वाचस्पत्यम्/ऋतानि

विकिस्रोतः तः


पृष्ठ १४३०

ऋतनि त्रि० ऋतं जलं यज्ञं वा नयति नी + क्विप् वेदे नि०

ह्रस्वः । आदित्ये तस्य जलदायकत्वेग उदयेन यज्ञ-
प्रवर्त्तकत्वेन च तथात्वम् । “यो राजभ्य ऋतनिभ्यो
ददाशः” ऋ० २, २७, १२ । लोके तु ऋतनीरित्येव ।

ऋतपर्ण्ण सूर्य्यवंश्ये नृपभेदे । “भगीरथसुतो राजा” इत्युप-

क्रम्य “अयुताजित्सुतस्यासीदृतपर्ण्णो महायशाः ।
दिव्याक्षहृदयज्ञोऽयं राजा नलसखो बली । ऋतपर्ण्णसुत-
श्चासीदार्त्त पर्ण्णिर्बहीपतिः” हरिवं० १६ अ० । तस्य च
नलेन सख्यमक्षहृदयज्ञत्वञ्च भा० व० ७२ अ० दर्शितं यथा
“एवमुक्तो नलेनाथ तदा भाङ्गासुरिर्नृपः । आससाद वने
राजन्! फलवन्तं विभीतकम् । तं दृष्ट्वा वाहुकं राजा
त्वरमाणोऽभ्यभाषत । ममामि सूत! पश्य त्वं सङ्ख्याने
परमं बलम् । सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन ।
नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित् । वृक्षेऽस्मिन्
यानि पर्णानि फलान्यपि च वाहुक! । पतितान्यपि
यान्यत्र तत्रैकमधिकं शतम् । एकमत्राधिकं पत्रं
फलमेकञ्च वाहुक । पञ्चकोट्योऽथ पत्राणां द्वयोरपि च
शाखयोः । प्रचिनुह्यस्य शास्वे द्वे याश्चायन्याः प्रशाखिवाः ।
आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च । ततो रथमव-
स्थाप्य राजान वाहुकोऽब्रवीत् । परोक्षमिव मे राजन्!
कत्थसे शत्रुकर्षण! । प्रत्यक्षमेतत् कर्त्तास्मि शातयित्वा
विभीतकम् । अथत्र गणिते राजन्! विद्यते न परोक्षता ।
प्रत्यक्षं ते महाराज! शातयिष्ये विभीतकम् । अहं हि
नाभिजानामि भवेदेवं न वेति वा । सङ्ख्यास्यामि
फलान्यस्य पश्यतस्ते जनाधिप! । मुहूर्त्तमपि वार्ष्णेयो
रश्मीन् यच्छतु वाजिनाम् । तमब्रवीन्नृपः सूतं नायं
कालो विलम्बितुम् । वाहुकस्त्वब्रवीदेनं परं यत्नं
समास्थितः । प्रतीक्षस्व मुहूर्त्तं त्वमथ वा त्वरते भवान् ।
एष याति शिवः पन्था याहि वाष्णर्ये! सारथिः । अब्र-
वीदृतुपर्णस्तु सान्त्वयन् कुरुनन्दन! । त्वमेव यन्ता नान्यो-
ऽस्ति पृथिव्यामपि वाहुक! । त्वत्कृते यातुमिच्छामि
ब्दिर्भा हयकोविद! । शरणं त्वां प्रपन्नोऽस्मि न विघ्नं
कर्त्तुमर्हसि । कामञ्च ते करिष्यामि यन्मां वक्ष्यसि
वाहुक! । विदर्भां यदि यात्वाद्य सूर्य्यं दर्शयितासि मे ।
अथाब्रवीद्वाहुकस्तं संख्याय च विभीतकम् । ततो
विदर्भां यास्यामि कुरुष्वैवं वचो मम । अकाम इव तं
राजा गणयस्वेत्युवाच ह । सोऽवतीर्य्य रथात्तूर्ण्णं शात-
यामास तं द्रुमम् । ततः स विस्मयाविष्टो राजानमिद-
मब्रवीत् । गणयित्वा ययोक्तानि तावन्त्येव फलानि च ।
अत्यद्भुतमिदं राजन्! दृष्टवानस्मि ते बलम् । श्रोतुमि-
च्छामि ते विद्यां ययैतज् ज्ञायते नृप! । तमुवाच ततो
राजा त्वरितो गमने नृपः । विद्ध्यक्षहृदयज्ञं मां सङ्ख्याने
च विशारदम् । वाहुकस्तमुवाचाथ देहि विद्यामिमां
मम । मत्तोऽपि चाश्वहृदयं गृहाण पुरुषर्षभ । ऋतुप-
र्ण्णस्ततो राजा वाहुकं कार्य्यगौरवात् । हयज्ञानस्य लोभाच्च
तं तथेत्यब्रवीद्वचः । यथोक्तं त्वं गृहाणेदमक्षाणां
हृदयं परम् । निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु वाहु-
क!” । नलस्य वाहुकच्छद्मरूपतामुपवर्ण्य अन्त, उक्तं यथा
“ऋतुपर्ण्णोऽपि शुश्राव वाहुकच्छद्मिनं नलम् । दमयन्त्या
समायुक्तं जहृषे च नराधिपः । तमानाय्य नलं राजा
क्षमयामास पार्थिवम् । स च त क्षमयामास हेतुभिर्बु-
द्धिसम्मतः! । स सत्कृतो महीपालो नैषधं विस्मिता-
ननः । उवाच वाक्यं तत्त्वज्ञो नैषधं वदतां वरः । दिष्ट्या
समेतो दारैः स्वैर्भवानित्यभ्यनन्दत । कच्चित्तु
नापराधं ते कृतवानस्मिनैषध! । अज्ञातवासं वसतो
मद्गृहे वसुधाधिप! । यदि वा बुद्धिपूर्वाणि यद्यबुद्ध्यापि
कानिचित् । मया कृतान्यकार्य्याकि तानि त्वं क्षन्तुमम-
र्हसि । नल उवाच । न मेऽपराधं कृतवांस्त्वं स्वल्पमपि
पार्थिव! । कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया
तव । पूर्वं ह्यपि सखा मेऽसि सम्बन्धी च जनाधिप! । अत
ऊर्द्धन्तु भूयस्त्वं प्रीतिमाहर्त्तुमर्हसि । सर्वकामैः सुवि-
हितैः सुखमस्म्युषितस्त्वयि । न तथा स्वगृहे राजन्! यथा
तव गृहे सदा । इदञ्चैव हयज्ञानं त्वदीयं मयि तिष्ठति ।
तदुपाहर्त्तुमिच्छामि मन्यसे यदि पार्थिव! । एवमुक्त्वा
ददौ विद्यामृतपर्ण्णाय नैषधः । स च तां प्रतिजग्राह
विधिदृष्टेन कर्म्मणा । गृहीत्वा चाश्वहृदयं राजन्!
भाङ्गासुरिर्नृपः! । निषधाधिपतेश्चापि दत्त्वाक्षहृदयं
नृप!” । भा० व० ७५ अ० । “कर्कोटस्य नागस्य
दमयन्त्या नलस्य च । ऋतपर्णस्य राजर्षेः कीर्त्तनं
कलिनाशनम्” भा० “ऋतपर्ण्णमादृतम्” नैष० ।

ऋतपेय पु० ऋतं स्वर्गादिफलं पेयं भोग्यमस्मात् । १ एकाहे

२ यागभेदे । “यः कामयेत नैःष्णिह्यं पाष्मन इयामिति स
ऋतपेयेन यजेत” आ० श्रौ० ९, ७, २५ । “निःस्तेहस्य
भावो नैःष्णिह्यम् यः पाष्मनोनैःष्णिह्यमियां गच्छेयमिति
कामयेत स ऋतपेयनामकेन एकाहेन यजेत अल्पमपि
पृष्ठ १४३१
पापं मयि नो तिष्ठेत् इति यः कामयेतंस ऋतपेयेन
यजेतेत्यर्थः” नारा० वृ० । सप्तदशस्तोमकेषु पञ्चसु क्रतुषु
मध्ये स्वगकामकर्त्तव्ये २ क्रतुभेदे च । “सप्तदशाः पञ्च”
कात्या० २२, ८, ६ । इत्युपक्रम्य “स्वर्गकामस्यर्त्तपेयः”
१० सूत्रे दर्शितः ।

ऋतपेशस् पु० ऋतमुदकं पेशोरूपमस्य । जलात्मके वरुणे

“वरुणाय ऋतपेशसे दधीत” ऋ० ५, ६६, १ ।

ऋतप्सु पु० ऋतं यज्ञियहविः प्साति प्सा--बा० कु । १ यज्ञियह-

विर्भोजके देवे । ऋतं सत्यं प्सु रूपमस्येति । ३ सत्यस्वरूपे
देवे च । “अन्तर्यद्वनिनो वामृतप्सू” ऋ० १, १८०, ३ ।
“ऋतप्सू यज्ञियहविर्भक्षयितारौ सत्यस्वरूपौ वा” भा० ।

ऋतम् अव्य० ऋत--कमि । सत्यमित्यर्थे । ऋतम्भरः ।

ऋतम्भर पु० ऋतमित्यव्ययं तद्बिभर्त्ति अच् । १ सत्यपालके

परमेश्वरे “ततोगतो ब्रह्मगिरोपहूत ऋतम्भरध्याननिवा-
रिताघः” भाग० ६, १३, १३ । प्लक्षद्वीपान्तर्गते २
नदीभेदे स्त्री । तस्य वर्षाण्यभिधाय “तेषु गिरयोनद्यश्च सप्तै-
वाभिज्ञाताः” इत्युक्त्वा “अरुणा नृम्णाङ्गिररी सावित्री
सुप्रभाता ऋतम्भरा सत्यम्भरेति महानद्यः” भाग० ५,
२०, ६ । पात० उक्ते ३ विपर्य्यासशून्ये समाधिस्थप्रज्ञा-
भेदे च स्त्री “ऋतम्भरा तत्र प्रज्ञा” सू० “तस्मिन्
समाहितचित्तस्य या प्रज्ञा जायते तस्या ऋतम्भरेति संज्ञा
भवति अन्वर्था च सा सत्यमेव बिभर्त्ति न तत्र विपर्य्या-
सज्ञानगन्धोऽप्यस्तीति । तथा चोक्तम् “आगमेनानुमानेन
ध्यानाभ्यासरसेन च । त्रिघा प्रकल्पयन् प्रज्ञां लभते
योगमुत्तममिति” पा० भा० । तस्याः शाब्दादिभ्यो विशेषादिकमुक्त
तत्रैव । “श्रुतानुमानप्रज्ञाभ्यामन्यविषयविशेषार्थत्वात्” सू० ।
“श्रुतमागमविज्ञानं तत् सामान्यविषयं न ह्यागमेन शक्यो-
विशेषोऽभिधातुं कस्मात्? नहि विशेषेण कृतसंङ्केतः शब्द
इति । तथानुमानं सामान्यविषयमेव यत्र प्राप्तिस्तत्र
ततिः यत्राप्राप्तिस्तत्र न भवति गतिरित्युक्तम्
अनुमानेन च सामान्येनोपसंहारः तस्मात् श्रुतानुमानवि-
षयो न विशेषः कश्चिदस्तीति न चास्य सूक्ष्मव्यवहित-
विप्रकृष्टस्य वस्तुनोलोकप्रत्यक्षेण ग्रहणम् । न चास्य विशे-
षस्याप्रमणकस्याभावोऽस्त्विति” समाधिप्रज्ञानिर्ग्राह्य एव
स विशेषो भवति भूतसूक्ष्मागतो वा पुरुषगतो वा तस्मात्
श्रुतानुमानप्रज्ञाभ्यामन्यविषया सा प्रज्ञा विशेषार्थत्वा-
दिति । समाधिप्रप्माप्रतिलम्भे योगिनः प्रज्ञाकृतः
संस्कारो नवो नवोजायते । समाधिप्रज्ञाभवः संस्का-
रोव्युत्थानसंस्काराशयं बाधते व्युथानसंस्काराभिभवात्
तत्प्रभवाः प्रत्यया न भवन्ति पात० भा० ।
“तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी” सू० ।
“प्रत्ययनिरोधे समाधिरुपतिष्ठते ततः समाधिजा प्रज्ञा
ततः प्रज्ञाकृताः संस्कारा इति नवोनवः संस्काराशयो
जायते ततः प्रज्ञा ततश्च संस्कारा इति । कथमसौ
संस्कारातिशयश्चित्तं समाप्ताधिकारं न करिष्यतीति? न
ते प्रज्ञाकृताः संस्काराः क्लेशक्षयहेतुत्वात् चित्तमधिका-
रविशिष्टं कुर्व्वन्ति चित्तं हि ते स्वकार्य्यादवसादयन्ति ।
ख्यातिपर्य्यवसानं हि चित्तचेष्टितमिति” पात० भा० ।
विवृतञ्चैतत् वाचस्पतिना । “अत्रैव योगिजनप्रसिद्धा-
न्वर्थसंज्ञाकथनेन योगिसंमतिमाह । ऋतम्भरेति
आगमेनेति वेदविहितं श्रवणमुक्तम् । अनुमानेनेति
मननं, ध्यानं चिन्ता तत्राभ्यासः पौनः पुन्येनानुष्ठानं
तस्मिन् रस आदरः तदनेन निदिध्यासनमुक्तम् । स्या-
देतत् आगमानुमानगृहीतार्थविषयभावनाप्रकर्षलब्धजन्मा-
निर्विचारा आगमानुमानविषयमेव गोचरयेत् न खल्व-
न्यविषयानुभवजन्मा संस्कारः शक्तोऽन्यत्र ज्ञानं
जनयितुम्, अतिप्रसङ्गात् तस्मान्निर्विचारा चेदृतम्भरा
आगमांनुमानयोरपि तत्प्रसङ्ग इत्यत आह । श्रुतानुमाने-
त्यादि । बुद्धिसत्वं हि प्रकाशस्वभवं सर्व्वार्थदर्शने-
समर्थमपि तमसावृतं यत्रैव रजसोद्घाट्यते तत्रैव
गृह्णाति यदा त्वभ्यासवैराग्याभ्यामपास्तरजस्तमोमलमन-
वद्यवैशारद्यमुद्द्योतते तदास्यातिपतितसमस्तमानमेय-
सीम्नः प्रकाशवत्त्वे सति किं नाम यन्न गोचर इति
भावः । व्याचष्टे श्रुतमागमज्ञानं तत्सामान्यविषयं
कस्मात्? नह्यागमेन शक्योविशेषोऽभिधातुं, कुतः?
यस्मादानन्त्याद्व्यभिचाराच्च न विशेषेण कृतसङ्केतः शब्दः
यस्मादस्य विशेषेण सह वाच्यवाचकसम्बन्धः प्रतीयेत
नच वाक्यार्थोऽपीदृशो विशेषः सम्भवति । अनुमाने-
ऽपि लिङ्गलिङ्गिसम्बन्धग्रहणाधीनजन्मनि गतिरेषैवे
त्याह तथानुमानमिति । यत्र प्राप्तिरिति यत्रतत्रश-
ब्दयोः स्थानपरिवर्त्तनेन व्याप्यव्यापकभावो गमयितव्यः ।
अतोऽत्रानुमानेन सामान्येनोपसंहारः । उपसंहरति
तस्मादिति । अस्तु तर्हि सम्बन्धग्रहानपेक्षं लोकप्रत्यक्षं
न तत् सामान्यविषयमित्यत आह । स चास्येत्यादि-
मा भूत् सम्बन्धग्रहाधीनं, लोकप्रत्यक्षमिन्द्रियाधीनन्तु-
स्यात् । नचेन्द्रियाणामस्मिन्नस्ति योग्यतेत्यर्थः ननु च यद्या-
पृष्ठ १४३२
शमानुमानप्रत्यक्षागोचरः विशेषः तर्हि नास्ति प्रमाण-
विरहादित्यत आह न चेति । न हि प्रमाणं व्यापकं
कारणं वा प्रमेयस्य, येन तन्निवृत्तौ निवर्त्तेत । न स्वलु
कलावतश्चन्द्रस्य परभागवर्त्तिहरिणसद्भावं प्रति
सन्दिहते प्रामाणिका इत्यर्थः । तस्मात् समाधि
प्रज्ञानिर्ग्राह्य एवेति । अत्र च विवादाध्यासिताः
परमाणवः आत्मानश्च प्रातिस्विकविशेषशालिनः द्रव्यत्वे सति
परस्परं व्यवर्त्तमानत्वात् ये द्रव्यत्वे सति परस्परं
व्यावर्त्तन्ते ते प्रातिस्विकविशेषशालिनः यथा खण्ड-
मुण्डादय इत्यनुमानेनागमेन च ऋतम्भरप्रज्ञोपदेशपरेण
यद्यपि विशेषो निरूप्यते तदनिरूपणे संशयः स्यात्
न्यायप्राप्तत्वात् तथाप्यदूरविप्रकर्षेण तत्सत्त्वं कथञ्चिद्गो-
चरयतः श्रुतानुमाने तु साक्षाच्चार्थमिव समुच्चयादि
पदानि लिङ्गसंख्यायोगितया, तस्मात् सिद्धं श्रुता-
नुमानप्रज्ञाभ्यामन्यविषयेति । स्यादेतत् भवतु परमार्थवि-
षयसम्प्रज्ञातो यथोक्तोपायाभ्यासात् अनादिना तु व्यु-
त्थानसंस्कारेण निगूढनिविड़तया प्रतिबन्धनीया समाधि-
प्रज्ञा वात्यावर्त्तमध्यवर्त्तिप्रदीपपरमाणुरिवेति शङ्कामप-
नेतुं सूत्रमवतारयति समाधिप्रज्ञेति सूत्रं पठति । तज्ज-
इति तदिति निर्विचारां समापत्तिं परामृशति अन्येति ।
व्युत्यानमाह । भूतार्थपक्षपातो हि धियां स्वभावः,
तावदेवेयमनवस्थिता भ्राभ्यति न यावत् तत्त्वं प्रतिलभते
तत्प्रतिलम्भे तत्र स्थितपदा सती संस्कारबुद्धिः संस्कार-
वुद्धिचक्रक्रमेणावर्त्तमाना सती अनादिमप्यतत्त्वसंस्कारबुद्ध्वि-
क्रमं बाधत एवेति तथा च वाह्या अप्याहुः “निरुपद्रवभू-
तार्थस्वभावस्य विपर्य्ययैः । न बाधो नादिमत्त्वेऽपि बुद्धे
स्तत्पक्षपाततः” इति । स्यादेतत् समाधिप्रज्ञातीऽस्तु-
व्युथानजन्यसंस्कारस्य निरोधः ससाविजस्तु संस्का-
रातिशयः समाधिप्रज्ञाप्रसवे हेतुरस्त्व्यऽविकल इति
तदवस्थैव चित्तस्य साधिकारतेति चोदयति
कथमसाविति । परिहरति न त इति । चित्तस्य हि कार्य्य-
द्वयं शब्दाद्युपभोगः विवेकख्यातिश्चेति तत्र क्लेशकर्म्मा-
शयसहितं शब्दाद्युपभोगे वर्त्तते प्रज्ञाप्रभवसंस्कारो-
न्मूलितनिखिलक्लेशकर्म्माशयस्य तु चेतसोऽवसितपायाधि-
कारभावस्य विवेकख्यातिमात्रमवशिष्यते कार्यम् । तस्मात्
समाधिसंस्काराश्चित्तस्य न भोगाधिकारहेतवः प्रत्युत
तत्परिपन्थिन इति स्वकार्य्याद्भोगलक्षणादवसादयन्ति
असमर्थं कुर्व्वन्ति इत्यर्थः । कस्मात्? विवेकख्यातिपर्य्य-
वसानं हि चित्तचेष्टितम् । तावद्धि भोगाय चित्त चेष्टते न
यावद्विवेकख्यातिमनुभबति सञ्जातविवेकख्यातेस्तु क्लेश
निवृत्तौ न भोगाधिकार इत्यर्थः । तदत्र भोगाधिकारप्र-
शान्तिः प्रयोजनं प्रज्ञासंस्काराणामित्युक्तम् “तत् प्रचिनु
चित्तप्रसाधनीश्चतस्रोमैत्र्यादिभावनाः प्रसीदतु ते विशोका
ज्योतिष्मती नाम चित्तवृत्तिः समापयतु परशुञ्च तत्प-
सादज ऋतम्भराभिधानप्रवाहः साधनोपाधेयः” वी० च० ।

ऋतव्य त्रि० ऋतुस्तदभिमानी देवो देवताऽस्य यत् । ऋतुदेवताके

इष्टकादौ “ऋतव्ये मधुश्च माधवश्चेति” कात्या० १७,
४, २४ । विश्वज्योतिषः पुरोद्वे पद्ये प्राणलक्षणे
ऋतव्ये इष्टके अनूकमभित उदङ्मुख उपदधाति” वेददी०
“अथर्त्तव्ये उपदधाति ऋतव एते यदृतव्ये ऋतृनैवेतदुप-
दधाति मधुश्च माधवश्च वासन्तिकावृतू इति द्वे इष्टके
भवतो द्वौ हि मासावृतुः” इति शत० ब्रा० ७, ४, २, २९ ।
“अथ ऋतव्ये उपदधाति” इत्यादि प्राग्बत् । “शुक्रश्च शुचिश्च
ग्रैष्मावृतू” इत्युक्त्वा प्राग्वत् ८, २, १, १६ । “नावासदोऽनू-
केषु पूर्ब्बवर्जमृतव्यवेलायाम्” कात्या० १७, १३, १ ।

ऋतव्रत पु० ऋतमविनश्वरफलकं व्रतं यस्य । शाकद्वीपस्थे

भगदुपासकभेदे । शाकद्वीपवर्ण्णने” भाग० ५, २०, १९ । “तेषु
पुरुषा ऋतव्रतसत्यव्रतदानव्रतानुव्रतानाम भगवन्तं
वाय्वात्मकं प्रणायामविधूतरजस्तमसः परमसमाधिना
यजन्ते” ऋतव्रतादयोवर्ण्णस्थानीया इति बोध्यम् । अन्य-
द्वीपेषु वर्ण्णभदोक्तेरिह तु तेषामेव तत्स्थानीयत्वौचि-
त्यात् चतुःसंख्यासाम्याच्च ।

ऋतसद् पु० ऋते यज्ञे सीदति सद--क्विप् ७ त० । वह्नौ

“नृषद्वरसदृतसद्व्योमसदब्जाः” ऋ० ४, ४०, ५ । “ऋतस-
दग्निः” भा० ।

ऋतसदन न० ऋतस्य यज्ञार्थं सीदत्यस्मिन् सद--आधारे

ल्युट् ६ त० । यज्ञार्थमुपवेशनस्थाने । “वरुणस्य ऋतसदन-
मसि वरुणस्य ऋतसदनमासीद” यजु० ४, ३६ । स्त्रियां
ङीप् । “वरुणस्य ऋतसदन्यसि” तत्रैव ।

ऋतसाप् त्रि० आप + क्विप् सहपा साप् प्राप्ता ६ त० ।

यज्ञस्य प्रापयितरि “ये चिद्धि पूर्ब्ब ऋतसाप आसन्” ऋ०
१, १७९, २ । “ऋतसाप ऋतस्य यज्ञस्यापयितारः” भा० ।

ऋतस्पति पु० ऋतस्य पतिः बा० वेदे सुट् । यज्ञपतौ

“तववायवृतस्पते” । ऋ० ८, २६, २१ । “ऋतस्पते! यज्ञानां
पते!” भा० लोके तु ऋतपतिरित्येव ।
पृष्ठ १४३३

ऋतावन् त्रि० ऋतमस्त्यस्य “छन्दसीवनिपौ” पा० वनिप् दीर्घश्च

यज्ञवति । “ऋतावानं महिषं विश्वदर्शतमग्निम्” यजु०
१२, १११ । “ऋतावानो जने जने” ऋ० ५, ६८, ४ ।
“ऋतावानः यज्ञवन्तः” भा० । लोके तु मतुप् मस्य वः ।
ऋतवत् इत्येव । “ऐक्याद्वयस्य ऋतवानिति विप्रलब्धः”
भाग० १५, २० । “ऋतवान् सत्यवान्” इति श्रीधरः ।

ऋतावृध् त्रि० ऋतं यज्ञं वर्द्धयति वृध--अन्तर्भूतण्यर्थे क्विप्

दीर्घः । यज्ञवर्द्धके । “विस्रयन्तामृतावृधोद्वारः” यजु०
२८, ५ । “सुतः सोम ऋतावृधः” ७, ९ । “देवीरमृता
ऋतावृधः” ४, १२ ।

ऋताषाह् त्रि० ऋतं सहते असत्यं न, सह--ण्वि दीर्घः

६ त० पृ० “सहेः पृतनर्त्ताभ्याञ्चेति” पा० षत्वम् । सत्यसहने
असत्ये कुपिते “ऋताषाडृतधामाग्निः” यजु० १८, ३८ ।

ऋति स्त्री ऋ--क्तिन् । १ गतौ २ स्पर्द्धायाम् ३ निन्दायाञ्च ।

कर्म्मणि क्तिन् । ४ वर्त्मनि ५ मङ्गले च । ६ पुरुषमेधय-
ज्ञियदेवभेदे । तत्र चतुर्थबूपे बन्धनीयपशुकीर्त्तने ।
“ऋतये स्तेनहृदयम्” यजु० ३०, १३ । कर्त्तरि क्तिच् ।
७ शत्रौ पु० निरु० । अग्निरप्सामृतीषहम्” ऋ० ६, १४, ४
“शरव्यामुखेऽपि नह्यमान ऋतिर्हन्यमाना” अथ०
१२, ५, २५ ।

ऋतिङ्कर त्रि० ऋतिं पीड़ां करोति कृ--खच् मुम् । पीड़ाकारके ।

ऋतीय नामधा० ऋतमिच्छति ऋतीयति आर्त्तीयत् ।

ऋतोयाम् बभूव आस चकार । वेदे तु “न छन्दसि” पा०
न ईत्त्वम् । ऋतयति इत्येव “अकृत्सार्वधातुकयोः” पा०
क्वचिदात्त्वं ऋतायति । ऋतायन् । “देवा ऋतायते दमे”
ऋ० ४, ८, ३ । “ऋतायते यज्ञमिच्छते” भा० । “अग्निमृत-
यन्नसादि” ऋ० ५, ४३, ७ । “ऋतयन् यज्ञमिच्छन् भा० ।
अर्वती अतायन्” ऋ० ७, ८७, १ “ऋतायन् शोघ्रगमन-
मिच्छन्” भा० । तत उ ण् । ऋतयु यज्ञकामे “त्वं न इन्द्र
ऋतयुस्त्वानिटो नि तृम्पसि” ऋ० ८, ७०, १० । दीर्घे ऋतायु
तत्रार्थे “न वा एतस्य ब्राह्मणा ऋतायवः” तै० स० २, २,
५, ५, भवे अ । ऋतया ऋताया वा “ध्रियं वने ॠतया
शपन्ता” ऋ० २, ११, १२ । “ऋतया ऋत कर्मफलं तत्काम-
नया” भा० । वद सुपासुलुगित्यादिना तृतीयास्थाने आ० ।

ऋतीया स्त्री ऋत--ईयङ् भावे अ । जुपुप्सायाम् अमरः ।

ऋतीषह् त्रि० ऋतिं पीड़ां शत्रुं वा सहंते क्विप् दीर्घः ।

“सहेः पृतनर्त्ताभ्यांञ्च” पा० चात् ऋतिशब्दादपि षत्वम् ।
१ पीड़ासहे २ शत्रुसहने च “अग्निरप्सामृतीषहम्” ऋ०
६, १४, ४ ऋतीसहम् अरातीनां सोढारम्” भा० ।

