनी स्त्री कम्बूनां तत्समपुष्पाणां मालास्त्यस्याः इनि ङीप् । शङ्कपुष्प्याम् राजनि० ।

कम्बू त्रि० कम्ब--गतौ कू अम्मूदृन्भूजम्बूकम्बूइत्यादि०

नि० । १ परद्रव्यागहारके उज्ज्वल० । कम्बुशब्दात् स्त्री-
त्वे ऊङ् । २ कम्बु शब्दार्थे स्त्री ।

कम्बोज पु० कम्ब--ओज । १ हस्तिभेदे, २ शङ्खभेदे मेदि० “पञ्चनदं

समारभ्य म्लेच्छाद्दक्षिणपूर्व्वतः । कम्बोजदेशः इत्युक्तः” इयुक्ते
३ देशेच । कम्बोजेजातादि कच्छा० अण् । काम्बोज तज्जा-
तादौ त्रि० मनुष्यतत्स्थयोस्तु वुञ् । काम्बोजको मनुष्यः
काम्बोजकं हसितमित्यादीति भेदः । बहुत्वे तु तस्य लुक्
कम्बोजाः कम्बोजजातेषु । काम्बोजस्य राजानः “कम्बो-
जाल्लुक्” पा० लुक् । कम्बोजास्तद्राजेषु । “कम्बोजाः
समरेसोढुं तस्यवीर्य्यभनीश्वराः” रघुः । अत्र काम्बोजा
इत्यपपाठः राजनि “कम्बोजाल्लुक्” पा० लुग्विधानात् । कम्बो-
जाभिजनपरत्वे दीर्घपाठः समर्थनीयः इत्येके । कम्बो-
जीऽभिजनोऽस्य सिन्ध्वा० अण् । काम्वोज कम्बोजदेशा-
भिजने त्रि० । अयञ्च देशः वृह० स० कूर्म्मविभागे
नैरृत्यां दिशि कथितः यथा “नैरृत्यां दिशि देशाः पह्नव
पृष्ठ १६८५
कम्बोजसिन्धुसोवीराः मुण्डशब्देन समासे भयूरव्य०
पूर्वनिपांतः कम्बोजमुण्ड इत्येव । कम्बोजदेशस्थक्षत्रियास्तु
शनकैः क्रियालोपात् शूद्रत्वमाप्ताः यथाह मनुः ।
“शनकैस्तु क्रियालीपादिमाः क्षत्रियजातयः । वृषलत्वं गता
लोके ब्राह्मणादर्शनेन च । षौण्ड्रकाश्चैड्रद्रविड़ाः
कम्बोक्षाः यवनाः शकाः । पारेदाः पह्नवाश्चीनाः किराता
दरदाः खसाः”

कम्बोजादि वार्त्तिकोक्ते तद्राजप्रत्ययस्य लुग्निमित्ते

शव्दगणे स च गणः “कम्बोज चोल केरल शक यवन”

कम्ब्वातायिन् पु० कम्बुरिवातायी । शङ्खतुल्यश्वेतपूर्व्वकाये

शङ्खचिल्ले ।

कम्भ त्रि० कम् + मत्वर्थे भ । १ जलयुक्ते २ सुखयुक्ते च ।

कम्भारी स्त्री कं जलं बिभर्ति कम् + भृ--अण् उप० स० ।

गाम्भार्य्याम् (गाम्भार) । राजनि० । भुग्ध० मते षण् तस्य
षित्त्वात् ईप् । सि० कौ० मते तु गौरा० ङीष् इति
भेदः । तस्याः शीतवीर्य्यत्वात्तथात्वम् ।

कम्भु न० कं जलं तद्वच्छैत्यं बिभर्त्ति--भृ--डु । उशीरे

राजनि० तस्य शीतवीर्य्यत्वात् तथात्वम् ।

कम्र त्रि० कम--णिङ्भावे र । मैथुनेच्छायुक्ते । कामुके

अमरः । २ मनोहरे च । “कम्रा कमनाः युवतिः” सि० कौ०

कय त्रि० किम् + पृषो० वेदे कयादेशः । किंशब्दार्थे “न किं

सहन्त्य पर्य्येता कयस्य चित्” ऋ० १, २७, ८ । “नि षू न
मातिमतिं कयस्य चित्तिजिष्ठाभिः” १२९, ५ “नरोऽभि-
मातिं कयस्य चित्” ८, २५, १५ ।

कयस्था स्त्री कं जलं याति या--ड तथा सती तिष्ठति स्था

क । काकोल्याम् क्षीरस्वामी

कयाधू स्त्री जम्भासुरकन्यायां हिरण्य शिपुभार्य्याथाम्

“हिरण्यकशिपोर्भार्य्या कयाधूर्नाम दानवी । जम्भस्य
तनया दत्ता सुषुबे चतुरः सुतान् । संह्रादं प्रागनुह्रादं
प्रह्लादं ह्रादमेव च” भा० ६, १८, ९ ।

कर पु० कीर्य्यते विक्षिम्यतेऽनेन कॄ--करणे अप् । १ हस्ते

हस्तिशुण्डे च तयोर्जलादिक्षेपसाधनत्वात् तथात्वम्
२ कर्म्मणि अप् । ३ किरणे मेदिनिः । तत्र हस्तकिरणयोः
“प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाध-
नता । अवलम्बनाय दिनभर्त्तुरभूपन्न पतिष्यतः करसह-
स्रमपि” “स्थितः कराग्रैरसमग्रपातिभिः” माघः । हस्ते
“केशान्नीवीमधः कायं संस्पृशेत् धरणीमपि । यदि स्पृशति
चैतानि भूयःप्रक्षलयेत् करम्” आ० त० देवलः नेत्यनु-
वृत्तिः “वामः काञ्चनपिञ्जरे नृपकराग्भोजैन्तनूमार्ज
नम्” उद्भटः । “तथा वामकरे दश” मनुः । कंसुखं राठि
रा क । ४ राजग्राह्ये राजस्ये तत्र राजग्राह्यहस्तयोः
“असम्भवद्घनरसा शतालिपरिषेविता । करं न सहते
राजन्! भूभिर्नवबधूरिव” । “तन्वि तव कुचावेतौ नियतं
चक्रवर्त्तिनौ । आसमुद्रक्षितीशोऽपि भवान् यत्र करप्रदः”
उद्भटः । यथा च राज्ञा करनिवेशनं राष्ट्रे करणीयं
तथा मनुनोक्तम् यथा
“क्रयविक्रयभध्वानं भक्तञ्च सपरिव्ययम् । योगक्षेमञ्च
सम्प्रेक्ष्य बणिजो दापयेत् करान् । याथा फलेन युज्येत
राजा कर्त्ता च कर्म्मणाम् । तथावेक्ष्य नृपो राष्ट्रे
कल्पयेत् सततं करान् । यथाल्पाल्पमदन्त्याद्यं वार्य्यो-
कोवत्सषट्पदाः । तथाल्पाल्पो ग्रहीतव्यो राष्ट्रा-
द्राज्ञाव्दिकः करः । पञ्चाशद्भाग आदेयो राज्ञा
पशुहिरण्ड्ययोः । धान्यानामष्टमो भागः षष्ठो द्वादश एव
वा । आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम् ।
गन्धौषधिरसानाञ्च पुष्पमूलफलस्य च । पत्रशाकतृणा-
नाञ्च वैदलस्य च चर्म्मणाम् । मृण्मयानाञ्च भाण्डा-
नां सर्व्वस्याश्ममयस्य च । म्रियमाणोऽप्याददीत
नराजा श्रोत्रियात् करम् । न च क्षुधाऽस्य संसीदेच्छ्रो-
त्रियो विषये वसन् । यस्य राज्ञस्तु विषये श्रोत्रियः
सीदति क्षुधा । तस्यापि तत्क्षुधा राष्ट्रमचिरेणैव सीदति ।
श्रुतवृत्ते विदत्वाऽस्य वृत्तिं धर्म्म्यां प्रकल्पयेत् । संरक्षेत्
सर्व्वतश्चैनं पिता पुत्त्रामिवौरसम् । संरक्ष्यमाणो राज्ञा
यं कुरुते धर्म्ममन्वहम् । तेनायुर्वर्द्धते राज्ञो द्रविणं
राष्ट्रमेव च । यत्किञ्चिदपि वर्षस्य दापयेत् करसंज्ञितम् ।
व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम् । कारु-
कान् शिल्पिनश्चैव शूद्रांश्चात्मोपजीविनः । एकैकं
कारयेत् कर्म्म मासि मासि महीपतिः । नोच्छिन्द्यादात्मनो-
मूलं परेषाञ्चातितृष्णया । उच्छिन्दन् ह्यात्मनो मूलमा
त्मानं तांश्च प्रीडयेत्” व्याख्यातञ्चेदं कुल्लूकभट्टेन
“क्रयविक्रयमित्यादि । कियता मूल्येन क्रीतमिदं वस्त्र-
लवणादि द्रव्यं विक्रीयमाणञ्चात्र कियल्लभ्यते
कियद्दूरादानीतं किमस्य बणिजो भक्तव्ययेन शाकसूपादिना
परिव्ययेन लग्नं किमस्यारण्य दौ चौरादिभ्योरक्षयः
रूपेण क्षेमप्रतिविधानेन गतं, कोऽस्य इदानीं लाभयोग-
इत्येतदवेक्ष्य बणिजः करान् दापयेत् । यथेति । यथा
राजाऽवेक्षणादिकर्म्मणः फलेन, यथा च कार्षिकबणिगादा-
पृष्ठ १६८६
कृषिबाणिज्यादिकर्म्मणां फलेन सम्वध्यते । तथा निरूप्य
राजा सर्व्वदा राष्ट्रात् करान् गृह्णीयात् । अत्र दृष्टान्तमाह
यथेथादि । यथा जलौकोवत्सभ्रमराः स्तोकस्तोकानि
रक्ततीरलधूनि अदन्त्येवं राजा मूलधनमनुच्छिन्दताऽ-
ल्पोऽल्पोराष्ट्रादाव्दिकः करो ग्राह्यः । तमाह पञ्चाशद्भा-
गो राज्ञा ग्रहीतव्यः । एव धान्यानां षष्ठोऽष्टमो द्वा-
दशो वा भागी ग्राह्यः भूम्यु त्कर्षापकर्षापेक्षया कर्षणादि
क्लेशलाघवगौरवापेक्षोऽयं बह्वल्पग्रहणविकल्पः ।
आददीतेत्यादि । पत्रशाकतृणानामित्यादि । द्रुशब्दोऽत्र
वृक्षवाचकः वृक्षादीनां अश्ममयान्तानां षष्ठोभागो
लाभाद्ग्रहीतव्यः । म्रियासाणैति । क्षीणधनोऽपि राजा
श्रोत्रियब्राह्मणात् करं न गृह्णीयात् न च तदीयदेशे
वसन् श्रोत्रियः बुभुक्षया अवसादं गच्छेत् । यस्मात्
यस्येत्यादि । यस्य राज्ञो देशे श्रोत्रियः क्षुधाऽवसन्नो भवति
तस्यराष्ट्रमपि दुर्भिक्षादिभिः क्षुधा शीघ्रमवमादं गच्छति ।
यत एवमतः श्रुतेति । शास्तज्ञानानुष्ठाने ज्ञात्वा अस्य
तदनुरूपां धर्म्मादनपेतां जीविकामुपकल्पयेत् चौरादि-
भ्यश्चैनम् औरसं पुत्त्रमिव पिता रक्षेत् । यस्मात् संरक्ष्य-
माणैत्यादि । स च श्रोत्रियो राज्ञा सम्यग्रक्ष्यमाणो
यं धर्म्मं प्रत्यहं करोति तेन राज्ञ आयुर्द्धनराष्ट्राणि
वर्द्धन्ते । यदिति । राजा स्वदेशशाकपर्णादिस्वल्पमूल्य-
वस्तुक्रयविक्रयादिना जीवन्तं निकृष्टजनं स्वल्पमपि
कराख्यं वर्षेण दापयेत् । कारुकानिति । कारुकान्
सूपकारादीन् शिल्पिभ्य ईषदुत्कृष्टान् शिल्पिनश्च लोहकारा-
दीन् शूद्रांश्च देहक्लेशोपजीविनो भारिकादीन् मासि
मास्येकं दिनं कर्म्म कारयेत् । नोच्छिन्द्यादिति । प्रजा-
स्नेहात् करशुल्कादेरग्रहणमात्मनो मूलोच्छेदः
अतिलोभेन प्रचुरकरादिग्रहणे परेषां सूलोच्छेदः एतदुभयं
न कुर्य्यात् यस्मात् आत्मनो मूलमुच्छिद्य कोषक्षयादात्मानं
पीडयेत् । पूर्ब्बार्द्धात् परेषाञ्चेत्यपि संबध्यते परेषां
मूलमुच्छिद्य तांश्च पीडयेत्” ।
भार० शा० ८७ अ० विस्तरेणोक्तं यथा
“विक्रयं क्रयमध्वानं भक्तञ्च सपरिच्छदम् । योगक्षेमञ्च
सम्प्रेक्ष्य बणिजां कारयेत करान् । उत्पत्तिं दानवृ-
त्तिञ्च शिल्पं संप्रेक्ष्य चासकृत् । शिल्पं प्रति करानेवं
शिल्पिनः प्रति कारयेत् । उच्चावचकरा दाप्याः महाराज्ञा
युधिष्ठिर । यथा यथा न सीदेरंस्तथा कुर्य्यान्महीपतिः ।
फलं कर्म्म च सम्प्रेक्ष्य ततः सर्व्वं प्रकल्पयेत् । फलं
कर्म्म च निर्हेतु न कश्चित् संप्रवर्त्तते । यथा राजा
च कर्त्ता च स्यातां कर्म्मणि भागिनौ । समवेक्ष्य तथा
राज्ञा प्रणेयाः सततं कराः । नोच्छिद्यादात्मनो मूलं
परेषाञ्चापि तृष्णया । ईहाद्वाराणि संरुध्य राजा
सम्प्रतिदर्शनः । प्रद्विषन्ति परिख्यातं राजानमतिखा-
दिनम् । प्रद्विष्टस्य कुतः श्रेयो नाप्रियो लभते फलम् ।
वत्सौपम्येन दीग्धब्यं राष्ट्रमक्षीणबुज्द्धिना । भूतो वत्सो-
जातबलः पीडां सहति भारत! । निकायं कुरुते वत्सो
भृशं दुग्धो युधिष्ठिर! । राष्ट्रमप्यतिदुग्धं हि न कर्म्म
कुरुते महत् । यो राष्ट्रमनुगृह्णाति परिरक्षन् स्वयं
नृपः । सञ्जातमुपजीवन् स लभते न महत् फलम् ।
आपदर्थञ्च निर्यातं राजा न इह विन्दते । राष्ट्रञ्च
कोषभूतं स्यात् कोषो बेश्मगतस्तथा । पौरजानपदान्
सर्व्वान् संश्रितोपाश्रितांस्तथा । यथाशक्त्यनुकम्पेत सर्व्वान्
स्वल्पधनानपि । बाह्यं जनं भेदयित्वा भोक्तव्यो भध्यमः
सुखम् । एवं नास्य प्रकुप्यन्ति जनाः सुखितदुःखिताः ।
प्रागेव तु धनादानमनुभाष्य ततः पुनः । सन्निपत्य स
विषये भयं राष्ट्रेषु दर्शयेत् । इयमापत् समुत्पन्ना
परचक्रभयं महत् । अपि चान्ताय कल्पन्ते वेणोरिव
फलागमः । अरयो मे समुत्याय बहुभिर्दस्युभिः सह ।
इदमात्मबघायैव राष्ट्रमिच्छन्ति बाधितुम् । अस्यामापदि
घोरायां सम्पाप्ते दारुणे भये । परित्राणाय भवतः
प्रार्थयिष्ये धनानि वः । प्रतिदास्ये च भवतां सर्व्वञ्चाह
भयक्षये । नारयः प्रतिदास्यन्ति यद्धरेयुर्ब्बलादितः ।
कलत्रमादितः कृत्वा सर्व्वं वो विनशेदिति । अपि चेत्
पुत्त्रदारार्यमर्थसञ्चय इष्यते । नन्दामि वः प्रभावेण पु
त्त्राणामिव चोदये । यथाशक्त्यु पगृह्णामि राष्ट्रस्यापीडय
च वः । आपत्स्वेव हि वोढव्यं भवद्भिः पुङ्गवैरित ।
न प्रियं सततं कार्य्यं धनं कस्याञ्चिदापि । इति वाचा
मधुरया श्लक्ष्णया सोपचारया । स्वरश्मीनभ्यवसृजेद्योग
माधाय कालवित् । प्राकारं भृत्यभरणं व्ययं सङ्ग्रा
मतो भयम् । योगक्षेमञ्च सम्प्रेक्ष्य गोमिनः कारयेत् क
रम् । उपेक्षिता हि नश्येयुर्गोमिनोऽरण्यवासिनः ।
तस्मात्तेषु विशेषेण मृदुपूर्व्वं समाचरेत् । सान्त्वनं रक्षणं
दानमवस्था चाप्यभीक्ष्णशः । गोमिनां पार्थ! कर्त्तव्यः
संभागश्च प्रियाणि च । अजस्रमुपयोक्तव्यं फलं गोमिषु
भारत! । प्रभावयन्ति राष्ट्रञ्च व्यवहारं कृषिन्तथा ।
तस्माद्गोमिषु यत्नेन प्रीतिं कुर्य्याद्विचक्षणः । दयावानप्रमत्तश्च
पृष्ठ १६८७
करान् सम्प्रणयेन्मृदून् । सर्व्वत्र क्षेमचरणं सुलभं नाम
गोमिषु । न ह्यतः सदृशं किञ्चिद्वरमस्ति युधिष्ठिर!” ।
“मधुदीहं दुहेद्राष्ट्रं भ्रमरा इव पादपम् । वत्सापेक्षो
दुहेच्चैव स्तनांश्च न विकुट्टयेत् । जलौकावत् पिबेद्राष्ट्रं
मृदुनैव नराधिपः । व्याघ्रीव च हरेत् पुत्त्रान् सन्दंशेन्न च
पीडयेत् । यथा शल्यकवानाखुः पदं धूनयते सदा ।
अतीक्ष्णेनाप्यायेन तथा राष्ट्रं समापिबेत् । अल्पेनाल्पेन
देयेन वर्द्वमानं प्रदापयेत् । ततो भूयस्ततो भूयः क्रयवृद्धिं
समाचरेत् । दमयन्निव दम्यानि शश्वम्भारं विवर्द्धयेत् ।
पृदुपूर्व्वं प्रयत्नन पाशान्भ्यवहारयेत् । सकृत्पाशावकी-
र्णास्तेन भविष्यन्ति दुर्द्दमाः । उचितेनैव भोक्तव्या न
भविष्यन्ति यत्नतः । तस्मात् सर्वसमारम्भो दुर्लभः पुरुषं
प्रति । यथामुख्याम् सान्त्वयित्वा भोक्तव्य इतरो जनः ।
ततस्तान् भेदयित्वा तु परस्परविवक्षितान् । भुञ्जीत सान्त्व-
यंश्चैव यथासुखमयत्नतः । न चास्थाने न चाकाले करां-
स्तेभ्यो निपातयेत् । आनुपूर्व्येण सान्त्वेन यथाकालं
यथाविधि” ९० अ० । प्रजाभ्यः करादानप्रकारः रक्षा
शब्दवक्ष्यमाणप्रकारवत् मनूक्तोऽनुसन्धेयः ।
अतएव सा० कौ० “यथा हि ग्रामाध्यक्षाः कौटुम्बिकेभ्य
करमादाय विषयाध्यक्षाय प्रमच्छन्ति विषयाध्याक्षश्च
सर्व्वाध्यक्षाय स च भूपतये” इत्युक्तम् ।
६ हस्ताकारे हस्तनक्षत्रे । हेत्वादौ कर्म्मोपपदे कृ--कर्त्तरि
ट । तत्तत्कर्मकारके त्रि० यथा कर्म्मकरः श्रेयस्करः
यशस्करः स्त्रियां ङीप् कर्म्मकरी दासी यशस्करी
विद्येत्यादि । दिवाविभादिपूर्वात् अहेत्वादावपिट । तत्त-
दुपपदार्थकारके त्रि० तानि च “दिवाविभानिशाप्रभा-
भास्करान्तानन्तादिबहुनान्दीकिमलिपिलिबिलिभक्तिकर्त्तृ-
चित्रनक्षत्रसंख्याजङ्घाबह्वहर्द्धनुररुषषु” पा० दर्शितानि
दिवाकरः निशाकरः । अहेत्वादावितोऽन्यत्र अण् । कुम्भ-
कार इत्यादि ।

करक पु न० किरति विक्षिपति करोति वा जलमत्र कॄ--कृ--वा

कृञादि० संज्ञायां बुन् । कमण्डलौ “उपवीतमलङ्कारं
स्रजं करकमेव च” मनुः २ दाड़िमदृक्षे ३ पक्षिभेदे पुंस्त्री
स्त्रियां जतित्वात् ङीष् । ४ मेघोपले (शिला) पुंस्त्री ।
करकोद्भवाकारणं तज्जलगुणाश्च भावप्र० दर्शिताः यथा ।
“दिव्यवाय्वग्नि योगात् संहताः स्वात् पतन्ति याः ।
पाषाणखण्डवच्चापस्ताः कारिक्योऽमृतोपमाः ।
करकाजं जलं रूक्षं विशदं गुरु सुस्थिरम् । दारुणं शी-
तलं सान्द्रं पित्तहृत् कफवातकृत्” । (लाटा) ५ करञ्जभेदे
रत्नमा० स्वार्थेकन् । ६ राजकरे ७ हस्ते च । ८ पलाशवृक्षे
हारा० । ९ कोविदारवृक्षे १० बकुलवृक्षे ११ करीरे
१२ नाकेलास्थ्नि च(माला) पु० राजनि० ।

करकङ्कणन्याय पु० कङ्कणशब्दस्य करभूषणार्थकत्वेऽपि यथा

करशव्दप्रयोगस्तत्काले तत्संलग्नताद्योतनार्थः तद्रूपदृ-
ष्टान्तसूचक न्याये ।

करकच पु० “शनिभार्गवजोवज्ञकुजसोमार्कवासरे । षष्ठ्यादिति

थयः सप्त क्रमात् करकचाः स्मृताः” ज्यो० उक्ते
योगभेदे । तथा च शनौ षष्ठी, शुक्रे सप्तमी, गुरौ अष्टमी,
बुधं नवमी, कुजे दशमी, सीमे एकादशी, रवौ द्वादशी
तिथिः करकच इत्यर्थः ।

करकच्छपिका स्त्री कच्छपस्तदाकारोऽस्त्यस्याः ठन् करे

हस्ते स्थिता कच्छपिका । अङ्गुलिसन्निवेशभेदरूपायां
कूर्म्ममुद्रायाम् । “करकच्छपिकां कुर्य्यात् कूर्म्ममन्त्रेण
साधकः । तत्र संस्कृतपुष्पेण पूजयेदात्मनो वपुः” कालि
कापु० ५६ अ० ।

करकण्टक पुंन० करस्य कण्टक इव । नखे त्रिका० ।

करकपात्रिका स्त्री करकः कनण्डु रूपा पात्रिका ।

कमण्डलुरूपपात्रे ।

करकाज न० करकातो जायते जन--ड । करकाभवे जलेकरकशब्दे भावप्र० वाक्यमुक्तम् ।

करकाम्भस् पु० करकाया इव शीतलमम्भोऽस्य । नारि-

केले त्रिका० । तज्जलस्यातिशीतत्वात्तथात्वम् । ६ त०
तदीयजले न० ।

करकायु पु० धृतराष्ट्रपुत्रभेदे । “उग्रायुघोवलाकी च करकायुर्विरोचनः” भा० आ० ३९ अ० ।

करकासार पु० ६ त० । शिलावृष्टौ

करकुद्मल न० करः कुद्मलमिव । मुकुलिताङ्गुलौ करे कर

मुकुलकवकलशकरकोषादयोऽप्यत्र ।

करग्रह पु० करो गृह्यतेऽत्र ग्रह--आधारे अप् । विवाहे

तत्र करग्रहणेनैव हि संस्कारो विधीयते इति तस्य
तथात्वम् । ६ त० । २ हस्तधारणे ३ प्रजाभ्यः करादाने च
पाणिग्रहकरग्रहणादयोऽप्युभयत्र ।

करग्रहारम्भ पु० करग्रहस्य प्रजाभ्यः करादानस्यारम्भः ।

(पुण्या) वार्षिककरग्रहणारम्भे । करग्रहारम्भदिकनक्षत्रा-
दिकं प्रसङ्गादुच्यते “तीक्ष्णोग्रवह्नीतरभेषु लग्ने शीर्षोदये
भानुदिने शुभाहे । कुर्यादनुक्तानि समीहितान
करग्रहारम्भमपि प्रजाभ्यः” ज्यो० तुत्र तीक्ष्णगणाः ६, ९
१८, १९ आर्द्रादयः, उग्रगणाः पूव्वात्रयमघाःवह्निः
कृत्तिका तदितरेषु नक्षत्रेषु । शीर्षोदयाः मिथुन-
सिंहकन्यातुलावृश्चिककुम्भमीना तादृशे लग्ने ।
पृष्ठ १६८८

करग्राह पु० करं गृह्णाति ग्रह--अण् । १ पत्यौ भर्त्तरि

२ हस्तग्राहकमात्रे ३ राजस्वादायके च त्रि० । णिनि ।
करग्राहीत्यप्युभयत्र स्त्रियां ङीप् पाणिग्राहादयोऽप्यत्र

करघर्षण पु० कराभ्यां घृष्यते घृष--कर्मणि ल्युट् । दधिम-

न्थनदण्डे हारा० । मावे ल्युट् ३ त० । करेण घर्षणे न० ।

करङ्क पु० कीर्य्यते जलमत्र कॄ--अप् करोऽङ्को गर्भोऽस्य

शक० । १ नारिकेलास्थ्नि (खोल्), २ कमण्डलौ ३ पात्रभेदे
च “ताम्बुलकरङ्कवाहिनी” काद० । कस्य शिरसः रङ्कैव
(माथारखुली), ४ मस्तकखर्परे मेदिनिः । ५ इक्षुभेदे राज० ।

करङ्कशालि पु० करङ्कैव शालते शाल--इन् । इक्षुभेदे ।

राजनि० ।

करच्छद पु० कर इवावरकश्छदोऽस्य । १ शाखोटवृक्षे (सिहडा) २ सिन्दूरपुष्पीवृक्षे च राजनि० ।

करज पु० करे जायते जम--ड । १ नखे “न च्छिन्द्यात्

करजैस्तृणम्” मनुः । तन्नामनामके २ व्याघ्रनखाख्यगन्धद्रव्ये
च (नखो) । मेदिनिः । ३ हस्तजातमात्रे त्रि० । कं
शिरः जलं वा रञ्जयति रन्ज--णिच्--अण् नि० ।
(करमचा) ४ करञ्जवृक्षे । अमरः ।

करजाख्य न० करजस्यनखस्याख्या आख्या यस्य । नखीनाम-

गन्दद्रव्ये रत्नमा० ।

करजोडि पु० कुटा० जुड--बन्धे इन् बा० गुणः । (हातजोडा) वृक्षभेदे राजनि० ।

करञ्ज पु० कं शिरः जलं वा रञ्जयति अण् । (करकचा) इति

ख्याते वृक्षे । करञ्जपर्य्यायगुणादि भावप्र० उक्तं यथा ।
“करञ्जो नक्तमालश्च करजश्चिरविल्वकः । घृतपूर्णकरञ्जो-
ऽन्यः प्रकीर्यः पूतिकोऽपि च । स चोक्तः पूतिकरजः
सोमवल्कश्च स स्मृतः । करञ्जःकटुकस्तीक्ष्णो वीर्य्योष्णोयोनि-
दोषहृत् । कुष्ठोदावर्त्तगुल्मार्शो व्रणकृमिकफापहः ।
तत्पत्र कफवातार्शःकृमिशोथहरं परम् । भेदनं कटुकं
पाके वीर्य्योष्णं पित्तलं लघु । तत्फलं कफवातघ्नं मेहा-
र्शःकफकृमिकुष्ठजित् । घृतपूतिकरञ्जोऽपि करञ्जसदृशो
गुणैः” । उदकीर्य्यपर्य्याये तु स्त्रीत्वमपि गौरा० ङीष् ।
प्रावप्र० “उदकीर्य्यस्तृतीयोऽन्यः षड्ग्रन्थाहस्तिवारुणो ।
मर्क्कटो वायसी चापि करञ्जी करभञ्जिका” । तद्गुणाश्च
तत्रैवोक्ताः “करञ्जी स्तम्भनी तिक्ता तुवरा कटुकाशिनी ।
वीर्य्योष्णा वमिपित्तार्शःकृमिकुष्ठप्रमेहजित्” । तत्तैलगुणाश्च ।
“करञ्जतैलं सुस्निग्धं वातहृत् स्थिरदीप्तिकृत् । नेत्रा-
मयवातरोगकुष्ठकण्डूविसूचिकाः । नाशयेत्तीक्ष्णमु-
ष्णञ्च लेपनाच्चर्मदोषहृत्” राजनि० । स्वार्थे कन्
करञ्जकोऽप्यत्र पु० “यस्तु प्तंवत्सरं पूर्णं दीपं दद्यात्
करञ्जके । सुवर्चलामृलहस्तः प्रजा तस्य विवर्द्धते” मा०
आनु० १२७ अ० । अन्यमते करञ्जभेदाश्चत्वारः । (डहर-
करमचा) (लाटाकरजा) (काँटाकरमचा)” (अम्रकरमचा)
इति भाषाप्रसिद्धनामभेदात् “यत् पर्ण्णपघ्न उत वा
कवञ्जहे” ऋ० १०१ ०४८, ८ ।

करञ्जफल पु० करञ्जस्य फलमिवाम्लं फलं यस्य । कपित्थे (कण्तबेल) राजनि० ।

करट पु० किरति मदम्--कॄ--अट्न् । १ गजगण्डे “कथं

प्रभिन्नकरटं हस्तिनं वनगोचरम् । उपस्थाय महाभागं
करेणुः शूकर स्पृशेत्” भा० व० १७७ । हस्तिगण्डे
स्त्रीत्वमपि । “ईषादण्डं महानागं प्रमिन्नकरटामुस्वम् ।
शशकीह्रयसे युद्धे कर्ण! पार्थं धनञ्जयम्” भा० क०
३९ अ० स्त्रीत्वप्रमोगात् । २ काके पुंस्त्री अमरः ।
स्त्रियां ङीष् । “वरमिह गङ्गातीरे शरटः करटः कृशः
शुनीतनयः” गच्छास्त० ३ कुसुम्भवृक्षे पु० ४ निन्द्यजीविनि
त्रि० । स्त्रियां करटा । ५ नवश्राद्धे एकादशादिकर्त्तव्ये
श्राद्धे ६ दुर्दुरूढे दुरुच्छेद्यसतके वादिनि नास्तिकभेदे
दुर्दम्ये च ७ वाद्यभेदे च पु० मेदि० । दुर्दूरूढक्षत्रियभेदाभि-
प्रायेण “मालवाः माल्लवाश्चैव तथैवापरमल्लवाः । कुलिन्दाः
कालकाश्चैव कुण्डकाः करटास्तथा” भा० भी० ९ अ० ।
आहर करट इत्युच्यतेऽत्र कर्मणि आहरशब्देनास्य ।
मयू० स० । आहरकरट तथा विधे कर्मणि । ८ दुःखेन
दोह्यायां गवि हेमच० । स्वार्थेकन् । काके पुंस्त्री
शब्दर० स्त्रियां ङीष् । ९ स्तेयशास्त्रप्रवर्त्तके कर्ण्णीसुते पु०
“कर्ण्णीसुतः करटकः स्तेयशास्त्रप्रवर्त्तकः । तस्याख्यातौ-
तखायौ द्वौ विपुलाचलसंज्ञकौ” काद०टीका ।

