- प्रगृह्णाति तद्ये वैश्वदेवेन यजमानयोर्वाससी परिहिते
- स्यातां ते एवात्रापि स्यातामथास्यै वारुण्यै पयस्यायै
- क्षामकर्षमिश्रमादायावभृथं यन्ति वरुण्यं वा
- एतन्निर्वरुणतायै तत्र न साम गीयते न ह्यत्र साम्ना
- किञ्चन क्रियते तुष्णीमेवेत्याभ्यवेत्योपमारयति” “यजमा-
- नयोर्यजमानतत्पत्न्योः । क्षामकर्षमिश्रं क्षामोऽतिपा-
- केन दग्धः पात्रे संसक्तः कृष विलेखने कृष्यत इति कर्षः
- क्षामश्चासौ कर्षश्चेति क्षामकर्षस्तेन मिश्रं हविरादाय
- अवभृथमुदकं प्रति यन्ति एतत् क्षामकर्षमिश्रं हविः
- वरुण्यम् । सौमिकावभृथवत् प्रसक्तं सामगानं निषेधति
- तत्र न सामेति न ह्यत्रवरुणप्रघासे साम्ना किमपि प्रयो-
- जनं क्रियते अवभृथ समीपमभ्यवेत्य हविरुपमारयति
- अप्सु प्रक्षिपति” भा० । एतादृशोपमारणाभिप्रायेण कात्या०
- २०, ८, २१, सूत्रवृत्तौ “अतः कुम्भोपमारणान्तमेव पूर्वयो-
- रह्रोः कर्त्तव्यमित्युक्तम्” कर्केण ।
उपमास्य न० उपमासं प्रतिमासं भवं यत् । प्रतिमासभवे
- पितॄणां श्राद्धे “विराड़् वा इदमग्र आसीत्” इत्युपक्रम्य
- “सोऽनुक्रामत् सा पितॄनागच्छत्तां पितरोऽघ्नत सा मासि
- समभवत् तस्मात् पितृभ्योमास्युपमास्यं ददति प्र पितृ-
- याणं पन्थां जानाति य एवं वेद” अथ० ८, १०, १९ ।
उपमित् त्रि० उपसमीपे मीयते क्षिप्यते उप + मि--क्विप् ।
- १ उपनिखाते २ उपस्थापयितरि च “स्थूणेव जनाँ
- उपमिद्ययन्थ” ऋ० १, ५९, १, “उपमित् उपस्थापयिता यद्वा
- उपमिदुपनिखाता स्थूणेव” भा० ३ स्थूणायाम् “स्तभायदु-
- पमिन्न रोधः” ऋ० ४, ५, १, “उपमित् स्थूणा” भा०
- “उपमितां प्रतिमितामथोपरिमितामुत शालाया विश्व-
- वाराया नद्धानि वि चृतामसि” शालाभिमन्त्रणे, अथ०
- ९, ३, १ । कर्त्तरि क्विप् । ४ उपमाकर्त्तरि ।
उपमित त्रि० उप + मि--क्त । १ सादृश्यानुयोगिनि । यथा
- चन्द्र इव मुखमित्यादौ मुखं, तस्य चन्द्रसादृश्यानुयोगि-
- त्वात् “उपमितं व्याघ्रादिभिः सामान्याप्रयोगे” पा०
- नरव्याघ्रः नरो व्याघ्र इव वाक्ये व्याघ्र उपमानं नर
- उपमितः । अत्र समासे व्याघ्रशब्दस्य व्याघ्रसदृशे लक्षणा
- व्याघ्रसदृशोनर इति बोधः उपमितस्य विशेष्यत्वेऽपि समांस-
- विधिशास्त्रे प्रथमान्ततया निर्द्देशात् पूर्ब्बनिपातः । अनेन
- सूत्रेण विहितसमास उपमितसमास इत्युच्यते ।
|
उपमिति स्त्री उप + मि--क्तिन् । १ उपमालङ्कारे सादृश्यज्ञान-