ऋतु पु० ऋ--तु किच्च । शिशिरः पुष्पसमयो ग्रीष्मो वर्षा

शरद्धिमः । माघादिमासयुग्मैस्तु ऋतवः षट् क्रमादिमे
इत्युक्ते १ कालभेदे । “ऋतुः स्वाभाविकः स्त्रीणां रात्रयः
षोड़श स्मृताः” इति मनूक्ते स्त्रीणां २ शोणितदर्शनयोग्ये
गर्भधारणसमर्थे च काले “ऋतौ भार्य्यामुपेयात्” श्रुतिः
“सकृत्सकुद्बृतावृतौ, ऋतुकालभिगामी स्यात्” मनुः ।
ऋतुरस्य प्राप्तः अण् । आर्त्तव स्त्रीरजसि न० आर्त्तवशब्दे
८०८ पृष्ठे विवृतिः । ३ दीप्तौ ४ मासे च । मासद्वयात्मक
ऋतुश्च सौरश्चान्द्रश्च यथा काल० मा० “ऋतुशब्दस्य
ऋ गतावित्यस्माद्धातोर्निष्पन्नः । इयर्त्ति गच्छति अशोक-
पुष्पविकासान् साधारणलिङ्गमिति वसन्तादिकालविशेष
ऋतुः । स च षद्धिधः “षड्वा ऋतव इति” श्रुतेः । यत्त
“द्वादश मासाः पञ्चर्त्तव” इति श्रुतं तत्र हेमन्तशिशिरयो-
रेकीकरणं विवक्षितं याजमानेषु पञ्चप्रयाजानुमन्त्रणमन्त्रेषु
हेमन्तशिशिरयोरेकस्मिन्नेकेनैव पदेनैकीकरणमित्युक्तं तथा
हि “वसन्तमृतूनां प्रीणामि ग्रीष्ममृतूनां प्रीणामि वर्षा
ऋतूनां प्रीणामि शरदमृतूनां प्रीणामीति” चतुर्णां प्रया-
जानां पृथक् पृथगनुमन्त्रणमन्त्रानाम्नाय पञ्चमप्रयाजस्यानु
मन्त्रणे मन्त्र एवं श्रूयते “हेमन्तशिशिरावृतूनां प्रीणा-
मीति” एतदेवाभिप्रेत्य बह्वृचब्राह्मणे द्वादश मासाः पञ्च-
र्त्तवो हेमन्तशिशिरयोः समासेनेति” यत्वनयोर्मन्त्रब्राह्म-
णयोर्ष्ट्विवचनं ततस्वरूपद्वैविध्याभिप्रायेण शिशिरस्य षष्ठ-
स्यान्तिमत्वात्तेनानुमन्त्रणीयस्य षष्ठप्रयाजस्याभावाच्च तस्यैव
पञ्चमे हेमन्तेऽन्तर्भावोन्याय्यः । अतएव प्रयाजब्राह्मणे
“वसन्तमेवर्तूनामवरुन्ध” इत्यादिना चतुरः प्रयाजान् प्रशस्य
पञ्चमे प्रयाजे केवलेन हेमन्तेन प्रशंसा “स्वाहाकारं
यजति हेमन्तमेवावरुन्धे” इति । अस्तु नाम यथा तथा
पञ्चसंख्या तथापि स्वरूपेण षोढा भिद्यते द्वादमासात्मके
संवत्सरे एकैकस्य ऋतोर्मासद्वयात्मकत्वे सत्येकादश द्वादश-
मासयोर्वर्ज यितुमशकत्वात् षष्ठर्तौ पृथगनुष्ठानविधा-
नाच्च तच्चोपरिष्टदुदाहरिष्यामः । मासद्वयात्मकत्वं
चाग्निचयने ऋतव्येष्टकोपधानब्राह्मणे श्रूयते । “द्वन्द्वमु-
पदधाति तस्मात् द्वन्द्वमृतव” इति । एकस्मिन् ऋतौ
कयोर्मासयोर्द्वन्द्वं ग्रहीतव्यमिति चेत् वसन्ताद्यृतुक्रमेण चैत्र-
मासादि द्वन्द्वभिति ब्रूमः । तच्चेष्टकोपधानमन्त्रेषु श्रू-
यते “मधुश्च माधवश्च वासन्तिकावृतू” “शुक्रश्च शुचिश्च ग्रै-
ष्मावृतू” “नभश्च नभस्यश्च वार्षिकावृतू” इषश्चोर्जश्च “शार-
दावृतू” “सहश्च सहस्यश्च हैमन्तिकावृतू” “तपश्च तपस्यश्च
पृष्ठ १४३४
शिशिरावृतू” एषु च वाक्येषु ऋतू इति द्विवचनं मासाभि-
प्रायम् अन्यथा षडृतव इति श्रूयमाणा षट्संख्या बाध्येत ।
अवयवावयविनोर्वसन्तादेरेकात्मत्वं सौत्रामणीयहौत्रमन्त्रेषु
एकवचनेन व्यवहारादवगन्तव्यं “वसन्तेन ऋतुना देवाः,
ग्रीष्मेण ऋतुना देवा” इत्यादि हि तत्र पठ्यते तथैवाधान-
ब्राह्मणे श्रूयते “वसन्तो वै व्राह्मणस्यर्त्तुः, ग्रीष्मो वै
राजन्यस्यर्त्तुः, शरद्वैश्यस्यर्त्तुरिति” यद्यप्येते षडृतवो घटीयन्त्र-
वन्नैरन्तर्य्येण प्रवर्त्तन्ते तथापि संवत्सरोपक्रमरूपत्वेन
वसन्तस्य प्राथम्यं द्रष्टव्यम् एतदेवाभिप्रेत्य श्रूयते “मुखं वा
एतदृतूनां वसन्त” इति पूर्वोदाहृतेषु मन्त्रब्राह्मणेषु सर्वत्र
वसन्तोपक्रमणाच्च वसन्तस्य प्राथम्यं ते च वसन्ताद्यृ-
तवो द्विविधाः चान्द्राः सौराश्च । चैत्रादयश्चान्द्राः तच्चो-
दाहृतं “मधुश्च माधवश्चेत्यादिना” न च तत्र चैत्रादयो-
नोक्ता इति शङ्कनीयं मध्वादिशब्दानां चैत्रादिपर्याय-
त्वात् । अत एबाहुः “चैत्रोमासी मधुःप्रोक्तो वैशाखो
माधवो मवत् । ज्यैष्ठमासस्तु शुक्रः स्यादाषाढः
शुचिरुच्यते । नभोमासः श्रावणः स्यान्नभस्यो भाद्र उच्यते ।
इषश्चाश्वयजोमासः कार्त्तिकश्चोर्जसंज्ञकः । सहीमासो
मार्गशिरः सहस्यः पुष्पनामकः । माघमासस्तपाः प्रोक्त
स्तपस्यः फाल्गुनः स्मृतः” इति । एतेषां चैत्राद्यात्मकानां
वसन्तादीनां चन्द्रगतिपरिकल्प्यत्वाच्चान्द्रत्वम् । अतएव
होतृमन्त्रेषु आम्नायते “चन्द्रमाः षड्ढोता स ऋतून् कल्प-
यति तथा” सूक्तविशेषे सूर्याचन्द्रमसौ प्रकृत्य आम्नायते
“पूर्वापरं चरन्तौ माययैतौ शिशू क्रीलन्तौ परियातो
अध्वरम् । विश्वान्यन्योभुवनाभिचष्ट ऋतूनन्योविदधज्जायते
पुनरिति” अत्र पुनर्जायत इति लिङ्गादनुविधाता चन्द्र
इति अवगम्यते । नन्वस्त्वेवं मध्वादीनां चान्द्रमासानां
वसन्ताद्यृतुत्वं संसर्पाख्यस्य तु त्रयोदशस्य चान्द्रमासस्य
कथमृतुषु निर्वाहः । तन्माससद्भावश्चर्तुग्रहब्राह्मणे मन्त्रा-
नुवादपुरस्मरमाम्नायते “उपयामगृहीतोऽसि संसर्पोऽसि
अहस्पत्यायत्ये स्वाहास्ति त्रयोदशोमास इत्याहुस्तमेव तत्
प्रीणातीति” तथा प्रवर्ग्यब्राह्मणेऽपि “अस्ति त्रयोद
शोमास इत्याहुः यत्त्रयोदश परिधिर्भवति तेनैव त्रयोदशं
मासमवरुन्धे” इति । तदुत्पत्तिप्रकारोऽस्माभिर्मलमास
निर्णये वक्ष्यते । विद्यतामेवं त्रयोदशोमासस्तस्य का
उपपत्तिर्वसन्तादिषु ऋतुषु इति चेत् उच्यते किमथं सप्तम
ऋतुः? आहोस्विदुक्तेष्वैव षट्सु अन्तर्भावः? उतर्त्तुद्वयान्त-
रालवर्त्ती कश्चिदनृतुरूपः? न तावत् पश्चिमः “ऋतुरृतु-
नानुद्यमान” इति ऋतूनां नैरतर्यश्रवणात् । नाप्य-
ग्रिमः । “षड्वा ऋतवः” इति षट्संख्यानियमात् ।
वसन्तादिवन्मन्त्रब्राह्मणयोर्नामान्तराश्रवणाच्च नापि
मध्यमः मध्वादिषु अपाठात् । उच्यते ययोर्मासयोर्मध्ये
मलमासो दृश्यते तयोरुत्तरस्मिंस्तस्यान्तर्भावः । तथा चासौ
षष्टिदिवसात्मकोमलिनशुद्धभागद्वयात्मक इति मध्वादिशब्द-
वाच्यत्वेनोक्तेष्वन्तर्भावान्न काप्यनुपपत्तिः । सौरेषु ऋतुषु
बौघायनेन मीनमेषयोर्मेषवृषयोर्वा वसन्त इत्यभिधानात्
मीनादित्वं मेषादित्वं च वैकल्पिकं वसन्तस्याङ्गीकृतम् ।
तथा च तदनुसारेण उत्तरे ग्रीष्मादयोऽपि यथायथं
विकल्प्यन्ते । विनियोगश्चैषां ऋतुविशेषाणां श्रुतिस्मृति
पुराणेष्ववगम्यते । तत्र श्रुतिः । “वसन्ते ब्राह्मणोऽग्नि-
मादधीत, ग्रीष्मे राजन्य आदधीत, शरदि वैश्य
आदधीतेत्यादि” स्मृतिरपि “वसन्ते ब्राह्मणं उपनयीत, ग्रीष्मे-
राजन्यं शरदि वैश्यमिति” विष्णुधर्मोत्तरेऽपि परामूर्त्ति-
व्रते वसन्ताद्यृतषु पृथक्पूजा विशेषतः कथिताः । तथा तत्रैव
वसन्ते स्नानानुलेपादिदानम् ग्रीष्मे मानकादिदानमुक्तं
देवीपुराणे । वर्षासु तिलदामं तथा शरद्यन्नदानं हेमन्ते
वस्त्राग्निदानं शिशिरे वस्त्रदानमित्येतानि विष्णुधर्मोत्तर
एवोक्तानि एवमन्यदप्युदोहार्य्यम्” ।
“वसन्तेन ऋतुना देवा वसवस्त्रिवृतास्तुताः” “ग्रीष्मेण
ऋतुना देवा रुद्राः पञ्चदशे स्तुताः” “वर्षाभिरृतुना-
दित्या स्तोमे सप्तदशे स्तुताः” “शारदेन ऋतुना देवा
एकविंश ऋभवस्तुताः” “हेमन्तेन ऋतुना देवास्त्रिणवे
मरुतस्तुताः” “शैशिरेण ऋतुना देवास्त्रयस्त्रिंशेऽमृतास्तुताः
प्राखस्यात्” यजु० २१, २३, २४, ३५, २६, २७, २८ ।
सूर्य्यसिद्धान्तेतु सौरत्वमङ्गीकृतम् । यथा “द्विराशिनाथा-
ऋतवस्ततीऽपि शिशिरादयः । मेषादयो द्वादशैते मासास्तै-
रैव वत्सरः” । ऋतुमध्ये च वत्सरारम्भकत्वं वसन्तस्यैव
तच्च काल० मा० उक्तम् अतएव गीतायाम् “ऋतूनां कुसुमा-
कारः” इत्यनेन वसन्तस्य ऋतुषु प्रथमत्वेव भगद्विमूतित्वमु-
क्तम्” म० त० ब्रह्मपु० । “चैत्रे मासि जगत् ब्रह्मा ससर्ज्जं
प्रथमेऽहनि । शुक्लपक्षे समग्रन्तु तदा सूर्य्योदये सति ।
प्रवर्त्तयामास तदा कालस्य गणनामपि । ग्रहान्राशीनृ-
तून् मासान् वत्सरान् वत्सराधिपान्” । मासर्त्तुवत्
सराणा व्यक्तं चन्द्रत्वमुक्तम् ब्रह्मसिद्धान्तेऽपि “चैत्रसि-
तादेरुदयाद्भानोर्बर्षर्त्तुमासयुगकल्पाः । सृष्ट्यादौ लङ्काया-
माह प्रवृत्ता दिनैर्वत्स”! चैत्रसितादेश्चैत्रशुक्लप्रतिपदमा-
पृष्ठ १४३५
रभ्येत्यर्थः दिनैस्तिथिभिः” म० त० । ५ मासद्वयमात्रे “मुख्यं
श्राद्धं मासि मासि अपर्य्याप्तावृतुं प्रति” स्मृतिः ।
सुश्रुते ऋतुनिरूपणं तद्गुणलिङ्गादि च दर्शितं यथा
“अथात ऋतुचर्य्याध्यायं व्याख्यास्यामः कालोहि नाम
भगवान् स्वयम्भूरनादिमध्यनिधनोऽत्र रसव्यापत्सं पत्ती
जीवितमरणे च मनुष्याणामायत्ते स सूक्ष्मामपि कलां
न लीयत इति कालः सङ्कलयति कालयति वा भूता-
नीति कालः । तस्य संवत्सरात्मनोभगवानादित्यो
गतिविशेषेणाक्षिनिमेषकाष्ठाकलामुहूर्त्ताहोरात्रपक्षमासर्त्त्वय-
नसंवत्सरयुगप्रविभागं करोति । तत्र लघ्वक्षरोच्चारणमा-
त्रोऽक्षिनिमेषः । पञ्चदशाक्षिनिमेषाः काष्ठा । त्रिंश-
त्काष्ठाः कला विशंतिकलोमुहूर्त्तः कलादशभागश्च ।
त्रिंशन्मुहूर्त्तमहोरात्रम् । पञ्चदशाहोरात्राणि पक्षः ।
सच द्विविधः शुक्लः कृष्णश्च तौ मासः । तत्र माघादयो
द्वादश मासा द्विमासिकमृतुं कृत्वा षडृतवो भवन्ति । ते
शिशिरवसन्तग्रीष्मवर्षाशरद्धेमन्ताः । तेषां तपस्तपस्यौ
शिशिरः । मधुमाधवौ वसन्तः । शुचिशुक्रौ ग्रीष्मः ।
नभीनभस्यौ वर्षा । इषोर्जौ शरत् । सहःसहस्यौ हेमन्त इति ।
त एते शीतोष्णबर्षलक्षणाश्चन्द्रादित्ययोः कालविभागकर-
त्वादयने द्वे भवतो दक्षिणमुत्तरञ्च । तयोर्दक्षिणं वर्षाश-
रद्धेमन्तास्तेषु भगवानाप्याय्यते सोमोऽम्ललवणमधुराश्च
रसा बलवन्तो भवन्त्युत्तरोत्तरञ्च सर्वप्राणिनां
बलमभिवर्द्धते । उत्तरञ्च शिशिरवसन्तग्रीष्मास्तेषु भगवानाप्या-
य्यतेऽर्कस्तिक्तकषायकटुकाश्च रसा बलवन्तोभवन्त्युत्तरोत्तरञ्च
सर्वपाणिनां बलमपहीयते । भवति चात्र । शीतांशुः क्लेद-
ययुर्वीं विवस्वान् शोषयत्यपि । तावुभावपि संश्रित्य वायुः
पालयति प्रजाः । अथ खल्वयने द्वे युगपत्संवसरो भवति ।
ते तु पञ्च युगभिति संज्ञां लभन्ते । स एष निमेषादि
युगपर्य्यन्तः कालश्रक्रषत्परिवर्त्तमानः कालचक्रमुच्यत-
इत्येके । इह तु वर्षाशरद्वेमन्तवसन्तग्रीष्मप्रावृषः षड़्ऋतवो
भवन्ति दोषोपचयप्रकोपोपशमनिमित्तम् । ते तु भाद्रपदा-
द्येनं द्विम सिकेन व्याख्याताः । तद्यथा भाद्रपदाश्वयुजौ
वर्षाः । कर्त्तिकमार्गशीर्षौ शरत् । पौषमाघौ हेमन्तः ।
फाल्गुनचैत्रौ वसन्तः । वैशाखज्यैष्ठौ ग्रीष्मः । आषाढ-
श्रावणौ प्रावृडिति । तत्र वर्षास्वोषधयस्तरुण्योऽल्पवीर्या
आपश्चाप्रसन्नाः क्षितिमलप्रायास्ता उपयुज्यमाना नभसि
मेघावतते जलप्रक्लिन्नायां भूमौ क्लिन्नदेहानां प्राणिनां
शीतवातविष्टब्धाग्नीनां विदह्यन्ते विदाहात् पित्तसञ्चयमा-
पादयन्ति स सञ्चयः शरदि प्रविरलमेघे वियत्युपशुष्यति
पङ्केऽर्ककिरणप्रविलापितः पैत्तिकान् व्याधीन् जनयति । ता
एवौषधयः कालपरिणामात्परिणतवीर्य्या बलवत्यो हेमन्ते
भवन्त्यापश्च प्रसन्नाः स्निग्धा अत्यर्थं गुर्व्यस्ता उपयुज्यमाना
मन्दकिरणत्वाद्भानोः सतुषारपवनोपस्तम्भितदेहानां
देहिनामविदग्धाः स्नेहाच्छैत्याद्गौरवादुपलेपाच्च श्लेष्मणः
सञ्चयपापादयन्ति स सञ्चयो वसन्तेऽर्क्करश्मिप्रविलापित
ईषत्स्तब्धदेहानां देहिनां श्लैष्मिकान् व्याधीन् जनयति ।
ता एवौषधयो निदाघे निःसारा रूक्षा अतिमात्रं लघ्व्यो
भवन्त्यापश्च ता उपयुज्यमानाः सूर्य्यप्रतापोपशोषितदे-
हानां देहिनां रौक्ष्याल्लघुत्वाद्वैशद्याच्च वायोः सञ्चयमापाद-
यन्ति स सञ्चयः प्रावृषि चात्यर्थं जलोपक्लिन्नायां भूमौ
क्लिन्नदेहानां प्राणिनां शीतवातवर्षेरितो वातिकान् व्याधीन्
जनयति । एवमेष दोषाणां सञ्चयप्रकोपहेतुरुक्तः ।
तत्र वर्षाहेमन्तग्रीष्मेषु सञ्चितानां दोषाणां शरद्वसन्त-
प्रावृट्सु च प्रकुपितानां निर्हरणं कर्त्तव्यम् । तत्र
पैत्तिकानां व्याधीनामुपशमो हेमन्ते, श्लैष्मिकाणां
निदाघे, वातिकानां घनात्यये, स्वभावत एव, त एते सञ्चय-
प्रकोपोपशमा व्याख्याताः । तत्र पूर्वाह्णे वसन्तस्य लिङ्गं
मध्याह्णे ग्रीष्मस्य, अपराह्णे प्रावृषः, प्रदोषे वार्षिकम्,
शारदमर्द्धरात्रे प्रत्यूषसि हैमन्तमुपलक्षयेत् । एवमहो-
रात्रमपि वर्षमिव शीतोष्णवर्षलक्षणं दोषोपचयप्रको-
पोपशमैर्जानीयात् । तत्राव्यापन्नेष्वृतुष्वव्यापन्ना
ओषधयो भवन्त्यापश्च ता उपयुज्यमानाः प्राणायुर्बलवीर्यौ-
जस्कर्यो भवन्ति । तेषां व्यापदोऽदृष्टकारिताः । शीतो-
ष्णवातवर्षाणि खलु विपरीतान्योषधीर्व्या पादयन्त्यपश्च,
तासामुपयोगाद्विविधरोगप्रादुर्भावो मरको वा भवेदिति ।
तत्राव्यापन्नानामोषधीनामपाञ्चोपयोगः कदाचिदव्या-
पन्नेष्वप्यृतुषु कृत्यापिशाचरक्षःक्रोधाधर्मैरुपध्वस्यन्ते
जनपदाः । विषौषधीपुष्पगन्धेन वायुनोपनीतेनाक्रम्यते यो
देशस्त्रत्र दोषप्रकृत्यविशेषेण कासश्वासवमथुप्रतिश्यायशि-
रोरुग्ज्वरैरुपतप्यन्ते ग्रहनक्षत्रचरितैर्वा गृहदारशयना-
सनयानवाहनमणिरत्नोपकरणगर्हितलक्षणनिमित्तप्रादुर्भा-
वैर्वा । तत्र स्थानपरित्यागशान्तिकर्मप्रायश्चित्तमङ्गलजप-
होमोपहारेज्याञ्जलिनमस्कारतपोनियमदयादानदीक्षा-
भ्युपगमदेवताब्राह्मणगुरुपरैर्भवितव्यमेवं साधु भवति ।
ऋतूनामत ऊर्द्ध्वमव्यापन्नानां लक्षणान्युपदेक्ष्यामः ।
वायुवात्युत्तरः शीतो रजोधूमाकुला दिशः । छन्नस्तु-
पृष्ठ १४३६
षारः सविता हिमानद्धा जलाशयाः । दर्पिता ध्वा-
ङ्क्षखड्गाह्वमहिषोरभ्रकुञ्जराः । लोध्रप्रियङ्गुपुन्नागाः
पुष्पिता हिमसाह्वये । शिशिरे शीतमधिकं वातवृष्ट्या-
कुला दिशः । शेषं हेमन्तवत्सर्वं विज्ञेयं लक्षणं बुधैः ।
दिशो वसन्ते विमलाः काननैरुपशोभिताः । किंशु-
काम्भोजवकुलचूताशोकादिपुष्पितैः । कोकिलाः षट्पद-
गणैरुपगोता मनीहराः । दक्षिणानिलसंवीताः
सुसुखाः पल्वलोज्ज्वलाः । ग्रीष्मे तीक्ष्णांशुरादित्यो
मारुतो नैरृतोऽसुखः । भूस्तप्ता सरितस्तन्व्यो दिशः
प्रज्वलिता इव । भ्रान्तचक्राह्वयुगलाः पयःपानाकुला
मृगाः । ध्वस्तवीरुत्तृणलताविपर्ण्णङ्कितपादपाः । प्रा-
वृष्यम्बरमानद्धं पश्चिमानिलकर्षितैः । अम्बुदैर्विद्युदुद्योत-
प्रस्रुतैस्तुमुलस्वनैः । कोमलश्यामशस्पाढ्या शक्रगोपो-
ज्ज्वला मही । कदम्बनीपकुटजसर्जकेतकिभूषिता । तत्र
वर्षामु नद्यम्भःपूरोद्भग्नतटद्रु माः । वाप्यः प्रोत्फुल्लकु-
मुदनीलोत्पलविराजिताः । मूरव्यक्तस्थलश्वभ्रा बहुशस्यो-
पशोभिता । नातिगर्जत्स्रवन्मेघनिरुद्धार्कग्रहं नभः ।
वभ्रुरुष्णः शरद्यर्कः श्वेताभ्रविमलं नभः । तथा सरां-
स्यम्बुरुहैर्भान्ति हंसांसघट्टितैः । पङ्कशुष्कद्रुमाकीर्ण्णा
निम्रोन्नतसमेषु भूः । वाणसप्ताह्वबन्धूककाशासनविराजिता ।
स्वगुणैरतियुक्तेषु विपरीतेषु वा पुनः । विष मेष्वपि
वा दोषाः कुप्यन्त्यृतुषु देहिनाम् । हरेद्वसन्ते श्लेष्माणं
पिर्त्त शरदि निर्हरेत् । वर्षासु शमयेद्वायुं प्राग्विकार-
समुच्छ्रयात्” ऋतुचार्य्याध्यायः । आ० त० ऋतुगुणादि यथा
“मासैर्द्विसंख्यैर्माघाद्यैः क्रमात् षडृतवः” स्मृताः ।
हेमन्ते कुपिताद्वायोः स्वाद्वम्ललवणान्रसान् । गोधूभपिष्टमां-
सेक्षुक्षीरोत्थविकृतिर्भजेत् । नवमन्नं रसान् तैलं शौचे
तप्तोदकं नरः । शक्त्यार्ककिरणान् स्वेदं पादत्राणञ्च
सर्वदा । उष्णस्वभावैर्लघुभिः प्रावृतः शयनं भजेत् ।
अयमेव विधिः कार्य्यः शिशिरेऽपि विशेषतः । वसन्ते कुपितः
श्लेष्मा ह्यग्निमान्द्यं करोत्यतः । तीक्ष्णं वमननस्यादि
कवलग्रहमञ्जनम् । व्यायामोद्वर्त्तनं धूमं शौचे तप्तोदकं
भजेत् । पुराणयवगोधूमक्षौद्रजाङ्गलमांसभुक् । गुरूष्ण
स्निग्धमधुरं दिवा स्वप्नञ्च वर्जयेत् । स्वादु शीतं द्रवं
स्निग्धमनुपानं सशर्करम् । घृतं पयः सशाल्यम्लं
भजन् ग्रीष्मे न सीदति । मध्याह्ने शीतले सुप्यात् निशि
वातहिमाश्रिते । लवणाम्लकटूष्णानि व्यायामञ्चात्र वर्ज-
येत् । वर्षास्वग्निवले हीने कुप्यन्ते पवनादयः । अग्नेः
संवर्द्धकं द्रव्यं जीर्णधान्यं रसान् लघु । जाङ्गलं पिशितं
मुद्गान् दिव्यं कौपं जलं शुचि । वृक्षाम्ललवणं स्नेहं
संशुष्कं क्षौद्रमेव च । नदीजलौदनञ्चाहःस्वप्नायासातपां-
स्त्यजेत् । शरदि कुपिते पित्ते विरेकं रक्तमोक्षणम् ।
स्वादुतिक्तकषायेक्षुशालिमुद्गसरोजलम् । तुषारक्षरसौ-
हित्यदधितैलरसातपान् । अम्लतीक्ष्णदिवास्वप्नप्राची-
वातान् विवर्जयेत् । नित्यं सर्वरसास्वादः स्वस्वाधिक्य-
मृतावृतौ । ऋतूनां शेषसप्ताहे सेवितव्यः पराक्रमः ।
तच्च नित्यं प्रयुञ्जीत स्वास्थ्यं येन प्रवत्तैते । अजातानां
विकाराणामनुत्पत्तिकरञ्च यत् । व्यायामादपतर्पणा-
दभिभवाद्भङ्गात् क्षयाज्जागरात् वेगानाञ्च विधारणा-
दतिशुचः शैत्यादतित्रासतः । रूक्षक्षोभकषायतिक्तकटुकै-
रेभिः प्रकोपं व्रजेद्वायुर्वारिधरागमे परिणते चान्ने
ऽपराह्णेऽपि च । कट्वम्लोष्णविदाहितीक्ष्णलवणक्रोधोपवासात-
पस्त्रीसम्पर्कतिलातसीदधिसुरासूक्तारनालादिभिः । भुङ्क्षे
जीर्य्यति भोजने च शरदि ग्रीष्मे सति प्राणिनाम्
मध्याह्ने च तथार्द्धरात्रसमये पित्तप्रकोपं व्रजेत् । गुरुमधुर
रसातिस्निग्धदुग्धेक्षुभक्ष्यद्रवदधिदिननिद्रासूपसर्पिःप्रपूरैः ।
तुहिनपतनकाले श्लेष्मणः संप्रकोपः प्रभवति दिवसादौ
भुक्तमात्रे वसन्ते” । ६ कालमात्रे ऋतुधाशब्दे उदा० ।
७ तदभिमानिदेवे पु० । ऋतव्यशब्दे उदा० । ८ विष्णौ पु० ।
“ऋतुः सुदर्शनःकालः” विष्णुस० । “कालात्मना ऋतुशब्दे
न लक्ष्यते इति ऋतुः” भा० । “प्रधानपुरुषक्षोभकं
यत्कालाख्यं रूपं तदृतुशब्देन लक्ष्यते” आनन्दगि० ।
ऋतुरस्य प्राप्तः अण् । आर्त्तव प्राप्तर्त्तुके त्रि० स्त्रियां
ङीप् । छन्दसि घस् सित्त्वान्न गुणः । ऋत्विय तदर्थे
त्रि० । ऋतुर्देवताऽस्य यत् । ऋतव्य ऋतुदेवताके इष्टकादौ ।