करटिन् पु० करटोऽस्त्यस्य प्राशस्त्येन करट + इनि । गजे

“दिगन्ते श्रूयन्ते मदमनिलगण्डाः करटिनः” रसगङ्गा०

करटु पु० कृ--कटु । (करकटिया) इति नामके विहगे । हेम०

करण न० क्रियतेऽनेन कृ--करणे ल्युट् । १ व्याकरणोक्ते साधकतमे

कारकभेदे “क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्त-
रम् । विवक्ष्यतेयदा यत्र करणं तत् तदा स्मृतम्” हरिका० ।
विवक्ष्यते इत्यनेनान्यस्यापि विवक्षायां करणत्वम्
भवतीति सूचितम् । अतएवाह “स्थाल्या पच्यते इत्येष
प्रयोगो दृश्यते यतः” “साधकतमं करणम् पा० । तमब्-
ग्रहणेनाव्यवहितव्यापारवत्त्वं सूचितम् । सत्यपि हेतु-
करणयोःर्जनकत्वसाम्ये क्रियामात्रविषयत्वं व्यापारवत्त्वं
पृष्ठ १६८९
च करणस्य विशेषः तदुक्तं “द्रव्यादिविषयोहेतुः करणं
चरितक्रियम्” । चरितक्रियं व्यापारद्वारा क्रियामात्र-
विषयम इत्यर्यः । “स्वराणामूष्मणाञ्चैव विवृतं करणं
स्मृतम्” शिक्षा । “भिषक् कर्त्ताथ करणं रसादोषाश्च
कारणम्” सुश्रु० । “न तस्य कार्य्यं करणञ्च विद्यते” श्रुतिः
२ इन्द्रिये अमरः तस्य ज्ञानक्रियायाम् साधनत्वात्त-
थात्वम् । यथा च इन्द्रियाणां ज्ञानक्रियायां
साधनत्वं तथा इन्द्रियशव्दे उक्तेम् । तच्च सांख्ये त्रयो-
दशविधमित्युक्त्वा तेषां मध्ये अन्तःकरणानां द्वारित्व-
मितरेषां द्वारत्वमुक्तं यथा सां० का० कौ०
“करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् ।
कार्यञ्च तस्य दशधाहार्यं धार्यं प्रकाश्यञ्च” का० “करणं
त्रयोदशविधमिन्द्रयाण्येकादश बुद्धिरहङ्कारचेति त्रयो-
दशप्रकारं करणं कारकविशेषः करणम् । न च व्यापा-
रावेशं विना कारकत्वमिति व्यापारमाह तदाहरणधार-
णप्रकाशकरम् यथायथं तत्र कर्मोन्द्रियाणि वागादीन्या-
हरन्ति यथास्वमुपाददते स्वव्यापरेण प्राप्नुवन्तीति यावत्
बुद्ध्यहङ्कारमनांसि तु स्ववृत्त्या प्राणादिलक्षणया
धारयन्ति, बुद्धीन्द्रियाणि प्रकाशयन्ति । आहरणधारणा-
दिक्रियाणां सकर्मकतया किं कर्म, कतिविधं? चेत्यत
आह कार्य्यञ्च तस्येति तस्य त्रयोदशविधस्य करणस्य
दशधा आहार्य्यं धार्य्यं प्रकाश्यञ्च कार्य्यम् । आहार्य्यं
व्याप्यं कर्म्मोन्द्रियाणां वचनादानविहरणोतसर्गानन्दा यथा
यथं व्याप्याः ते च यथायथं दिव्यादिव्यतया दश इत्या-
हार्य्यं दशधा । एवं धार्थ्यम् अप्यन्तः करणादि लक्षणया
वृत्त्या शरीरं, तच्च पार्थिवादि पाञ्चभौतिकं शब्दादीनां
पञ्चानां समूहः पृथिवीति, ते च पञ्च दिव्यादिव्यतया
दशेति धार्य्यभपि दशधा । एवं बुद्धीन्द्रियाणां शब्द-
स्पर्शरूपरसगन्धा यथायथं व्याप्याः ते च यथायथं
दिव्यादिव्यतया दशेति प्रकाशामपि दशधेति” कौ० “अन्तः-
करणं त्रिबिधं दशधा बाह्यं त्रयस्य विषयाख्यम् । साम्प्र-
तकालं बाह्यं त्रिकालमाभ्यन्तरं करणम्” का० “कन्तः-
करणं त्रिविधं बुद्धिरहङ्कारोमन इति शरीराभ्यन्तरवृत्ति-
त्वादन्तःकरणम् । दशधा बाह्यमिन्द्रियं त्रयस्यान्तःकरणस्य
विषयाख्यं विषयमाख्याति विषयसङ्कल्पांभमानाध्यवसा
येषुकर्त्तव्येषु द्वारीभवति तत्र बुद्धीन्द्रियाण्यालोचनेन,
कर्मेन्द्रियाणि तु यथास्वं व्यापारेण । बाह्यान्तरयोः
करणयोर्विशेषान्तरमाह साम्प्रतकालं बाह्यं त्रिकालमाभ्य-
न्तरं करणम्, साम्प्रतकालं वर्त्तमानकालं बाह्यमिन्द्रियं
वर्त्तमानसमीपमनागतमतीतमपि वर्त्तमानम् अतो वागपि
वर्त्तमानकालविषया भवति । त्रिकालमाभ्यन्तरं करणं
तद्यथा नदीपूरभेदादभूद्वृष्टिः अस्ति धूमादग्निरिह
नगनिकुञ्जे, असत्युपघातके पिपीलिकाण्डसञ्चरणाद्भविष्यति
वृष्टिरिति, तदनुरूपाश्च सङ्कल्पाभिमानाध्यवसाया भवन्ति ।
कालश्च वैशेषिकाभिमत एको न अनागतादिव्यवहारभेदं
प्रबर्त्तयितुमर्हतीति तस्मादयं यैरुपाधिभेदैरनागतादि-
भेदं प्रपद्यते सन्तु तएबोपाधयोऽनागतादिव्यबहारहेतवः,
कृतमत्रान्तर्गडुनाकालेनेति सांख्याचार्य्याः । तस्मान्न
कालरूपतत्त्वान्तराभ्युपगम इति” कौ० साम्प्रतकालानां बाह्ये-
न्द्रियाणां विषयं विवेचयति । “बुद्धीन्द्रियाणि तेषां
पञ्च विशेषाविशेषविषयाणि । वाग्भवति शब्दविषया शेषा-
णि तु पञ्चविषयाणि” का० “बुद्धीन्द्रियाणि तेषां दशाना-
मिन्द्रियाणां मध्ये पञ्च विशेषाविशेषविषयाणि विशेषाः
स्थूलाः शब्दादयः शान्तघोरमूढाः पृथिव्यादिरूपाः,
अविशेषास्तन्मात्राणि सूक्ष्माः शब्दादयः विषयग्रहणेन
भूतभाविनावपाकरोति विशेषाश्चाविशेषाश्च विशेषाविशेषास्तएव
विषया येषां बुद्धीन्द्रियाणां तानि तथोक्तानि । तत्रोर्द्ध्वस्रो-
तसां योगिनाञ्च श्रोत्रं स्थूलशब्दत्रन्मात्रविषयं, स्थूलशब्द-
विषयमेव नः । एवं तेषां त्वक् स्थूलसूक्ष्मस्पर्शविषया, अस्म-
दादीनान्तु स्थूलस्पर्शविषयैव । एवं चक्षुरादयोऽपि तेषाम-
स्मदादीनाञ्च रूपादिषु द्रष्टघ्याः । एवं कर्मेन्द्रियेषु मध्ये
वाग्मवति शब्दविषया स्थूलशब्दविषया तद्धेतुत्वात् न तु
शब्दतन्मात्रस्य हेतुः तस्याहङ्कारिकत्वेन वागिन्द्रियेण सहैक-
कारणकत्वात् । शेषाणि तु चत्वारि पायूपस्थपाणिपादा-
ख्यानि पञ्चविषयाणि पाण्याद्याहार्याणां घटादीनां पञ्च-
शव्दार्थत्वादिति” कौ० । साम्प्रतं त्रयोदशसु करणेषु केषा-
ञ्चित् प्रथानभावं सहेतुकमाह । “सान्तःकरणा बुद्धिः सर्वं
विषयमवगाहते यस्मात् । तस्मात्त्रिविधं करणं द्वारि
द्वाराणि शेषाणि” का० । “द्वारि प्रधानं शेषाणि करणानि
वाह्येन्द्रियाणि द्वाराणि तैरुपनीतं सर्वं विषप्यं समनो-
हङ्कारा बुद्धिर्यस्मादवगाहतेऽध्ववस्यति तस्माद्बाह्येन्द्रियाणि
द्वाराणि द्वारवती च सान्तःकरणा बुद्धिरिति” कौ० । “न
केवलं बाह्यानीन्द्रियाण्यपेक्ष्य प्रधानं बुद्धिरपि तु ये
अप्यहङ्कारमनसी द्वारिणी ते अप्यपेक्ष्य बुद्धिः प्रधानमि-
त्याह । “एते प्रदीपकल्पाः परस्परविलक्षणा गुणवि-
शेषाः । कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति” का० ।
पृष्ठ १६९०
“यथा हि ग्रामाध्यक्षाः कौटुम्बिकेभ्यः करमादाय
विषयाध्यक्षाय प्रयच्छंन्ति विशयाध्यक्षश्च सर्व्वाध्यक्षाय, स च
भूपतये, तथा वाह्येन्द्रियाण्यालोच्य मनसे समर्पयन्ति
मनश्च सङ्कल्प्याहङ्काराय, अहङ्कारश्चाभिमत्य बुद्धौ सर्वा-
ध्यक्षभूतायाम्, तदिदमुक्तं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रय-
च्छन्तीति । बाह्येन्द्रियमनोहङ्काराश्च गुणविशेषाः गुणा-
नां सत्वरजस्तमसां विकाराः । ते तु परस्परविरोधशीला
अपि पुरुषार्थेन भोगापवर्गरूपेण एकवाक्यतां नीताः
यथा वर्त्तितैलवह्नयः सन्तमसापनयरूपप्रकाशाय मिकि-
ताः प्रदीपाः एवमेते गुणविशेषा इति योजना” ।
न्यायादिकते इन्द्रियाणामेकादशविधता वेदान्तपरिभाषा-
मते दशविधतेति भेदः इन्द्रियशब्दे उक्तः । “वपुषा करणो-
ज्झितेन सा” “करणापायविभिन्नवर्णया” रघुः “करणैर-
न्वितस्यापि पूर्वज्ञानं कथञ्चन” याज्ञ० । “आत्मन्यात्मानमेव
व्यपगतकरण पश्यतस्तत्त्वदृष्ट्या” वेणी० अत्र करणं बाह्ये-
न्द्रियम् । आधारे ल्युय् । ३ क्षेत्ररूपे देहे अमरः करणा-
श्रयत्वात् तस्य तथात्वम् । “उपमानमभूत् विलासिनां
करणं यत्तव कान्तिमत्तया” कृमा० । भावे ल्युट् । ४ क्रिया-
याम् । “प्र ते पूर्व्वाणि करणानि” ऋ० ४, १९, १० ।
“आवाहनाग्नौकरणरहिउतमपसव्यवत्” याज्ञ० । “हलस्य
करणे चापि व्यादिष्टाः सर्व्वशिल्पिनः” भा० व० २५४ अ०
“कृतस्य करणं नास्तातीति” प्राचीनगाथा । ५
सेतिकर्त्तगाके अनुष्ठाने ६ व्यापारमात्रे च । ७ ज्योति-
षोक्तेषु तिथ्यर्द्धात्मकेषु बवादिषु तेषामानयनप्रकारः
सूर्य्यसि० रङ्गना० उक्तो यथा ।
“ध्रुबाणि शकुनिर्नागं तृतीयं तु चतुष्पदम् । किन्तुघ्नं तु
चतर्दश्याः कृष्णायाश्चापरार्घतः” सू० सि० । “कृष्णपक्षी-
यायाश्चतुर्दश्यास्तिथेर्द्वितीयार्धाद्द्वितीयार्धसारभ्येत्यर्थः ।
चकार एवार्थे । तेनान्यातिथेरेतत्तिथिपूर्वार्धस्य च निरासः ।
ध्रुवाणि स्थिराणि करणानि । तान्याह । शकुनिरिति ।
चपुरष्पदं तृतीयमित्यनेन शकुनिनागयोः क्रमेणाद्यद्वितीयत्वं
सूचितम् । तुकारात् क्रमेण तिथ्यर्धेषु भवन्ति । किन्तुघ्नं
चतुर्थम् । तुरन्तावधिद्योतकः तेनोक्तातिरिकं स्थिरकरणं
नास्तीति सूचितम् हि अथ चरकरणान्याह” रङ्ग० ।
“बवादीनि ततः सप्त चराख्यकरणायि च । मासेऽष्टकृत्व
एवौकं करणानां प्रवर्तते” सू० सि० । “ततः स्पिर-
करणपूर्त्त्यनन्तरं बवादीनि चरसञ्ज्ञककरणानि सप्त भद्रा-
नानि शुक्लपतिपद्द्वितीयार्धतसुतुर्थ्यन्तं भवन्तीति चार्थः ।
ननु पञ्चम्यादितः कानि करणानि भवन्तीत्यत आह
मास इति । चरकरणानां बवादीनां सप्तानां मध्य
एकैकमेकमेकं करणं सासे स्थिरकरणकालोनितत्रिंशत्तिभ्या-
त्मकमासे स्वल्पान्तरत्वान्मासग्रहणम् । अष्टकृत्वोऽष्टवारः
प्रवर्तते प्रकर्पेण तिष्ठति भवतीत्यर्थः । तथा च पञ्च-
म्याद्यर्धादेतानि पुनः पुनः परिभ्रमन्ति । कृष्णचतुर्दश्या-
द्यार्धपर्यन्तमिति भावः । ननु स्थिरकरणोक्तावपरार्धत
इत्युक्त्या तेषां चतुर्णां तिथ्यर्धभोगेन शुक्लप्रतिपदाद्यर्ध-
पर्षन्तं क्रमेणावस्थान युक्तं चरकरणानां तु केवलोक्त्या
तदनन्तरं कृष्णचतुर्दश्याद्यार्धपर्थन्तमेक एव परिभ्रमोऽ-
स्त्वित्यतस्तदुत्तरं कथयन्नन्यदप्याह” रङ्ग० । “तिथ्यर्द्ध-
भोगं सर्वेषां करणानां प्रकल्पयेत् । एषा स्फुटमतिः
प्रोक्ता सूर्यादीनां खचारिणाम्” सू० सि०! “सप्तानां
चरकरणानां प्रत्येकं तिथ्यर्द्वश्चासौ भोगश्च तं तिथ्यर्ध-
कालमितावस्थानं प्रकल्पयेत् । “एकत्र निर्णीतः शास्त्रा-
र्थोऽपरत्र भवतीति” न्यायात् करणत्वेनैषामप्यवस्थानं
तत्तुल्यं कुर्यादित्यर्थः । अत एव “तिथ्यर्घं करणं स्मृतम्
इत्युक्त्या चान्द्रमासे त्रिंशत्तिथ्यात्मके षष्टिकरणानां
सन्निवेशाच्चरकरणानामेव परिभ्रमणे प्रतिमासमनियततिथि-
भोगकं करणं भवतीति तद्वारकप्रतिमासनियततिथि-
भोगककरणकसिद्ध्यर्यं चरकरणानामष्टवारपरिभ्रमणोत्त-
रमवशिष्टतिथ्योश्चतुर्ष्वर्धेषु स्थिरकरणान्युक्ताष्नीति तात्प-
र्यम् । तत्रापि कृष्णचतुर्दश्यपरार्धतस्तत्कल्पनं तदिच्छा-
नियामकं स्वतन्त्रेच्छस्य नियोगानर्हत्वात्” रङ्ग०
करणानि च वववालवकौलवतैतिलगरबणिग्विष्टिभद्राख्यानि
सप्त चरकरणानि । स्थिरकरणानि शकुन्यादीनीति ८ दशसं
ख्यानि । ८ जातिभेदे पुंस्त्री अभरः स्त्रियां जातित्वात् ङीष् ।
तज्जातिश्चव्रात्यात् क्षत्रियात् सवर्णायामुत्पन्नः जाति-
भेदः “झल्लोमल्लश्च राजन्यात् व्रात्यान्निच्छिविरेव च । नटश्च
करणश्चैव खसो द्रविड़ एव च” मनुः । करणरूपवर्णसङ्क-
रस्यैव कायस्थनामता तस्या कर्भविशेषपरिपाकेण तज्जा-
तिप्राप्तिस्तस्य वृत्तिभेदश्च ब्रह्मवै० पु० जन्मखण्डे ८५ उक्ते
यथा । “तैलचौरस्तैलकीटो मूर्द्ध्निकीटस्त्रिजन्मकम् ।
ततो भवेत् स्वर्णकारो जन्मैकं दुष्टमानसः । तमःकु-
ण्डे वर्षशतं स्थित्वा स्वर्णबणिग् भवेत् । जन्मैकञ्च
दुसाचारो जन्मैकं करणो भवेत् । विश्वैकलिपिकर्त्ता
च भक्ष्यदातुर्धनं हरेत् । कायस्थेनोदरस्थेन मातु-
र्मांस म नखादितम् । मत्र नास्ति कृपा तस्यदन्ताभावेक
पृष्ठ १६९१
केवलम् । स्वर्णकारः स्वर्ण्णबणिक् कायस्थश्च व्रजेश्वरः! ।
मरेषु मध्ये ते धूर्त्ताः कृपाहीना महीतले । हृदयं क्षु-
रधाराभं तेषाञ्च नास्ति सादरम् । शतेषु सज्जनः
कोऽपि कायस्थो नेतरौ च तौ । सुबुद्धिः शिवभक्तश्च
शास्त्रज्ञो धर्ममानसः” । ९ वर्णसङ्करजातिभेदे पुंस्त्री
“शूद्राविशोस्तु करणोऽम्बष्टौ वैश्याद्विजन्भनोः” ब्रह्मवै०
पु० । कायस्थश्च चतुर्विधः व्रात्यक्षत्रियः शूद्रावै-
श्वयोर्जातः करणनाम्ना प्रसिद्धः अम्यष्ठः चित्र-
गुप्तजातश्रीवास्तवश्च । कामस्थशब्दे विवृतिः । तस्य
वृत्तिमाह पराशरः । “धनधान्याध्यक्षता च राजसेवा
तथैव च । द्विजातेः परिचर्य्या च दुर्गान्तःपुरर-
क्षणम् । एषा पारशवस्योक्ता उग्रस्य करणस्य च
प्रोक्ता उगनसा वृत्तिरुभयत्र शुभप्रदा” । “नृत्यवादित्र-
गोतानां प्रयोगवशभेदिनाम् । संस्थानं ताड़नं रोधः
करणानि प्रचक्षते” राजकन्दर्पोक्ते तालव्यपस्थापके १०
ताड़नाविशेषे न० “शिखरासक्तमेघानाम् व्यज्यन्ते यत्र
वेश्मानाम् । अनुगर्ज्जितसन्दिग्धाः करणैर्मुरजस्वनाः”
कुमा० सर्वकरणप्रयोक्तृत्वात् ११ परमेश्वरे न० “करणं
कारणं कर्त्ता विकर्त्ता च मतो गुरुः” विष्णु० सं० ।
भवाद्यर्थे ततः काशा० ठञ् ञिठ च इकार उच्चारणार्थः ।
कारणिक तद्भवे स्त्रियां ष्ठञि ङीष् ञिठि टाप् ।
१२ क्रिसाधनस्त्रियां स्त्री ङीप् । क्रियते क्रियाविशेषो
ऽस्याम् आधारे ल्युट् ङीप् । वीजगणि-
तोक्ते यस्य वर्गमूलादिकं स्यष्टं न प्रतीयते तत्रक्रिया
विशेषद्वारा तत्करणविषये राशिभेदे स्त्री ।
सा च षड्विधा सङ्कलनव्यवकलनगुणभागवर्गवर्गमूल
रूपभेदात् । तत्रक्रियाविशेषोवीजगणिते दर्शितो यथा ।
“अथ करणी षड्विधा । तत्र सङ्कलनव्यवकलनयोः
करणसूत्रं वृत्तद्वयम् । योगं करण्योर्महतीं प्रकल्प बधस्य
मूलं द्विगुणं लघुञ्च । योगान्तरे रूपवदेतयोः स्तोवर्ग्गेण
वर्ग्गं गणंयेद्भजेच्च । लव्व्याहृतायास्तु पदं महत्याः
सैकं निरेकं स्वहतं लघुघ्नम् । योगान्तरे स्तः क्रमशस्त
योर्ब्बा पृथक् स्थितिः स्याद्यदि नास्ति मूलम् ।
उदाहरणम् । द्विकाष्टमित्योस्त्रिभसङ्ख्ययोश्च योमान्तरे ब्रूहि
पृथक्करण्योः । त्रिसप्तमित्योश्च चिरं विचि त्य चेत् षद्धिधां-
थेत्सि सखे! करण्याः ।
न्यासः क २ । क ८ योगे जातम् क १८ अन्तरे च क २
न्यासः क ३ । क २७ योगे जातम् क ४८ अन्तरे च
क १२ न्यासः क ३ । क ७ अनयोर्घातेमूलाभावात्पृथक्
स्थितिरेव योगे जातम् क ३ क ७ अन्तरे च क ३ क ७
इति करणीसङ्कलनव्यवकलने ।
गुणनोदाहरणम् । द्वित्र्यष्टसङ्ख्यागुणकः करण्या गुण्य-
स्त्रिसङ्ख्या च सपञ्चरूपा । वधं प्रचक्ष्वाशु विपञ्चरूपे
गुणेऽथ वा त्र्यर्क्कमिते करण्याः । न्यासः गुणकः क २
क ३ क ८ गुण्यः क ३ रू ५
अत्र गुण्येगुणके वा भाज्ये भाजके करणीनां
करण्योर्वा यथासम्भवं लाघवार्थं योगं कृत्वा गुणनभजने
कार्य्येतथा कृते जातो गुणकः क १८ क ३ गुण्यः
क २५ क ३ गुणिते जातम् रू ३ क ४५० क ७५ क ५४ ।
क्षयवर्गादौ विशेषसूत्रं वृत्तम् । क्षयोभवेच्च क्षय
रूपवर्गश्चेत्साध्यतेऽसौ करणीत्वहेतोः । ऋणात्सिकायाश्च
तथा करण्यामूलं क्षयोरूपविधानहेतोः ।
न्यासः गुणकः क २५ क ३ क १२ गुण्यः क २५ क २
अत्र गुणके करण्योर्योगे कृते गुणकः क २५ं क २३
गुणिते जातम् क ६२ं५ क ३७५ क ७५ क ८१
एतास्वनयोः क ६२५ क ८१ मूले रू २५ रू ९ अनयो-
र्योगे जातम् रू १६ अनयोः क ३७५ क ७५ अन्तरे
योगैति जातोयोगः क ३०० यथाक्रमं न्यासः रू १६
क ३०० इति करणीगुणनम् । पूर्ब्बगुणनफलस्य खगुण-
च्छेदस्य भागार्थं न्यासः भाज्यः क ९ क ४५० क ७५
क ५४ भाजकः क २ क ३ क ८ अत्र क २ क ८
एतयोः करण्योर्योगे कृते जातम् क १८ क ३ “भाज्या-
च्छेदः शुध्यति प्रच्युतः सन्” इत्यादिकरणेन लब्धोगुण्यः
रू ५ क ३
न्यासः भाज्यः क २५ ६ क ३०० भाजकः क २ं५ क
३ क १२ करण्योर्योगे कृते जातम् क २५ं क २७
अत्रादौ त्रिभिर्गुणयित्वा धनकरण्योः ऋणकरण्योश्च
योगं विधाय पश्चात्पञ्चविंशत्या गुणयित्वा शोधिते लब्धं
रू ५ क ३ अत्रापि पूर्ब्धवल्लव्धो गुण्यः रू ५ क ३
अथ वान्थथोच्यते । धनर्णत्राव्यत्ययमीप्सितायाश्छिदे
करण्याअसकृद्विधाय । तादृक्छिदा भाज्यहरौ निहन्या-
देकैव यावत्करणी हरः स्यात् । भाज्यास्तया भाज्यगताः
करण्योलब्धाः करण्यो थदि योगजाः स्युः । विश्लेष-
सूत्रेण पृथक् च कार्य्यास्थथायथा प्रष्टुरभीप्सिताः स्युः ।
तथा च विश्लेषसृत्रं वृत्तम् । यर्गेण योगकरणी विहृता
विशुध्येत् स्वण्डानि तत्कृतिपदस्य यथेप्सितानि । कृत्वा
पृष्ठ १६९२
तदीयकृतयः खलु पूर्व्वलब्ध्या क्षुण्णा भवन्ति पृथगेवमिमाः
करण्यः ।
न्यासः भाज्यः क ९ क ५४० क ७५ क ५४ माजकः
क १८ क ३ अत्र भाजके त्रिमितकरण्याः ऋणत्वं
प्रकल्प्य क १८ क ३ अनेन भाज्ये गुणिते योगे च
कृते जातम् क २६२५ क ६७५ भाजके च क २२५
अनया भाजये हृते लब्धम् क २५ क ३
न्यासः भाज्यः क २५६ क ३०० भाजकः क २५ं क
२७ अत्र भाजके पञ्चविंशतिकरण्याधनत्वं प्रकल्प्य क
२५ क २७ भाज्ये गुणिते धनर्ण्णकरणीनामन्तरे च कृते
जातम् क १०० क १२ भाजके च क ४ अनया भाज्ये
हृते लब्धमृ क २५ क ३ इदानीं पूर्व्वीदाहरणे गुण्ये
भाज्ये कृते न्यासः भाज्यः क ९ क ४५० क ७५ क ५४
भाजकः क २५ क ३ । अत्रापि त्रिकरण्याः ऋणत्वं
प्रकल्प्य भाज्ये गुणिते युते च जातम् क ८०१२ क
१४५२ भाजके च क ४८४ अनया हृते भाज्ये लब्धो
गुणकः क १८ क ३ । पूर्ब्बं गुणके स्यण्डत्रयमासीदिति
योगकरणीयम् १८ विश्लेष्या तत्र वर्गेण योगकरणी
विहृता विशुद्ध्येदिति नवात्मकवर्गेण ९ विहृता सती
शुध्यतीति लव्धं २ नवानां मूलम् ३ अस्य खण्डे, १,
४, पूर्ब्बलब्ध्या २ गुणिते, २, ८, एवं जातोगुणकः क २
क ३ क ८ इति करणीभजनम् ।
करणीवर्गादेरुदाहरणम् । द्विकत्रिपञ्चप्रसिताः
करण्यस्तासां कृतिं त्रिद्विकसङ्ख्ययोश्च । षट्पञ्चकत्रिद्वि-
कसम्मितानां पृथक् पृथङ्मे कथयाशु विद्वन्! । अष्टा-
दशाष्टद्विकसम्मितानां कृतीकृतानां च सखे! पदानि ।
न्यासः प्रथमः क २ क ३ क ५ । द्वितोयः क ३ क २ ।
तृतीयः क ६ क ५ क ३ क २ । चतुर्थः क १८ क ८
क २
स्थप्योऽन्त्यवर्गश्च चतुर्गुणान्त्यनिघ्न इत्यनेन गुण्यः पृथग्-
गुणकखण्डसमैत्यनेन वा जाताः क्रमेण वर्गाः प्रथमः
रू १० क २४ क ४० क ६० । द्वितीयः रू २
क २४ । तृतीयः रू १६ क १२० क ७२ क ६०
क ४८ क ४० क २४ अत्रापि करणीनां यथासम्भवं
योगं कृत्वा वर्गवर्गमूले कार्य्ये तद्यया क १८ क ८
क २ आसां वोगः क ७२ अस्यावर्गः क ५१८४ अस्या-
मूलं रू ७२ । इति करणीवर्गः ।
करणीमूले सूत्रं वृत्तद्वयम् । वर्गे करण्यायदि वा क-
रण्योस्तुल्यानि रूपाण्यथ वा बहूनाम् । विशोधयेद्रूप-
कृतेः पदेन शेषस्य रूपाणि युतोनितानि । पृथक्तदद्धे
करणीद्वयं स्यान्मूलेऽबह्वी करणी तयोर्य्या । रूपाणि
तान्येव कृतानि भूयः शेषाः करण्योयदि सन्ति वर्गे ।
उदाहरणम् । द्बितीयवर्गस्य सूलार्थं न्यासः रू ५ क
२४ रूपकृतेः २५ करणोतुल्यानि रूपाणि २४
अपास्य शेषम् १ अस्य मूलेन १ ऊनाधिकरूपाणामर्द्धे जाते
भूलकरण्यौ क २ व ३
प्रथमवर्गस्य न्यासः रू १० क २४ क ४० क ६०
रूपकृतेः १०० चतुर्विंशतिचत्वारिंशत्करण्योस्तुल्यानि रूपाण्य
पास्य शेषम् ३६ अस्यमूलेन ६ ऊ नाधिकरूपाणामर्द्धे
जाते, २, ८, तत्रापीमां २ मूलकरणीं द्वितीयां रूपा-
ण्येव प्रकल्प्य पुनः शषकरणीभिः सः एव विधिः कार्य्य-
स्तत्रेयं रूपकृतिः ६४ अस्याः षष्टिरूपाण्यपास्य शेषम्
४ अस्य मूलम् २ अनेनोनाधिकरूपाणामर्द्धे, ३, ५,
जाते मूलकरण्यौ क ३ क ५ मूलकरणीनां यथाक्रमं
न्यासः क २ क ३ क ५
तृगीयवर्गस्य न्यासः रू १६ क १२ ० क ७२ क ६० क ४८
क ४० क २४ रूपकृतेः २५६ करणीत्रितयस्यास्य क ४८
क ४० क २४ तुल्यानि रूपाण्यपास्योक्तवज्जाते खण्डे,
२, १४, महती रूपाणीत्यस्याः १४ कृतिः १९६ अस्याः
करणीद्वयस्यास्य क ७२ क १२० तुल्यरूपाण्यपास्योक्त-
वज्जाते खण्डे, ६, ८, पुनारूपकृतेः ६४ षष्टिरूपाण्य-
पास्योक्तवत्खण्डे, ३, ५, एवं मूलकरणीनां यथाक्रमं
न्यासः क ६ क ५ क ३ क २
चतुर्थस्य न्यासः रू ७२ क० इयमेव लब्धा मूलकरणी
७२ पूर्व्वं खण्डत्रयमासीदिति वर्गेण योगकरणी विहृता
शुध्यतीति षट्त्रिंशतोमूलम् ६ एतस्य खण्डानां, १, २,
३, कृतयः, १, ४, ९, पूर्ब्बलब्ध्यानया २ क्षुण्णाः, २,
८, १८, एवं पृथक्करण्योजाताः क २ व ८ क १८ ।
अथ वर्गगतर्ण्णकरण्यामूलानयनार्थं सूत्रं वृत्तम् ऋणा
त्मिका चेत्करणी कृतौ स्याद्धनात्मिकां तां परिकल्प्य
साध्ये । म्ले करण्यावनयोरभीष्टा क्षयात्मिकैका सुधि-
यावगम्या ।
उदाहरणम् । त्रिसप्तमित्योर्वद मे करण्योर्विश्लेषवर्गं
कृतितः पदं च ।
न्यासः क ३ क ७ यद्वा क ३ क ७ अनयोर्वर्गः समएव
रू १० क ८४ अत्र वर्गे ऋणकरण्याधनत्वं प्रकल्प्य
पृष्ठ १६९३
प्राग्वल्लब्धकरण्योरेकाभीष्टा ऋणगता स्यादिति जातम्
क ३ क ७ वा क ३ क ७ं
उदाहरणम् । द्विकत्रिपञ्चप्रमिताः करण्यः स्वस्वर्णगा-
स्वस्वधनर्ण्णगावा । तासां कृतिं ब्रूहि कृतेः पदं च चेत्
षद्धिधा बेत्सि सखे! करण्याः ।
न्यासः क २ क ३ क ५ं वा क २ं क ३ं क ५ आसां
वगः समएव जाताः रू १० क २४ क ४०ं क ६० ।
अत्र ऋणकरण्योस्तुल्यानि धनरूपाणि १०० रूपकृतेः
१०० अपास्य शेषस्य मूलम्० अनेगोनाधिकरूपाणा-
मर्द्वे क ५ का अत्रैका ऋणम् क ५ं अन्या रूपाणीति
न्यासः रू ५ क २४ पूर्व्ववज्जाते करण्यौ धने एव । क ३
क २ यथाक्रमं न्यासः क २ क ३ क ५ं अथ वानयोः क
क २४ क ६० तुल्यानि धनरूपाणि ८४ रूपकृते १००
रपास्योक्तवज्जाते मूलकरण्यौ क ७ क ३ अनयोर्म्महती
ऋणं क ७ं तान्येव रूपाणि प्रकल्प्य रू ७ं क ४० अतः
प्राग्वत्करण्यौ क ५ क २ अनयोरपि महती ऋणमिति
यथाक्रमं न्यासः क ३ क २ क ५ं
अथ द्वितीयोदाहरणे प्राग्वत्प्रथमपक्षे मूलकरण्यौ क ५
क ५ अनयोरेका ऋणं क ५ं तान्येव रूपाणीति
ऋणोत्पन्ने करणीखण्डे ऋणे एवेति यथाक्रमं न्यासः क ३ं क
२ं क ५ं द्वितीयपक्षेणापि यथोक्ताएव मूलकरण्यः क ३ं
क २ं क ५ं एवं बुद्धिमतानुक्तमपि ज्ञायते इति पूर्व्वैर्नाय-
मर्थो विस्तीर्योक्तः बालावोधार्थं तु मयोच्यते ।
एकादिसङ्कलितमितकरणीखण्डानि वर्गराशौ स्युः । वर्गे
करणीत्रितये करणीद्वितयस्य तुल्यरूपाणि । करणीषटके
तिसृणां दशचतसृणां तिथिषु च पञ्चानाम् रूपकृतेः प्रोह्य
पदं ग्राह्यं चेदन्यथा नसत् क्वापि । उत्पत्स्यमानयैवं
मूलकरण्याल्पया चतुर्गुणया । यासामपवर्त्तः स्याद्रूपकृतेस्ता-
विशोध्याः स्युः । अपवर्त्तादपि लब्धामूलकरण्योभवन्ति
ताश्चापि । शेषविधिना न यदि ताभवन्ति मूलं तदा
तदसत् । करणीवर्गराशौ रूपैरवश्यं भवितव्यम् एककर
ण्यावर्गे रूपाण्येव । द्वयोः स्वरूपैका करणी । तिसृणां
तिस्रः । चतसृणां षट् । पञ्चाना दश । षण्णां पञ्च-
दश इत्यादि । अतोद्व्यादीनां वर्गेषु एकादिसङ्कलितमि-
तानि कतणीनां खण्डानि रूपाणि यथाक्रमं स्युः ।
अथ यदि उदाहरणे तावन्ति न भवन्ति तदासौ योगकर-
णी विश्लेष्या वा भवतीति कृत्वा मूलं ग्राह्यमित्थर्थः ।
वर्गे करणीत्रितये करणीद्वितयस्य तुल्यरूपाणीति स्पष्टा-
र्थम् । उदाहरणम् । वर्गेयत्र करण्योदन्तैःसिद्धैर्गजै-
र्म्मिताविद्वन्! । रूपैर्द्दशभिरुपेताः किम्मूलंब्रूहि तस्य
स्यात् । न्यासः रू १० क ३२ क २४ क ८ अत्र वर्ग
करणीत्रितये करणीद्वितयस्यैव तुल्यानि रूपाणि प्रथमं
रूपकृतेरपास्य मूलं ग्राह्यं पुनरेकस्याएवं क्रियमाणेऽत्र
पदं नास्तीत्यतोऽस्य करणीगतमूलाभावः । अथानियमेन
सर्व्वकरणीतुल्यानि रूपाण्यपास्य मूलमानीयते तदिदम्
क २ क ८ ममागच्छति इदमसत् यतोऽस्य वर्गोयम् रू १८
अथ वा दन्तगजमितयोर्योगं कृत्वा रू १० क ७२ क
२४ आनीयते तदिदमप्यसत् रू २ क ६ ।
उदाहरणम् । वर्गे यत्र करण्यस्तिथिबिश्वहुताशनैश्चतुर्गु-
णितैः । तुल्यादशरूपाढ्याः किम्मूलं ब्रूहि तस्य स्यात् ।
क ६० क ५२ क १२ अत्र किल वर्ग करणीत्रयमस्तीति
न्यासः रू १० तत्करणीद्वयस्य द्विपञ्चाशद्द्वादशमितस्य क
५२ क १२ तुल्यरूपाण्यपास्य ये मूलकरण्य वुत्पद्येते
क ८ क २ तयोरल्पयानया २ चतुर्गुणया ८ द्विपञ्चा-
शद्वादशमितयोरपवर्त्तोन स्यादतस्ते न शोध्ये यतौक्तमु-
त्पत्स्यमानयैवमित्यादि । अत्राल्पयैकयेत्युपलज्ञणम् तेन
क्वचिन्महत्यापि तढा मूलकरणीरूपाणि प्रकल्प्यान्ये
करणीखण्डे साध्ये सा महती प्रकल्प्येत्यर्थः उदाहरणम् ।
अष्टौ षट्पञ्चाशत् षष्टिः करणी त्रयं कृतौ यत्र । रूपैर्द-
शभिरुपेतं किम्मूलं ब्रूहि तस्य स्यात् । न्यासः रू १०
क ८ क ५ ६ क ६० अत्राद्यखण्डद्वये क ८ क ५६ शोधते
उत्पन्नयाल्पया चतुर्गुणया ८ तयोः खण्डयोरपबर्त्तेन-
लव्धेखण्डे । १ । ७ । परं शेषविधिना मूलकरण्यौ
नीत्पद्येते अतस्ते खण्डे न शोध्ये अन्यथा तु शोधने
कृते मूलं नायातीत्यतस्तदसत् । उदाहरणम् । चतुर्गु-
णात् सूय्यतिथीषुरुद्रनागर्त्तवोयत्र कृतौ करण्यः ।
सबिश्वरूपावद तत्पदं ते यद्यस्ति वीजेपटूताभिमानः ।
न्यासः रू १३ क ४८ क ६० क २० क ४४ क ३२ क २४
अत्र करणीषट्के तिसूणां करणीनां तुल्यानि रूपाणि
प्रथमं रूपकृतेरपास्य भूलं ग्राह्यं प्रश्चाद्द्वयोस्ततएकस्या-
एवं कृतेऽत्र मूलाभावः । अथान्यथा तु प्रथममाद्यकर-
ण्यास्तुल्यानि रूपाण्यपास्य पश्चाद्द्वितीयतृतीयोस्ततः
शेषाणां रूपकृतेर्विशोध्यानि तम्बूलम् क १ क ३ क ५
क ५ तदिदमप्यसत् यतोऽस्य वर्ग्गोयम् रू २३ क ८ क
८० क १६० । यैरस्य मूलानयनस्य निममोन कृतस्तेषामिदं
दूषणम् एवं व्दिघवर्गे करणीनामासन्नमूलकरणेन मूलान्या-
पृष्ठ १६९४
नीय रूपेषु प्रक्षिप्य मूलं वाच्यम् । अथ महतीरूपाणो-
त्युपलक्षणम् । यतः क्वचिदल्पापि ।
तत्रोदाहरणम् । चत्वारिंशदशीतिर्द्विशतीतुल्याः क
रण्यश्चेत् । सप्तदशरूपयुक्तास्तत्र कृतौ किम्पदं ब्रूहि ।
न्यासः रू १७ क ४० क ८० २०० गोधिते जाते
खण्डे क १० क ७ पुनः लघ्वीं करणीं रूपाणि कृत्वा
लब्धे करण्यौ क ५ क २ । एवं मूलकरणीनां न्यासः
क १० क ५ क २ । इति करण्याः षड्विधाः ।

