वाचस्पत्यम्/उ

विकिस्रोतः तः
← वाचस्पत्यम्/ई वाचस्पत्यम्/उ
तारानाथ भट्टाचार्य
वाचस्पत्यम्/ऊ →
पृष्ठ १०५०

उ- शब्दे भ्वादि० अक० आ० अनिट् । अवते औष्ट । उवे ओता

ओषीष्ट ओष्यते औष्यत । अवनम् उतः । “उवे अम्ब
सुलाभिके यथेवाङ्ग भविष्यति” ऋ० १०, ८६, ७ ।

अव्य० उ--क्विप् न तुक् । १ सम्बोधने २ कोपवचने, ३ अनुक-

म्पायां, ४ नियोगे (अवधारणे) “उमेति मात्रा तपसे
निषिद्धा पश्चादुमाख्यां सुमुखी जगाम” कुमा० । “उदु
ष्य देवः सविता स, वाय” ऋ० २, ३८, १ । “उपो रुरुचे
युवतिर्न योषा” ऋ० ७, ७७, १ । “वेत्थो यथेमं लोकं
पुनरापद्यन्त इति” वृह० उ० । “एष उ एवासाधु कर्म्म
कारयति तम्” श्रुतिः ५ अङ्गीकारे ६ प्रश्ने च” हेमच० ७
पादपूरणे । अतति सातत्येन तिष्ठति अत--डु । ८ शिवे पु० ।
स्वरूपार्थे कारः उकारोऽपि शिवे “अकारो विष्णुरुद्दिष्ट
उकारस्तु महेश्वंरः । मकारस्तु स्मृतो ब्रह्मा प्रणवस्तु
त्रयार्थकः” इति ओमित्यस्य अवयवार्थनिरूपणे पुरा० ।
उशब्दात् स्वरूपार्थे कारः । उकारः । पञ्चमस्वरे । स च
उत्तानुदात्तस्वरितभेदेन प्रयमं त्रिधा पुनः अनुनासिका
ननुनासिकभेदेन प्रत्येकं द्विधेति षट्विधः कारतकारानुत्तरस्तु
ह्रस्वदीर्घप्तुतभेदेन त्रिविधोऽपि प्रत्येकं प्रागुक्तभेदषट्कात्
अष्टादशविधः । तस्य वर्णस्य कूण्डलिनीरूत्वादिना-
ध्येयत्वमुक्तम् कामधेनुतन्त्रे यथा “उकारं परमेशानि ।
विदुः कुण्डलिनीं स्वयम् । पीतचम्पकसङ्काशं पञ्चदेवं
सदाऽमलम् । पञ्चप्राणमयं देवि! चतुर्वर्गप्रदायकम्”
तन्त्रान्तरे अकारोकारमकारात्मकप्रणवस्य मध्ये द्वादश-
कलात्मकार्कमण्डलरूपेण अकारस्य, षोड़शकलात्मकचन्द्र-
मण्डलरूपेण उकारस्य, दशकलात्मकवह्निमण्डलरूपेण
च मकारस्य ध्येयत्वोक्त्या अभेदोपचारात् षोड़शकला
त्मके, ९ चन्द्रमण्डले च तत्र मकारान्तस्यैव तन्नामतेति
बहवः । उ, इत्यस्य एकाज् निपातत्वात् प्रगृह्यसंज्ञा तेन
अचि परे न सन्धिः । उ--उमेशः” सि० कौ० । “एष उ
वासाधुकर्म्म कारयति तम्” श्रुतिः । स चचादिगणीयः ।

उकानह पु० पीतरक्तवर्ण्णे कृष्णरक्तवर्णे च घोटके । हारा०

उकार पु० उ--स्वरूपार्थे कारः । १ उस्वरूपे वर्ण्णे । “अका-

रञ्चाप्युकारञ्च मकारञ्च प्रजापतिः । वेदत्रयात् निरदु-
हत् भूर्भुवःस्वरितीति च” मनुः । २ महेश्वरे च उशब्दे उ० ।

उक्त त्रि० वच--दुहा० गीण कर्मणि क्त । यस्य ज्ञानाय कथ्यते

१ तादृशे जने । “अनुक्तेनापि वक्तव्यं सुहृदा हितमि-
च्छता” नीतिः “तथेत्युक्ता च सा देवी” पुरा० गौणक-
र्मासमभिव्याहारे तु मुख्ये कर्मणि क्त । २ कथिते
वाक्यादौ ३ शक्त्याबोधिते “उक्तानि प्रतिषिद्धानिपुनः
सम्भावितानि च” । स्मृतिः “उक्तार्थानामप्रयोगः व्या० प० ।
भावे क्त कथने न० । “सम्प्रत्यसाम्प्रतं वक्तुमुक्ते मुसल-
पाणिना” माघः । ४ एकाक्षरपादके छन्दोभेदे स्त्री मेदि०
“उक्तात्युक्ता तथा मध्येति” वृत्त० र० केचिदत्र “उक्था-
त्युक्थेति पठित्वा उक्थाशब्दस्तदर्थे इत्याहुः । उकश्च
प्रायेण अभिधाशक्त्या बोधितार्थ एव । “प्रधानविषया
शक्तिः प्रत्ययेनाभिधीयते । यथा गुणे तथा तद्वदनुक्ताऽपि
प्रतीयते” भर्त्तृ० । शक्तिः कारकशक्तिरित्यर्थः ।

उक्ति स्त्री वच--भावे क्तिन् । कथने । “अतिसंक्षिप्तचिरन्तनो-

क्तिभिः” मुक्ता० । उक्तिप्रत्युक्तिरूपं वाकोवाक्यम्” छा० भा०
२ शब्दशक्तौ च “एकयोक्त्या पुप्पवन्तौ दिवाकरनिशा-
करौ” अमरः ।
पृष्ठ १०५१

उक्थ न० वच--थक् । अप्रगीतमन्त्रसाध्ये “स्त्रोत्रे “इन्द्राय

नन मर्मयोक्थानि च ब्रवीत नः” ॠ० १, ८४, ५ । “उक्था-
निं अप्रगीतमन्त्रसाध्यानि स्त्रीत्राणि” भा० “अथ योऽसा-
वन्तरक्षिणिं पुरुषो दृश्यते सैवर्क् तत् साम तद्यजुःतदु-
क्थं तद्ब्रह्म” छा० उ० । तथा हि स्तोत्रं द्विविधं
प्रगीतमन्त्रसाध्यभप्रगीतमन्त्रसाध्यञ्च तत्र प्रगीतमन्त्रसाध्यं
शस्त्रम् अप्रगीतमन्त्रसाध्यन्तु स्तोत्रमिति तयोर्भेदः ।
गवामयने प्रायणीयसंज्ञकाहे पाठ्यपञ्चदशस्तोत्रात्मके
२ चतुर्विंशस्तोमभेदे उपचारात् ३ तत्साध्ये उक्थ्ययागे
च तद्विधानञ्च” ता० ब्रा० ४ अ० ३ ख० उक्तं यथा “१ प्रा-
यणीयमहर्भवति” १ इत्युपक्रम्य “चतुर्विंशं भवति” ४
क० “इदमहरुक्थसंस्थन्तत्र सर्वेषु स्तोत्रेषु चतुर्विं-
शएव स्तोमः कार्य्यः ४ । तदेतत् प्रशंसति” भा० ।
“चतुर्विंशत्यक्षरा गायत्री तेजोब्रह्मवर्चसङ्गायत्री तेज एव
ब्रह्मवर्चसमारभ्य स्वर्यन्ति” ५ । “अयञ्च स्तोमश्चतुर्विंशति-
संख्याकः गायत्री च चतुर्विंशत्यक्षरा सा च गायत्री तेजः,
प्रजापतिमुखादग्निना सहोत्पन्नत्वात् अस्यास्तेजीरूपं
ब्रह्मवर्चसं च तेजोऽवान्तरभेद इति तेजोब्रह्मवर्चसरूपा
गायत्री । एवं सति चतुर्विंशतिस्तोमं प्रथमतः प्रयुञ्जानाः
साक्षादेव प्रत्यक्षमेव संवत्सरं प्रारभन्ते अस्मिन्नहनि प्रयु-
ञ्जानाः संख्याद्वारेण तेजोब्रह्मवर्चसञ्चारभ्य अवष्टभ्य
स्वर्य्यन्ति स्वर्गं गच्छन्ति ५ । पुनरपि विहितं स्तोमम् अनूद्य
प्रशंसति” भा० । “चतुर्विंशतिर्भवति चतुविंशो वै संवत्स-
रः साक्षादेव संवत्सरमारभन्ते” ६ । “चतुर्विंशत्यर्द्धमासात्मक-
त्वात् संवत्सरस्य चतुर्विं शत्वं तथा सति चतुर्विंशस्तोमं
प्रथमतः प्रयुञ्जानाः साक्षादेव प्रत्यक्षमेव संवत्सरमार-
भन्ते ६ । अथेमं स्तोमं स्तोत्रीयागतसंख्याद्वारेण प्रशं-
सति” भा० । “यावत्यश्चतुर्विशस्योक्थस्य स्तीत्रीयास्तावत्यः
संवत्सरस्य रात्रयः स्तोत्रीयाभिरेव संवत्सरमाप्रु-
वन्ति” ७ । “पञ्चदशस्तोत्रे अस्मिन्नहनि पञ्चदशसु स्तोत्रेषु
प्रत्येकं चतुर्विंशस्तोत्रीयायुक्तेषु परिगणनायां मिलित्वा
षष्ट्युत्तरत्रिशतस्तोत्रीया भवन्ति । तथा सति चतुर्विंश-
स्तोमस्य यावत्यः स्तोत्रीयाः संवत्रस्यापि तावत्योरात्रयः
एव” प्रयुञ्जानाः सत्रिणस्तेन चतुर्विंशेन स्तोत्रीयाभिरेव
संवत्सरं प्राप्नुवन्ति ७ । स्तोत्रसंख्ययापीदमहः पशंसति”
भा० । “पञ्चदश स्तोत्राणि भवन्ति पञ्चदशार्द्धमासस्य रात्रयो-
ऽर्द्धमासश एव तत्संवत्सरमाप्नुवन्ति ८ । “स्पष्टोर्थः ८” । अथ
स्तोत्रशस्त्राणि समुच्चित्य तत्संख्ययापीदमहः प्रशंसति” भा०
“पञ्चदश स्तोत्राणि पञ्चदश शस्त्राणि समासो मासश एव
नत् संवत्सरमाप्नुवन्ति ९” स्पष्टोऽर्थः ९ भा० । तत्राग्निष्टोम-
कर्त्तव्यतारूपं पूर्वपक्षमुपन्यस्योत्तरपक्षमाह “अथो खल्वा-
हुरुक्थमेव कार्य्यमह्नः समृद्ध्यै” १३ । “अथो इति पूर्वपक्ष-
व्यावृत्त्यर्थः । उक्थसंस्थमेवैदहः कार्य्यः किमर्थमह्नः
समृद्ध्यै सम्पूर्णताया इति ब्रह्मवादिन आहुः । अग्नि-
ष्टोमे हि पूर्वयोः सवनयोः पञ्च पञ्च स्तोत्राणि तृतीये तु
द्वे एवेत्यह्रः समृद्धिर्न भवति, उक्थे तु तृतीयसवने
पञ्च स्तोत्राणीत्यहः समृद्धं भवति १३ । उक्थसंस्थाङ्गी-
कारे युक्त्यन्तरमाह” भा० । “सर्व्वाणि रूपाणि क्रियन्ते
सर्व्वं ह्येतेनाप्यते” १४ “उत्तरेषामह्नां सम्बन्धीनि यानि
रूपाणि स्तोमपृष्ठविभक्त्यादीनि तान्यस्मिन्नुक्थे क्रियन्ते
अतः सर्वं हि यज्ञसम्बन्धिरूपं तेनाह्ना उक्थसंस्थेन
आप्यते प्राप्यते तत उक्थसंस्थैव कार्य्येत्यर्थः । सर्वरूप-
करणञ्च सर्व्वावाप्तिश्च सम्पादानद्वारेणेति निदानकारे-
णैवमुच्यते, “अथो खल्वाहुः सर्व्वाणि रूपाणि क्रियन्त इति”
आचार्य्याः एतेष्वेव सर्व्वान् स्तोमान् सर्वाणि पृष्ठानि
सर्वा विभक्तीर्दशरात्ररूपा इति विभक्तिमात्रेण कल्प-
यन्त इति संगृह्योक्त्वा पुनस्त्रिवृत्पञ्चदशौ चतुर्विंशः
सम्पाद्यत इत्यादिना” १४ भा० । एतान्येव स्तोमपृष्ठादीनि
प्रत्येकं क्रमेण विविच्य तत्र प्रदर्शितानि तत्सर्वं तत
एवागन्तव्यम् । तत्र च तस्मिन्नहनि यथा स्तोमादिकं
विधेयम् तदपि तत्रैव दर्शितं ततएव तदवसेयम् । अत्र
उक्थसाध्ययागे अभेदोपचार इति बोध्यम् ।
४ होत्रायां स्त्री उक्थाशस्त्रशब्दे उदा० उच्यतेऽनेन
करणे थक् । ५ उक्थसाधने प्राणे च “यस्य क्षणवियोगेन
लोकोऽह्यप्रियदर्शनः । उक्थेन रहितोह्येष मृतकः
प्रोच्यते यथा” भाग० १ स्क० १५ अ० ।

उक्थपत्र पु० उक्थानि अप्रगीतमन्त्रसाध्यानि स्तोत्राणि

पत्रं वाहनमिव यस्य । १ यज्ञे, स्तोत्रैरेव हि यज्ञोवाह्यते
इति तस्य तथात्वम् । “समिद्धे अग्नावधिमामहान उक्थ-
पत्र ईड्योगृभीतः” यजु० १७, ५५ । “यजमानोवै माम
हान उक्थपत्र इत्युक्थानि ह्येतस्य पत्राणि” शत० ब्रा०
९, २, ३, ९ इत्युक्ते २ यजमानेऽपि ।

उक्थपात्र न० ६ त० । यजमाने तस्य उक्थस्तावकत्वात्तथात्वम् ।

उक्थभृत् पु० उक्थं बिभर्त्ति, सम्यक्विभजते भृ--क्विप्

६ त० । उक्थविभाजके ऋषिभेदे “उक्थभृतं सामभृतं
बिभर्त्ति ग्रीवाणम्” ऋ० ७, ३३, १४ । उक्थभृतं
उक्थानां स्तोत्राणां संभक्तारम्” ।
पृष्ठ १०५२

उक्थवर्द्धन पु० उक्थैः स्तोत्रैर्वर्द्ध्यतेऽसौ वृध--णिच् कर्भणि

ल्युट् । स्तोत्रैर्वर्द्धनीये इन्द्रदेवे । “त्वं हि स्तोमवर्द्धन
इन्द्रास्युक्थवर्द्धनः” ऋ० ८, १४, ११ । “उक्थैःशस्त्रैर्वर्द्धनीयः”
भा० । इन्द्रस्य यथा उक्थवर्द्धनीयत्वं तथोक्तं “उक्थ-
मिन्द्राय शंस्यं वर्द्धनं पुरुनिष्षिधे” ऋ० १, १०, ५,
“इन्द्रायेन्द्रार्थं वर्द्धनं वृद्धिसाधनम् उक्थं शस्त्रम्” भा०

उक्थवाहस् पु० उक्थानि शस्त्राणि वहति वह--असुन् णिच्च ।

शस्त्रपाठके विप्रे “यं विप्रा उक्थवाहसोऽभिप्रमं दुरा-
यवः” ऋ० ८, १२, १३, । उक्थवाहसः उक्थानां
शस्त्राणां वोढारः” भा० ।

उक्थशंसिन् पु० उक्थानि शस्त्राणि शंसति शन्स--णिनि ।

शस्त्रस्तावके ऋत्विग्भेदे “नयसीति द्विषः कृणोष्युक्थशं-
सिनः” ऋ० ६, ४५, ६ । स वीरं धत्ते अग्न
उक्थशंसिनं त्मना सहस्रपोषिणम्” ऋ० ८, १०३, ४ ।

उक्थशस् पु० उक्थं शस्त्रंशंसति क्विप् । शस्त्रस्तावके ।

उक्थशास्शब्दे उदा० । पदकाले सर्व्वत्र तस्य ह्रस्वमध्यपाठः ।
स च छान्दसो ह्रस्वैति माधवः । क्विप् प्रत्ययेनैवोपपत्तौ
न छान्दसत्वमित्यन्ये । “तस्मादुक्थशसं भूयिष्ठं षरिच-
क्षते” शत० ब्रा० । १०, ५, २, ५ ।

उक्थशास् पु० उक्थानि शंसति शन्स--ण्वि नि० नलोपः

उप० स० । शस्त्रशंसके । “शुचीदयन्दीधितिमुक्थ-
शासः” ऋ० ४, २, १६ । “अस्य पदकाले ह्रस्वश्छा-
न्दसः” माधवः । “नीहारेण प्रावृता जल्प्याचासुतृप
उक्थशासश्चरन्ति” ऋ० १०, ८२, ७ । “नरः शंसन्त्युक्थशास
उक्था” ऋ० ७, १९, ९ ।

उक्थशुष्म त्रि० उक्थं शस्त्रं शुष्मं बलं यस्य । उक्थरूप-

बलयुक्ते स्तवादिवाक्ये “समुद्रं न सिन्धव उक्थशुष्मा
उरुव्यचसम्” ऋ० ६, ३६, ३ । “उक्थशुष्मान् वृषभरान्त्-
स्वप्नसस्तां” ऋ० १०, ६३, ३ ।

उक्थादि पु० ६ त० । तदधीते वेत्ति वेत्यऽर्थे विहित--ठक्प्रत्यय-

निमित्ततया पाणिन्युक्ते शब्दसमूहे स च गणः “उक्थ-
लोकायत न्याय न्यास पुनरुक्त निरुक्त निमित्त द्विपद ज्यो-
तिष अनुपद अनुकल्प यज्ञ धर्म्म चर्च्चा क्रमेतर श्लक्ष्ण
संहिता पद क्रम संघट्ट वृत्ति परिषद् संग्रह गण गुण
आयुर्वेद तन्त्रायुर्वेद” । “उक्थं सामविशेषस्तल्लक्षणपरो-
ग्रन्थविशेषोलक्षणया तदधीते वेद वा औक्थकः
मुख्यादुक्थशब्दाट्ठगणौ नेष्येते” सि० कौ० ।

उक्थामद न० उक्या होत्रया माद्यति मद--अच् । उक्था-

साधने स्तोमभेदे “अग्निर्यजुर्भिः सविता स्तोमैरिन्द्र उक-
थामदैर्वृहस्पतिश्छन्दोभिः” कठसं० “वृहस्पतिरुक्था-
मदानि शंसिषम्” ऐत० ।

उक्थावो त्रि० उक्थानि अवति अव--ई । शस्त्रस्तावके

“वृहद्वते वयस्वत उक्थाव्यं गृह्णामि” यजु० ७, २२ ।

उक्थाशस्त्र न० उक्था होत्रा च शस्त्राणि च द्वन्द्वः । होत्राया-

मृचि शस्त्रे च । “छन्दोभिरुक्थाशस्त्राणि साम्नावभृथ
आप्यते” यजु० १९, २८ ।

उक्थिन् पु० उक्थं स्तुत्यतयाऽस्त्यस्य उक्थ + इनि । १ शस्त्र-

स्तावके होत्रादौ । “प्र वामर्च्चन्त्युक्थिनो नीथाविदोजरि-
तारः” ऋ० ३, १२, ५, “उक्थं शस्त्रं तद्वन्तः शस्त्रिणो
होत्रादयः” भा० । “तदद्याचित्त उक्थिनोऽनुष्टुवन्ति
पूर्व्वथा” ऋ० ८, १५, ६ । उक्थं स्तोत्रसाधनतयाऽ-
स्त्यस्य इनि । २ शस्त्रस्तुत्ये इन्द्रादौ । “हिरण्यपर्ण्णमुक्थिनं
रशनां बिभ्रतं वशिं भगमिन्द्रं वयोधसम्” यजु० २८, ३३
उक्थं शस्त्रं संस्काराङ्गसाधनतयाऽस्त्यस्व इनि । ३ शस्त्र-
साध्ये संस्कारयुक्ते सोमादौ । “तुभ्येदिन्द्र! मरुत्वते
सुताः सोमासो अद्रिवः हृदा हूयन्त उक्थिनः”
ऋ० ८, ७६, ८ । “उक्थिनोऽन्या होत्रा उक्थिनःश-
स्त्रवन्तः सोमाः अनुक्था अन्याः” ऐत० ।

उक्थ्य त्रि० उक्थमर्हति यत् । शस्त्रस्तुत्ये देवादौ । “इन्द्रः

सहस्त्रदाव्नां वरुणः शंस्यानां क्रतुर्भवत्युक्थ्यः” ऋ०
१, १७, ५ । “उकुथ्यः स्तुत्यः” भा० “होता गृणीत
उक्थ्यः” ऋ० १, ७९, १२ । २ उक्थसाधने शस्त्रे च ।
“गाय गायत्रमुक्थ्यम्” ऋ० १, ३८, १४ । उक्थ्यं शस्त्र-
योग्यं गायत्रमुक्थ्यम्” भा० । उक्थसम्बन्धित्वात् ३ शस्त्रे
ऽपि । “उक्थ्यं वाचि घोषाय त्वेति शस्त्वा जपेत्”
आश्व० श्रौ० ५, ९, २६ । “उक्थ्यं शस्त्रं शस्त्रसम्बन्धितया”
नारा० वृत्तिः । “सोमयागात् परं कर्त्तव्येषु षट्सु यागेषु
मध्ये ४ यज्ञभेदे स च । “प्रथमं सोपा” इत्युपक्रम्य “षडु-
त्तरे” “अत्यग्निष्टोम उक्थ्यः षोड़शी वाजपेयोऽति-
रात्रोऽप्तोर्यामः कात्या० १०, ९, २७, २८ विहितः ।
तत्प्रकारस्तु तत्रैव दर्शितः प्राक् । तस्य उक्थसाध्यत्वात्
उक्थ्यमिति नाम ।
“उक्थे तु होत्रकाणाम्” १ । “तृतीयसवनैव्यनुवर्त्तते ।
उक्थे त्वयं विशेषः । तृतीयसवने होत्रकाणामपि
शस्त्राणि भवेयुः । तानीमानीत्याह” वृत्तिः । “एह्युषु ब्रुवा-
णि तआग्निरगामि भारतश्चर्षणीधृतमस्तभ्राद्यामसुर इति
तृचाविन्द्रावरुणा युवमावां राजानाविन्द्रावरुणा मधुमत्त-
पृष्ठ १०५३
मस्येति याज्या । वयमु त्वामपूर्व्वयो न इदमिदं पुरेति
प्रगाथौ । सर्वाः ककुभः प्रमंहिष्ठायोदप्रुतोऽच्छाम इन्द्रं
वृहस्पते युवमिन्द्रश्च वस्व इति याज्या । अघाहीन्द्र
गिर्वण इयन्त इन्द्र गिर्वण क्रतुर्जनित्रीनू मर्त्तो
भवामित्रः स वां कर्मणेन्द्राविष्णू मदपती मदानामिति
याज्या” २ । “अत्र सर्वाः ककुभ इत्युक्तं किमनेनोक्तम् ।
काकुभेषु तावत् प्रगाथेषु तृतीयपञ्चमयोरभ्यासे सति
ककुभ एव सर्वा भवन्ति । तथैव च स्तुवन्ति छन्दोगाः ।
अतोऽन्यत् प्रयोजनमन्वेषणीयम् । तदिदमुच्यते । होत्र-
काश्च येषां प्रगाथाः स्तोत्रीयानुरूपा इतीन्द्रनिहव-
ब्राह्मणस्पत्यवच्छंसनं विहितम् । तत्र वार्हतानामेवायं
विधिरित्युक्तत्वात् काकुभेष्वनुप्राप्नोति तन्निवृत्त्यर्थं
ककुभ इति वचनम् । सवग्रहणं सर्वकाकुभप्रगाथसंग्र-
हार्थम् । तेन वार्हतेष्वेवासौ विधिरिति मन्तव्यम् ।
“इत्यन्त उक्थ्यः” ३ । “एवमन्त उक्थ्यः क्रतुरित्यर्थः ।
इत्यन्तोऽग्निष्टोम इत्यस्यानन्तरम् एतानि शस्त्राण्युक्थ्यः
इत्यन्ते उक्थ्य इत्येतावत्युच्यमाने एतानि शस्त्राण्युक्थ्य
एवेति गम्यते । तत् किमर्थमुक्थे तु होत्रकाणामित्यत्रो-
क्थग्रहणम् । अयमभिप्रायः । अथ सोमेनेति त्रिष्व-
ध्यायेषु ज्योतिष्टोमाख्यः सोमयागोऽधिकृतः, स च
संस्याभेदान्नामभेदाच्चतुर्धा भिन्नो व्युत्पादितो भवति ।
तत्र सर्वत्र सोमेन यजेतेत्येतद्विधिविहित एवैको यागः
केनचिदुपाधिवशेनाभ्यस्तो भिन्नो नाम प्रतीयते ।
अतः सर्वेषां प्रकरणित्वे प्राप्ते अग्निष्टोम एव प्रकरणी,
अन्ये तस्यैव गुणा विकारा इति ज्ञापयितुमुक्थ्य इत्यु-
च्यते । उक्थ्य एतावदेवौपदेशिकं, अन्यत् सर्वमातिदेशिक-
मित्यर्थैत्येवं आश्व० श्रौ० ६, १, क० तस्य प्रकारोऽमिहितः
उक्थेन संस्कार्य्ये ग्रहरूपे ५ पात्रभेदे । “उक्थ्यमुपयाम
गृहीत, इति” कात्या० ९, ६, २१ । “उक्थ्यादि” कात्या०
१४, २, १० उक्थ्यग्रहणादि प्राकृतं कर्म्म भवति
उक्थ्यस्थाल्या उक्थ्यसंज्ञकं ग्रहं गृह्णाति” कर्कः ।
प्रागुक्थ्यान्मरुत्वतीयमृतुपात्रेण इन्द्रमरुत्व इति” कात्या०
१०, १, १४ । आग्रवणग्रहणानन्तरमुक्थ्यग्रहणात् प्रा-
गिति” कर्कः ।