ऋतुकाल पु० वसन्तसमयवत् कर्म्म० राहुशिरोवत् ६ त०

वा । स्त्रीणां पुष्पदर्शनयोग्ये षोड़शरात्र्यात्मके काले ।
“ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः” मनुः ।
“ऋतुकालाभिगामी स्यात्” मनुः । पर्व्वादिवर्जे
तत्काले च स्त्रीगमनं नियम्यते । तत्र नियमस्वरूपनिर्वा-
हककारणादिप्रदर्शनेन ऋत्वभिगमस्य यथानियमविधित्वं
तथा प्रा० त० न्यायवाक्येनोक्तम् यथा “स्वरुच्या क्रिय-
माणे तु पत्रावश्यं क्रिया क्वचित् । नोद्यते नियमस्तत्र
ऋतावभिगमो यथा” मीमांसकवाक्यम् । ऋत्वभिगम-
नस्य परिसंख्यापरत्वनिराकरणेन नियमपरत्वं समर्थितं
मिता० यथा ।
पृष्ठ १४३७
“तस्मिन् युग्मासु संविशेदिति” । “किमयं विधिर्नियमः
परिसंख्या वा । “विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके
सति । तत्र चान्यत्र च प्राप्तौ परिसंख्या निगद्यते” ।
उच्यते । न तावद्विधिः, प्राप्तार्थत्वात् । नापि परिसंख्या,
दोषत्रयसमासक्तैः । अतो नियमम्प्रपेदिरे न्यायविदः ।
कः पुनरेषां भेदः । उच्यते । अत्यन्ताप्राप्तपापणं विधिः ।
यथा अग्निहोत्रं जुहुयात्” “अष्टकाः कर्त्तव्याः” इति ।
पक्षे प्राप्तस्याप्राप्तपक्षान्तरप्रापणं नियमः । यथा “समे
यजेतेति” “दर्शपूर्न्नमाणाभ्यां यजेतेति” यागः कर्त्तव्यतया-
विहितः स च देशमन्तरेण कर्त्तुमशक्य इत्यर्थात् देशः
प्राप्तः । स च समो विषमश्चेति द्विविधः । यदा
यजमानः समे यियक्षते तदा “समे यजेतेति” वचनमुदास्ते
स्वार्थस्य प्राप्तार्थत्वात् । यदा तु विषमे देशे यियक्षते तदा
समे यजेतेति” स्वार्थं विधत्ते स्वार्थस्य तदानीमप्राप्तत्वात् ।
विषमदेशनिवृत्तिस्त्वार्थिकी नोदितदेशेनैव यागनिष्यत्तेः ।
अनोदितदेशोपादानेन यथाशास्त्रं यागोनानुष्ठितः स्या-
दिति । तथा “प्राङ्मुखोऽन्नानि भुञ्जीतेति” । इदमपि
स्मार्त्तमुदाहरणं पूर्वेण व्याख्यातम् । एकस्यानेकत्र प्राप्त-
स्यान्यतो निवृत्त्यर्थमेकत्र पुनर्वचनं परिसंख्या ।
तद्यथा । “इमामगृभ्नन् रशनामृतस्येत्यश्वाभिधानीमादत्ते”
इत्ययं मन्त्रः स्वसामर्थ्यादश्वाभिधान्या गर्दभाभिधान्याश्च
रशनाया ग्रहणे विनियुक्तः । पुनरश्वाभिधानीमादत्त
इति वचनेनाश्वाभिधान्यां विनियुज्यमानो गर्दभाभिधान्या
विनिवर्त्तते । तथा “पञ्च पञ्चनखा भक्ष्याः” इत्यत्र
यदृच्छया शशादिषु श्वादिषु च भक्षणं प्राप्तम् । पुनः
शशादिषु श्रूयमाणं श्वादिभ्यो निवर्त्तत इति । किं
पुनरत्र युक्तं परिसंख्येत्याह । तथाहि कृतदारम्रं-
ग्रहस्य स्वेच्छयैव ऋतौ गमनं प्राप्तमिति न विधेरयं
विषयः । नापि नियमस्य, गृह्यस्मृतिविरोधात् ।
एवं हि स्मरन्ति गृह्यकाराः “दारसंग्रहानन्तरं त्रिरात्रं
द्वादशरात्रं संवत्सरं वा ब्रह्मचारी स्यादिति” । तत्र
द्बादशरात्रात् संवत्सरात् वा पूर्वमेवर्त्तुसम्भवे ऋतौ गच्छे-
देवेति नियमात् ब्रह्मचर्य्यम्मरणं बध्येत । अपि च
प्राप्ते भावार्थे वचनं विशेषणपरं युक्तम् । प्राप्तञ्चर्त्तौ
भार्य्यागमनमिच्छयैवातो यदि गच्छेदृतावेवेति वचनव्य-
क्तिर्युक्ता । किञ्च नैयमिकात् पुत्रोत्पत्तिविधेरेवर्त्तौ नित्यं
गमनं प्राप्तमेवेति ऋतौ गच्छेदेवेति नियमोऽनर्थकः
स्यात् । नियमे चादृष्टं कल्पनीयम् । किञ्च ऋतौ गन्तव्य-
मेवेति नियमेऽसन्निहितस्य व्याध्यादिनाऽसमर्थस्यानि-
च्छोश्चाशक्योऽर्थ उपदिष्टः स्यात् । विध्यनुवादविरोधश्च
नियमे । तथा हि एकः शब्दः सकृदुच्चरितस्तमेवार्थं पक्षेऽ-
नुवदति पक्षे विधत्ते चेति । तस्मादृतावेव गच्छेन्ना-
न्यत्र इति परिसंख्यैव युक्ता । तदिदम्भारुचिविश्वरू-
पादयोनानुमन्यन्ते । यतो नियम एव युक्तः पक्षे स्वार्थविधि
सम्भवात् । अगमने दोषश्रवणाच्च यथा ह पराशरः
“ऋतुस्नातान्तु यो भार्यां सन्निधौ नोपगच्छति । घोरायां
भ्रूणहत्यायां युज्यते नात्र संशय इति” न च विध्यनु-
वादविरोधोऽनुबादाभावात् विध्यर्थत्वाद्व चनस्य । तत्र हि
विध्यनुवादविरोधो यत्र विधेयावधितया तदेवानुवदि-
तव्यमप्राप्ततयान्योद्देशेन विधातव्यञ्चेति । यथा
वाजपेयाधिकरणे पूर्वपक्षे “वाजपेयेन स्वाराज्यकामो
यजेतेति” वाजपेयलक्षणगुणविधानावधित्वेन यागोनुवदि-
तव्यः स एव स्वाराज्यलक्षणफलोद्देशेन विधातव्य
श्चेति । न चानुवादेनेह कृत्यमस्ति । यत्तु नियमेऽदृष्टं
कल्पनीयमित्युक्तं तत्परिसंख्यायामपि समानम् ।
अनृतौ गच्छतो दोषकल्पनात् । यत्तु नैयमिकपुत्रोत्पा-
दनविध्याक्षेपेणैव ऋतौ नित्यगमनप्राप्तेर्न नियम इति ।
तदसत् स एवायं नैयमिकः पुत्रोत्पादनविधिः । स्यान्मतम्
“एवं गच्छन् स्त्रियं क्षामां लक्षण्यं पुत्रं जनयेदिति”
स्त्र्यभिगमनारिक्तः पुत्रोत्पादनविधिरिति । तन्न
गमनकरणिकाया भावनाया एव पुत्रोत्पत्तिकर्मता प्रदृश्यते ।
“एवं गच्छन् लक्षण्यं पुत्रं जनयेदित्यनेन” यथाग्निहोत्रं
जुह्वत् स्वर्गं भावयेदिति । न चासन्निहितादेरशक्यार्थे
विथिप्रसङ्गः सन्निहितशक्तयोरेवोपदेशात् “ऋतुस्नातां
तु यो भार्यां सन्निधौ नोपगच्छतीति” “यः स्वादारानृतु-
स्नातान् स्वस्थः सन्नोपगच्छतीति” विशेषोपादानात् ।
अनिच्छानिवृत्तिस्तु नियमविधानादेव । न च विशेषण-
परता पक्षे भावार्थविधिसम्भवात् । नापि गृह्यस्मृति
विरोधः संवत्सरात् पूर्वमेवर्त्तुदर्शने संविशतो न ब्रह्म-
चर्यस्खलनदोषः । यथा श्राद्धादिषु, तस्मात् स्यार्थहामि-
परार्थकल्पनप्राप्तबाधलक्षणदोषत्रयवती परिमंख्या न
युक्ता । “पञ्च पञ्चनखा भक्ष्याः” इत्यत्र यद्यपि शशादिषु
भक्षणस्य पक्षे प्राप्ते नियमः, शशादिषु श्वादिषु च प्राप्ते
परिसंख्येति उभयसम्भवस्तथापि नियमपक्षे शशाद्य-
भक्षणे दोषप्रसङ्गः । श्वादिभक्षणे चादोषप्रसङ्रेन प्राय-
श्चित्तस्मृतिविरोध इति परिसंख्यैवाश्रिता । एतेन “सायं
पृष्ठ १४३८
प्रातर्द्विजातीनामशनं श्रुतिनोदितम्” इत्यत्रापि नियमो
व्याख्यातः “नान्तरा भोजनं कुर्यादिति” च पुनरुक्तं स्यात्
परिसंख्यायाम् । एवं च “नियमे सकृत्सकृदृतावृता
विति” वीप्सा लभ्यते “निमित्तावृत्तौ नैमित्तिकमप्यावर्त्तत”
इति न्यायात् । “यदा कामी भवेदित्यपि” नियम एवानृता-
वपि स्त्रीकामनायां सत्यां स्त्रियमभिरमयेदेवेति” । “ऋता
वुपेयात् सर्वत्र वा प्रतिषिद्धवर्जम्” इत्येतदपि गौतमीयं
सूत्रद्वयं नियमपरमेव । ऋतावुपेयादेवानृतावपि स्त्री-
कामनायां प्रतिषिद्धवर्जमुपेयादेवेत्यलमतिप्रसङ्गेनेति” ।
“अनृतावृतुकाले च मन्त्रसंस्कारकृत् पतिः । सुखस्य
नित्यं दातेह परलोके च योषितः” “तद्वृती रतिकाभ्य-
या” इति च मनुना अन्यकाले स्त्रीकामनया
गमनस्योक्तेः “यथा कामी भवेद्वापि स्त्रीणां वरमनुस्मरन्”
या० अन्यकाले स्त्रीगमनोक्तेश्च न परिसंख्यापरत्वम् ।
तासां स्त्रीणां वरश्च इन्द्रदत्तः । स च मिता० श्रुतौ
दर्शितो यथा “ता अब्रुवन् वरं वृणीमहै ऋत्वियात् प्रजां
विन्दामहै ऋत्वियो भर्त्तुः काममाविजनितोः सम्भवामेति
तस्मादृग्वियाः स्त्रियः प्रजां विन्दते काममाविजनितोः
सन्म वन्तीति वरं वृतं ह्यासाम्” इति तासां वरमुप-
वर्ण्य “भवतीनां कामविहन्ता पातकी स्यादिति” इन्द्रेण
तासां वरोदत्तः । वृत्तासुरबधजन्यब्रह्महत्याया
भागशःस्त्रीभिर्ग्रहणतोषितेन शक्रेण तासां वरदानम्
भारतादौ वर्णितम् ।

ऋतुग्रह पु० ऋतूनां ग्रहः पात्रभेदग्रहणं यत्र । यागभेदे

तत्परपाटी कात्या० ९, १२ अ० दर्शिता यथा “उपविष्टेऽ-
च्छावाके” इत्युपक्रन्य । “ऋतुग्रहैश्चरतः” १ सृ० । “अच्छा-
वाके सदः प्रविश्य स्वस्य धिष्ण्यस्य पश्चादुपविष्टे सत्य-
ध्वर्य्युप्रतिपस्थातारौ ऋतुग्र हैश्चरतः । अत्रेड़ाभक्षणे
पत्नीयजमानाभ्यामृत्विग्भिश्चाशने च कृते मार्ज्जनभागप-
रिहरणवाजिनयागप्रणीताविमोकराक्षसभागभागावेक्षणभा-
गप्राशनानि कर्त्तव्यानि तत ॠतुग्रहप्रचारः । अथ “ऋतु-
ग्रहप्रचारस्य विधिमुपदिशति” कर्कः । “द्रोणकलशादुपयाम-
गृहीतोऽसि मधवे त्वेति द्वादशप्रतिमन्त्रम्” २ सू० ।
“ऋतुग्रहान् गृह्णीतः द्रोणकलशादिति नियमाथमुक्तम् ।
मन्त्रविभागमाह” कर्कः “अध्वर्य्योः पूर्वः” ३ सू० । पूर्वोमन्त्रः ।
षणां मन्त्रयुग्मानां पूर्वोमन्त्रोऽध्वर्योः स्यात्” कर्कः ।
“उत्तर उत्तरः प्रतिप्रस्थातुः” ४ सू० । “युगपत्प्रथमौ
गृह्णीतः” ५ सू० । “उत्तमौ च” ६ सू० । “व्यत्यासम्” ७ सू०
“मध्ये न युगपत् प्रचरणं च सर्वेषाम्” ८ सू० ।
“सर्वेषाम् द्वादशानामप्यृतुग्रहाणां प्रचरणं यांगानुष्ठानं
चकारात् व्यात्यासं व्यात्यासेनैव पूर्ब्बमध्वर्य्योः ततः प्रतिप्र-
स्थातुः । पुनरध्वर्य्यो पुनःप्रतिप्रस्थातुरित्येवं सर्वेषामपि ।
स व्यत्यासः कथं कर्त्तव्य इत्यपेक्षायामाह । “निष्क्रामत्येकः
प्रविशतीतरः” ९ सू० । “हविर्धानमध्यात् अपरोहवि-
धानं प्रविशति” कर्कः । “उत्तरौत्तरः प्रतिप्रस्थाता
परकालत्वात्” १० सू० । अत्र ग्रहणे प्रचरणे च देशतः
कालतश्च प्रतिप्रस्थाता उत्तरो भवेत् कुतः अपरकाल-
त्वात् प्रतिप्रस्थातृमन्त्राणां पश्चात्कालीनत्वात् परकाल-
त्वादिति केचित् स एवार्थोऽस्मिन्नपि पाठे “उभयतोऽध्व-
र्य्युपात्रेण परिप्रगृह्णाति” ११ सू० । उभयत इति “स वै
हविर्धानान्निष्क्रामन्तं हविर्धाने प्रविशन्तं चाध्वर्य्युं
प्रतिप्रस्थाता पात्रेण परि गृह्णाति अव्यवायार्थं पात्रम
ध्वर्योर्दक्षिणतोहरति स्वयमुत्तरतो यातीत्यर्थः मानवे
“हुत्वा गृहीत्वा च प्रतिप्रस्थाता दक्षिणेनाध्वर्युमभिप्रयम्य
पात्रं हरति नान्योऽन्यमभि प्रपद्येते शेषे पूर्वस्योत्तर-
मभि परिगृह्णीतः” इति काठके “प्रपद्यमानः प्रतिप्रस्थाता
दक्षिणेनाध्वर्योः पात्रं हरेदुत्तर एव सञ्चरेदिति” कर्कः ।
“सर्वहुताः प्रागुत्तमाभ्याम्” १२ सू० । “उत्तमाभ्यामे-
कादशद्वादशाभ्यां प्राग्ये दश ऋतुग्रहाः ते सर्वहुताः
कार्याः सकृदव सर्वं होतव्यम् अनुवषट्कारोऽपि न
भवति” कर्कः । “ऋतुनेति षट् प्रेष्यतः” १३ सू० ।
“आद्येषु षट्सु ऋतुग्रहयागेषु ऋतुना प्रेष्येत्येव मैत्रावरुणं
प्रेष्यतः” कर्कः । ‘ऋतुभिरिति चतुरः पात्रमुखे विपर्यस्य’
१४ सू० । “ततः पात्रमुखयोर्विपर्यासं कृत्वा सप्तमाष्टमन-
वमदशमेष्वृतुग्रहयागेषु ऋतुभिः प्रेष्येत्येवं प्रशास्तार
प्रेष्यतः मानवे “ऋतुना प्रेष्येति षड्भिः प्रचरतो यतो
हुतम् । ततः पात्रे गृहीत्वा ऋतुभिः प्रेष्येति चतुर्भि-
र्यथादितस्तथा गृहीत्वा ऋतुना प्रेष्येति द्वाभ्यामिति”
अतश्च षण्णामग्रेण होमः । ततश्चतुर्णां पात्रमूलेन होमो
ऽग्रं हस्ते गृहीत्वा उत्तमयोः पुनरग्रेणैव ग्रहण
मपि पात्रमुखयोर्विपर्यस्यैव कार्यम्” कर्कः । “षद्धदुत्तमौ”
१५ सू० “उत्तमावेकादशद्वादशावृतुग्रहौ षद्धत् प्रचरतः तेन
पात्रयोरग्रेण होमः ऋतुना प्रेप्येति चेत्येतद्वतिना
गृह्यते क पुनर्मन्त्रार्थः ऋतुना इत्येवं रूपां तृतीयैक-
वचनान्तर्तुशब्दयुक्तां याज्यां प्रेष्येत्यर्थः ऋतुनेत्येतत्पद
युक्तेन प्रैषेण वा एवमृतुभिः प्रेष्येन्यत्रापि” कर्कः । “य-
पृष्ठ १४३९
जमानः प्रेषितो होतरेतद्यजेति ब्रूयात्” १६ सू० ।
“द्वादशे ऋतुग्रहे गृहपते । यजेत्येवं प्रशास्त्रा प्रेषितो
यजमानः होतरेतद्यजेति एवं ब्रूयात् ततस्तां यजमान-
याज्यां होता ब्रूयात्” कर्कः । “अध्वर्यू च” १७ सू०
“एकादशे ऋतुग्रहे प्रशास्त्रा अध्वर्यू यजतमित्येवं प्रेषि-
तावध्वर्यू होतरेतद्यजेति एवं ब्रूयाताम् ततश्च तद्या-
ज्यामपि होतैव ब्रूयात् । शाखान्तरे तु विकल्पेन होतुः
प्रेषणं खयं वा याज्यापठनमित्येवमुक्तमस्ति । मानवे
“एकादशे प्रैषेऽध्यर्यू यजतमित्युक्ते तयोरन्यतरो मध्य-
मस्य परिधेः पश्चादुपविश्य ये यजामहेऽश्विनावध्वर्यू
आध्वर्यवादृतुना सोमं पिबतां वौषडिति प्रैषेण यजेदथ
चेदृचा । ये यजामहेऽश्विना पिबतं मधु दीद्यग्नी शुचि
घ्रत ऋतुना यज्ञवाहसा वौषडित्यनवानं यजेति
होतरेतद्यजेति वा न पेष्यत्युत्तमे प्रैषे यजमानस्ययाज्यानि
प्रैषो वेति” काठके विशेषः “द्वारे हविर्धानस्योपविश्याध्वर्यू-
यजतमित्युक्तेऽश्विनावध्वर्यू यजतम् आध्वर्यवादृतुना सोनं
पिवतमिति होतारं वा प्रेष्येद्धोतरेतद्यजेति यद्यध्व-
र्युर्वजेतोन्नेता ग्रहेण चरेदिति” कर्कः । “त्रयोदशं गृह्णी-
यादिच्छन्नुपयामगृहीतोऽस्यंहसस्पतये त्वेति” १८ सू० ।
शत० ब्रा० ४, ३, १, ३, द्वादशादिग्रहग्रहणे हेतुर्दर्शितो
यथा “सन्नेऽच्छावाके । ऋतुग्रहैश्चरति तद्यत् सन्नेऽच्छावाक
ऋतुग्रहैश्चरति मिथुनं वा अच्छावाक ऐन्द्राग्नोह्यच्छावाको
द्वौ हीन्द्राग्नी द्वन्द्वं हि मिथुनं प्रजननं स एतस्मान्मिथु-
नात् प्रजननादृतूत् संवत्सरं प्रजनयति यद्धेव
सन्नेऽच्छावाके ऋतुग्रहैश्चरति सर्वं वा ऋतवः संवत्-
सरः सर्वमेवैतत् प्रजनयति तस्मात् सन्नेऽच्छावाक
ऋतुग्रहैश्चरति तान्वै द्वादश गृह्णीयात् । द्वादश वै मासाः
संवत्सरस्य तस्माद्द्वादश मासा इति द्वादश त्वेव गृह्णीया
देषैव सम्पत् । द्रोणकलशाद् गृह्णीयात् प्रजापतिर्वै द्रो-
णकलशः स एतस्मात् प्रजापतेरृतूत् संवत्सरं प्रजन-
यति उभयतोमुखाभ्यां पात्राभ्यां गृह्णाति । कुतस्तयो-
रन्तोये उभयतोमुखे तस्मादयमनन्तः संवत्सरः परिप्लवते
तं गृहात्वा न सादयति तस्मादयमसन्नः संवत्सरः नानु-
वाक्यमन्वाह । ह्वयति वाऽनुवाक्यया गतोह्येवायमृतुर्यदि
दिवा यदि नक्तं नानुवषट्करोति नेदृतूनपवृणजा इति
सहैव प्रथमौ ग्रहौ गृह्णीतः सहोत्तमाविदमेवैतत् सर्वं
संवत्सरेण परिगृह्णीतस्तदिदं सर्वं संवत्सरेण परिगृही-
तम् । निरेवान्यतरः क्रामति प्रान्यतरः पद्यते तस्मा-
दिमेऽन्वञ्चोमासा यन्त्यथ यदुभौ वा सह निष्क्रामेतामुभौ
षा सह प्रपद्येयातां पृथगुहैवेममासा ईयुस्तस्मान्निरेवा-
न्यतरः क्रामति प्रान्यतरः पद्यते । तौ वा ऋतुनेति षट्
प्रचरतः । तद्देवाऽहरसृजन्तर्त्तुभिरिति चतुस्तद्रात्रिमसृ-
जन्त स यद्धैतावदेवाभविष्यद्रात्रिर्हैवाभविष्यन्न व्ययवत्-
स्यत् तौ वा ऋतुनेत्युपरिष्टाद्द्विश्चरतः । तद्देवाः पर
स्तादहरददुस्तस्मादिदमद्याहरथ श्वोऽहर्भविता । ऋतुनेति
वै देवाः मनुष्यानसृजन्तऽर्त्तुभिरिति पशून्त्स यत् तन्म-
ध्ये येन पशूनसृजन्त तस्मादिमे पशव उभयतः
परिगृहीतावशमुपेता मनुष्याणाम् । तौ वा ऋतुनेति षट्
प्रचर्य्य इतरथा पात्रे विपर्य्यस्येते ऋतुभिरिति चतुश्चरि-
त्वेतरथा पात्रे विपर्य्यस्येते अन्यतरत एव तद्देवा
अहरसृजन्तान्यतरतोरात्रिमन्यतरतएव तद्देवामनुष्यानसृ-
जन्तान्यतरतः पशून् । अथातोगृह्णात्येव उपयामगृती-
तोऽसि मधवे त्वेत्येवाध्वर्य्युर्गृह्णात्युपयामगृहीतो-
ऽसि माधवाय त्वेति प्रतिप्रस्थातैतावेव वासन्तिकौ
स यद्वसन्त ओषधयो जायन्ते वनस्पतयः पव्यन्ते
तेनोहैतौ मधुश्च नाधवश्च । उपयामगृहीतोऽसि शुक्राय
त्वेत्येवाध्वर्य्युर्गृह्णात्युपयामगृहीतोऽसि शुचये त्वेति
प्रतिप्रस्थातैतावेव ग्रैष्मौ स यदेतयोर्बलिष्ठं तपति
तेन हैतौ शुक्रश्च शुचिश्च । उपयामगृहीतोऽसि न
भसे त्वेत्येवाध्वर्य्युर्गृह्णात्युपयामगृहीतोऽसि नमस्याय-
त्वेति प्रतिप्रस्थातैतावेव वार्षिकावमुतो वै दिवोवर्षति
तेनोहैतौ नभश्च नभस्यश्च । उपयामगृहीतोऽसि
इषे त्वेत्येवाध्वर्य्युर्गृह्णात्युपयामगृहीतोऽस्यूर्जे त्वेति प्रति-
प्रस्थातैतावेव शारदौ स यच्छरद्यूर्ग्रस ओषधयः
पच्यन्ते तेनोहैताविषश्चोर्जश्च । उपयामगृहीतोऽसि सहसे
त्वेत्येवाध्वर्य्युर्गृह्णात्युपयामगृहीतोऽसि सहस्याय
त्वेति प्रतिप्रस्थातैतावेव हैमन्तिकौ स यद्धेमन्त इमाः
प्रजाः सहसेव स्वं वशमुपनयते तेनोहैतौ सहश्च
सहस्यश्च । उपयामगृहीतोऽसि तपसे त्वेत्येवाध्वर्य्युर्गृह्णात्यु-
पयामगृहीतोऽसि तपस्याय त्वेति प्रतिप्रस्थातैतावेव
शैशिरौ स यदेतयोर्वलिष्ठंश्यायति तेनोहैतौ तपश्च
तपस्यश्च । उपयामगृहीतोऽसि अंहसस्पतये त्वेति त्रयोदशं
ग्रहं गृह्णाति यदि त्रयोदशं गृह्णीयादथ प्रतिप्रस्थाता-
ध्वर्य्योः पात्रे संस्रवमवन यत्यध्यर्युर्वा प्रतिप्रस्थातुः पात्रे
संस्रमवनयत्याहरति भक्षम् । अथ प्रतिप्रस्थाता भक्षितेन
पात्रेण ऐन्द्राग्नं ग्रहं गृह्णाति तद्यदभक्षितेन पात्रे-
पृष्ठ १४४०
णैन्द्राग्नं ग्रहं गृह्णाति न वा ऋतुग्रहाणामनु वषट्कु-
र्व्वन्त्येतेभ्यो वा ऐन्द्राग्नं ग्रहं ग्रहीप्यन् भवति
तदास्यैन्द्राग्नेनैवानुवषट्कृता भवन्ति यद्धैवैन्द्राग्नं ग्रहं
गृह्णाति सर्वं वा इदं प्राजीजनद्य ऋतुग्र हानग्रहीत्स
इदं सर्वं प्रजनय्येदमेवैतत् सर्वं प्राणोदानयोः प्रति-
ष्ठापयति तदिदं सर्वं प्राणोदानयोः प्रतिष्ठितमिन्द्राग्नी
हि प्राणोदानाविमे हि द्यावापृथवी प्राणोदानावनयो-
र्हीदं सर्वं प्रतिष्ठितम् । यद्धेवैन्द्राग्नं ग्रहं गृह्णाति ।
सर्वं वा इदं प्राजीजनद्य ऋतुग्रहानग्रहीत्स इदं
सर्वं प्रजनय्यास्मिन्नेवैतत् सर्व्वस्मिन् प्राणोदानौ दधाति
ताविमावस्मिन् त्सर्व्वस्मिन् प्राणोदानौ हितौ । अथातो
गृह्णात्येव । इन्द्राग्नी आगतं सुतं गीर्भिर्न्नभोवरेण्यम् ।
अस्य पातं धियेषिता । उपयामगृहीतोऽसीन्द्राग्नि-
भ्यां त्वैष ते यो निरिन्द्राग्निभ्यां त्वेति सादयतीन्द्रा-
ग्निभ्यां ह्येनं गृह्णाति । अथ वैश्वदेवग्रहं गृह्णाति । सर्वं
वा इदं प्राजीजनद्य ऋतुग्रहानग्रहीत्स यद्ध्वैतावदेवा
भविष्यन्न प्राजनिष्यन्त । अथ यद्वैश्वदेवं ग्रहं गृह्णाति ।
इदमेवैतत् सर्व्वमिमाः प्रजा यथायथं व्यवसृजति तस्मा-
दिमाः प्रजाः पुनरभ्यावर्त्तं प्रजायन्ते शुक्रपात्रेण
गृह्णात्येष वै शुक्रो य एष तपति तस्य ये रश्मयस्ते विश्वे
देवास्तस्माच्छुक्रपात्रेण गृह्णाति । अथातोगृह्णात्येव औ
मासश्चर्षणीर्धृतो विश्वे देवास आगत । दाश्वासौ दाशुषः
सुतम् उपयामगृहीतोऽसि विश्वेभ्यस्त्वा देवेभ्य एष ते
योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति विश्वेभ्यो ह्येनं
देवेभ्यो गृह्णाति” ।

ऋतुथा अव्य० वीप्सार्थे बा० थाल् । काले काले इत्याद्यर्थे

“ऋतवस्त ऋतुथा पर्व शमितारो विशासतु” यजु०
२३, ४०, “ऋतुथा ऋतौ ऋतौ काले काले” वेददी० ।
“या ते गात्राणामृतुथा कृणोमि” ऋ० १, १६२, १९ ।

ऋतुपति पु० ६ त० । वसन्तकाले तस्य सर्वर्तुषु प्रथमत्वात्

“ऋतूनां कुसुमाकरः” गीतायां भगवद्विभूतित्वेनोक्तेश्च
तथात्वम् । ऋतुनाथादयोऽप्यत्र ।

ऋतुपर्य्यय पु० ६ त० । ऋतूनां परिपाट्या गमने । “स्वयमेवर्तुपर्य्यये” मनुः ।

ऋतुपा पु० ऋतून् पाति निर्वाहकतया, ऋतुषु सोमं पिबति

ऋतुभिर्मरुद्भिः सह सोमं पिबतीति वा पा--पालने
पापाने वा क्विप् । वर्षपालके तथाभूतसोमपातरि च १ इन्द्रे
“उत ऋतुभिरृतुपाः पाहि सोममिन्द्र!” ऋ० ३, ४७, ३
२ ऋतुयाजदेवे च । “सजोपा इन्द्र! वरुणेन सोमम्
सजोगाः पाहि गिर्वणोमरुद्भिः । अग्रेपाभिरृतुपाभिः
सजोषाः” ऋ० ४, ३४, ७ । “ऋतुपाभिः ऋतुयाजदेवैः” भा०