करणत्राण न० करणैर्हस्तादिभिस्त्रायते त्रै--कर्मणि ल्युट् । मस्तके ।

करणव्यापार पु० ६ त० । करणजन्यजनकत्वबिशिष्टे करण

जन्ये त्यापारभेदे । यथा छेदनादिक्रियायां छेद्यदा
त्रादिसंयोगः तस्य हि दात्रजन्यत्वात् दात्रजन्यच्छेदनज-
नकत्वाच्च तथात्वम् । एवमिन्द्रियाणां विष्यसंयोगः तस्य
हि इन्द्रियजन्यत्वात् इन्द्रियजन्यप्रत्यक्षज्ञानजनकत्वाच्च-
तथात्वम् न्यायप्तते अनुमितौ परामर्शः शाब्दबोधे पदार्थ-
स्मृतिः । उपमितौ उपदेशवाक्यार्थस्मृतिः । यथायथमु-
ह्यम् । सांख्यमतसिद्धकरणव्यापारभेदस्तु करण्शब्दे उक्ताः ।

करणाधिप पु० ६ त० । १ जीबे तदाधष्ठानेनैव करणानां

स्वस्वकार्य्येषु प्रवृत्तेस्तस्य तदधिपत्वम् २ इन्द्रियाधिष्ठातृ-
देवभेदे च । तत्र बाह्येन्द्रियाघिष्ठातारश्च शा० ति०
उक्ता यथा “दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रकाः ।
श्रोत्रादीनां दशानां तु” । तथा च श्रोत्रस्य
दिक् । त्वचो वायुः । नेत्रस्य अर्कः । रसनायाः
प्रचेताः नासिकायाः अश्विसुतौ । वाचः वह्निः, पाणेरिन्द्रः
पादस्य उपेन्द्रोविष्णुमूर्त्तिमेदः । पायोः मित्रः सूर्य्य-
मूर्त्तिभेदः । उपस्थस्य कः प्रजापतिः । अन्तःकरानान्तु
मनसश्चन्द्रः, बुद्धेश्चतुर्मुखः अहङ्कारस्य रुद्रचित्तस्याच्यु-
तोविष्णुमूर्त्तिभेदः । करणाधिपानाञ्च सर्वेषामधिपः
परमेश्वरः । करणाधिपाधिप्रः परमेश्वरः ।

करण्ड पु० कृ--कर्मणि अण्डन् । १ मधुकोषे (मौवाकं) तस्यम-

क्षिकाभिश्चिरमधुसञ्चयनेन क्रियमाणत्वात् तथात्वम् वा०
कॄ--अण्डच् । २ खडगे शत्रुविक्षेपहेतुत्वात् तस्य तथात्वम्
करण्डस्तदाकारोऽस्त्यस्य अर्श० अच् । ३ कारण्डवखगे
पुंस्त्री स्त्रियां जातित्वेऽपि संयोगपधत्वात् न ङीष्
किन्तु टाप् । ४ दलाढके च मेदि० । ५ वंशादिरचितपुष्पा-
दिपात्रभेदे (साजि) “शुष्कवनलतानिर्मितं महाकुसुमकर-
ण्डकेन” काद० । सभुद्गे (कौटा) अमरः । “दीपभाज-
नभ्रमरकरण्डप्रभृव्यनेकोपकरणयुक्तः” दशकुभा० ।
७ यकृति कालखण्डे शब्दचि० । ८ पुष्पभाण्डे स्त्री टाप्
अत इत्त्वम् करण्डिका । उज्ज्वलदत्तः ।

करण्डिन् पु० करण्डस्तदाकारोऽस्त्यस्य इनि । मत्स्ये त्रिका ० ।

करतल ७ त० । ६ त० १ हस्तस्य तले (हातेरतेलो) । “नखानि

विधुशङ्कया करतलेन तण्व्यावृणोत्” उद्भटः “करतलधृत-
मपि नश्यति” हितो० । करस्तलमिव । २ हस्ते च ।

करताल (क) न० करेण ताले यत्र वा कप् । झल्लके वाद्ये

(खरताल) “शिवागारे झल्लकञ्च सूर्य्यागारे च शङ्खकम् ।
दुर्गागारे वंशिवाद्यं मधुरीञ्च न वादयेत्” ति० त० पु०
तत्र झल्लकं कांस्यनिर्म्मितकरतालकमिति” रघु० ।

करताली स्त्रौ करेण दीयमानस्तालो यत्र गौरा० ङीष् ।

१ वाद्यभेदे (खरतल) त्रिका० । ६ त० । २ करतङ्शब्दे
(हातताली) । पु० क्वचित् स्त्रीत्वमपि “यया न स्या-
दालीकपटकरतालीपटुरवः” उद्भटः स्वार्थे कन् अत
इत्त्वम् । करतालिकापि करतलशब्दे “उच्चाटनीयः
करतालिकानां दानादिदानीं भवतीभिरेषः” नैष० ।

करतोया स्त्री करतोयं हरपार्ब्बतीविवाहच्युतजलत्

अस्त्यस्या हेतुत्वेन अच् । नदीभेदे सदानीरायाम् अमरः ।
गौराविवाहे शङ्करकरच्युतजलभवत्वात् तस्यास्तथात्वम् ।
तस्याश्च यथा सदानीरत्वं तथोक्तं स्मृतौ “प्रथमं कर्कटे
देवी त्र्यहं गङ्गा रजस्वला । सर्व्वा रक्तवहानद्यः करतोया
ऽम्बवाहिनीति” तेनान्यनदीनामिवास्याः उक्तकाले रक्त-
वहत्वाभावात् सदानीरवाहित्वात्तथात्वम् । “करतोषां
समासाद्य त्रिरात्रोपोषितोनरः । अश्वमेधमवा-
प्नोति प्रजापतिकृतोविधिः” भा० व० ८५ । “करतो-
यां कुरङ्गे च त्रिरात्रोपोषितो नरः । अश्वमेधमवाप्नोति
विगाह्यप्रयतः शुचिः” भा० अनु० २३ अ० । अस्त्यर्थे
इनि करतोयिन्यप्यत्र । “प्रभासं मानसं तीर्थं पुष्क-
राणि महत् सरः । पुण्यञ्च नैमिषं तीर्थं वाहुदां क
तोयिनीम्” अनु० प० ।

करद त्रि० करं राजस्वं ददाति ना--क । १ राखदायके ।

“कच्चिन्न शूद्रेण न हीनजेन वैश्येन वा करदेनोप-
पन्ना” भा० आ० १९२ अ० । “य इमे पृथिवीपालाः
करदास्तव पार्थिव!” भा० व० २५४ अ० “भ्रातृभिर्जि-
त्वरैर्द्विषाम्” माघः । २ त्राणार्थं हस्तदायके त्रि० ।

करद्रुम पु० किरति समन्तात् शाखाः कॄ--अच् नित्यस० ।

कारस्करवृक्षे राजनि० ।
पृष्ठ १६९५

करद्विष् पु० १ गोत्रभेदे २ वेदशाखिभेदे च । “तामेताः कर-

द्विष उपासते तस्मात्ते सर्व्वमायुर्यन्ति” ता० २, १५, ४,
“करद्विषोनाम गोत्रभेदाः शाखिभेदा वा” भा० ।

करन्धम पु० करं धमति ध्मा--खश् मुम् च । १ इक्ष्वाकुवंश्ये

खनीनेत्रपुत्रे मुवर्चीनृपे तस्य तन्नामनिरुक्तिः भा० आश्व०
४ अ० । “खनीनेत्रस्यदुर्वृत्ततामुक्त्वा “तमपास्य च तद्राज्ये
तस्य पुत्रं सुवर्चसम् । अभ्यषिञ्चन्त राजेन्द्र! मुदिताह्यभव
स्तदा । स पितुविक्रियां दृष्ट्वा राज्यान्निरसनं तथा ।
नियतोवर्त्तयामास प्रजाहितचिकीर्षया । ब्रह्मण्यः सत्यवादी
च शुचिः शमदमान्वितः । प्रजास्तञ्चान्वरज्यन्त धर्मनित्यं
मनीषिणम् । तस्य धर्म्मप्रवृत्तस्य व्यशीर्य्यत् कोषवा-
हनम् । तं क्षीणकोषं सामन्ताः समन्तात् पर्य्यपीडयन् ।
स पीड्यमानो बहुभिः क्षीणकोषाश्ववाहनः । आर्त्तिमा-
र्च्छत् परां राजा सह भृत्यैः पुरेण च । नचैनमभिहन्तुं
ते शक्नुवन्ति बलक्षये । स प्रवृत्तो हि राजा स धर्मनित्यो
युधिष्ठिर! । यदा च परमामार्त्तिं गतोऽसौ सपुरो
नृपः । ततः प्रदध्मौ स करं प्रादुरासीत्ततोवरम् ।
ततस्तानजयत् सर्वान् प्रत्यमित्रान्नराधिपान् । एतस्मात्
कारणाद्राजन्! यिश्रुतः स करन्धमः । तस्य कारन्धमः
पुत्रस्त्रेतायुगमुखेऽभवत्” २ पाणिन्धमे मुखमारुतप्रशेनेन
हस्ताध्मायकमात्रे त्रि० ।

करन्धय त्रि० करं धयति धे--खश् मुम् च । हस्तलेहके ।

करन्यास पु० करे करावयवे न्यासः । तन्त्रोक्तमन्त्रभेदेन

अङ्गुष्ठतर्ज्जनीमध्यमानामाकनिष्ठकतरतलपृष्ठेषु न्यासभेदे
“अङ्गन्यासः करन्यासो वीजन्यासस्तथैव च” वटुकस्त० ।

करपत्त्र न० करात् पतति--पत--ष्ट्रन् । (करात) १ क्रकचे दारु-

भेदके अस्त्रभेदे अमरः । “स्फुटञ्च पत्रैः करपत्रमूर्त्तिभि-
र्वियोगहृद्दारुणि दारुणायसे” नेष० केतकवर्ण्णने । तच्च
सुश्रुतोक्तशस्त्रभेदः । तत्र हि “विंशतिः शस्त्राणि” इत्यु-
द्दिश्य “मण्डलाग्रकरपत्रेत्यादिना” विभज्य “तत्र मण्ड-
लाग्रकरपत्रे स्यातां छेदने भेदने चेति” तस्योपयोग उक्तः ।
करावेव पत्रं वाहनं यत्र । २ जलक्रीडायाम जटाधरः ।
तत्र हि हस्ताभ्यां जलमुत्तोल्य परस्परं क्रोड्यते ।

करपत्रवत् पु० करपत्त्रं तदाकारः पत्रवृन्तेऽस्त्यस्य मतुप् मस्य

वः । तालवृक्षे शब्दच० ।

करपत्रिका स्त्री करौ पत्रमिव वाहनमस्याः कप् अत इत्त्वम् ।

जलक्रीडायां जटा० । हस्ताभ्यां जलोत्तोलनेन अन्योन्यं
तत्क्रीडारचनात्तस्यास्तथात्वम् ।

करपर्ण्ण पु० करः हस्त इव पर्ण्णं यस्य । (भ्येट) १ भिण्डातक-

वृक्षे २ रक्तैरण्डे च (लालभेरण्डा) राजनिघण्टुः ।

करपल्लव पु० करस्य पल्लव इव । १ अङ्गुलौ । करः पल्लव इव

रक्तत्वात् । २ करकिलये । “करपल्लवसङ्गीनि तैरस्मान् रक्ष
सर्वतः” देवोमा० ।

करपात्र न० करः पात्रभिव यत्र । १ जलक्रोड़ाभद हारा०

कररूपेणैव पात्रेण जलोत्तोलननेन तत्क्रीड़ाकरणा-
त्तस्यास्तथात्वम् । कर एव पात्रम् । २ हस्तरूपे पात्रे च ।
“करपात्रे स्थिते तोये कृत्वा मूत्रपुरीषके । आसुरं तत्
भवेत्तोयं पीत्वा चान्द्रायणं चरेत्” आ० त० स्मृतिः ।

करपाल पु० करं पालयचि पाल--अण् उप० स० । १ खड्गे

अमरटीका । गौरा० ङीष् । २ हस्तयष्टौ (सींटा) स्त्री
जटा० । ण्वुल् टाप् अतैत्त्वम् । करपालिकाऽप्यत्र
स्त्री । सा च एकधारास्त्रभेदे क्षीरस्वामी ।

करपीडन पु० करस्य बधूकरस्य पोड़नं ग्रहणं वरेण यत्र ।

१ विबाहे “सुतपरिष्णयात् षण्मासान्तः सुताकरपीड़नम्”
मु० चि० । पाणिपीडनादयोऽप्यत्र ।

करबाल पु० करस्य बालः शिशुरिव । १ नखे शब्दमा० । करं

बलति संवृणोति बल--संवणे अण् उप० स० । २ खड्गे
(तरवाल) भरतः “शक्तीश्च विविधास्तीक्ष्णाः करबालांश्च
निर्मलान्” भा० आ० ३ ७ । ण्वुल् अत इत्त्वम् । करबा-
लिका अस्त्रभेदे स्त्री ।

करभ पु० कॄ--अभच् करे भाति भा--क घा । मणिबन्धात्

कनिष्ठापर्य्यन्ते करस्य १ बाह्यदेशे, अमरः । २ करिशावके,
“कदली कदली करभः करभः” प्रसन्नरा० “करभोरु
रतिप्रज्ञे द्वितीये पञ्चमेऽप्यहम्” विद्यासु० ३ उष्ट्रशिशौ
(नखी) नाम ४ ग्रन्धद्रव्ये, ५ उष्ट्रमात्रे पुंस्त्री मेदि० ।
स्त्रियां ङीष् “करभकण्ठकडारमाशाः” माघः “स तु
बृत्तस्य परिघं करञ्च करभोपमम्” भाग० ६, १२, २१ ।
“व्यजायन्त खरा गीषु करभाऽश्वतरीषु च” भा० मौस०
२ अ० । करोबभेत्यस्याः क्विप् भी बा० ड गौरा०
ङीष् या । ६ करभी वृश्चिकाल्याम् स्त्री (विछाति) स्वार्थे
कन् करभक । उष्ट्राद्यर्थे पुं स्त्री । स्त्रियां करभिका ।

करभकाण्डिका स्त्री करभप्रियं काण्डमस्याः कप् अत

इत्त्वम् । उष्ट्रकाण्डीवृक्षे राजनि० ।

करभञ्जिका स्त्री भन्ज--ण्वुल् ६ त० । करमर्द्दभेदे भावप्र०

करभप्रिवा स्त्री ६३० । १ क्षुद्रदुरालभायाम् राजनि०

उष्ट्रप्रियत्वात्तस्यास्तथात्वम् । २ उष्ट्रयोषिति च ।

करभवल्लभ पु० ६ त० । १ उष्ट्रप्रिये रीलुवृक्षे, २ कपित्यवृक्षं

च राजनि० । २ करभप्रियमात्रे त्रि० । स्त्रियां टाप् ।
पृष्ठ १६९६

करभादनो स्त्री करभैरद्यते अद--कर्म्मणि ल्युट् ङीप् ।

उष्ट्रप्रियायां दुरालभायाम् राजनि०

करभिन् पुंस्त्री करभः करावयषभेदस्तदाकारः शुण्डेऽस्त्यस्य

इनि । गजे राजनि० तस्य शुण्डे करभाकारत्वात्
तथात्वम् । स्त्रियां ङीप् ।

करभीर पु० करभिणं गजमोरयति पलायनाय प्रेरयति ईरअण् । सिंहे शब्दर० ।

करभूषण न० करोभूष्यतेऽनेन भूष--करणे ल्युट् । १ कङ्कले

(काङ्गनि) हस्तभूषणे अमरः । करं भूषयति भूष--णिचि-
स्यु । २ हस्तभूषणमात्रे त्रि० ।

करभोरु स्त्री करभ इव ऊरुर्यस्याः ऊङ् । प्रशस्त्रोरुकायां उत्तमस्त्रियाम् ।

करमट्ट पु० करं हस्तिशुण्डमट्टति अट्ट--अनादरे बा० ख

मुम् च । १ गुवाकवृक्षे त्रिका० तस्य हस्तिशुण्डवत्-
काण्डत्वात्तथात्वम् । (पाणिया आमला) २ वृक्षे इत्येके ।

करमरिन् त्रि० किरत्यत्र दम्यान् कृ--आधारे अप्

करोबन्धनागारः तत्र म्रियते बा० इनि । (कयेदी) बन्दिनि
त्रिका० तस्य बन्धनागारे मरणात्तथात्वम् ।

करमर्द्द पु० करं मृद्नाति मृद--अणुप० स० । (पाणियाआमला)

वृक्षे राजनि० । ण्वुल् करमदकोऽप्यत्र । तत्स्पर्शेहि
करकण्डूरिति तस्य तथात्वम् । “लघुदीर्घफलाभ्यां तु करमर्द्द
द्वयं मतम् । करमर्दद्वयं त्वाममम्लं गुरु तृषाहरम् ।
उष्ण रुचिकरं प्रोक्तं पित्तरक्तकफप्रदम् । तत् पक्कं मधुरं
रुच्यं लघु पित्तसमीरजित्” भाबप्र० “करमर्द्दाल्लघुफला
सा ज्ञेया करमर्द्दिका” इति तत्रोक्ते लघुफलकेऽत्र स्त्री