उक्ष --सेचने भ्वा० सक० प० सेट् । उक्षति औक्षीत्

उक्षाम्--बभूव आस चकार । उक्षिता उक्ष्यात् उक्षिष्यति
औक्षिष्यत् । उक्षितव्यः उक्षणीयः उक्ष्यः । उक्षिता
उक्षन् उक्षितः । उक्षा उक्षणम् । उक्षित्वा समुक्ष्य ।
कर्म्मणि उक्ष्यते औक्षि उक्ष्यमाणः “उक्षन्त्यस्मै मरुतो
हिताइव” ऋ० १, १६६, ३, “औक्षन् शोणितमम्भोदाः”
भट्टिः । “उक्षां प्रचक्रुनेगरस्य मार्गान्” भट्टिः । अव्यवधाने
एवामुप्रयोगविधानात् प्रशब्दव्यवघानान्नामुप्रसक्तिरतोऽत्र
जयमङ्गलेन उक्षान्प्रचक्रुरिति पठितम् उक्षान् सिक्तानिति
तदर्थः “घृतमुक्षता मधुवर्ण्णमर्चते” ऋ० १, ८७, २, “गङ्गा-
प्रवाहोक्षितदेवदारु” कुमा० । “गन्धवद्रुधिरचन्दनोक्षिता”
“किञ्चिदुक्षितशिखण्डकावुभौ” रघुः । क्वचिन्दस्व पदव्य-
त्ययः । “अहमपो अपिन्वमुक्षमाणाः” ऋ० ४, ४२, ४
“तमुक्षमाणमव्यये वारे पुनन्ति” ऋ० ९, ९९, ५ “प्रसव्य-
मात्मानमुदकैः पर्य्युक्षन्ते” आश्व० श्रौ० । उक्षणञ्च द्रव्य-
द्रव्येण संयोगविशेषजनकव्यापारः । (सेचा) ।
  • अभि + अवतानपाणिना सेचने । “उत्तानेनैव हस्तेन-
प्रोक्षणं परिकीर्त्तितम् । न्यञ्चताऽभ्युक्षणं प्रोक्तं
तिरश्चाऽवोक्षणं स्मृतमिति” छन्दोप० उक्तेः तथार्थ-
त्वम् । अभ्युक्षणशब्दे विवृतिः “परस्पराभ्युक्षणतत्-
पराणाम् रघुः । “शिरसि शकुन्तलामभ्युक्ष्यं” शकु० ।
“अथाद्भिरभ्युक्षति, एष वा अपां सम्भारो यदद्भिरभ्यु-
क्षति” शत० ब्रा० २, १, १, ३, ।
  • अव + तिर्य्यक्पाणिना सेचने “दध्ना मधुमिश्रेणावोक्षति”
तैत्ति० । “उद्धतमवोक्षितं भवति यत्रैनमुपाव-
हरत्युद्धते वा अवोक्षितेऽग्निमादधति” शत० ब्रा० ६,
४, ४, १८, “उद्धत्यावोक्षति यत्रैनमुपावहरति” शत० ब्रा०
६, ८, १, १२, । “तिरश्चाऽवोक्षणं स्मृतम्” छन्दोग० ।
  • आ + समन्तात् ईषद् वा सेचने “आ नोगव्यूतिमुक्षतं घृतेन”
ऋ० ७, ६२, ५ व्यवहिताश्चेति उपसर्गस्य व्यवधानम् ।
  • उद् + ऊर्द्ध्वदेशात् सेचने । “किं तृतीयभेतां दिशमुदौक्षीः”?
शत० ब्रा० ११, ५, ३, ४ ।
  • उप + सामीप्येन सेचने । “अधस्तादुपोक्षत्यापोदेवीः” शत० ब्रा० ३, ७, ४, ६” ।
  • निस् + निशेषेण सेचने । “यत्स्रुच्यप आनीय निरौक्षिषम्”
शत० ब्रा० ११, ५, ३, ७ ।
  • परि + वेष्टनाकारेण समन्तात् सेचने “प्रसव्यमुदकैरात्मानं पर्य्यु-
क्षन्ते” आश्व० ६, १२, “प्रसव्यं वामावर्त्तनेन वेष्टयित्ये-
त्यर्थः ना० वृ० । “आहवनीयं पर्य्युक्ष्योदधारां निनयत्या
गार्हपत्यात्” कात्या० ४, १३, १६, “पर्य्युक्ष्य हस्तगृहीतेनोद-
केन समन्तात् सिक्त्वा” कर्कः । “पर्य्युक्षितं समिदसि” कात्या०
४, १४, ३० ।
  • प्र + उत्तानहस्तेन सेचने “उत्तानैनैव हस्तेन प्रोक्षण परिकी-
पृष्ठ १०५४
र्त्तितम” छन्दो० उक्तेस्तथार्थता “अपिधानं प्रोक्षिताभ्याम्”
कात्या० ९, १०, ४, । “तं यज्ञं वर्हिषि प्रौक्षन् पुरुषं
जातमग्रतः” ऋ० १०, ९०, ७, “प्रोक्षिताः स्थ अग्नये त्वा
जुष्टं प्रोक्षामि । अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि” यजु०
१, १३, “कृष्णोऽस्याखरेष्ठो अग्नये त्वा जुष्टं प्रोक्षामि । वेदि-
रसि बर्हिषे त्वाजुष्टां प्रोक्षामि । बर्हिरसि स्रुग्भ्यस्त्वा जुष्टं
प्रोक्षामि” यजु० २, १, “रक्षोहणो वो बलगहनः प्रो-
क्षामि वैष्णवान्” यजु० ५, २५, “संस्कारः पुंस एवेष्टः”
प्रोक्षणाभ्युक्षणादिभिः” कुसुमा० “इत्यक्तेः पुरुषसंस्कार
इति नैयायिकाः । मीमांसकमते द्रव्यसंस्कारः इति भेदः
अभ्युक्षणशब्दे विवृतिः । “प्रोक्षितं भक्षयेन्मासम्” मनुः ।
  • सम् + प्र + सम्यक् प्रोक्षणे । “प्राणानायम्य संप्रोक्षेत्तृ-
चेनाब्दैवतेन तु” या० स्मृतिः ।
  • वि + विशेषेण सेचने “ज्रयो वि रोरुवज्जठरे विश्वमुक्षते”
ऋ० १०, ९२, ५ । “व्यवहिताश्चेति” पा० उपसर्गव्यवधानम् ।
“केशमिश्रेव हास तां व्यौक्षदोषं धयेति” शत० ब्रा०
२, २, ४, ५ ।
  • अभि + वि + आभिमुख्येन विशेषेण सेचने । “तत्तस्मादु तथैव
संसृज्याम् यथाग्निं नांभिव्युक्षेत्” शत० ब्रा० १, ३, १, १०
  • सम् + सम्यक् सेचने । “समुक्षितं सुतं सोमम्” ऋ० ३,
६०, ५ । “इदं ते अन्नं युज्यं समुक्षितम्” ऋ०
८, ४, १२

उक्ष त्रि० उक्ष--अच् । १ सेक्तरि “सुप्रतिष्ठा मनोवृहदुक्षाय नः”

यजु० ७, ८४, कर्मणि घञ् । २ सिक्ते “उक्षान् प्रचक्रुः” भट्टिः

उक्षण न० उक्ष--ल्युट् । द्रवद्रव्येण संयोजनव्यापारे

“वसिष्ठमन्त्रोक्षणजात् प्रभावात्” रघुः ।

उक्षतर पु० अल्प उक्षा ह्रस्वत्वे तरप् । अप्राप्तवाहनावस्थे वृषे ।

उक्षन् पु० उक्ष--कनिन् । १ वृषे, २ ऋषभौषधौ च । “विदलित-

महाकूलामुक्ष्णां विषाणविघट्टनैः” माघः । “उक्षेव यूथा-
परियन्नरावीत्” ऋ० ९, ७१, ९ । “उक्षा मिमाति प्रति
यन्ति धेनवः” ऋ० ९, ६९, ४ । “शरद्घनाद्दीधितिमानि-
वोक्ष्णः” कुमा० “न वराहं न चोक्षाणं न मृगान् विविधां-
स्तथा” भा० व० १३१ । “उक्षाणं पक्त्वा सह ओदनेन तस्मात्
कपोतात् प्रति ते नयेद्वा” भा० व० १९६ । “नीलं
चोक्षाणं मेध्यमप्यालभेत” भा० आश्व० ११ अ० । ३
सेचनकर्त्तरि । सेचके त्रि० । “उक्षा समुद्रो अरुषः सुपर्णः”
ऋ० ५, ४७, ३, उक्षा बिभर्त्ति भुवनानि वाजयुः” ऋ०
९, ८३, ३ । आत्मन उक्षाणं वृषमिच्छति उक्षीयति
वेदे तु न नलोपः । उक्षण्यति । “वयं हि वां हवामहे
उक्षण्यन्तो व्यश्ववत्” ऋ०, ६, ९ । ततः कर्त्तरि उ उक्षण्यु
आत्मनोवृषेच्छौ “व्यश्वस्तावसुविदमुक्षण्युरप्राणादृषिः” ऋ०
८, २३, १८ । जातवृद्धमहद्भ्यः परस्य अच् समा० । जातोक्षः
वृद्धोक्षः महोक्षः “महोक्षं वा महजां वा श्रोत्रियाय प्रक-
ल्पयेत्” स्मृतिः “विलोक्य वृद्धोक्षमधिष्ठितं त्वया” कुमा० ।
उक्ष्णोऽपत्यम् अण् टिलोपः । औक्ष्ण तदपत्ये तस्येदमि-
त्यणि अनपत्ये तु नलोपः न टिलोपः । औक्ष सि० कौ०
उक्ष्णां समूहः वुञ् । औक्षक वृषसंघे न० । कुरुपूर्व्ववंश्ये
४ राजभेदे च । तस्य गोत्रापत्ये ण्य न वृद्धिः । उक्षण्य-
तद्गोत्रापत्ये पुंस्त्री० । तदन्तत्वात् फक् उक्षण्यायनः
“ऋज्रपुक्षण्यायने रजतं हरयाणे” ऋ० ८, ५, २, २२ ।
“उक्षनामा कश्चित् कुरोः पूर्व्वजः तस्य गोत्रपत्ये उक्षन्
शब्दात् ण्यः तदन्तत्वात् फक् । संज्ञापूर्व्वकविधिरनित्य
इति न वृद्धिः अयञ्च छान्दसः लोकेऽस्य न प्रयोगः” भा० ।

उक्षवश त्रि० उक्षा वशा वशास्थानीयो यस्य । बन्ध्याऽ-

लाभे वशात्वेन कल्पितवृषके १ यजमानभेदे । तत्र
वशारूपादिकमभिधाय वृषस्य तत्प्रतिनिधित्वम्” शत० ब्रा०
४, ५, १, ९, उक्तं यथा “मैत्रावरुणी वशा भवति यत्र वै
देवाः रेतः सिक्तं प्राजनयंस्तदग्निमारुत” मित्युप-
क्रम्य पश्वादीनामुत्पत्तिमभिधाय “अथ यदा न कश्चन
रसः पर्य्यशिष्यत त एषा मैत्रावरुणी वशा समभवत्
तस्मादेषा न प्रजायते रसाद्धि रेतसः पशवस्तद् यदन्ततः
समभवत् तस्मादन्तं यज्ञस्यानुवर्त्तते तस्माद्वा एषात्र न
प्रजायते मैत्रावरुणी वशाऽबकॢप्ततमा भवति यदि वशां न
विन्देदप्युक्षवश एव स्यात्” । २ वृषायत्ते त्रि० । “उक्षवेहदपि
वेहत्स्थानीयकल्पितवृषे यजमाने” शत० ब्रा० उद्विधिरुक्तः ।

उक्षित त्रि० उक्ष--क्त । सिक्ते उक्षधातौ उदा० ।

उख गतौ भ्वादि० पर० सक० सेट् । ओखति औखीत् उवोख

ऊखतुः ओखिता उख्यात् ओखिष्यति औखिष्यत् उखा ।

उख गतौ इदित् भ्वादि० पर० सक० सेट् । उङ्खति औङ्खीत् ।

उङ्खाम्--बभूव आस चकार । उङ्खिता उङ्ख्यात् उङ्खि-
ष्यति औङ्खिष्यत् ।

उखर्वल पु० उख--वलच् रुडागमः किच्च । भूरिपत्रे

तृणभेदे रारनि० “बलदो रुचिकारी च पशूनां सर्वदा-
हितः” । अस्य गुणः राजनि० उक्तः ।

उखल पु० उख--कलच् । मूरिपत्रे तृणभेदे उखर्वलेराजनि० ।

पृष्ठ १०५५

उखा स्त्री उख--क । १ पाकपात्रे पिठरादौ । (हाँड़ि) ।

“यन्नीक्षणं मांस्पवन्या उखाया उत पात्राणि यूष्ण
आसेचनानि” ऋ० १, १६२, १३ । ऋचमेतामाश्रित्यैव
“मांस्पवन्या उखायाः” इति पा० भाष्यकृतोदाहृतम् ।
यज्ञियेष्टकासाधने २ चूल्लीरूपे पदार्थेतत्करणप्रकारः कात्या०
श्रौ० १६, १, १, सूत्रादौ उक्तः तच्च इष्टकाशब्दे ९९१ पृष्ठे
दर्शितम् । “उखास्रत्” सि० कौ० शत० ब्रा० तु स्थालीपरो-
खाशब्दस्य निरुक्तिरन्यथैवोक्ता यथा । “अथेनमुखयान्नं
बिभर्त्ति इमे वै लोका उखा इमे वा एतं लोका यन्त-
मर्हन्ति एभिरेतं लोकं देवा अबिभरुरेभिरेवैनमेतल्लोकैर्बि-
भर्त्त्योषा यदुखा नाम एतद्वै देवता वैतेन कर्मणैतयावृ-
तेमाँ लोकानुदखनन् यदुखनंस्तस्मादुत्खा उत्खा वैता-
मुखेत्याचक्षते परोक्षं, परोक्षकामा हि देवाः” ६, ७, १, २२,
२३ । अस्य “न क्रोड़ादिबह्वच” पा० क्रोड़ादिग-
णपाठत् स्वाङ्गवाचिताऽपि तेन वृहदुखेत्यत्र न ङीष्
उखायां संस्कृतं यत् । उख्य तत्र संस्कृते त्रि० । भवार्थे
दिगा० यत् । उख्य उखाभवे त्रि० । तस्य वर्ग्यादि०
कर्म्मधारयसमासे आद्योदात्तता ।

उख्य त्रि० उखायां संस्कृतं यत् । उखासंस्कृते मांसादौ

“शूल्यमुख्यञ्च होमवान्” भट्टिः उखायां भवः दिगा० यत् ।
उखाभवे त्रि० । “उख्यान् हस्तेषु बिभ्रतः” अथ० ४,
१ ४, २ । उख्यानग्नीन् । “अथ यद्येष उख्योऽग्निरनु-
गच्छेत्” शत० ब्रा० ६, ६, ४, १० । “प्रागनःकृत्वोख्यस्योत्तरतः
समिदाधानम्” “अप्सूख्यभस्मावपनं क्रयणीयादौ” कात्या०
१६, ६, १०, १५, २३ । “संबिलां कृत्वोख्यं निरवपति
समितमिति” १७, १, १९ । स्त्रियां टाप् ततः कत्र्यादि०
जातादौ ढकञ् । औख्येयः उख्याजाते त्रि० ।

उगण त्रि० उद्गूर्ण उदायुधः गणो यस्य पृषो० ।

उदायुधगणोपेते “याः सेना अभीत्वरीराव्याधिनीरुगणा
उत” यजु० ११, ७७, “उगणाभ्यस्तृंहतीभ्यश्च
वोनमोनमः” यजु० १६, १४ ।

उग्र पु० उच--रक् गश्चान्तादेशः । १ महादेवे, वायुमूर्त्तिधा-

रिणि शिवे क्षत्रियात् ऊढायां शूद्रायामुत्पन्ने २ संकीर्ण-
वर्णे (आगुरी) उग्रपुणत्वात् ३ शोभाञ्जनवृक्षे, ४ केरलदेशे,
क्रूरसंज्ञके “उग्रः पूर्व्वमघान्तका” इति ज्योतिषोक्ते
५ नक्षत्रपञ्चके च ६ वत्सनाभाख्ये विषे न० । ७ उत्कटे
त्रि० । ८ वचायां, ९ यवान्यां, १० धन्याके, ११ उग्रजातेः
स्त्रियां च स्त्री टाप् । तत्र “शिववाचकोग्रनामनिरुक्ति”
र्यथा “तमव्रवीदुग्रोऽसीति तद्यदस्य तन्नामाकरोत् वायुस्तद्रू-
पमभवद्वायुर्वा उग्रस्तस्माद्यदा वलवद्वात्युग्रीवातीत्याहुः
सोऽब्रवीत् ज्यायान् वा अतोऽस्मि” शत० ब्रा० ६, १, ३, १३ ।
उक्तश्रुत्युक्तेः १२ वायौ पु० । उग्ररूपत्वादेव अष्टमूर्त्तिपूजने
उग्राय वायुमूर्तये नम इति तिथितत्त्वे उक्तम् । शूदस्य
विप्रकन्यायां जात उग्र इति स्मृतः” उशनसोक्ते १३
चाण्डालरूपवर्णसंकरे च क्षत्रियाच्छूद्रकन्यायां क्रूराचार
विहारवान् । क्षत्रशूद्रवपुर्जन्तुरुग्रनामा ततोऽभवदिति
मनूक्तादयं भिन्नः” “क्षत्त्र, ग्रपुक्कसानान्तु बिलौकोबधबन्ध-
नमिति” मनुः करणेन समा चास्य वृत्तिर्भार्गवनिर्म्मिता”
स्मृतिः अस्योग्रस्य । १४ उत्कृष्टे त्रि० । “उग्रं शर्म महि
श्रवः” यजु० २६, १६ । १५ असुरभेदे पु० “विप्रचित्तिः शिविः
शङ्कुः” इत्युपक्रम्यासुरगणनायां “वेगवान् केतुमानुग्रः
सोग्रव्यग्रोमहासुरः” हरिवं० ३६३ अ० । तत्र वचायाम्
“वत्साह्वयप्रियङ्गूग्रायष्ट्याह्वयरसाञ्जनैः” “उग्रा कुष्ठम्”
तीक्ष्णगन्धा विड़ङ्गं श्रेष्ठं नित्यं चावपीड़े करञ्जम्” । “विड़-
ङ्गभल्लातकचित्रकोग्राकटुत्रिकाम्भोदसुराष्ट्रजाश्च” इति च
सुश्रु० १६ तीक्ष्णवीर्य्ये त्रि० । १७ कालिकावरणभेदे स्त्री ।
“विप्रचित्ता तथोग्रोग्रप्रभा दीप्ता घनत्विषः” कालीकवचम् ।
१८ उग्रतारायोगिनीभेदे च । “महाकाल्यथ रुद्राणी उग्रा
भीमा तथैव च” कालिकापु० । १९ दीर्घे च उग्रनासिकः ।
२० सर्व्वकार्य्येषु उद्यते “उग्रासोवृषण उग्रवाहवः इति”
ऋ० ८, २०, १२ । उग्रासः उद्गूर्ण्णा सर्वकार्य्येषु उद्यताः”
भा० उव--समवाये इति धातोर्निष्पन्नतया क्रोधतीक्ष्णरसा-
दिना विशेषसम्बन्धात् एषां च सर्वेषाम् उग्रत्वम् । उग्र-
प्रभोग्रदंष्ट्रादियोगिनीभेदेऽपि उत्कटाद्यर्थता ज्ञेयम्” भा० ।

उग्रक त्रि० उग्र + संज्ञायाम् कन् । नागभेदे । नागनामाख्याने

“आर्य्यकश्चोग्रकश्चैव नागः कनकपोतकः” भा० आ० ३५
अ० । २ शूरे च “उग्रपुत्रशब्दे उदा० ।

उग्रकर्म्मन् त्रि० उग्रं कर्म्मास्य । १ हिंस्रे पश्वादौ २ प्राणिहिं-

सके २ क्रूरादौ च ।

उग्रकाण्ड पु० उग्रः काण्डीऽस्य । (करेला) कारविल्ले वृक्षभेदे राजनि० ।

उग्रगन्ध पु० उग्रः गन्धः पुष्पादावस्य । १ चम्पके, २ कट्फले

३ अर्जकवृक्षे ४ लशुने च । ५ हिङ्गुनि न० । ६ उत्कटगन्धाढ्ये
त्रि० । ७ यवान्याम् ८ वचायाम् ९ अजमोदायाञ्च स्त्री
टाप् । राजनिघण्टुमेदिनी ।

उग्रचण्डा स्त्री० उग्रा चण्डा कोपनां कर्म्म० । १ देवीभेदे ।

तदाविर्भावः कालिका० पु० ५९, ६० अ० उक्तः “उग्र-
चण्डा तु या मूर्त्तिरष्टादशभूजाऽभवत् । सा नवम्यां
पृष्ठ १०५६
पुरा कृष्णपक्षे कन्यां गते रवौ । प्रादुर्मूता महाभागा
योगिनीकोटिभिः सह” । अनयैव मूर्त्त्या दक्षयज्ञो विना-
अतिः । यथा “आषाढस्य तु पूर्णायां सत्रं द्वादश
वार्षिकम् । दक्षः कर्त्तुं समारेभे वृताः सर्व्वे दिवौकसः ।
ततोऽस्मिन् न वृतस्तेन दक्षेण सुमहात्मना । कपालीति
सती चापि तज्जायेति च नो वृता । ततो रोषसमायुक्ता
प्राणांस्तत्याज सा सती । त्यक्तदेहा सती चापि चण्ड-
मूर्त्तिस्तदाऽभवत् । ततः प्रवृत्ते सत्रे तु तस्मिन् द्वादश-
वाषिके । नवम्यां कृष्णपक्षे तु कन्यायां चण्डमूर्त्तिधृक् ।
योगनिद्रा महामाया योगिनीकोटिभिः सह ।
सतीरूपं परित्यज्य यज्ञभङ्गमथाकरोत् । शङ्करस्य गणैः
सर्व्वैः सहिता शङ्करेण च । स्वयं बभञ्ज सा देवी
महासत्रं महात्मनः” । “उग्रचण्डा प्रचण्डा च चाण्डोग्रा
चण्डनायिका” इत्युक्ते २ दुर्गावरणभेदे च ।