ऋतुपात्र न० ऋतूनुद्दिश्य पात्रम् । आश्वत्थे श्रीपर्णीवृक्ष

भवे वा यज्ञिये ग्रहरूपे पात्रभेदे तदाकारश्च “ऋतुपात्रे
पूर्व्वे स्रुकपुष्कराकृती उभयतोमुखे काष्मर्यमये आश्वत्थे
वा” कात्या० ९, २, १३ उक्तः । “पूर्वे आग्रयणस्थाल्याः
पूर्व्वे द्वे ऋतुग्रहपात्रे योजनीये स्रुक्पुष्करस्येवाकारोय
योस्ते अग्रे मूले च मुखं ययोस्ते द्विमुखे इत्यर्थः ।
काष्मर्य्यमये श्रीपर्ण्णीवृक्षविकारौ आश्वत्थे वा पिप्पलवृक्ष-
काष्ठनिर्म्मिते वा” कर्कः । “तद्यन्मरुत्वतीयान् गृह्णाती-
त्युपक्रम्य । “तस्मादाश्वत्थे ऋतुपात्रे स्यातां कार्ष्मय्यमये
त्वेव भवतः” शत० ४, २, २, ४ ।

ऋतुप्राप्त त्रि० ऋतुस्तद्योग्यः पुष्पादिः प्राप्तोऽनेन बिष्ठान्तस्य-

परनि० । फलेग्रहौ अवन्ध्यवृक्षे ।

ऋतुबल पु० ऋतौ ऋतुभेदे बलं यस्य । शिशिरादिषु बलयुक्त-

रव्यादिग्रहेषु ते च यथा । “शणिशुक्रकुजेन्दुज्ञगुरवः
शिशिरादिषु । भवन्ति कालवलिनो ग्रोष्मेसूर्यस्तथैव च” ज्यो० ।

ऋतुमत् त्रि० ऋतुस्तत्कालयोग्यप्रशस्तपुष्पफलादिर्भोभ्यतया-

ऽस्त्यस्य ऋतु + प्राशस्त्ये मनुप् । १ प्रशस्तर्तुफलपुष्प-
भोक्तरि । “कल्पन्ते हास्मा ऋतव ऋतुमान् भवति यएवं-
विद्वानृतुषु पञ्चविधं सामोपास्ते” छा० उ० । “आर्त्तवै
र्भोगैश्च सम्पन्नो भवति” भा० । ऋतुकाले २ यजनीयपितृ-
भेदे पु० । “अग्निष्वात्तानृतुमतोहवामहे” यजु० १९,
६१ । ऋतुः स्त्रीरजःकालः प्राप्तत्वेनास्त्यस्याः मतुप्
स्त्रियां ङीप् । ३ आर्त्तववत्यां स्त्रीधर्म्मिण्यां स्त्रियाम्
“काममामरणात् तिष्ठेत् गृहे कन्यर्त्तुमत्यपि” मनुः ।
“तत्र प्रथमदिवसे ऋतुमत्यां मैथुनगमनमनायुष्यं पुंसां
भवति” सुश्रु० । “उपाध्यायानी ते ऋतुमती उपाध्यायश्च
प्रोषितोऽस्या यथायभृतुर्बन्ध्यो न भवति तथा क्रियताम्”
भा० आ० ३ अ० । ऋतुमत्या धर्म्मश्च आर्त्तवशब्दे
उक्तः । विशेषस्त्वयम् “स्त्रीधर्म्मिणी त्रिरात्रन्तु स्वं
मुखं नैव दर्शयेत् । स्ववाक्यं श्रावयेन्नापि यावत् स्नाता
न शुद्धितः । सुस्नाता भर्त्तृवदनमीक्षतेऽन्यस्य न क्वचित् ।
अथ वा मनसि ध्यात्वा पतिं भानुं विलोकयेत्” काशीख० ।

ऋतुमयी त्रि० ऋतुप्रचुरा चितिः ऋतुः + प्राचुर्य्येमयट् ङीप् ।

ऋतुप्रधाने चितिभेदे तदुपधानप्रकारः शत० ब्रा० ८, ५,
२, १० उक्तः यथा “अथ उत्तरतः ग्रीष्मस्तासां प्रथमा,
वर्षा द्वितीया, हेमन्तस्ततीया, हेमन्तश्चतुर्थी, वर्षाः पञ्चमी
पृष्ठ १४४१
ग्रीष्मः षष्ठी, ग्रीष्मः सप्तमी, वर्षा अष्टमी, हेमन्तो नवमी,
यजमान एवात्र दशमी सएष यजमान एतस्यां विराज्यधि-
रूढ़ः प्रतिष्ठितः ऋतुमय्यामर्व्वाचीश्च पराचीश्चोपदधाति”

ऋतुमुख न० ६ त० । गौणचान्द्रमासप्रथमदिने प्रतिपद्रूपे

तिथिभेदे । “चातुमुर्मास्येषु चर्तुमुखश्रुतेः” कात्या० १,
२, १३ । “चातुर्मास्येषु च न याथाकाम्यम् कुतः
ऋतुमुखश्रुतेः “ऋतुमुख ऋतुमुखे चातुर्मास्यैर्यजेतेति”
वीप्साश्रवणात् ऋतोर्मुखं प्रथमदिनं प्रतिपत् तत्रेत्यर्थः ।
अत एव वैश्वदेववरुणप्रघासादीनि चातुर्मास्यपर्वाणि प्रति-
पद्येव क्रियन्ते न पौर्णमास्यामित्यवसीयते यतः
प्रतिपदेव चर्तुमुखं न पौर्णमासीति तथा च श्रूयते”
“एषा ह संवत्सरस्य प्रथमा रात्रिर्यत् फाल्गुनी पौर्ण-
मासी योत्तरैषोत्तमा या पूर्वा मुखतएव तत् संवत्सरमा-
रभते” शत० ब्रा० ६, २, १, १७, कर्कः । “द्वेह वै पौर्ण-
मास्यौ द्वे अमावस्ये” इति श्रुतेः योत्तरा पौर्णमासी
कृष्णप्रतिपदित्यर्थः । तथा च पौर्णमास्यां दीक्षा प्रतिपदि
पौर्णमास्येष्टिसमापनम् ऋतुसन्धिशब्दे विवृतिः । एतच्च
पौर्णमासेष्टिविषयम् अमावास्येष्टौ दर्शएव दीक्षा शत०
ब्रा० ६, २, २, ३०, २६, “अमावास्यायां दीक्षते” इत्यु-
पक्रम्य “या प्रथयामावास्या तस्यां दीक्षित एतद्वै
संवत्सरस्य प्रथमान्यहानि तान्यस्य तदारभते” ३० इत्युक्तेः ।

ऋतुराज पु० ऋतूनां राजा ६ त० टच् समा० । वसन्ते ऋतौ

ऋतुलिङ्ग न० ६ त० । वसन्तादिषु जायमाने चूतमञ्जर्य्यादिरूपे

तल्लिङ्गे “यथर्त्तुलिङ्गान्यृतवः स्वयमेवर्त्तुपर्य्यये” मनुः ।
तल्लिङ्गानि च ऋतुशब्दे दर्शितसुश्रुतवाक्यादवगम्यानि ।

ऋतुवृत्ति पु० ऋतूनां वृत्तिः पर्य्यायेणावर्त्तना यत्र । १ वत्सरे

त्रिका० । ६ त० । २ऋतुधर्म्मे स्त्री ।

ऋतुशस् अव्य० कारकार्थे ऋतु + शस् । ऋतौ ऋतौ इत्याद्यर्थे

“यद्धविष्यमृतुशोदेवयानम्” ऋ० १, १६२, ४ । “ऋतुशः
ऋतावृतौ काले काले” भा० “कति होतार ऋतुशो यजन्ति”
यजु० २३, ५७ । ऋतुशः काले काले” वेददी० ।

ऋतुष्ठा(स्था) त्रि० ऋतौ तिष्ठति स्या--क्विप् वेदे षत्वं लोके

तु न । वसन्तादिषु स्थायिनि । “ऋतवःस्थ ऋतावृधः
ऋतुष्ठाः स्थ ऋतावृधः” यजु० १७, ३, ।

ऋतुसंहार पु० ऋतूनां संहार, समूहीवर्ण्यत्वेन यत्र ।

कालिदासप्रणीते काव्यभेदे ।

ऋतुसन्धि पु० ऋत्वोः सन्धिः । दर्शान्तमुख्यचान्द्रमासपक्षे

१ दर्शे, पौर्णमासान्तगौणचान्द्रमासपक्षे २ पौर्ण्णमास्याम् ।
ऋतोर्मासघटितत्वात् भासस्य च पर्व्वसन्धियुक्तत्वेन
पर्वसन्धिरेव ॠतुसन्धिः अतः प्रसङ्गात् पर्व्वस-
न्धिर्निरूप्यते स च कालमा० उक्तः यथा “कुहूव्य-
तिरिक्तानां लघ्वक्षरीच्चारणपरिमितः कालः सन्धि-
रित्युच्यते कुहूस्त्वक्षरद्वयपरिमितः कालः तदेतदुक्तं
भगवतीपुराणे “अनुमत्याश्च राकायाः सिनीवाल्याः कुहूं
विना । एतासां द्विलवः कालः कुहूमात्रा कुहूः स्मृतेति” तत्र
लवस्वरूपं स्मृत्यन्तरे दर्शितम् “लघ्वक्षरचतुर्भागस्त्रुटि-
रित्यभिधीयते । त्रुटिद्वयं लवः प्रोक्तो निमेषस्तु लवद्वय-
मिति” एवं च सति त्रुटिशब्दाभिधेयानां भागानां चतुष्टयं
लवद्वयरूपं लघ्वक्षरसमं भवति तस्मिन् लघ्वक्षरपरिमिते
काले एकः पर्वणोभागः, द्वितीयः प्रतिपदः, तदुभयं मिलि-
त्वा सन्धिर्भवति कुहूप्रतिपदोः सन्धिस्तु पूर्वस्मात् द्विगुणः
अक्षरद्वयपरिमितत्वात् मत्स्य ब्रह्माण्डपुराण्णयोः “राका-
चानुमतिश्चैव सिनीवाली कुहूस्तथा । एतासां द्विलवः
कालः कुहूमात्रा कुहूस्तथा । कुह्वितिकोकिलेनोक्ते यावान्
कालः समाप्यते । तत्कालसंमिता चैषा अमावस्या कुहूः
स्मृता । इत्येष पर्वसन्धीनां कालोयोद्विविधः स्मृत” इति ।
एवं सन्धौ निरूपिते सति योऽयं प्रक्रान्तोविचारस्तत्र
सन्धिरेवेष्टिकाल इति तावत् प्राप्तम् “सन्धौ यजेतेति” श्रुतेः
मैवं सूक्ष्मत्वात्तत्र यागानुष्ठानानुपपत्तेःका तर्हि श्रुते-
र्गतिः पार्श्वद्वयलक्षणेति ब्रूमः यथा गङ्गायां घोप इत्यत्र
गङ्गाशब्दः प्रवाहेऽनुपपन्नस्तत्समीपं तीरं लक्षयति तथा
सन्धिशब्दोऽपि पार्श्वद्वयं लक्षयतु । अतएव श्रुत्यन्तरं
“सन्धिमभितो यजेतेति” वौधायनोऽपि “सूक्ष्मत्वात् सन्धि-
कालस्य सन्धेर्विषय उच्यते । सामीप्यं विषयं प्राहुः
पूर्वेणाप्यपरेण चेति” अत्र पूर्वापरशब्दाभ्यां सन्धेः प्राचीनं
प्रतिपद्दिनं चाभिधीयते । तत्र पूर्ब्बस्मिन्पर्वदिने प्रयोग-
प्रारम्भः नोत्तरस्मिन्, प्रतिपद्दिने यागसमाप्तिः अन्वाधा-
नमिध्मावर्हिःसम्पादनमग्निपरिग्रहणमुपस्तरणं चेत्येवमादि
प्रयोगप्रारम्भः स पूर्वेदुरिनुष्ठेयः तथा च तैत्तिरीय
ब्राह्मणे श्रूयते “पूर्ब्बेद्युरिध्मावर्हिः करोति यज्ञमेवारम्य
गृहीत्वोपवसतीति” शतपथब्राह्मणेऽपि “पूर्वेद्युरग्निं
गृह्णाति उत्तरमहर्यजतीति” तत्र ग्रहणं नामाध्वर्युणा आह
वभीयगार्हपत्यदक्षिणाग्निषु “ममाग्रे वर्च” इत्यादिभिरृ-
ग्निः समिदाधानलक्षणे अन्वाधाने क्रियमाणे पार्श्ववर्त्तिना
यजमानेनाग्रिं गृह्णामीत्यादीनां मन्त्राणां पठनं तदिदं
पर्वदिने क्रियते । प्रतिपद्दिने तु “कर्मणे वां देवेभ्य” इ-
पृष्ठ १४४२
त्यादिभिरध्वर्युर्हस्तप्रक्षालनतण्डुलनिर्वापपुरोडाशप्रदानादि
लक्षणप्रयोगं करोति तदिदं यजनम् । एतदेवाभिप्रेत्य
गोभिल आह “पक्षान्ता उपवस्तव्याः पक्षादयोऽपि यष्टव्याः”
इति अत्रोपवासशब्देनाग्न्युपस्तरणीदिर्विवक्षितः तस्मिन्
क्रियमाणे यजमानसमीपे देवतानां निवासात् तदेतत्तै-
त्तिरीयब्राह्मणे दर्शितम् “उपास्मिन् श्वो यक्ष्यमाणे देवताः
मन्ति य एवंविद्वानग्निमुपस्तृणातीति” उपवासशब्दाभि-
धेयस्य पर्वदिने कर्त्तव्यस्यान्वाधानादेः पर्ब्धणि चतुरं
शवति आद्यास्त्रयोऽंशाविहितः कालः न तु चतुर्थोऽंशः
यागशब्दाभिधेयस्य पुरोडाशप्रदानादेः पूर्वोक्तः पर्वचतु-
र्थोऽंशः प्रतिपदंशास्त्रयश्च विहितः कालः न तु प्रति-
पदश्चतुर्योऽंशः । तदेतदाह लौगाक्षिः “त्रीनंशानौपव-
स्तस्य यागस्य चतुरोविदुः । द्वावंशावुत्सृजेदन्त्यौ यागे च
व्रतकर्मणीति” तमेतं यचकालं यज्ञपार्श्वोऽप्याह “पञ्चदश्याः
परः पादः पक्षादेः प्रथमास्त्रयः । कालः पार्वणवागे स्याद-
थान्त्ये तु न विद्यत इति” वृद्वशातातपोऽपि “पर्वणोयश्चतुर्थो-
ऽंश आद्याः प्रतिपदस्त्रयः । यागकालः स विज्ञेयः प्रातरु-
क्तोमनीषिभिरिति” अत्र प्रातरिति विशेषणात् सूर्योदय-
स्योपरि मुहूर्त्तत्रयं यागकाल इत्युक्तं भवति प्रतिपदश्च-
र्घांशं निषेधति कात्यायनः “न यष्टव्यं चतुर्थेऽंशे यागैः
प्रतिपदः क्वचित् । रक्षांसि तद्विलुम्पन्ति श्रुतिरेषा
सनातनीति” तदेवं पर्वण्यन्वाधानादिकं प्रतिपदि चेष्टिरिति
सन्धिपार्श्वयोरुभयोः प्रारम्भपरिसमाप्ती व्यवस्थिते । यदा
पर्वप्रतिपदावुदयमारभ्य सम्पूर्णतिथी भवतः तदा
न सन्देहः यदा तु खण्डतिथी तदा निर्णयोऽमिधीयते तत्र
गोभिलः “आवर्त्तने यदा सन्धिः पर्वप्रतिपदोर्भवेत् ।
तदहर्याग इष्येत परतश्चेत् परेऽहनि । पर्वप्रतिपदोः सन्धिरर्वा-
गावर्त्तनाद् यदि । तस्मिन्नहनि यष्टव्यं पूर्वेद्युस्तदुपक्रमः ।
आवर्त्तनात् परः सन्धिर्यदि तस्मिन्नुपक्रमः । परेद्युरिष्टि-
रित्येष पर्वद्वयविनिश्चयः” इति आवर्त्तनमह्नोमध्यभागः ।
सौगाक्षिरपि “पूर्वाह्णे वाऽथ मध्याह्ने यदि पर्व समाप्यते ।
उपोष्य तत्र पूर्वेद्युस्तदहर्याग इष्यते । अपराह्णेऽथवा
रात्रौ यदि पर्व समाप्यते । उपोष्य तस्मिव्रहनि श्वो भूते
याग इष्यत” इति एषु वचनेषु मध्याह्नादिशब्दायौगिकाः
न तु पञ्चधा विभागभाश्रित्य प्रवृत्तास्तथा सत्यह्नोमध्यो-
मध्याह्न इति व्युत्पपत्तेरावर्त्तनं मध्याह्नशब्देनाभिधीयते
अतएव गोभिलेनावर्त्तनशब्दः प्रयुक्तः शातातपेनापि
नध्यमशब्दः प्रयुक्तः “पूर्वाह्णे मध्यमे वापि यदि पर्व
ससाप्यते । तदोपवासः पूर्वेद्युस्तदहर्याग इष्यते” इति
अह्नोऽपरोमागोऽपराह्णः अतस्ताभ्यां शब्दाभ्यामा-
वर्त्तनात् पूर्वोत्तरभागावभिधीयेते । वाजसनेयि-
नान्तु विशेषमाह भाष्यार्थसंग्रहकारः “मध्यंदिनात्
स्यादहनीह यस्मिन् प्राक् पर्वणः सन्धिरियं तृतीया ।
सा खर्विका वाजसनेयिमत्या तस्यामुपोष्याथ परेद्युरिष्टि-
रिति” आवर्त्तनादूर्द्ध्वमस्तमयादर्वाक् यदा सन्धिर्भवति
तदाहःसन्धिमती तिथिः प्रथमा, रात्रौ सन्धिश्चेत् सा
तिथिर्द्वितीया उभे अपेक्ष्य पूर्वाह्णे सन्धिमती पर्वतिथिस्तृ-
तीया भवति तस्यां तृतोयतिथौ पर्वकालस्याल्पत्वात्
साखर्विकेत्युच्यते । शाखान्तराध्यायिनामीदृशे विषये
पूर्वेद्युरन्वाधानादिकं सन्धितिथाविष्टिर्वाजसनेयिनान्तूत्त-
रतिथाविष्टिः एवं सति वाजसनेयिनां न क्वापि सन्धि-
दिनात्पूर्वेद्युरन्वाधानादिकमस्ति सोऽयं विशेषः आवर्त्तने
ततः पुरा वा यदा सन्धिर्भवति तदा वाजसनेयि
व्यतिरिक्तानां पर्वचतुर्थांशे इष्टिः प्राप्नोति तत्र विशेष-
माह गार्ग्यः “प्रतिपद्यप्रविष्टायां यदि वेष्टिः समाप्यते ।
पुनः प्रणीय कृत्स्नेष्टिः कर्त्तव्या यागवित्तमैरिति” पर्वणश्चतु-
र्थांशः प्रतिपदस्त्रयोऽंशाश्च यागकालत्वेन विहिताः । अत्र
पर्वचतुर्थांशस्य विषय उदाहृतः प्रतिपदंशानां विषय
उदाह्रियते । उषःकाले सन्धौ प्रतिपदः प्रथमांशोयागकालः
निशीथे सन्धौ द्वितीयांशः रात्रिप्रारम्भे सन्धौ तृतीयांशः
नन्वनेन न्यायेनापाराह्णे सन्धौ प्रतिपच्चतुर्थांशस्य
यागकालत्वं प्राप्नोति तच्च प्रतिषिद्धं “न यष्टव्यं चतुर्थेऽंशे”
इति स्मृतेः अतस्तादृशे विषये याग एव लुप्येतेति चेत्
मैवं वृद्धशातातपेन प्रतिप्रसवाभिधानात् “सन्धिर्यद्यपरा-
ह्णे स्याद्यागं प्रातःपरेऽहनि । कुर्वाणः प्रतिपद्नागे चतुर्थे-
ऽपि न दुष्यतीति” एवं तहि प्रतिषेधो निर्विषयः स्यादि-
ति चेन्मैवं सद्यस्कालविषये चरितार्थत्वात् त च
विषयं दर्शयति कात्यायनः “सन्धिश्चेत् सङ्गवादूर्द्ध्वं प्राक्-
चेदावर्त्तनाद्रवेः । सा पौर्णामासी विज्ञेया सद्यस्काल-
विधौ तिथिरिति” भाष्यार्थसंग्रहकारोऽपि “अन्वाहितिश्चा-
स्तरणोपवासः पूर्वेद्युरेते खलु पौर्णमास्याम् । आवर्त्तमात्
प्राग्यदि पर्वसन्धिस्तदैव यागः क्रियते समस्तः” इति ।
आपस्तम्बोऽपि “पौर्णमाम्यामन्वाधानपरिस्तरणोपवासाः
सद्यो वा सद्यस्कालायां सर्वं क्रियते” इति सङ्गवावर्त्त-
मयोर्म्मध्ये पौर्णमासीप्रतिपदोः सन्धौ सति पूर्वोदाहृतै-
र्वचनैः सन्धिदिनात् पूर्वेद्युरन्वाधानादिक प्राप्तं तच्च
पृष्ठ १४४३
सद्यस्कालवाक्यैः सन्धिदिन उत्कृष्यते । नन्वीदृशे विषये
सन्धिदिनात् परदिने याग उत्कृष्यतां तथा सत्थपराह्णा-
दिसन्धिष्विवान्वाधानयागयोर्दिनभेदो भविष्यति । अस्ति
च दृष्टान्तः वाजसनेयिनामीदृशे विषये, अन्वाधानोत्कर्षे
सति यागस्याप्युत्कृष्टत्वात् मैवम् अन्वयव्यतिरेकरूपाभ्यां
विधिनिषेधाभ्यामस्याः शङ्कायानिवारितत्वात् तत्र सद्यस्का-
लविधयोऽन्वयरूपाः, प्रतिपच्चतुर्थांशे प्रतिषेधाश्च व्यति-
रेकरूपाः एवं च सति प्रतिषेधवाक्यं सावकाशं भवति ।
अमावास्यायां विशेषमाह वृद्धशातातपः “द्वितीया त्रिमुहू-
र्त्ताचेत् प्रतिपद्यापराह्णिकी । अग्न्याधानं चतुर्दश्यां परतः
सोमदर्शनादिति” सोऽयं विशेषोनाश्वलायनापस्तम्बविषयः
किन्तु बौधायनमतानुयायिविषयः अतएव बौधायनः “द्विती-
या त्रिमुहूर्त्ता चेत् प्रतिपद्यापराह्णीकी । अन्वाधानं
चतुर्दश्यां परतः सोमदर्शनात् । चतुर्दशी चतुर्यामा अमावास्या
न दृश्यते । श्वोभूते प्रतिपच्चेत् स्यात् पूर्वां तत्रैव कारयेत् ।
चतुर्दशी च संपूर्णा द्वितीया क्षयगामिणी । प्रातरिष्टिरमायां
स्याद्भूते कव्यादिका क्रियेति” एतेषां वचनानामयमर्थः अह्नि
चतुर्दशी संपूर्णा अस्तमयादर्वागमावास्या स्वल्पा तत
एवापराह्णव्याप्त्यभावाच्छाद्धायान्वाधानाय वा पूर्वोक्तरीत्या
यद्यपि निमित्तभावं न भजते तथापि प्रतिपदि द्वितीयायं
सत्यां चन्द्रस्य दृश्यमानत्वात्तददर्शने चेष्टेर्निषिद्धत्वात्
प्रतिपद्युतायाममावास्यायामिष्टिः स्वल्पामावास्योपेतायां
चतुर्दश्यां श्राद्धाग्न्याधानादिकं कर्त्तव्यमिति । एतदेवाभि-
प्रेत्य स्मृत्यन्तरे “आदित्येऽस्तमिते चन्द्रः प्रतीच्यामुदियात्
यदा । प्रतिपद्यतिपत्तिः स्यात् पञ्चदश्यां यजेत्तदेति”
वृद्धवसिष्ठोऽपि “ऐन्द्रे निरुप्तेपयसि पुरस्तादुदिते विधौ ।
यद्वैगुण्यं हुतं तस्मिन् पश्चादपि हि तद्भवेदिति”
अस्यायमर्थः यदा सपूर्णचतुर्दश्यामविचारेणामावास्या-
बुद्धिं कृत्वा अग्न्याधानादिकं कृत्वा हविर्निर्वापि कृते
तस्मिन् उषःकाले पूर्वस्यां दिशि चन्द्रमा उदेति । तदा
न दशकर्म भवितुमर्हति दर्शकालस्याप्राप्तत्वात् किन्तु
कालापराधं निमित्तीकृत्य दर्शदेवता अपनीय दात्रादिगुण-
विशिष्टाग्न्यादिदेवतान्तराण्युद्दिश्य हविः प्रक्षेपो विहितः
तदेतत् तेत्तिरीयब्राह्मणे श्रूथते “यस्य हविर्निरुप्तं
पुरस्ताच्चन्द्रमा अभ्युदेति त्रेधा तण्डुलानं विभजेद्ये मध्यमाः
स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्य्यात् ये
स्थविष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुम् ये क्षोदिष्ठास्तान्
विष्णवे, शिपिविष्टाय शृते चरुमिति” सोऽयं दृष्टान्तोह-
विषि निरुप्ते सति तदूर्द्ध्वं पूव्वस्यां दिशीन्दावुदिते सति
दर्शकर्मविधेर्यद्वैगुण्यमुक्तरीत्यावस्थितं तदेव वौपुण्यं
होमदिने पश्चिमदिशि चन्द्रोदये भवतीति । एतदेव बोधायन-
मतमुपोद्बलयति श्रुतिः “यस्मिन्नहनि पुरस्तात्पश्चात्
सोमोन दृश्यते तदहर्यजेतेति” अयमर्थः सिनीबाल्यां
पुरस्ताच्चन्द्रदर्शनं भवति द्वितीयायुक्तायां प्रतिपदि पश्चाच्चन्द्रो
दृश्यते तयोरुभयोर्मध्यवर्त्तिन्यां कुह्वां द्विविधमपि चन्द्र-
दर्शनं नास्ति अतस्तस्मिन् दिने यष्टव्यमिति चन्द्रद-
र्शनोपेतायां शुक्लप्रतिपदि यागानुष्ठाने प्रायश्चित्तमाह
कात्ययनः “यजनीयेऽह्निसोमश्चेद्वारुण्यां दिशि दृश्यते । तत्र
व्याहृतिभिर्हुत्वा दण्डं दद्याद्द्विजातये” इति चन्द्रदर्शन-
राहित्यमेवाभिप्रेत्य बौधायनकारिकासु पठ्यते “इष्टेरलं
प्रातिपदादि नाड्यः सप्ताष्ट वा यत्र भवन्ति तत् स्यात् । क्षी-
णासु नाडीषु दिनस्य पूर्वः कल्पोऽथ वृद्धौ च भवेद्द्वितीयः”
इति अयमर्थः अमावास्यातिथेः सम्बन्धिनीषु नाडीषु
क्षीणासु सतीषु तस्मिन् दिने अस्तमयात् पूर्वं प्रतिपत्सम्ब-
न्धिन्यो नाद्ध्यः सप्ताष्ट वा यदि भवन्ति तदा तद्दिनमिष्टे-
रलं योग्यं सोऽयमेकः पक्षः । अमावास्याप्रतिपदौ यदा
वर्द्धेते तदा द्वितीयः कल्पो भवेत् । अमायामग्निमाधाय
सोमदर्शनरहिते प्रतिपद्दिने यागः कर्त्तव्य इति । स्मृत्यन्त-
रेऽपि “अर्वागस्तमयात् यत्र द्वितीया तु प्रदृश्यते । तत्र यागं
न कुर्व्वीत स्युर्देवास्तु पराङ्मुखाः” इति बौधायनमतानुसा-
रिणामग्न्याधानवद्दर्शश्राद्धमपि स्वल्पामावास्योपेतायां
चतुर्दश्यां कर्त्तव्यं तथा च बौधायनेनोक्तम् “यदा चतुर्दशी
यामन्तुरीयमनुपूरयेत् । अमावास्या क्षीयमाणा तदैव श्रा-
द्धमाचरेत् । चतुर्दश्यां चतुर्यामे अमा यत्र न दृश्यते ।
श्वोमूते प्रतिपद्यत्र भूते कव्यादिका क्रियेति” चतुर्ये यामे
अमावास्या सम्पूर्णा न दृश्यते किन्त्ववसाने स्वल्पा सा चेत्
परदिने क्षीयते तदानीं चतुर्दश्यां श्राद्धमाचरेत् । ननु
चन्द्रदर्शनोपेतायां प्रतिपदीष्टिः समाम्नाता तथा च
शतपथब्राह्मणम् “यदहः पश्चाच्चन्द्रमा अभ्युदेति तदहर्य-
जन्निमाल्ल्ॐकानभ्युदेतीति” । तैत्तिरीयब्राह्मणमपि “एषा-
वै सुमना नामेष्टिर्येयमद्येजानं पश्चाच्चन्द्रमा अभ्युदेत्य
स्मिन्नेवास्मै लोके समर्द्धुकं भवतीति” अयमर्थः
येयमिष्टिश्चन्द्रदर्शनोपेते दिने क्रियते सेयमिष्टिः सुमनः शब्द
वाच्या तादृशीमिष्टिं कृतवन्तं यजमानमभिलक्ष्य तस्मिन्
दिने पश्चाच्चन्द्रमा उदेति तस्मै यजमायास्मिल्ल्ॐके समृद्धि-
र्भवतीति बाढं तदेतच्छ्रुतिद्बयं बौधायनमतानुसारिव्यति-
पृष्ठ १४४४
रिक्तविषयम् एतदेवाभिप्रेत्य प्रतिपच्चतुर्थांशे याग
उदाहृतः । ननु बौधायनव्यतिरिक्तानामपि चन्द्रदर्शनयोग्यं
द्वितीयायुतं प्रतिपद्दिनमिष्टौ निषिद्धं तथा च स्मृतिः
“पर्वणोऽंशे चतुर्थे तु कार्या चेष्टिर्द्विजोत्तमैः । द्वितीयासहितं
यस्मादूषयन्त्याश्वलायनाः” इति तदेतदावर्त्तनतत्पूर्बका-
लयोः सन्धौ मति द्रष्टव्यं अपराह्नादिसन्धिषु चतुर्थस्येष्टा-
वप्राप्तत्वात् । तदेवं प्रकृतिरूयाया इष्टेः कालोनिरूपितः
विकृतेस्तु कालो निरूप्यते तत्र कात्यायनः “आवर्त्तनात्
प्राग्यदि पर्वसन्धिः कृत्वा तु तस्मिन् दिवसे प्रकृत्याः । तत्रैव
यागः परतो यदि स्यात्तस्मिन् विकृत्याः प्रकृतेः परेद्यु-
रिति” आवर्त्तने ततः पुरा वा पर्वसन्धौ तस्मिन् सन्धिदिने
प्रकृतियागं कृत्वा पश्चाद्विकृतिसम्बन्धी यागः कर्त्तव्यः ।
यद्यावर्त्तनात्परतः सन्धिस्तदा केवलं विकृतियागः
सन्धिदिने कर्त्तव्यः प्रकृतियागस्तु सन्धिदिनात्परेद्युरनुष्ठेय
इत्यर्थः । आवर्त्तनतः पूर्वकाले ततः परकाले वा सन्धिरि-
त्येतेषु त्रिष्वपि पक्षेषु सन्धिदिन एव विकृतेरनुष्ठानं प्रकृ-
तेस्तु पूर्वोक्तरीत्या सन्धिदिने परेद्युर्वानुष्ठानं व्यवतिष्ठते
इष्टीनां सर्वासां प्रकृतिर्दर्शपूर्णमासौ “ऐन्द्राग्नमेकादश-
कपालं निर्वपेत् प्रजाकाम” इत्यादयः काण्डान्तरपठिताः
काम्ये ष्टयोविकृतयः । तत्र “प्रकृतिवद्विकृतिः कर्त्तव्येति” न्या-
येन विकृतीनामपि सन्धिदिनात् परेद्युः कदाचिदनु-
ष्ठानं प्राप्तं तदेतदुदाहृतेन वचनेन निवार्य्यते” ।
तेन सन्धेः सूक्ष्मकालत्वेन कर्म्मानर्हत्वात् संक्रान्तिवत्त-
दुपलक्षितदिनविशेषे तत्तत्कर्म्म कर्त्तव्यमिति फलितम् । अत
एव “ऋतुसन्धिषु वापयेत्” इतियतिधर्म्मे स्मृतिः तत्र यदि
दर्शान्तविवक्षा स्यात् तदा दर्शस्यैव सन्धित्वात् तत्रैव वषनं
कुर्य्युः कुर्ब्बन्ति तु पूर्ण्णिमायां तस्मात् दर्शान्तत्वपूर्ण्णिमान्तत्वयोः
समो विकल्पः अनुष्ठाने तु तत्र वचनविशेषाच्छिष्टाचाराच्च
व्यवस्था” कालमा० । अयञ्च कालः श्रौतस्मार्त्तकर्म्माङ्गम्
वैद्यके तु कालविशेषोऽपि फरिभाषितः “यथा ऋत्वोर-
त्त्यादि सप्ताहादृतुसन्धिरिवि स्मृतः । तत्र पूर्वोविधि-
स्त्याज्यः सेवनीयः परोविधिः” वाग्भटः । ज्योतिः-
शास्त्रे तु ऋत्वोः सन्ध्युपलक्षितस्य कालभेदस्य “रवेर्भ-
वेदेकगृहाधिकस्य यदंशवृन्दं खलु सायनस्य । तदत्र राशिद्व-
यभागतष्टं स्पष्टं वसन्तादृतवो भवन्ति । तत्सन्धयोऽगाङ्ग
६७ घटीसमाः स्युर्द्विसंगुणा (१३४ घटीसमाः) श्चेत्
विषुवायनीयाः । स सन्धिसन्धिः खलु यत्र शेषं शून्यं
भवेदेष विशेषपुण्यः” केशवार्केण सन्धिसन्धित्वे नापि परिभाषा
कृता तत्र शून्यावशेषे स्नानदानादौ विशेषपुण्यफलम् ।
इतरस्य विवाहे वर्ज्यता । यथाह स एव “सन्धौ पुरन्ध्री
शुचमेति बन्ध्या मृतप्रजा वा यदि सन्धिसन्धिः” इति ।