करमर्द्दिन् पु० कर मृद्नाति णिनि ६ त० । करमर्द्दे

(पाणिया आमला) वृक्षे रत्नमा० ।

करमाल पु० करः हस्तिशुण्डैव तदाकृतिर्मालाऽस्य ।

धूमे हेम० क्रमेण हस्तिशुण्डाकारेण प्रसरणात्तस्य तथात्वम्

करमाला स्त्रो करः कराङ्गुलिपर्व मालेव जपसंख्याहेतु-

त्वात् । “आरभ्यानामिकामध्यं दक्षिणावर्त्तयोगतः ।
तर्जनीमूलपर्य्यन्तं करमाला प्रकीर्त्तिता” इत्युक्तलक्षणायां
जपसंख्यार्थं कराङ्गुलिपर्वरूपायां मालायाम् । अत्र
विशेषस्तन्त्रसा० उक्तः यथा सनत्कुमारसंहितायाम्
“तर्ज्जनी मध्यमानामा कनिष्ठा चेति ताः क्रमात् ।
तिस्रोऽङ्गुल्यस्त्रिपर्वाणो मध्यमा चैकपर्विका । पर्वद्वयं
सध्यमाया मेरुत्वेनोपकल्पयेत्” । क्रममाह तत्रैव
“अनामामध्यमारभ्य कनिष्ठादित एव च । तर्जनीमूल-
पर्य्यन्तं दशपर्वसु सं जपेत्” । तत्रैव । “अनामामूलमारभ्य
कनिष्ठादित एव च । तर्जनीमध्यपर्य्यन्तमष्टपर्वसु
संजपेत्” । एतद्वचनन्तु अष्टोत्तरशतविषयम् विष्णुविषयञ्च ।
शक्तिविषये पुनः “अनामिकात्रयं पर्व कनिष्ठा च त्रि-
पर्विका । मध्यमायाश्च त्रितयं तर्ज्जनीमूलपर्वणि ।
तर्जन्यग्रे तथा मध्ये यो जपेत् स तु पापहृत्” । अन्यच्च
“अवामामूलमारभ्य प्रादक्षिण्यक्रमेण च । मध्यमा-
मूलपर्य्यन्तं संजपेदष्टपर्वसु” । इदमपि अष्टोत्तरशत-
विषयम् । हंसपारमेश्वरे “र्पवत्रयमनामायाः
परिवर्त्तोन वै क्रमात् । पर्वत्रयं मध्यमायास्तर्जन्येकं
समाहरेत । पर्वद्वयन्तु तर्ज्जन्याः मेरुंतद्विद्धि पार्वति! ।
शक्तिमाला समाख्याता सर्वतन्त्रप्रदीपिता । श्रीविद्या-
यामयं विशेषः । “अनामामूलमारभ्य प्रादक्षिण्यक्रमेण
च । मध्यमामूलपर्य्यन्तं दशपर्वसु संजपेत्” । अन्यच्च
“मध्यमाया अनामाया मूलाग्रञ्च द्वयं द्वयम् । कनिष्ठा-
याश्च तर्ज्जन्यास्त्रयं पर्व महेश्वरि! । अनामामध्यम-
योश्च मेरुःस्यात् द्वितयं शुभम् । प्रादक्षिण्यक्रमाद्देवि ।
जपेत् त्रिपुरसुन्दरीमिति” यामलात् “कनिष्ठामूलमारभ्य
प्रादक्षिण्यक्रमेण तु । तर्ज्जनीमूलपर्य्यन्तं जपदष्टसु
पर्वसु” इति श्रीक्रमवचनाच्च । इदमपि तथैव । मुण्ड-
मालातन्त्रे “अनामिकाद्वयं पर्व कनिष्ठादिक्रमेण
तु । तर्जनीमूलपर्य्यत्तं करमाला प्रकीर्त्तिता । अङ्ग-
लीं न वियुञ्जीत किञ्चिदाकुञ्चिते तले । अङ्गुलीनां
वियोगाच्च छिद्राच्च स्रवते जपः” । अन्यत्रापि । “अङ्गुल्यग्रे
च यज्जप्तं यज्जप्तं मेरुलङ्घने । पर्वसन्धिषु यज्जप्तं
तत्सर्वं निष्फलं भवेत् । गणनाविधिमुल्लङ्घ्य यो जपेत्
तज्जपं यतः । गृह्णन्ति राक्षसास्तेन गणयेत् सर्वथा बुधः ।
जपसंख्या तु कर्त्तव्या नासंख्यातं जपेत् सुधीः ।
असंख्याकारकस्यास्य सर्वं भवति निष्फलम् । हृदये हस्तमा-
रोप्य तिर्य्यक् कृत्वा कराङ्गुलीः । आच्छाद्य वासमा हस्तौ
दक्षिणेन सदा जपेत्” । गायत्रीजपे विशेषः विधानपा०
गायत्रीहृदये “अनामिकामध्यरेखावध्यधः प्रक्रमेण च ।
तर्ज्जन्थादिगतान्ते च अक्षमाला करे स्थिता”
अनामिकाया मध्यरेखामादिं कृत्वा तर्जन्या आदिरेखा अन्ते
यस्याः सेयं करे स्थिता मालेत्यर्थः विघानपा० । तत्रैव
यमः । “सहस्रपरमां देवीं शतमध्यां दशाबराम् ।
गायत्रीं तु जपेन्नित्थं सर्वकलमषनाशिनीम् । पर्वभिस्तु
जपेद्देवीमन्यत्रानियमः स्मृतः । गायत्र्यावेदवीजत्वात्
गदितं ब्रह्मणा स्वयम् । अङ्गष्ठाग्रेण यज्जप्तं बज्जप्तं
पृष्ठ १६९७
मेरुलङ्घतात् । असंख्यातं तथा जप्तं तत्मर्वं निष्फलं
भवेत्” मदनपारिजाते तु मध्यमाया द्वयं पर्वेतिपाठः ।
आ० त० शङ्खः । “तिस्रोऽङ्गुल्यस्त्रिपर्व्वाणो मध्यमा
चैकपर्विका । अनामामध्यमारभ्य जप एवमुदाहृतः”
काग्ये मालाऽभावे एवास्याग्राह्यता नित्ये तु सर्वथैव ग्रा-
ह्यता यथाह योगिनीत० । “नित्यं जपं करे कुर्य्यान्न-
काम्यमवरोधनात् । काम्यमपि करे कुर्य्यात् मालाऽभावे
प्रियंवदे! । तत्राङ्गुल्या जपं कुर्य्यात् साङ्गुष्ठाङ्गुलिभि-
र्जपेत् । अङ्गुष्ठेन विना कर्म कृतं तन्निष्फलं भवेत्”
उत्पत्तितन्त्रे १ प० “नित्यं नैमित्तिकं काम्यं करे कुर्य्या-
द्विचक्षणः । करमाला महादेवि! सर्वदोषविवर्जिता ।
छिन्नभिन्नादिदोषोऽपि करे नास्ति कदाचन । अक्षया तु
करे देवि! माला भवति तादृशी । ग्रन्थिः सा कुण्डली-
शक्तिः पञ्चाशद्वर्ण्णरूगिणी । अतएव महेशानि!
करमाला महाफला” । ततश्च दक्षिणेनेति प्रागुक्तेः दक्षह-
स्तपर्वमिरेव दशसंख्यजपः कार्य्यः । शतादिजपे तु
दक्षिणहस्तेन कृतजपदशसंख्यायाः प्रत्येकं दशकसं-
ख्यागणना वामहस्तस्थितनिर्द्दिष्टपर्व्वक्रमेण कार्य्या तथा
च दशकस्य दशकेन गणने शतसंख्यापूर्त्तिः । अधिकाष्ट
संख्या तु दक्षहस्तेर्नव प्रागुक्तरीत्य कार्य्योति तत्त्वम् ।

करमुक्त न० करे स्थापयित्वा मुच्यते शत्रुं प्रति क्षिप्यते

मुच--क्त (वड़शी) अस्त्रभेदे हेमच० ।

करम्ब त्रि० कृ--कर्मणि अम्बच् । १ मिश्रिते । भावे अम्बच् ।

२ मिश्रणे पु० । हेमच० । ३ करम्भे इत्यमरटीवायांनीलकण्ठः

करम्बित त्रि० करम्बो मिश्रणं जातोऽस्य तार० इतच् ।

मिश्रिते “मधुकरनिकरकरम्बितेति” जयदेवः ।

करम्भ पु० केन जलेन रभ्यते सिच्यते रभ--घञ् मुम् च ।

१ दधिमिश्रितसक्तुषु अमरः “धानावन्तं करम्भिणमपू-
पवन्तम्” ऋ० ३, ५२, १, । “पूषण्वते ते चकृमा करम्भम्”
ऋ० ३, ५२, ७, “अतषानिव यवान् कृत्वातानीषदिवोपतप्य
करम्भपात्राणि तेषां कुर्व्वन्ति” शत० ब्रा० २, ५, २, ४,
२ उदगन्थे “धानाः करम्भः सक्तवः परिवापः पयो दधि”
यजु० ९, २१, “करम्भः उदमन्यः” वेददी० । “रूपं
वदरमुपवाका करम्भस्य” २२ । “करम्भादिति पूषणम्”
ऋ० ६, ५६, १ । ३ भ्रष्टयवमात्रे । “कामधियस्त्वयि
रचिता न परमारोहन्ति यथा करम्भवीजानि” भाग०
३, २६, ३७, “करम्भवीजानि भर्जितयववीजानि” श्रीधरः ।
“करम्भबालुकातापान् कुम्भीपाकांश्च दारुणान” मनुः ।
करम्भपाकार्थं बालुकावदातापोयेषु इति । “करम्भबालुकां
तप्तामायसीश्च शिलाः पृथक” भा० स्वर्गा० २ अ० । निरयव-
र्ण्णने । द्रव्यावयववैषम्पात् ४ मिश्रगन्धे । “करम्भपूतिसौ-
रभ्यशान्तोग्राम्लादिभिः पृथक्” एकोविभिद्यते गन्धः” भाग०
३, २६, ४३, “करम्भोमिश्रगन्ध” श्रीधरः । ५ प्रियङ्गुवृक्षे
६ शतावर्य्याञ्च राजनि० । स्वार्थे कन् करम्भक तत्रार्थे

करम्भि पु० यदुवंश्ये नृपभेदे । “करम्भिः शकुनेः पुत्रोदेव

रातस्तदात्सजः” भाग० ९, २४, २,

कररुह पु० करे रोहति रुह--क । १ नखे अमरः । वामश्चास्याः

कररुहपदैर्मुच्यमानी मदीयै” मेघ० । २ कृपाणे च (तरवार)

करर्द्धि स्त्री करेण ऋद्धिर्यत्र । १ करताल्याम् । त्रिका०

६ त० । २ हस्तसम्पत्तौ च ।

करवी स्त्री कस्य वायोः रवोऽत्र गौ० ङीष् । १ हिङ्गुपत्रे

करेण वीयते वी--क्विप् । २ कवर्य्याञ्च त्रिका०

करवीर पु० करं वोरयति चु० वीर विक्रान्तौ अण् । १ कृपाणे

खड्गे, २ स्वनामख्याते ३ वृक्षे, ४ देशभेदे च मेदि० । ५ शमशाने,
हेम० । ब्रह्मावर्त्ते ६ दृशद्वतीनदीतीरस्थचन्द्रशेखरराजपुरे च ।
करवीरवृक्षभेदगुणाश्च भाव० उक्ता यथा । “करवीरः
श्वेतपुष्पः शतकुम्भोऽश्वमारकः । द्वितीयोरक्तपुष्यश्च
चण्डद्रोणः शुभस्तथा । करवीरद्वयं तिक्तं कषायं
कटुकञ्च तत् । व्रणलाघवकृन्नेत्रकोपकुष्टव्रणापहम् ।
वीर्य्योष्णं कृमिकण्डूघ्नं भक्षितं विषवन्मतम्! । ७ तीर्थभेदे ।
“करवीरपुरे स्नात्वा विशालायां कृतोदकः । देवह्रद
उपस्पृश्य ब्रह्मभूतो विराजते” भा० अनु० २५ अ० ।
करवीरपुरञ्च चेदिदेशसन्निकृष्टं गोमन्तपर्ब्बर्तात् त्रिदिन
गम्यमार्गे स्थितम् । यथोक्तं हरिवं० १०० अ० “राज्ञां
पराजयं युद्धे गोमन्तेऽचलसत्तमे । श्रवणाद्धारणाच्चास्य स्वर्ग-
लोकं व्रजन्ति ते । तत्गच्छाम महाराज! करवीरं पुरोत्तमम्
त्वयादिष्टेन मार्गेण चेदिराज! शिवाय च । ते स्यन्दनगताः
सर्व्वे पवनोत्पातिभिर्हयैः । भेजिरे दीर्घमध्वानं मूर्त्ति-
मन्त इवाग्नयः । ते त्रिरात्रोषिताः प्राप्नाः करवीरं पुरो-
त्तमम् । शिवाय च शिवे देशे निविष्टास्त्रिदशोपमाः”
तत्पुराधीशश्च शृगालनामा भृपतिस्तदप्याह तत्रैव १०१ अ०
“तानागतान् विदित्वाऽथ शृगालो युद्धदुर्म्मदः । पुरस्य
धर्षणं मत्वा निर्जगामेन्द्रविक्रमः” ।

करवीरक पु० करवीर इव कायति कै--क । १ अर्ज्जुनवृक्षे

राजनि० स्वार्थे कन् । २ करवीरार्थे । करं वीरयति ण्वुल् ।
३ खड्गे शब्दमा० । करवीरे भवः कन् । ४ करवीरभूलज-
रूपे विषभेदे न० हेमच०
पृष्ठ १६९८

करवीरकन्दसंज्ञ पु० करवीरकस्य संज्ञा संज्ञाऽस्य । तैल कन्दे राजनि० ।

करवीरभुजा स्त्री करवीरस्य भुजैव भुजोऽस्याः ।

आढक्याम् (अरहर) राजनि०

करवीरभूषा स्त्री करवीरस्य भूषेव मूषा यस्याः । आढक्याम् । (अरहर) शब्दचि०

करवीराद्य न० करवीरमाद्यं यत्र । “करवीरपुष्पं

जात्यसनमल्लिकायाश्च । एतैः समन्तु तैलम् नामार्शो-
नाशनञ्च श्रेष्ठम्” इति चक्रदत्तोक्ते तैलभेदे ।

करवीरी स्त्री कृ--भावे अप् कराय विक्षेपाय वीरः पुत्रोऽ-

स्याः । १ अदितौ तत्पुत्राणां सुरक्षेपकत्वात्तस्यास्तथात्व-
म् । कं सुखं राति रा--क करः सुखदः वीरः पुत्रोऽस्याः ।
२ पुत्रवत्यां स्त्रियाञ्च मेदि० सर्व्वतः गौरा० ङीष् ।

करवीर्य्य पु० करबीरे पुरे भवः यत् । धन्वन्तरिं प्रति

आयुर्वेदज्ञानाय प्रश्नकारके ऋषिभेदे । “काशिराजं दिवोदासं
धन्वन्तरिमौपधेनववैतरणौरभ्रपौष्कलावतकरवीर्य्यगोपुरर-
क्षितसुश्रुतप्रभृतय ऊचुः” सुश्रु० ।

करशाखा स्त्री करस्य शाखेव । अङ्गुलौ अमरः । अङ्गु-

लशव्दस्य परिमाणविशेषे परिभाषिकत्वेऽपि अर्स्यतदर्थे
पारिविभाषिकत्वकल्पनं शब्दकल्पद्रुमे निर्मूलमेव ।

करशीकर पु० करस्य हस्तिहस्तस्यशीकरः । हस्तिहस्तात्

निर्गते जलकणे अमरः

करशुद्धि स्त्री ६ त० । फड़ितिमन्त्रेण गन्धपुष्पाभ्यां हस्तयाः

शोधने । “आदावृष्यादिकन्यासः करशुद्धिस्ततः परम्”
तन्त्रसा० ।

करशूक पु० करस्य शूकः सूचीव । नखे । त्रिका० ।

करस् न० कृ--असुन् । कर्मणि । “प्र ते पूर्वाणि करणानि

विप्रा विद्वाँ आह विदुर्षे करांसि” ऋ० ४, १९, २० ।
“करांसि कर्माणि” भा० ।

करसुत्र न० ६ त० । विवाहादौ हस्ते मङ्गलार्थं बध्यमाने रूत्रे ।

करस्थालिन् पु० करः स्थालीवास्त्यस्य ब्रीह्या० इनि ।

महादेवे “तलस्तालः करस्थाली ऊर्द्धसंहननो महान्” भा०
अख० । ७ अ० शिवसहस्रनामकथने । तस्य कालरू-
पेण सर्वभूतानां कररूपस्थाल्यैव पचनात्तथात्वम् ।

करस्न पु० करणं करः कृ--बा० अप् तं स्राति करोति धातू-

नायनेकार्थत्वात् स्रा--क । कर्मकरे बाहौ निरु० “रेवत्-
सृप्रा करस्ना दधिषे वपूंषि” ऋ० ३, १८, ५ । करस्ना
कर्माणि प्रस्नातारौ बाहू” भा० “पृथूकरस्ना बहुला
गभस्ती” ऋ० ६, १९, ३ । एतामृवमधिकृत्य “करस्ना बाहू
कर्मणां प्रस्नातारौ” निरु० ६, १६ निरुक्तिर्दशिता ।

करहाट पु० करैःसूर्य्यकिरणैः हाट्यते दीप्यते हट--दीप्तौ णिच्

कर्म्मणि घञ । १ पद्मादिसमूहे, अमरः करं हाटयति
हट--णिच् अण् । २ मदनद्रुमे, ३ देशभेदे च ।
मेदिनिः । ४ पिण्डीतकतरौ राजनि० ।

करहाटक पु० करं हाटयति हट--दीप्तौ णिच्--ण्वुल् ।

१ मदनवृक्षे । करहाटकार्जुनककुभेत्यादि सुश्रु० । ६ त० ।
२ हस्ताभरणे सुवर्ण्णे । अमरः ।

कराङ्गण न० करस्य राजस्वादानस्याङ्गणम् । राजस्वादानस्याने । हारा० ।

कराघात पु० ६ त० । करतलाघाते चपेटाघाते (चापडमारा)

कराट त्रि० कराय विक्षेपायाटति अट + अच् । विकटे शब्दचि०

करामर्द्द पु० करमामृदद्नाति आ + मृद--अण उप० स० ।

करमर्दे शब्दर० ।

कराम्बुक पु० कीर्य्यते वॄ--कर्मणि अप् करमम्बुयतः कप् ।

(पाणिया आमाला) करमर्द्दभेदे शब्दच० ।

कराम्लक पु० करं कीर्य्यमाणयम्लं यतः कप् । करमर्द्दवृक्षे राजनि० ।

करायिका स्त्री कर इवाचरति कर + आचारे क्यङ् ण्वु ल् ।

१ बलाकायाम् तस्याः सङ्कुचितहस्तवत् प्रकाशमानत्वात्तथा-
त्वन् । २ कूटपूर्य्याम् शब्दचि०

करारोट पु० करे आरोटते रुट--दीप्तौ अच् । अङ्गुरीयके त्रिका० ।

कराल पु० कराय विक्षेक्षायालति षर्य्याप्नोति करं लाति

लाक वा । १ सर्जरसयुक्ततैले (तेलघृना) २ कृष्णकुठेरके
(कालतुलसी) ३ तुङ्गे ४ दन्तुरे उन्नतदन्ते (देँतो) ५
भयानके त्रि० मेदि० । “करालवदनां घोराम्” “घोरदंष्ट्रां
करालास्याम्” श्यामाध्यानम् । “वपुर्महोरगस्येव
करालफणमण्डलम्” रघुः “लम्बा कराला विनता तथैव
बहुपुत्रिका” “दुर्द्दर्शना सुदुर्गन्धा कराला मेघका-
लिका” (पूतना) सुश्रु० । (अनन्तमूल) ६ शारिधोष-
धो स्त्री राजनि० । गौरा० ङीष् । ८ अग्नेर्जिह्वाभेदे
जटाधरः । सा च तामसी यथाह शा० ति० “विश्वमूर्त्ति-
स्फुलिङ्गिन्यौ धूम्रकर्ण्णा मनोजवा । लोहितान्या
करालो च कली तामस्य ईरिताः” । संज्ञायां कन् अत
इत्त्वम् । करालिका राजसवह्निजिह्वायाम् । “पद्मरागा
सुवर्ण्णान्या तृताया भद्रलोहिता । लोहितानन्तरं श्वता
धूमिनी च करालिका । राजस्योरसना वह्नेर्विहिताः
काम्यकर्ममु” अग्निजिह्वशब्दे दर्शितवाक्यन्तु सामान्य-
विषयम् । ९ दन्तरोगभेदे पु० । “शनैः शनैर्विकुरुते वायु-
दीन्तसमाश्रितः । करालान् विकृतान् दन्तान् कराली न स
पृष्ठ १६९९
सिध्यात” भावप्र० । तादृशरोगयुक्तत्वात् दन्तुरस्य तथात्वम् ।
“तप्तस्नेहे पचेत् पूर्वं वेसवारकसंज्ञकम् । पाकप्रापिततसौ
रभ्यं करालं सूदकैर्मतम्” पाकशास्त्रोक्ते स्नेहपक्वे १० वेसवारे
न० । (कडि) ११ कस्तूरामृगे पुंस्त्री “एणहरिणर्ष्यकुरङ्गकरा-
लकृतमालशरभश्वदंष्ट्रापृषतचारुष्कमृगमातृकाप्रभृततयो
जङ्घलाः मृगाः कषया मधुरा लघवो वातपित्तहरास्तीक्ष्णा
हृद्या वस्तिशोधनाश्च” सुश्रुते मृगभेदानुक्त्वा तद्गुणा उक्ताः ।
१२ दैत्यभेदे पु० । “ससृमः कालवदनः करालः
कौशिकः शरः” हरितं ४२ असुरनामकथने । “ससृमः-
कालवदनः करालः केशिरेव च” हतिवं० २६३ अ० ।
स्वार्थे कन् करालकः उक्तार्थेकृष्णतुलस्याम् पु० रत्ना० ।

करालत्रिपुटा स्त्री करालानि त्रीणि पुटान्यस्याः । लङ्का-

धान्ये त्रिकाण्डिकायाम् राजनि० ।

करालभैरव न० तन्त्रभेदे । म० त० कूमपु० हिमालयं प्रति

देवीवाक्यम् । “करालभैरवञ्चापि यामलं वाममाश्रितम् ।
एवंविधानि चान्यानि मोहनार्थानि यानि तु । मया
सृष्टानि चान्यानि मोहायैषां भवार्ण्णवे”

करालिक त्रि० कराणां करतुल्यशाखानामालिर्यत्र कप् । वृक्षे हेमच० ।

करास्फोट पु० करेण आस्फोटः शब्दो यत्र । वक्षःस्थले सङ्कु-

चितरूपेण स्थापिते एकबाहौ इतरकराघातेन ताड़ने
(तालठीका) । ६ त० । २ कराघाते ।

करिक पु० करो विक्षेपोऽस्त्यस्य ठन् । विट्स्वदिरे शब्दच०

करिकणवल्ली स्त्री करिकणः गजपिप्पल्यवयव इव

वल्ली । चविकावृक्षे (चै) राजनि० ।

करिका स्त्री करोविलेखनमस्त्यस्याम् अश० अच्

अतइत्त्वम् । नखरेखायाम् वैज० ।

करिकुसुम्भ पु० करी नागकेशरस्तस्य कसुम्भैव । नागकेशरचूर्णे शब्दचि०

करिज पुंस्त्री करितोजायते जन--ड । हस्तिशिशी शब्दरत्ना०

करिणी स्त्री करिन् + स्त्रियां ङीप् । १ हस्तिन्याम् अमरः

“त्रासावसन्नमदधारकपोलभागाः सम्पादयन्ति करिणः
करणीभ्रमं नः” धनञ्जयविज० । २ देवताभेदे शब्दचि० ।

करिदारक पु० १ करिणं दृणाति हिनस्ति दृ--ण्वुल् । सिंहे ।

शव्दर० स्त्रियां टाप् अत इत्त्वम् ।

करिनासिका स्त्री करिणोनासेवाकारोऽस्याः । यन्त्रभेदे शव्दचि०

करिन् पुं स्त्री करः शुण्डः प्राशस्त्येनास्त्यस्य इनि । हस्तिनि

गजे “वृंहितं करिगर्जितम् अमरः “मुक्ताफलाय
करिणम् हरिण पलाय” व्या० उदा० । “अरिकरिहरणार्थं
योजनानामशीत्या” लीला० । “करीव सिक्तं पृषतैः
पयोमुचाम्” “कटप्रभेदेन करीव पार्थिवः” रघुः “आया-
मवद्भिः करिणां घटाशतैः” माघः । २ अष्टसंख्यायाम्
एकाआदिशब्दे विवृतिः । करिभेदादिकम् पृ० ९५९ इभशब्दे
उक्तम् । तन्नामनामके ३ नागकेपरे पु० ।

करिप पु० करिणं पाति पा--क । हस्तिपके (माहुत) । चू

र्ण्णादि० अप्राणिवाचकषष्ट्यन्तात् अस्याद्युदात्तता ।
वनकरिप इत्यादि ।

करिपत्र न० करी तत्कर्ण्ण इव पत्रमस्य । तालिपत्रवृक्षे राजान०

करिपथ पु० ६ त० अच् समा० । हस्तिगमनयोग्ये पथि ततः

संज्ञायां कन् देवपथादि० तस्य लुक् । करिपथनामके
देशभेदे पु० ।

करिपिप्पली स्त्री करिपूर्व्वपदयुक्ता पिप्ली शा० त० । गज पिप्पल्याम् अमरः

करिपोत पु० ६ त० । हस्तिशावके हारा० ।

करिबन्ध पु० करिणं बध्नात्यत्र बन्ध--आधारे घञ् । १ हस्ति

बन्धस्तम्भे हारा० । भावे घञ् ६ त० । २ गजबन्धने च

करिभ न० करीव भाति भा--क । कुञ्जभेदे त्रिका० ।

करिमाचल पुंस्त्री मच--शाट्ये घञ् करिणि माचं शाट्य

लाति ला--क । १ सिंहे त्रिका० गजमाचलादयोऽप्यत्र
स्त्रियां जातित्वात् ङीष् ।

करिमुख पु० करिणोमुखं मुखमस्य । १ गणेशे यथा चास्य

गजबक्त्रता तथा इभाननशब्दे ९८१ पृ० उक्तम् । ६ त० ।
२ गजस्य मुखे न० ।

करिर पुंन० कॄ--इरन् । गूढपत्रे उष्ट्रप्रिये मरुभूमिजे

करीरे वृक्षभेदे । शब्दरत्ना० । करीरशब्दे गुणादि ।

करिरत न० “भूगतस्तनमूजास्यभस्तकामुन्नतां स्वयमधोमुखों

स्त्रियम् । क्रामति स्वकरकृष्टमेहने वल्लभे करिरतं
तदुच्यते” इत्युक्तलक्षणे १ रतिबन्धभेदे शव्दचि० करिपदमिति
पाठान्तरे” करिपदमित्यपि तत्रार्थे । ६ त० २ गजरमणे च ।

करिव त्रि० करिणं वाति बा--क । करिगते अप्राणिषष्ट्य-

न्तात्तस्य चूर्ण्णा० आद्युदात्तता । वनकरिव इत्यादि

करिशावक पु० गजशिशौ “यावत्पञ्चाव्दमेतस्मिन्

करभः कलभोऽपि च” शव्दर० उक्ते पञ्चाव्दपर्य्यन्ते हस्ति
बालके ।

करिष्ठ त्रि० अतिशयेन कर्त्ता इष्ठन् तृणोलोपः । कर्त्तृतमे

“पुरू सखिभ्य आसुति करिष्ठः” ऋ०७, ९७, ७ ।
ईयसुन् । करीयस् कर्त्तृतरे त्रि० स्त्रियां ङीप् ।

करिष्यमाण त्रि० कृ--भविष्यति शानच् स्यट् । कर्त्तव्ये । वेदे

तु नि० मानलोपः । “यानि करिष्या कृणुहि प्रवृद्ध!”
ऋ० १, १६५, ९, “करिष्या कर्त्तव्यानि” भा० । द्वितीया-
स्थाने आट् ।
पृष्ठ १७००

करिसुन्दरिका स्त्री करीव सुन्दरी संज्ञायां कन् । ना

गयष्टौ वस्त्रशोषणाथमङ्गणस्थापियन्त्रभेदे हारा० ।

करिस्कन्ध न० करिणां सभूहः स्कन्धच् । गजसमूहे ।

६ त० । गजस्य २ स्कन्धे पुं न० ।

करीर पु० कॄ--ईरन् । १ घटे मेदि० । २ वंशाङ्कुरे अमरः ।

(वाशेरक्ॐड) ३ अङ्कुरमात्रे भावप्र० वंशमुक्त्वा “तत्करीरः
कटुः पाके रसे रूक्षो गुरुः सरः । कषायः कफकृत् स्वा-
दुर्विदार्ह बातपित्तलः” तद्गुण उक्तः । “हिंमांशुवंशस्य
करीरमेव मां निशम्य किन्नासि फलेग्रहिग्रहा” नैष० ।
आनिन्यिरे वंशकरीरनीलैः” माघः । “वंशशब्दस्याम्ना-
नताहेतोरलूनतायाः प्रतिपत्त्यर्थत्वान्न पौनरुक्त्यम् अतएव
एकार्थं पदम् न प्रयोज्यमित्युक्त्वा करिकलभकर्ण्णावत सादिषु
प्रतिपात्तिविशेषकरेषु न दोष इत्याह वामनः” मल्लि० ।
तेन वंशाङ्कुरार्थक्स्यापि करीरशब्दस्य प्रतिपत्तिविशेषार्थं
वंशशब्दप्रयोग इति तत्त्वम् । ३ गूढपत्रे मरुभूमिजे उष्ट्र-
प्रियेवृक्षभेदे भावप्र० । “करोरः कटुकस्तिक्तः स्वेद्युष्णोभे-
दनः स्मृतः । दुर्नामकफवातामगरशोथव्रणप्रणुत” भावप्र०
४ चीरिकायां झिल्ल्याम् (झिझिपोका) ५ हस्तिदन्तभूले
च स्त्री उणा० । अस्य प्रस्थशब्देन समासे करीरप्रस्थे
कर्क्यादि० नाद्युदात्तता । मध्वा० चतुरर्थ्यां मतुप् मस्य
वः । करीरवत् तत्सन्निकृष्टदेशादौ त्रि० स्त्रियां ङीप् ।

करीरकुण न० करीरस्य पाकः पील्वा० पाके कुणच् । तत्पाके

करीरिका स्त्री करीरमिवाकारोऽस्त्यस्य ठन् । हस्तिदन्तमूले

त्रिका० ।

करीरी स्त्री कॄ--ईरन् गौरा० ङीष् । नीरिकायां (झिजि-

पोका) १ झिल्ल्याम् २ गजदन्तमूले च मेदि० ।

करीष पुं न० । कॄ--ईषन् । १ शुष्कगोमये (घुटिया । “करीष

मिष्टकाङ्गारान् शर्करा वालुकास्तथा” मनुः । २ पशुपुरीप-
मात्रे च “उच्छुष्कमृगपुरीषपांशुला” कादम्ब० ।
करीषाग्निः (घुटेर आगुन) ।

करीषगन्धि पु० करीषस्यन्ध इव गन्धोऽस्य इत् समा० । करीषतु

नन्धयुक्ते तस्यापत्यमण् स्त्रियां ष्यङ् कारीगगन्ध्या तदीय-
स्त्र्यपत्ये । तस्याः पुत्रपतिशब्दाभ्यां समासे सं प्र० दीर्घश्च ।
कारीषगन्धीपुत्रः कारोषगन्धीपतिः एवं परमकारीगन्धी-
पुत्र इत्यादि उपसर्ज्जने तु न अतिकारीषगन्ध्यापुत्र
इत्याद्येव सि० कौ० ।

करीषङ्कषा स्त्री करीषं कषति हिनस्ति कष--थच् मुम् च ।

वात्यायाम् तस्याः गीमयशोषणात्तथात्वम् ।

करीषिन् त्रि० करीषस्य देशः पुष्करा० इनि न मतुप् ।

१ करीषयुक्तदेशे स्त्रियां ङीप् । करीषमाश्रयत्वेनास्त्यस्याः
इनि ङीप् । गोमयाधिष्ठातृदेव्यां २ लक्ष्म्याम् स्त्री ।
“गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्” श्रीसूक्तम् ।

करुण त्रि० करोति मनः आनुकूल्याय कॄ--उनन् । दयायुक्ते

२ रसभेदे पु० तल्लक्ष्माद्युक्तं सा० द० यथा
“इष्टनाशादनिष्टाप्तेः करुणाख्यो रसो भवेत् । धीरैः
कपोतवर्ण्णोऽयं कथितो यमदैवतः । शोकोऽत्र स्था-
यिभावः स्याच्छोच्यमालम्बनं मतम् । तस्य दाहादि-
कावस्था भवेदुद्दीपनं पुनः । अनुभावा दैवनिन्दा
भूपातक्रन्दितादयः । वैवर्ण्योच्छ्वासनिश्वासस्तम्भप्रलपनानि
च । निर्वेदमोहापस्मारव्याधिग्लानिस्मृतिश्रमाः । विषा-
दजडतोन्मादचिन्ताद्या व्यभिचारिणः” ।
शोच्यं विनष्टबन्धुप्रभृति । यथा राघवावलासे ।
“विपिने क्व जटानिबन्धनं तव चेदं क्व मनोहरंवपुः ।
अनयोर्घटना विधेः स्फुटं ननु खड्गेन शिरीष-
कर्त्तनम्” । अत्र हि रामवनवासजनितशोकार्त्तस्य
दशरथस्य दैवनिन्दा । एवं बन्धुवियोगविभवनाशादावप्युदा-
हार्य्यम् । परिपोषस्तु महाभारते स्त्रीपर्वणि द्रष्टव्यः ।
अस्य करुणविप्रलम्भाद्भेदमाह । शोकस्थायितया भिन्नो वि
प्रलम्भादयं रसः । विप्रलम्भे रतिः स्थायी पुनः सम्भोगह-
तुकः” ३ परदुः खहरणेच्छायां दयायां स्त्री । “अहो विधे
त्वां करुणा रुणद्ध्विनः” नैष० । “प्रायःसद्योभवति करुणा-
वृत्तिरार्द्रान्तरात्मा” मेघ० । “करुणाविमुखेन मृत्युना” रघुः ।
दुःखितेषु दया करुणा साऽस्त्यस्य अर्श० श्वच् विषयत्वेन ।
४ करणाविषये दीने त्रि० । “अनिशं निजैरकरुणः करुणम्”
माघः । “करुणं दीनं यथा तथेति” मल्लि० । “अनुरोदि-
तीव करुणेन पत्रिणां विरुतेन” माघः । “विरुतैः करुण-
स्वनैरियम्” कुमा० । (करलहनेवु) ५ वृक्षभेदे पु० त्रिका० ।
“पिकात् वने शृण्वति मृङ्गहुङ्कुतैर्दशामुदञ्चत्करुणे
वियोगिनाम्” नैष० । “करुणस्य फलं म्लेष्मवाताममेदसां
पुनः । नाशनं पित्तकोपस्य शमनं परिकीर्त्तितम्” इति
तत्फलगुणाश्च षैद्यकोक्ताः । ६ बुद्धभेदे पु० त्रिका० ।
७ परमेश्वरे ८ भूताभयकारके परिव्राञके पु० शब्दचि० ।