उग्रता स्त्री अग्रस्य भावः कर्म वा तल् । उग्रस्य १ भावे २ कर्म्मणि

च ३ अलङ्कारोक्ते व्यभिचारिगुणभेदे । तल्लक्षणं सा० द० ।
“शौर्य्यापराधादिभवं भवेच्चण्डत्वमुग्रता । तत्र स्वेद-
शिरःकम्पतर्ज्जनातड़नादयः” । त्व । उग्रत्व तद्भावकर्म्मणोः
न० । ष्यञ् । औग्र्य तत्रैव न० ।

उग्रतारा स्त्री उग्रादपि भयात् तारयति भक्तान् तॄ--णिच्-

अच् ५ त० । तारारूपायां देव्याम् । “तारकत्वात्
सदा तारा महामोक्षप्रदाविनी । उग्रापत्तारिणी
यस्मादुग्रतारा प्रकीर्त्तितैति तन्त्रोक्ताऽस्य वा निरुक्तिः ।
तदाविर्भावः कालिकापु० ८१ अ० “विनिःसृतायां
देव्यास्तु मातङ्ग्याः कायतस्तदा । भिन्नाञ्जननिभा कृष्णा
साऽभूद्गौरी क्षणादपि । कालिकाख्याऽभवत् सापि हिमा-
चलकृताश्रया । तामुग्रतारामृयषो वदन्तीह मनीषिणः ।
उग्रादपि भयाद्रक्षेत् यस्मात् भक्तान् सदाम्बिका । एषेवै-
कजटाख्यातिं यस्मात्तस्या जटैकिका । शृणृतं चिन्तनं
चास्याः सम्यक् वेतालभैरवौ! । यथा ध्यात्वा महादेवीं
भक्तः प्राप्तोत्यभीप्सितम् । चतुर्भुजां कृष्णवर्णां मुण्डमा-
लाविभूषिताम् । खडगं दक्षिणपाणिभ्यां बिभ्रतीन्द्रवरं
त्वधः । कर्त्रीञ्च खर्परञ्चैव क्रमाद्वामेन बिभ्रतीम् ।
खं लिखन्तीं जटामेकां विभ्रतीं शिरसा स्वयम् । मुण्डमा-
लाधरां शीर्षे ग्रीवायामपि सर्व्वदा । वक्षसा नागहारन्तु
पिभ्रतीं रक्तलोचनाम् । कृष्णवस्त्रधरां कट्यां व्याघ्राजिनस-
मन्विताम् । वामपादं शवहृदि संस्थाप्य दक्षिणं पदम् ।
विन्यस्य सिंहपृष्ठे तु लेलिहानां शवं स्वयम् । साट्टहास
महाघोरारावयुक्तातिभीषणा । चिन्त्योग्रताराः कततं
भक्तिमद्भिः सुखेप्सुभिः” अन्यत्र च “रूपं शृणु नरश्रेष्ठ!
येन ध्येया सदा शिवा । कृष्णा लम्बोदरी दीर्घा विरला रक्त-
दन्तिका । चतुर्भुजा कृशाङ्गी तु दक्षे कर्तृकखर्परौ ।
खड्ग चेन्दीवरं वामे शीर्षे त्वेकजटां पुनः । वामपादं
शवस्योर्व्वोर्निधायोत्थाप्य दक्षिणम् । शवस्य हृदये न्यस्य
साट्टहासं प्रकुर्व्वती । नागहारशिरोमालाभूषिता
कामदा परा” । अस्यारूपविषये बहुविप्रतिपत्तिरस्ती-
त्यतस्तन्निरूपणं तावत् क्रियते
राघवकृते पञ्चकल्पतरौ मन्दारवृक्षप्रकरणे श्रीशङ्कराचार्य्य
कृतैतदीयमूर्त्तिप्रकाशकस्तोत्रं यथा । “ज्वलत्पाबक-
ज्वालयोज्ज्वालभास्वच्चितामध्यसंस्थां सुपुष्टां सुखर्वाम् ।
शवं वामपादेन कण्ठे निपीड्य स्थितां दक्षिणेनाङ्घ्रिणोरू
निपीड्य । वृहद्भीमलम्बोदरीं मेघवर्ण्णां समुत्तुङ्गपीनस्तना
भोगरम्याम् । जवारागरागप्रवृत्तत्रिनेत्रां ललज्जि-
ह्वया दंष्ट्रया भीषणास्याम् । लसद्द्वीपिचर्म्मावृताङ्गीं
नितम्बे जटाजूटमध्यस्थितेन्दीवरालीम् । शिरोदेशभा-
स्वत्पिशङ्गाभसर्पां जटाजूटमध्यस्थिताक्षोभ्यमूर्तिम् । मिथः
केशबन्धात् शिरश्छिन्नसद्योगलच्छोणितां मानवीं मुण्डमा-
लाम् । दधानां च पञ्चाशदाख्यानसंख्याम् अतश्छिन्नमु-
ण्डालिसंनामिताङ्गीम् । समाच्छिन्नमांसोत्करामूर्द्धदक्षे स्फुर-
त्पाणिना धारयन्तीं महासीम् । करे वाम ईषत्स्फुर-
द्रक्तनालं लसन्नीलपङ्केरुहं धारयन्तीम् । करे सव्य उच्चै-
रधस्ताद्दधानां शितां कर्त्तृकां वामपाणौ कपालम् ।
जगद्वर्त्तिसंसारसंजातजाड्यं स्वतः कर्त्तृकाधारया खण्ड-
यन्तीम् । विचित्रास्थिमालं करालं कपालं ललाटे च
पञ्चान्वितं धारयन्तीम्” । इति तत्रैव मन्त्रप्रदीपे “महा-
ष्टासिद्धिप्रकटाहिभूषणाम् इत्यनेन अष्टनागानामष्टसिद्धिरूप-
त्वोक्त्या तेषां भूषणविशेषरूतया यथा स्थितिस्तथा तत्रैव
दर्शितं यथा । “जटास्वनन्तः श्रवसोश्च तक्षको महादि-
पद्मो हृदि हारभूषणम् । तथैव कर्कोटकृतोपवीतकम् स
मेखलायामथ देवि! वासुकिः । स शङ्खपालः किल कङ्क-
णोद्गतः करेषु, पद्मः पदयुक्समाश्रयः । भुजेषु नागः कुलि-
कोऽङ्गदे मतः” इति “तेषां वर्ण्णा अपि क्रमशोदर्शिताः
सितोऽथ रक्तीधवलश्च मेचकः तथैव पोतोऽप्यसिप्तश्च पाटलः ।
भुजङ्गमानामिह वर्णजातयो भवन्ति सर्वेषु नरेषुसन्ति ताः” ।
ततश्चायं निर्गलितार्थः । अभ्रं लिहपिशङ्कैकजटा जवाकुसुम-
सङ्काशतक्षकनागकृतकुण्डला शुभ्रशेषनागकृतहारा दूर्व्वा-
पृष्ठ १०५७
दलश्यामनागकृतयज्ञोपवीता नीलवर्ण्णा लम्वोदरी खर्वा
चतुर्भुजा तत्र उपरि दक्षिणे सरक्तमांसखण्डमण्डितमुष्टि-
निविष्टजटाजूटसंलग्नोग्रखड्गविभूषितकरा उपरि वामे
रक्तनालकिञ्चिद्विकस्वरनीलोत्पलकरा अधस्तात् दक्षिणे
वीजभूषितकर्त्तृकालङ्क्रतकरा अधस्तात् वामे त्रिजगज्जाड्य-
खण्डककपालमण्डितकरा भुजचतुष्टये धूम्राभनागकृतके-
यूरा कनकाभनागकृतकङ्कणा शवारूढा प्रत्यालीढस्थाना-
धिष्ठिता निर्भरयन्त्रणाप्रायेण शवहृदयस्थितदक्षिणचरणा
शवोरुद्वयस्थितप्रासारितवामपादा कुन्दाभनागकृतकटीसूत्रा
पाटलनागकृतनुपूरालङ्कृता सद्यश्छिन्नगलद्रधिरान्योन्यकेश-
ग्रथितपादपद्म प्रलम्बित--पञ्चाशत्तमनृमुण्डमाला ज्वल-
दनलचितामध्यस्थिता द्वीपिचर्म्मालङ्कृतकृष्णवस्त्रा योषि-
दखिलालङ्कारभूषिता मौलावक्षोभ्यरूपनागभूषिता पञ्च-
संख्यान्वितकपालमालाभूषितललाटा ललज्जिह्वा वृहद्दंष्ट्रा
इत्येवं रूपा । अत्र प्रमाणवाक्ययोः शवहृदयस्थत्वे वामद-
क्षिणपादयोर्विकल्पैत्यतोमूर्त्तिद्वयमित्यन्ये । प्रत्यीलाढपदा-
ङ्घिशवहृदित्युक्तेः आलोढं दक्षिणं पादं प्रत्यालीढं तु
वामकमित्युक्तेः आलीढशब्दे दर्शितवाक्याच्च प्रत्यालीढ-
शब्दस्य आलीढविपर्य्ययरूपत्वात् वामचरणस्यैव
शवहृदयस्थितिरिति तु न्याय्यम् ।

उग्रधन्वन् पु० उग्रं धनुर्यस्य ब० स० अनङ् समा० । १ शिवे

२ शत्रुभिरसह्यधनुष्के त्रि० । “स इषुहस्तैः स
निषङ्गिभिर्वशी संस्रष्टा सयुध इन्द्रोगणेन । संसृष्टजित् सोमपा
बाहुशर्द्ध्यु ग्रधन्वा प्रतिहिताभिरस्ता” ऋ० १०, १०३, ३ ।

उग्रनासिक त्रि० उग्रा दीर्घा नासिका यस्य । दीर्घनासिके ।

उग्रपुत्र पु० उग्रस्य शूरस्य पुत्रः । १ शूरवंशजाते । “काश्यो वा

वैदेहोवोग्रपुत्रः उज्ज्यं धनुरधिज्यं कृत्वा” शत० ब्रा० १४,
६, ८ । “उग्रपुत्रः शूरान्वयः” भा० “उग्रस्य शिवस्य पुत्रः ।
२ कार्त्तिकेये । उग्र उद्गूर्ण्णः पुत्रो यस्मिन् । ३ तादृशे
गभीरजलाशये “आँ उग्रपुत्रे जिघांसतः” ऋ० ८,
६७, ११ । उग्रपुत्रे उग्राः उद्गूर्ण्णाः पुत्रायस्मिन्
तत्तस्मिन्नुदके” भा० ।

उग्रम्पश्य त्रि० उग्रं पश्यति उग्र + दृश--खश् मुम् । पापा-

शयतया क्रूरदृष्टियुक्ते उग्रजन्तौ व्याघ्रादौ “उग्रम्पश्या-
कुलेऽरण्ये” भट्टिः ।

उग्रव्यग्र पु० असुरमेदे उग्रशब्दे उदा० ।

उग्रशेखरा स्त्री उग्रस्य शेखरं वासस्थानत्वेनास्त्यस्याः अर्श०

अच् । गङ्गायाम् शब्दरत्न० सा हि तस्य शिरसि स्थिता

उग्रश्रवस् पु० उग्रम् उत्कृष्टं श्रुतिधरं श्रवः कर्णो यस्य ।

१ रोमहर्षणे सौतौ । “लोमहर्षण उग्रश्रवाः सौतिः पौराणिको
नैमिषारण्ये” आ० १ अ० । २ धृतराष्ट्रपुत्रभेदे च ।
तत्पुत्रनामाख्याने “उग्रश्रवा उग्रसेनः क्षेममूर्त्तिस्तथैव
च” भा० आ० ६७ अ० “उग्रश्रवा उग्रसेनः सेनानीर्दु-
ष्पराजयः” भा० आ० ११७ अ० ।

उग्रसेन पु० उग्रा सेना यस्य । १ धृतराष्ट्र पुत्रभेदे, उग्रश्रव-

श्शब्दे उदा० । २ कुरुवंश्ये नृपभेदे । “कुरोस्तु पुत्राश्चत्वारः
सुधन्वा सुधनुस्तथा । परिक्षिच्च महाबाहुः” इत्युपक्रम्य
“परिक्षितस्तु दायादो धार्मिको जनमेजयः । जनमेजयस्य
दायादास्त्रय एव महारथाः । श्रुतसेनोग्रसेनौ च भोमसेनश्च
नामतः” हरि० ३२ अ० । अयञ्च जनमेजयः
अभिमन्युपौत्रात् भिन्नएव । अतएव “द्वावृक्षौ तव वंशे-
ऽस्मिन् द्वावेव च परिक्षितौ । भीमसेनास्त्रयोराजन्!
द्वौ चापि जनमेजयौ” इति जनमेजयं प्रति तत्रोक्तम् ।
यदुवंश्ये ३ नृपभेदे च । “अन्धकञ्च महाबाहुं वृष्णिञ्च
यदुनन्दनम्” इत्युपक्रम्य “अन्धकात् काश्यदुहिता चतुरोऽलभ-
तात्मजान् । कुकुरं भजमानञ्च शमं कम्बलबर्हिषम् । कुकुरस्य
सुतोधृष्णुर्धृष्णोसु तनयस्तथा । कपोतरोमा तस्याथ
तैत्तिरिस्तनयोऽभवत् । जज्ञे पुनर्वसुस्तस्मादभिजिच्च
पुनर्वसोः । तथा वै पुत्रमिथुनं बभूवाभिजितः किल ।
आहुकश्चाहुकी चैव ख्यातौ ख्यातिमतां वरौ” इत्याहुकोत्-
पत्तिमभिधाय “आहुकस्य तु काश्यायां द्वौ पुत्रौ
संबमूवतुः । देवकश्चोग्रसेनश्च देवगर्भसमावुभौ । नवोग्रसे-
नस्य सुताः तेषां कंसस्तु पूर्व्वजः” हरि० ३८ अ० ।

उग्रसेनज पु० जायते इति जन--ड ६ त० । कंसे तस्योग्रसेन

क्षेत्रेऽसुरजातत्वेन तत्पुत्रत्वम् । कंसशब्दे विवृतिः

उग्रादेव पु० उग्रेणादीव्यति आ + दिव--अच् ३ त० ।

राजर्षिभेदे “अग्निना तुर्वशं यदुं परावत उग्रादेवँ हवामहे”
ऋ० १, ३६, ३८, उग्रादेवनामकञ्च राजर्षिम्” भा० ।

उग्रायुध पु० उग्राणि आयुधान्यस्य । १ पौरवे राजभेदे तस्योत्-

पत्तिभीष्महननकथादि हरिवं० २० अ० । “अजमीढस्य
दायादः” इत्युपक्रम्य तद्वंशपरम्परा उक्त्वा
“तस्य वै सन्नतेः पुत्रः कृतो नाम महाबलः” इति कृतो
त्पत्तिमुक्त्वा । “कार्त्तिरुग्रायुधः सोऽथ वीरः पौरव
नन्दनः । बभूव येन विक्रम्य पृषतस्य पितामहः । नीपो-
नाम महातेजाः पञ्चालाधिपतिर्हतः । उग्रायुधस्य
दायादः क्षेम्यो नाम महायशाः । क्षेम्यात् सुवीरो नृपतिः
पृष्ठ १०५८
सुवीरात्तुनृपञ्जयः । नृपञ्जयाद्बहुरथ इत्येते पौरवाः
स्मृताः । सचाप्युग्रायुधस्तात । दुर्बुद्धिरभवत्तदा । प्रवृद्ध
चक्रो बलवान्नीपान्तकरणो महान् । स दर्पपूर्णोहत्वाजौ
नीपानन्यांश्च पार्थिवान् । पितर्युपरते मह्यं श्रावया
मास किल्विषम् । महामात्यैः परिवृतं शयानं धरणीतले ।
उग्रायुधस्य राजेन्द्र! दूतोऽभ्येत्य वचोऽब्रवीत् । अद्य त्वं
जननीं भीष्म! गन्धकालीं यशस्विनीम् । स्त्रीरत्नं
मम भार्य्यार्थे पयच्छ कुरुनन्दन! । एवं राज्यञ्च
ते स्फीतं धनानि च न संशयः । प्रदास्याभि यथाकाम
महं वै रत्नभाग् भुवि । मम प्रज्रलितं चक्रं
निशम्येदं सुदुर्ज्जयम् । शत्रवो विद्रवन्त्याजौ दर्शनादेव भारत!
राष्ट्रस्येच्छसि चेत् स्वस्ति प्राणानां वा कुलस्य वा । शासगे
मम तिष्ठस्व न हि ते शान्तिरन्यथा । अधःप्रस्तारशयने
शयानस्तेन नोदितः । दूतोऽन्तर्हितमेतद्वै वाक्यमग्नि
शिखोपमम् । ततोऽहं तस्य दुर्बुद्धेर्विज्ञाय मतमच्युत! ।
आज्ञापयं वै संग्रामे सेनाध्यक्षांश्च सर्वशः । विचित्र-
वीर्य्यं बालञ्च मदुपाश्रयमेव च । दृष्ट्वा क्रोधपरीतात्मा
युद्धायैव मनोदधे । निगृहीतस्तदाऽहं तैः सचिवैर्मन्त्र-
कोविदैः । ऋत्विग्भिर्द्देवकल्पैश्च सुहृद्भिश्चार्थदर्शिभिः ।
स्निग्धैश्च शास्त्रविद्भिश्च संयुगस्य निवर्त्तने कारणं श्रावित-
श्चास्मि युक्तरूपं तदाऽनघ!” । “प्रवृत्तन्तस्य तच्चक्रमधर्म
निरतस्य वै । परदाराभिलाषेण सद्यस्तात निवर्त्तितः ।
नत्वहं तस्य जाने तन्निवृत्तं चक्रमुत्तमम् । हतं स्वकर्म्मणा
तन्तु पूर्व्वं सद्भिश्च निन्दितम् । कृतशौचः शरी चापी
रथी निष्क्रम्य वै पुरात् । कृतस्वस्त्ययनो विप्रैः प्रायोध
यमहं रिपुम् । ततः संसर्गमागम्य बलेनास्त्रबलेन च ।
त्र्यहमुन्मत्तवद्युद्धं देवासुरमिवाऽभवत् । स मयाऽस्त्रप्रतापेन
निर्द्दग्धोरणमूर्द्धनि । पपाताभिमुखः शूरस्त्यक्त्वा प्राणा-
नरिन्दम! । एतस्मिन्नन्तरे तात! काम्पिल्यात् पृषतोऽभ्य-
गात् । हते नीपेश्वरे चैव हते चोग्रायुधे नृपे ।
अहिच्छत्रं स्वकं राज्यं पित्र्यं प्राप महाद्युतिः । द्रुप-
दस्य पिता राजन्ममैवानुमते तदा” भा० हरिव० २० अ०
२ धृतराष्ट्रपुत्रभेदे । तन्नामकीर्त्तने भा० आ० ६७ अ० ।
“उग्रायुधोभीमशरः कनकायुर्दृढायुधः” ।

उग्रेश पु० उग्राणामुत्कटरूपाणां प्रमथानामीशः । प्रमथाधिपे

शिवे । “शङ्करं भवमीशानं पिनाकशूलपाणिनम् ।
त्र्यम्बकं शिवमुग्रेणं बहुरूपमुमापतिम्” भा० व० प०
१०६ अ० ।

उङ्कुण पु० उमिति कृत्वा कुण्यते हिंस्यते कुण कर्म्मणि घञ्र्थेक ।

(उकुण्) उत्कुणे । शब्दमाला ।

उच समवाये दि० पर० सक० सेट् । उच्यति इरित् औचत्,-

औचीत् उवोच ओचिता उच्यात् ओचिष्यति औचिष्यत्
उचितः उग्रः । “उवोचिथ हि मघवन् देष्णम्” ऋ०
७, ३७, ३ । उचतिः सेबाकर्मेति माधवः “अभि वा एष
एतानुच्यति” तैत्ति० । “नियो गृभं पौरुषेयी-
मुवोच” ऋ० ७, ४, ३ । “तत्र सेदिन्युच्यतु सर्वाश्च यातु-
धान्यः” अथ० २, १४, ३ ।

उचथ न० उच्यते स्तूयतेऽनेन वच--कथन् । स्तोत्रे “यद्वां

मानास उचथमवोचन्” ऋ० १, १८२, ८ । उचथम्
स्तोत्रम्” भा० । “एवात इन्द्रोचथमहेम” ऋ० २, १९,
७ । “कुविन्नो अग्निरुचथस्य” ऋ० १, १४३, ६ ।

उचथ्य त्रि० उचथं स्तोत्रमर्हति यत् । १ स्तुत्ये २ राजभेदे पु०

“उचथ्ये वपुषि यः स्वराट्र” ऋ० ८, ४६, २८ । “उचथ्ये
स्तुत्ये । यद्वा उचथ्यो वपुश्च राजानौ” भा० ।

उचित त्रि० उच--क्त वच--कितच् वा । १ शस्ते २ परिविते,

३ युक्ते । “अमात्यैरिव नीवारभागधेयोचितैर्मृगैः” दिनानि
दीनोद्धरणोचितस्य” “प्रविश्य भीमासुरशोणितोचितः”
महीध्रपक्षव्यपरोपणोचितम्” रघुः “सार्द्धं कथञ्चिदुचितैः
पिचुमर्द्दपत्रैः” । “स्पर्शमुष्णमुचितं दधच्छिखी” मावः ।
“वंशोचितत्वादभिमानवत्याः” किरा० ।