ऋतुसेव्य त्रि० ऋतुभेदे सेव्यं वैद्यकोक्तगुणयुतमाहारादि ।

सुश्रुतोक्ते ऋतुभेदे सेवनीये पथ्यरूपे वस्तुभेदे तच्च सुश्रु० दर्शितं
यथा । “यस्मिन्यस्मिन्नृतौ ये ये दोषाः कुप्यन्ति देहि-
नाम् । तेषु तेषु प्रदातव्याः रसास्त्वेते विजानता ।
प्रक्लिन्नत्वाच्छरीराणां वर्षासु खलु देहिनाम् । मन्देऽग्नौ
कोपमायान्ति संहर्षान्मारुतादयः । तस्मात् क्लेदविशुद्ध्यर्थं
दोषसंहरणाय च । कषायतिक्तकटुकै रसैर्युक्तमथाऽद्रवम् ।
नातिस्निग्धं नातिरूक्षमुष्णं दीपनमेब च । देयमन्नं
नृपतये यज्जलं चोक्तमादितः । तप्तावरतमम्भोवा पिबे-
न्मधुसमायुतम् । अह्नि मेघानिलाबिष्टेऽत्यर्थशीताम्बु
सङ्कुले । तरुणत्वाद्विदाहञ्च गच्छन्त्योषधयस्तदा ।
मतिमांस्तन्निमित्तञ्च नैव व्यायाममाचरेत् । अत्यम्बुपानाव-
श्यायग्राम्यधर्मातपांस्तथा । भूवाष्पपरिहारार्थं शयीत च
विहायसि । शीते साग्नौ निवाते च गुरुप्रावरणे गृहे ।
यायान्नागबधूभिश्च प्रशस्तागुरुभूषितः । दिवास्वप्नमजी-
र्णञ्च वर्ज्जयेत्तत्र यत्नतः” । वर्षासेव्यासेव्ये ।
“सेव्याः शरदि यत्नेन कषायस्वादुतिक्तकाः । क्षीरेक्षुविकृति-
क्षौद्रशालिमुद्गादिजाङ्गलाः । सलिलञ्च प्रसन्नत्वात् सर्व्वमेव
तदा हितम् । सरःस्वाप्लवनञ्चैव कमलोत्पलशालिषु । प्रदोषे
शशिनः पादाश्चन्दनञ्चानुवासनम् । तिक्तस्य सर्पिषः पानै-
रसृक्स्रावैश्च युक्तितः । वर्षासूपचितं पित्तं हरेच्चापि विरे-
चनैः । नोपेयात्तीक्ष्णमम्लोष्णं क्षारं स्वप्नं दिवाऽऽतपम् ।
रात्रिजागरणञ्चैव मैथुनञ्चापि वर्जयेत् । स्वादु शीतजलं
मद्यं शुचिस्फटिकनिर्मलम् । शरञ्चन्द्रांशुनिर्द्धौतमगस्त्यो-
दयनिर्विषम् । प्रसन्नत्वाच्च सलिलं सर्ब्बमेव तदा हितम् ।
सचन्दनं वा कर्पूरं वासश्चामलिनं लघु । भजेच्च शारदं
माल्यं सीधोः पानञ्च युक्तितः । पित्तप्रशमनं यच्च तच्च
सर्व्वं समाचरेत्” । शरदि सेव्यासेव्ये
“हेमन्तः शीतलो रूक्षो मन्दसूर्थ्योऽनिलाकुलः । ततस्तु
शीतमासाद्यः वायुस्तत्र प्रकुप्यति । कोष्ठस्यः शीतसंस्पर्शादन्तः-
पिण्डीकृतोऽनलः । ररुमुच्छोषयत्याशु तस्मात् स्निग्धं तदा
हितम् । हेमन्ते लवणक्षारतिक्ताम्लकटुकोत्कटम् । ससर्पि-
स्तैलमहिममशनं हितमुच्यते । तीक्ष्णान्यपि च पानानि
पिबेदगुरुभूषितः । तैलाभ्यक्तः सुखोष्णे च वारिकोष्ठेऽव-
गाहयेत् । साङ्गारधने महति कौशेयास्तरणास्तृते । शयीत
पृष्ठ १४४५
शयने वापि वृते गर्भगृहोदरे । स्त्रीःश्लिष्ट्वागुरुधूपाढ्याः
पीनोरुजघनस्तनीः । प्रकामञ्च निषेवेत मैथुनं तर्पितो नृपः ।
मधुरं तिक्तकटुकमभ्लं लवणमेव च । अन्नपानं तिलान्
माषान् शाकानि च दधीनि च । तथेक्षुविकृतीः
शालीन् सुगन्धांश्च नवानपि । प्रसह्यानूपमांसानि क्रव्याद-
बिलशायिनाम् । औदकानां प्लवानाञ्च पादिनाञ्चोप-
जायते । मद्यानि च प्रसन्नानि यच्च किञ्चिद्बलप्रदम् ।
कामतस्तन्निषेवेत पुष्टिमिच्छन् हिमागमे” हेमन्तसेव्यादि
“एष एव विधिः कार्यः शिशिरे समुदाहृतः” ।
“हेमन्ते निचितः श्लेष्मा शैत्याच्छीतशरीरिणाम् ।
औष्ण्याद्वसन्ते कुपितः कुरुते च गदान् बहून् । ततोऽ
म्लमधुरस्निग्धलवणानि गुरूणि च । वर्जयेद्वमनादीनि
कर्म्माण्यपि च कारयेत् । षष्टिकान्नं यवान् शोतान्
मुद्गान् नीवारकोद्रवान् । लावादिविष्किररसैर्दद्याद्यूषैश्च
युक्तितः । पटोलनिम्बवार्त्ताकुतिक्तकैश्च हिमात्यये । सेवे-
तं माधवेऽरिष्टान् सीधु माध्वीकमासवान् । व्यायाममञ्जनं
धूमं तीक्ष्णञ्च कवलग्रहम् । सुखाम्बु ना च सर्वार्थान्
सेवेत कुसुमागमे । तीक्षणरूक्षकटुक्षारकषायं कोष्णम-
द्रवम् । यवमुद्गमधुप्रायं वसन्ते भोजनं हितम् । व्या-
यामोऽत्र नियुद्ध्वाध्वशिलानिर्घातजो हितः । उत्सादनं
तथा स्नानं वनिताः काननानि च । सेवेत निर्हरेच्चापि
हेमन्तोपचितं कफम् । शिरोविरेकवमननिरूहकवलादि-
भिः । वर्ज्जयेन्मधुरस्निग्धदिवास्वप्नगुरुद्रवान्” वसन्तसे०
“व्यायाममुष्णमायासं मैथुनञ्चातिशोषि च । रसां-
श्चाग्निगुणोद्रिक्तान् निदाघे परिवर्जयेत् । सरांसि
मरितोवापि वनानि रुचिराणि च । चन्दनानि
परार्ध्यानि स्रजः सकमलोत्पलाः । तालवृन्तानिलाहारां-
स्तथा शीतगृहाणि च । घर्मकाले निषेवेत वासांसि
सुलघूनि च । शर्कराखण्डदिग्धानि सुगन्धीनि हिमा-
नि च । षानकानि च सेवेत मन्थांश्चापि सशर्करान् ।
भोजनं च हितं शीतं सघृतं मधुरद्रवम् । शृतेन पयसा
रात्रौ शर्करामधुरेण च । प्रत्यग्रकुसुमाकीर्णशयने हर्म्य-
संस्थिते । शयीत चन्दनार्द्राङ्गःस्पृश्यमानोऽनिलैः सुखैः”
ग्रीष्मसेव्यादि ।
“तापात्यये हिता नित्यं रसा ये गुरवस्तथा ।
पयोमांसरसाः कोष्णास्तैलानि च घृतानि च । वृंहणञ्चापि
यत्किञ्चिदभिष्यन्दि तथैव च । निदाघोपचितञ्चैव प्रकु-
प्यन्तं समीरणम् । निहन्यादनिलघ्नेन विधिना विधि-
कोविदः । नदीजलं रूक्षमुष्णमुदमन्थं तथाऽऽतपम् । व्या-
यामञ्च दिवास्वप्नं व्यवायञ्चात्र वर्ज्जयेत् । यवषष्टि-
कगोधूमान् शालींश्चाप्यनवांस्तथा । हर्भ्यमध्ये निवाते
च भजेच्छष्यां मृदूत्तराम् । सविषप्राणिविण्मूत्रलाला-
निष्ठीवनादिभिः । समाप्लुतं तदा तोयमान्तरीक्षं विषोप-
मम् । वायुना विषदुष्टेन प्रावृष्येण च दूषितम् । तद्धि
सर्वोपयोगेषु तस्मित्काले विवर्जयेत् । निरूहैर्वस्तिभि-
श्चान्यैस्तथान्यैर्मारुताग्रहैः । कुपितं शमयेद्वायुं वार्षिकं वा
चरेद्विधिम् । ऋतावृतौ य एतेन विधिना वर्त्तते नरः ।
घोरानृतुकृतान् रोगान्नाप्नोति स कदाचन” प्रावृट्से०

ऋतुस्तोम पु० एकाहसाध्ये यागभेदे “नाकसद ऋतुस्तोमा-

दिक्स्तोमाश्चाभिप्लवाहानि” आश्व० श्रौ० ९, ८, २६ ।
“ऋतुस्तोमनामानश्च षडेकाहाः” नारा० ।

ऋतुस्थला स्त्री अप्सरोभेदे “ऋतुस्थला घृताची च विश्वाची

पूर्व्वचित्यपि” भा० आ० १२३ अ० अप्सरोभेदकथने ।

ऋतुस्नाता स्त्री ऋतौ ऋतकाले विहितदिने (चतुर्यदिवसे)

स्नाता । ऋतुकाले चतुर्थदिवसे शुद्ध्यर्थं कृतस्नानायां
स्त्रियाम् । “ऋतुस्नातां तु यो भार्य्यां सन्निधौ
नोपगच्छति” मिता० स्मृतिः धर्म्मलोपभयाद्राज्ञीमृतु-
स्नातामिमां स्मरन्” रघुः । “पूर्व्वं पश्येदृतुस्नाता यादृशं
नरमङ्गना । तादृशं जनयेत् पुत्रं भर्त्तारं दर्शवेदतः”
सुश्रुतः । अधिकमुक्तमार्त्तवशब्दे ऋतुमतीशब्दे च ।
दारविशेषणत्वे पुंस्त्वम् “यः स्वदारानृतुस्नातान् स्वस्थः
सन्नोपगच्छति” मिता० स्मृतिः ।

ऋतुस्नान न० ऋतौ शुद्ध्यर्थं स्नानम् । रजस्वलाया-

श्चतुर्थदिनकर्त्तव्ये स्नाने तस्या आर्त्तायाः स्नानप्रकारश्चा-
र्त्तवशब्दे ८०८ पृ० उक्तः ।

ऋतुहरितकी स्त्री ऋतुभेदे द्रव्यभेदे न सेव्या हरितकी । वर्षा-

दिष ऋतुषु क्रमेण सैन्धवशर्कराशुण्ठीजीरकमधुगुडै-
र्मिश्रणेन सेव्यायां हरीतक्याम् । “सिन्धूत्थशर्कराशुण्ठी
कणामधुगुडैः क्रमात् । वर्षादिष्वभया प्राश्या रसायन
गुणैषिणा” भावप्र० ।

ऋते अव्य० ऋत (सौत्रः) के । १ वर्ज्जने २ विनार्थे च । “अवे-

हि मां प्रीतमृते तुरङ्गमात्” रघुः “अंशादृते निषिक्तस्य
नीललोहितरेतसः” कुमा० । “शक्तोऽन्यः सहितुं वेगमृते
देवं पिनाकिनम्” भा० व० ३९ अ० । “नाभिव्याहार
येद्ब्रह्म स्वधानिनयनादृते” मनुः “अभ्रातृको हरेत्सर्वं
दुहितॄणां सुतादृते” या० । एतच्छब्दस्य विनार्थत्वात्
पृष्ठ १४४६
तद्योगे पञ्चमी द्वितीया तृतीया च भवति उक्तोदाहरणेषु
पञ्चमी द्वितीयाद्रष्टव्या । तृतीयाया उदाहरण मृग्यम् ।

ऋतेकर्म्म अव्य० वेदे ८ । ० वर्ज्जने अव्ययी० अच्ससा० ।

कर्म विनेत्यर्थे । “ये कर्म्मणः क्रियमाणस्य मह्न ऋतेकर्म्म-
मुपाजायल देवाः” ऋ० १०, ५५, ६०

ऋतेजा त्रि० ऋते यज्ञनिमित्तं न्तायते जन--विट् अलुक्--स० ।

यज्ञनिमित्तजाते । “अग्ने स क्षेषदृतपा ऋतेजाः” ऋ०
६, ३, १ । “ऋतेजा यज्ञनिमित्तं जातः” भा० ।

ऋतेयु पु० वरुणस्य ऋत्विजि १ऋषिभेदे । “दृढ़ेयुश्च ऋतेयुश्च

परिव्याधश्च कीर्त्तिमान् । एकतश्च द्वितश्चैव त्रितश्चादि
त्यसन्निभाः । अत्रेः पुत्रश्च धर्म्मात्मा ऋषिः सारस्वत
स्तथा । वरुणस्यर्त्विजः सप्त पश्चिमां दिशमास्थिताः”
भा० आनु० १५० अ० । २ पौरवे नृपभेदे । “पूरोर्वंशं
प्रवक्ष्यामि” इत्युपक्रम्य । “संयाचितस्याहंयातीरौद्राश्व-
स्तत्सुतः स्मृतः । ऋतेयुस्तस्य कक्षेयुस्थण्डिलेयुकृतेयवः ।
जलेयुः सन्नतेयुश्च धर्म्मसत्यब्रतेयवः । दशैतेऽप्सरमः पुत्रा
वनेयुश्चावमः स्मृतः । घृताच्या इन्द्रियाणीव मुख्यस्य
जगदात्मनः । ऋतेयोरन्तिनावोऽभूत्” भाग० ९ । ३०, ३ ।

ऋतेरक्षस् पु० ऋते उद्देश्यतया वर्ज्जितं रक्षोयतः । यज्ञे

“ऋतेरक्षा वै यज्ञः” ऐत० ब्रा० । यज्ञस्य रक्षोभ्यो
रक्षणीयत्वात् तथात्वम् ।

ऋतोद्य न० ऋत + वद--भावे क्यप् । सत्यकथने “ऋतं वदन्ता

वृतोद्येषु” अथ० १४, १, ३१ ।

ऋत्विज् पु० ऋतु + यज्--क्विन् उ० प० । १ याजके, “अग्न्याधेयं

पाकयज्ञानग्निष्टोमादिकान् मखान् । यः करोति वृतो
यस्य स तस्यर्त्विगिहोच्यते” इति मनूक्ते २ स्वानुष्ठेयवैदिक
कर्मकरे । ऋत्विजश्च षोड़श तत्र मुख्याश्चत्वारः तेषां
प्रत्येकं सहकारिण स्त्रय स्त्रय इति षोड़श । विवृतिरच्छा-
वाकशब्दे ८५ पृ० दृश्या । “अथर्त्विजो यां काञ्चिदाशि-
गमाशासते सा यजमानस्यैवेति श्रुतेः “ऋत्विग्बादेनियुक्तौ
च समौ संपरिकीर्त्तितौ । यज्ञे स्वाम्यप्नुयात् पुण्यं हानिं
वादेऽथवा जयम्” इति वृहस्पत्युक्तेश्च ऋत्विक्कृतयज्ञफलं
वेतनदक्षिणादिना वरयितुरेव । “श्रौतस्मार्त्त क्रियाहेतो-
र्वृणुयादृत्विजः स्वयम्” या० । “तस्य सांख्यपुरुषेण
तुल्यतां बिभ्रतः स्वयमकुर्व्वतः क्रियाः । कर्त्तृता तदुप-
लम्भतोऽभवद्वृत्तिभाजि करणे यथार्त्विजि” मा० ।
ऋत्विजः कर्म ष्यञ् । आर्त्विज्यऋत्विक्कर्मणि आर्त्वि-
ज्यशब्दे उदा० ऋत्विक्कर्मार्हति खञ् । आर्त्विनीन
ऋत्विक्कर्मार्हे “दाक्षिण्यदिष्टं कृतमार्त्विजीनैः” भट्टिः ।

ऋत्विय त्रि० ऋतुरस्य प्राप्तः तत्र भवं तत्रानुष्ठेयं वा वेदे

घम् सित्त्वात् भत्वाभावेन न गुणः । १ प्राप्तर्तुकाले २
कालभवे ३ऋतुकालानुष्ठेये च “अयं वो गर्भऋत्वियः प्रत्नं
सधस्थमासदत्” यजु० ११, ४८ । “दधे ह गर्भमृत्वियं
यतोजातः प्रजापतिः” २३, ६३ । ॠत्वियावान् लोके तु
यत् । ऋतव्य इत्येव तेष्वर्थेषु त्रि० ।

ऋत्वियावत् त्रि० ऋत्वियमृतु कालभवं प्रजोत्पादनकर्म्म तत्रा-

नुष्ठेयकर्म वास्त्यस्य मतुप् मस्य वः दीर्घः । १ प्रजोत्पादन-
कर्मयुक्ते २ तत्रानुष्ठेयकर्मयुक्ते च । “कृतं न ऋत्वियावतः”
ऋ० ८, ८, १० स्त्रियां ङीप् । “इयं त ऋत्वियावती
धीतिरेति नवीयसी” ऋ० ८, १२, १० । “ऋतौ वसन्ता-
दिकालेऽनुष्ठेयं यज्ञकर्म ऋत्वियं तद्वती” भा० ।

ऋत्व्य त्रि० ऋतुरस्य प्ताप्तः तत्र भवं तत्रानुष्ठेयं वा कर्म यत्

संज्ञापूर्वकविधेरनित्यत्वात् न गुणः अज्वच्च । ऋत्वियश-
ब्दार्थे “अपश्यं त्वा मनसा दीध्यानां स्वायां तनू ऋत्व्ये
नाधमानाम्” ऋ० १०, १८३, २ ।

ऋदूदर त्रि० मृदु उदरं यस्य वेदे पृ० मलोपः । मृदूदरे

निरु० । “ऋदूदरः सुहवो मा नो अस्यै” ऋ० २, ३३, ५,
ऋदूदरेण सख्या सचेय” ऋ० ८, ४८, १० ।

ऋदूपा त्रि० पृषी० । १ अर्द्दनपातिनि २ गमनपातिनि ३

दूरपातिनि निरु० । “उभा ते बाहू रण्या सुसंस्कृत
ऋदूपे चिदृदूवृधा” ऋ० ८, ७७, ११ । इमामेवर्चमधिकृत्य
यास्केन तथार्थतया निर्वचनं कृतम् ।

ऋदूवृध पु० पृषो० । १ मर्मण्यर्द्दनवेधिनि २ गमनवेधिनि

२ शब्दवेधिनि ४ दूरवेधिनि च निरु० । ऋदूपाशब्दे उदा० ।
तामेवर्चमधिकृत्य यास्केन तथार्थतया निरुक्तम् ।

ऋद्ध न० ऋध--क्त । १ पक्वम र्दतधान्ये २ सिद्धान्ते ३ वृद्धौ च ।

४ समृद्धे ५ सम्पन्ने त्रि “इयमृद्धवनी वृथाऽवनी” नैष० ।
अवाप्य भूमावसपत्नमृद्धंराज्यं सुराणामपि चाधिपत्यम्” गीता
“धमज्ञानवैराग्यादिभिः सम्पन्ने प्रपञ्चरूपेण विवर्त्तमाने
च ६ विष्णौ पु० । “ऋद्धः स्पष्टाक्षरो मन्त्रः” विष्णुस०
धर्मादिभिरुपेतत्वात् ऋद्धः” भा० । “सहर्द्धिरृद्धो वृद्धा-
त्मा” विष्णुस० । “प्रपञ्चरूपेण वर्द्धमान ऋद्धः” भा०

ऋद्धि स्त्री ऋध--भावे क्तिन् । १ वृद्धौ २ सम्पत्तौ ३ सिद्धौ च ।

“परिच्छन्नप्रभावर्द्धिर्न मया न च विष्णुना” कुमा० ।
“ऋद्ध्या भवान् ज्योतिरिव प्रकाशते” भा० व० १११ ।
कर्त्तरि क्तिच् । ४ पार्व्वत्यां शब्दरत्ना० । ५ लक्ष्म्यां
पृष्ठ १४४७
६ देवभेदे । करणे क्तिच् । ७ ओषधिभेदे स्त्री राजनि० ।
तल्लक्षणं यथा । “ऋद्धिर्वृद्धिश्च कन्दौ द्वौ भवतः
कीशयामले । श्वेतलोमान्वितः कन्दोलताजालैः सरन्ध्र-
कः । स एव ऋद्धिर्वृद्धिश्च भेदमप्येतयोर्ब्रुवे । तूलग्र-
न्थिसमा ऋद्धिर्वामावर्त्तफला च सा । वृद्धिस्तु दक्षि-
णावर्त्त फला प्रोक्ता महर्षिभिः । “ऋद्धिर्बल्या त्रिदोषघ्नी
शुक्रला मधुरा गुरुः । प्राणैश्वर्य्यकरी मूर्च्छा रक्तपित्त-
विनाशिनी” भावप्र० । “काकोली क्षीरकाकोली जीवक-
र्बभकावुभौ । तथा मेदा महामेदा ऋद्धिर्वृद्धिर्मधूलिका ।
निरूहेषु ययालाभमेष वर्गो विधीयते” सुश्रु० । तयोर-
लाभे वर्गमध्ये वाराही देया ऋषभशब्दे प्रमाणम् । ८ कुवे-
रपत्न्याञ्च । तरौ तत्र निबध्याथ कश्यपं प्रददौ शुभा ।
अदितिर्मम पुण्यार्थं सौभाग्यार्थं तथैव च । निष्क्रयेण
मया मुकः कश्यपस्तु तपोधनः । इन्द्रीदत्तस्तथेन्द्राण्या
सौभाग्यार्थं ततो मम! सोमश्चाप्यथ रोहिण्या ॠद्ध्या च
धनदस्तथा । एव सौभाग्यदोवृक्षः पारिजातो न
संशयः” हरिवं० १२६ । “ऋद्धिः कुवेरकान्ता च जलेश
महिषी तथा” हरिवं० १३६ अ० । “सावित्री
ब्रह्मणःसाध्वी कौशिकस्य शची सती । मार्त्तण्डेयस्य
धूमोर्ण्णा ऋद्धिर्वैश्रवणस्य च” भा० अनु० १४६ अ० ।
“शक्रः शचीपतिर्देवोयमोधूमोर्ण्णया सह । वरुणः सह
गोर्य्या च सहर्द्ध्या च धनेश्वरः” हरि० १५ अ० । साऽस्या-
स्ति मतुप् । ऋद्धिमत् वृद्धियुक्ते त्रि० स्त्रियां ङीप् ।
“तमृद्धिमद्धन्धुजनाधिरूढैः” कुमा० । “धारागृहेष्वात-
पमृद्धिमन्तः” रघुः तन्त्रोक्ते ९ खकारे । “अथाभिधास्ये
त्वरितां त्वरितं फलदायिनीम् । “तारो रमा वर्म्मवी-
जमृद्धिरीशस्वरान्विता” ऋद्धिः खकारः” तन्त्रसारः ।