- जन्ये गवयादिशब्दशक्तिबोधरूपे २ उपमानफले बोधभेदे
- “प्रत्यक्षमप्यनुमितिस्तथोपमितिशब्दजे” भाषा० करणे-
- क्तिन् । ३ सादृश्ये च “पल्लवोपमितिसाम्यसपक्षम्” सा०
- द० । “तदाननस्योपमितौ दरिद्रता” नैष० ।
उपमेत त्रि० उपमामुपमानभावं सर्व्ववृक्षेभ्योदीर्घत्वात् इतः
- २ त० । शालवृक्षे वृक्षाणां मध्ये तस्य सर्व्वोच्चत्वात् अन्य-
- स्योपमानतां प्राप्तत्वात्तथात्वम् । “शालप्रांशुर्महाभुजः”
- रघौ तस्योच्चतायामुपमानत्वं वर्ण्णितम् ।
उपमेय त्रि० उपमीयतेऽसौ उप + मि--यत् । सादृश्यानुयोगिनि
- यथा चन्द्रैव मुखमित्यादौ मुखम् । “अन्त पुरञ्चैक
- कुलोपमेयम्” कुमा० “भूयिष्ठमासोदुपमेयकान्तिः ।
- “नवेन्दुना तन्नभसोपमेयम्” रघुः “सा पूर्ण्णा यदि सामा-
- न्यधर्म्म औपम्यवाचि च । उपमेयं चोपमानं भवेद्वाच्य-
- मियं पुनः” सा० द० ।
उपमेयोपमा स्त्री अर्थालङ्कार भेदे । ३९८ पृष्ठे विवृतिः ।
उपयज् पु० उप--यज--भावे वेदे विच् लोके तु क्विन् ।
- पशुयागाङ्गे यागभेदे “त्रीणि ह वै पशोरेकादशानि एकादश
- प्रयाजाः एकादशानुयाजा एकादशोपयजः” शत० ब्रा०
- ३, ८, ४, ४, इत्युपक्रमे “अथ यद्यजन्तमुपयजति तस्मादुप-
- यजोनाम” इति तन्नामनिरुक्तिं प्रदर्श्य एकादश उपयजः
- क्रमेण दर्शिताः ।
उपयन्तृ पु० उप + यम--तृच् । विवाहकर्त्तरि पत्यौ ।
- “अथोपयन्तारमलं समाधिना” कुमा० “अथोपयन्त्र्या
- सदृशेन युक्तम्” रघुः । २ संयमनकर्त्तरि त्रि० स्त्रियां ङीप् ।
उपयन्त्र न० उपगतं यन्त्रम् अत्या० स० । सुश्रुतोक्ते शल्यो-
- द्धारणोपाययन्त्रभेदे । यथा “तत्र मनःशरीरावाधकराणि
- शल्यानि तेषामाहरणोपायो यन्त्राणि तानि च षट्प्रका-
- राणि तद्यथा स्वस्तिकयन्त्राणि, संदशयन्त्राणि,
- तालयन्त्राणि, नाडीयन्त्राणि, शलाकायस्त्राणि,
- उपयन्त्राणि चेति” विभज्य । “उपयन्त्राण्यपि रज्जुवे-
- णिका पट्टचर्म्मान्तवल्कलतावस्त्राष्ठीलाश्ममुद्गरपाणिपादत-
- लाङ्गुलिजिह्वादन्तनखमुखवालास्यकटकशाखाष्ठीवनप्रवाहण-
- हर्षायस्कान्तमयानि क्षाराग्निभेषजानि चेति” तानि
- दर्शितानि । “एतानि देहे सर्व्वस्मिन् देहस्यावयवे तथा ।
- सन्धौ कोष्ठे धमन्याञ्च यथायोगं नियोजयेत्” सुश्रु० ।
उपयम पु० उप + यम--अप् । विवाहे । “कन्या त्वजातोप-
- यमा सलज्जा नवयौवना” सा० द० । उपयमस्य भेदादिक-
- मुद्वाहशब्दे ११८ ६ पृ० उक्तं तत्काल वरकन्यामेलकादि
- विशेषोनिरूप्यते । तत्र द्विजातीनां समावर्त्तनानन्तरं
|