उच्च त्रि० उत्क्षिय्य वाहू चीयते, उपर्य्युपरिनिविष्टैरवयवै-

श्चीयतेऽसौ वा उद् + चि--ड । १ उन्नते । “पुरस्तादुच्चम्”
कात्या० ७, १, २१ । “स तदुच्चकुचौ भवन् प्रभाझर--चक्रभ्र-
मिमातनोति यत्” नैषधम् । अस्मात् उत्कर्षे तरप् तमप् ।
“किंस्वित् गुरुतरं भूमेः किं स्विदुच्चतरञ्च खात्” भा० व०
३१ अ० । उच्चतमम्” कात्या० ७, १, १५ । देवय-
जनवर्णने “परितः समीपदेशवर्त्तिप्रदेशेभ्यो
यदतिशयेनोच्चम्” कर्कः । राशिचक्रमध्ये ग्रहविशेषाणां
२ राशिभेदे, यथा “मेषो वृषो मृगः कन्या कर्कमीनतुला-
धराः । भास्करादेर्भवन्त्युच्चाः राशयः क्रमशस्त्विमे”
ज्योति० त० । स्पष्टमुक्तं तत्रैव “रविर्मेषे वृषे चन्द्रो
गुरुः कर्के बुधः स्त्रियास् । शनिर्युके (तुलायाम्) मृगे
(मकरे) भौमः शुक्रो मीने च तुङ्गिनः” । तेषां राशिभाग-
भेदे परमोच्चतामाह तत्रैव “त्रिंशद्भागे दिशो (१०)
रामाः (३) अष्टविंशतिभिस्तिथिः १५ । तथेषुः (५) सप्तविंशश्च
विंशतिश्चोच्चसंज्ञकाः” । तथा च रवेर्भेषस्य दशमे भागे,
पृष्ठ १०५९
प्ररमोच्चता चन्द्रस्य वृषे ३ अंशे, कुजस्य मकर २८ भागे
बुधस्य कन्यायाः १५ भागे, गुरोः कर्क ५ भागे, भृगोः मीन
२७ भागे शनेस्तुला २० भागे तथात्वम् । “स्वोच्चाच्च
सप्तमं नीचं प्राग्वद्भागैर्विनिर्द्देशेत् । उच्चान्तः सूच्चसंज्ञः
स्यात् नीचान्ते तु सुनीचकः” परिपूर्णबलः सूच्चे सुनीचे
दुर्बलोग्रहः । सूच्चसुनीचयोरन्तर्भागहारात् फलं दिशेत्”
ज्योति० त० राहुकत्वोस्तु “उच्चं नृयुग्मं घटभं त्रिको
णं कन्यागृहं शुक्र शनी च मित्रे । सूर्य्यः शशाङ्को-
धरणीसुतश्च राहो रिपुर्विंशतिकः परांशः । सिंहस्त्रि-
कोणं धनुरुच्चसंज्ञं मीनोगृहं शुक्रशनी विपक्षौ । सूर्य्यार-
चन्द्राः सुहृदः समानौ जीवेन्दुजौ षष्ट्शिखिनः परांशाः”
ज्यो० त० । राशिपरत्वेऽस्य पुंस्त्वं भपरत्वे क्लीवतेति भेदः ।
भागहारात् ग्रहबलमुक्तं तदानयनप्रकारः नी० ता०
सूर्य्यादेर्मेषादीन्युच्चान्यभिधाय “तत् सप्तमं नीचमनेन
हीनो ग्र होऽधिकश्चेत् रसभाद्विंशोध्यः । चक्रात्,
तदंशाङ्कलवो बलं स्यात्” २ तथा च ताजके स्वोच्चे २० कला
बलं तेन षड्भिः राशिभर्यदि पूर्णवलं तदा इष्टांशैः
किमिति १८०, २०, १, त्रैराशिकेन प्रत्येकाशं १९ बलमा-
याति । जातके तु स्वोच्चे ६० कला बलं तेन प्रत्यंशं १३
बलम् । नी० ताजके “त्रिंशत्स्वभे विंशतिरुच्चभे स्वे” इति
उक्तम् । जातके तु श्रीपतिः ६० कला बलमाह यथा
“नीचोनोद्युचरोऽधिको यदि भवेत् षड़्भात् तदाप्त-
च्युतश्चक्रात् कॢप्तकलः खखाष्टखकुभि (१०८००) र्भक्तो-
बलं तुङ्गजम् । पादोनं तु बलं ३४, त्रिकोणगृहगे स्वर्क्षे
१२ दलं च त्रयो ३८ वखं शा ह्यधिमित्रगेऽथ चरणो
१४ मित्रे समर्क्षेऽष्टमः । १८ । शत्रुभे भवति षोड़ं-
शांशक ११६ श्चाधिशत्रुभवने रदांशकः १३२ ।
अत्र त्रिकोणादौ पादोनादिवलकथनात् स्वोचचे पूर्णबल-
मिति प्रतीयते तेन ६० कलास्तत्र थलमु ।
उच्चाभिमानिनि ग्रहाणां गतिभेदकारके भगणस्थे ३
जीवभेदे तेनैवाकर्षणात् ग्रहाणामुच्चादिगतिसम्भवः ।
स चं द्विविधः शीघ्रोच्चः मन्दोच्चश्च तादृशोच्च-
तायां कारणञ्च सू० सि० रङ्गनाथाभ्यां दर्शितंयथा
“अदृश्यरूपाः कालस्य मूर्तयो भगणाश्रिताः । शीध्रम-
न्दोच्चपाताख्या ग्रहाणां गतिहेतवः” सू० सि० १ । “शीघ्रो-
च्च मन्दोच्चपातसञ्ज्ञकाः पूर्व्वोक्तपदार्था जीवविशेषाः सूर्य्या-
दिग्रहाणां गतिकारणभूताः सन्ति । ननु कालेनैव ग्रह-
चलनं भवतीति कालो गतिहेतुर्नैत इत्यत आह
कालस्येति । पूर्व्वप्रतिपादितकालस्य स्वरूपाणि तथा
चैषां कालमूर्त्तित्वेन ग्रहगतिहेतुत्वं नासम्भवीति
भावः । ननु कालस्य घठ्यादिमूर्त्तित्वादेषां तदात्मक-
त्वाभावात् कथं कालमूर्तित्वमित्यत आह भगणाश्रिता
इति । भगोलस्थक्रान्तिवृत्तानुसृतग्रहगोलस्थकान्तिवृत्त-
प्रदेशाश्रिता इत्यर्थः । तथा च ग्रहराश्यादिभोगानां
कालवशेनैवोत्पन्नत्वात् तदात्मकानां कालमूर्तित्वमिति भावः ।
ननु ते दृश्यन्ते कुतो नेत्यत आह अदृश्यसूपा इति ।
वायवीथशरीरा अव्यक्तरूपत्वादप्रत्यक्षा इति भावः । एवं
च ग्रहाणामुच्चादिसम्भवात् स्पष्टक्रियोत्पन्नेति तात्पर्य्यम् १ ।
अथानयोरुच्चपातयोर्मध्य उच्चयोर्गतिहेतुत्वं प्रतिपादयति”
र० ना० १ “तद्वातरश्मिभिर्बद्धास्तैः सव्येतरपाणिभिः । प्राक्
पश्चादप्रकृष्यन्ते यथासन्नं स्वदिङ्मुखम्” २ सू० सि० ।
“तेषामुच्चसंज्ञकजीवानां वायुरूपा ये रश्मयो रज्जवस्ता-
भिर्बद्धा बिम्बात्मकग्रहास्तैरुच्चसंज्ञकजीवैः सव्यवामहस्तै-
रुच्चबहुत्वेन हस्तबाहुल्याद्बहुवचनं हस्ताभ्यामित्यर्थः ।
स्वदिङ्मुखं स्वाभिमुखं यथासन्नं ग्रहविम्बं भवति तथा
ग्राक् पश्चात् पूर्ब्बपश्चिममार्माभ्यामित्यर्थः । अपकृष्यन्ते
आकष्यन्ते । अयमभिप्रायः भवक्रगोलस्यक्रान्ति-
वृत्तानुसृतग्रहाकाशगोलान्तर्गतक्रान्तिवृत्ते कक्षारूपे स्वस्व-
प्रदेशे ग्रहोच्चपातास्तिष्ठान्ति । तत्र बिम्बव्यासोनकक्षा-
कारसूत्रं प्रवहयाय्वतिरिक्तवायुरूपं स्वतोगतिस्थाने
कम्पमानं ग्रहबिम्बष्यासे पूर्वापरे प्रोतमुच्चजीवहस्तद्व-
यान्तर्गतमस्ति । अथ ग्रहबिम्बमुच्चस्थानात् स्वशक्त्या
गच्छदपि वामहस्तस्थितसूत्रेणोच्चस्थानात्, पूर्वरूपेरा ग्रह-
स्थानात् पश्चिमरूपेण वृहत्सूत्रावयवात्मकेन स्वस्था-
नाद् पश्चात् स्वाभिमुखमपकृष्यते निरन्तरमुच्चदैवतैः
स्वशक्त्या यावत् षड़्भान्तरं तयोरन्तरं तन्मार्गेणाकर्षणस-
म्भवात् पूर्वस्मिन् गच्छद्ग्रहबिम्बं, सव्यहस्तस्थितसूत्रे-
णोच्चस्थानात् पूर्वस्मिन् स्वामिमुखमाकृष्यते स्वशक्त्या
निरन्तरं यावदन्तराभावस्तयोरिति” र० ना० । “अथात एवैक-
रूपां पूर्वाधिकारावगतां गतिं त्यक्त्वा कुतः प्रत्यक्षविलक्षणां
गतिं प्राप्ता ग्रहा इत्यत आह । “प्रवहाख्यो मरुत् तांस्तु
स्वोच्चाभिमुखमीरयेत् । पूर्वापरापकृष्टास्ते गतिं यान्ति
पृथग्विधाम्” सू० सि० ३ । “प्रवहाख्यः प्रवहसंज्ञको मरुद्वायुः
पश्चिमाभिमुखं भ्रसंस्तात् तुकारादुच्चानि स्वोच्चाभिमुख
स्वस्य प्रवहभ्रमणेनोच्चं भावप्रधाननिर्देशादुच्चता यस्यां
दिशि तत् स्वोच्चं पूर्वदिक् पूर्वंभाग एव ग्रहाणां प्रवहभ्रमे-
पृष्ठ १०६०
णोच्चगमनदर्शनात् तत्सम्मुखं पूर्व्वदिशीति तात्पर्य्यार्थः ।
ईरयेत् पश्चिमाभिमुखम्रमणसिद्धप्रागुक्तग्रहावलम्बनरूपेण
चालयतीत्यर्थः । अतः कारणात् ते ग्रहाः पूर्वं पश्चि-
मदिशोराकृष्टाः पृथग्विधां प्रथमावगतैकरूपभिन्नप्रका-
रावगतां प्रतिक्षणविलक्षणां गतिं गमनक्रियां यान्ति
प्राप्नुवन्ति । अवलम्बनाकर्षणाभ्यां प्रतिदिनं ग्रहाणां
गतेरन्यादृशत्वं तदनुसारेण ग्रहचारज्ञानं युक्तमिति
ग्रहाणां स्पष्टक्रियोत्पन्नेति भावः । यद्वा ननु वायु-
रज्जुभिः कथं ग्रहाणामाकर्षणं सम्भवति तद्रज्जूनां
विरलतया धनीभूतत्वाभावेनाकर्षणायोग्यत्वादित्यत आह ।
प्रवाहाख्य इति । उच्चदेवताहस्तद्वयस्थितकक्षाकारसूत्रं
वायुः प्रवहवायुसम्बन्धात् प्रवहसञ्ज्ञो न पश्चिमाभिमु-
खभ्रमत्प्रवहात्मकस्तान् ग्रहान् स्वोच्चाभिमुखं स्वीच्चदेवता
स्थानसम्मुखमीरयेत् प्रेरयति चालयति । तुकारादुच्च
स्थानात् पूर्वस्मिन् ग्रहे वायुः पश्चिमगत्या ग्रहं
चालयति पश्चिमस्थे वायुः पूर्वगत्या ग्रहं चालयतीत्यर्थः ।
तथा च कक्षाकारसूत्रं तदा तदा तथा तथा भ्रमतीति
दैवतैराकृष्यत इत्युपचारादुच्यत इति भावः । अत एव
ग्रहाणां स्वष्टक्रियोत्पन्नेत्याह । पूर्वापरापकृष्टा इति
उच्चदैवतैः पूर्वापरदिशयोराकृष्टा ग्रहाः पृथग्विधां
मध्यमातिरिक्तप्रकारां गतिं गमनक्रियां यान्ति । अतो
न केवलं मध्यक्रियया निर्वाहः” ३ र० ना० । अथ प्राक्
पश्चादपकृष्यन्त इत्युक्तं विशदयति । “ग्रहात् प्राग्भगणा-
र्द्धस्थः प्राङ्मुखं कर्षति ग्रहम् । उच्चसञ्ज्ञोऽपरार्द्धस्थ-
स्तद्वत् पश्चान्मुखं ग्रहम्” ४ सू० सि० । “ग्रहस्थानात्
पूर्वभागस्थराशिषट्कस्थित उच्चसञ्ज्ञो जीवो ग्रहविम्बं
पूर्व्वदिगभिमुखं स्वाभिमुखं कर्षत्याकर्षति । अपरा-
र्द्धस्थो ग्रहस्थानात् पश्चिमभागस्थराशिषट्कस्यितौच्च-
सञ्ज्ञो जीव इत्यर्थः । ग्रहविम्बं पश्चान्मुखं पश्चिम-
दिगभिमुखं स्वाभिमुखं तद्वदाकर्षतीत्यर्थः” ४ र० ना० ।
“अथ पूर्वोक्तसिद्धं फलितमाह । “स्वोच्चापकृष्टा भणणैः
प्राङ्मुखं यान्ति यद्ग्रहाः । तत् तेषु धनमित्युक्तमृणं
पश्चान्मुखेषु तु” सू० सि० ५ । “स्वोच्चजीवाकर्षिता
ग्रहाः पूर्वाभिमुखं मगणैः राशिभिर्भगोलस्थक्रान्ति-
वृत्तानुसृतस्वाकाशगोलान्तर्गतक्रान्तिवृत्ते द्वादशराश्य-
न्तिके यद्राशिविभागैरित्यर्थः । यद् यत्संख्यामितं
गच्छन्ति तत् तत्सङ्ख्यामितं भागादिकं फलरूपं तेषु
पूर्वावगतग्रहराश्यादिभोगेषु धनं योज्यम् । पश्चान्मुखेषु
पश्चिमाकर्षितग्रहपूर्वावगतराश्यादिभोगेषु तुकाराद्यत्स-
ङ्ख्यामितं फलरूपं पश्चिमतो गच्छन्ति तदित्यर्थः । ऋणं
हीनमिति एतत् पूर्वैः कथितम्” र० ना० ५ । सि० शि०
“सूष्ट्वा भचक्रं कमलोद्भवेन ग्रहैः सहैतद्भगणादिसंस्थैः ।
शश्वद्भ्रमे विश्वसृजा नियुक्तं तदन्ततारे च तथा
ध्रुवत्वे । ततोऽपराशाभिमुखं भपञ्जरे सखेचरे शीध्रतरे
भ्रमत्यपि । तदल्पगत्येन्द्रदिशं नभश्चराश्चरन्ति नीचो-
च्चतरात्मवर्त्मसु” । “यदेतद्भचक्रं ग्रहैः सह भ्रमद्दृश्यते
तद्विश्वसृजा जगदुत्पादकेन कमलोद्भवेन ब्रह्मणा
सृष्ट्यादौ सृष्ट्वा ततः शश्वद्म्रमेऽनवरतभ्रमणे नियुक्तम् ।
एतदुक्तं भवति । भान्यश्विन्यादीन्यन्यानि विशिष्टानि
ज्योतींषि तेषां समूहश्चक्रं ग्रहाश्च सूर्य्यादयस्तैः सह
सृष्टम् । तानि भानि प्राक्संस्थाया समन्तान्निवे-
शितानि । ग्रहास्तु भगणादावश्चिनीमुखे निवेशितास्त
उपर्य्युपरिसंस्थया । तत्रादौ तावदधश्चन्द्रः तदुपरि
बुधः, ततः शुक्रः, ततो रविः तस्माद्भौमः, ततो गुरुः
ततः शनिः । सर्वेषामुपरि दूरे भचक्रम् । एषां कक्षा-
प्रमाणानि चक्षाध्याये प्रतिपादयिष्यन्ते । अहो यद्यू-
र्ध्वोर्ध्वस्था ग्रहास्तदोपरि दूरतो भगणस्तत् कथं
भगणादिसंस्थैर्ग्रहैरित्युच्यते? सत्यम् । अत्र भूमध्ये सूत्र-
स्यैकमग्रं बद्ध्वा द्वितीयमग्रं भचक्रेऽश्विनीमुखे किल
निबद्धम् । तस्मिन् सूत्रे प्रोता मणय इव चन्द्रादयो
ग्रहा सृष्ट्यादौ ब्रह्मणा निवेशिताः । भमण्डलं द्वाद-
दशधा विभज्यैवं भूमध्यात् सूत्राणि प्रतिभागं नीत्वा
किल बद्धानि तैः सूत्रैः सह ग्रहकक्षायां ये संपातास्ते
तासु कक्षासु राश्यन्ताः । तद्वत्प्रकारा राशय इति
संक्षिप्तमिहोक्तम् । कक्षाध्याये गोले च किञ्चिद्विस्तार्य्य
बक्ष्यामः । एवंविधं भचक्रं सृष्ट्वा ब्रह्मणा गण्ने
निवेशितम् । यत्र निवेशितं तत्र प्रवहो नाम वायुः ।
स च नित्यं प्रत्यग्गतिः । तेन समाहतं भचक्रं सखेचरं
पश्चिमाभिमुखभ्रमे प्रवृतम् । यत् तस्य प्रत्यग्भ्रमणं
तच्छीघ्रतरम् । यत एकेनाह्ना भमण्डलस्य परिवर्त्तः ।
एवं तस्मिन् भपञ्जरे सखेचरे शीघ्रतरे भ्रमत्यपि खेचरा
इन्द्रदिशं चरन्ति पूर्व्वाभिमुखं व्रजन्ति नीचोच्चतरा-
त्मवर्त्मसु । अनन्तरकथितेषु खस्वमार्गेषु तेषां प्राग्भ्र-
मणम् । तत् तदल्पगत्या, प्रत्यग्गतेर्बहुत्वात् प्रागल्प-
गत्या व्रजन्तो नोपलक्ष्यन्त इति भावः । तथा तस्म
भपञ्जरस्य यो दक्षिणोत्तरावर्त्तौ तत्र ये तारे ते ध्रूवत्वे
पृष्ठ १०६१
नियुक्ते” प्रमि० । तथा श्रीपतिः । “स्वव्यापारात्
प्राग्गतिः खेचराणामूर्ध्वाधस्ताद्याम्यसौम्यापराणि ।
गोलाभिज्ञैः पञ्च यातानि यानि तेषामुक्तान्यन्यहेतूनि
तानि । प्रत्यग्गतिः प्रवहवायुवशेन तेषां नीचोच्चवृत्तजनि-
तीर्ध्वमधश्च सा स्यात् । याम्योत्तरा त्वपमवृत्तविमण्ड-
लाभ्यां षोढा गतिर्निगदितैवमिह ग्रहाणाम्” उच्चता च
महत्त्वव्याप्यगुणभेदः । सा च उपर्य्युपरिसन्निवेशि-
तावयवनां महत्त्वे भवति तस्य गुणचनत्वात् ततः भावेऽर्थे
ष्यज् । औच्च्यम् उच्चतायां न० । त्व । उच्चत्व तत्रार्थे
न० तल् । उच्चता स्त्री । “उच्चस्थे ग्रहपञ्चके सुरगुरौ
सेन्दौ नवम्यां तिथौ लग्ने कर्कटके पुनर्वसुदिने
मेषं गते पूषणि । निर्दग्धुं निखिलाः पलाशसमिधः
मध्यादयोध्यारणेराविर्भूतमभूदपूर्व्वविभवं यत्किञ्चिदेकं
महः” तिथित० पु० । “ग्रहैस्ततः पञ्चभिरुच्चसंस्थितै-
रसूर्य्यगैः सूचितभाग्यसम्पदम्” रघुः । “स्वोच्चस्थः
स्वगृहेऽपि वा स्वसुहृदां वर्गेऽपि वा” ज्योति० त० ।

उच्चकैस् अव्य० उच्चैस् + टेरकच् । १ उच्चतायां २ तद्विशिष्टे च ।

“जनितमुदस्थादुच्चकैरुच्छ्रितोरः” “स्थितोदयाद्रेरभिसाय-
मुच्चकैः” माधः । उत्कर्षार्थो तरबादि उच्चैश्शब्दवत् ।

उच्चक्षुस् त्रि० उत्क्षिप्तमुत्पाटितं वा चक्षुर्यस्य प्रा० ब० ।

१ ऊर्द्धोत्क्षिप्तनेत्रे २ उत्पाटितनेत्रे च । ततः च्वि इच्चक्षूक-
रोति उच्चक्षूभवति उच्चक्षूस्यात् ।

उच्चटा स्त्री उद्--चट--अच् । १ लशुनभेदे, २ गुञ्जायां

३ चूड़ालायाम्, ४ भूम्यायलक्याम् ५ नागरमुस्तायाञ्च ।

उच्चण्ड त्रि० उद्--चडि--अच् । १ अत्यन्तोग्रे २ अतिकोपने,

३ त्वरायुक्ते अविलम्बिते । ४ प्रखरस्पर्शे पु० ५ तद्वति त्रि० ।

उच्चतरु च० कर्म्म० । १ नारिकेले वृक्षे । २ उच्चद्रुममात्रे च ।

उच्चताल न० उच्चः तालः हस्ततालः यत्र । १ पानगोष्ठ्यां मत्त-

तया तत्र उच्चैर्हस्ततालदानात्तथात्वम् । ३ उन्नततालवृक्षे च

उच्चदेव पु० उच्चः श्नेष्ठो देवः । वासुदेवे त्रिका० । तस्य “सर्वदे

वमयो हरिः” इत्युक्तेः सर्व्वदेवमयत्वात् सत्वप्रघान-
त्वाच्च उत्कृष्टत्वम् अतएव भागवते “श्रेयांसि तत्र खलु
सत्वतनोर्नृणां स्युरिति” सत्वप्रधानत्वात् तस्य श्रेयःसाध-
नत्वमुक्तम् ।

उच्चन्द्र पु० उच्छिष्टः स्वल्पाऽवशिष्टश्चन्द्रो यत्र प्रादि० ब०

शिष्टशब्दलोपः । रात्रिशेषे शब्दरत्ना० ।

उच्चय पु० उत्पाट्य चयः चि--अच् । १ पुष्पादेरुत्तोलने । “पुष्पो-

च्चयं नाटयति” शकु० । “करिष्यामि शरैस्तीक्ष्णैस्त-
च्छिरःकमलोच्चयम्” रघुः । “प्रत्युपसदमेकोच्चयेन
कपालान्येककपालप्रभृतीनाम्” कात्था० २३, २, २० । उत्त-
रेषु पुरुषोच्चयेनैवैकशतविधात् १६, ८, २५ ।
२ नारीकट्यंशुकग्रन्थौ “नीविः स्यादुच्चयोऽप्ययम्” मार्त्तण्डः
उत्कृष्टश्चयः । ३ वृहत्समुदाये च अभ्युच्चयः । “वाक्यं स्या-
द्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः” सा० द० । स निर्घृष्या
ङ्गुलिं रामोऽधी मनःशिलोच्चये” रामा० । “एकतः
सरितः सर्व्वाः गङ्गाद्याः सलिलीच्चयाः” भा० व० ८८
अ० । “नैकद्रव्योच्चयवतीं समृद्धविपणापणाम्” भा०
अनु० ३० अ० । शिलोच्चयोऽपि क्षितिपालमुच्चैः” रघुः ।
कर्म्मणि अच् । ४ हस्ताभ्यामुद्धृत्यावचिते नीवारे” हारा० ।

उच्चल न० । उद् + चल--अच् । १ मनसि हेमच० तस्य “असं-

शयं महाबाहो! मनोदुर्निर्ग्रहं चलम्” गीतोक्तेश्चञ्चलस्व-
भावत्वात्तथात्वम् । २ चलस्वभावसात्रे त्रि० ।

उच्चलित त्रि० उद् + चल--क्त । गमनोद्यते प्रस्तुते गत्युद्युक्ते

उच्चललाटा स्त्री उच्चं ललाटं यस्याः । उन्नतललाटरूपदुर्ल-

क्षणायां स्त्रियाम् । स्त्रीणां च दुर्लक्षणम् कन्याशब्दे वक्ष्यते

उच्चनीच त्रि० उच्चैश्च नीचैश्च मयू० समा० । उन्नतावनत

प्रदेशादौ “द्रष्टारमुच्चनीचानां कर्म्मभिर्द्देहिनां गतिम्” ।
भा० आश्व० १६ अ० ।

उच्चा अव्य० उद् + ची--ड़ा । १ उच्चैः शब्दार्थे । “अमीय ऋक्षा-

निहिता स उच्चा” ऋ० १, २४, १० । “उच्चा उच्चैःप्र-
देशे” भा० । “उच्चा दिवि दक्षिणावन्तोअस्थुर्ये” ऋ०
१०, १०७, २ । “अस्माकं द्युम्नमधिपञ्च कृष्टिषूच्चा”
२, २, १० । “उच्चा उच्चैः” भा० । “अवतमुच्चा-
चक्रं परिज्मानम्” ८, ७२, १० । “उच्चाचक्रमुप-
रिस्थितचक्रम्” भा० उच्चाबुध्नं नीचादुच्चाचक्रथुः
पातवे वाः” ऋ० १, ११६, २२ । २ उन्नतायां स्त्रियां स्यी
“उच्चारणत्पक्षिगणास्तटोस्तम्” माघः ।