ऋध वृद्धौ दिवा० स्वा० च पर० अक० सेट् उदित्

इरिच्च । दि० ऋध्यति ऋध्यात् ऋध्यतु आर्द्ध्यत् स्वा०
ऋध्नोति ऋध्नुवन्ति ऋध्नुयात् ऋध्नेतु ऋध्नुहि
आर्ध्नोत् । उभयतः । आर्द्धत्--आर्द्धीत् । आनर्द्ध आनृ
धतुः । आर्द्धिता ऋध्यात् अर्द्धिष्यति आर्द्धिष्यत् ।
अर्द्धितव्यः अर्द्धनीयः । ऋध्यः । ऋद्धः ऋद्धिः । ऋध्यन्
ऋध्नुवन् अर्द्धः । उदित्त्वात् वेट् अर्द्धित्वा--ऋद्ध्वा । समृध्य ।
“नाब्रह्म क्षत्रमृध्नोति नाक्षत्रं ब्रह्म वर्द्धते” ममुः “सपत्ना-
नृध्यतो दृष्ट्वा हीनमात्मानमेव च । सोऽहं न स्त्री नचाप्य-
स्त्री न पुमान् नापुमानाप” भा० स० ४६ अ० । “पृथिव्याम-
ग्नये समनमन्त् स आर्घ्नोत्” अथ० ४, ३९, १ । ये
भक्षयन्तो न वसून्यानृधुः” २, २५, ८ । आत्मनेपदित्वमपि
“ते च लोमश! लोकेऽस्मिन्नृध्यन्ते केन हेतुना” भा० व०
९४ । वेदे गणव्यत्यासात् श्नम् । “य एषां भृत्यानृणधत् स
जीवात्” ऋ० १, ८४, १६ । मन्मानि धीतिरुत यज्ञमृन्धन्”
१०, ११०, २ । अन्तर्भूतण्यर्थत्वात् सक० । णिचि
अर्द्धयति ये “त्वां यज्ञैर्यज्ञिये अर्द्धयन्ति” अ० ७, ८३, ४ ।
सनि वेट् अर्द्दिधिषति ईर्त्सति । वेदे गणव्यत्यासात्
श तेन । “इन्धानास्त्वा शतं हिमा ऋधेम” अथ० १९, ५५,
४ । ऋधच्छब्दे उदा० । “ऋधद्यस्ते धिया मर्त्तः
शशमते” ऋ० ६, २, ४ । स्वा० तर्पणे वर्द्धने च सक० ।
“आदृध्नोति हविष्कृतिम्” ऋ० १, १८, ८ । “अन्तत एव तद्दे-
वानृध्नुवन्ति” ऐ० ब्रा० । “सोऽहं प्राग्भवतैव मूतजननी-
मृध्नोमि” भवभूतिः ।
  • अधि + अधिकवृद्धौ । “यदस्मिन्निदं सर्वमध्यार्ध्नोत्तेनाध्यर्द्धः”
इति शत० ब्रा० १४, ६, १० ।
  • आ + समृद्धौ । “ऋणान्नोनर्ण्णमेर्त्समानो यमस्य लोकेऽधिर-
रज्जुरायत्” अथ० ६, ११८, २ । ताच्छील्ये चानश्
  • उप + उपगमे । “तस्मादेतत् क्षत्रिय एव नक्षत्रमुपेर्त्सेज्जि-
घांसतीव” शत० ब्रा० २, १, २, १७ । “उपर्त्सेत् स्वीकुर्य्या-
त्” भा० । “एतेषामेव संवत्सरमुपेर्त्सेत्” २, ३, २, १४ ।
  • वि + ऋद्धिविगमे विगतायां वृद्धौ “अथ यस्मान्न कृत्तिकास्वाद-
धीतर्क्षाणां वा एता अग्रे पत्न्य आसुः सप्तर्षीनु ह स्म वै
पुरर्क्षा इत्याचक्षते ता मिथुनेन व्यार्द्धन्तामी ह्युत्तराहि
सप्तर्षय उद्यन्ति पुर एता अशमिव वै तद्योमिथुनेन
व्यृद्धः स नेन्मिथुनेन व्यृद्धा” इति शत० ब्रा० २, १, २, ४ ।
“व्यार्द्धन्त विगतर्द्धिका अभवन्” भा० । गणव्य० साधुः ।
“यद्यज्ञमुखे यज्ञमुखे जुहुयात् पशुभिर्व्यृध्येत
पापीयान्त्स्यात्” १३, १, ३, ८ । “अव्ययं विभक्तीत्यादि”
पा० सूत्रे विगता ऋद्धिः व्यृद्धिः” सि० कौ० ।
  • सम् + ऋद्धेराधिक्ये अतिशयितर्द्धौ । “अव्ययं विभक्तीत्यादि”
पा० “ऋद्धेराधिक्य समृद्धिः” सि० कौ० । “कः क्षिण्वंस्तान्
समृध्नुयात्” मनुः । “शत्रुपक्षं समृध्यन्तं यो मोहात्
ससुपेक्षते” भा० व० ५४ अ० “अयं कामः समृध्य-
ताम्” यजु० २६, २ । पदव्यत्यासः ।

ऋधज्(क्) अव्य० ऋध--बा० अजि(कि)क् स्वरा० । १ सत्ये,

२ वियोगे, ३ शैध्र्ये, ४ सामीप्ये, ५ लाघवे, च प्रौढम० ।
वियोगः पृथक्करणम् । “ऋधग्द्वेषः कृणुत” ऋ० ८, १,
८, ११ । “ऋथक् पृथक् कृणुत कुरुत” भा० । “यदि-
पृष्ठ १४४८
न्द्रो दिवि पर्य्यो यदृधक्” ऋ० ६, ४०, ५ । “ऋधक् सा वो
मरुतः” ७, ६७, ४ । “ऋधग्देवा इह यजा चिकित्वः”
३, २५, १ । “ऋधगित्था स मर्त्यः” ऋ० ८, १०१, १ ।
“ऋधक् सत्यम्” भा० । “ऋधग्यतो अनिमिषं रक्ष-
माणाः” ६१, ३ । “ऋधग्यतः सत्येन गच्छतः” भा० ।
कर्त्तर अजिक् । ६ समृद्धे, ७ वर्द्धके च त्रि० । “ऋधगया
ऋधगुताशमिष्ठाः” यजु० ८, २० । “ऋधक् समृद्धमयाः”
“ऋधक् यज्ञं समर्द्धयन्” वेददी० । “ऋधक् सोम! स्वस्तये”
ऋ० ९, ६४, ३० । “ऋधक् ऋध्न वन् तथा च” यास्क०
“ऋधगिति पृथग्भावस्यानुप्रवचनम् भवति अथाप्यृध्नोत्यर्थे
दृश्यते” भा० । “ऋधग्घुवेम कविनेषितासः” ऋ० ६,
५९, १० । “ऋधक् समृद्धं यथा तथा हुयेम” भा० ।

ऋधत् त्रि० ऋध० शतृ वेदे गणव्यत्यासः । वर्द्धमाने । “दश

श्यावा ऋधद्रयोवीतबारास आशवः” ऋ० ८, ४६, २३ ।
“ऋधद्रयोवृद्धवेगाः” भा० । रयशब्दो वेगवाची जसः
स्थाने प्रथमा । “शमाभिरृधद्वारायाग्नये ददाश” ६, ३,
२ । “ऋधद्वाराय ऋधत् समृद्धं वारं वरणीयं धनं
यस्य” भा० ।

ऋन्फ(म्फ) हिंसायां तुदा० मुचा० सक० पर० सेट् । ऋम्फति

आर्म्फीत्--आर्फीत् ऋम्फाम्--बमूव आस चकार आनर्फ

ऋफ दाने हिंसायां निन्दायां युद्धेच सक० श्लाघायाम् अक०

तुदा० पर० सेट् । ऋफति आर्फीत् । कविकल्पद्रुमे
ऋफधातुस्तदर्थे पा० मते रिफधातुस्तेष्वर्थेषु ऋफधातुस्तु
हिंसायामिति भेदः । आनर्फ आनृफतुः ।

ऋबीस न० ऋ + वर्जने भास--अच् पृ० । १ पृथिव्यां निरु० तत्स्थे

२ अग्नौच । “हिमेनाग्निं घ्रंसमवारयेथां पितुमतीसू-
र्ज्जमस्मा अधत्तम् । “ऋबीसे अत्रिमश्विनावनीतमुन्नि-
न्यतुः सर्वगणं स्वस्ति” ऋ० १, ११६, ८ । इमामृचमधि-
कृत्य यास्केन ऋबीसमपगतभासमन्तंर्हितभासं गतभासम्
वा इति निरुच्योक्तम् “योऽयं ऋबीसे पृथिव्यामग्निरन्त-
रोबधिवनस्पतिष्वप्सु तमुन्निन्यतुः” “युवमृबीसमुत तप्तमत्रये”
ऋ० १०, ३९, ९ । “तप्तमृबीसमग्निकुण्डम्” भा० ।
“अत्रिर्यद्वामवरोहदृबीसम्” ऋ० ५, ७८, ४ । “ऋबीसं
तुषाग्निम्” भा० । “अनृतातिथ्यपनोदपूतिदार्वाधान-
र्वीसपक्वनाव्युदकानि वर्ज्जयेत्” कात्या० ४, १०१, ५ ।
“ऋबोसशब्दः पृथिवीवाची “योऽयमृबीसे पृथिव्यामिति”
यास्कोक्तेः ऋवीसे यत् पक्वं तिन्दुकादि” कर्कः ।

ऋभु पु० अरि स्वर्गे अदितौ वा भवति ऋ + + भू--ड । १ देवे ।

तेन ऋशब्दस्य स्वर्गवाचित्वं द्रष्टव्यं तच्च प्रमादात् पूर्व-
मनुक्तमिति तस्य च स्वर्गे पुंस्त्वम् बोध्यम् । “समीचीभास
ऋभवः समस्वरन्” ऋ० ८, ३, ७ । “तं नेमिमृभवो
यथा” ऋ० ७५, ५ । २ मेधाविनि निरु० । “अग्नये ब्रह्म
ऋभवस्ततक्षुः” ऋ० १०, ८०, ७ । “ऋषिर्विप्रः पुर एता
जनानामृभुर्धीर उशना काव्येन” ऋ० ९, ८७, ३ । ३ देवा-
नामपि यष्टव्ये देवे । “ऋभवोनाम तत्रान्ये देवानामपि
देवताः । तेषां लोकाः परतरे यान् यजन्तीह देवताः” भा०
व० १५ ४५९ । चाक्षुषमन्वन्तरीये ४ देवगणभेदे च । “चाक्षुष-
स्यान्तरे तात! मनोर्देवानिमान् शृणु । आप्याः प्रभूताः
ऋभवः पृथुकाश्च दिवौकसः । लेखानाम महाराज! पञ्च
देवगणाः स्मृताः” हरिवं० ७ । त्रैवर्णिकहीने ५ जातिभेदे
“ऋभूणां त्वेति रथकृतः” कात्या० ४, ९, ५, “ऋभुः सौधन्वन
सात्वतापरपर्यायस्त्रैवर्ण्णिकेभ्यो हीनो नियतः कश्चिज्जाति
विशेषः इति पार्थसारथिमिश्राः” कर्कः । तृतीयसवनीये
सुधन्वनः पुत्ररूपे ६ देवभेदे च । “इहोपयात शवसो
नपातः सौधन्वना ऋभवो माप भूत” ऋ० ४, ३५, १,
एतत्सूक्ते च नवर्चैस्तस्यैव गुणादिवर्णनम् । ऋ + भा--डु ।
७ उरुभासमाने त्रि० “ऋभुमृभुक्षणो रयिम्” । ऋ० ४,
३७, ५, “ॠभुमुरुभासमानम्” भा० ऋभुरस्त्यस्य उ
द्देश्यतया मतुप् । ऋभुमत् ऋभुदेवताके त्रि० ।
“ऋभुमन्तं वाजवन्तं त्वा कवे”! ऋ० ३, ५२, ६ । ऋगुणा
दृष्टं साम अण् । आर्भव तद्दृष्टे सामभेदे आर्भवशब्दे
उदा० । क्विप् । ऋभूरपि देवे पु० ।

ऋभुक्ष पु० ऋभवो देवाः क्षियन्ति वसन्त्यत्र क्षि + आधारे बा०

ड । १ स्वर्गे २ वज्रे २ इन्द्रे च रायमुकुटः । ऋभुनाम्ना-
क्षीयते गम्यते कर्म्मणि बा० ड । ऋभुनामके देवे “उप
नोवाजा अध्वरमृभक्षाः” ऋ० ४, ३७, १, “ऋभुक्षा ऋभवः” भा०

ऋभुक्षन् पु० ऋभुनाम्ना क्षायते क्षै--क्षये धातूनामनेकार्थत्वात्

ख्यातौ कर्मणि कनिन् । ऋभुनामख्याते देवभेदे “स्तोमो-
वाजा ऋभुक्षणो ददे वः । “ऋभुमृभुक्षणो रयिम्” ऋ०
४, ३७, ३, ५ ।

ऋभुक्षिन् पु० ऋभुक्षः वज्रं स्वर्गोवाऽस्यास्ति इनि । इन्द्रे

स्वादौ ॠभुक्षा ऋभुक्षाणौ शसाद्यजादौ टिलोपः ऋभुक्ष
इत्यादि “इन्द्रो विभ्वां ऋभुक्षा वाजो अर्य्यः” ऋ० ७, ४८, ३,
“ऋभुक्षेवाचरति ऋभुक्षिन् + आचारे क्विप् अनुनासि-
कदीर्घः ऋभुक्षीणति । ततः क्विप् ऋभुक्षीन् तद्वदाचारा-
न्विते त्रि० ।
पृष्ठ १४४९

ऋभ्व त्रि० उरुभूतः पृषो० । महति उरुभूते निरु० । “स्तुषेय्यं

पुरुवर्पसमृभ्वमिनतममाप्त्यमाप्त्यानाम्” ऋ० १०, १२०, ६,
अस्या ऋवः यास्केन “स्तोतव्यं बहुरूपमुरुभूतमीश्वरतम-
माप्तव्यमाप्तव्यानामिति” क्रमेण पदानि निरुक्तानि । ऋभ्वः
उरुभूत इवाचरति ऋभ्व + आचारे क्विप् ततो बा० अतु ।
ऋभ्वत् उरुभूते महति । “पुरुहूतोयः पुरुगूर्त्त ऋभ्वाँ
एकः पुरुप्रशस्तः” ऋ० ६, ३ ४, २, “ऋभ्वान् महान्
भा० अत्वन्तत्वान्नान्त्यलोपः । कनिन् । ऋभ्वन् तत्रार्थे
“जुषद्धव्या मनुषस्योर्द्ध्वस्तावृभ्वा यज्ञे” ऋ० १०, २०, ५
बा० असच् । ऋभ्वस अतिवृद्धे । “सत्यशबसमृभ्वसम्”
ऋ० ५, ५ २, ८, “ऋभ्वसम् अतिप्रवृद्धमिति” भा० “इन्द्रं न
यज्ञैर्विश्वगूर्त्तमृभ्वसमधृष्टम्” ॠ० ८, ७०, ३,

ऋश हिंसायां गतौ च सौ० पर० सक० सेट् । अर्शति आर्शीत्

आनर्श आनुशतुः अर्शः । ऋश्यः ।

ऋश्य त्रि० ऋश--कर्मणि क्यप् । १ हिंस्ये ३ मृगे पुंस्त्री शब्द-

रत्ना० । स्त्रियां जातित्वेऽपि योपधत्वात् टाप् । “ऋश्यो न
तृष्यन्नवपानमा गहि” ऋ० ८, ४, १०, “ऋश्य ऋश्याख्योमृग
इव तृष्यन् भा० “वसुभ्य ऋश्यानालभेत” यजु० २४, २७,
“ऋश्यो मयूरः सुपर्ण्णस्ते गन्धर्वाणाम्” यजु० ३४,
२७, ततः चतुरर्थ्याम् ऋश्या० क । ॠश्यक
तत्सन्निकृष्टदेशादौ । भावे क्यप् । ३ हिंसायां न० । ऋश्यं
हिंसां पतनेन ददाति दा--क । ऋश्यद कूपे पु० “युवं
बन्दनमृश्यदादुदूपथुः” ऋ० १०, ३९, ८ । “ऋश्यदात्
कूपात्” भा० ।

ऋश्यपाद् त्रि० ऋश्यस्येव पादावस्य अन्त्यलोपः समा० ।

मृगसदृशपादयुक्ते स्त्रियां ङीष् पद्भावश्च । “ऋश्यपदीं
वृषंदतीं गोषेधां विधमाम्युत” अथ० १, १८४ ।

ऋश्यादि पु० पाणिन्युक्ते चतुरर्थ्यां कप्रत्ययनिमित्ते शब्दगणे-

स च गणः । “ऋश्य, न्यग्रोध, शर, निलीन, निवास, निवात,
निधान, निबन्ध, विबद्ध, परिगूढ, उपगूढ़, अशनि, सित,
मत वेश्मन्, उत्तराश्मन्, अश्मन्, स्थूल, बाहु, खदिर,
शर्करा, अनडुह्, अरडु, परिवंश, बेणु, वीरण, खण्ड,
दण्ड, परिवृत्त, कर्दम, अंशु” ।

ऋष गतौ बधे च तुदा० पर० सक० सेट् । ऋषति आर्षीत् ।

आनर्ष आनृषतुः अर्षिता ऋष्यात् अर्षिष्यति आर्षि-
ष्यत् । अर्षितव्यः अर्षणीयः ऋष्यः । अर्षिता ईदित् ऋष्टः
ऋष्टवान् ऋष्टिः । “शृङ्गाभ्यां रक्ष ऋषत्यवतिम्” अथ० ९,
४, १७ । अथ दाक्षणायुग्यमुपार्षति” शत० ब्रा० ५,
४, ३, ८ । “ह्रदं न हित्वान्यृषन्त्यूर्म्मयः” ऋ० १, ५२, ७,
“यदुदर्य्यस्य मेदस्य परिशिष्यते तद्गुदे न्यृषेत्” शत०
ब्रा० २, ८, ४, ५ । “अथ पर्ष्यृषति” इत्युपक्रम्य “समं भूमि
पर्यर्षणं करोति” ३, ६, १, १८ । अस्य वेदे भ्वादित्वमपि
दृश्यते । गणव्यत्यासात् साधुः । “अर्षन्त्वापस्त्वयेह प्रसूताः”
ऋ० ३, ३०९ । “ऋषी गतौ व्यत्ययेन शप्” भा० “तस्मा-
आपोघृतमर्षन्ति सिन्धवः” १, १२५, ५ । “मही न धारा-
त्यन्धो अर्षति” ९, ८६, ४४ । “एता अर्षन्त्यनला
भवन्ती” ४, १८, ६ । “एता स्वर्षन्ति हृद्यात् समुद्रात्”
४, ५८, ५ । “शशमास्कन्दमर्षति” यजु० २३, ५५ ।
  • अभि + आभिमुख्येन गतौ “अभ्यर्षत सुष्टुतिं गव्यमाजिमस्मा-
सु” ऋ० ४, ५८, १० । “कृण्वन्ति वरिवो गवे अभ्यर्षन्ति
सुष्टुतिम्” ९, ६२, ३ ।
  • नि + परि + सम् + इत्यादौ गत्यर्थधातोरिवार्थे । “गुहाकरिन्द्रं
याता वीर्य्येण न्यृष्टम्” ऋ० ४, १८, ० । “न्यृष्टं नितरां
प्राप्तम्” भा० । “अयं निधिः सरमे अद्रिबुध्नोगोभि-
रश्वेभिर्वसुभिर्न्यृष्यः” १०, १०८, ७ ।

ऋषद्गु पु० यदुवंश्ये राजभदे । “यदुस्तस्मान्महासत्वः क्रो-

ष्टा तस्माद्भविष्यति” इत्युपक्रम्य “वृजिनीवतस्तु भविता
ऋषद्गुरपराजितः । ऋषद्गोर्भविता पुत्रस्तश्चित्ररथ-
स्तथा” भा० अनु० १४७ अ ।

ऋषभ पु० ऋ--अभक् । १ ओषधिभेदे ओषधिभेदश्च ष्ट्रव्य-

गणान्तर्गत । स च सुश्रु० दर्शितः यथा
“अथातो द्रव्यसंग्रहणीयमध्यायं वाख्यास्यामः ।
समासेन सप्तत्रिंशद्द्रव्यगणा भवन्ति । तद्यथा विदारीगन्धा
विदारी सहदेवा विश्वदेवाश्वदंष्ट्रा प्रत्यकपर्णी शताबरी
सारिवा कृष्णसारिवा जीवकर्षभकौ महासहा क्षुद्रसहा
वृहत्यौ पुनर्णवैरण्डो हंसपादी वृश्चिकाल्यृषभी चेति” ।
तल्लक्षणाद्युक्तं भावप्र० “ऋषभातिविषा कृष्णा काकनासाच
चामरैः । जीवकर्षभकौ ज्ञेयौ हिमाद्रिशिस्वरोद्भवौ ।
रसोनकन्दवत्कन्दौ निःसारौ सूक्ष्मपत्रकौ । जीवकः कूर्च-
काकार ऋषभो वृषशृङ्गवत् । जीवकोमधुरः शृङ्गी
ह्रस्वाङ्गः कूर्चशीर्षकः । ऋषभो वृषभोवीरो विषाण्णी ब्राह्म
इत्यपि । जीवकर्षभकौ बल्यौ शीतौ शुक्रकफप्रदौ । मधुरौ
पित्तदाहघ्नौ काशवातक्षयापहौ” । अयञ्चाष्टवर्गान्तर्गतः ।
जीवकर्षभकौ मेदे काकोल्यौ ऋद्धिवृद्धिके । अष्टवर्गोऽष्ट-
भिर्द्रव्यैः कथितश्चरकादिभिः” भावप्र० । “राज्ञामप्यष्टवर्गस्तु
यतोऽयमतिदुर्णभः । तस्म दस्य प्रतिनिधिं गृह्णीयात्तद्गुणं
पृष्ठ १४५०
भिषक् । मेदा जीवककाकाली ऋद्धिर्वृद्धिस्तथा ऽसती ।
वरीविदार्य्यश्वगन्धावाराहीस्तु क्रमात् क्षिपेत्” भावप्र० ।
२ मुनिभेदे च । ऋषभकूटशब्दे मुनिभेदो दृश्यः । वर्षति रेतः
वृष--अभक् पृ० बलोपः । ३ वृषभे “ते ते भवन्तूक्षण
ऋषभासो वशा उत” ऋ० ६, १६, ४७ । ॠवभासो रेतोवर्ष-
कावृषभाः” भा० । “उप ऋषभस्य रेतस्युपेन्द्र! तव
वीर्य्ये” २८, ८ “ततो नियुक्ताः पशवो यथा शास्त्रं
मनीषिभिः । तं तं देवं समुद्दिश्य पक्षिणश्च यथाविधि
ऋषभाः शास्त्रपठितास्तथा जलचराश्च ये” सर्वांस्तान-
भ्ययुञ्जंस्ते तत्राग्निचयकर्मणि” भा० आश्व० ८८ ।
अश्वमेधस्य वृषभादयश्च सलक्षणा अश्वमेधशब्दे दर्शिताः
अस्य व्याध्रादिषु पाठात् उपमितसमासः । नरःऋषभ इव
वाक्ये नरर्षंभः एवं राजर्षभः पुरुषर्नभ इत्यादि । सर्वत्र
प्राशस्त्यं तेन द्योत्यते । “स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभ-
कुञ्जराः । सिंहशार्द्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः”
अमरोक्तेः । क्वचिद्वाक्येऽपि श्रेष्ठत्वं द्योत्यते ।
“सात्वतामृषभं सर्वे मूतावासममंसत” भाग० ३०२, १० ।
“स्वलक्षणा प्रादूरभूत् किलास्यतः स मे ऋषीणामृषभः
प्रसीदतु” भाग० २, ४, २३ । गोलक्षणान्तर्गतवृषभलक्षण-
मुक्तं वृहसं० “सास्राबिलरूक्षाक्ष्यो मूषकनयनाश्च न शुभदा
गावः । प्रचलच्चिपिटविषाणाः करटाः खरसदृशवर्णाः ।
दशसप्तचतुर्दन्त्यः प्रलम्बमुण्डानना विनतपृष्ठाः । ह्रस्वस्थू-
लग्रीवा यवमध्या दारितखुराश्च । श्यावातिदीर्घजिह्वा
गुल्फैरतितनुभिरतिवृहद्भिर्वा । अतिककुदाः कृशदेहा
नेष्टा हीनाधिकाङ्ग्यश्च । वृषभो ऽप्येवं स्थूलातिलम्ब-
वृषणः सिराततक्रोडः । स्थूलासिराचितगण्डस्त्रिस्थानं
मेहते यश्च । मार्जाराक्षः कपिलः करटो वा न शुभदो
द्विजस्येष्टः । कृष्णौष्ठतालुजिह्वः श्वसनो यूथस्य घात
करः । स्थूलशकृन्मणिशृङ्गः सितोदरः कृष्णसारवर्ण्णश्च ।
गृहजातो ऽपि त्याज्यो यूथावनाशावहो वृषभः । श्या-
मकपुष्पचिताङ्गो भस्मारुणसन्निभो विड़ालाक्षः । विप्रा-
णामपि न शुभं करोति वृषभः परिगृहीतः । ये चोद्ध-
रन्ति पादान् पङ्कादिव योजिताः कृशग्रीवाः । कातर-
नयना हीनाश्च पृष्ठतस्ते न भारसहाः । मृदुसंहतता-
म्रोष्ठास्तनुस्फिचस्ताम्रतालुजिह्वाश्च । तनुह्रस्वोच्चत्रवणाः
सुकुक्षयः स्पष्टजङ्घाश्च । आताम्रसंहतखुरा व्यूढोरस्का
वृहत्ककुदयुक्ताः । स्निग्धश्लक्ष्णतनुत्वग्रीमाणस्ताम्रतनु-
शृङ्गाः । तनुभूस्पृग्वालधया रक्तान्तविलोचना महो-
च्छ्वासाः । सिंहस्कन्धास्तन्वल्पकम्बलाः पूजिताः सुगताः ।
वामावर्तैर्वामे दक्षिणपर्श्वे च दक्षिणावर्तैः । शुभदा
भवन्त्यनडुहो जङ्घाभिश्चैणकनिभाभिः । वैदूर्य्यमल्लिका-
बुद्बुदेक्षणाः स्थूलनेत्रवर्माणः । पार्ष्णिभिरस्फुटिताभिः
शस्ताः सर्वेऽपि भारवहाः । घ्राणोद्देशे सबलिर्मार्जार-
मुखः सितश्च दक्षिणतः । कमलोत्पललाक्षाभः सुवाल-
धिर्वाजितुल्यजवः । लम्बैर्वृषणैर्मेषोदरश्च सङ्क्षिप्तवङ्क्षण-
क्रोडः । ज्ञेयो भाराध्वसहो जवेऽश्वतुल्यश्च शस्तफलः ।
सितवर्णः पिङ्गाक्षस्ताम्रविषाणेक्षणो महावक्त्रः । हंसो
नाम शुभफलो यूथस्य विवर्धनः प्रोक्तः । भूस्पृग्बालधि-
राताम्रवङ्क्षणो रक्तदृक् ककुद्मी च । कल्माषश्च स्वामिनम-
चिरात् कुरुते पतिं लक्ष्म्याः । यो वा सितैकचरणो
यथेष्टवर्णश्च सोऽपि शस्तफलः । मिश्रफलोऽपि ग्राह्यो
यदि नैकान्तप्रशस्तो ऽस्ति” । “ऋषभाख्यमेतदुदितं
सजसाः सयौ चेत्” इत्युक्ते ४ छन्दोभेदे ५ कर्णच्छिद्रे ६ कुम्भी-
रपुच्छे मेदि० ७ पर्वतभेदे धरणी । ८ वराहपुच्छे
९ जिनभेदे च हेम० “नाभिमूलात् यदा वर्ण उत्थितः
कुरुते ध्वनिम् । वृषभस्येव निर्वाति हेलया ऋषभः
स्मृतः” इति सङ्गीतदा० उक्ते १० स्वरभेदे । “निषधर्षभगा-
न्धारषड़्जमध्यमधैवताः । पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठो
त्थिताःस्वराः” अमरः । ११ भगवदवतारभेदे स च नाभेर्मेरु-
र्देव्यामजान भाग० ५ । ६ अ० । “नाभिरपत्यकामो मेरुदेव्या
भगवन्तं यज्ञपुरुषमवहितात्माऽयजत्” इत्युपक्रम्य
तपःप्रसन्नो भगर्वास्तयोः पुत्रतयावतीर्ण्णः इत्युक्तं तत्रैव ।
यथा “भवद्भिरवितथगीर्भिर्वरममुमभियाचितो यदमष्या-
त्मजो मया सदृशो भूयादिति” १८ । यथाहमेवाभि-
रूपश्च कैवल्यात् १९ अथापि ब्रह्मवादो न मृषा भवितु-
मर्हति ममैब हि मुखं यद् द्विजदेवकुलम् ।
तत आग्निध्रीयेऽंशकलयाऽवतरिष्यन्नात्मतुल्यमनुपलभ-
मान इति निशामयन्त्या मेरुदेव्याः पतिमभिधायान्तर्द्दधे
भगवान्! वर्हिषि तस्मिन्नेवं विष्णुदत्त भगवान्
परमर्षिभिः प्रसादितोनाभेः प्रियचिकीर्षया तदवरोधायने
मेरुदेव्यां धर्मान् प्रदर्शयितुकामो वातवसनानां श्रम-
णानामृषीणामूर्द्धमन्थिनां शुक्लया तन्वाऽवततार” ६ अ०
“शुक उवाच अथ तमुत्पत्त्यैवाभिव्यज्यमानभगबल्लक्षणं
साम्योपशमवैराग्यैश्वर्य्यमहाबिभूतिभिरनुदिनमेधमानानुभावं
प्रकृतयः प्रजा ब्राह्मणा दवताश्चावानतलसमवनायातित
रां जगृधुः । तस्य ह वा इत्थं वर्ष्मणा वरीयसा वृहच्श्लो-
पृष्ठ १४५१
केन च ओजसा बलेन श्रिया यशसा वीर्य्यशौर्य्याभ्याञ्च
पिता ऋषभ इतीदं नाम चकार । यस्य हीन्द्रः स्पर्द्ध-
मानो भगवान् वर्षे न ववर्ष तदवधार्य्य भगवानृषभदेवो-
योगेश्वरः प्रहस्यात्मयोगमायया स्वं वर्षमजनाभं नामाभ्य
वर्षत् । नाभिस्तु यथाभिलषितं सुप्रजास्त्वनवरुध्याति
प्रमोदभरविह्वलोगद्गदाक्षरया गिरा स्वैरं गृहीतनरलो-
कसाधर्म्यं भगवन्तं पुराणपुरुषं मायाविलसितमतिर्वत्स
तातेति सानुरागमुपलालयन् परां निर्वृतिमुपगतः ।
विदितानुरागमापौरप्रकृतिजनपदोराजानाभिरात्मजं
समयसेतुरक्षायामभिषिच्य ब्राह्मेणेषू पनिधाय सह मेरु-
देव्या विशालायां प्रसन्ननिपुणेन तपःसमाधियोगेन
नरनारायणाख्यं भगवन्तं वासुदेवमुपासीनः कालेन तन्म-
हिमानमवाप । यत्र ह पाण्डवेय! श्लोकावुदाहरन्ति ।
कोनु तत् कर्म राजर्षेर्नाभेरन्वाचरेत् पुमान् । अपत्यता-
मगाद्यस्य हरिः शुद्धैन कर्मणा । ब्रह्मण्योऽन्यः! कुतोना-
भेर्विप्रा मङ्गलपूजिताः । यस्य बर्हिषि यज्ञेशं दर्शयामासु-
रोजसा । अथ ह भगवानृषभदेवः स्वं वर्षं कर्मक्षेत्रमनुम-
न्यमानः प्रदर्शितगुरुकुलवासोलब्धवरैर्गुरुभिरनुज्ञातो
गृहमेधिनां धर्माननुशिक्षमाणोजयन्त्यामिन्द्रदत्तायामुभय-
विधलक्षणं कर्मसमाम्नायमभियुञ्जन्नात्मजानामात्मसमानानां
शतं जनयामास । येषां खलु महायोगी भरतोज्येष्ठः
श्रेष्ठगुण आसीत् येनेदं वर्षेति भारतमिति व्यपदिशन्ति” ।
१२ राजकर्त्तव्ये ऋषभसहस्रादिदक्षिणके एकाहसाध्ये
यागभेदे “ऋषभगोसवौ” कात्या० २२, ११, २, “ऋषभश्च
गोसवश्च क्रतू भवतः” कर्कः “पूर्वोराज्ञः” ४ । “पूर्वः
ऋषभसंज्ञोराज्ञः” कर्कः “दक्षिण ऋषभसहस्रं द्वादशं वा
शतम्” ५ । “ऋषभाणां सहस्रं द्वादशाधिकं शतं वा”
संग्रहः । १३ यज्ञतुरपुत्रे नृपभेदे च । “एकविंशस्तोमेन
ऋषभो याज्ञतुर ईजे शिक्नानां राजा तदेतद्गाथयाऽभिगी-
तम् । याज्ञतुरे यजनाने ब्रह्माण ऋषभे जनाः । अश्व-
मेधे धनं विप्रा विभजन्तेस्म दक्षिणाः” शत० १३, ५, ४, १५,