करुणमल्ली स्त्री करुणा करुणाविषयः मल्ली । १ नवमल्लि-

कायाम् शब्दत्त० । तत्पुष्पस्यातिसुकुमारत्वात् करुणाति-
षयत्वेन सदय चीयमानतया तस्यास्तथामू तत्वम् ।
पृष्ठ १७०१

करुणविप्रलम्भ पु० शृङ्गाररसभेदे । शृङ्गारमुक्त्वा” सा० द०

उक्तं यथा
“विप्रलम्भोऽथ सम्भोग इत्येष द्विविधो मतः । तत्र
यत्र तु रतिः प्रकृष्टा नाभीष्टमुपैति विप्रलम्भोऽसौ ।
अभीष्टं नायकं नायिकां वा । स च पूर्व्वरागमान-
प्रवासकरुणात्मकश्चतुर्द्धा स्यात्” ।

करुणानिधि पु० करुणा निधीयतेऽत्र नि + धा--आधारे

कि उप० स० । करुणाधारे दयायुक्ते करुणानिधानादयो-
प्यत्र ।

करुणापर त्रि० करुणायां परः आसक्तः करुणा परा वा यस्य । अत्यन्तकरुणायुक्ते ।

करुणामय त्रि० करुणा + प्राचुर्य्ये मयट् । प्रचुरकरुणावति

“काकुत्स्थं करुणामयं गुणनिधिम्, विप्रप्रियं धार्मिकम्”
महाना० स्त्रियां ङीष् करुणामयी ।

करुणिन् त्रि० मरुणाऽस्त्यस्य सुखा० इनि । कृपायुक्ते स्त्रियां

ङीप् । सिद्धे सुखादिग्रहणम् ठनादिनिवृत्त्यर्थमिति
सि० कौ० । तेन सुखादिभ्यो न मतुप् । आर्षे तु क्वचि-
दिष्यते ।

करुत्थाम पु० तुर्वमुवंस्ये दुष्मन्तपुत्रभेदे । “तुर्वसोश्च सुतो-

वह्निरित्युपक्रम्य “दुष्मन्तस्य तु दायादः करुत्थामः प्रजे-
श्वरः” हरिवं ०३ वृअ० ।

करुन्धम पु० तुर्वसुवंश्ये त्रैसानोः पुत्रे नृपभेदे । “करुन्ध-

मस्तु त्रैसानोर्मरुत्तस्तस्य चात्मजः” हरिवं० ३२ अ० ।

करुम पु० पिशाचभेदे । ये शालाः परिनृत्यन्ति सायं गर्दभ-

नादिनः । कुसूला ये च कुक्षिलाः ककुभाः करुमाः
स्रिमाः । तानोषधे! त्वं गन्धेन विषूचीनान् विनाशय”
अथ० ८, ६, १० ।

करू स्त्री कृ--हिंसायाम् ऊ । १ कर्त्तने । “चतुर्दश वा आसां

करूकराणि” शत० ब्रा० २२, ३, ४, १० । कर्मणि ऊ । २ कृत्ते
च । “वामं देवः करूलती” ऋ० ४, ३०, २४ । “करूलती
कृत्तदन्तः” भा० पृषो० दन्तस्य लतादेशः पूष्णोभग्नदन्तत्वेन
तथात्वम् ।

करूष पु० कृ--ऊषन् । १ देशभेदे यस्याधिपतिर्दन्तबक्रः “एष

मद्रान् वशे कृत्वा कुरूंश्च सह सोमकैः । चेदि-
काशिकरूषांश्च कुरुलक्ष्मीं वहिष्यति” भा० आ० १२ ३
अ० । “शिशुपालः सहसुतः करूषाधिपतिस्तथा” भा०
स० ४ अ० । करूषाणां जनपदानां राजा अण् तद्राजत्वात्
बहुषु तस्य लुक् । करुषाः तद्राजेषु “दन्तवक्रः करूषश्च
करभोमेघवाहनः” भा० स० १३ अ० । एकत्वेऽपि लुक् आर्षः ।
अस्य तालव्यमध्यताऽपि भर्गादिगणे तथापाठात् ततो
भर्गा० स्त्वियां न तद्राजप्रत्ययस्य लुक्” सि० कौ० ।

करूषज पु० करूषदेशे जायते जन--ड । दन्तवक्रे नृपभेदे

“ताविहाथ पुनर्जातौ शिशुपालकरूषजौ” भा० आ० ७,
१० , ३० । तौ जयविजयौ विष्णोःपार्षदौ ।

करूषाधिपति पु० ६ त० । दन्तवक्रे नृपे । “काश्मीरराजो-

गोनर्दः करूषाधिपतिस्तथा” हरिवं० ९ । करूषाधिपा-
दयोऽप्यत्र ।

करेऽट पु० करे अटति अट--अच् अलुक् स० । नखे त्रिका०

करेऽटव्या स्त्री करेऽटनं व्ययति व्ये--ड टाप् । धनच्छूप

क्षिणि त्रिका० ।

करेटु पु० केन मस्तकेन रेटति रेट--कु । (कर्कटिया) इति ख्याते खगे । अमरः ।

करेणु पु० कृ--एणु(नु)के मस्तके रेणुरस्य वा । १ गजे अमरः ।

“त्रस्तः समस्तजनहासकरः करेणोः” माघः ।
उत्क्षिप्तगात्रः स्म विडम्बयन्नभः--करेणुरारोहयते निषादि-
नम्” माघः “स्वातन्त्र्यमुज्ज्वलमवाव करेणुराजः” माघः ।
२ कर्ण्णिकारवृक्षे विश्वः । ३ गजस्त्रियां स्त्री अमरः ।
“गजाय गण्डूषजलं करेणुः” कुमा० । “करेणुभिर्दन्तमृणा-
लभङ्गाः” रघुः । करेणुदुग्धगुणाश्च सुश्रुते “अश्वायाश्चैव
नार्य्याश्च करेणूनाञ्च यत् पयः । तत्त्वनेकौषधिरसप्रसादं
प्राणदं गुरु । मधुरं पिच्छिलं शीतं स्निग्धं
श्लक्ष्णं मृदु स्मृतम्” सामान्यत उक्त्वा । “हस्तिन्याः मधुरं
वृष्यं कषायानुरसं गुरु । स्निग्धं स्थैर्य्यकरं शीतं
चक्षुष्यं बलवर्द्धनम्” उक्ताः । “करेणुः सबहुक्षीरा कन्दे-
न गजरूपिणी । हस्तिकर्णंपलाशस्य तुल्यपर्ण्णा द्विपर्ण्णि-
नी” सुश्रुतोक्तलक्षणायाम् ४ ओषधौ स्त्री तदुत्पत्तिकालश्च
तत्रैवोक्तः । “करेणुस्तत्र कन्या च छत्रातिच्छत्रके तथा ।
गोलोमो चाजलोमी च महती श्रावणी तथा । वसन्ते
कृष्णसर्पाख्यो गोलोमी च प्रतायते” स्वार्थे कन् करेणु
काप्यत्र स्त्री । रायमुकुटस्तु करेणूशब्दं दीर्घान्तं पठित्वा
हस्तिनि पुंस्त्रीत्याह ।

करेणुभू पु० करेणौ भववृ भू--क्विप् । १ हस्तिशास्त्रप्रवर्त्तंके

पालकाव्यमुनौ हेमच० । २ हस्तिजातमात्रे त्रि० ।

करेणुमती स्त्री नकुलस्य भार्याभेदे । “नकुलस्तु चैद्यां

करेणुमतीं भार्यामुदावहत्तस्यां पुत्रं निरमित्रं नामाजनयत्”
भा० आ० ९५ अ० ।

करेणुसुत पु० ६ त०! पालकाव्ये मुनौ त्रिका० ।

पृष्ठ १७०२

करेनर पु० तुरष्कनामगन्धद्रव्ये करेवरोऽप्यत्र राजनि० ।

करेन्दुक पु० करेण किरणेनेन्दरिव मायति कै--कृ । मूतृणे

राजनि० ।

करोट न० के शिरसि रोटते रुट्--द्युतौ अच् । शिरोऽस्थ्नि ।

(माथारखुलि) इन् करोटिरप्यत्र स्त्री वा ङीप्
अमरः । “वपुषि भटकरोटिन्यस्तकीलालसिन्धुः” धनञ्ज० ।

करोटक पु० नागभेदे “आप्तः करोटकश्चैव शङ्खो वालिशिख-

स्तथा” भा० आ० ३५ अ० नागनामकीर्त्तने । अत्र
कर्कोटार्थाभिधानं प्रामादिकमेव । उपक्रमे ऐराबतस्तक्षकश्च
कर्कोटकधनञ्जयौ” इति कर्कोटकस्य पृथगुक्तेस्ततो-
भिन्न एवायमिति तत्त्वम् ।

कर्क हामे सौत्रः पर० अक० सेट् । कर्कति अककींत् । चकर्क प्रनिकर्कति ।

कर्क पु० कृनोति करोति क्रियते वा कृ--क तस्य नेत्त्वम् कर्क--

अच् वा । १ वह्नौ २ श्वेताश्वे अमरः ३ दर्पणे ४ घटे ५ मेषा-
वधिचतुर्थे राशौ ६ कुलीरे ७ कर्कटवृक्षे (काँकडाशिङा)
च हेम० । ८ कात्यायनश्रौतसूत्रभाष्यकारे पु० ।

कर्कखण्ड पु० कर्कः श्वेताश्वयुक्तः खण्डः भूमिखण्डो यत्र

देशभेदे । “मागधान् कर्कखण्डांश्च निवेश्य विषये त्मनः”
भा० व० २५३ अ० ।

कर्कचिर्भटि स्त्री कर्कवर्णा चिर्भटी । कर्कटीभेदे । राजनि० ।

कर्कट पु० सौ० कर्क--अटन् । क्षद्रामलकवत्क्षुद्रफलके १ वृक्ष-

भेदे २ जलजन्तुभेदे कुलीरे । (काकँडा) “गणनाटत्
करकर्कटोत्करम्” नैष० राजान० । (करकटिया)
३ पक्षिभेदे । ४ अलाबूवृक्षे च मेदि० । ५ पद्मकन्दे
जटा० मेषादितश्चतुर्थे ६ राशौ “पादः पुनर्वसोरन्त्यः पुष्यो
ऽश्लेषा च कर्कटः” ज्यो० त० उक्तसपादनक्षत्रद्वयात्मकः ।
तथा च ३६० अंशात्मके राशिचक्रे ९० अंशोत्तरम् ३०
त्रिंशदंशात्मकः स राशिः । “शेषाः स्वनामसदृशाकृ-
तयो भवन्ति” ज्यो० त० उक्तेस्तस्य कुलीराकृतित्वम् । अस्य
वर्ण्णाद्युक्तं नील० ता० “बहुप्रजासङ्गपदः कुलीरश्चरो-
ऽङ्गना पाटलहीनशब्दः । शुभः कफी स्निन्धजनोऽम्बु-
चारी समोदयी विप्रनिशोत्तरेशः” तथा च अस्य
बहुप्रजासङ्गिता बहुपदता चरराशित्वं स्त्रीरूपता
पाटलवर्ण्णता हीनशब्दता शुभत्वं शुभस्वामिकता च ।
कफप्रकृतित्वं स्निग्धजनत्वम् जलचरत्वम् समराशित्वम्
विप्रवर्ण्णत्वम् निशाबलित्वम् उत्तरदिग्मुखत्वञ्च । अयं
च कोटराशिः “कर्कटवृश्चिकमीना धनुषश्चान्त्यार्द्धञ्च
कीटसंज्ञाःस्युः” इत्युक्तेः तत्र समत्वं युग्मराशित्वं सम-
परिमाणञ्च । “ओजोऽथ युग्मं विषमः समश्च” “क्रू-
रोऽथ सोम्यः पुरुषोऽङ्गना च” इत्युक्तेः “ह्रस्वास्तिनि
गोऽविघटा मिथुनघनुःकर्किमृगमुखाश्च समाः” इत्युक्तेश्च ।
“पृष्ठोदयाविमिथुना दिवा शीर्षोदयाः परे” इत्युक्तेः अस्य
शीर्षोदयत्वम् । अस्याधिपः चन्द्रः । कुजशुक्रबुधेन्द्वर्क सौम्य
शुक्रावनीभुवाम् ।--क्षेत्राणि स्युरजादयः इत्युक्तेः “मेष
कर्कटयोर्मध्ये गाढं तपति भास्करः” तिथि० पु० ।
“कर्कटे प्रथमं देवी त्र्यहं गङ्गा रजस्वला” स्मृतिः ।
(काँकुड) ७ एर्वारौ स्त्री गौरा० ङीष् भावप्र० ।
तस्याः गुणाः भावप्र० उक्तायया । “एर्वारुः कर्कटी
प्रोक्ता कथ्यन्ते तद्गुणा अथ । कर्कटी शीतला रूक्षा
ग्राहिणी मधुरा गुरुः । रुच्या पित्तहरा साऽमा पक्वा
तृष्णाग्निपित्तकृत्” । अस्याः पाकप्रकारस्तु । “त्वग्वी-
जरहिता प्रौढ़ा गुलिकाकारखण्डिता । तलिता
सुघृते तप्ते कर्कटी वावलेहिता । विपाण्डु खण्डं
धृतदुग्धसार्द्धं विभावितं वल्लजशर्कराभ्याम् । कृतैलवा-
सञ्च कदुष्णमेतत् प्रतिक्षणं रोचनमातनोति” ।
ङीषन्तः । ८ शाल्मलौ मेदि० । ९ सर्पे शब्दरत्ना० । १०
देवदालीलतायां १२ घोषिका १३ वृक्षे राजनि० । १४ कर्कट-
जातिस्त्रियाञ्च । “यथा च कर्कटी गर्भमाधत्ते मृत्युमात्म-
” भा० विरा० २७२ श्लो० । कर्कटस्य कोषस्थता तन्मांसगु-
णाश्च भावप्रका० उक्ता यथा । “शङ्खः शङ्खनखश्चापि
शुक्तिसम्बूककर्कटाः । जीवा एवंविधाश्चान्ये काषस्थाः
परिकीर्त्तिताः । कोषस्था मषुराः स्निग्धा वातापत्तहरा
हिमाः । “ताम्रचूडकर्कटकृष्णमत्स्यशिशुमार वराहवशाः”
सक्षीरं कर्कटरसे सिद्धं चात्र घृतं पिवेत्” सुश्रु० । स्मृतौ
चास्याभक्ष्यातोक्ता तच्चाभक्ष्यशब्दे दर्शितम् । कर्कट
स्तच्छृङ्गाकारोऽस्त्यस्य अर्श० अच् । तुलाप्रान्तनिखेये कर्कट
शृङ्गाकारे आयसे १५ कीलकभेदे” पु० मिता० १६ कण्टके पु०
च । तत्पादाग्रतुल्याग्रत्वात्तस्य तथात्वम् । १७ कर्कट-
शृङ्ग्याम् स्त्री ङीष् भाव० प्र० ।

कर्कटक न० कर्कटैव कायति कै--क । १ यन्त्रभेदे (कम्पास)

“फणिमखकाकलीसंदशकपुरुषशीर्षकयोगचूर्ण्णयोगवर्त्ति-
कामानसूत्रकर्कटकरज्जुदीपभाजनभ्रमरकरण्डक प्रभृ-
त्येनेकोपकरणयुक्तः” दशकुमा० । कर्कटः वृक्ष इव कायतिके
क । २ इक्षुभेदे शब्दचिन्ता० । स्वार्थेकन् । ३ कुलीरे अमरः ।
पृष्ठ १७०३

कर्कटशृङ्गी स्त्री कर्कट इव शृङ्गं यस्याः । (कांकडाशिङा)

१ वृक्षभेदे । स्वार्थे कन् कर्कटशृङ्गिकाप्यक । “शृङ्गी
कर्कटशृङ्गी च स्यात् कुलीरविषाणिका । अजशृङ्गी-
च वक्रा च कर्कटाख्या च कीर्त्तिता । शृङ्गी कषाया
तिक्तोष्णा कफवातक्षयज्वरान् । श्वासोर्द्ध्ववाततृट्कास
हिक्कारुचिवमीन् हरेत्” भावप्र० तद्गुणादि उक्तम्

कर्कटाक्ष पु० कर्कट इवाक्षि ग्रन्थिभेदोऽस्य । कर्कट्याम्

(कांकुड) रत्नमाला ।

कर्कटाख्या स्त्री कर्कटस्याख्याख्या यस्याः । (काँकडाशिङा) शृङ्ग्याम् भावप्र० ।

कर्कटाङ्गा स्त्री कर्कटस्याङ्गं शृङ्गमिव शृङ्गमग्रमस्याः अजा०

टाप् । शृङ्ग्याम् । राजनि० ।

कर्कटाह्व पु० कर्कटमाह्वायते कण्टकारत्वात् आ + ह्वे--क । विल्ववृक्षे राजनि० ।

कर्कटि स्त्री कर्कं कण्टकमटति इन् शक० । (काँकुड) १ एर्वारौ

शब्दचि० । वा ङीप् अत्रार्थे, २ शाल्मलीवृक्षे ३ कर्कट-
शृङ्ग्याञ्च । मेदि० ।

कर्कटिनी स्त्री कर्कटस्तदाकारोऽस्त्यस्याः इनि ङीप् । दारु-

हरिद्रायाम् राजनि० ।

कर्कटु पु० कर्क--मृगया० नि० । (कर्कटिया) पक्षिभेदे शब्दरत्ना० ।

कर्कन्ध स्त्री कर्कं कण्टकं दधाति धा--कू नि० मुम् । १ वदर्य्याम्

(कुल) “कर्कन्धूफलमुच्चिनोति शवरी मुक्ताफलाशङ्कया”
सा० द० । तस्य पुस्त्वमपि । “पुंसि स्त्रियाञ्च कर्कन्धूः
र्वदरी कोलमित्यपि । फेनिलं कुवलं घोटा सौवीरं
वदरं महत् । अजप्रिया कुहा कोली विषमोभयक-
ण्टका । पच्यमानं सुमधुर सौवीरं वदरं महत् ।
सौवीरं वदरं शीतं भेदनं गुरु शुक्रलम् । वृंहण-
म्पित्तदाहास्रक्षयतृष्णानिवारणम् । सौवीरं लघु
सपक्वं मधुर कीलमुच्यते । कोलन्तु वदरं ग्राहि रुच्य-
वुष्णञ्च वातलम् । कफपित्तकरञ्चापि गुरु सारकमो-
रितम् । कर्कन्धूः क्षुद्रवदरं कथितं पूर्ब्बसूरिभिः । अम्लं
स्यात् क्षुद्रवदरं कषायं मधुरं मनाक् । स्निग्धं गुरु च
तिक्तञ्च वातपित्तापहं स्मृतम् । शुष्कं भेद्यग्निकृत्सर्वं
लघुतृष्णाक्लमास्रजित्” फले न० । “दध्नोरूपं कर्कन्धूनि”
यजु० १९, २३, कर्कन्धूनां पाकः पील्वादि० कुणच् ।
कर्कन्धूकुण तत्पाके न० । प्रस्थपरे कर्क्यादि० कर्क-
न्धूप्रस्थैत्यादौ नाद्युदास्तता । ततः मध्वा० चतुरर्थ्यां
मतुप् । कर्कन्धूमत् तत्सन्निकृष्टदेशादौ त्रि० स्त्रियां
ङीप् । कर्कन्धूमतो । तस्या अदूरभवः सुवास्त्वा० अण् ।
कार्कन्धूमत तददूरदेशभवे त्रि० ।

कर्कफल न० कर्क--हासे अच् कर्कं प्रकाशान्वितं सत् फलति

फल--अच् । क्षुद्रामलके राजनि० ।

कर्कर पु० कर्क--हासे--अरन् । १ दर्पणे, मेदि० २ चूर्णसाधने क्षुद्र-

पाषाणखण्डे कङ्करे (काँकर) । कर्क--घञ् कर्कं हासं
राति--रा--क । ३ दृढे ४ कठिने त्रि० मेदि० । “किंनो
वर्करकर्करैः प्रियशतैराक्रम्य विक्रीयते” अमरुश० ।
“करीरः कर्करोऽर्करुक्” माघः । २ मुद्गरे शब्दचि० ।

कर्कराङ्ग पु० कर्करैवाङ्गं यस्य । खञ्जने कालकण्ठविहङ्गमे

शब्दमा० ।

कर्कराटु पु० कर्कं हासं रटति रट--कु । कटाक्षे जटाधरः ।

कर्कराटुक पु० कर्कं कठिनं रटति रट--उकञ् । (करकटिया)

विहभेदे शब्दर० ।

कर्करान्धुक पु० कर्करः कठोरः अतिशयितान्धाकारवत्त्वात्

अन्धुः कूपः संज्ञायां कन । अत्यन्तान्धकारवति कूपे ।
त्रिका० ।

कर्कराल पु० कर्करः सन् अलति अल--अच् । चूर्णकुन्तले

हेमच० । तस्य इतरकेशापेक्षया कठिनत्वात्तथात्वम् ।

कर्करिका स्त्री कर्कर इवास्त्यस्याः अच् संज्ञाया कन् अत

इत्त्वम् । नेत्रस्वर्जूभेदे शब्दचि० । तत्र हि नेत्रे कङ्क-
रयुक्ततेवोपणभ्यत इति तस्यास्तथात्वम् ।

कर्करी स्त्री कर्कं हासं राति रा--क गौरा० ङीष् ।

(झारी) १ सनालपात्रे, अमरः कन्दोर्घृतादिपक्वनिष्का-
शनसाधने (ञाजरा) २ द्रव्ये च शब्दचि० । कर्कं राति
राईकक् । कर्करीकोऽप्यत्र । कर्करी + स्वार्थे कन् न ह्रस्वः
कर्करीका तत्रार्थे स्त्री ।

कर्करीक न० कर्क--फर्फरीका० ईकन् नि० । शरीरे उज्ज्वल० ।

कर्करेट पु० कर्कं कर्केति शब्दं रेटत्यस्मात् रेट--अपादाने

घञ् । अर्द्धचन्द्रे गलहस्ते (गलाटिपि) गलामर्दने हि
कर्कशब्दकरणात्तस्य तथात्वम् ।

कर्करेटु पु० कर्केति शब्दं रेटति उन् उप० स० । (कर्क-

टिया) पक्षिभेदे अमरः ।

कर्कश पु० कृञ् हिंसायां विच् कः सन् + कशति--कर्क--अच्

कर्क + लोमादि० शं, करे कशति कश--शब्दे अच् शक०
वा । १ काम्पिल्लवृक्षे (गुड़ारोचनी) अमरः । २ कासमर्दे ।
(काल्कासेन्दा) ३ इक्षुवृक्षे ४ खड्गे च हेम० । ५ साहसिके
कठोरे च त्रि० अमरः “वेणुकर्कशपर्वया” रघुः । “ऐराव-
तास्फालनकर्कशेन” कुमा० । “कृष्णा स्तब्धावलिप्ता वा
जिह्वा शूना च यस्य वै । कर्कशा वा भवेद्यस्य सोऽचितरा-
द्विजहाअसून्” सुश्रु० । कर्कशं परिजीर्णञ्च कृमिजुष्टम-
देशजम् । वर्जयेत् पत्रशाकन्तत्” सुश्रु० “सुरद्विपास्फालन-
पृष्ठ १७०४
कर्कशाङ्गुलौ” रघुः । ६ कठिनम्पर्शवति त्रि० अमरः ७ क्रूरे
८ निर्दये च त्रि० मेदि० । ९ दुर्बोधे च “तर्केवा भृशकर्कशे
मम ममं लीलायते भारती” प्रसन्न० । १० अत्यन्ते च “तस्य
कर्कशविहारमम्भवम्” रघुः कर्कशस्य भावः त्व ।
कशत्व न० तल्कर्कशता स्त्री । ष्यञ् । कार्कश्य न० इमन्
कर्कशिमन् पु० कर्कशभावे “नागेन्द्रहस्तास्त्वचि कर्कश-
त्वात्” कुमा० । “आश्लेषलोलुपबधूस्तनकार्कश्यसाक्षिणीम्”
माघः । कार्कश्यञ्च स्पर्शभेदः । “स्पर्शनेन्द्रियविज्ञेयाः
शीतोष्णश्लक्ष्णकर्कशभृदकठिनाः” इत्यादिसुश्रुतोक्तेस्तस्य स्पर्शे-
न्द्रियग्राह्यता । स च पार्थिवगुणभेदः । अन्यद्रव्ये तु
कार्कश्यव्यवहारोभाक्तः । सुश्रुतोक्तेषु चिकित्सोपयोगिविं-
शतिगुणेषु ११ गुणभेदे ते च गुणा यथा
“अत ऊर्द्ध्वं प्रवक्ष्यामि गुणानां कर्म्मविस्तरम् । कर्म्म
भिस्त्वनुमीयन्ते नानाद्रव्याश्रया गुणाः । ह्लादनः स्त
म्भनः शीतो मूर्च्छातृट्स्वेददाहजित् । उष्णस्तद्विपरीतः
स्यात्पाचनश्च विशेषतः । स्नेर्हमार्दवकृत् स्निग्धो बलवर्ण-
करस्तथा । रूक्षस्तद्विपरीतः स्याद्विशेषात्स्तम्भनः खरः ।
पिच्छिलो जीवनो बल्यः सन्धानः श्लेष्मलो गुरुः । विशदी
विपरीतोऽस्मात् क्लेदादूषणरोपणः । दाहपाककरस्त क्ष्णः
स्रावणो मृदुरन्यथा । सादोपलेपबलकृद्गुरुस्तपर्णवृंहणः ।
लघुस्तद्विपरीतः स्याल्लेखनो रोपणस्तथा । दशाद्याः कर्म्मतः
प्रोक्तास्तेषां कर्मविशेषणैः । दशैवान्यान् प्रवक्ष्यामि
द्रवादींस्तान्निबोध मे । द्रवः प्रक्लेदनः सान्द्रः स्थूलः
स्याद्बन्धकारकः । श्लक्ष्णः पिच्छिलवज्ज्ञेयः कर्कशो
विशदो यथा । सुखानुबन्धी सूक्ष्मश्च सुमन्धो रोचनो
मृदुः । दुर्गंन्धो विपरीतोऽस्माद्धृल्लासारुचिकारकः ।
सरोऽनुलोमनः प्रोक्तो मदो यात्राकरः स्मृतः । व्यवायी
चाखिलं देहं व्याप्य पाकाय कल्पते । विकासी
विकसन्नेवं धातुबन्धान् विमोक्षयेत् । आशुकारं तथाशु-
त्वाद्धावत्यम्भसि तैलवत् । सूक्ष्मस्तु सौक्ष्म्यात् सूक्ष्मेषु
स्रोतस्स्वनुसरः स्मृतः । गुणा विशतिरित्येवं यथावत्परि-
कीत्तिताः” । ११ वृश्चिकालीवृक्षे स्त्री राजनि०

कर्कशच्छद कर्कशः छदः पत्रमस्य । (शेओड़ा) १ शाकोट-

वृक्षे शब्दमा० २ पटोत्वे च त्रिका० कर्कशदलोऽप्यत्र ।
३ कोषातक्यां स्त्री टाप् राजनि० । कर्कशदला दग्ध-
वृक्षे राजनि० ।

कर्कशवाक्य न० कर्म्मं० । निष्ठुरवाक्ये परुषवाक्ये शब्दर० ।

कर्कशिका स्त्री कर्कश--संज्ञायां कन् अत इत्त्वम् । वनको-

लिवृक्षे रत्नमा० ।

कर्कसार न० कर्कः कठिनः सारोऽस्य । करम्भे दधिमिश्रितसक्रुषु हारा० ।

कर्कारु पु० कर्कं हासं श्वेततामृच्छति ऋ--उण । १ कुष्माण्डे ।

(पाड़कुमडा) । अमरः तस्य पक्वे फले श्वेततायुक्तत्वात्
तथात्वम् । अस्य स्त्रीत्वमपि “ककीरुर्ग्राहिणी शीत
रक्तपित्तहरा गुरुः । पक्वा तिक्ताग्निजननी मक्षारा
कफवातनुत्” इति भावप्र० उक्तेः । ३ एर्वारुकर्कारुकुष्माण्ड-
प्रभृतीनां तैलानि मधुराणि” सुश्रु० तयोर्भेदनिर्दे-
शात् विशेषकुष्माण्ड एव एर्कारुरिति बोध्यम । “एर्वारुकं
सकर्कारु पक्वं स्यात् कफवातकृत् । सक्षारं मधरं रुच्यं
दीपनं नातिपित्तलम् । सक्षारं मधुरञ्चैव शीर्णवृन्तं
कफापहम् । भेदनं दीपनं हृद्यमानाहाष्ठीलनुल्लघुः वपुः” ।
इति कर्कारोः “पित्तघ्नं तेषु कुष्माण्डम् बालं मध्यं
कफावहम् । पक्वं लघूष्णं क्षारं च दीपनं वस्तिशोधनम्” ।
इति कुष्माण्डस्य च भेदेन गुणभेदोक्तेस्तयोर्भेदः

कर्कारुक पु० कर्कं हासमृच्छति ऋ--उकञ् ६ त० ।

कालिन्दवृक्षे (खेँडो) हारा० कालिन्दशब्दे गुणादि वक्ष्यते

कर्कि पु० कर्क--इन् । कर्कटराशी । “कर्किर्मीनधनुर्भ्याञ्च

हरिः कीटघटेन च” ज्यो० त० ।

कर्की कर्क--हासे अच् गौरा० ङीष । कुष्याण्ड्याम् (कांकुड)