उच्चाटन न० उद्--चट्--णिच्--ल्युट् । १ उत्पाटने स्वस्थानात्

२ विश्लेषणे “उच्चाटनं स्वदेशादेर्भ्रंशनं परिकीर्त्तितम्”
इति शा० ति० उक्ते ३ षट्कर्म्मान्तर्गतेऽभिचारभेदे च । उच्चाट्य
तेऽनेन करणे ल्युट् । तन्त्रोक्ते ४ तत्साधनकर्म्मणि ।
तन्त्रसारे वगलाया अभिचारप्रयोगे कुण्डलक्षण-
मुपक्रम्य “वश्ये तु चतुरस्रं चाकर्षणे तु त्रिकोणकम् ।
तथैवोच्चाटने प्रोक्तं षट्कोणे मारणं स्मृतम् । वश्ये मेषासनं
श्रेष्ठं कर्षणं व्याघ्रचर्म्मणि । शान्तौ मृगासनं प्रोक्तं स्तम्भो
गोचर्म्मणि स्मृतः । उष्ट्रासनं तथोच्चाटे विद्वेपे तुरगा-
पृष्ठ १०६२
सनम्” मारणे महिषीचर्म्म मोह च गजासनम् ।
मधुलाजतिलादीनि वश्यशान्तिकराणि च । आकर्षणे तथा
लोध्रं सतिलं मधुरान्वितम् । निम्बपत्रञ्च तैलाक्तं विद्वेष-
करणं परम् । हरितालं हरिद्रा च लवणेन च संयुता ।
स्तम्भयेत्तत्र देविशि! प्रज्ञाञ्चैव गतिं मतिम् । वाजिना-
थस्य सारेण रुधिरेण च होमयेत् । मारणे तु रिपोर्देवि!
श्मशानाग्नौ हुनेन्निशि । क्षुद्राणां काकपक्षाणां गृहधूमेन
संयुतम् । लाजान् त्रिमधुरोपेतान् सर्वरोगप्रशान्तये” तन्त्र-
सा० उच्चाटनप्रकारा बहवोदर्शितास्तत्र सामान्यप्रकारस्त-
त्राभिधीयते निबन्धे “शान्तिवश्यस्तम्भनानि विद्वेषोच्चा-
टने ततः । मारणं तानि शंसन्ति षट् कर्माणि मनीषिणः ।
रतिर्व्वाणी रमा ज्येष्ठा दुर्गा काली यथाक्रमात् ।
षट्कर्म्मदेवताः प्रोक्ताः तस्मादेताः प्रपूजयेत् ।
ईशचन्द्रेन्दुनिरृतिवाय्वग्नीनां दिशोमताः । सूर्य्योदयं
समारभ्य घटिकादशकं क्रमात् । ऋतवः स्युर्व्वसन्ताद्या
अहोरात्रे दिनेदिने । वसन्तग्रीष्मवर्षाख्यशरद्धेमन्तशैशिराः ।
जलं शान्तिविधौ शस्तं वश्ये वह्निरुदाहृतः । स्तम्भने
पृथिवी शस्ता विद्वेषे व्योम कीर्त्ति तम् । उच्चाटने स्मृतो
वायुर्भौमाग्निर्म्मारणे मतः । तत्तद्भूतोदये सम्यक् तत्तन्मण्ड-
लसंयुतम् । तत्तत् कर्म्म प्रकर्त्तव्यं मन्त्रिणा निश्चिता-
त्मना । शीतांशुसलिलक्षौणीव्योमवायुहविर्भुजाम् । वर्ण्णाः
स्युर्मन्त्रवीजानि षट्कर्मसु यथाक्रमम् । ग्रथनञ्च विदर्भश्च
संपुटो रोघनं तथा । योगः पल्लव इत्येते विन्यासाः
षट्सु कर्मसु । मन्त्रान्ते विहतान् कृत्वा साध्यवर्ण्णान्
यथाविधि । ग्रथनं तत् विजानीयात् प्रशस्तं शान्ति-
कर्मणि । मन्त्रार्ण्णद्वयमध्यस्थं साध्यनामाक्षरं लिखेत् ।
विदर्भ एष विज्ञेयो मन्त्रिभिर्व्वश्यकर्मणि । आदावन्ते
च मन्त्रः स्यान्नाम्नोऽसौ सम्पुटः स्मृतः । एष स्यात् स्तम्भ-
ने शस्त इत्युक्तो मन्त्रवेदिभिः । नाम्न आद्यन्तमध्येषु
मन्त्रः स्याद्रोधनं स्मृतम् । विद्वेषणविधाने तु प्रशस्तमिद-
मुत्तमम् । मन्त्रस्यान्ते भवेन्नाम योगः प्रोच्चाटने मतः ।
अन्ते नाम्नो भवेन्मन्त्रः पल्लवोमारणे मतः” । भूतानामु-
दयः शा० चि० । “दण्डाकारा गतिर्भूमेः, पुटयोरुभयोरधः ।
तोयस्य, पावकस्योर्द्धगतिस्तिर्य्यङ्नभस्वतः । गतिर्व्व्योम्नो-
भवेन्मध्ये भूतानामुदयः स्मृतः । धरणेरुदये कुर्य्यात्
स्तम्भनं वश्यमात्मवित् । शान्तिकं पौष्टिकं कर्म तोयस्य,
तेजसस्तथा । मारणादीनि मरुतोविपक्षोच्चाटनादिकम् ।
शत्र विद्वेषणं शस्तमुदये च विहायसः” । भूतमण्डला-
दिकं तत्रैवावसेयम् । षट्कर्मकरणनिमित्तमाह रुद्रया-
मले “उपस्थिते महाशत्रौ राष्ट्रपीड़ासु रुग्भये ।
भूमिवित्तमहोत्पाते भूतभीतिविपत्सु च । मातःपरतरं
कर्म्म कलौ शान्तिकरं प्रिये! । मारणं बोहवं स्तम्भं विद्वेष-
णमथापि वा । वशीकरकर्म्माणि तथोच्चाटनकर्म्म च ।
सर्वत्र साधयेन्नाम्ना ततोनान्यत् शुभावहम् । विशेषतः
शत्रुसंघरोगोप्रद्रवनाशनम् । शत्रूणां कर्म्मनाशे च तथा
शत्रुपराजये । आत्मनो विजये चैव नातःपरतरा
क्रिया” । घञ् । उच्चाटोऽप्यत्र पु० । “उष्ट्रासनं
तथोच्चाटे” तन्त्रसारः ।

उच्चार पु० उद् + चर--णिच्--घञ् । १ उच्चारणे । “तस्यकार्य्येऽनु-

च्चारः” मु० बो० “मन्त्रोच्चारपरायणः” पु० । उच्चार्य्यते
अपानवायुना उत्क्षिप्यते कर्म्मणि घञ् । २ पुरीषे ।
विण्मूत्रोत्सर्गविधानप्रकारः आ० त० नानावचनैर्दर्शितो
यथा विष्णुधर्मीत्तरे “निद्रां जह्याद्गृही राम! नित्य-
मेवारुणोदये । वेगोत्सर्गं ततः कृत्वा दन्तधावनपूर्व्वकम् ।
अरुणोदयकालमाह स्कन्दपुराणम् “उदयात् प्राक्
चतस्रस्तु नाड़िका अरुणोदयः । तत्र स्नानं प्रशस्तं
स्यात्तद्धि पुण्यतमं स्मृतम्” । नाड़िका दण्डः ।
“नाड़ीषष्ट्या दिवानिशम्” इत्युक्तेः । विष्णुधर्म्मोत्तरे “वेग-
रोधं न कर्त्तव्यमन्यत्र क्रोधवेगतः” । “वेगरोधं
न कत्तेव्यमिति तु कां दिशं गन्तव्यमितिवत् भावाख्यातेतर-
त्वात् साधुत्वम् । आयुर्वेदीयेऽपि “न वेगिनोऽन्यसिद्धिः
स्यात् नाजित्वा साध्यमामयम्” । अङ्गिराः “उत्थाय
पश्चिमे रात्रेस्तत आचम्य चोदकम् । अन्तर्धाय तृणै-
र्भूमिं शिरः प्रावृत्य वाससा । वाचं नियम्य यत्नेन
ष्ठीवनोच्छ्वासवर्जितः । कुर्य्यान्म त्रपुरीषे तु शुचौ देशे
समाहितः” विष्णुपुराणम् “ततः कल्यं समुत्थाय कुर्य्या-
न्मैत्रं नरेश्वर! । नैरृत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः”
तिष्ठेन्नातिचिरं तस्मिन्नैव किञ्चिदुदीरयेत्” । कल्यमुषः
कालम्, मैत्रं मित्रदेवताकपायुसम्बन्धात् पुरीषोत्सर्गम्,
नैरृत्यामुत्थानदेशभारभ्य उत्थायेत्यनेनोपस्थितेः ।
इषुविक्षेपमतीत्य इषुविक्षेपयोग्यदेशाद्वहिः । तद्देशपरिमाण
माह पितामहः “मध्यनेन तु चापेन प्रक्षिपेत्तु
शरत्रयम् । हस्तानान्तु शते सर्व्वे लक्ष्यं कृत्वा विचक्षणः” ।
आपस्तम्बः “मूत्रपुरीषे कुर्य्यात् दक्षिणां दिशं दक्षि-
णापराग्वेति” । दक्षिणापरा नैरृती । मनः “मूत्रो-
च्चारसमुत्सर्गं दिषा कुर्य्यादुदङ्मुखः । दक्षिणाभिमुखो
पृष्ठ १०६३
रात्रौ सन्ध्ययोश्च यथा दिवा” । उच्चारः पुरीषम् । यत्तु
यमवचनं “प्रत्यङ्मुखश्च पुर्ब्बाहणे अपराह्णे च प्राङ्मुखः ।
उदङ्मुखस्तु मध्याह्ने निशायां दक्षिणामुखः” इति तत्
उदङ्मुखेन सहेच्छाविकल्पार्थं सूर्य्याभिमुखनिरासार्थञ्च
न तु नियमार्थं देवलवचनविरोधात् । तथा च “सदैवो-
दङ्मुखः प्रातः सायाह्ने दक्षिणामुखः । विण्मूत्रे
आचरेन्नित्यं सध्यायां परिवर्जयेत्” इति । प्रातःसा-
याह्नशब्दौ दिवारात्रिपरौ पूर्व्वोक्तमनुवचनैकवाक्यत्वात् ।
सन्ध्यायां परिवर्जयेदिति तु पीड़ितेतरपरम् । यमः
“कृत्वा यज्ञोपवीतन्तु पृष्ठतः कण्ठलम्बितम् । विण्मूत्रे च
गृही कुर्य्यात् यद्वा कर्णे समाहितम्” । पृष्ठतः पृष्ठे
कण्ठलम्बितं निवीतम् । अत्र लम्बितं निवीतम् । “संवीतं
मानुषे कृत्ये” इति तैत्तिरोयश्रुतेः । मानुषे सनकादिकृत्ये ।
पृष्ठलम्बितं निवीतम्” इति बौधायनवचनाच्च । तथा च
हारवत् कृत्वा पृष्ठलम्बितम् स्कृन्धे इत्यर्थः । अत्र
व्यवस्थामाह सांख्यायनः । “यद्येकवस्त्रो यज्ञोपवीतं कर्णे
कृत्वा अवगुण्ठितः” इति कर्णे दक्षिणकर्णे । “पवित्रं
दक्षिणकर्णे कृत्वा विण्मूत्रमाचरेत्” इति स्मृतौ तथा दर्श-
नात् । अवगुण्ठितः कृतशिरोऽवगुण्ठनः । मनुः “छाया
यामन्धकारे वा रात्रावहनि वा द्विजः । यथासुखमुखः
कुर्य्यात् प्राणबाधाभयेषु च” महाभारते । “प्रत्यादित्यं
प्रतिजलं प्रति गाञ्च प्रतिद्विजम् । मेहन्ति ये च पथिषु
ते भवन्ति गतायुषः” । प्रतिः सांमुख्ये । मनुः “न मूत्रं
पथि कुर्व्वीत न भस्मनि न गोव्रजे । न फालकृष्टे न जले
न चित्यां नच पर्व्वते । न जीर्णदेवायतने न वल्सीके
कदाचन । न ससत्वेषु गर्त्तेषु न गच्छन्नापि संस्थितः ।
न नदीतीरमासाद्य न च पर्व्वतमस्तके । वाय्वग्निविप्रा-
नादित्यमपःपश्यंस्तथैव च । न कदाचन कुर्व्वीत विण्मू-
त्रस्य विसर्जनम्” । ससत्वेषु प्राणिमत्सु संस्थितः
उत्थितः पर्वतमस्तकनिषेधोऽधिकदोषाय । वशिष्ठः ।
“आहारर्निहारविहारयोगाः सुसम्भृता धर्म्मविदा तु
कार्य्याः । वाग्बुद्धिकार्याणि तपस्तथैव धनायुषी गुप्ततमे
तु कार्य्ये” । निर्हारो मूत्रपुरीसोत्सर्गः विहारः स्त्री-
सम्भोगः । योगः समाधिः । वाग्गुप्तिरशुभालापत्यागः ।
बुद्धिगुप्तिरनिष्टचिन्तात्यागः । हारीतः “आहारन्तु रहः
कुर्य्यात् निर्हारञ्चैव सर्वदा । गुप्ताभ्यां लक्ष्म्युवेतः स्यात्
प्रकाशे हीयते तया” । विष्णुपुराणम् “सोमाग्न्यर्काम्बु-
वायूनां पूज्यानाञ्च न सम्मुखे । कुर्य्यात् ष्ठीवनविण्मूत्रसमु-
त्सर्गञ्चपण्डितः” । आपस्तम्बः “न च सोपानत्को
मूत्रपुरीषे कुर्य्यादिति” । वृहन्मनुः “करगृहीतपात्रेण
कृत्वा मूत्रपुरीषके । मूत्रतुल्यन्तु पानीय पीत्वां चान्द्रा-
यणञ्चरेत्” । भरद्वाजः “अथ विकृष्य विण्मूत्रं लोष्ट्र-
काष्ठतृणादिना । उदस्तवासा उत्तिष्ठेद्दृढं विधृतमेहनः”
उदस्तवासा कटिदेशादुत्क्षिप्तवस्त्रः” आ० त० “मूत्रोच्चारौ
च कारयेत्” । “यस्योच्चारं विना मूत्रं सम्यग् वायुश्च गच्छति”
सुश्रु० । “दाने तपसि शौर्य्ये च यस्य न प्रथितं मनः ।
विद्यायामर्थलाभे च मातुरुच्चार एव सः” हितो० ।
उल्लङ्घ्य चारोगतिः । ३ ग्रहादीनां राशिनक्षत्रान्तर-
सञ्चारे । “ऋक्षादृक्षं शतेनाब्दैर्यात्सु चित्रशिखण्डिषु ।
“उच्चारे संहिकाकारैः” सि० रा० त० ।

उच्चारण न० उद्घातेन कण्ठाद्यभिघातेन चार्य्यते निष्पाद्यते

उद् + चर--णिच्--ल्युट् । कण्ठताल्वाद्यभिघातेन शब्दजनके
व्यापारे तत्प्रकारस्तु “आत्मा बुद्ध्या समेत्यार्थान्
मनोयुङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति स प्रेरयति
मारुतम् । सोदीर्ण्णोमूर्द्ध्न्यमिहतो वक्त्रमापद्य मारुतः ।
वर्ण्णान् जनयते तेषां विभागः पञ्चधा मतः” इति शिक्षो-
क्तदिशावसेयः । वर्ण्णोत्पत्तिस्थानानि चाष्टौ । “अष्टौ
स्थानानि वर्ण्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं
च दन्ताश्च नासिकोष्ठौ च तालु च” शिक्षाकदुक्तानि ।
विवृतिर्वर्णशब्दे दृश्या । यथा च कण्ठताल्वाद्यभिघातेनवो-
च्चारणसम्भवस्तथा” ईश्वरशब्दे अनुमा० चिन्ता० १०२६
मृष्ठे दर्शितम् । “उच्चारणज्ञोऽथ गिरां दधानम्” माघः ।
“वेदोच्चारणकार्य्यार्थमयुक्तं तत्त्वया धृतम्” भा० व० २१४
अ० “सजातीयोच्चारणानपेक्षोच्चारणविषयत्वं वेदस्यापौरु-
षेयत्वम्” मीमांसकाः वेदान्तिनश्च प्रतिपेदिरे ।

उच्चारित त्रि० उच्चार--तारका० इतच् । १ कृतविष्ठोत्सर्गे ।

उद + चर--णिच्--कर्म्मणि क्त । यस्योच्चारणं कृतं तादृश
वर्णादौ “तएव शक्तिवैकल्य प्रमादालसतादिभिः । अन्यथो-
च्चारिताः शब्दा अपशब्दा इतीरिताः” भर्त्तृह० । उद् +
अन्तर्भूतण्यर्थे चर--क्त । उच्चरितोऽप्युक्तार्थे “सकृदुच्चरितः
शब्दः सकृदर्थं गमयतीति” तत्पार्य्यग्रन्थे न्यायः ।

उच्चार्य्य अव्य० उद + चर--णिच् + ल्यप् । १ कण्ठाद्यभिघातेन

उत्पाद्येत्यर्थे । कर्म्मणि यत् । २ उच्चारणीये वर्ण्णादौ त्रि० ।

उच्चार्य्यमाण त्रि० उद् + चर--णिच्--कर्म्मणि शानच् ।

यस्योच्चारणं क्रियते तस्मिन् वर्ण्णादौ “कस्मैचित् कार्य्यायो-
च्चार्य्यमाणो वर्ण्णैत्संज्ञः, भुग्धबो० ।
पृष्ठ १०६४

उच्चावच त्रि० उदक् उत्कृष्टञ्च अवाक् अपकृष्टञ्च मयू० नि० ।

उत्कृष्टापकृष्टात्मके नानाभेदे “उच्चावचैरपि गतेषु सहस्र-
संख्याम्” माघः “भवत्युतेव महाब्राह्मण उतेवोच्चा-
वचं निगच्छति” शत० ब्रा० १४, ५, १, १९ । अथ
खलूच्चावचा जनपदधर्मा ग्रामधर्म्माश्च तान् विवाहे प्रतोयात्”
आश्व० गृ० १, ७, १, । “उच्चावचेषु भूतेषु स्थितं तं व्याप्य
तिष्ठतः” । “उच्चवचानि भूतानि सततं चेष्टयन्ति याः” मनुः

उच्चिङ्गट पु० १ तृणगड़मत्स्ये, २ कोपनपुरुषे च मेदि० ।

उच्चिटङ्ग पु० विषकीटभेदे (उच्चिङ्गड़े) सुश्रुते “जङ्गमस्य

विषस्योक्तान्यधिष्ठानानि षोड़श” इत्युपक्रम्य “वृश्चिकबिश्व-
म्भरराजीवमत्स्योच्चिटङ्गसमुद्रवृश्चिकालविषाः” इत्युक्त्वा
तस्य शूकतुण्डविषत्वमप्युक्तम् “सूक्ष्मतुण्डोच्चिटङ्गवर-
टीशतपदीशूकबलभिकाशृङ्गीभ्रमराः शूकतुण्डविषाः” तेषा-
मुत्पत्तिस्थानमपि तत्रोक्तम् “सर्पाणां शुक्रविण्मूत्रशवपूत्य-
ण्डसम्भवाः । वाय्वग्न्यम्बुप्रकृतयः कीटास्तु विविधाः स्मृताः”
इत्युपक्रम्य “उच्छिटङ्गोऽग्भिनामा तु चिच्चिटि-
ङ्गोमयूरिका” इत्यादीन् अष्टादश कीटानभिधाय “अष्टा-
दशेति वायव्याः कीटाः पवनकोपनाः” सुश्रु० ।

उच्चूड़(ल) पु० उन्नता चूड़ा यस्य डस्य वा लत्वम् । ध्वजोर्द्धस्थे वस्त्रखण्डे ।

उच्चैःशिरस् त्रि० उच्चैरुन्नतं शिरोऽस्य । उन्नतमस्तके

महत्तरे “ममत्वमुच्चैःशिरसा सतोव” कुमा० । वा रोः शत्वम् ।

उच्चैःश्रवस् त्रि० उच्चैरुन्नतं श्रवोऽस्य । १ उन्नतकर्णे समुद्र-

जाते श्वेतवर्णे इन्द्रस्य वाहनभूते सप्तमुखे २ अश्वभेदे पु० ।
अस्य चोत्पत्तिकथा यथा “तत उच्च्यैःश्रवानाम हयोऽ-
भूच्चन्द्रपाण्डरः” भाग० ७ स्क० ७ अ० । “गृहीतोऽश्वः
सप्तमुखस्त्वया नृप बलात् किलेति” भागवतोक्तेरस्य सप्तमुख-
त्वम् । “धन्वन्तरिस्तथा मद्यं श्रोर्देवी कौस्तभोमणिः ।
शशाङ्को विमलश्चापि समुत्तस्थुः समन्ततः । उच्चैःश्रवा
हयोरम्यः पीयूषं तदनन्तरमिति” हरिवं० २२० अ० ।
“उच्चैरुच्चैःश्रवास्तेन हयरत्नमहारि च” कुमा० ।
“उच्चैःश्रवाजलनिधेरिव जातमात्रः” “न चित्रमुच्चैःश्रवसः
पदक्रमम्” माघः । “उच्चैःश्रवमश्वानाम्” गीतोक्तेः
भगवद्विभूतित्वमस्य । “उच्चैःश्रवःसुतानश्वान् बलादप्यान-
यद्दिवः” हरि० १४५ अ० “दिशांगजसुतान्नागान् हयां-
श्चोच्चैःश्रवोऽन्वयान्” हरि० १५६ अ० अस्य वा विसर्गस्य
शत्वे उच्चैश्श्रवा अप्यत्र । अस्य पृषो० अदन्तत्वमपि ।
“उच्चैःश्रवससंज्ञं तत् प्रणिपत्य समर्पितम्” देवीमा० ।
उच्चैरुन्नतं शब्दं शृणोति श्रु--असुन् । ३ बधिरे त्रि० ।

उच्चैर्घुष्ट न० घुष--भावे क्त उच्चैर्घुष्टम् । (ढेडरा) सर्व-

जनश्राव्यघोषणायाम् ।

उच्चैर्घोष पु० घुष--घञ् उच्चैर्षोषः । १ सर्व्वजनग्रश्राव्यशब्दे “यदु-

च्चैर्घोषस्तनयित्नुरिवदहति” शत० ब्रा० । ७ ब० । २ उच्चैश-
ब्दान्विते क्रन्दनादौ ६ ब० । ३ रुद्रमूर्त्तिभेदे । “उच्चैर्घो षाय
क्रन्दयते” यजु० १६, १९ ।

उच्चैस् अव्य० उद् + चि--डैसि । १ तुङ्गत्वे, २ उन्नते ३ महति

४ ऊर्द्ध्वदेशजाते “उच्चैरुदात्तः” पा० । “उच्चैरुच्चैश्रवास्तेन”
कुमा० “शिलोच्चयोऽपि क्षितिपालमुच्चै” रघुः “विचकर्ष च
संहितेषुरुच्चैः” किरा० । “अकृत्वा हेलया पादमुच्चैर्मूर्द्ध-
सु विद्विषाम्” माघः । “उच्चैरधःपातिपयोमृचोऽपि”
“जनोऽयमुच्चैःपदलङ्घनोत्सुकः “उच्चैर्हिरण्मयं शूङ्गम्”
कुमा० । या वः काले बहति सलिलोद्गारमु च्चर्विमाना”
मेष० । “उच्चैरस्यति मन्दतामरसताम्” चन्द्रालो० अस्य
शब्दस्य गुणवाचितया प्रकर्षे तरप् तमप् च ततः अद्रव्य-
प्रकर्षे आमु । उच्चैस्तराम् उच्चैस्तमाम् । औन्न-
त्यातिशये “उच्चैस्तरां वक्ष्यति शैलराजः” कुभा० ।
द्रव्यप्रकर्षे तु नामु । उच्चैस्तर उच्चैस्तम अत्युन्नतवृक्षादौ
त्रि० । अप्रियस्यीच्चैः कथने उच्चैस् + कृ--क्त्वाणमुलौ
ल्यप् च । उच्चैःकारम् उच्चैःकृत्वा उच्चैःकृत्य अप्रि
यमाचष्टे” सि० कौ० ।