ऋषभकूट पुं० हेमकूटपर्वते भा० व० ११० अ० । “पर्वतं स

समासाद्य हेमकूटमनामयम् । अचिन्त्यानद्भुतान् भावान्
ददर्श सुबहून् नृप!” इत्युपक्रम्य तदाश्चर्य्यमूलप्रश्ने
युधिष्ठिरं प्रति लोमशवाक्यं यथा
“अस्मित् नृषभकूटेऽभूदृषभोनम तापसः । अनेकशत-
वर्षायुस्तपस्वी कोपनोभृशम् । स वै सम्भाष्यमाणोऽन्यैः
कोपाद्गिरिमुवाच ह । य इह व्याहरेत् कश्चिदुपलानु-
त्सृजेस्त्वमु । वातञ्चाहूय मा शब्दमित्युवाच स तापसः ।
व्याहरंश्चेह पुरुषो मेघशब्देन वार्य्य ताम् । एवमेतानि
कर्माणि राजँस्तेन महर्षिणा । कृतानि कानि चित् क्रो-
धात् प्रतिषिद्धानि कानि चित् । नन्दां त्वभिगता देवा पुरा
राजन्निति श्रुतिः । अन्वपद्यन्त सहसा पुरुषा देवदर्शिनः ।
ते दर्शनं त्वनिच्छन्तो देवाः शक्रपुरोगमाः । दुर्गञ्चक्रुरिमं
देशं गिरिप्रत्यूहरूपकम् । तदा प्रभृति कौन्तेय! नरा
गिरिमिमं सदा । नाशक्नु वन्नभिद्रष्टुं कुत एवाधिरोहितुम् ।
नातप्ततपसा शक्यो द्रष्टुमेष महागिरिः । आरोढुं वा
ऽपि कौन्तेय । तस्मान्नियत्वाग्भव । इह देवास्तदा सर्वे
यज्ञानाजह्रुरुत्तमान् । तेषामेतानि लिङ्गानि दृश्यन्तेऽ-
द्यापि भारत! । कुशाकारेव दूर्वेयं संस्तीर्णेव च भूरि-
यम् । यूपप्रकाराबहवो वृक्षाश्चेमे विशाम्पते! । देवाश्च
ऋषयश्चैव वसन्त्यद्यापि भारते! ।”

ऋषभगजविलसित न० “भत्रिनगैः स्वरात् खमृषभगजवि-

लसितमिति” पृ० र० उक्ते षोड़षाक्षरपादके वर्णवृत्तभेदे ।

ऋषभतर पु० तनुः ऋषभः तनुत्वे ष्टरच् । भारवहने मन्द

शक्तौ वृषभे । जातित्वेन षित्त्वात् स्त्रियां ङीष् । वृषभतरी ।

ऋषभद्वीप पु० न० ऋषभ इव श्वेतः द्वीपः । द्वीपभेदे श्वेतद्वीपे

यत्र क्रौञ्च पर्वतोऽस्ति स च कुमारेण विदारितः “ऋषभ-
द्वीपमासासाद्य सेव्यं क्रोञ्चनिसूदकम्” भा० व० ८४ अ० ।

ऋषभध्वज पु० ऋषभोवृषभोध्वजोऽस्य । वृषवाहने १ महादेवे ।

ऋषभकेतनादयोऽप्यत्र । २ अर्हद्विशेषे मेदिनिः ।

ऋषभी स्त्री ऋषभ + गौरा० ङीष् जातौ वा ङीष् । १ नराका-

रायां स्त्रियाम् २ शूकशिम्ब्याम् ३ सिरालायाम् ४
विधवायाञ्च मेदिनिः । ५ ऋषभजातिस्त्रियां स्त्रीगव्याम्
६ कपिकच्छ्वाञ्च । ऋषभशब्दे उदा० ।

ऋषि पु० ऋषति ज्ञानेन संसारपारं ऋषी गतौ कि । ज्ञा-

नेन संसारपारगते १ वशिष्ठादौ २ शास्त्रकृदाचार्य्ये ३ वेदे
४ किरणे च तस्यव्युत्पत्तिर्यथा । ऋषी हिंसा गतौ धातु-
र्विद्यासत्यतपःश्रुतिः । एष सन्निचयो यस्मात् ब्राह्मणश्च
ततस्त्वृषिः । विवृत्तसमकालंतु बुद्ध्व्या वृत्तिमृषिस्त्वयम् ।
ऋषन्ति परमां यस्मात् परमर्षिस्तत, स्मृतः । गत्यर्थादृषते
र्धातोर्नामनिर्वृत्तिकारणम् । यस्मादेतत् स्वतम्भूतस्तस्माच्च
ऋषिता मतेति” मत्स्या० पु० १२० अ० “अजान् ह वै पृश्नीं
स्तपस्यमानान् ब्रह्म स्वयम्भ्वभ्यानर्षत्ते ऋषयोऽपवतु
तदृषीणामृषित्वम्” ऐत० ब्रा० हलादिरप्यत्र “विद्याविदरध-
मतयोविषयः प्रसिद्धाः” भरतः । “सप्त ब्रह्म र्षिदेवर्षिम-
पृष्ठ १४५२
हर्षिपरमर्षयः । काण्डर्षिश्च श्रुतर्षिश्च राजर्षिश्च क्रमा-
वराः” रत्नकोषोक्ते सप्तविध ऋषिर्भवति । तेषां विशेषः
त्रिका० उक्तः यथा “व्यासाद्यास्तु महर्षयः । परमर्षयस्तु
भेलाद्याः देवर्षयः कणादयः । ब्रह्मर्षयो वसिष्ठाद्याः सुश्रु-
ताद्याः श्रुतवर्षयः । ऋतपर्णादयो राजर्षयः काण्डर्षय-
स्त्वमी । जैमिन्य द्याः” वसिष्ठाद्याश्च मरीच्याद्याः दश ।
“भृगुर्मरीचिरत्रिश्च अङ्गिरा पुलहः क्रतुः । मनुर्दक्षो
वसिष्ठश्च पुलस्त्यश्चेति ते दश । ब्रह्मणो मानसाह्येते
उत्पन्नाः स्वयमीश्वराः । परत्वेनर्षयस्तस्माद्भूतास्तस्मा-
न्महर्षयः” मत्स्य० १२० अ० । तेषां पुत्राणां तु तपसैव
ऋषित्वं यथोक्तं तत्रैव “ईश्वराणां सुतास्तेषामृषयस्तान्
निबोधत । काव्यो वृहस्पतिश्चैव कश्यपश्च्यवनस्तथा ।
उतथ्यो वामदेवश्च अगस्त्यः कौशिकस्तथा । कर्द्दमो
बालखिल्याश्च विश्रवाः शक्तिवर्चसः । इत्येते ऋषयः प्रोक्ता-
स्तपसा ऋषितां गताः” । किन्तु मरीच्यादीनामेव ऋषित्वं
भूरि प्रसिद्धम् । तएव भोगसमाप्तौ नक्षत्ररूपेण गगनम-
ण्डले उत्तरस्यां सारुन्धतीकाः स्थिताबभ्रंम्यन्ते तेषां च
गति कालसहितचारादि निरूपितं वृह० सं० यथा
“सैकावलीव राजति ससितोत्पलमालिनी सहासेव ।
नाथवतीव च दिग्यैः कौबेरी सप्तभिर्मुनिभिः । ध्रुव-
नायकोपदेशान्नरिनर्त्तीवोत्तरा भ्रमद्भिश्च । यैश्चारमहं
तेषां कथयिष्ये वृद्धगर्गमतात् । आसन्मघासु मुनयः शासति
पृथ्वीं युधिष्ठिरे नृपतौ । षड्द्विकपञ्चद्वियुतः (२५२६)
शककालस्तस्य राज्ञश्च । एकैकस्मिन्नृक्षे शतं शतं ते
चरन्ति वर्षाणाम् । प्रागुत्तरतश्चैते सदोदयन्ते ससाध्वीकाः ।
पूर्वे भागे भगवान् मरीचिरपरे स्थितो वसिष्ठोऽस्मात् ।
तस्याङ्गिरास्ततोऽत्रिस्तस्यासन्नः पुलस्त्यश्च । पुलहः क्रतु-
रिति भगवानासन्नानुक्रमेण पूर्वाद्याः । तत्र वसिष्ठं
मुनिवरमुपाश्रितारुन्धती साध्वी । उल्काशनिधूमाद्यैर्हता
विवर्णा विरश्मयो ह्रस्वाः । हन्युः स्वं स्वं वर्गं विपुलाः
स्निग्धाश्च तद्वृद्ध्यै । गन्धर्वदेवदानवमन्त्रौषधिसिद्धय-
क्षनागानाम् । पीड़ाकरो मरीचिर्ज्ञेयो विद्याधराणां च ।
शकयवनदरदपारतकाम्बोजांस्तापसान् वतोपेतान् । हन्ति
वसिष्ठोऽभिहतो विवृद्धिदो रश्मिसम्पन्नः । अङ्गिरसो
ज्ञानयुता धीमन्तो ब्राह्मणाश्च निर्दिष्टाः । अत्रेः
काजारभवा जलजान्यम्भोनिधिः सरितः । रक्षःपिशा-
वदानवदैत्यभुजङ्गाः स्मृताः पुलस्त्यस्य । पुलहस्य तु
मूलफलम् क्रतोस्तु यज्ञाः सयज्ञभृतः” ।
एते च स्वायम्मुव मन्वन्तरे सप्तर्षय आसन् ततोऽधिकार-
समाप्तौ नक्षत्ररूपेण नभोमण्डले स्थिताः । मन्वन्तरभेदे तु
अन्ये एव सप्तर्षयोभवन्ति यथाह हरि० ।
१ “मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः । पुलस्त्यश्च
वशिष्ठश्च सप्तैते ब्रह्मणः सुताः । उत्तरस्यां दिशि तथा
राजन् । सप्तर्षयः स्मृताः । नाभा नाम तथा देवास्त्वासन्
स्वायम्भुवेऽन्तरे” ।
२ और्वो वशिष्ठपुत्रश्च स्तम्बः काश्यप एव च । प्राणो-
वृहस्पतिश्चैव दत्तोनिश्च्यवनस्तथा । एते महर्षयस्तात!
वायुप्रोक्ता महाव्रताः ।
३ वसिष्ठपुत्राः सप्तासन् वासिष्ठा इति विश्रुताः ।
हिरण्यगर्भस्य सुता ऊर्ज्जानाम सुतेजसः । ऋषयोऽत्र मया
प्रोक्ताः कीर्त्त्यमानान्निबाध तान् ।
४ काव्यः पृयुस्तथैवाग्निर्जन्तुर्धामा च भारत । कपीवान
कपीवांश्च तत्र सप्तर्षयोऽपरे ।
५ वेदबाहुर्य्यदुध्रश्च मुनिर्वेदशिरास्तथा । हिरण्यरोभा-
पर्जन्य ऊर्द्धबाहुश्च सोमजः । सत्यनेत्रस्तथाऽत्रेय एते
सप्तर्षयोऽपरे
६ भृगुर्नभो विवस्वांश्च सुधामा विरजस्तथा । अतिनामा
सहिष्णुश्च सप्तैते तु महर्षयुः । चाक्षुषस्यान्तरे तात!
मनोर्द्देवानिमान् शृणु
७ अत्रिर्वशिष्ठो भगवान् कश्यपश्च महानृषिः गौतमश्च
भरद्दाजोविश्वामित्रस्तथैव च । तथैव पुत्रो भगवानृचीकस्य
महात्मनः । सप्तमोजमदग्निश्च ऋषयः साम्प्रत्रं दिवि ।
मन्वन्तरे व्यतिक्रान्ते चत्वारः सप्तका गणाः । कृत्वा कम
दिवं यान्ति ब्रह्मलोकमनामयम् । ततोऽन्ये तपसा युक्ताः
स्थानं तत्पूरयन्त्युत । अतीतावर्त्तमानाश्च क्रमेणैतेन
भारत! । एतान्युक्तानि कौरव्य! सप्तातीतानि भारत!
८ रामो व्यासस्तथात्रेयो दीप्तिमानिति विश्रुतः ।
भारद्वाजस्तयाद्रोणिरश्वत्थामा महाद्युतिः । गौतमस्यात्मज-
श्चैव शरद्वान्नाम गौतमः । कौशिको गालवश्चैव रुरुः
काश्यप एव च । एते श्चप्त महात्मानोभविष्या मुनिसत्तमाः ।
ब्रह्मणः सदृशाश्चैते धन्याः सप्तर्षयः स्मृताः ।
९ मेधातिधिस्तु पौलस्त्वोवसुः काश्यप एव च । ज्योति-
ष्मान् भार्गवश्चैव द्युतिमानङ्गिरास्तथा । सवनंश्चैव
वाशिष्ठ आत्रेयो हव्यवाहनः । पौलहः सत्यः इत्येते
मुनयो रौहितेऽन्तरे
१० दशमे त्वथ पर्य्याये द्वितीयस्यान्तरे मनोः । हविष्मान
पृष्ठ १४५३
पौलहश्चैव सुकृतिश्चैव भार्गवः । आपोमूर्त्तिस्तथात्रेयो
वाशिष्ठश्चाष्टकः स्मृतः । पौलस्त्यः प्रमतिश्चैव नभोगश्चैव
कश्यपः । अङ्गिरानभसः सत्यः सप्तैव परमर्षयः ।
११ एकादशे तु पर्य्याये तृतीयस्पान्तरे मनोः । तस्य सप्त
ऋर्षीश्चापि कीर्त्त्य मानान्निबाध मे । हविष्मान् काश्यपश्चापि
हविष्मान् यश्चं भार्गवः । तरुणश्च तथात्रेयोवासिष्ठ स्तनय-
स्तथा । अङ्गिराश्चोदधिष्ण्यश्च पौलस्त्योनिश्चरस्तथा ।
पुलहश्चाग्नितेजाश्च भव्याः भप्त महर्षयः ।
१२ चतुर्थस्याथ सावर्ण ऋषीन् सप्तशृणुष्व मे । द्युतिर्व-
शिष्ठ पुत्रश्च आत्रेयः सुतपास्तथा । अङ्गिरास्तपसोमूर्त्ति
स्तपस्वी काश्यपस्तथा । तपोधनश्च पौलस्त्यः पौलहश्च
तपोरविः । भार्गवःसप्तमस्तेषाम्”
१३ त्रयोदशेऽथ पर्याये भव्ये मन्वन्तरे मनोः । अङ्गिरा-
श्चैव धृतिमान् पौलस्त्यो हव्यपस्तु यः । पौलहस्तत्त्वदर्शी
च भार्गवश्च निरुत्सुकः । निष्प्रकम्पस्तथात्रेयो निर्म्मोहः
काश्यपस्तथा । वेतपाश्चैव वासिष्ठः सप्तैते तु महर्षयः ।
१४ चतुर्द्दशेऽथ पर्य्याये भौत्यस्यैवान्तरे मनोः । अग्नीध्रः
काश्यपश्चैव पौलस्त्यो भार्गवस्तथा । भार्गवोह्यतिबाहुश्च
शुचिराङ्गिरसस्तथा । युक्तश्चैव तथात्रेयः शुक्रोवाशिष्ठ
एवच । अजितः पौलहश्चैव अन्त्याः सप्तर्षयश्च ते ।
सप्तर्षीणां उत्तराह्युदयश्च” शत० ब्रा० २, १, २, १ । उक्तः
यथा “सप्तर्षीनुह स्म वै पुरर्क्षा इत्याचक्षते अमीह्युत्त-
राहि सप्तर्षय उद्यन्ति” ।
विश्वामित्रसृष्टाः सप्तर्षयस्तु दक्षिणस्यां नभोमण्डले स्थिताः
तदुक्तं “ततो ब्रह्मतपोयोगात् प्रजापतिरिवापरः ।
ससर्ज दक्षिणे भागे सप्तर्षीनपरान् पुनः” । “मनुमेकाग्र-
मासीनमभिगम्य महर्षयः” । “ऋषयो दीर्घसन्ध्यत्वाद्दीर्घ-
मायुरवाप्नुयुः” । “ऋषयःसंयतात्मानः इति च” मनुः ।
“वसन्नृ षिकुलेषु सः” “आकीर्ण्णमृषिपत्नीनाम्” रघुः ।
“ऋषीन् ज्योतिर्मयान् सप्त” “सप्तर्षिहस्तावचितावशेषा-
ण्यधो विवस्वान् परिवर्त्तमानः” कुमा० । वेदमन्त्रस्य
प्रथमं १४ द्रष्टरि च । “थेन यदृषिणा दृष्टं सिद्धिः
प्राप्ता च येन वै । मन्त्रेण, तस्य तत् प्रोक्तमृषि-
भावः स उच्यते” योगि या० । येन ऋषिणा कल्पादौ
योमन्त्रोदृष्टस्तस्य मन्त्रस्य स ऋषिः । तज्ज्ञानावश्यकत्वमार्ष-
शब्दे दर्शितम् तत्र वैदिकमन्त्राणामृषिनिरूपणञ्च सर्वानु-
क्रमणिकादौ दृश्यं संक्षेपेण तत्रोक्तमत्रोच्यते । “सर्व-
माग्नेयं” गायत्रं गौतमीयम्, सर्वं सावित्रमौष्णिहं
भारद्वाजीयम्, सर्वं सौम्यमानुष्टुभमाथर्व्वणिकम् । सर्वं
वार्हस्पत्यं वार्हतमाङ्गिरसम्, सर्वं वारुणं पाङ्क्तमालम्बाय-
नीयम्, सर्वमैन्द्रं त्रैष्टुभं याज्ञवल्कीयं, सर्वमादित्यदैवतं
जागतम् कौत्सम् । ज्योतिष्टोमे दीक्षाप्रभृति वक्ष्यमाण
दीक्षायां भृगुरग्नाविष्णूगायत्री । प्रायणीये, आङ्गिरसो-
ऽदितिरुष्णिक्, क्रये विश्वामित्रः सोमोऽनुष्टुप् । आतिथ्यै
वसिष्ठो विष्णुर्वृहती, प्रवर्ग्ये कश्यप आदित्यः पङ्क्तिः ।
उपसत्स्वात्रेय उपसद्देवता त्रिष्टुप् । अग्नीषोमीयेऽग-
स्त्योऽग्नीषोमौ जगती । प्रायणीयेऽतिरात्र आग्निवेश्योऽ-
होरात्रे अतिजगती, चतुर्विंशत्यहे सौकरायणः संवत्सरः
शक्वरी । अतिप्लवे षड़हे सावर्णोऽर्द्धमासा मासाश्चेति
शक्वरी, पृष्ठ्ये षड़हे सावकायन ऋतवोऽष्टिः, अभिजिति,
प्रियव्रतोऽग्निरत्यष्टिः, स्वरसामसु सरस्वत्यापि धृतिः, विषुवति
रौहिणायण आदित्योऽतिधृतिः, विश्वजिति सौभर इन्द्र
निरृतिः कृतिः, गो आयुषोर्वार्क्कलिर्मित्रावरुणौ प्रकृतिः,
दशरात्र आचार्यो विश्वेदेवा आकृतिः, दशरात्रिके पृष्ट्ये
षड़हे मावेयो दिशो विकृतिः, छन्दोगेषु श्वौल्वायन इमे
लोकाः संकृतिः, दशमेऽहनि पराशरः संवतसरोऽतिकृतिः,
महाव्रते शैलिनः प्रजापतिरुत्कृतिः, उदयनीयेऽतिरात्रे
भौवनायनो वायुश्छन्दांसि सर्वाणि, ऋषिभिरुपलक्षितं
वाक्यमृषयः” । अधिकं हेमा० व्रत० दृश्यम् । भावे कि ।
१५ दर्शने १६ ज्ञाने च । ऋषिकृत् ऋषिमनाः । १७
तन्त्रोक्तमन्त्रस्य प्रथमोपासानेन सिद्धे ऋष्यादिशब्दे पु० उदा० ।

ऋषिकुल्या स्त्री ऋषीणां कुल्येव । १ नद्यां त्रिका० । ऋषीणां

कृतिमा सरित् । मानससरोऽन्तिकस्थे ऋषिनिर्म्मितसरोवरे
“तांस्तु सान्त्वेन निर्ज्जित्य मानसं सर उत्तमम् ।
ऋषिकुल्यास्तथा सर्व्वा ददर्श कुरुनन्दनः । सरो मानस
मासाद्य हाटकानभितः प्रभो! । गन्धर्वरक्षितं देश
मजयत् पाण्डवस्ततः” भा० स० २७ अ० । ३ तीर्थभेदे
“ऋषिकुल्यां समासाद्य वासिष्टञ्चैव भारत! वासिष्ठी
समभिक्रम्य सर्वे वर्ण्णा द्विजातयः । ऋषिकुल्यां समासाद्य
नरःस्नात्वा विकल्मषः । देवान् पितॄंश्चार्चयित्वा
ऋषिलोकं प्रपद्यते” भा० व० ८४ अ० । “भूमिभागास्तथा पुण्या
गङ्गाद्वारमथापि च । ऋषिकुल्यास्तथामेध्या नदी चित्रव-
हातथा” भा० अनु० १६५ अ० । ऋषिकुलाय हितं यत् ।
४ ऋषिकुलहिते त्रि० । “उभयोरृषिकुलपायाः
सरस्वत्याः सुरोधसोः” भाग० ३, २२, २६ । “ऋषिकुल्यायाः
ऋषिकुलहितायाः सरस्वत्याः” श्रीधरः । ऋषिकुलतर्हीत्
पृष्ठ १४५४
यत् । ५ऋषिकुलयोग्ये त्रि० । “अथ तस्योशतीं देवी-
मृषिकुल्यां सरस्वतीम्” भाग० ३, १६, १३, । सा च
“भूम्न ऋषिकुल्यायामुद्गीथस्ततः प्रस्तारो देवकुल्यायाम्”
भाग० ५, १५, ६ । भारतवर्षस्थे ६ महानदीभेदे तत्र-
त्यमहानदीकीर्त्तने भा० ५, १९, १८ । चन्द्रवशा ताम्र-
पर्ण्णीत्युपक्रम्य “ऋषिकुल्याऽद्रिसामा कौशिकी मन्दा-
किनीति ताः प्रदर्श्य इति महानद्य इत्युक्तम् ।

ऋषिकृत् त्रि० ऋषिं दर्शनं करोति कृ--क्विप् ६ त० । सर्व्व-

द्रष्टरि । “ऋषिमनाश्च ऋषिकृत् स्वर्षाः” ऋ० ९, ९६, १८,

ऋषिगिरि पु० गिरिव्रजाख्यमागधदेशस्थजरासन्धपुरसन्निकृ-

ष्टस्थेषु पञ्चसु पर्व्वतेषु मध्ये पर्वतभेदे “एष पार्थ! महान्
भाति पशुमान्नित्यमम्बुमान् । निरामयः सुवेश्माढ्यो
निवेशो मागधः शुभः । वैहारोविपुलः शैलो वराहो
वृषमस्तथा । तथा ऋषिगिरिस्तात! शुभाश्चैत्यकपञ्चमाः ।
एते पञ्च महाशृङ्गाः पर्व्वता शीतलद्रुमाः । रक्षन्तीवाभि
संहत्य संहताङ्गागिरिव्रजम्” भा० स० २० अ०

ऋषिजाङ्गलिकी स्त्री ऋषिप्रिया जाङ्गलिकी । ऋक्षगन्धावृक्षे रत्नमा०

ऋषितर्पण न० ऋषीणां तर्पणम् । ऋषीनुद्दीश्य जलाञ्चलि

दाने तद्विधिः आ० त० “कृतोपवीतो देवेभ्यो निवीती च
भवेत्ततः । मनुष्यांस्तर्पयेद्भक्त्या ऋषिपुत्रानृषींस्तथा ।
सनकश्च सनन्दश्च तृतीयश्च सनातनः । कपिलश्चासुरिश्चैव
वोढुः पञ्चशिखस्तथा । सर्वेते तृप्तिमायान्तु मद्दत्तेनाम्बुना
सदा । मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् । प्रचेत
सं वसिष्ठञ्च भृगुं नारदमेव च । देवान् सर्वानृषीन् सर्वान्
तर्पयेदक्षतोदकैः” अक्षता अत्र यवाः “अक्षताश्च यवाः प्रोक्ताः”
इत्युक्तेः । तच्च स्नानकाले नित्यं कर्त्तव्यम् यथाह शाता०
“तर्पणञ्च शुचिः कुर्यात् प्रत्यहं स्नातकोद्विजः । देवेभ्यश्च
ऋषिभ्यश्च पितृभ्यश्च यथाक्रमम् । “नित्यं स्नात्वा शुचिः
कुर्याद्देवर्षिपितृतर्पणम्” मनुः । तर्पणस्य प्रधानाङ्गभेदेन
द्विविधता तर्पणशब्दे वक्ष्यते ।