कर्केतन पु० न० रत्नविशेषे । “रत्नान्याह गरुड़पुराणे” आ० त०

“तेषुरक्षोविषव्यालव्याधिघ्नान्यघहानि च । प्रादुर्भवन्ति
रत्नानि तथैव विगुणानि च । घज्रं मुक्तामणयः पद्मरागाः
स मरकताः प्रोक्ताः । अपि चेन्द्रचीलमणयोवैदूर्य्याः पुष्परा-
गाश्च । कर्केतनकुरुविल्वौ रुधिराक्षसमन्वितं तथा स्फटिकम् ।
विद्रुममणिश्च यत्नादुद्दिष्टं संग्रहे तज्ज्ञैः इत्युद्दिश्य ।
“वायुर्नखान् दैत्यपते र्गृहीत्वा विक्षेप मासाद्य वनेषु हृष्टः ।
ततः प्रसूतं पवनोपपन्नं कर्केतनं पूज्यतमं पृथिव्याम् । वर्णेन
तद्रुधिरशोभमधुप्रकाशमाताम्रपीतदहनोज्ज्वलितं विभाति ।
नीलं पुनः सुलसितं परुषं विभिन्न” व्याध्यादिदोष-
हरणेन न तद्विभाति । स्निग्धा विशुद्धाः समरागिणश्च
आपीतवर्ण्णा गुरुवो विचित्राः । त्रासव्रणव्याघिविवर्जिता-
श्च कर्केतनास्ते परमाः पवित्राः । पत्रेण काञ्चनम-
येन तु वेष्टयित्वा हस्ते गलेऽथ धृतमेतदतिप्रकाशम । रोग
प्रणाशनकरं कलिनाशनञ्च आयुष्करं कुलकरञ्च
सुखप्रदञ्च । एवंविधं बहुगुणं मणिमावहन्ति कर्केतनं
शुभमलं कतरे वरा ये । ते पूजिता बहुघना बहुवान्धवा-
श्च नित्योज्ज्वलाः प्रमुदित अपि ते भवन्ति । एके पिनह्य-
पृष्ठ १७०५
विकृताकुलनीलभासः प्रम्लानरागलुलिताः कलुषा विरू-
पाः । तेजोऽतिदीप्रिकुलपुष्टिविहीनवर्ण्णाः कर्केतनस्य
सदृशं वपुरुद्वहन्ति । कर्केतनं यदि परीक्षितवर्ण्णरूपं प्रत्य-
ग्रभास्वरदिवाकरसुप्रकाशम् । तस्योत्तमस्य मणिशास्त्रविदा
महिम्ना तुल्यन्तु मूल्यमुदितं तुलितस्य कार्य्यम्” ७५ अ०

कर्कोट(क) पु० कर्क--ओट । १ नागभेदे स च अष्टनागान्तर्गतः ।

“अनन्तोवासुकिः पद्मो महापद्मोऽपि तक्षकः । कर्कोटः
कुलिकः शङ्ख इत्यष्टौ नागनायकाः” त्रिका० । ति० त०
पुराणान्तरे गारुड़े च द्वितीयार्द्धे “कुलिकः कर्कटः शङ्ख
इति पाठः । अयञ्च नागपञ्चम्यां पूज्यः यथाह तत्रैव ।
“शेषः पद्मो महापद्मः कुलिकः शङ्खपालकः: वासुकिः
शङ्खकश्चैव कालियो मणिभद्रकः । ऐरावतो धृतराष्ट्रं
कर्कोटकधनञ्जयौ” इति । अयञ्च कद्रुपुत्रभेदः । “शेषः
प्रथमतोजातोवासुकिस्तदनन्तरम । ऐरावतस्तक्षकश्च
कर्कोटकधनञ्जयौ” भा० आ० ३५ अ० नागनामकथने ।
कर्कोटकनागस्य नारदशापेन जडताप्राप्तिकथा नलेन
सह संवादश्च भा० व० ६६ अ०
“उत्सृज्य दमयन्तीन्तु नलो राजा विशाम्पते! । ददर्श
दावं दह्यन्तं महान्तं गहने वने । तत्र शुश्राव
शब्दं वै मध्ये भूतस्य कस्यचित् । अभिधाव नलेत्युच्चैः
पुण्यश्लोकेति चासकृत् । मा भैरिति नलश्चोक्त्वा मध्य-
मग्नेः प्रविश्य तम् । ददर्श नागराजानं शयानं
कुण्डलीकृतम् । स नागः प्राञ्जलिर्भूत्वा वेपमानो
नलन्तन्ता । उवाच विद्धि मां नाम्ना नागं कर्कोटकं
नृप! । मया प्रलुब्धो महर्षिर्नारदः सुमहातपाः ।
तेन मन्युपरीतेन शप्तोऽस्मि मनुजाधिप! । तिष्ठ त्वं
स्थावर इव यावदेव नलः क्वचित् । इतो नेता हि
तत्र त्वं शापान्मोक्ष्यसि मत्कृतात् । तस्य शापान्न
शक्नोमि पदाद्विचलितुं पदम् । उपदेक्ष्यामि ते श्रे-
यस्त्रातुमर्हति मां भवान् । सखा च ते भविष्यामि
मत्समो नास्ति पन्नगः । लथश्च ते भविष्यामि शीघ्र-
मादाय गच्छ माम् । एवमुक्त्वा स नागेन्द्रो वभुवा-
ङ्गुष्ठमात्रकः । तं गृहीत्वा नलः प्रायाद्देशं दावविव-
र्जितम् । आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना ।
उत्स्रष्टुकामं तं नागः पुनः कर्कोटकोऽब्रवीत् ।
पदानि गणयन् गच्छ स्वानि नैषध! कानिचित् । तत्र-
तेऽहं महावाहो! श्रेयो धास्यामि यत् परम् । ततः
सङ्ख्यातुमारब्धमदशद्दशमे पदे । तस्य दष्टस्य रूपं तत्
क्षिप्रमन्तरधीयत । स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृत
नलः । स्वरूपधारिणं नागं ददर्श स महीपतिः ।
ततः कर्कोटको नागः सान्त्वयन् नलमब्रवीत् । मया
तेऽन्तर्हितं रूपं न त्वां विद्युर्जना इति । यत्कृते
चासि निकृतो दुः खेन महता नल! । विषेण
स मदीयेन दुः खं त्वयि निवत्स्यति । विषेण संवृतैर्गात्रै-
र्यावत्त्वां न विमीक्ष्यति । तावत्त्वयि महाराज! दुःखं
वै स निवत्स्यति । अनागा येन निकृतस्त्वमनर्हो
जनाधिप! । क्रोधादसूययित्वा तं रक्षा मे भवतः कृता ।
न ते भयं नरव्याघ्र! दंष्ट्रिभ्यः शत्रुतोऽपि वा ।
ब्रह्मद्विड्भ्यश्च भविता मतप्रसादान्नराधिप! । राजन्!
विषनिमित्ता च न ते पीड़ा भविष्यति । संग्रामेषु च
राजेन्द्र! शश्वज्जयमवास्प्यसि । गच्छ राजन्नितः सूतो
वाहुकोऽहमिति ब्रुवन् । समीपमृतुपर्णस्य स हि वैवाक्षनै
पुणः । अयोध्यां नगरीं रम्यामद्य वै निषधेश्वर! । स
तेऽक्षहृदयं दाता राजाश्वहृदयेन वै । इक्ष्वाकुकुलजः
श्रीमान् मित्रञ्चैव भविष्यति । भविष्यसि यदाक्षज्ञः श्रे-
यसा योक्ष्यसे तदा । समेष्यसि च दारैस्त्वं मा स्म
शोके मनः कृथाः । राज्येन तनयाभ्याञ्च सत्यमेत-
द्ब्रवीमि ते । स्वंरूपञ्च यदा द्रष्टुमिच्छेथास्त्वं
नराधिप! । संस्मर्त्तव्यस्तदा तेऽहं वासश्चेदं निवासयेः ।
अनेन वाससाच्छन्नः स्वं रूपं प्रतिपत्स्यसे । इत्युक्त्वा
प्रददौ तस्मै दिव्यं वासोयुगं तदा । एवं नलं
समादिश्य वासो दत्त्वा च कौरव! । नागराजस्ततो राजं-
स्तत्रैवान्तरधीयत” ।
७२ अ० “तस्याक्षहृदयज्ञस्य शरीरान्निःसृतः कलिः ।
कर्कोटकविषं तीक्ष्णं मुखात् सततसुद्वमन्” । ७९ अ० । “कर्को-
टकस्य नागस्य दमयन्त्या नलस्य च । ऋतुपर्णस्य राज्ञश्च
कीर्त्तनं कलिनाशनम्” संज्ञायां कन् २ विल्ववृक्षे पु०
राजनि० । ३ फललताभेदे (काँकुड) गौरा० ङीष्
“कर्कोटकीफलं कुष्ठहृल्लासारुचिनाशनम् । श्वासकासज्व-
रान् हन्ति कटुपाकञ्च दीपनम् । ईषद्विभिन्नमरिचः
परिपूर्ण्णगर्भं तैलेन रन्धितसुसैन्धवपातयोगम् । बाह्लीकयुक्त-
पयसा विहिताभिषेकं कर्कोटकीफलमिदं रुचिकृत्तरू-
त्थम्” । वैद्यके तद्गुणपाकादि । ४ पीतघोषावृक्षे स्त्री
राजनि० । स्वार्थे कन् अत इत्त्वम् । कर्कोटिका (काकरोल)
वृक्षे (काँकुड) ५ कुष्माण्ड्याञ्च स्त्री राजनि० ।

कर्कोटवापी स्त्री कर्कोटनागवासेन कृता वापी । काशोस्ये

ती भेदे । “कर्कोटवाप्या ईशाने मरीचेः कुण्डमुत्तमम्”
काशीख० ।
पृष्ठ १७०६

कर्क्यादि पु० प्रस्थेपरे अवृद्धपूर्ब्बपदस्य आद्युदात्ततापर्य्युदा

साषिये पाणिन्युक्ते शब्दगणभेदे स च कर्की मध्नी
मकरीं कर्कन्धू करीर कन्दुक करण वदरी” कर्कीप्रस्थः ।

कर्च्चरिका स्त्री पूरिकाभेदे (कचुरी) पाकराजेश्वरः ।

तत्पाकप्रकारः भावप्र० उक्तो यथा “माषाणां पिष्टिका
पूर्य्या लवणार्द्रकहिङ्गुभिः । तया पिष्टिकया पूर्ण्णा सम्मिता
कृतपोलिका । ततस्तैलेन पक्वा सा पूरिका कथिता बुधैः ।
रुच्या स्वाद्वी गुरुस्निग्धा बल्या पित्तास्रदूषिका । चक्षु-
स्तेजोहरी चोष्णा पाके वातविनाशिनी । तथैव धृत
पक्वापि चक्षुष्या रक्तपित्तहृत्” ।

कर्चरी स्त्री कं जलं चुर्य्यतेऽत्र चुर--पृषो० क गौरा० ङीष् ।

जलशून्ये शुष्कफलखण्डे (कच्री) पाश्चात्त्यभाषाप्रसिद्धे
द्रव्ये “क्षीराम्लकृतसंस्कारा शुष्का स्नेहविपाचिता ।
अरोचकादिरोगाणां कर्चरी कण्ठकर्त्तरी । कर्चरी रुचिकु-
द्बल्या सुस्वादुरतिलेखनी । उष्णा पित्तकरी प्रोक्ता कफकृत्
सारिका स्मृता” भावप्र० ।

कर्चूर न० कर्ज्ज ऊर + पृषो० । १ स्वर्णे । २ कर्वूरवर्ण्णे ३ तद्वति

त्रि० अमरटीका (कचूर) प्रसिद्धे ४ गन्धसारे शट्याम् पु०
भावप्र० । तद्गुणादि “कर्चूरो वेधमुख्यश्च द्रा-
विडः कल्पकः शठी । कर्चूरो दीपनो रुच्यः कटुक-
स्तिक्त एव च । सुगन्धिः कटुपाकः स्यात् कुष्ठार्शोव्रणका-
सनुत् । उष्णोलघुहरेच्छ्वासं गुल्मवातकफक्रिमीन्”
५ हरिताले न० वैज० । “रराज कर्चूरपिशङ्गवाससः”
माघः । “कर्चुरः हरितालम्” मल्लि० ।

कर्चूरक पु० कर्चूर + स्वार्थे कन् स इव कायति कै--क वा ।

(काँचा) १ हरिद्रायाम् क्षीरस्वा० । तस्याः शट्याकृतित्वात्
तयात्वम् । २ कर्चूरशब्दार्थे च ।

कर्ज्जपीडायाम् भ्वा० पर० सक० सेट् । कर्जति अकर्जीत् । चकर्ज्ज प्रनिकर्ज्जति ।

कर्ण्ण भेदने अदन्तचुरादि० उभ० सक० सेट् । कर्ण्णयति ते

अचकर्णत् त । कर्ण्णयाम्--बभूव आस । चकार चक्रे ।
कर्ण्णयिता कर्ण्णयिष्यति । कर्णनम् कर्ण्णः कर्ण्णितः
कर्ण्णयितुम् । कर्ण्णयन् कर्णयमानः । कर्णयित्वा आकर्ण्य
कर्ण्णी । कर्ण्यते अकर्ण्णि अकर्ण्णिषाताम् अकर्णयिषाताम्
  • आ + कर्ण्ण--श्रवणे । “आकर्णयन्नुत्सुकहंसनादान्” भट्टिः ।
“मिथस्तदाकर्णनसज्जकर्णया” देवाकर्णय सुश्रुतेन
चरकस्योक्तेन जानेऽस्विलम् । “अदस्तदाऽकर्ण्णिफलाढ्यजीवि-
लम्” इति च नैष० । “आकर्ण्य सम्प्रति रुतं चरणायुधा-
नाम्” सा० द० ।

कर्ण पु० । कर्ण्यते आकर्ण्यतेऽनेन कर्ण करणे अच्

कीर्य्यन्ते शब्दा वायुनाऽत्र कॄ--नन् वा । १ श्रोत्रे शब्द-
ज्ञानसाधने इन्द्रियभेदे तदाधारे २ गोलके च । श्रोत्रञ्च
कर्ण्णशषुकल्यवच्छिन्ननभोरूपमिति नैयायिकादयः ।
सात्विकाकाशसूक्ष्मांश इति वेदान्तिनः सांख्यादयश्च
स्वीचक्रुः । तत्राद्यमते शब्दोत्पत्तिदेशे श्रोत्रस्य
गमनाभावेन अन्यत्रोत्पन्नशब्दग्रहणासम्भवः । तथा हि
आकाशस्यैकत्वेऽपि उपाधिभेदेन भेदात् यदीयकर्ण-
शष्कुलीप्रदेशे शब्दसमवायस्तस्यैव श्रावणम् नान्यस्य, ततश्च
वीचितरङ्गन्यायेन कदम्बकोरककन्यायेन वा शब्दोत्पत्तावपि
शब्दोत्पत्तिदेशस्य श्रोतुश्च विभिन्नदेशस्थतया न शब्दोप-
लब्धिः स्यात् । अतस्तत्तद्देशस्थस्य शीघ्रं धावमानस्य
वायोः संयोगविभागादयः श्रोतुः शब्दादभिव्यञ्जकाः ।
तदेतत् शङ्कापूर्व्वकम् मीमांसाभाष्ये समर्थितम् यथा ।
“यदि शब्दं संयोगविभागा एवाभिव्यञ्जन्ति न
कुर्व्वन्ति, आकाशविषयत्वाच्छब्दस्य, आकाशस्यैकत्वात्,
य एवापरत्र श्रोत्राकाशः, स एव देशान्तरेष्वपीति स्रुघ्न-
स्यैः संयोगविभागैरभिव्यक्तः पाटकिपुत्रेऽप्युपलभ्येत? ।
यस्य पुनः कुर्व्वन्ति, तस्य वायवीयाः संयोगविभागा
वाय्वाश्रितत्वाद्वायुष्वेव करिष्यन्ति । यथा, तन्तवः तन्तु-
ष्वेव पटं, तस्य पाटलिपुत्रेष्वनुपललम्भी युक्तः, स्रुघ्नस्थ-
त्वात्तेषाम् । यस्याप्यभिव्यञ्जन्ति, तस्याप्येष न दोषः, दूरे
सत्याः कर्णशष्कल्याः अनुपकारकाः संयोगविभागाः ।
तेन दूरे यच्छ्रोत्रं तेन नोपलम्यते” इति । नैददेवं,
अप्राप्ताश्चेत् संयोगविभागाः श्रोत्रस्योपकुर्युः सन्निकृष्टविप्र-
कृष्टदेशस्थौ युगपच्छब्दमुपलभेयाताम् न च युगपदुपल-
भेते । तस्मान्नाप्राप्ताः उपकुर्वन्ति, न चेदुपकुर्वन्ति,
तस्मादनिमित्तं शब्दोपलम्भने संयोगविभागौ इति” ।
नैतदेवं, अभिघातेन हि प्रेरिताः वायवस्तिमितानि वाय्व-
न्तराणि प्रतिबाधमानाः सर्व्यतोदिक्कान् संयोगविभागान्
उत्पादयन्ति, यावद्वेगमभिप्रतिष्ठन्ते । ते च (संयो-
गविभागाः) वायोरप्रत्यक्षत्वात् नोपलभ्यन्ते ।
अनुपरतेष्वेव तेषु शब्दः उपलभ्यते, नोपरतेषु । अतो न
दोषः । अत एव चानुवातं दूरादुपलभ्यते शब्दः” ।
वेदान्त्यादिमते शब्दस्य पञ्चमूतगुणतया शब्दाधारं वायुना
झटिति कण्णदेशे यथावेगं धावमानेन कर्ण्णप्रापणसम्भव
पृष्ठ १७०७
स्तेन शब्दोपलम्भः । तन्मते श्रवणेन्द्रियस्य प्राप्यकारि-
त्वोक्तिरप्येतत्परेति बोध्यम् ।
कर्ण्णस्याविष्ठातृदेवश्च दिक् इति करणाधिषशब्दे उक्तम् ।
कर्ण्णग्राह्याश्च शब्दास्तद्भेदास्तद्धर्म्माश्च “कर्ण्णेकृतं
कनकपत्रमनालपन्त्या” चोगप० । “मिथस्तदाकर्ण नसज्जकर्णया”
नैष० “तद्गुणैः कर्ण्णमागत्य चापलाय प्रणोदितः” रघुः
श्रवणेन्द्रियस्य सूक्ष्मत्वेऽपि तदाधाराभिप्रायेण “अवलम्बित-
कर्णशष्कुलीकलसीकं रचयन्नवोचत” नैष० वाक्यम् ।
३ सुवर्ण्णालीवृक्षे मेदि० । त्रिकोणादिक्षेत्रे ४ भुजकोटि-
संयोजकरेखाभेदे तद्रेखामानज्ञानोपायश्च लीला० उक्तः
यथा “इष्टाद्बाहो यः स्यात्तत्स्पर्द्धिन्यां दिशीतरोबाहुः ।
त्र्यस्रे चतुरस्रे वा सा कोटिः कीर्त्तिता तज्ज्ञैः ।
तत्कृत्योर्योगपदं कर्ण्णो, दोःकर्ण्णवर्गयोर्विवरात् । मूलं कोटिः,
कोटिश्रुतिकृत्योरन्तरात् पदं बाहुः” इति उदा० दिङ्मात्र-
मत्रोच्यते भुजः ४ कोटिः ३ अनयोर्वर्गः १६, ९,
तयोर्योगः २५ तस्य मूलम् ५ तथाच चतुर्हस्तबाहुके त्रिह-
स्तकोटिके क्षेत्रे कर्ण्णमानम् पञ्च हस्ताः । अधिकं
क्षेत्रव्यवहारशब्दे वक्ष्यते । अस्य च भुजकोटिभेदनात् कृति-
द्वारा तयोर्वर्गव्यापनाच्चकर्ण्णत्वम् । ५ कुटिले च “व्याघार-
णवत् प्राणभृतः कर्णसहिताः” कात्या० १७, ६, ० । “कर्ण्णेन
अक्ष्णया सहिताः” संग्र० व्या० “अक्ष्णया कौटिल्येन” इति
कात्या० ५, ४, १५ सू० व्या० कर्कः । कुन्त्याः कन्यावस्थायां
सूर्य्यात् जाते स्वनामख्याते ६ वसुषेणे तदुत्पत्तिकथा यथा
“शूरोनाम यदुश्रेष्टोवमुदेवपिताऽभवत् । तस्य कन्या पृथा
नाम रूपेणासदृशी भुवि । पितुः स्वस्रीयपुत्राय सोऽनप-
त्याय वीर्यवान् । अग्रमग्र प्रतिज्ञाय स्वस्यापत्यस्य वैतदा ।
अग्रजातेति तां कन्यां शूरोऽनुग्रहकाङ्क्षया । अददत्
कुन्तिभोजाय स तां दुहितरं तदा । सा नियुक्ता पितुर्गेह
ब्राह्मणातिथिपूजने । उग्रम्पर्य्यचरद्घोरं ब्राह्मणं श सि
तव्रतम् । निगूढ़निश्चयं धर्मवन्तं दुर्वाससं विदुः । तमुग्रं
शंसितात्मानं सर्वयत्नैरतोषयत् । तुष्टोऽभिचारसंयुक्तमाच
चक्षे यथाविधि । उवाचचैनां भगवान् प्रीतोऽस्मि सुभगे!
तव । यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि । तस्य तस्य प्रसा-
दात्त्व देवि । पुत्रान् जनिष्यसि । एवमुक्ता च सा बाला तदा
कौतूहलान्विता । कन्या सती देवमर्कमाजुहाव यशस्विनी ।
प्रकाशकर्त्ता भगवांस्तस्यां गर्भं दघौ तदा । अजीजनत् सुतं
तस्यां सर्वशस्त्रभृतांपरम् । सकुण्डलं सकवचं देवगर्भं श्रिया-
न्वितम् । दिवाकरसमं दाप्त्या चारुसंर्वाङ्गभूषितम् । निगूह-
माना जातं वै बन्धुपक्षभयात् तदा । उत्ससर्ज जले कुन्ती
तङ्कुमारं यशस्विनम् । तमुत्सृष्टं जले गर्भं राधाभर्त्ता
महायशाः । राधायाः कल्पयामास पुत्रं सोऽधिरथिस्तदा ।
चक्रतुर्न्नामधेयञ्च तस्य बालस्य तावुभौ । दम्पती वसुषेणेति
दिक्षु सर्वाखु विश्रुतम् । स वर्द्धमानो बलवान् सर्वास्त्रेषूत्तमो
ऽभवत् । वेदाङ्गानि च सर्वाणि समाप जयतांवरः । यस्मिन्
काले जपन्नास्ते घीमान् सत्यपराक्रमः । नादेयं ब्राह्मणे-
ष्वासीत्तस्मिन् काले महात्मनः । तमिन्द्रो ब्राह्मणोभूत्वा
पुत्रार्थेभूतभावनः । ययाचे कुण्डले वीरं कवचञ्च सहाङ्गजम् ।
उत्कृत्य कर्णोह्यददत् कवचं कुण्डले तथा । शक्तिं शक्रो-
ददौ तस्मै विस्मितश्चेदमब्रवीत् । देवासुरमनुष्याणां गन्धर्वो-
रगरक्षसाम् । यस्मिन् क्षेप्स्यसि दुर्द्धर्व । स एकोन भविष्यति ।
षुरा नाम च तस्यासीद्वसुषेण इति क्षितौ । ततो वैकर्त्तनः
कर्णः कर्मणा तेन सोऽभवत् । आमुक्तकवचोवीरोयस्तु जज्ञे
महायशाः । स कर्ण इति विख्यातः पृथायाः प्रथमः सुतः ।
स तु सूतकुले वीरो ववृधे राजसत्तम । कर्णं नरनरश्रेष्ठं
सर्वशस्त्रभृतां वरम् । दुर्योधनस्य सचिवं मित्रं शत्रुविना-
शनम् । दिवाकरस्य तं विद्धि राजन्नं शमनुत्तमम्” ।
तस्याङ्गदेशाषिपताप्राप्तिः अङ्गाधिपशब्दे उक्ता । कर्णोऽ-
स्त्यस्य प्राशस्त्येन अर्श० अच् । ७ लम्बकर्णे त्रि० । “खड्गोवै-
श्वदेवः श्वा कृष्णः कर्ण्णोगर्दभः” यजु० २४, ४० । “कर्ण्णो
लम्वकर्ण्णः” वेददी० । ८ अरित्रे च पु० कर्णः “श्रोत्रमरित्र-
ञ्चेति” दुर्गः । कर्ण्णधारः । “हतकर्ण्णेव नौर्जले” रामा० ।

कर्णक पु० कर्णयति विभिद्य जायते कर्ण्ण--ण्वुल् । वृक्षादीनां

१ पत्रशाखादौ तेषां दारुस्फोटनेन जायमानत्वेन
तथात्वम् । “अथौदुब्धरीमादधाति ऊर्ग्वै रस उदुम्बर
ऊर्ज्जैवैनमेतद्रसेन प्रीणाति कर्णकवती भवति पशयो वै
कर्ण्णकाः” “यदि कर्णकवतीं न विन्देत् दधिद्रप्समुपहत्या-
दध्यात्” शत० ब्रा० । ९, २, ३, ४० । “कर्णकशब्देनात्र
पत्रशाखादिकं विवक्ष्यते” भा० । पशूनाञ्च कर्ण्णकशब्द-
वाच्यत्वञ्च पत्रशाखादिना पुष्टिमत्त्वात् इत्यपि तत्रैवोक्तम्
पत्राणाञ्च कर्णाकारत्वादपि कर्ण्णकत्वमित्यपि बोध्यम्
वृक्षाणां दारस्फोटे ९ रोगे च । “प्रत्यृचमुत्तमा
सकर्ण्णका” कात्या० १८, ४, ६ । “कर्णकोदारुस्फोटीरोगस्तद्वती
औदम्बरी” संग्र० । “कर्ण्णकामावे दधिद्रप्साक्ताः” कात्या०
१८, ४, ७ । ततः तारादि० इतच् । कर्ण्णकितजातपत्रादौ त्रि०

कर्ण्णकण्डू स्त्री ७ त० । कर्णगतरोगभेदे कर्ण्णगतरोगशब्दे

विवृतिः ।
पृष्ठ १७०८

कर्णकीटी स्त्री कर्ण्णयति भिनत्ति अच् स्वल्पः कीटः

अल्पार्थे ङीप् काटी कर्म्म० । शतपद्याम् (काण्डाइ) ।
हेमच० ।

कर्णकृमि पु० कर्णगतरोगशब्दे सुश्रुतोक्ते कर्णरोगभेदे कृमिकर्णकोऽप्यत्र ।

कर्ण्णक्ष्वेड़ पु० ७ त० सुश्रुतोक्ते कर्ण्णगतरोगभेदे कर्ण्णगतरोग-

शब्दे विवृतिः ।

कर्ण्णगतरोग पु० कर्ण्णे गतीरोगः । सुश्रुतोक्ते कर्ण्णगते

रोगभेदे तद्भेदनिदानादि तत्रैवोक्तं यथा ।
“अथातः कर्णगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ।
१ कर्णशूलं २ प्रणादश्च ३ बाधिर्य्यं ४ क्ष्पेड एव च । कर्णस्रावः
५ कर्णकण्डूः ६ कर्णगूथ ७ स्तथैव च । कृमि ९ कर्णप्रतीनाहौ
विद्रधि १० द्विविध ११ स्तथा । कर्णपाकः १२ पूतिकर्ण
१३ स्तथैवार्शश्चतुर्व्विघम् १४, १५, १६, १७ । तथार्व्वुदं
सप्तवधं १८, २४, शोथश्चापि चतुर्विधः २५, २८ ।
एते कर्णगतारोगा अष्टाविंशतिरीरिताः । समीरणः
श्रोत्रगतोऽन्यथाचरः समन्ततः शूलमतीव कर्णयोः ।
करोति दोषैश्च यधास्वमावृतः स कर्णशूलः १ कथितो
दुराचरः । यदा तु नाडीष् विमार्गमागतः स एव
शब्दाभिवहासु तिष्ठति । शृणोति शब्दान् विविधांस्तदा
नरः प्रणाद २ भेनं कथवन्ति चामवम् । स एव शब्दा
भिवहा यदा सिराः कफानुयातो ऽप्यनुसृव्य
तिष्ठति । तदा नरस्याप्रतिकारसेविनो भवेत्तु बाधिर्य्य-
मसंशयं खलु । श्रमात्क्षताद्रूक्षकषायनोजनात्
समीरणः शब्दपथे व्यवस्थितः । विरिक्तशीर्षस्य च
शीतसेबिनः करोति हि क्ष्वेड ४ मतीव कर्णयोः । शिरोऽ-
भिघातादय वा निमज्जतो जले प्रपाकादथवापि
विद्रधेः । स्रवेत्तु पूयं श्रवणोऽनिलावृतः सकर्णसंस्राव ५
इति प्रकीर्त्तितः । कफेन कण्डूः प्रचितेऽथ कर्णयो
र्भृशं भवेत् स्रोतसि कर्ण संज्ञिते । विशोषिते श्लेष्मणि
पित्ततेजसा नृणां भवेत् स्रोतसि कर्णगूथकः ६ ।
स कर्णगूथो द्रवतां यदागतो विलायितो घ्राणमुखं प्रपद्यते ।
तदा स कर्णप्रतिनाहसंज्ञितो ७ भवेद्विकारः शिरसोऽति-
तापनः । यदा तु मूर्च्छन्त्यथ वापि जन्तवः सृजन्त्य
पत्यान्यथवापि मक्षिकाः । तदञ्जनत्वाच्छ्रवणो निरुच्यते-
भिषग्निराद्यैः कृमिकर्णकस्तु ८ सः । क्षताभिषातप्रभवस्तु
विद्रधि १० र्भवेत्तथा दोषकृतोऽथवा पुनः । स रक्तपीता-
रुणमस्रमास्वनेत्प्रतोदधूमायनदाहप्सोषवान । भवेत्पपाकः
११ खलु पित्तकोपतो विकोषविक्लदकरश्च कणैयोः ।
स्थिते कफे स्नोतसि पित्ततेजसा विलाप्यमाने भृशस-
म्प्रतापनात् । अवेदनो वाप्यथवा सवेदनो घनं स्रवेत्पूति
सपूतिकर्णकः १३ । प्रदिष्टलिङ्गान्यर्शांसि १४, १५, १६, १७
तत्त्वतस्तथैव शोथा १८--२४ र्ब्बुद २५--२८ लिङ्ग, मीरि-
तम् । मया पुरस्तात्प्रसमीक्ष्य योजयेदिहैव तानि प्रयतो
भिषग्वरः” ।

कर्णगूथ न० ६ त० । १ कर्ण्णमले कर्णगतरोगशब्दे सुश्रुतोक्ते २ रोगभेदे च ।

कर्णगोचर पु० कर्ण्णस्य कर्णव्यापारजन्यबोधस्य गोचरः

विषयः । श्रवणयोग्ये विषये ।

कर्णग्राह पु० कर्णमरित्रं गृह्णाति ग्रह--अण् उप० स० ।

कर्ण्णधारे नाविके । तस्यापत्यं रेवत्या० ठक । कार्ण्ण-
ग्राहिक तदपत्ये पुंस्त्री० ।

कर्णच्छिद्र न० ६ त० । कर्ण्णरन्ध्रे “कर्ण्णच्छिद्रैर्वर्त्तमानं कीटं

क्लेदमलादि वा । शृङ्गेणापहरेद्धीमानथवापि शलाकया”
सुश्रु० ।

कर्ण(कर्णे)जप त्रि० कर्ण्णे जपति वा सप्तम्या अलुक् । खले

सूचके । “कर्ण्णेजपैराहितराज्यलोभा” भट्टिः । अण्
कर्ण्णजापोऽप्यत्र ।

कर्णजलूका स्त्री कर्ण्णे जलूकेव । शतपद्याम् (काण्डाइ)

कर्ण्णजलौकस् इत्यप्यत्र शब्दरत्रा० । कर्ण्णजलौकाऽप्यत्र
अमरः । कर्ण्णजलौकस् इत्यपि तत्रार्थे भरतः ।

कर्ण्णजाह न० कर्ण्णस्य सूलम् कर्ण्ण + जाह । कर्ण्णमूले

“कर्ण्णजाहविलोचनेति” भट्टिः ।

कर्णजित् पु० कर्ण्णं जितवान् जि--भूते क्विप् । अर्ज्जुने तस्य

तज्जयकथा भा० क० ९१ अ० । तयोर्युद्धमुक्त्वा “ततो-
ऽर्ज्जुनस्तस्य शिरोजहार, वृत्रस्य वज्रेण यथा महेन्द्रः ।
शरोत्तमेनाञ्जलिकेन राजन्! तदा महास्त्रप्रतिमन्त्रि-
तेन” । कर्ण्णहाप्यदयोऽप्यत्र!