उच्छन्न त्रि० उद्--छद क्त । लुप्तप्राये आच्छन्ने । “उच्छन्न-

प्रच्छन्नग्रन्थे वेदस्याचारमूलत्वेत्यादि विधिवादे मथुरा०
यथा च वेदस्य छिन्नमूलग्रन्थतया उच्छिन्नत्वेऽपि
अविगीतशिष्टाचारादेव तदनुमानंतथा समर्थनाय शब्दचि०
शब्दाप्रामाण्ये वादिपूर्व्वपक्षं निरस्य व्यवस्थापितं यथा ।
“स्यादेतत् स्मृत्याचारयोर्वेदमूलत्वे तत्रोच्छेदादिविवादस्त-
देव त्वसिद्धं तथा हि वेदसमानार्था महाजनपरिगृहीता च
स्मृतिः, स्वार्थोपस्थित्यनन्तरं स्मृत्यर्थानुभावकवेदानुभानेऽपि
प्रतीतिप्राथम्यात् साध्यप्रसिद्ध्यर्थमुपजीव्यत्वाच्च स्मृतेरेवा-
पूर्व्वादिपाक्यार्थज्ञानमस्तु किं वेदेन, तदर्थस्य स्मृतित
एव सिद्धेः अपूर्व्वस्य शब्दैकवेद्यत्वेन स्मृतितोज्ञातस्य
ज्ञापकत्वेनानुवादकतापत्तेश्च सा च स्मृत्यन्तरादित्यना
दिरेव स्मृतिधारावश्यकी, अन्यथा मनुस्मृतेः पूर्वं तवापि
वेदानुमानं न स्यात् । सर्व्वा च स्मृतिः स्मृतिजन्यवा-
क्यार्थप्रमाजन्यत्वेन महाजनपरिगृहीतत्वेन च प्रमाण-
मिति नान्धपरम्परा । प्रत्यक्षा च स्मृतिः स्मृतिमूलं
नानुमिता अनुमितवेदवत् तस्या अनुभावकत्वात् ।
पृष्ठ १०६५
वेदार्थस्मृतिताप्रसिद्धिस्तु प्रसिद्धवेदमूलस्मृतिसाहचर्य्य
भ्रमात् प्रत्यक्षवेदाबोधितलोभन्यायमूलस्मृताविव तान्त्रि-
काणां लिङ्गाभासजन्यवेदमूलकत्वभ्रमात् सम्भवन्मूला-
लान्तराणां वेदमूलत्वं कल्पयति । अथ स्मृरिनिष्ठतद्वे-
वेदमूलकत्वप्रसिद्धिरपि महाजनपरिग्रहीता एवञ्च सा
वेदमूलत्वनिबन्धना अविगीतमहाजनपरिगृहीतवेदमूल-
त्वप्रसिद्धित्वात् प्रत्यक्षवेदमूलस्मृतौ तत्प्रसिद्धिवत् । एवं
वेदार्थस्मृतिताप्रसिद्धिरपि अन्यथा महाजनपरिग्र-
हानादरे वेदस्मृत्योरपि प्रामाण्यं न स्यादिति चेत् न
यूपहस्त्यादिस्मृतेस्तत्प्रसिद्धौ व्यभिचारात् कॢप्तलो-
भादित एव तत्सम्भवात् विचारकाणां विप्रतिपत्तेश्च ।
तत्र तत्प्रसिद्धौ विगान महाजनानामिति चेत् न
तत्रापि मूलान्तरसम्भवाद्विप्रतिपत्तेश्च विगानमेव तेषाम्,
अतएव स्मृतीनां न्यायमूलत्वे सम्भवति वेदमूलत्व-
प्रसिद्धावपि न वेदमूलत्वं, न च वेदमूलेयमिति कृत्वा
स्मृतेर्महाजन प्ररिग्रहात्तन्मूलत्वं वेदमूलेयमिति
प्रथमं ग्रहीतुमशक्यत्वात् शक्यत्वे वा किमनुमानेन, न च
वेदमूलत्वेन प्रकारेण महाजनपरिग्रहः, असिद्धेः, मन्वा-
दिस्मृतित्वेन पूर्वं महाजनपरिग्रहेणोत्तरेषां
परिग्रहादनुष्ठानाद्युपपत्तेः । एवं होलकाचारेऽपि
वेदलिङ्गेनैव कर्त्तव्यताज्ञानोपपत्तेः किं वेदेन, तदर्थस्य
लिङ्गादेवोपपत्तेः, अविगीताऽलौकिकविषयकशिष्टाचा-
रस्यवेदमूलत्वदर्शनात् वेदानुमाने चाविगीतशिष्टाचारत्वेन
भोजनाद्यावारोऽपि वेदमूलः स्यात् वेदं विनापि तत्कर्त्त-
व्यताधीसम्भवान्न तदर्थवेदैति इहापि तुल्यम् ।
आचारकर्त्तव्यतानुमानयोरनादित्वेनाचाराणां कर्त्तव्यतानु-
मानमूलकत्वान्नान्धपरम्परा । न च पूर्व्वानुमानसापेक्षमुत्त-
रामानमिति स्वतन्त्रप्रमाणमूलकत्वाभावात् साध्यव्याप्तिपक्ष
धर्मतासत्त्वेन पूर्वेषां स्वतन्त्रप्रमाणत्वात् । नापीतरप्रामाण्या-
धीनं सर्वस्य प्रामाण्यमिति न निरपेक्षत्वं, प्रत्यक्षादेरपि
तथात्वापत्तेः । एतेन विवादपदमाचारोनिरपेक्षप्रमाणमूलकः
अविगीतमहाजनाचारत्वात् प्रत्यक्षवेदमूलाचारवदिति
निरस्तम् अनुमानस्य निरपेक्षप्रमाणत्वात् प्रमाणमूलत्वेनैवबुद्धे
रुपपत्तेः निरपेक्षत्वस्य गौरवेणाप्रयोजकत्वाच्च । न च सापे-
क्षत्वेन न प्रमाणता व्याप्त्यादिसत्त्वात् अन्यथा प्रमाणनैर-
पेक्ष्यस्य वैयर्थ्यात् । नचाचारे वेदमूलकत्वप्रसिद्धेस्तदनुमानम्,
असिद्धेः व्यभिचारादन्यथोपपत्तेश्च । न च वेदमूलत्वेन
महाजनपरिग्रहात्तथा । न हि वेदमूलोऽयमिति कृत्वा-
महाजनानां तत्परिग्रहः वेदमूलत्वस्य प्रथमं ज्ञातुमशक्य-
त्वात् शक्यत्वे वा किमनुमानेन । न च वेदमूलत्वेन
महाजनपरिगृहीतोऽयमाचारः इति ज्ञात्वा तत्र
महाजनपरिग्रहः, गौरवात् असिद्धेश्च पूर्ब्बमहाजनपरिग्र-
हादेवोत्तरेषां परिग्रहानुष्ठानोपपत्तेः । तादृशस्मृत्याचा-
रयोर्वेदमूलत्वेन व्याप्तेर्वेदमूलत्वसिद्धिरिति चेत् न
असम्भवन्मूलान्तरस्योपाधित्वात् अन्यथा लोभन्यायमूलस्मृते
स्तत्प्रसङ्गः । अस्तु स्मृत्याचारयोरनादित्वं न चाचारात्
स्मृतिः स्मृत्या चाचारः इत्यन्धपरम्परा मूलीभूतप्रमाणा-
भावादिति वाच्यं स्मृत्याचारयोरुभयोरपि प्रमाण-
त्वात् । अन्यथा न ततो वेदानुमानमिति ।
उच्यते प्रलये पूर्ब्बस्मृत्याचारयोरुच्छेदात् सर्गादौ नित्य-
सर्व्वज्ञेश्वरप्रणीतवेदमूलत्वं स्मृत्याचारयोः, अन्यथा मूला-
भावेनान्धपरम्पराप्रसङ्गः । न च मन्वादीनामतीन्द्रियार्थ-
दर्शित्वं तदुपायश्रवणादेस्तदानीमसत्त्वात् पूर्व्वपूर्व्वसर्ग-
सिद्धसर्व्धज्ञा एव त इति चेत् न प्रमाणाभावात । स्मृ-
त्याचारयोः प्रमाणमूलकत्वमेव तत्कल्पकमिति चेत् न
प्रतिसर्गं तेषामन्यान्यकल्पने गोरवमित्येकस्यैव नित्य-
सर्व्वज्ञस्य कल्पनात् । न च स्मृतय एव तत्प्रणीताः
तासां मन्वादिकर्तृकत्वेन स्मृतौ बोधात्, स्मृतावेव
स्मृतीनां वेदमूलत्वस्मरणाच्च । एवञ्च स्मृत्याचारयोर्महा-
जनपरिग्रहाद्वेदमूलत्वसाधकमपि भगवति प्रमाणम् ।
अतएव “प्रतिमन्वन्तरं चैषा श्रुतिरन्याऽभिधीयत” इत्याग-
मोऽपि । एवञ्च पूर्व्वप्रत्यक्षवेदमूलावेव स्मृताचारौ अग्रे
च कालक्रमेणायुरारोग्यबलश्रद्ध्वाग्रहणधारणादिशक्तेर-
हरहरपचीयमानत्वात् तदध्ययनविच्छेदात् शाखोच्छेदात्
स्मृत्याचाराभ्यामेव कर्त्तव्यतामधिगत्य प्रवृत्तिः । नन्वेवं
स्मृतिरस्तु वेदमूला मङ्गलाद्याचारस्तु ईश्वरादेव भविष्यति
घटलिप्याइसम्प्रदायवदिति चेत् न बहुव्यापारघटि
तस्य तत्तदाचारस्य गुरुत्वेन “मङ्गलमाचरेदित्यादिवाक्य-
स्यैव लाघवेन कल्पनात्” ।
“निवृत्ताचारशौचेषु परपाकोपजीविषु उच्छन्नबलिभिक्षेषु
भिन्नकांस्योपभोजिषु” सुश्रुतः ।

उच्छल त्रि० उद्--शल अच् । आधारातिक्रमेण सर्व्वतः

प्लुते । शतृ । उच्छलत् तत्रैव “छटोच्छलच्छङ्खवुलाकुलेन”
माघः “स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा”
काव्यप्र० । ल्युट् । उच्छलन परितः प्लवने न० ।

उच्छादन न० उद्--छद--णिच्--ल्युट् । १ आच्छादाने

२ गन्धद्रव्यद्वारा देहमार्जने च अमरटी० “स्नापनोच्छा०
दनेन” रामा० ।
पृष्ठ १०६६

उच्छास्त्र त्रि० उद्गतं शास्त्रात् प्रा० स० । १ अतिक्रान्तशास्त्रे

२ शास्त्रविरुद्धेऽधर्मकृत्ये च । उत्क्रान्तं शास्त्रं यत्र ।
शास्तातिक्रमयुक्ते उच्छास्त्रं यया तथा वर्तते उच्छास्त्र-
वर्त्तिन् शास्त्रातिक्रमेण यथेष्टचारिणि स्त्रियां ङीप् ।
“न राज्ञः प्रतिगृह्णीयात् क्रूरस्योच्छास्त्रवर्त्तिनः । या०
स्मृ० । “दृप्तस्योच्छास्त्रवर्त्तिनः” भाग० ७ स्कन्द० अ०

उच्छासन त्रि० उत्क्रान्तः शासनम् । शासनातिक्रान्तरि ।

उच्छिख त्रि० उद्गता शिखा यस्य प्रा० ब० । १ उन्नताग्रे

२ उदर्चिषि वह्नौ पु० “माङ्गल्योर्ण्णावलयिनि पुरः
पावकस्योच्छिखस्य” रघुः । ३ तक्षकनागकुलजाते नागभेदे
पु० “तक्षकस्य कुलेजातान् प्रवक्ष्यामि निबोध तान्”
इत्युपक्रम्य “उच्छिखः शरभोभङ्गोविल्वतेजा विरोहणः”
भा० आ० ५७ अ० ।

उच्छिङ्घन न० उद् + शिघि आघ्राणे भावे ल्युट् ।

नासिकावायुनाऽन्तःस्थितकफादिनिःसारणे । “उच्छिङ्घ-
नेन हर्त्तव्योदृष्टिमण्डलजः कफः” । “नेत्रे
विलम्बिनि विधिर्विहितः पुरस्तादुच्छिङ्घनं शिरसि वार्य्य-
वसेचनञ्च” सुश्रु० ।

उच्छित्ति स्त्री उद् + छिद--भावे क्तिन् । समूलोत्पाटने

अत्यन्तसंमर्दने । “यद्वा तद्वा तदुच्छित्तिः पुरुषार्थः”
सा० सूत्रम् । “सङ्करः सर्व्ववर्ण्णानां प्रजागोधर्म्मक-
र्मणाम्” । प्रजानामपि चोच्छित्तिर्मृपव्यसनहेतुजा”
सुश्रु० “अविनाशी वा अरे अयमात्माऽनुच्छित्तिधर्मा”
वृ० उ० २१ ।

उच्छिन्न त्रि० उद् + क्त । १ समूलं नाशिते २ विदलिते ।

उच्छिरस् त्रि० उन्नतं शिरोऽस्य । १ उन्नते २ माहात्म्या-

दिना उन्नतमस्तके महिमान्विते “शैलात्मजापि पितु-
रुच्छिरसोऽभिलाषम्” कुमा० शौर्य्योदार्य्यादिना हि लोक
उन्नतशिरा भवति अपकृष्टकर्मणा तु अनवरतशिराः प्रसिद्धः

उच्छिलीन्ध्र त्रि० उत्थितं शिलीन्ध्रम् । १ छत्राके । २ विकसित-

शिलीन्द्रवुक्ते त्रि० । “उच्छिंलीन्ध्रामबन्ध्यामिति” मेघदू० ।

उच्छिष्ट त्रि० उत् + शिष--क्त । १ भुक्तावशिष्टे, २ त्यक्ते च ।

अर्शा० अच् । ३ अकृतशौचे भुक्तान्ने । तत्रोच्छिष्टस्याभक्ष्यता
सापवादपभक्ष्यशब्दे ३७९ पृष्टे उक्ता तत्रायं भेदः वर्ण-
विशेषस्योच्छिष्टभोजने पापतारतम्यात् प्रायश्चित्ततारतम्यं
प्रायश्चित्तविवेकादाबुक्तं यथा “स्वभुच्छिष्टन्तु यो भुङ्क्ते यो-
भुङ्क्ते त्यक्तभाजने । एवंवैवस्वतः प्राह भुक्त्वा चान्द्रायण-
ञ्चरेत्” चतुरृषिवचनम् । “तच्च ज्ञानाभ्यासविषयमिति”
प्रा० वि० । “ब्राह्मणोच्छिष्टभोजने महाव्याहृतिभिरभिम-
न्त्र्यापः पिबेत्, क्षत्रियोच्छिष्टभोजने ब्राह्मीरसविपक्वेन
त्र्यहं क्षीरेण वर्त्तयेत्, वैश्योच्छिष्टभोजने त्रिरात्रोपोषितो
ब्रह्मवर्चलां पिबेत्, शूद्रोच्छिष्टभोजने सुराभाण्डोदक-
पाने च षड्रात्रमभोजनं चान्द्रायणं वा अभिमन्त्रितं
जलं पीत्वोपवसेत्” शङ्खलि० “व्रतरूपत्वात् एतद्ब्राह्मणस्य
ब्राह्मणाद्युच्छिष्टाशनेऽज्ञानतः सकृत् एवं क्षत्रिया-
देः समाधमवर्ण्णोच्छिष्टाशने समाधमवर्ण्णोक्तमेतदेव
यथायथमुन्नेयम् शूद्रोच्छिष्टाशने तु ब्राह्मणस्य ज्ञानतः
सकृद्विषयम् षड्रात्राभोजनम्” प्रा० वि० । यथा
पस्तम्बः । “अज्ञानाद्यस्तु भुञ्जीत शूद्रोच्छिष्टं द्विजो-
त्तमः । त्रिरात्रोपोषितोभूत्वा पञ्चगव्येन शुद्ध्यति” ।
“एतद्द्विजोत्तमग्रहणाद्व्राह्मणविषयम् । क्षत्रियादिपरत्वे
वक्ष्यमाणविष्णुवचनविरोधात् । एतदपि सकृद्विषयं
अत्र च त्रि रात्रेऽघमर्षणमपि जपनीयम्” प्रा० वि० । यथा
सुमन्तुः । “शूद्रोच्छिष्टभोजने त्रिरात्रमघमर्षणञ्च जपेत्”
“चान्द्रायणन्तूभयत्रैव ज्ञानाभ्यासे क्षत्रियादीनाञ्च त्रि-
पादपादहानिरूह्या । क्षत्रियस्य च ब्राह्मणोच्छिष्टाशने
ब्राह्मणोक्तप्रायश्चित्तार्द्धं, वैश्यस्य ततोऽप्यर्द्धम् । एवं वैश्य
शूद्रयोरपि स्वापेक्षया पूर्व्व वर्णत्वेनोन्नेयम् उशनो
वचने वर्णक्रमेण ह्रसितप्रायश्चित्तदर्शनात्” प्रा० वि० । यथा
“अन्नानां भुक्तशेषस्तु भक्षितोयैर्द्वि जातिभिः । चान्द्रं कृच्छ्रं
तदर्द्धञ्च क्रमात्तेषां विशोधनम्” । तथा विष्णुरपि न्याय-
प्राप्तमेवार्थमन्वाह । “आमश्राद्धाशने त्रिरात्रं, वर्त्तेत
ब्राह्मणः शूद्रोच्छिष्टाशने वमनं कृत्वा सप्तरात्रं
वैश्योच्छिष्टाशने पञ्चरात्रम्, राजन्योच्छिष्टाशने त्रि-
रात्रम्, राजन्यः शूद्रोच्छिष्टाशने पञ्चरात्रम् बैश्योच्छि-
ष्टाशने । त्रिरात्रं वैश्यः शूद्रोच्छिष्टाशने च” “अत्र वमनं
कृत्वा पयसा वर्त्तेतेति सर्व्वत्रान्वेति” प्रा० वि० ।
“चण्डालपतितादीनामुच्छिष्टान्नस्य भक्षणे । द्विजः शुध्येत्
पराकेण शूद्रः कृच्छ्रेण शुद्ध्यति” अङ्गिराः “एतदज्ञान-
विषयं ज्ञानतो द्वैगुण्यादिकम् प्रा० वि० । मनुनापि सामा-
न्याभ्योज्यप्रकरणे । “शुष्कं पर्य्युषितं चैव शूद्रस्योच्छिष्ट-
मेव च “क्रूरस्योच्छिष्टभोजिन” इति चोक्तम् । शूद्रस्य
तु द्विजोच्छिष्टभोजने न दोषः । द्विजोच्छिष्टन्तु
भोजनमिति” तस्य मनुना तद्वृत्तितयोक्तेः । एकपङ्क्तिस्थमध्ये
पृष्ठ १०६७
केनचिदग्रे भोजनपात्रत्यागे तत्पङ्क्तेस्थानां तदन्नमुच्छिष्ट-
वत् यथा “अप्येकपङ्क्त्यां नाश्नीयात् संवृतः स्वजनैरपि ।
कोहि जानाति किं कस्य प्रच्छन्नं पातकं महत् । भसस्त-
म्भजलद्वारमार्गैः पङ्क्तिञ्च भेदयेत्” व्यासः । जलादिना पङ्क्ति-
भेदाकरणे तु शङ्खः “एकपङ्क्त्युपविष्टानां विप्राणां भोजने
क्वचित् । यद्येकोऽपि त्यजेत्पात्रं शेषमन्नं विवर्जयेत् ।
मोहात् भञ्जीत यः पङ्क्त्यामुच्छिष्टसहभोजनम् । प्राजा-
पत्यं चरेद्विप्रः क्षत्रः सान्तपनन्तथा” । “विड़ालादिभि-
रुच्छिष्टं दुष्टमन्नं विवर्जयेत्, अन्यत्र हिरण्योदकस्पर्शात्”
देवलः अज्ञानादुच्छिष्टादिभोजने तदुत्तार्य्यमित्याह
“अभोज्यमन्नं नात्तव्यमात्मनः शुद्धिमिच्छता । अज्ञाना
द्भुक्तमुत्तार्य्यं शोध्यं वाप्याशु शोधनैः” वमनपक्षेऽपि
अल्पप्रायश्चित्तं भवत्येव “आमश्राद्धाशने त्रिरात्रं पयसा
वर्तेत ब्राह्मणः, शूद्रोच्छिष्टाशने वमनं कृत्वा सप्त-
रात्रमुपवसेत्” विष्णुना वमनोत्तरमपि प्रायश्चित्त
विधानात् “अन्त्यानां भुक्तशेषन्तु भक्षयित्वा द्विजातयः ।
चान्द्रं कृर्च्छं तदर्द्धं तु ब्रह्मक्षत्रविशां विधिः” मिता०
आप० वचनन्तु ब्राह्मणस्य सकृदज्ञानविषयम् बलात्-
कारानुत्तारेऽप्यन्नेतरताम्बूलाद्युच्छिष्टपरमिति” प्रा० त०
रघु० । अन्त्यजैः बलात्कारिते उच्छिष्टादेर्मार्जमेऽपि
दोषएव । “दासीकृतोबलान्म्लेच्छश्चाण्डाद्यैश्च दस्युभिः । अशुभं
कारितः कर्म्म गवादेः प्राणहिंसनम् । उच्छिष्टमार्ज्ज-
नञ्चैव तथा तस्यैव भक्षणम्” इत्याद्यभिधाय “मासोषिते
द्विजातौ तु प्रजापत्यं विशोधनम् । चन्द्रायणन्त्वाहिता-
ग्नेः पराकमथ वा भवेत्” देवलोक्तेः । उच्छिष्ट-
चाण्डादिस्पर्शेऽपि दोषः” प्रा० त० उक्तः यथा ।
“आपस्तम्बः “भुक्तोच्छिष्टस्त्वनाचान्तश्चाण्डालैः श्वप-
चेन वा । प्रमादात् स्पर्शनं गच्छेत् तत्र कुर्य्याद्वि-
शोधनम् । गायत्र्यष्टसहस्रन्तु द्रुपदां वा शतं जपेत् ।
त्रिरात्रोपोषितो भूत्या पञ्चगव्येन शुद्ध्यति । भुक्तोच्छिष्टो-
ऽन्त्यजैः स्पृष्टः प्राजापत्यं समाचरेत् । अर्द्धोच्छिष्टे
स्मृतः पांदः पाद आमाशने तथा” । “प्राजापत्यं ज्ञाने
अर्द्धोच्छिष्टोयेनाद्यग्रासः आस्ये निक्षिप्तः न तु निगीर्णः”
प्रा० त० रघु० । काश्यपः “श्वशूकरान्त्यचाण्डाल-
मद्यभाण्डरजस्वलाः । यद्युच्छिष्टः स्पृशेत्तत्र कृच्छ्रं
सान्तपनं चरेत् । “एतज्ज्ञानाभ्यासे सान्तपने धेनुद्वयम्” ।
प्रा० त० ब्रह्मपुराणे “उच्छिष्टेन तु शूद्रेण विप्रः स्पृ-
ष्टस्तु तादृशः । उपवासेन शुद्धिः स्यात् शुना संस्पृष्टएव
वा । उच्छिष्टेन तु विप्रेण विप्रःस्पृष्टस्तु तादृशः ।
उभौ स्नाभं प्रकुरुतं सद्य एव समाहितौ” । “अनुच्छिष्ट-
ब्राह्मणस्य नक्तमिति” प्रायश्चित्तविवेकः ।
“सर्वमन्नमेकत्रोद्धृत्य उच्छिष्टसमीपे दर्भेषु” श्रा० त०
गोभिलः । ३ दत्तावशिष्टे च । “उच्छिष्टे सतिलान्
दर्भान् दक्षिणाग्रान्निधापयेत्” श्रा० त० ब्रह्मपु० ।
“असंस्कृतप्रमीतानां, योगिनां, कुलयोषिताम् । उच्छिष्टं
मागधेयं स्यात् दर्भेषु विकिरश्च यः” श्रा० त० ब्रह्मपु० ।
“प्रेतश्राद्धे यदुच्छिष्टं ग्रहे पर्य्युषितं च यत् । दम्पत्यो-
र्भुक्तशेषञ्च न भुञ्जीत कदाचन” श्रा० त० स्मृतिः ।
“उच्छिष्टंपाकपात्रेऽवशिष्टम्, ग्रहे उपरागे पर्य्युषितं,
दम्पत्योराश्रमस्वामिनोर्भोजनानन्तरं पाकस्थाल्यामव-
शिष्टमिति” श्राद्धचिन्तामणिः । ४ मघुनि । मक्षिकोच्छि-
ष्टत्वात्तस्य तथात्वम् । “उच्छिष्टं शिवनिर्माल्यम्--श्राद्धे
प्रशस्यते” पु० । उष्टिमोदनः ।

उच्छिष्टगणेश पु० तन्त्रोक्ते गणपतिभेदे । तस्य मन्त्र-

ध्यानादिकं तत्रैव दृश्यम् “भुक्त्वोच्छिष्टोजपेन्नित्यं
गणेशस्य सदा प्रियः” “उच्छिष्टश्चाशुचिर्भूत्वा जपपूजनमा-
चरेत्” । अनुच्छिष्टो न सिध्येत्तु तस्मादेवं समाचरेत्” ।
“सदोच्छिष्टोगणेशानो यक्षराजेन धीमता” इति च तत्रैव

उच्छिष्टचाण्डालिनी स्त्री तन्त्रोक्ते मातङ्गीदेवीमूर्त्तिभेदे ।

तस्या मन्त्रध्यानादिकं तन्त्रसारे दृश्यम् । “भोजनान-
न्तरं देवि! विनैवाचमने कृते” इत्युपक्रम्य “उच्छिष्टेन बलिं
दत्त्वा जपेत्तद्गतमानसः । उच्छिष्टेन च कर्त्तव्यो
जपोऽस्याः सिद्धिमिच्छता । उच्छिष्टज पमानस्य जायन्ते सर्व-
सिद्धयः” इति च तत्रैव ।