ऋषिपञ्चमी स्त्री ऋषीणां सप्तर्षीणां पूजाङ्गं पञ्चमी । भाद्र-

शुक्लपञ्चम्याम् । तत्र हि सप्तर्षीन् प्रतिमास्थान् पूजयित्वा-
ऽकृष्टभूमिजशाकेन वर्त्तनम् कार्यम् । सप्त वर्षाण्येवं कृत्वा
अष्टमेऽब्दे सप्तकुम्भस्थितासु प्रतिमासु सप्तर्षीन् संपूज्य
तन्मन्त्रेणाष्टोत्तरशतं तिलैर्हुत्वा सप्त ब्राह्मणान् भोजये-
दिति विधिः । सूलं हेमाद्रौ व्रतखण्डे दृश्यम् । मा
च मध्याह्नव्यापिनी ग्राह्या “पूजाव्रतेषु सर्वेषु मध्या-
ह्नव्यापिनी तिथिरिति” माधवीये हारीतोक्तेः दिनद्वये
तथालाभे हेमाद्रिमते परा ग्राह्या “परासिता स्यात्
पञ्चमीति” दीपिकोक्तेः माधवमते पूर्व्वा “सर्वत्र पञ्चमी
पूर्वा” इत्युक्तेः युग्मशास्त्राच्च । “ऋषिपञ्चमी षष्ठीयुतैव
ग्राह्येति” दिवोदासः ।

ऋषिप्रोक्ता स्त्री ऋषिणा धन्वन्तरिणाभैषज्याय प्रोक्ता । माषपर्ण्याम्” रत्नमा० ।

ऋषिबन्धु पु० ॠषिर्बन्धुः उत्पादकोऽस्य । १ ऋषिवंशजाते

अकृष्टर्षौ २ शरभनामके ऋषौ च । “वस्वपावृणोः शरभाय
ऋषिवन्धवे” ऋ० ८, १००, ५ । ६ त० । ३ ऋषिमित्रे च ।

ऋषिमनस् पु० ऋषिर्सर्वार्थदर्शि मनोऽस्य । सर्वार्थदर्शिमनस्के

ऋषिकृच्छब्दे उदा० ।

ऋषियज्ञ पु० ऋष्युद्देश्यको यज्ञः ऋषिर्वेदस्तदध्ययनरूपो यज्ञो

वा । नित्यं गृहस्थकर्त्तव्यपञ्चयज्ञान्तर्गते वेदाध्ययनरूपे
ब्रह्मयज्ञे “ऋषियज्ञं देवयज्ञं भूतयज्ञञ्च सर्वदा । नृयज्ञं
पितृयज्ञञ्च यथाशक्ति न हापयेत् । एतानेके महायज्ञान्
यज्ञशास्त्रविदो जनाः” । स्वाध्यायेनार्चयेतर्षीन् होमैर्देवान्
यथाविधि । पितॄन् श्राद्धैश्च नॄनन्नैर्भूतानि बलिकर्मणा”
मनुः

ऋषिलोक पु० ऋषिभिर्भोग्योलोकः । सत्यलोकसन्निकृष्टस्थे

ऋषीणां भोगस्थानभेदे ऋषिकुल्याशब्देउदा० । स च लोकः
शनिलोकादूर्द्ध्वं ध्रुवलोकादधोवर्त्तमानः यथाह काशीखण्डे
शनिलोकवर्णनानन्तरं “नेत्रयोः प्राघुणीचक्रे ततः सप्तर्षि
मल्यलम्” इत्युपक्रम्य “शिवशर्म्मन्! शिवमते! सदा सप्तर्ष-
योऽमलाः । वसन्तीह प्रजाः स्रष्टुं विनियुक्ताः प्रजा-
सृजा । मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः ।
वसिष्ठश्च महाभागा ब्रह्मणोमानसाः सुताः । सप्त ब्रह्माण
इत्येते पुराणे निश्चयं गताः । संभूतिरनसूया च क्षमा
प्रीतिश्च सन्नतिः । स्मृतिरूर्ज्जा क्रमादेषां पत्न्योलोकस्य
मातरः । एतेषां तपसा चैतद्धार्य्यते भुवनत्रयम् । उत्पाद्य
ब्रह्मणा पूर्व्वमेतत् प्रोक्ता महर्षयः । प्रजाः सृजत रे
पुत्रा! नानारूपाः प्रयत्नतः” इत्यादिकमुपवर्ण्य “व्रुवतो-
रिति संकथां तथा गणयोर्वैष्णवयोर्मुदावहाम् । ध्रुवलोक
उपागतस्तयोर्नयनातिथ्यमतथ्यवर्ज्जितः” १८ अ० ।

ऋषिश्राद्ध न० ६ त० । ऋषोणां कर्त्तव्ये श्राद्धे । तत्र हि बह्वा-

रम्भे लघुक्रिया तदुक्तम् “अजायुद्धे ऋषिश्राद्धे प्रभाते
मेघडम्बरे । दम्पत्योः कलहे चैव बह्वारम्भे लघुक्रिया” ।

ऋषिसाह् त्रि० ऋषीन् सहते अभिभवति सह--ण्वि ६ त० ।

ऋषीणां द्रष्टृणामभिभावके । “ॠतस्य धीतिमृषि-
षाडवीवशत्” ऋ० ९, ७६, ४ । “सहेसाड” पा० षत्वपक्षे
षत्वमन्यत्र ऋषिसाहौ इत्यादौ न षत्वमिति भेदः ।
पृष्ठ १४५५

ऋषिषाण पु० ऋषिभिः सायते भज्यते षण--संभक्तौ कर्मणि

घञ् वेदे षत्वम् । ऋषिभिः संभक्ते । “ये त्वा सृजन्त्यृ-
षिषाण! वेधसः” ऋ० ९, ८६, ४ । “ऋषिषाण! ऋषिभिः
संभक्त” भा० । लोके तु न षत्वम् ।

ऋषि(ष्टि)षेण पु० नृपभेदे । ततो विदा० अञ् । आर्षि

(र्ष्टि)षेणः । तद्गोत्रापत्ये पुंस्त्री० स्त्रियां ङीप् ।

ऋषिष्टुत त्रि० ऋषिभिः स्तुतः वेदे षत्वम् । ऋषिभिः स्तुते

“ऋषिष्टुता जरयन्ती” ऋ० ७, ७५, ५ । २ अग्नौ च “ऋषि-
ष्टुत इति ऋषयोह्येतमग्रेऽस्तुवंस्तस्मादाहर्षिष्टु त इति”
शत० १, ४, २, ६ । लोके तु न षत्वम् । क्वचिल्लोकेऽपि
षत्वम् । “ऋषिष्टुतां विष्णुपदीं पुराणाम्” भा० अनु० २७

ऋषिस्तोम पु० एकाहसाध्ये यागभेदे । “ऋषिस्तोमा व्रात्य-

स्तोमाश्च पृष्ठ्याहानि” आश्व० श्रौ० २५ । “ऋषिस्तोमा
नाम सप्त एकाहाः । उभयत्र सप्तमोज्योतिष्टोमः
प्रकृतिः” नारा० ।

ऋषिस्वर पु० ऋषिभिः स्वूर्य्यते शब्द्यते स्तूयते स्वॄ--कर्मणि

अप् ६ त० । ऋषिभिः स्तुत्ये । “ऋषिस्वरं चरति
यासु नाम ते” ऋ० ५, ४४, ८ । “ऋषिस्वरमृषिभिः
स्तुत्यम्” भा० ।

ऋषिसर्ग पु० ऋषिभिः कृतः सर्गः । ब्रह्मणानियुक्तैरृषिभिः कृते जगत्सर्जने ।

ऋषी स्त्री ऋषि + गौरा० स्त्रियां ङीष् । ऋषिपत्न्याम् ।

ऋषि(षी)क पु० ऋष्यां भवः क वा ह्रस्वः । ऋषिपत्नी

गर्भजाते ऋषेरौरसे पुत्रे । “ऋषिपुत्रा ऋषीकास्तु मैथु-
नात् गर्भसम्भवात् । परत्वेनर्षयस्ते वै भूताये ऋषिकास्ततः ।
ऋषीकाणां सुताये वै विज्ञेषा ऋषिपुत्रकाः” इत्युपक्रम्य
कतिचिदृषीनुक्त्वा “तेषां पुत्रानृषीकांस्तु गर्भोत्पन्नान्नि-
वोधत” इत्युपक्रम्य ऋषीणामौरसान् कतिचिनुक्त्वा “इत्येते
ऋषिकाः सर्वे सत्येन ऋषितां गताः” मत्स्यपु० १२० अ० ।

ऋषीवत् त्रि० ऋषिः स्तोतृत्वेनास्त्यस्य मतुप् “छन्दसीरः”

पा० मस्य वः दीर्घः । ऋषिस्तोतृके ऋषिस्तुते । “शिप्रिन्नृ-
षीवः शचीवो” ऋ० ८, २, २८, “ऋषीवः!
ऋषिमिर्युक्त” भा० । अत्र “मतुवसोरु सम्बुद्धौ छन्दसिं” पा०
सम्बुद्धौ नस्थाने रुः । ऋषीवःशब्दकल्पनं पामादिकमेव ।
लोके तु ऋषिमत् इत्येव ।

ऋषीवह त्रि० ऋषीन् वहति पचा० अच् ६ त० “इकोवहेः

पीलौ” पा० दीर्घः । ऋषिवाहके

ऋषु पु० ऋष--गतौ कु । “अनवरतगतियुक्ते सूर्य्यरश्मौ “ज्येष्ठे

भिर्यो भानुभिरृषूणां पर्योति” ऋ० १०, १, “ऋषूणां सूर्य्य-
रश्मीनाम्” भा० १ गन्तृमात्रे २ महति ३ बलवति ४ ज्ञातृ-
मात्रे च “अग्रेरेभोन जरत ऋषूणां जूर्णिर्होत ऋषूणाम्”
ऋ० १, १२०, “ऋषूणामागन्तॄणाम्” “ऋषूणां महताम्
ज्ञानवताञ्च” भा० । ५ मन्त्रद्रष्टरि ऋषौ च “हव्योभुवद्वस्तुरृ-
षूणाम्” ऋ० ८, ७१, १५, ऋषूणामृषीणां सूक्तादिद्रष्टॄ-
णाम्” भा० ।

ऋष्टि स्त्री ॠष--करणे क्तिन् । उभयतो धारायुक्ते १ खड्गे ।

२ खड्गमात्रे अमरः । ३ आयुधमात्रे च “चित्रोवोयामः
प्रयतास्वृष्टिषु” ऋ० १, १६६, ४, “ऋष्टिषु युद्धस्थहेतिषु”
भा० । “अंशेष्वेषां निमिमृक्षुरृष्टयः” ऋ० १, ६४, ४,
“ऋष्वा ऋष्टीरसृक्षत” ऋ० ५, ५२, ६, “ऋष्टीरायुषवि-
शेषान्” भा० “वाशीमन्त ऋष्टिमन्तो मनीषिणः” ऋ० ५,
५७, २, “ऋष्टिर्नाम छुरिका” भा० “शरशक्त्यृष्टि वृष्टिभिः”
देवोमा० “धनूंषि चाग्र्याणि शराश्च चित्रा शक्त्यृष्टयः
काञ्चनभूषणाश्च” भा० आ० १९४ अ० “कोवोऽन्तर्मरुत
ऋष्टिविद्युतः” ऋ० १, १६८, ५, “ऋष्टिविद्युत ऋष्ट्या मेघभे-
दनायुधविशेषेण विद्योतमानाः” भा० भावे क्तिच् । ४
हिंसायाम् ५ अनिष्टोत्पादने । “हिरण्यनिर्णिगुपरा
ऋष्टिः” ऋ० १, १६७६, रिष हिंसायां रिष्टिरप्यत्र
“गोचरे वा विलग्ने वा ये ग्रहा रिष्टिसूचकाः” ज्योति०
६ दीप्तौ च । ऋष्टिरस्त्यस्य मतुप् । रिष्टियुक्ते दीप्तियुक्ते
त्रि० स्त्रियां ङीप् “विद्युद्रथा मरुत ऋष्टिमन्तो दिवो-
मर्या” ऋ० ३, ५४, १३ “ऋष्टिमन्तो दीप्तिमन्तः” भा०

ऋष्टिषेण पु० नृपभेदे ततः पाठान्तरे विदा० अञ् शिवा०

अण् वा । आर्ष्टिषेण तत्पुत्रे । “आर्ष्टिषेणोहोत्र
मृषिर्निषीदन्देवापिर्देवसुमतिं चिकित्वान्” एतामृच-
मधिकृत्य यास्केनेतिहासो वर्ण्णितः यथा “तत्रेति-
हासमाचक्षते देवापिश्चार्ष्टिषेणः शान्तनुश्च द्वौ कौरव्यौ
भारतौ बभूवतुः स शान्तनुः कनीयानभिषेचयाञ्चक्रे
देवापिस्तपः प्रपेदे ततः शान्तनोराज्ये द्वादश वर्षाणि देवो
न ववर्ष तमूचुर्ब्राह्मणाः अधर्मस्त्वया चरितो ज्येष्ठं भ्रा-
तरमन्तरेत्यभिषेचितं तस्मात्ते देवो न वर्षतीति” ऋष्टि-
षेणस्य नामान्तरं प्रतीप इति । “प्रतिश्रवसः प्रतीपः
खलु शैव्यामुपयेमे मनुं नाम तस्यां पुत्रानुत्पादयामास
देवाप्रिं शान्तनुं वाह्लीकं चेति देवापिः खलु वाल
एवारण्यं विवेश शान्तनुस्तु महीपालो बभूवेति” भा०
आ० ९५ । “ऋक्षस्तस्माद्दिलीपोऽभूत् प्रतीपस्तस्य चा-
पृष्ठ १४५६
त्मजः । देवापिः शान्तनुस्तस्य बाह्लीक इति चात्मजाः ।
पितृराज्यं परित्यज्य देवापिस्तु वनं गतः । अभवच्छान्त
नूराजा प्राङ्महाभिषसंज्ञितः । समा द्वादश तद्राज्ये न
ववर्ष यदा विभुः । शान्तनुर्ब्राह्मणैरुक्तः परिवेत्ता
यदग्रभृक् । राज्यं देह्यग्रजायाशुपरं राष्ट्रविवृद्धये ।
एवमुत्तौ द्विजैर्ज्येष्ठं छन्दयामास सोऽब्रवीत् । नाहं राजा
त्वमेवाङ्ग विप्रान् वृष्टौ वृणु! प्रभो । तन्मन्त्रिप्रहितैर्विप्रै-
र्वेदाद्विभ्रंशितोगिरा । वेदवादातिवादान् वै ततो देवो
ववर्ष ह । देवापिर्योगमास्थाय कलापग्राममास्थितः ।
सोमवंशे कलौ नष्टे कृतादौ स्थापतिष्यति” भाग० ९, २२,
१३ श्लो० । अष्टिषेणशब्दस्यावयवार्थो निरु० दर्शितो
यथा “आर्ष्टिषेण ऋष्टिषेणस्य पुत्रः इषितसेनस्येति
वा । सेना सेश्वरा समानगतिर्वा । पुत्रः पुरु त्रायते
निपरणाद्वा पुन्नरकं ततस्त्रायते इति वा” ।

ऋष्य पु० ऋष--हिंसायां कर्नणि क्यप् अघ्न्यादि० यत्

नि० । “ऋष्योनीलाण्डकोलोके सरोष इति कीर्त्तितः”
इत्युक्ते १ मृगभेदे ।

ऋष्यकेतु पु० अनिरुद्धे त्रिका० । ऋष्यकेतनादयोऽप्यत्र ।

ऋष्यगता स्त्री ऋष्यैव गता ज्ञाता । ऋष्यप्रोक्तावृक्षे शब्दरत्ना०

ऋष्यगन्धा स्त्री ऋष्यस्य गन्ध इव गन्धो यस्याः । १ वृद्धदारके

वृक्षे । २ क्षीरविदार्यां ३ महाश्वेतायाम् ।

ऋष्यजिह्व न० सुश्रुतोक्ते महाकुष्ठरोगभेदे । सुश्रुते ।

“सप्त महाकुष्ठानि” इत्युपक्रम्य “तत्र महाकुष्ठान्यरुणौ
डुम्बरर्ष्यजिह्वकपालकाकणपुण्डरीकदद्रव इति” विभज्य ।
तत्र “वातेनारुणं, पित्तेनौडुम्बरर्ष्यजिह्वकपालकाकणा-
नि । श्लेष्मणा पौण्डरीकं दद्रुकुष्ठञ्चेति” तन्निदानमुक्त्वा
“ऋष्यजिह्वाप्रकाशखरत्वानि ऋष्यजिह्वानि” लक्षितम् ।

ऋष्यप्रोक्ता स्त्री ऋषिभिरप्रोक्ता ऋष्य इव प्रोक्ता इति वा ।

१ शताबर्याम्, २ अतिबलायाम्, ३ शूकशिम्बीवृक्षे च ।
“ऋष्यप्रोक्ता वयस्था च” सुश्रु० ।

ऋष्यमूक पु० ऋष्यो मृगो मूको यत्र । “ऋष्यमूकस्तु पम्पायाः

पुरतः पुष्पितद्रुमः” इति रामायणोक्ते पम्पासरोऽन्तिकस्थे
पर्वतभेदे “ऋष्यमूकमगात् कपिः” भट्टिः अयञ्च पर्वतः
कूर्मविभागे वृह० दक्षिणस्थतयोक्तः “अथ दक्षिणेन
लङ्केत्युपक्रप्य “क्रौञ्चद्वीपजटाधरकावेर्य ऋष्यमूकश्च” ।

ऋष्यशृङ्ग पु० ऋष्यस्य मृगभेदस्य शृङ्गमिव शृङ्गमस्य । विभा-

ण्डकमुनिपुत्रे लोमपादराजकन्यायाः शान्तायाः पत्यौ
ऋषिभेदे तस्योत्पत्त्यादि भा० व० ११० अ० उक्तं यथा ।
“विभाण्डकस्य विप्रर्षेस्तपसा भावितात्मनः । अमोघवी-
र्थ्यस्य सतः प्रजापतिसमद्युतेः । शृणु पुत्रो यथा जात
ऋष्यशृङ्गः प्रतापवान् । महार्हस्य महातेजा बालः स्थवि-
रसम्मतः । महाह्रदं समासाद्य काश्यपस्तपसिस्थितः ।
दीर्घकालं परिश्रान्त ऋषिः स देवसम्मतः । तस्य रेतः
प्रचस्कन्द दृष्ट्वाप्सरसमुर्वशीम् । अप्सूपस्पृशतो राजन्!
मृगी तच्चापिबत्तदा । सह तोयेन तृषिता गर्भिणी
चाभवत्ततः । सा पुरोक्ता भगवता ब्रह्मणा लोककर्त्तृणा ।
देवकन्या मृगी भूत्वा मुनिं सूय विमोक्ष्यसे । अमोघ-
त्वाद्विधेश्चैव भावित्वाद्दैवनिर्म्मितात् । तस्यां मृग्यां
समभवत्तस्य पुत्रो महानृषिः । ऋष्यशृङ्गस्तपोनित्यो वन
एवाभ्यवर्त्तत । तस्यर्षेः शृङ्गं शिरसि राजन्नासीन्महा-
त्मनः । तेनर्ष्यशृङ्ग इत्येवं ततः स प्रथितोऽभवत् । न
तेन दृष्टपूर्ब्बोऽन्यः पितुरन्यत्र मानुषः । तस्मात्तस्य मनो
नित्यं ब्रह्मचर्य्येऽभवन्नृप । एतस्मिन्नेव काले तु सखा
दशरथस्य वै । लोमपाद इति ख्यातो अङ्गानामीश्वरोऽ-
भवत् । तेन कामात् कृतं मिथ्या ब्राह्मणस्येति नः
श्रुतम् । स ब्राह्मणैः परित्यक्तस्तदा वै जगतः पतिः ।
पुरोहितापचाराच्च तस्य राज्ञो यदृच्छया । न ववर्ष
सहस्राक्षस्ततोऽपीड्यन्त वै प्रजाः । स ब्राह्मणान् पर्य्यपृच्छ-
त्तपोयुक्तान्मनीषिणः । प्रवर्षणे सुरेन्द्रस्य समर्थान् पृथी-
वीपते! । कथं प्रवर्षेत् पर्जन्य उपाषः परिदृश्यताम् ।
तमूचुर्नोदितास्तेन स्वमतानि मनीषिणः । तत्र त्वेको
मुनिवरस्तं राजानमुवाच ह । कुपितास्तव राजेन्द्र! ब्रा-
ह्मणां निष्कृतिं चर । ऋष्यशृङ्गं मुनिसुतमानयस्व च
पार्थिव! । वानेयमनभिज्ञञ्च नारीणामार्जवे रतम् ।
स चेदवतरेद्राजन् विषयं ते महातपाः । सद्यः प्रवर्षेत्
पर्जन्य इति मे नात्र संशयः । एतच्छ्रुत्वा वचो राजन्!
कृत्वा निष्कृतिमात्मनः । स गत्वा पुनरागच्छत प्रसन्नेषु
द्विजातिषु । राजानमागतं श्रुत्वा प्रतिसंजहृषुः प्रजाः ।
ततोऽङ्गपतिराहूय सचिबान्मन्त्रकोविदान् । ॠष्यशृङ्गा-
गमे यत्नमकरोन्मन्त्रनिश्चयम् । सोऽध्यगच्छदुपायन्तु
तैरमात्यैः सहाच्युत! । शास्त्रज्ञैरलमर्थज्ञैर्नीत्यां च
परिनिष्ठितैः । तत आनाययामास वारमुख्या महीपतिः ।
वेश्याः सर्वत्र निष्णातास्ता उवाच स पार्थिवः । ऋष्य-
शृङ्गमृषेः पुत्रमानयध्वमुपायतः । लोभयित्वाभिविश्वास्य
विषयं मम शोभनाः!” ।
ततोवेश्याभिश्छलेन तस्योपहरणमुपवर्ण्य “ततो राजन्!
पृष्ठ १४५७
क श्यपस्यैकपुत्त्रं प्रवेश्य योगेन विमुच्य नावम् । प्रमो-
दयन्त्यो विविधैरुपायैराजग्मुरङ्गाधिपतेः समीपम् ।
संस्थाप्य तामाश्रमदर्शने तु सन्तारितां नावमथातिशु-
भ्राम् । तीरादुपादाय तथैव चक्रे नाव्याश्रमं नाम वनं
विचित्रम् । अन्तःपुरे तं तु निवेश्य राजा विभाण्ड-
कस्यात्मजमेकपुत्रम् । ददर्श देवं सहसा प्रवृष्टमापूर्य्य
माणञ्च जगज्जलेन । स लोमपादः परिपूर्णकामः सुतां
ददावृष्यशृङ्गाय शान्ताम्” अनेनैव याजयित्वा दशरथेन
पुत्रचतुष्टयं लेभे इति कथा रामायाणादिस्थानुसन्धेया
“मान्योमुनिः स्वां पुरमृष्यशृङ्गः” भट्टिः ।

ऋष्यादि पु० ऋषिरादिरस्य । वैदिकमन्त्रस्यावश्यज्ञातव्ये

ऋषिप्रभृतिपञ्चके तच्च पञ्चकं यथा “आर्षं छन्दश्च दैवत्यं
विनियोगस्तथैव च । वेदितव्यं प्रयत्नेन ब्राह्मणेन विपश्चि-
ता” योगिया० । ब्राह्मणेन सह आर्षादिकमित्यर्थः व्यक्त-
माह स एव “यस्तु जानाति तत्त्वेन आर्षं छन्दश्चदैवतम् ।
विनियोगं ब्राह्मणञ्च मन्त्रार्थज्ञानकर्म च । एकैकस्या ऋचः
सोऽभिवन्द्यीह्यतिथिवद्भवेत् । देवतायाश्च सायुज्यं गच्छ-
त्यत्र न संशयः । पूर्वोक्तेन प्रकारेण ऋष्यादीन् वेत्ति यो
द्विजः । अधिकारोभवेत्तस्य रहस्यादिषु कर्मसु । मन्त्रे
मन्त्रे प्रयत्नेन ज्ञातव्यं ब्राह्मणेन तु । विज्ञानपरिपू-
र्णस्तु स्वाध्यायफलमश्नुते । छन्दांस्ययातयामानि भवन्ति
फलदान्यपि । श्रेयश्च लभते सोऽत्र धर्ममायुश्च बिन्दति ।
दिव्यं वर्षसहस्रन्तु स्वस्थाने ऋषिभिः सह । तिष्ठन्ति
तत्र तैः सार्द्धं तत्तुल्यश्चैव जायते” । ऋष्यादिपदार्था-
नाह स एव । “येन यदृषिणा दृष्टं सिद्धिः प्राप्ता च येन
वै । मन्त्रेण, तस्य तत्प्रोक्तमृषिभावस्तदात्मकः । छादना-
च्छन्द इत्युक्तं वाससीबाऽथ वा कृते । आत्मातु च्छादितो-
देवैर्मृत्योर्भीतेस्तु वै पुरा । आदित्यैर्वसुभीरुद्रैस्तेन च्छन्द
इतीरितम् । यस्य यस्य च देवस्य उद्दिष्टा या च देवता ।
तदाकारं भवेत्तस्य दैवतं देवतोच्यते । पुरा कल्पे
ससुत्पन्नामन्त्राः कर्मार्थमेव च । अनेनेदं तु कर्त्तव्यं
विनियोगः स उच्यते । निरुक्तं यस्य मन्त्रस्य समुत्-
पत्तिः प्रयोजनम् । प्रतिष्ठानं स्तुतिश्चैव ब्राह्मणं त्वभि-
धीयते । एवं पञ्चविधं प्रोक्तं जपकालेष्वनुस्मरेत् । होमे
वान्तर्जले योगे स्वाध्याये याजने तथा” ।

ऋष्यादिन्यास पु० ऋष्यादीनां न्यासः । तन्त्रीक्ते मूर्द्धादिषु

ऋष्यादीनां न्यासे । ऋष्यादिशब्दार्थप्रदर्शनपूर्ब्बकं तन्न्यास-
प्रकारः तन्त्रसा० उक्तः । “महेश्वरमुखाजज्ञात्वा यः
साक्षात्तपसा मनुम् । संसाधयति शुद्भात्मा स तस्य
ऋषिरोरितः । गुरुत्वात् मस्तके चास्य न्यासस्तु परिकीर्त्तितः ।
सर्वेषां मन्त्रतत्त्वानां छादनात् छन्द उच्यते । अक्षरत्वात्
पदत्वाच्च मुखे छन्दः समीरितम् । सर्वेषामेवं जन्तूनां
भावनात् प्रेरणात्तथा । हृदयाम्भोजमध्यस्था देवता तत्र
तां न्यसेत् । ऋषिच्छन्दोऽपरिज्ञानान्न मन्त्रफलभाग्भवेत् ।
दौर्बल्यं याति मन्त्राणां विनियोगमजानताम्” । तन्त्रान्तरे
“ऋषिं न्यसेन्मूर्द्ध्नि देशे छन्दस्तु मुखपङ्कजे । देवतां
हृदये चैव वीजन्तु गुह्यदेशके । शक्तिञ्च पादयोश्चैव सर्वाङ्गे-
कीलकं न्यसेत्” । “आदावृष्यादिकन्यासः करशुद्धिस्ततःपरम् ।
अङ्गुलिव्यापकन्यासौ हृदादिन्यास एव च । तालत्रयञ्च
दिग्बन्धः प्राणायामस्ततःपरम् । ध्यानं पूजा जपश्चेति
सर्वतन्त्रेष्वयं विधिः” तन्त्रम्” । तत्तद्देवमन्त्राणां विशेषत
ऋष्यादयस्तु तन्त्रसारादौ दृश्याः ।

ऋष्व त्रि० ऋष व--उल्वादयश्च नि० । महति महन्नामसु

निरु० । “अजा इन्द्रस्य गिरयश्चिदृष्वाः” ऋ० ६, २४, ८,
“ऋष्वा महान्तः” भा० । “गम्भीरय ऋष्वया यः” ऋ०
६, १८, १० । “गिरिर्न यः स्वतवाँ ऋष्व इन्द्रः” ऋ०
४, २०, ६ । “त्वं भुवा प्रतिमानं पृथिव्याः ऋष्ववीरस्य
पतिर्भूः” ऋ० १, ५२, १३ । “प्रास्तौदृष्वौजा ऋष्वेभि-
स्ततक्ष” ऋ० १०, १०५, ६ । “ऋष्वा ऋष्टीः” ऋष्टिशब्दे

ऋहत् त्रि० रह--शतृ पृ० साघु । ह्रस्वकायादौ । “वृहन्तं

चिदृहते रन्धयानि” १०, २८, ९ । “ऋहते ह्रस्वकाया-
ल्पाय” भा० ।
इति वाचस्पत्ये ऋकारादिशब्दार्थसङ्कलनम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/ऋतानि&oldid=57677" इत्यस्माद् प्रतिप्राप्तम्