कर्ण्णताल(ड) पु० ६ त० तस्व ल वा । कर्ण्णताडने । “अनृ-

त्यत स्फुटकृतकर्ण्णतालया” माघः ।

कर्ण्णदर्पण पु० कर्ण्णेदर्पण इव । कर्ण्णभूषणभेदे (कानतड्का) त्रिका० ।

कर्ण्णदुन्दुभि पु० कर्ण्णेदुन्दुभिरिव तत्तुल्यध्वनिहेतुत्वात् ।

शतपद्याम् । (काण्डाइ) शब्दमा० तस्याः कर्ण्णप्रवेशे हि
दुन्दुभिवद्ध्वानजननात्तस्यास्तथात्वम् ।

कर्ण्णधार पु० कर्ण्णमरित्रं धारयति ऋ--अण् उप० स० ।

१ नाविके (माजी) अमरः । “अकर्ण्णधारा जलधौ विप्ल-
वेतेह नौरिव” हितो० । “साहित्यार्ण्णवकर्ण्णधारेति”
सा० द० । २ दुःस्वादिनिवारके त्रि० । “अकर्ण्णधारा”
पृथिवी शून्येव प्रतिभाति मे । गते दशरथे स्वर्गं रामे
च रण्यमाश्रिते” रामा० ।
पृष्ठ १७०९

कर्ण्णनाद पु० कर्ण्णे अङ्गुल्यापिहितकर्ण्णे नादः ध्वनिभेदः ।

अङ्गुल्यापिहितकर्ण्णे (भ्ॐ भ्ॐ) इत्याकारे मध्यमाशब्द-
स्वरूपे ध्वनिभेदे । “मध्यमा श्रुतिगोचरा” इत्युक्तेस्तस्या-
स्तथात्वम् ।

कर्ण्णपत्रक पु० पत्रमिव कायति कै--क कर्ण्णेपत्रक इव ।

कर्ण्णपाल्याम् । “कनीनिके चाक्षिकूटे शष्कुली कर्ण्ण
पत्रकौ । कर्ण्णौ शङ्कौ भ्रुवौ दन्तावेष्टावोष्ठौ ककुन्दरे”
याज्ञ० । “कर्ण्णपत्रकौ कर्णपाल्यौ” मिता० ।

कर्ण्णपथ पु० कर्ण्ण एव पन्थाः अच् समा० । कर्ण्णरन्ध्ररूपे

शब्दप्रवेशनयोग्ये मार्गे ।

कर्ण्णपरम्परा स्त्री ६ त० । श्रवणपरम्परायाम् । (काणा-

काणि) “तेनैव च क्रमेणैष गतः कर्ण्णपरम्पराम् ।
प्रबादोबहुलीभावं सर्व्वत्रापि पुरे ययो” कथासरित्सा० ।
एकस्य सकाशादन्येन श्रुत्वाऽन्धस्मै कथने तेनापि पुनरन्यस्मै
कथने एवं परम्परया श्रवणे अस्य वृत्तिः ।

कर्ण्णपराक्रम पु० अपभ्रं शयोग्यबहुच्छन्दोयुक्ते काव्यभेदे ।

कर्ण्णपर्वन् न० भारतान्तर्गते अष्टमे पर्व्वणि । तत्पर्व्वणि

कथासंग्रहश्च भा० आ० १ अ० यथा
“अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम् । सारथ्ये-
विनियोगश्च मद्रराजस्य धीमतः । आख्यानं यत्र पौराणां
त्रिपुरस्य निपातनम् । प्रयाणे परुषश्चात्र संवादः कर्ण शल्य-
योः । हंसकाकीयमाख्यानं तथैवाक्षेपसंभृतम् । बधः
पाण्डस्य च तथा अश्वत्थाम्ना महात्मना । दण्डसेनस्य च ततो
दण्डस्य च बधस्तथा । द्वैरथे यत्र कर्णेन धर्मराजो युधि-
ष्ठिरः । संशयं गमितो युद्धे मिषतां सर्वधन्विनाम् । अन्यो-
न्यं प्रति च क्रोधं युधिष्ठिरकिरीटिनोः । तत्रैवानुनयः
प्रोक्तोमाधवेनार्ज्जुनस्य हि । प्रतिज्ञापूर्वकञ्चापि वक्षोदुः-
शासनस्य च । भित्त्वा वृकोदरो रक्तं पीतवानत्र संयुगे ।
द्वैरथे यत्र पार्थेन हतः कर्णो महारथः । अष्टमं पर्व
निर्दिष्टमेतद्भारतचिन्तकैः । एकोनसप्ततिः प्रोक्ता अध्या-
याः कर्णपर्वणि । चत्वार्य्येव सहस्राणि नवश्लोकशतानि च ।
चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन् प्रकीत्तिताः” ।
“कर्णपर्वण्यपि तथा भोजनं सार्व्वकामिकम् । विप्रेभ्यः
संस्कृतं सम्यग्दद्यात् संयतमानसः” भा० स्वर्गा० ६ अ० ।

कर्ण्णपाक पु० सुश्रुतोक्ते कर्ण्णरोगभेदे कर्ण्णगतरोगशब्देविवृतिः

कर्ण्णपालि(ली) स्त्री ६ त० । १ कर्ण्णपालके कर्णांशभेदे । (काणे-

रपाता) तदवयवश्च मांसपेशीभेदः यथाह मावप्र०
मांसपेशीसंख्याविभागे “यथार्थमूष्मणां युक्तोवायुः स्रोतांसि
दारयेत् । अनुप्रविश्य पिशितं पेशीर्विभजते तथा ।
मांसपेश्यः समाख्यातानृणां पञ्च शतानि च “इत्युप-
क्रम्य “गण्डयोश्चतस्तः कर्ण्णयोर्द्वे” इत्युक्तम् । “कर्ण्णे-
शोथोभवेत् पाल्याम्” “कुर्व्वन्ति पीडिकां पाल्याम्”
“लिह्यात् स शष्कुलीम् पालेः” । कर्ण्णरोगे भावप्र०
“लिह्यात् निर्मांसीकुर्य्यात्” भावप्र० । कर्ण्णं पाल
यति पाल + अण् उप० स० गौरा० ङीष् । (काण-
वाला) २ कर्णालङ्कारभेदे हारा०

कर्ण्णपाल्यामय पु० ७ त० । कर्ण्णंव्यधदोषजे सुश्रुतोक्ते कर्ण-

पालिरोगभेदे स च सुश्रुते सोपद्रवो दर्शितः यथा
“कर्णपाल्यामयान्नॄणां पुनर्व्वक्ष्यामि सुश्रुत! । कर्णपा
ल्यां प्रकुपिता वातपित्तकफास्त्रयः । द्विधा वाप्यथ सं
सृष्टाः कुर्व्वन्ति विविधा रुजः । विस्फोटः स्तब्धता शोथः
पाल्यां दोषे तु वातिके । दाहविस्फोटजननं शोथः पाकश्च
पैत्तिके । कण्डूः सश्वयथुस्तम्भो गुरुत्वञ्च कफात्मके ।
यथादोषञ्च संशोध्य कुर्य्यात्तेषां चिकित्सितम् । स्वे-
दाभ्यङ्गपरीषेकैः प्रलेपासृग्विमोक्षणैः । मृद्वीं क्रियां
वृंहणीयैर्यथास्वं भोजनैस्तथा । य एवं बेत्ति दोषाणां
चिकित्सां कर्त्तुमर्हति । अत ऊर्द्ध्वं नामलिङ्गैर्व्वक्ष्ये
पाल्यामुपद्रवान् । उत्पाटकश्चोत्पुटक श्यानः कण्डूयुतो
भृशम् । अवमन्थः सकण्डूको ग्रन्थिको जम्बुलस्तथा ।
स्रावी च दाहवांश्चैव शृण्वषां क्रमशः क्रियाम्” ।

कर्ण्णपिशाची स्त्री देवीभेदे । तन्त्रसारे मूलं दृश्यम् ।

कर्ण्णपुर न० ६ त० अच् समा० । चम्पानगर्य्याम् हेमच० ।

कर्ण्णपुष्प पु० कर्ण इव पुष्पं यस्य । मोरटालतायाम् राजनि०।

कर्ण्णपूर पु० कर्णं पूरयति पूर--अण् । १ कर्णाभरणे, २ नीलो

त्पले, ३ शिरीषवृक्षे मेदिनिः । ४ अशोकवृक्षे राजनि० ।
एतेषां पुष्पैः स्त्रीकर्णस्य भूषा भवतीति तेषां तथात्वम् ।
“यस्याश्चौरश्चिकुरनिकुरः कर्ण्णपूरोमयूरः” प्रसन्नरा० । “प्रभ्ला-
नवीजाङ्कुरकर्ण्णपूरः” “विलम्बिनीलोत्पलकर्ण्णपूरा” रघुः ।

कर्ण्णपूरक पु० कर्ण्णं पूरयति पूर--ण्वुल् । १ कदम्ववृक्षे

राजनि० । स्वार्थे कन् । २ कर्ण्णाभरणे ३ नीलोत्पले,
४ शिरीषवृक्षे ५ अशोकवृक्षे च राजनि० । एतेषां
पुष्पैः स्त्रीकर्ण्णस्य भूषा भवतीति तेषां तथात्वम् ।
पृष्ठ १७१०

कर्ण्णपूरण न० ६ त० । सुश्रुतोक्तेः तैलादिना कर्ण्णस्य पूरण

“स्नेहसारोऽयं पुरुषः प्राणाश्च स्नेहभूयिष्ठाः स्नेहसाध्याश्च-
भवन्ति स्नेहोहि पानानुवासनमस्तिष्कशिरोवस्त्यूत्तर-
वस्तिनस्यकर्णपूरणगात्राभ्यङ्गभोजने षूपयोज्यः” सुश्रु० ।

कर्णप्रणाद पु० कर्ण्णगतरोगशब्दे सुश्रुतोक्ते कर्ण्णरोगभेदे ।

कर्ण्णप्रतिनाह कर्ण्णरीगभेदे कर्ण्णगतरोगशब्दे विवृतिः

कर्ण्णप्राय पु० देशभेदे स च वृ० सं० नैरृत्यामुक्तः ।

“नेरृत्यां दिशि देशाः” इत्युपक्रम्य “कर्ण्णंप्रायपार-
शवशूद्राः” १४, १८ ।

कर्ण्णफल कर्ण्णः फलमिवास्य । मत्स्यभेदे (काणलिमाछ) राजनि० ।

कर्ण्णभूषण न० कर्ण्णं भूषयति भूष--ल्यु । कर्ण्णाभरणे अमरः ।

कर्ण्णमल न० ६ त० । कर्ण्णस्थे मलाकारे पदार्थे (काणेर खल)

हारा० कर्णमलोत्पत्तिप्रकारः भावप्र० उक्तो यथा ।
“ततो मांसाग्निना पुनः पच्यमानः पञ्चाहोरात्रात्
सार्द्धदण्डांश्च यावन्मांसेष्वेव तिष्ठति ततः पच्यमानात्तस्मान्
मलं निर्गच्छति तद्व्यानवायुना क्षिप्रं कर्णावागत्य
कर्णविड्भवति” । कर्ण्णविठादयोऽप्यत्र ।

कर्ण्णमो(टि)टी स्त्री कर्ण्णं मोटयति इन् वा ङीप् । दुर्गाभेदे हेम० ।

कर्ण्णयोनि त्रि० कर्ण्णः योनिः स्थानमस्य । कर्ण्णग्राह्ये विषये ।

“नृचक्षसो दृशये कर्ण्णयोनयः” ऋ० २, २४, ८ । “कर्ण्णयो-
नयः श्रोत्रेन्द्रियग्राह्याः” भा० ।

कर्ण्णल त्रि० कर्ण्णः कर्ण्णशक्तिरस्त्यस्य सिध्मा० णच् ।

प्रशस्तश्रवणशक्तियुक्ते ।

कर्ण्णलता स्त्री कर्ण्णस्य लतेव । कर्ण्णपाल्याम् (काणेरपाता)

स्वार्थे कन् अत इत्त्वम् । कर्णलतिकापि तथार्थे हेम० ।

कर्ण्णवंश पु० कर्ण्णः कर्ण्णाकारोवंशोयत्र । मञ्चे हारा० ।

तस्य पादेषु बंशाकारत्वात्तथात्वम् ।

कर्ण्णवर्ज्जित त्रि० ३ त० । १ बधिरे (काला) श्रोत्रशून्ये ।

२ सर्पे पु० स्त्री शब्दच० । स्त्रियां जातौ ङीष् । तस्य
चक्षुःश्रवस्त्वात्तथात्वम् । बाधिर्यञ्च श्रवणशक्तिशून्यत्वम् ।

कर्ण्णविष् स्त्री कर्ण्णस्य विट् । कर्ण्णमले (काणेरखल) “वसा-

शुक्रमसृङ्मज्जामूत्रविड्ध्राणकर्ण्णविट् । श्लेष्माश्रुदूषि-
कास्वेदो द्वादर्शते नृणां मलाः” मनुः । “शोधयेत्
कर्ण्णविट्कन्तु भिषक् सम्यक् शलाकया” सुश्रु० ।

कर्ण्णवेध पु० विध--घञ् ६ त० । शास्त्रोक्तविधानेन कर्ण्ण-

योर्वेधने । तत्प्रकारमुहूर्त्तादिकं मुहूर्त्तचिन्तामणिपीयू-
षधारयोरुक्त यथा ।
“हित्व तांश्चैत्रपौषावथ हरिशयनं जन्ममासंच रिक्तां
युगमावदं जन्मतारामृतुमुनिवसुभिः संसिते मास्यथो वा ।
जन्माहात्सूयंभूपैः परिमितदिवसे ज्ञेज्यशुक्रेन्दुवारेऽ
थोजाब्दे विष्णुयुग्मादितिमृदुलघुभैः कर्णवेधः प्रशस्तः ।
संशुद्धे मृतिभवने त्रिकोणकेन्द्रत्र्यायस्थैः शुभखचरैः
कवीज्यलग्न । पापाख्यैररिसहजायगेहसंस्थैर्लग्नस्थे
त्रिदशगुरौ शुभावहः स्यात्” चिन्ता० ।
“आरभ्य जन्मदिवसंयावत्रिंशद्दिनं भवेत् । जन्म-
मासः स विज्ञेयो गर्हितः सर्वकर्मसु” इतिलक्षणलक्षितम्
जन्ममासम् । रिक्तान्तिथिम् ४, ९, १४ । युग्माव्दं समवर्षं
द्वितीयचतुर्थादिकम् । जन्मतारां प्रथमदशमैकोनविंशति-
कात्मिकां हित्वा । उक्तं च व्यवहारोच्चये । “न जन्म-
मासे न च चैत्रपौषे न जन्मतारासु हरौ प्रसुप्ते । तिथाव
रिक्ते न च विष्टिदुष्टे कर्णस्य वेधोन समानवर्षे” इति ।
अत्र चैत्रस्य निषेधोमीनार्कविषयः पौषनिषेधोऽपि धनुरर्क
विषयः अन्यथा “कार्त्तिके पौषमासे वा चत्रे वा फाल्-
गुनेऽपि वा । कर्णवेध प्रशंसन्ति शुक्ले पक्षे शुभेऽहनीति”
व्यासबवनमसङ्गतं स्यात् । अत्र कार्त्तिकशुक्लपक्षैकादशीतः
परः कार्त्तिकः प्रशस्तः पूर्वत्र देवशयनसत्त्वान्निषेधः । अत्र
जन्ममासे वर्ज्यान्तराण्यप्याह प्रयोगपारिजाते व्यासः ।
“योजन्ममासे क्षुरकर्मयात्रा कर्णस्य वेधं कुरुते विमोहात् ।
मूढः स रोगी धनपुत्रनाशं प्राप्तोति गूढंनिधनं तदाश्विति” ।
विहितकालमाह ऋत्विति ऋतवः षट्मुनयः सप्त वसवो ष्टौ
एतैः संभिते गणिते मासि षष्ठमासे सप्तममासेऽष्टममासे वा ।
अथोवा जन्माहात्सूर्य भूपैर्द्वादशभिः षोड़षमिर्वा परिमिते
गणिते दिवसे सौरसावने कर्णवेधः प्रशस्तौक्तः यदाह जग
न्माहने वसिष्ठः “मासे षष्ठे सप्तमे वाष्टमे वा वेध्यौ कर्णौ द्वादशे
षोड़शेऽह्नि । मध्ये चाह्नः पूर्वभागे न रात्राविति” यदा तु
षष्ठमासादौ कर्णवेधश्चिकीर्षितः तदा तिथीनाह जगन्मोहने
वशिष्ठः “द्वितीया दशमी षष्ठी सप्तमी च त्रयोदशी । द्वादशी
पञ्चमी शस्ता तृतीया कर्णवेधने” इति । ज्ञेज्य शुक्रेन्दु-
वारे इति बुधबृहस्पतिशुक्रचन्द्रवारेषु प्रशस्तः कणवेधः
यदाह जगन्मोहने वसिष्ठः “भूमिजार्कात्मजार्काणां बारान्
संवर्जये त्सुधीः । जीवेन्दुजेन्दुशुक्राणां दिवसाः परिपू-
जिताः” इति । अथेति ओजाव्दे विषमवर्षे वा कर्णवेधः
प्रशस्तः । सूर्यबले सतीत्यपि ध्येयं यदाह राजुमार्त्तण्डः
“अर्केऽनुकूले शशिनि प्रशस्तेताराबले चन्द्रविवृद्धिपक्षे ।
अयुग्मवर्षे शुभदं शिशूनां कर्णस्य वेधं मुनयो वदन्ति” अत्र
कर्णस्येत्येकवचनं ग्रहैकत्वाधिकरणन्यायेनाविवक्षितं
तेन द्वयोरपि कर्णयोर्वेधः । विष्ण्विति श्रवणा धनिष्ठा-
पृष्ठ १७११
पुनर्वसुचित्रानुरा धामृगरेवत्यश्विनीपुष्यहस्तनक्षत्रैर्दशभिरु-
षलक्षिते काले कर्णवेधः प्रशस्तः । उक्तं हि श्रीपतिना
“पौष्णवैष्णवकराश्विनचित्रापुष्यवासवपुनर्वसुप्तैत्रेः । सैन्देवैः
श्रवणवेधविधानं निर्दिशन्ति मुनयो हि शिशूनाम्” ।
नारदेनापि “चित्रादित्याश्विविष्ण्वन्त्यरविमित्रवसूडष ।
समृगेज्येषु बालानां कर्ण्णवेधक्रिया हितेति” गर्गे-
णोत्तरात्रयमप्युक्तम् । “पुष्ये धनिष्ठास्वदितौ हरीन्दुत्वा-
ष्ट्रे करेऽन्त्ये तिसृषूत्तरासु । दस्रे समैत्रेऽप्यथ कर्णवेधो
नेष्टाश्च सर्वेऽष्टमराशिसंस्थाः” इति । अत्रैच्छिकोवि-
कल्पः । अत्र जन्मनक्षत्रनिषेधः सर्ववादिसिद्धः । तदुक्तं
दीपिकायाम् “जन्मनक्षत्रगश्चन्द्रः प्रशस्तः सर्वकर्मसु ।
क्षौरभेषजवादाध्वकर्त्तनेषु विवर्जयेत्” कृती च्छेदन-
इति धात्वर्थानुसारात् कर्त्तनशब्देन कर्णवेधो
विवक्षितः । तया च स्मर्यते । “जन्मनि माति विवाहः
शुभदो जन्मर्क्षजन्मराश्योश्च । अशुभं वदन्ति गर्गाः श्रुतिवेध
क्षौरयात्रास्विति” । “मृतिभवनेऽष्टमस्थाने संशुद्धे सर्वग्रह-
वर्जिते सति । यदाह जगन्मोहने वसिष्ठः “न कश्चिदि-
ष्टोऽष्टमराशिसंस्थस्तिथिद्वयञ्चावमसंज्ञकं चेति” अत्र
विहितलग्नानि प्रयोगपारिजाते नारदेनोक्तानि । “वृषभे
मिथुने मीने कुलीरे कन्यकसु च । तुलाचापे च कुर्वीत
कर्णवेधं शुभावहम् । मेषश्च मकरश्चैव मध्यमा गुरुणोदितौ ।
सिंहवृश्चिककुम्भाश्च अधमत्वाद्विवर्जिताः” इति । अतएवो-
क्त वराहसंहितायाम् “लाभे तृतीये च शुभैः समेते क्रू-
रैर्विहीने शुभराशिलग्ने । वेध्यौ तु कर्णौ त्रिदशेज्यल-
ग्न” इति शुभाश्चन्द्रबुधगुरुशुक्राः तेषां राशयः कर्कमिथु-
नकन्यावृषतुलाधनुर्मीनास्तेषामन्यतमे लग्ने क्रूरैर्विहीने
सतीत्यर्थः । ग्रन्थकृद्दीपिकाकारमतमाश्रित्याह कवीति ।
कवीज्ययोर्लग्ने वृषतुलाधनुर्मीनानामन्यतमे लग्ने सति
त्रिकोणे ५, ९, केन्द्रे १, ४, ७, १० त्र्याय ३, ११, स्थितैः
शुभग्रहैस्तथा पापाख्यैर्ग्रहैररिसहजायगेहसंस्थैः षष्ठतृतीयै-
कादशस्थानस्थितैरुपलक्षिते तथा लग्नस्थे त्रिदशगुरौ
सति कर्णवेधः शुभावहः शुभकारकः स्यात् उक्तञ्च दीपि-
कायाम् “सौम्यैस्त्र्यायत्रिकोणकण्टकगतैः पापैस्त्रिलाभा-
रिगैरोजाव्दे श्रुतिवेध ईज्यसतयोर्लग्नेऽनुकूले शुभे” इति
गुरु “कर्णवेधादिकार्थेषु नेष्टाः सर्तेऽष्टमस्थिताः । कर्ण्णवेधो
विनिर्देश्योलग्नस्थे च वृहस्पतौ । तदभावेऽन्यकेन्द्रस्थे
तदभावे त्रिकोण्णगे” इति अत्र कर्ण्णवेधप्रकारो रत्नमालायाम्
“शिशीरजातदन्तस्य मातुरुत्सङ्गसर्पिणः । सौचिकोवेधयेत्
कर्णौ सूच्या द्विगुणसूत्रया” कर्ण्णरन्ध्रे विशेषमाह देवलः
“कर्ण्णरन्ध्रे रवेच्छाया न विशेदग्रजन्मनः । तं दृष्ट्वा
विलयं यान्ति पुण्यौघाश्च पुरातनाः” शालङ्कायनः “अवि-
द्धकर्ण्णैर्यद्भुक्तं लम्बकर्ण्णैस्तथैव च । दग्धकर्णैश्च यद्भुक्तं
तद्वै रक्षांसि गच्छतीति” । कर्ण्णवेधप्रकारः कर्णव्यधविधि-
शब्दे वक्ष्यमाणसुश्रुतोक्तावनुसन्धेयः ।
विघा० पा० । श्रीधरः “हरिहरकरचित्रासौम्य
पौष्णौत्तरार्य्यादितिवसुषु घटालीसिंहवर्ज्ये सुलग्ने ।
शशिबुधगुरुकाव्यानां दिने पर्वरिक्तारहिततिथिषु शुद्धे नैधने
कर्णवेधः । सुनक्षत्रे शुभे चन्द्रे सुस्थे शीर्षोदये शुभे ।
दिनच्छिद्रव्यतीपातविष्टिवैधृतिवर्जिते । शिशोरजात-
दन्तस्य मातुरुत्सङ्गसर्पिणः । सौचिकोवेधयेत् कर्णौ सूच्य
द्विगुणसूत्रया । शातकुम्भमयी सूचिर्वेधने तु शुभप्र-
दा । राजती वायसी वापि यथा विभवतः शुभा । सुभू-
मौ प्राङ्गणे रम्ये शुचो देशेऽम्वरे रवेः । सन्निधौ वेधयेत्
कर्ण्णौ स्त्रीपुं सोर्वामदक्षिणौ । क्रमेण पूर्वं वेध्यौ द्वौ
शिशोरायुष्यवर्द्धनौ” । अर्ण्णवेऽप्युक्तम् “शुक्लसूत्रसमायुक्तताम्र-
सूच्याथ वेधयेत् । वेधात् तृतीये नक्षत्रे क्षालयेदुष्णवारि-
णा । रोपणार्थसुशुध्यर्थं बालसंपत्तिमाप्नुयात् । एवं छिन्ने च
भिन्ने च हित्वा योज्यानि योजयेत्” विष्णु धर्मोत्तरे पुष्करः
“शिशोरेवाथ कर्तव्यं कर्णवेधं यथा शृणु । पूर्वाह्णे
पूजनं कृत्वा केशवस्य हरस्य च । ब्रह्मणश्चन्द्रसूर्याभ्यां दिगी-
शानान्तथैव च । नासत्ययोः सरस्वत्या ब्राह्मणानां गवां
तया । गुरूणां, मण्डलं कृत्वा तत्र दत्त्वा वरासनम् ।
तथोपवेशयेत्तत्र धात्री शुक्लाम्बरां तथा । अलङ्कृतं तदुत्-
सङ्गे बालन्धृत्वा तु सान्त्वनैः । धृतस्य निश्चलः सम्यक् कर्ण-
युग्मं रसाङ्कितम् । विध्येदलङ्कृते छिद्रे सकृदेवात्र लाघवात् ।
प्राग्दक्षिणे कुमारस्य भिषग्वामे तु योषितः । शिशोर्वि-
वर्धनं कार्यं यावदाभरणक्षमम् । कर्णवेधदिने विप्राः
सांवत्सरचिकित्सकौ । पुज्याश्च विविधा नार्य्यः सुहृदश्च
तथा द्विजेति” । अत्र पुरुषकर्णरन्ध्रवृद्धिविषये पिशेषमा-
ह हेमाद्रौ देवलः “कर्णरन्ध्रे रवेश्छाया न विशेदग्रज-
न्मनः । तं दृष्ट्वा विलयं यान्ति पुण्यौघाश्व पुरातनाः” ।
तत्प्रमाणं प्रसङ्गान्तरेणाह शङ्ख । “अङ्गुष्ठमानशुषिरौ कर्णौ
न भवतोयदि । तस्मै श्राद्धं न दातव्य यदि चेद मुर भवेत्
तस्य श्राद्धेऽपात्रतामाह शालङ्कायनः । “अविद्वकर्णै
र्यद्भुक्तं लम्बवर्णेस्तथा च यत् । दग्धकर्णैश्च यद्भुक्त
तद्वै रक्षांसि गच्छति” । विधा० पा० । तथा च कर्णबेधः
पृष्ठ १७१२
संस्कारः किन्तु श्राद्धादौ पात्रतासम्पादकोऽदृष्टविशेष-
जनकः क्रियाभेदः इत्याकरे स्थितम् । शलाकामानं
कर्णवेधनीशब्दे वक्ष्यते । अत्र कालादिप्रतिप्रसवः ज्यो० त०
माण्डव्यवृहद्राजमार्त्तण्डकृत्यचिन्तामणिषु “यदापत्यद्वयं
तिष्ठेत् सम्भवोऽप्यपरस्य च । षट्कर्णं तं विजानीयात्
गर्हितञ्चत्रयस्य च । इत्याशङ्क्य द्वयोर्मध्ये शुद्धिर्यस्याथ
वत्सरे । कर्णवेधो हितस्तस्य नात्र ज्येष्ठविचारणा ।
षटकर्णोत्पत्तिमाशङ्क्य भानोः शुद्ध्या समेऽपि च । कर्णौ
वेध्यौ न दोषः स्यादन्यथा मरणं भवेत्”

कर्णवेधनी स्त्री कर्ण्णोविध्यते अनया विध--करणे ल्युट्

ङीप् । कर्ण्णवेधसाधने शलाकायां तन्मानादिः मदनरत्ने
वृह० प० । “सौवर्णी राजपुत्रस्य, राजती विप्रवैश्ययोः ।
शूद्रस्य चायसो सूची मध्यमाष्टाङ्गुलात्मिका” । अस्य
त्रिकाण्डप्रमाणतया शब्दकल्पद्रुमे हस्तिकर्ण्णवेधन्यर्थ-
कतोक्तिःनालीकर्ण्णारेतिपर्य्यायोक्तिश्च प्रामादिकी । त्रि-
काण्डशेषे हि “न ना गात्रावरे नाली कर्ण्णरोकन्तु
वेधनीत्येव पाठस्यैव दर्शनात् कर्ण्णच्छिद्रस्य वेधनीपर्य्यायताया
नालीशब्दस्य गात्रावस्पर्य्यायतायाश्च ततः प्रतीतेः हस्त्य-
वयवार्थकशब्दकथनप्रकरणे तत्कर्ण्णेवधन्यस्त्रपर्य्यायकथ-
नानौचित्यात् ।