उच्छिष्टभोजन पु० उच्छिष्टं पञ्चयज्ञावशिष्टं भोत्तनमस्य ।

१ पञ्चयज्ञावशिष्टस्य भक्षके “यज्ञशिष्टाशिनः सन्तोमुच्यन्ते
सर्वकिल्विषैः” मनुना तथा भोजने किल्विषतारकत्व-
कीर्त्तनात् तथा भोजनस्य कर्त्तव्यत्वम् । उच्छिष्टं देवनै-
वेद्यावशिष्टं भोजनमस्य । २ देवनैवेद्यभोजके च ।
“तैर्दत्तमप्रदायैभ्योयो भुङ्क्ते स्तेन एव सः” गीतायां देवानि
वेद्ने दोषश्रवणात् देवाय दत्त्वैव भोज्यता ।

उच्छिष्टभोजिन् त्रि० उच्छिष्टं इतरस्य भुक्तावशिष्टं भुङ्क्ते

भुज--णिनि । निषिद्धोच्छिष्टभोक्तरि” “क्रूरस्योच्छिष्टमा-
जिनः” मनुः ।

उच्छिष्टमोदन न० उच्छिष्टं भ्रमरोच्छिष्टं भधु तेन मोदते वर्द्धते मुद--ल्यु । (मोम) सिक्थके ।

उच्छिष्य त्रि० उद् + शिष--वेदे नि० क्यप् । अवशेषणोये

लोके तु ण्यदेव । उच्छेष्यम् अवशेषणीयेऽन्नादौ त्रि० ।
पृष्ठ १०६८

उच्छीर्षक न० उत्यापितं शय्यातौत्तोल्य स्थापितं शीर्षं

यस्मिन् प्रा० व० कप् । शीर्षोपधाने (वालिश) । प्रा० ६ ब० ।
२ उन्नतशीर्षके धान्यादौ त्रि० हला० । ऊर्द्ध्वं शीर्षे
कायति कै--क । ३ शिरःप्रदेशे “उच्छीर्षके श्रियै कुर्य्याद्
भद्रकाल्यै च पादतः” मनुः उच्छीर्षके वास्तुपुरुषस्य शिरः
प्रदेशे” कुल्लूकभट्टः ।

उच्छुष्क त्रि० उर्द्धतः शुष्कम् प्रा० स० । उर्द्ध्वप्रदेशात् शुष्के ।

उच्छून त्रि० उद्--श्वि--क्त । १ उन्नते २ स्फीते च “वृथोच्छूनैः

किमेभिर्भुजैः” सा० द० । “अनरतरुदितोच्छूनताम्रडष्टि-
मद्राक्षम्” दशकु० । भावे क्त । ३ स्फीततायाम् । (फोला)

उच्छृङ्खल त्रि० उद्गतं शृङ्खलातः निरा० स० । १ बन्धनरहिते,

२ नियन्तृरहिते, ३ अप्रतिबन्धे च । “अन्यदुच्छृङ्खलं सत्वम-
न्यच्छास्त्रनियन्त्रितम्” “सम्मूर्च्छदुच्छृङ्खलशङ्खनिस्वनः”
माघः ।

उच्छेत्तृ त्रि० उद् + छिद--तृच् स्त्रियां ङीप् । १ समूलमुत्पाटके २ नाशके च ।

उच्छेद पु० उद् + छिद--भावे घञ् । १ समूलोत्पाटने २ विनाशने

च “किमिति सर्व्वपशूच्छेदः क्रियते” हितो० “ततः
सत्यवत्यचिन्तयत् मा दौष्मन्तोवंश उच्छेदं व्रजेदिति”
भा० आ० ९५ अ० । “सतां भवोच्छेदकरः पिता ते”
रघुः । भावे ल्युट् । उच्छेदनमप्यत्र न० “यस्तु नोच्छेदनं
चक्रे कुशिकानामुदारधीः” आ० प० १६३ अ० ।

उच्छेद्य त्रि० उच्छेदमर्हति उच्छेद + अर्हार्थे यत्! १ उच्छे-

दार्हे उद् + छिद--कर्मणि ण्यत् । २ समूलमुत्पाटमीये च ।

उच्छेषण न० उच्छिष्यते उद् + शिष--कर्मणि ल्युट् । १ उच्छि-

ष्टे “उच्छेषणं भूमिगतमजिह्मस्याशटस्य च” उच्छे-
पणन्तु तत्तिष्टेत् यावद्विप्रा विसर्ज्जिताः” मनुः “सरस्वती-
मुखग्रहणोच्छेषणीकृतोदशनच्छद एष चुम्बयितुम्” दशकु० ।
भावे ल्युट् । २ भुक्तावशेषणे ।

उच्छोषण त्रि० उद् + शुष--णिच्--ल्यु । १ मन्तापके, २ ऊर्द्धशो-

षके च “यच्छोकमुच्छोषणमिन्द्रियाणाम्” गीता । भावे
ल्युट् । ३ सम्यक्शोषणे । “तरसा सेतुबन्धनेन सागरो-
च्छोषणेन च” रामा० । “उच्छोषणं समुद्रस्य पतनं चन्द्र-
सूर्य्ययोः” रामा० ।

उच्छोषुक त्रि० उद् + शुष--बा० उक । ऊर्द्धशोषप्राप्ते, “स

यर्द्धतावन्तरेणान्यो दीक्षेतौषधीस्तदनेन लोकेन नाना-
कुर्य्यादुच्छोषुका ह स्युः” शत० ब्रा० १२, १, १, १

उच्छ्र (च्छ्रा)य पु० उद् + श्रि--करणे अच् घञ् वा । १ उन्नततायाम्

उन्नततया हि ऊर्द्ध्वमाश्रोयते इति तस्यास्तंथात्वम् ।
“दम्भो धर्म्मध्वजोच्छ्रयः” भा० व० ३१२ अ० ।
“पतनान्ताः समुच्छ्रयाः” नीति० “अपरेद्युस्ततस्तस्याः
क्रियतेऽत्युच्छ्रयोनृपैः” भा० आ० ६३ अ० । प्रासादैः
सुकृतोच्छ्रायैः” भा० आ० १८५ अ० । “ग्रहाधीना नरेन्द्रा-
णामुच्छ्रायाः षतनानि च” या० स्मृतिः । “उच्छ्रायपातनं
धनिनां दर्शयन्निव” कटस० । “शृङ्गोच्छ्रायैः कुमुद-
विशदे योवितत्य स्थितः खम्” मेघदू० । “गुणार्ज्जनो-
च्छ्रायविरुद्धबुद्धयः” किरा० । २ उच्चद्रव्याङ्के “उच्छ्र-
येण गुणितं चितेः फलम्” लीला० ।

उच्छ्रयण ब० उद् + श्रि करणे--ल्युट् । १ औन्नत्ये उद् + श्रि-

कर्त्तरि ल्यु । २ उत्कृष्टे त्रि० । “सर्व्वाण्युच्छ्रयणानि”
आश्व० गृ० ४, ९, २१ । उच्छ्रयणानि उत्कृष्टानि”
नारा० वृत्तिः ।

उच्छ्रावण न० उद् + श्रु--णिच् + ल्युट् । उच्चैःश्रावणे उद्घोषे

“उद्दिश्य कुपितो यस्तु तोषितः श्रावयेत् पुनः । तस्मिन्
मृते न दोषोऽस्ति द्वयोरुच्छ्रावणे कृते” विष्णु० ।
“उच्छ्रावणमुद्घोषः” प्रा० त० रघुनन्दनः ।

उच्छ्रित त्रि० उद् + श्रि--कर्त्तरि क्त । उन्नते १ ऊर्द्ध्वदेशं

प्राप्ते । “उच्चर्करुच्छ्रितोरःस्थलनलिननिषण्णाम्” माघः ।
२ संजाते ३ समुन्नद्धे ४ प्रवृद्धे च मेदि० । ५ त्यक्ते हेमच०

उच्छ्रिति स्त्री उदु + श्रि--बा० करणे क्तिन् । १ उच्छ्रये उच्चता-

याम् २ उत्कर्षे च “यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्यु-
च्छ्रितोःपुनः” मनुः । “चतसृष्वपि चाद्यासु सर्वलिङ्गो-
च्छ्रितीर्वदेत्” सुश्रु० । ३ उच्चसंख्यायाम् “इष्टकोच्छ्रयहृदु-
च्छ्रितिश्चितेः” लोला० ।

उच्छ्वसित न० उद् + श्वस--क्त । १ विकाशिते, २ जीयिते,

३ स्फुरिते “विशदोच्छ्वसितेव मेदिनिः रघुः । ४ प्राणेषु च
“सा खलु भगवतः कण्वस्य कुलपतेरुच्छ्वसितम्” शकु० ।
कर्त्तरि क्त । ५ उच्छ्वासयुक्ते ६ आश्वास युक्ते च त्रि० ।
“त्वामुमुत्कण्ठोच्छसितहृदया वीक्ष्य संभाव्य चैवम्” मेषदू० ।

उच्छास पु० उद् + श्वस--घञ् । १ अन्तर्मुखश्वासे, आख्यायिका

याः २ परिच्छेदे, यथा दशकुमारस्य प्रथमोच्छ्वासादि प्राण-
वायोर्दीर्घगत्या ३ बहिर्गतौ ४ आश्वासे च । “दीर्वा-
ङ्गुलीपर्वोच्छ्वासप्रेक्षणबाहुम्” कात्या० “वायोर्मार्गनिरो-
धाच्च न गर्भस्थः प्ररोदिति” निश्वासोच्छ्वाससंक्षोभस्वप्नान्
गर्भोऽधिगच्छति” तुश्रु० । उच्छ्वासवहनाड़ीभेदास्तु तत्र
दर्शिताः । “ऊर्द्धगाः शब्दस्पर्शणपरसगन्धप्रश्वासोच्छ्वास-
पृष्ठ १०६९
जृम्भितक्षुद्धसितकथितरुदितादीनि विशेषानभिवहन्त्यः
शरीरं धारयन्ति “पीड़यन्नरुजोगाढः सोच्छ्वासः शिथि-
लः स्मृतः” । “शीतपादकरोच्छ्वासश्छन्नश्वासश्च यो भवेत् ।
काकोच्छ्वासश्च यो मर्त्यस्तं धीरः परिवर्ज्जयेत्” सुश्रु० ।
“सन्ततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः” सुश्रु० ।
उच्छ्वासश्चदीर्घनिश्वासः स च यावत्कालेन श्वासरूपप्राण-
क्रिया भवति ततोऽल्पकालेन, दीर्घदेशपर्य्यन्तप्राणवायोर्ब-
हिर्गमने भवति । “उष्णोच्छ्वासं समधिकतरोच्छ्वा-
सिना दूरयर्ती” मेघदू० “इत्युच्छ्वासोऽमृतं प्राण आदध”
कात्या० ४, ८, २९ ।

उच्छासिन् त्रि० उद् + श्वस--णिनि स्त्रियां ङीप् । १ ऊर्द्ध-

श्वासयुक्ते २ दीर्षनिश्वासयुक्ते । “समधिकतरोच्छ्वासिना”
मेघ० । ४ उद्गते च “उच्छ्वासिकालाञ्जनरागमक्ष्णोः” कुमा०
“समधिकतरोच्छ्वासिना” मेघ० “५ ऊर्द्धश्वासयुक्ते मुमूर्षौ”
“यत्रैतदूर्द्धोच्छ्वासी भवति” वृ० उ० उत्क्रमनशब्दे दृश्यम् ।

उछ उञ्छे (कणशआदाने) तुदा० इदित् पर० सक० सेट् ।

उञ्छति औञ्छीत् । उञ्छाम्--बभूव आस चकार ।
उञ्छिता उञ्छ्यत् उञ्छिष्यति औञ्छिष्यत् । उञ्छः उञ्छ-
नम् उञ्छितः । प्र + मार्जने प्रोञ्छनं (पोछा) प्रोञ्छितः ।

उछ बन्धे समापने च विरासे पा० तुदा० पर० सक० सेट् ।

उच्छति औच्छीत् उच्छाम् बभूव आस--चकार । उच्छिता
उच्छ्यात् उच्छिष्यति औच्छिष्यत् । णिच् उच्छयति ते
औतिच्छत् औचिच्छत् त । सनि उतिच्छिषति
उचिच्छिषति । ईदित् तेन निष्ठाया नेट् । उष्टः ।

उज्जय(यि)नी स्त्री विक्रमादित्यराजधान्याम् अवन्तीपुर्य्याम्

अवन्तीशब्दे विवृतिः । “सौधोत्ससङ्गप्रणयविमुखो मास्म-
भूरुज्जयिन्याः” मेघदू० । इयञ्च लङ्कावधिमेरुपर्य्यन्तस-
मरेखास्थपुरीमध्येऽनन्यतमा यथाह श्रोपतिः “लङ्का कुमा-
री नगरी च काञ्ची पानाटमद्रिश्च सितः षडास्यः । श्रीव-
त्सनुल्मं च पुरी ततश्च माहिष्मती चोज्जयिनी प्रसिद्धा ।
स्यादाश्रमोऽस्मान्नगरं सुरम्यं ततः पुरं पट्टशिवाभिधानम् ।
श्रींगर्गराटं च सरोहिताख्यं स्थानेश्वरं शीतगिरिः सुमेरुः ।
इतीव याम्योत्तरगां धराया रेखामिमां गोलविदो वदन्ति ।
अन्यानि रेखास्थितिभाञ्जि लोके ज्ञेयानि तज्ज्ञैः पुटभे-
दनानि” । सू० सि० तु सामान्येनोक्तम् यथा
“राक्षसालयदेवौकःशैलयोर्मध्यसूत्रगाः । रोहीतक-
मवन्ती च तथा सन्निहितं सरः” । “राक्षसा-
लयो लङ्का देवानां गृहरूपः पर्वतो मेरुरनयोमध्ये ऋजु-
सूत्रं तत्र स्थिता देशा रख्याख्या! । लङ्कादक्षिणसूत्रस्थास्त्व-
नुपयुक्तास्तत्र मनुष्यागोचरत्वादिति नोक्ताः । ज्ञानार्थ-
मुदाहरति । रोहीतकमिति । यथा रोहीतकं
नगरमवन्त्युज्जयिनी सन्निहितं सरः कुरुक्षेत्रम् । चकारस्तथेत्य-
व्ययपरः । तथान्यानि परस्परं सन्निहिततया ज्ञेयानि”
र० मा० । “यथोज्जयिन्या कुचतुर्थमागे प्राच्यां दिशि
स्वाद्यमकोटिरेव” सू० सि० ।

उज्जयन्त न० उद् + जि--झ । रैवतपर्वते हेम० ।

उज्जानक पु० उतङ्कमुनेराश्रमान्तिके समुद्रसविधे मरुभूमिषु

वालुकामयदेशभेदे । यत्र हि मधुपुत्रो धुन्धुरुतङ्कप्रार्थितेन
कुवलाश्वेन विष्णुतेजसा वृंहितवीर्य्येण निपातितः तत्कथा
यथा भा० हरिवं० ११ अ० । “ममाश्रमसमीपे वै समेषु मरुध-
न्वसु । समुद्रो वालुकापूर्ण उज्जानक इति श्रुतः । देवाना-
मप्यबध्यश्च महाकायो महाबलः । अन्तर्भूमिगतस्तत्र वालु-
कान्तर्हितो महान् । राक्षसस्य मधोः पुत्रो धुन्धुर्नाम
महासुरः । शेते लोकविनाशाय तप आस्थाय दारुणम्” ।
इत्युपक्रम्य तद्बधोवर्ण्णितस्तत् कथाधुन्धुमारशब्दे दर्शयिष्यते
२ उत्तरदेशस्थेऽपि देशभेदे “एतद्द्वारं महाराज!
मानसस्य प्रकाशते” इत्युपक्रम्य “एष उज्जानकीनाम पावकि-
र्यत्र शान्तवान्” भा० व० १३० अ० देशभेद उक्तः ।

उज्जासन न० उद् + जस--णिच्--ल्युट् । १ मारणे बधे

एतद्योगे कर्म्मणः संबन्धत्वविवक्षया षष्ठी प्रतिपदविहिततया
च तया षष्ठ्या न समासः “चौरस्योज्जासनम्” सि० कौ० ।
“प्रतिपदविहिता षष्ठी न समस्यते” वार्त्ति० । “प्रोक्ता
प्रतिपदा षष्ठी समासस्य निवृत्तये” भर्त्तृ० तथैवोक्तम्

उज्जिघ्र त्रि० उद् + घ्रा--श । आघ्राणकर्त्तरि ।

उज्जिति स्त्री उद् + जि--क्तिन् । उत्कृष्टजये “अग्नीषोमयो-

रुज्रितिमनुज्जेषम्” यजु० २, २५ । “उज्जितिमनु
पहतविघ्नेन हविःस्वीकरणरूपमुत्कृष्टजयम्” वेददी० ।
“सोमस्योज्जितिमित्यग्निर्वनस्यतिः” कात्या० १०, ७, १४ ।
“उज्जितिभ्यो वोत्तरो माहेन्द्रः” कात्या० १४, ५, ३१ ।
अग्नीषोमयोरुज्जितिमनूज्जेषम् । “अग्नीषोमयो-
रुज्जितिमनूज्जयति” इन्द्राग्न्योरुज्जितिमनूज्जयति”
शत० ब्रा० १, ८, ३, १, २, ३, ४ । २ उज्जयलिङ्गयुक्तमन्त्र-
करणकाहुतौ च । “अथोज्जितीः” इत्युपक्रम्य “अग्नि-
रेकाक्षरेण प्राणमुज्जयत्तमुज्जेषम्” इत्यादि शत० ब्रा०
२, २, १६, १७ उक्तम् ।

उज्जिहान त्रि० उद् + हा--शानच् । उद्गच्छति ।

पृष्ठ १०७०

उज्जीविन् त्रि० उद् + जीव--णिनि । नाशप्रायताप्राप्त्यु-

त्तरं पुनरुज्जीवनवति ।

उज्जृम्भ पु० उद् + जृभि--घञ् । १ विकाशे २ स्फुटने । उद्गता

जृम्भा (हाइतीला) यस्मात्” प्रा० ब० गतलोपः । ३
मुखविकाशनभेदे ३ कर्त्तरि अच् । ४ प्रकाशान्विते ५ उज्जृम्भावति
त्रि० “उज्जृम्भवदनाम्भोजा भिनत्त्यङ्गानि साङ्गना” माघः

उज्जृम्भण न० उद् + जुभि--भावे ल्युट् । विकाशे मुखविका-

शनभेदे व्यापारे (हाइतोला) । “उद्गारकाशक्षवथु-
ष्ठीवनोज्जृम्भणानि च” सुश्रुतः । उद् + जृभि--अ । उज्जृ-
म्भाऽप्यत्र स्त्री ।

उज्जृम्भित त्रि० उद् + जृभि--क्त । विकासिते । भावे क्त ।

२ चेष्टायाम् (हाइतोला) ३ मुखव्यापारभेदे न० ।

उज्जेष पु० उदा + जिष--गत्याम् भावे घञ् । १ उत्कर्षप्राप्तौ

उज्जिति शब्दे उदा० । अच् । २ उत्कृष्टे त्रि० ।

उज्जेषिन् त्रि० उद् + जिष--गत्यां णिनि स्त्रियां ङीप् । उत्कर्ष

प्राप्ते “क्रीडी च शाकी चोज्जेषी” यजु० १७,
८५ “उज्जेषी उत्कृष्टजयनशीलः” वेददी० ।

उज्ज्य न० उद्गता ज्या यस्य प्रा० वा गतलोपः । “आरो-

पितमौर्वीके धनुषि । उज्ज्यधन्वाः” कात्या० २२, ३,
१७ । “उज्ज्यधन्वा आरोपिज्यधनुष्काः” कर्क० ।
उत्क्रान्ता अवतारिता ज्या यतः प्रा० ५ ब०
वा क्रान्तलोपः । अवतारितमौर्कीके धनुषि “काश्यो-
वा वैदहोवोग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा” छा० उ० ।

उज्ज्वल त्रि० उद् + ज्वल--अच् । १ दीप्ते, २ विशदे, ३ विकाशिनि

च । ४ शृङ्गाररसे पु० । “स राशिरासीन्महसां
महोज्ज्वलः “शृङ्गारभङ्ग्या महाकाव्येचारुणि नैषधीयचरिते
सर्गोनिसर्गीज्ज्वलः” नैष० । “स्वातन्त्र्यमुज्ज्वलमवाव करेणु
राजः” अविरतमुद्धतिमुज्ज्वलां दधानैः” माघः ।
“अस्माकं सखि! वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलम्”
सा० द० “विचित्रोज्ज्वलवेशा तु वलन्नुपूरनिस्वनाः” सा०
द० “सुमुखाः पल्वलोज्ज्वलाः” सुश्रु० । अस्य च रसान्तरत्वं
गोस्वामिग्रन्थे स्थितम् । ५ स्वर्णेन० राजनि० धातुमध्ये
तस्याद्दीप्तोत्वात्तथात्वम् । तस्य भावः ष्यञ् औज्ज्वल्य त्व ।
उज्ज्वलत्व तद्भावे न० । तल् । उज्ज्वलता स्त्री तत्रैव ।

उज्ज्वलदत्त पु० उणादिवृत्तिकारके विद्वद्भेदे । तस्येदम् ।

छ । उज्ज्वदत्तीय तत्कृतग्रन्थे पु० तत्कृतवृत्तौ तु स्त्री ।

उज्ज्वलन न० उद् + ज्वल--भावे ल्युट् । १ उद्दीप्तौ २ वैशद्ये च ।

उज्झ त्यागे तुदा० पर० सक० सेट् । उज्झति “औज्झीत्

उञ्झाम्--बभूव आस चकार । उज्झिता जज्झ्यात्
उज्झिष्यति औज्झिष्यत् । उज्झितः । त्वमङ्ग यस्याः
पतिरुज्झितक्रमः” नैष० । “अद्यापि नोज्झति हरः
किल कालकूटम्” चौरपञ्चाशिका । “प्राणानौज्झीच्च
खड़्गेन छिन्नस्तेनैव मूर्द्धनि” भट्टिः । “सपदि-
विगतनिद्रस्तल्पमुज्झाञ्चकार” । “अविरतोज्झितवारिविपा-
ण्डुभिः” “परस्पराक्षिसादृश्यमदूरोज्झितवर्त्ममु मृगद्व-
न्द्वेषु” सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकम्”
“उदये मदवाच्यमुज्झता” इति च रघुः । अतः “भिद्योद्ध्यौ
नदे” पा० नि० क्यप् नदे कर्त्तरि झस्य धत्वग् । “उदक-
मुज्झति उद्ध्योनद”ः सि० कौ० ।
  • प्र + प्रकर्षेण त्यागे । “स्वगृहिणी प्रेयस्यपि प्रोज्झिता” प्र० बो० ।
“लिखितमपि ललाटे प्रोज्झितुं कः समर्थः” हितो० ।
सम् + सम्यक्त्यागे ।

उज्झ त्रि० उज्झति उज्झ--अच् । त्यागिनि । “ब्रह्मोज्झता

वेदनिन्दा कौटसाक्ष्यं सुहृद्बधः । गर्हितान्नाद्ययोर्जग्धिः
सुरापाणसमानि षट्” मनुः ।

उञ्छ पु० उछि--घञ् । “अबाधितस्थानेषु पथि क्षेत्रेषु च

च अप्रतिहतावकाशेषु यत्र कुत्रौषधयो विद्यन्ते तत्रा-
ङ्गुलीभ्यामेकैकं कणं समुच्चिनोतीति” बौधा० स्मृत्युक्तेकणश
आदाने । “शिलोञ्छमप्याददीत विप्रोऽजीवन्
यतस्ततः” मनुः । “एवं वृत्तस्य नृपतेरुञ्छेनापि च
जीवतः” मनुः । “तान्युञ्छषष्ठाङ्कितसैकतानि” रघुः । “निरा-
हारस्तु स मुनिरुञ्छं मार्गयते पुनः” “तथामुमुञ्छ-
धर्म्माणं दुर्वासा मुनिसत्तमः” शिलोञ्छवृत्तिधर्म्मात्मा मुद्गल
संयतेन्द्रियः” भा० व० १५९ अ० । “प्रतिग्रहाच्छिलः
श्रेयांस्ततोऽप्युञ्छः प्रशस्यते” मनुः । “व्यालग्रहानुञ्छवृत्ती-
नन्यांश्च वनचांरिणः” मनुः । अस्य क्लीवताऽपि “उञ्छं भैक्ष्यं
यदन्यच्च तत्परिग्रहणम् ऋतम्” निगमोक्तेः “प्रतिग्रहात्
शिलं श्रेयस्ततोऽप्युञ्छं प्रशस्यते” स्मृत्यन्तरे चोक्तम् । उञ्छ
शिलमिति समस्तमपि शब्दान्तरं केचिदिच्छन्ति । उञ्छेन
पक्षिचञ्चूवद्ग्रहणेन शिल्यते संचीयते इति तद्व्युत्-
पत्तेः “ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् । मृतन्तु
याचितं भैक्ष्यं प्रभृतं कर्षणं स्मृतम्” मनुः ।