कर्ण्णवेष्ट पु० कर्णी वेष्ट्येते अनेन । १ कुण्डले । क्रोधवशा-

सुरांशे २ द्वापरयुगीयनृपभेदे च । “गणः क्रोधवशोनाम
यस्ते राजन् । प्रकीर्त्तितः । ततः संजज्ञिरे वीराः-
क्षिताविह नराधिपाः । मर्दकः कर्ण्णवेष्टश्च सिद्धार्थः
कीचकस्तथा” भा० आ० ६७ अ० । ण्वुल्, कर्णवेष्टकोऽ-
त्रैव । कर्ण्णवेष्टकाय हितम् छ यत् वा । कर्ण्णवेष्टकीय-
कर्ण्णवेष्टक्य तद्धिते सुवर्ण्णादौ त्रि० । भावे ल्युष्ट् । कर्ण-
वेष्टन कर्णभूषणे न० । करणे ल्युट् । कुण्डले अमरः ।
ततः ताभ्यां सम्पादी ठक् । कार्ण्णवेष्टकिक कार्ण्णवेष्टनिक कर्ण-
वष्टन(के)न शोभमाने त्रि० “कार्णवेष्टनिकं मुखम्” भट्टिः ।

कर्णव्यधविधि पु० कर्ण्णव्यधस्य कर्ण्णवेधस्य विधिः । सुश्रुतोक्ते

कर्ण्णवेधप्रक रभेदे स च प्रकारः सुश्रुते दर्शितोयथा
“अथातः कर्णव्यधबन्धविधिमध्यायं व्याख्यास्यामः ।
रक्षाभूषणनिमित्तं बालस्य कर्णौ विध्येते षष्ठे मासि
सप्तमे वा शुक्लपक्षे प्रशस्तेषु तिथिकरणमुहूर्त्तनक्ष-
त्रेषु कृतमङ्गलस्वस्तिवाचनं धात्र्यङ्के कुमारमुपवेश्य
वालक्राडनकैः प्रलोभ्याभिसान्त्वयन् भिषग्वामहस्तेनाकृष्य
कर्णं दैवकृते छिद्रे आदित्यकरावभासिते शनैः शनैर्द-
क्षिणहस्तेन ऋजु विध्येत् प्रतनुकं सूच्या बहुलभारया
पूर्वं दक्षिणं कुमारस्य, वामं कन्यायास्ततः पिचुवर्त्तिं
प्रवेश्य सम्यक् विद्धमामतैलेन परिषेचयेत् । शोणितवहुत्वेन
वेदनया वान्यदेशविद्धमिति जानीयान्निरुपद्रवतया तद्देश-
विद्धमिति । तत्राज्ञेन यदृच्छया विद्धासु सिरासु
कालिकामर्मरिकालोहितिकासूपद्रवा भवन्ति । तत्र कालि-
कायां ज्वरो दाहः श्वपथुर्वेदना च भवति । मर्मरिकायां
वेदना ज्वरो ग्रन्थयश्च । लोहितिकायां मन्यास्तम्भाव-
तानकशिरोग्रहकर्णशूलानि भवन्ति । तेषु यथास्वं प्रति-
कुर्वीत । क्लिष्टजिह्माप्रशस्तसूचीव्यधाद्गाढतरवर्त्तित्वाद्दोष-
प्रकोपादप्रशस्तव्यधाद्वा यत्र संरम्भो वेदना वा भवति तत्र
वर्त्तिमुपहृत्याशु मधुकैरण्डमूलमञ्जिष्ठायवतिलकल्कैर्मधुघृत-
प्रगाढैरालेपयेत्तावद्यावत्सुरूढ इति सुरूढं चैनं पुनर्वि-
ध्येत् विधानन्तु पूर्वोक्तमेव । त्र्यहात्त्र्यहाच्च वर्त्तिञ्च
स्थूलतरां दद्यात्परिषेकं तमेव । अथ व्यपगतदोषोप-
द्रवे कर्णे वर्द्धनार्थं लघुवर्द्धनकं कुर्य्यात् । भवति चात्र ।
एवं विवर्द्धितः कर्णश्किद्यते तु द्विधा नृणाम् । दोषतो
वाभिघाताद्वा सन्धानं तस्य मे शृणु ।
तत्र समासेन पञ्चदशकर्ण्णबन्धनाकृतयः । तद्यथा-
नेमिसन्धानक उत्पलभेद्यको वल्लूरक आसङ्गिमो गण्ड-
कर्ण आहार्य्यो निर्व्वेधिमो व्यायोजिमः कपाटस
न्धिकोऽर्द्धकपाटसन्धिकः संक्षिप्तो हीनकर्ण्णो वल्लीकर्ण्णो
यष्टिकर्ण्णः काकौष्ठक इति । तेषु पृथुलायतसमोभय
पालिर्णेमिसन्धानकः । वृत्तायतसमोभयपालिरुत्पलभे-
द्यकः । ह्रस्ववृत्तसमोभयपालिर्व्वल्लूरकः । अभ्यन्त-
रदार्घैकपालिरासङ्गिमः । बाह्यदीर्घकपालिर्गण्डकर्णः ।
अपालिरुभयतोऽप्याहार्य्यः । पीठोपमपालिरुभयतः
क्षीणपुत्रिकाश्रितो निर्व्वेधिमः । स्थूलाणुसमविषम-
पालिर्व्यायोजिमः । अभ्यन्तरदीर्घैकपालिरितराल्पपालिः
कपाटसन्धिकः । बाह्यदीर्घैकपालिरितराल्पपालिरर्द्धक-
पाटसन्धिकः । तत्र दशैते कर्णबन्धविकल्पाः साध्या-
स्त्रेषां स्वनामभिरेवाकृतयः प्रायेण व्याख्याताः ।
संक्षिप्तादयः पञ्चासाध्यास्तत्न शुष्कशष्कुलिरुत्सन्नपालि-
रितराल्पपालिः संक्षिप्तः । अनधिष्ठानपालिः पर्य्य-
न्तयोः क्षीणमांसोहीनकर्णः । तनुविषमाल्पपालिर्व्व-
ल्लीकर्ण्णः, ग्रथितमांसस्तब्धसिराततः सूक्ष्मपालियष्टि-
कर्णः । निर्म्मांससंक्षिप्ताग्राल्पशोणितपालिः काकौष्ठ-
कपालिरिति । बन्धेष्वपि तु शोथदाहरागपाकपिद्ध-
पृष्ठ १७१३
कास्रवयुक्ता न सिद्धिमुपयान्ति । भवन्ति चात्र ।
यस्य पालिद्वयमपि कर्ण्णस्य न भवेदिह । कर्ण्णपीठं
समे मध्ये तस्य विद्ध्वा विवद्धेयेत् । बाह्यायामिह
दीर्घायां सन्धिराभ्यन्तरो मवेत् । आभ्यान्तरायां
दीर्घायां बाह्यसन्धिरुदाहृतः । एकैवतु भवेत्पालिः स्थूला
पृथ्वी स्थिरा च या । तां द्विधा पाटयित्वा तु छित्त्वा
चोपरि सन्धयेत् । गण्डादुत्पाट्य मांसेन सानुबन्धेन
जीवता । कर्णपालिमपालेस्तु कुर्य्यान्निर्लिख्य शास्त्रवित् ।
अतोऽन्यतमं बन्धं चिकीर्षुरग्रोपहरणीयोक्तोपसंभृतस-
म्भारं विशेषतश्चात्रोपहरेत् सुरां मण्डं क्षीरमुदकं
धान्याम्लं कपालचूर्णञ्चेति । ततोऽङ्गनां पुरुषं वा ग्रथित-
केशान्तं लघु भुक्तवन्तमाप्तैः सुपरिगृहीतञ्च कृत्वा
बन्धमुपधार्य्य छेद्यभेद्यलेख्यव्यधनैरुपपन्नैरुपपाद्य कर्णंशो-
णितमवेक्षेत तद्दुष्टमदुष्टंवेति । तत्र वातदुष्टे धान्याम्लो
ष्णोदकाभ्यां, पित्तदुष्टे शीतोदकपयोभ्यां, श्लेष्मदुष्टे
सुरामण्डोष्णोदकाभ्यां प्रक्षाल्य कर्णौ पुनरवलिख्या-
नुन्नतमहीनमविषमञ्च कर्णसन्धिं सन्निवेश्य स्थित-
रक्तं सन्दध्यात् । ततो मधुघृतेनाभ्यज्य पिचुप्लोतयोर-
न्यतरेणावगुण्ठ्य सूत्रेणानपगाढमशिथिलञ्च बद्ध्वा
कपालचूर्णेनावकीर्य्याचारिकमुपदिशेद्द्विव्रणीयोक्तेन विधाने-
नावचरेत् । भवतश्चात्र । विघदृनं दिवास्वप्नं व्यायामम-
तिभोजनम् । व्यवायमभग्निसन्तापं वाक्श्रमञ्च विवर्ज्ज
येत् । आमतैलपरोषेकं त्रिरात्रमवचारयेत् । ततस्तैलेन
संसृष्टं त्र्यहादपनयेत् पिचुम् । न चासंशुद्धरक्तमति-
प्रवृत्तरक्तं वा सन्दध्यात् । स हि वातदुष्टे रक्ते
रूढोऽपि परिपुटनवान्, पित्तदुष्टे दाहपाकरागवे
दनावान्, श्लेष्मदुष्टे स्तब्धः कण्डूमान्, अतिप्रवृ-
द्धरक्ते श्यावशोफवान् । क्षीणोऽल्पमांसो न वृद्धिमुपैति ।
स यदा सुरूढो निरुपद्रवः सवर्णो भवति तदैनं
शनैःशनैरभिवर्द्धयेत् । अतोऽन्यथा संरम्भदाहपाकरा-
गवेदनावान् पुनश्छिद्यते वा । अथास्याप्यदुष्टस्याभिवर्द्ध-
नार्थमभ्यङ्गः । तद्यथा गोधाप्रतुदविष्किरानूपौदकवसाम
ज्जानौ पयःसर्पिस्तैलं गौरसर्षपजञ्च यथालाभं
सम्भृत्यार्कालर्कबलातिबलानन्तापामार्गाश्वगन्धाविदारिगन्धा-
क्षीरशुक्लजलशूकमधुरवर्गप्रतिवापं तैलं वा पाचयित्वा
स्वनुगुप्तं निदध्यात् । स्वेदितोन्मर्दितं कर्ण्णं स्नेहेना-
नेन योजयेत् । अथानुपद्रवः सम्यक् बलवांश्च
विवर्द्धते । यवाश्वगन्धायष्ट्याह्वैस्तिलैश्चोद्वर्त्तनं हितम् । श-
तावर्य्यश्वगन्धाभ्यां पयस्यैरण्डजीवनैः । तैलं विपक्वं
सक्षीरमभ्यङ्गात् पालिवर्द्धनम् । ये तु कर्णा न वर्द्धन्ते
विधिनानेन योजिताः । तेषामपाङ्गदेशेषु कुर्य्यात् प्रच्छा-
नमेव तु । बाह्यच्छेदं न कुर्व्वीत व्यापदस्तु ततो ध्रुवाः ।
बद्धमात्रन्तु यः कर्णं सहसैवाभिवर्द्धयेत् । आमकोशी-
समाध्मातः क्षिप्रमेव विमुच्यते । जातरोमा सुवर्त्मा च
श्लिष्टसन्धिः समः स्थिरः । सुरूढोऽवेदनो यस्तु तं कर्णं
वर्द्धयेच्छनैः । अमिताः कर्णबन्धास्तु विज्ञेयाः कुशलै-
रिह । यो यथा सुनिविष्टः स्यात्तं तथा विनियोजयेत्” ।
एवं वेधप्रकाराभिज्ञेनैव भिषजा कर्णवेधः कारयितव्यः

कर्ण्णशष्कुली स्त्री कर्णस्य शष्कुलीव । १ कर्णगोलके,

“अवलम्बितकर्णशष्कुलीकलसीकं रचयन्नवोचत” नैष० ।
“कर्ण्णशष्कत्यवच्छिन्नं नभः श्रोत्रम्” मुक्ता० २ तन्मध्याकाशे च ।

कर्ण्णशूल न० ६ त० । कर्ण्णरोगभेदे । कर्ण्णगतरोगशब्दे विवृतिः

कर्ण्णशोभन त्रि० कर्ण्णं शोभयति शुभ--णिच्--ल्यु । कर्ण्णाभ-

रणे “उत नः कर्ण्णशोभना पुरूणि” ऋ० ८, ७८, ३,

कर्ण्णश्रव त्रि० श्रूयते श्रवः शब्दः कर्ण्णेन श्रवः श्रवणयोम्यः

शब्दोयत्र । श्रवणयोग्यशब्दधारे वय्वादौ “कर्ण्णश्रवेऽ-
निले रात्रौ दिवा पांशुसमूहने” मनुः ।

कर्ण्णसंस्राव पु० कर्ण्णरोगभेदे कर्ण्णगतरोगशब्दे विवृतिः ।

कर्ण्णसू स्त्री कर्ण्णं सूते सू--क्विप् । पृथायां कुन्त्याम्

तत्प्रसवकथा कर्ण्णशब्दे उक्ता । कर्ण्णजनन्यादयोऽप्यत्र ।

कर्ण्णस्फोटा स्त्री कर्णे स्फोटो विदारणं यस्याः । (काण-

फाटा) लताभेदे राजनि० । “कर्ण्णस्फोटा कटुस्तिक्ता
हिमा च परिकीर्त्तिता । सर्व्वग्रहभूतविषदोषव्याधि
विनाशिनी” राजनि०

कर्ण्णस्रोतस् न० कर्णस्य स्रोत इव । कर्म्ममले

कर्ण्णस्रोतोभव पु० कर्णस्रोतसो विष्णुकर्णमलाद्भवति

भूअच्, भवत्यस्मात् अपादाने अप् कर्णस्रोतो भवोयस्य वा ।
विष्णुकर्णमलोद्भूते मधुनामके कैटभनःमके चासुरे ।
“कर्णस्रोतो भवञ्चापि मधुं नाम महासुरम् । तमुग्रमु-
ग्रकर्म्माणमुग्रां बुद्धिं समास्थितम् । ब्रह्मणोऽपचितिं कुर्व्वन्
जघान पुरुषोत्तमः” भा० अनु० ६६ अ० यथाचास्य
विष्णुकर्णादुद्भवः तथा कैटभशब्दे वक्ष्यते ।

कर्ण्णहीन त्रि० ३ त० । १ वधिरे बाधिर्य्यप्राप्तिश्च पापवि-

शेषजन्या यथाह शाता० स० । “काकघाती कर्णहीनो-
दद्याद्गामसितप्रभाम्” । २ सर्पे च पुंस्त्री चक्षुःश्रवस्त्रात्तस्य
तथात्वम् । स्त्रियां जातित्वात् ङीष् ।
पृष्ठ १७१४

कर्णाकर्णि पु० कर्णे कर्णेमृहीत्वा प्रवृत्तं कयनम् कर्म्म-

व्यतिहारे स० इच् समा० । (काणाकाणि) कर्णपरम्परया
श्रवणयोग्येऽन्योन्यकथने “कर्णाकर्णि हि कपयः
कथयन्ति च तत्कथाम्” रामा० ।

कर्णाट पु० “रामनाथं समारभ्य श्रीरङ्गान्तं किलेश्वरि! ।

कर्णाटदेश इत्युक्तो राज्यसाम्राज्यदायकः” शक्तिसङ्ग०
उक्ते देशभेदे अयञ्च देशः कूर्म्मविभागे वृ० स० दक्षिणस्या-
मुक्तः । “अथ दक्षिणेन लङ्केत्युपक्रम्य “कर्णाटमहाटवि-
चित्रकूटेत्वादि” “कोङ्कवेङ्कटकान् दक्षिणकर्णाटान् देशान्
यदृच्छयोपगतः” भाग० ५, ६, ८, “तेषां मूर्द्ध्नि ददाति
वामचरणं कर्णाटराजप्रिया” उद्भटः । कर्णाटजनपदे
भवः अण् । कर्णाटभवे त्रि० स्त्रियां ङीप् “कार्णा-
टीचीनपीनस्तनवसनदशान्दोलनस्पन्दमन्दः” उद्भटः ।
बहुषु तस्य लुक् । कर्ण्णाटाः तद्देशवासिषु । तस्य
राजन्थपि अण् । कार्ण्णाट तद्देशनृपे । तस्य बहुषु लुक् ।
एकत्वे न । “अरण्ये कार्ण्णाट त्वदरिवनितानां विधिवशात्”
उद्भटः । ह्रस्वपाठे कर्ण्णाटशब्दस्य तन्नृपे लक्षणेति भेदः ।
२ हंसपदीलतायां स्त्री राजनि० । ३ रागिणीभेदे
संगीतदामो० । सा तु मालवरागस्य भार्य्या । कर्णाटे प्रसिद्धा
अण् ङीप् कार्णाटी । अनुप्रासाङ्गवृत्तिभेदे “कार्णाटी
कवर्गेणानुप्रासवतीति सरस्व० तद्वाक्यञ्च अलङ्कारशब्दे ३८९
पृ० दर्शितम् ।

कर्णाटक पु० गोत्रप्रवर्त्तके ऋषिभेदे तस्य गोत्रापत्यम् इञ् ।

कार्णाटकि । यस्कादि० तस्यास्त्रियां बहुषु लुक् ।
कर्ण्णाटकास्तद्गोत्रापत्येषु । स्त्रियां तु कर्ण्णाटक्यि इत्येव

कर्णाट्ट् न० कर्णः तिर्यग्रेखाकारवान् इवाट्टम् । गृहभेदे

तन्निरुक्तिलक्षणम् “बिभिदुस्ते मणिस्तम्भान् कर्णाट्टशिख-
राणि च” भा० व० २६४ अ० ३० श्लोकव्याख्यायां
नीलकण्ठेनोक्तं यथा । “कर्णस्तिर्यग्यानं तेन प्रका-
रेण यत्पाषाणादिविस्तरेण क्रियते तत्तद्गृहविशेषं
कर्णाट्टमिति वदन्तितद्धि दिक्कोणस्य चतुरस्रस्योपरि विदिक्कोण
चतुरस्रं तदुपरिदिक्कोणं तदुपरि पुनर्विदिक्वोणमित्येवं
क्रमेणोत्तरोत्तरमल्पप्रमाणैश्चतुरस्रैः समाप्यम् इति प्रसि-
द्धम्” । तत्र कर्णाटेति पाठः प्रामादिकः नीलकण्ठेन
कर्णाट्टपदस्यैव व्याख्यानात् ।

कर्णादि त्रि० पाणिन्युक्ते जाहच्प्रत्ययनिमित्ते १ शब्थगणे

स च गणः । कर्णः अक्षि नख मुख केश पाद गुल्फ भ्रू
शृङ्कदन्त ओष्ठ पृष्ठ, कर्णजाहम् अक्षिजाहमित्यादि ।
चतुरर्थ्यां फिञ्प्रत्ययनिमित्ते पाणिन्युक्ते २ शब्दगणे च स च
गणः “कर्ण्णवसिष्ठ अर्क अर्कलूष द्रुपद आनडुह्य पाञ्चजन्य
स्फिज् कुम्भी कुन्ती जित्वन् जीवन्त कुलिश आण्डीवत
जव जैत्र आनक” कर्ण्णस्य सन्निकृष्टदेशादि । कार्णायनि
तत्सन्निकृष्टदेशादौ त्रि० ।

कर्णानुज पु० ६ त० । युधिष्ठिरे त्रिका० ।

कर्णान्द(न्दू) पुंस्त्री कर्णस्यान्दुरिव । कर्णपालौ । हेम० (काणेरपाता)

कर्णाभरणक पु० कर्णाभरणमिव कायति पुष् पद्वारा कै--क ।

आरग्बधे वृक्षे । (सोन्दाल) राजनि०

कर्णारा स्त्री हस्तिकर्णवेधन्याम् शब्दकल्पद्रुमे त्रिकाण्डप्रामा-

ण्येनोक्तं तच्च मूले न दृश्यते इत्युक्तं कर्णवेधनीशब्दे ।

कर्णारि पु० ६ त० । १ अर्ज्जुने कर्णजिच्छब्दे तत्कथा (आजन)

२ नदीसर्ज्जवृक्षे राजनि० ।

कर्णास्फाल पु० आ + स्फुर--णिच्--स्फालादेशः ६ त० । करिणां कर्णचालने त्रिका०

कर्णि पु० कर्ण--इन् । १ कर्णाकारफलके शरभेदे शब्दचि० ।

भावे इन् । २ भेदने च

कर्ण्णिका स्त्री कर्ण--ण्वुल् कर्णे भवः अलङ्कारः इकन्

अत इत्त्वम् । १ कर्णाभरणभेदे (काण्) २ करिशुण्डाग्रव-
र्त्तिन्यङ्गुलाकारे पदार्ये ३ पद्मवीजकोषे च अमरः ।
“यस्यामवस्थितः सर्व्वतः सौवर्णः कुलगिरिराजोमेरुर्द्वीपा-
यामसमुन्नाहः कर्णिकाभूतः” भाग० ५, १६, ७, ४ क्रमु-
कादिवृन्तपरम्परायाम् (छड़ा) ५ करमध्याङ्गुलौ
च मेदि० । ६ लेखन्यां हारा० । ७ अग्निमन्थवृक्षे
८ अजशृङ्गीवृक्षे च राजनि० कर्ण्णो वृद्धोऽस्त्यस्य ठन् । ९ वृद्ध-
कर्णे त्रि० ।

कर्ण्णिकाचल पु० कर्णिकायां स्थितोऽचल । सुमेरुपर्वते

हेमच० । यथा चास्य तयारूपेण स्थिति तथा कर्णिका-
शब्दे” भाग० ५, १६, ७ श्लो० उक्तं तच्च कर्णिकाशब्दे उक्तम्
कर्णिकापर्वतादयोऽन्यत्र ।

कर्ण्णिकार पु० कर्णिं भेदनं करोति कृ--अण् उप० स० ।

(गणियारी) १ वृक्षभेदे, २ आरग्बधवृक्षभेदे च (छोट सोन्दाल)
शोधनरूपमलभेदकत्वात् तयोः तथात्वम् । “कर्णिकारः
परिव्याधः षादपोत्पलः इत्यपि । “कर्णिकारः
कटुस्तिक्तस्तुवरः शोधनो लघुः । रञ्जनः सुखदः शो
थश्लेष्मास्रव्रणकुष्ठनुत्” भावप्र० गुणादि उक्तम् “षर्णप्रकर्षे
सति कर्णिकारं दुनोति निर्गन्धतया स्म चेतः”
कुमा० । “अनन्तरञ्च कश्चित् कर्णिक रगौरः” दशकु० ।

कर्णिकिन् पु० कर्णिका हस्ताग्राङ्गुलिरस्त्यस्य इनि । ह-

स्तिनि जटा० स्त्रियां ङीप् । २ वर्षपर्वतभेदे च शब्दचि० ।
पृष्ठ १७१५

कर्णिन् त्रि० कर्ण--अस्त्यर्थे तुन्दा० वृद्धौ वा इनि । वृद्धक-

र्णयुक्ते लम्बकर्णे लम्बकर्णमानन्तु विधानपारि० शङ्खलिखि-
तावाहतुः । “हनुमूलादधः कर्णौ लम्बौ तु परिकीर्त्तितौ ।
कर्णौ तु द्व्यङ्गुलौ शस्ताविति शातातपोऽव्रव्रीत्” । “अर्द्ध-
हारार्द्धकेयूरायार्द्धकुण्डलकर्णिने” भा० अनु० १४ अ० ।
स्त्रियां ङीप् । सा सुश्रुतोक्ते २ योनिरोगभेदे च सा च
“विंशतिर्व्यापदोयोनेर्निर्दिष्टा रोगसङ्कुले” इत्युद्दिश्य
“उदावर्त्ता तथा बन्ध्या--अत्यानन्दा तु या योनिः कर्णिनी
चरणाद्धयम् । श्लैष्मिका सकफा ज्ञेया” इत्यादिना ता
विभज्य “अर्णिन्यां कर्णिका योनौ श्लेष्मासृग्भ्यां तु
जायते” इति लक्षिता । “वर्त्तिं प्रदद्यात् कर्णिन्यां
शोधनद्रव्यसंभृताम् । प्रस्रंसिनीं घृताभ्यक्त्वां क्षीरस्विन्नां
प्रवेशयेत्” सुश्रु० । ३ कुटिलावयवयुक्ते वाणभेदे पु० । “करोति
कर्णिनो यस्तु यस्तु खड्गादिकृन्नरः । प्रयान्ति ते
विशसने नरके भृशदारुणे” विष्णुपु० २ अं० ६ अ० ।
“कर्ण्णिनो वाणविशेषान्” श्रीधरः । अत्र पक्षे तुन्दा० वृद्धौ
वा इलच् कर्णिलः, पक्षे ठन् कर्णिक, मतुप् मस्य वः,
कर्णवत् द्व्यङ्गुलात् वृद्धकर्णे हनुभागादधोलम्बकर्णेत्रि० ।
मतुपि स्त्रियां ङीप् ।

कर्णी स्त्री कर्ण्ण--इन् वा ङीप् । कर्ण्णिशब्दार्थे याणभेदे

तस्मिन्परे “अतः कृकमिकंसकुम्भपात्रकुशाकर्ण्णीषु” पा०
अतःपर विसर्गस्य नित्यं सः । अयसा निर्मिता कर्णी
अयस्कर्णीत्यादि । २ मूलदेवमातरि स्त्री कर्ण्णीसुतः ।

कर्ण्णीमत् पु० कर्णिर्वाणविशेषाकारः फलेऽस्त्यस्य मतुप् ।

संज्ञायां दीघः । आरग्यधे (सोदाल) शब्दचि० ।

कर्ण्णीरथ पु० कर्णः सामीप्येनास्त्यस्य कर्णी स्कन्धः तेन ई

शोभा यस्य न समासान्तः कप् स चासौ रथो रथतल्यं
वाहनं कर्म्म० । स्कन्धवाह्ये याने (पालकी) इत्यादौ ।
शब्दचि० तु अन्या व्युत्पत्तिर्दर्शिता यथा । कर्ण्णसाध्यक्रिया
उपचारात् घर्णःकर्णोऽस्यास्ति इनि । कर्णी चासौ
रथश्च । शब्दमात्रेण रथो न वस्तुतो रथः । यद्वा सामी-
प्यात् कर्णशब्देन स्कन्यो लक्ष्यते सोऽस्यास्ति वाहनत्वेन
इनि कर्णी चासौ रथश्च । उभयत्र अन्येषामपीति पा०
दीर्घः इति” । “कर्णीरथस्थां रघुवीरपत्नीम्” रघुः ।

कर्ण्णीसुत पु० ६ त० । मूलदेवे त्रिका० हारा० च । स च

कंसासुरः इति शब्दकल्पद्रुमः तन्मूलं मृग्यं कंसस्य
कर्णीमातृकत्वाभावात् काद० टीकायामुक्तस्तेयशास्त्रप्र-
वर्त्तकमूलदेवस्यैव तन्नाम न तु उग्रसेनजस्य नाम ।
अतएव “कर्ण्णीसुतकथेव सन्निहितविपुलाचला” काद० व्या०
“कर्णीसुतः करटकः स्तेयशास्त्रप्रवर्त्तक्वः । तस्य ख्याती
सखायौ द्वौ विपुलाचलसंज्ञकौ” टी० उक्तम् ।
“कर्णीसुतप्रहिते च पथि मतिमकवरम्” दशकु० ।

कर्ण्णेचुरचुरा स्त्री पात्रेसमिता० समासः । (काण्फुसलान)

कर्णेजपने । युक्तारोह्या० अस्याद्युदात्तता । एवं कर्णे-
टिरटिरा अपि तत्रार्थे तथा द्युदात्तता च ।

कर्ण्णेन्दु पु० कर्णे इन्दुरिव । अर्द्धचन्द्राकृतिकर्णालङ्कारभेदे शब्दर० ।

कर्ण्णोपकर्ण्णिका स्त्री कर्णादुपकर्णोऽस्त्यस्याः ठन् अत

इत्त्वम् । (काणाकाणि) परस्यरश्रवणरूपे प्रवादे “प्रागेव
कर्णोपकर्णिकया श्रुतापवादक्षुभितह्रदयः” पञ्चत० ।

कर्ण्णोर्ण्ण पु० कर्णे उर्णाधिकं लोम यस्य । मृगमेदे । “कर्णोर्णै-

कपदश्वास्यैर्निर्जुष्टं वृकनाभिभिः” भाग० ४, ६, १५,

कर्ण्य त्रि० कर्णे भवः शरीरावयत्वात् यत् । १ कर्णभवे

मलादौ । कर्ण--कर्मणि यत् २ भेद्ये च ।

कर्त्त शैथिल्येशिथिलीकरणे आरम्भसंयोगशिथिलतापादने

अ० चु० सक० सेट् । कर्त्तयति ते मतान्तरे कर्त्तापयति ते
अचकर्त्तत्--त कर्त्तयाम्--वमूव आस चकार चक्रे । कर्त्त
यिता कर्त्यात् कर्त्तयिषीष्ट कर्त्तयिष्यति ते । कर्त्तनीयः
कर्त्तयितव्यः । कर्त्तयिता कर्त्तितः । कर्त्तनं कर्त्तना । क
र्त्तयितुम् कर्त्तयित्वा आकर्त्त्य । कर्म्मणि कर्त्त्यते
अकर्त्तिं अकर्त्तयिषाताम्--अकर्त्तिवाताम् कर्त्तिता-
कर्त्तियिता कर्त्तयिष्यते कर्त्तिष्यते--“एवाहं सर्वं दुर्भूतं
कर्त्रं कृत्या कृताकृतम्” अथ० १०, १, ३२ । “अपि
कर्त्तमवर्त्तयोऽयज्यून्” ऋ० १, १२१, १३ ।

कर्त्त पु० कर्त्तयति शिथिलीकरोति कर्त्तं--अच् । १ कूपे

“त्राध्वं कर्त्तादपपदो यजत्राः!” यजु० ३३, ५१, कर्त्तात्
कूपात्” वेददी० । कृत--भावे घञ् । २ भेदे च । “सध्र्यङ्नि-
यम्य यतयो यमकर्त्तहेतिम्” भाग० २, ७, ४९, कृत--चत् ।
३ छेदके त्रि० । “वृकस्य कर्त्तादवपदोयजत्राः” ऋ० २, ३०,
६ । “हे यजत्राः अवपदः आपदः कर्त्तात् कर्त्तुः” भा० ।

कर्त्तन न० कृत--भावे ल्युट् । १ छदने । “गुल्मगुच्छक्षुपलताप्र-

तानौषधिवीरुधाम् । पूर्व्वस्मृतादर्द्धदण्डः स्थानेषूक्तेषु
कर्त्तने” “प्रातिलोम्ये बधः पुंसः स्त्रीणां नास दिकर्त्त-
नम्” याज्ञ० कर्त्त--ल्युट । २ शिथिलीकरणे करणे
ल्युट् । ३ कर्त्तनसावने त्रि० । स्त्रियां ङीप् कर्त्तनी ।
कृत--कर्त्तरि ल्यु । ४ भेदकर्त्तरि त्रि० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/कमलकीट&oldid=314824" इत्यस्माद् प्रतिप्राप्तम्