उञ्छ र० उछि--भावे ल्युट् । आपणक्षेत्रादिपतिस्य

क्षेत्रस्वामिगृहीतविक्रीतावशिष्टस्य धान्यादेः कणश आदाने

उञ्छशिल न० शिल--अपहारे क ३ त० । क्षेत्रस्वाभिना

गृहीतशस्यात् क्षेत्रात्कणशः समुच्चयरूपे आहरणे । अस्य
दन्त्यमकारमध्यतामपि केचित् पृषोदरादि० कल्पयन्ति ।
पृष्ठ १०७१

उट न० उ + टक् नेत्त्वम् । १ तृणे, २ पर्णे च ।

उटज पुंन० उटेभ्यो जायते जन + ड । पत्रादिनिर्म्मितशालायां

मुन्यादिगृहे । “उटजद्वाररोधिभिः” “मृगैर्वर्त्तितरोमन्थ
मुटजाङ्गनभूमिषु” रघुः “नवोटजाभ्यन्तरसंभृतानलम्” कुमा०

उठ गतौ भ्वा० पर० सक० सेट् । ओठति ओठीत् । उवोठ ऊठतुः

ओठिता उठ्यात् ओठिष्यति औठिष्यत् ।

उड संहतौ सौत्र० पर० अक० सेट् । ओडति औडीत् ।

उवोड ऊडतुः । ओडिता उड्यात् ओडिष्यति
औडिष्यत् । उडु

उडु स्त्री न० उड--बा० कु । १ नक्षत्रे, २ जले च स्त्रीत्वे वा

ऊङ् । “इन्दुप्रकाशस्तिमितोडुतुल्याः” । “उत्तम्भितो-
डुभिरतीवतरां शिरोभिः” माघः ।

उडुचक्र न० उडूनां चक्रमिव मण्डलम् । १ नक्षत्रमण्डले

भचक्रे तस्य संस्थितिश्च” सि० शि० उक्ता उच्चशब्दे
तच्च दर्शितम् । उडुचक्रस्वरूपादि सू० सि०
उक्तम् यथा “ब्रह्माण्डमध्ये परिधिर्व्योमकक्षाभिधी
यते । तन्मध्ये भ्रमणं भानामधोऽधः क्रमशस्तथा ।
मन्दामरेज्यभूपुत्रसूर्य्यशुक्रेन्दुजेन्दवः । परिभ्रमन्त्यधोऽधस्थाः
सिद्धविद्याधरा धनाः” । “ब्रह्माण्डान्तःपरिधिस्तत्तुल्य
मानं वृत्तं व्योमकक्षा वक्ष्यमाणाकाशकक्षोच्यते । तन्मध्ये
ब्रह्माण्डमध्य आकाशे भानां नक्षत्राणां सर्वेषां सर्वतस्तु-
ल्योर्ध्वान्तरितानां भ्रमणं भवति । तथा तुल्योर्ध्वान्तरेणा-
धोधोनक्षत्रेभ्यः शनिवृहस्प तिभौमार्कशुक्रबुधचन्द्राअधस्तात्
परिभ्रमन्ति । सिद्धा विद्याधाराघनाश्चाधस्थाश्चन्द्रादधः-
स्थिता अधोऽधः क्रमेणाकाशे स्थिताः । प्रवहवायावव-
स्थानाभावाश्चन्द्रवन्न तेषां परिभ्रमः” र० ना० । तस्योत्पत्ति-
विभागस्तत्रैव । “पुनर्द्वादशधात्मानं व्यभजद्राशिसञ्ज्ञकम् ।
नक्षत्ररूपिणं भूयः सप्तविंशात्मकं वशी” सू० सि० । “पुनरनन्त
रमात्मान द्वादशधा द्वादशस्थानेषु राशिसंज्ञकं व्यभजत्
मनःकल्पितं वृत्तं द्वादशविभागं राशिवृत्तमकरोदित्यर्थः ।
भूयो द्वितीयवारमात्मानं नक्षत्ररूपिणं सप्तविंशात्मकं
व्यभजत् । मनःकल्पितं तदेव वृत्तं सप्तविंशतिविभागं
चाकरोदित्यर्थः । ननु न्यूनाधिकविभागाः कथं न
कृताः? उक्तसङ्ख्यायां नियामकाभावादित्यत आह
वशीति । इच्छाविषपं वशं विद्यते यस्येति वशी स्वतन्त्रे
च्छस्य नियोगानर्हत्वात् । स्वेच्छया तत्सङ्ख्याका विभागाः
कृता इति भावः । सप्तविंशतिविभागव्यञ्जकानि नक्षत्राणि
तारात्मकानि निर्मितानीत्यर्थसिद्धम्” र० ना० । तत्र राशि-
नक्षत्रनामानि ज्योति० त० उक्तानि यथा “मेषवृषमिथुनकर्क-
टसिंहाकन्थातुलाधरवृश्चिकभम् । धनुरथ मकरः कुम्भोमीन
इति च राशयः कथिताः” । “अश्विन्या सह भरणी
कृत्तिकापादः कीर्त्तितोमेषः । वृषभः कृत्तिकाशेषं
रौहिण्यर्द्धञ्च मृगशिरसः । मृगशिरसोऽर्द्धं चार्द्रा
पुनर्व्वसोस्त्रिपादं मिथुनम् । पादः पुनर्व्वसोरन्त्यः पुष्योऽ-
श्लेषा च कर्कटः कथितः । सिंहोऽथ मघा पूर्वफल्गुनीपाद
उत्तरायाः । तच्छेषं हस्ता च चित्रार्द्धं कन्यकाख्यः स्यात् ।
तौलिनि चित्रार्द्धं स्वातिविशाखायाश्च पादत्रयम् । अलिनि
विशाखापादस्तथानुराधान्विता ज्येष्ठा । मूलं पूर्व्वाषाढा
प्रथमश्चाप्युत्तरांशको धन्वी । मकरस्तत्परिशेषं श्रयणा-
चार्द्धं कनिष्ठायाः । कुम्भोऽथ धनिष्ठार्द्धं शतभिषापौर्व्व-
भाद्रपदत्रयम् । भाद्रपदायाः शेषस्तथोत्तरा रेवती मीनः”
अश्विन्यादिनक्षत्राणां तारासंख्यातत्सन्निवेशस्वरूपं च
श्रीपतिनोक्तम् । “वह्नित्रिऋत्विषुगुणेन्दुकृतानि भूतवा-
णाश्विनेत्रशरभूकुयुगाग्निरामाः । रुद्राब्धिरामगुणवे-
दशतद्वियुग्मदन्ता बुधैर्निगदिताः क्रमशो भताराः ।
तुरगमुखसदृक्षं योनिरूपं क्षुराभं शकटनिभमथैणस्योत्त-
माङ्गेन तुल्यम् । मणिगृहशरचक्राभानि शालोपमं च
शयनसदृशमन्यच्चात्र पर्य्यङ्करूपम् । हस्ताकारमजस्रमौ-
क्तिकसमं चान्यत् प्रवालोपमं धिष्ण्यं तोरणवत् स्थितं
बलिनिभं स्यात् कुण्डलाभं परम् । क्रुध्यत्केसरिविक्रमेण
सदृशं शय्यासमानं परं चान्यद्दन्तिविलासवत् स्थितमतः
शृङ्गाटकव्यक्ति च । त्रिविक्रमाभं च मृदङ्गरूपं वृत्तं
ततोऽन्यद्यमलद्वयाभम् । पर्य्यङ्गतुल्यं मुरजानुकारमित्येवमश्व्या-
दिभचक्ररूपम्” ।
भचक्रपरिधिमानम् सि० शि० उक्तम् “अभ्रेष्विभाङ्कगजवुञ्ज-
रगोऽक्षपक्षाः” (२५९८८९८८५० योजनानि) कक्षां गृणन्ति
गणका भगणस्य चेमाम्” । तस्य भूमध्यातुच्छ्रितियो-
जनानि तु तत्रोक्तानि यथा “नागाक्षषड्द्वयरसाग्निकुवे-
दसंख्यो” (४१२६३६५८) नक्षत्रमण्डलभवः श्रवणो
निरुक्तः” । अस्य च द्वादशधा विभक्तस्य प्रवहवायुना
भ्राम्यमाणस्य दिने षणामुदयः रात्रौ च षणामिति भेदः ।
“स्यादुद्गमो निजनिजोदयभानुतुल्ये सूर्य्येऽस्तभास्करस-
मोऽस्तमयश्च भानाम्” सि० शि० उक्तेः । २ ताराणां
समूहे च “वप्रेण पर्य्यन्तचरोडुचक्रः” माघः ।
पृष्ठ १०७२

उडु(डू)प पु० उडुनि जले पाति पा--क । १ प्लवे भेलायाम् ।

“उडुपप्लवसन्तारोयत्र नित्यं भविष्यति” भा० आ०
८१ अ० । “वहन्तोवारिबहुलं फेनोडुपपरिप्लुतम् ।
भा० व० १४६ । “तितोर्षुर्दुस्तरं माहादुदुपेनास्मि सागरम्”
रघुः । उडुरूपजलसन्तारहेतुत्वादस्य उडुपत्वम् । चर्मा-
वनद्धयानपात्रे न० तच्छ्लोकव्याख्याने मल्लिनाथेन “उडुपेन
चर्मावनद्धयानपात्रेणेत्यभिधाय “चर्माबनद्धमुडुपं प्लवकाष्ठं
कस्ण्डवदिति” सज्जनोक्तिरुदाहृता । पृषो० ।
उडपोऽपि प्लवे अमरटी० । उडूनि उडूर्पा नक्षत्राणि
पाति पा--क । २ चन्द्रे स हि ताराणां पतिरतस्त-
द्रक्षकः । उडूनां दिवा हि सूर्य्यकिरणैरभिभवादप्रकाशत्वेन
रात्रौ च प्रकाशवत्त्येन निशाधीशचन्द्रस्य ततपतित्वम् ।
एवम् “नक्षत्राणामवीशत्वमोषिधीनां तथैव चेति” का० ख०
प्रजापतिना तदधीशत्वदानमुक्तम्” । गोतायामपि “नक्षत्रा-
णामहं शशी” इत्युक्तेः तन्मध्ये तस्य श्रेष्ठत्वादपि तत्पतिता
“सलिलमये शशिनि” वृह० सं० तस्य जलमयत्वोक्तेः
उडुमयत्वात् जलमयत्वात् तस्य उडुपतित्वं वा बोध्यम्
दक्षकन्याश्विन्यादितारापतित्वाद्वा तथात्वम् ।

उडु(डू)पति पु० उडूनां पतिः । १ चन्द्रे २ जलेशे वरुणे च ।

“परिमुग्धतां बणिगिवोडुपतेः” माघः । “रसात्मकस्योडु-
पतेश्च रश्मयः” कुमा० ।

उडुपथ पु० उडूनां पन्थाऽ । आकाशे । तत्र हि उडूनां

प्रत्यहं प्रवहवायुना भ्रमणात् तथात्वम् ।

उ(दु)डुम्बर पु० उं शम्भुं वृणोति ख उम्बरः उत्कृष्टः

उम्बरः प्रा० स० पृषी० दस्य वा डत्वम् । (यज्ञ डुमुर)
१ यज्ञाङ्गे वृक्षे २ ताम्रे च, ग्रहावग्रहण्याम् ३ देहल्याम्
४ कुष्ठभेदे च न० । “उ(दु)डुम्बुरो यज्ञफलो यज्ञाङ्गो
हेमदुग्धकः । उदुडुम्बरोहितोरूक्षो गुरुपित्तकफास्रजित् ।
मधुरस्तुवरोवर्ण्ण्योव्रणशोधनरोपणः” इति भा० व० उक्त-
गुणकः । तस्य विकारः अण् । औ(दु)डुम्बर तद्विकारे
पात्रादौ त्रि० । स्त्रियां ङीप् । “गृहीत्वौडुम्बरं पात्रं
जानुभ्यां धरणिं गतः” स्मृतिः । “औडुम्बरीं स्पृष्ट्वा
गायेत” श्रुतिः ।

उडुम्बरपर्णी स्त्री उड्रब्धरस्य पर्णमिव पर्ण्णमस्याः गौरा० ङीष् । दन्तीवृक्षे शब्दच० ।

उडुराज् पु० उडुषु राजते राज--क्विप् । चन्द्रे । अच्, उडूनां

राजा टच् समः० वा । उडुराजोऽप्यत्र “तदोडुराजः
ककुभः करैर्मुखं प्राच्याविलिम्पन्” भाग० १०, २९ अ० ।

उडुलोमन् पु० उडुरिव लोमास्य । ऋषिभेदे । तस्यापत्यम्

बाह्वा० इञ् । औडुलोमि तदपत्ये पुंस्त्री० । बहुषु अ-
कारः । उडुलोमाः ।

उड्डयन न० उद् + डी--ल्युट् । पक्षिणामूर्द्धगतौ “गतो विरुत्येड्डयने निराशताम्” नैष० ।

उड्डामर त्रि० उत्कृष्टो डामरः प्रा० स० । १ उद्भटे २ श्रेष्ठे

च ३ तन्त्रभेदे पु० ।

उड्डीन न० उद + डी--भावे क्त । ऊर्द्ध्वेत्पतनरूपे स्वगगतिभेदे ।

उड्डीयन न० उद् + डी--ड उड्डःस इवाचरति क्यङ् उड्डीय--भावे

ल्युट् । उत्पतने । “कथमुड्डीयनेऽशक्तान् पतने च
ममात्मजान्” मा० आ० २३३ अ० । उड्डीय--कर्त्तरि
ताच्छील्ये वा चानश् । उड्डीयमान उड्डयन कर्त्तरि
तच्छीले च त्रि० ।

उड्डीश पु० उद् + डी--क्विप् तस्य ईशः । उत्पतन

कर्तृणामीश्वरे १ महादेवे २ तन्त्रभेदे च मेदि० । योगिनां
हि उत्पतनं योगशास्त्रप्रसिद्धम् महादेवस्य च तदीशत्वात्
तथात्वम् । उड्डीशत्रन्त्रस्य तु उत्पतनसाधनोपायविधा-
यकत्वात् तथात्वम् ।

उ(ओ)ड्र पु० उड--सौ० बा० रक् र वा उ--र--रक् वा

डुगागमोवा । कूर्मविभागस्थप्राच्यदेशभेदे “सवङ्गाङ्गान्
सपौण्ड्रोड्रान् सचोलान् द्रविड्रान्धकान्” भा० ष० ५६
अ० । ओ(उ)ड्रदेशश्च कूर्म्मविभागे वृ० सं० प्राच्यतयोक्तः
यथा “प्राच्यामित्युपक्रम्य मिथिलसमतटोड्राश्ववदनदन्तु-
रकाः” इति । स च उत्कलात् भिन्नएव तत्रैवानन्तरम्
“पौण्ड्रोत्कलकाशिमेकलाम्बष्ठाः इत्युक्तेः । भारते
च सहदेवदक्षिणदिग्विजये “पाण्ड्यांश्च द्रविडांश्चैव सहितां-
श्चोड्रकेरलैः स० ३० अ० उक्तेस्तस्य हस्तिनानगरीतः
दक्षिणत्वात् तथात्वम् कूर्म्मविभागे प्राच्यत्वमिति न
विरोधः । सर्वत्र उड्रशब्दश्रवणात् उकारादित्वम्
रघुनन्दनेन तु ओड्रादिदेशव्यवस्थितमित्युक्तत्वात् ओकारा-
दित्वमपि । अस्य देशवाचित्वात् तस्य राजा
तदस्याभिजन इत्यर्थे च अण् । औड्र तद्राजे तद्वासिनि च
बहुषु तस्य लुक् । उड्रः तद्राजेषु तन्निवासिषु च ।

उणक त्रि० ओण--अपसारणे ण्वुल्गौरा० उणक इति पाठात्

नि० ह्रस्वः । अपसारके । स्त्रियां गौरा० ङीष् । उणकी ।

उणादि पु० उण्प्रत्यय आदिर्येषाम् । शाकटायनोक्ते उण्प्रभृ-

तौ प्रत्ययसमुदाये । “उणादयो बहुलम्” “ताभ्यामन्य-
त्रोणादयः” पा० । “उणादयोऽव्युत्पन्नाः प्रातिपादिका-
नीति” पा० भा० । व्युत्पन्ना इति पाठान्तरम् । व्युत्-
पत्तिपक्षाभिप्रायेणैव “राघवस्य ततः कार्य्यं कारुर्वानर-
पुङ्गवः” इति भट्टौ कार्य्यमित्यत्र द्वितीया अव्युत्पन्नत्वे
सा म स्यादिति बोध्यम् उणादिवृत्तिश्च उज्ज्वलदत्तकृता
प्रसिद्धा ।
पृष्ठ १०७३

उण्डुक पु० “गर्भस्य यकृत्प्लीहानौ शोणितजौ । शोणितफेन-

जः फुष्फुसः शोणितकिट्टप्रभव उण्डुकः” इति सुश्रुतोक्ते
रुधिरकिट्टजाते देहस्थमलाशये कोष्ठभेदे तन्मलविभा-
जकत्वं कलाभेदस्य तत्रीक्तं यथा “यकृत् समन्तात्
कोष्ठञ्च तथान्त्राणि समाश्रिता । उण्डुकस्थं विभजते
मलं मलधरा कला” सुश्रु० देहप्रत्यङ्गविभागमुक्त्वा सुश्रु०
“तस्य पुनः संख्यानम् त्वचः कला धातवो मला दोषा
यकृत्प्लीहानौ फुप्फुस उण्डुको हृदयमाशय”
इत्युक्तम् । “स्थानान्यामाग्निपक्वानां मूत्रस्य रुधि-
रस्य च । हृदुण्डुकः फुष्फुसश्च कोष्ठ इत्यभिधीयते
इति तस्य आमान्नपक्वमूत्राद्याधारमुक्तम् । शल्यो-
द्धारे च तत्रैव । “अस्थिशल्यमन्यद्वा तिर्य्यक् कण्ठासक्तमवेक्ष्य
केशोण्डुकं दृढैकसूत्रबद्धम् द्रवभक्तोपहितं पाययेत् ।

उत् अव्य० उ--क्विप् । १ प्रश्ने २ वितर्के ३ संशये ४ अत्यर्थे ५ ऊर्द्धे

च । ६ उदिते त्रि० । “तस्य उदितिनाम” छा० उ० ।
उद् इति वा छेदः ।

उत अव्य० उ--क्त । १ विकल्पे, २ समुच्चये, ३ वितर्के, ४ प्रश्ने,

५ अत्यर्थेच । “यदक्रन्दः प्रथमं जायमान उद्यन्त् समुद्रादुत
वा पुरीषात्” यजु० २९, १२ । “मानाग्निहोत्रमुत मान
मौनम्” भा० आ० ३६२ अ० । “एतावन्ति च दासानां
सहस्राण्युत सन्ति मे” भा० स० २२१ अ० । “तत् किमय
मातपदोषः स्यादुत यथा मे मनसि वर्त्तते” शकु० ।
“वीरोरसः किमयमित्युत दर्पएषः” वीरच० “प्रभुः
प्रहर्त्तुं किमुतान्यहिंस्राः” रघुः । “सारतोन विरोधी न
स्वाभासो भरवानुत” किरा० । “धर्मे नष्टे कुलं कृत्स्नम-
धर्मोऽभिभवत्युत” ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत”
गीता ।

उत त्रि० वेञ--क्त । स्यूते ग्रथिते अमरः “यस्मिन्नोतञ्च । प्रोतञ्च” श्रुतिः

उतङ्क पु० आयोदधैम्यशिष्यवेदनामकस्य मुनेः शिष्यमेदे

तदुपाख्यानञ्च” भा० आ० ३ अ० । वेदमुनिं प्रक्रम्य “स
कदाचित् याज्यकार्य्येणाभिप्रस्थित उतङ्कनामानं शिष्यम्
नियोजयामास” इत्युपक्रम्य “तत्सौम्य! गम्यतामनुजाने
भवन्तं श्रेयोऽवाप्ससीति स उपाध्यायेनानुज्ञातो
भगवानुतङ्कः क्रुद्धस्तक्षकं प्रतिचिकीर्षुर्हास्तिनपुरं प्रतस्थे”
इत्यन्तेन विस्तरेण तच्चरितमुपवर्ण्णितम् । तस्यायं संक्षेपः ।
गुरुदक्षिणादानार्थं गुरवे उतङ्केन निवेदिते गुरुणा स्वप-
त्नीयचनात् पौष्यनृपबधूधृतकुण्डलद्वयमेव गुरुदक्षिणात्वेन
कल्पितम् तच्च पौष्यनृपपत्नीधृतं कुण्डलद्वयं प्रार्थ्य
आनयतस्तस्य प्रमादतस्तक्षकेणापहृतम् अथ वह्नितो लब्धवरप्र-
सादात् नागलोकं गत्वा धूमप्राचुर्य्येण नागलोकावरणे
तद्भयात्तत्कुण्डलद्वयं नागैर्दत्तमानीय पुरुपत्न्यै दत्तमिति
२ भार्गवे गौतमस्य शिष्यभेदे च तत्कथा भारते
“उतङ्को महता युक्तस्तपसा जनमेजय! । गुरुभक्तः
स तेजस्री नान्यत् किञ्चिदपूजयत् । सर्वेषामृषिपुत्रा-
णामेष आसीन्मनोरथः । औतङ्कीं गुरुवृत्तिं वै प्राप्नुया-
मेति भारत! । गौतमस्य तु शिष्याणां बहूनां जनमेजय ।
उतङ्केऽभ्यधिका प्रीतिः स्नेहश्चैवाभवत्तदा । स तस्य
दमशौचाभ्यां विक्रान्तेन च कर्मणा । सम्यक् सेवो-
पचारेण गौतमः प्रीतिमानभूत् । अथ शिष्यसहस्राणि
समनुज्ञातवानृषिः । उतङ्कं परया प्रीत्या नाभ्यनुज्ञातु-
मैच्छत । तं क्रमेण जरा तात! प्रतिपेदे महामुनिम् ।
न चान्वबुध्यत तदा स मुनिर्गुरुवत्सलः । ततः
कदाचिद्राजेन्द्र! काष्ठान्यानयितुं ययौ । उतङ्कः काष्ठाभारञ्च
महान्तं समुपानयत् । स तद्भाराभिभूतात्मा काष्ठभारमरि-
न्दम! । निष्पपेष क्षितौ राजन्! परिश्रान्तो बुभुक्षितः ।
तस्य काष्ठे विलग्नाऽभूज्जटा रूप्यसमप्रभा । ततः काष्ठैः
सह तदा पपात धरग्णीतले । ततः स भारनिष्पिष्टः क्षु-
धाविष्टश्च मारत! । दृष्ट्वा तां वयसोऽवस्थां रुदोदार्त्तस्वर
स्तदा । ततो गुरुसुता तस्य पद्मपत्रमिभानना । जग्रा-
हाश्रूणि सुश्रोणी करेण पृथुलोचना । पितुर्नियोगा-
द्धर्मज्ञा शिरसाऽवनता तदा । तस्या निपेततुदग्धौ करौ
तैरश्रुविन्दभिः । न हि तानश्रुपातांस्तुं शक्ता धारयितुं
मही । गौतमस्त्वब्रवीद्विप्रमुतङ्कं प्रीतमानसः । कस्मात्तात!
तवाद्येह शोकोत्तरमिदं मनः । सस्वैरं ब्रूहि
विप्रर्षे! श्रोतुमिच्छामि तत्त्वतः । उतङ्क उवाच । एवङ्गतेन
मनसा भवत्प्रियचिकीर्षया । भवद्भक्तिगतेनेह भवद्भावानु-
गेन च । जरेयं नावबुद्धा मे नाभिज्ञातं सुखञ्च मे ।
शतवर्षोषितं मां हि न त्वमभ्यनुजानीयाः । भवता
त्वभ्यनुज्ञाताः शिष्याः प्रत्यवरा मम । उपपन्ना द्विजश्रे-
ष्ठाः शतशीऽथ सहस्रशः । गौतम उवाच । त्वत्प्रीति-
युक्तेन मया गुरुशुश्रूषया तव । अत्यंक्रामन्महान् कालो
नाबबुद्धो द्विजर्षभ! । किन्त्वद्य यदि ते श्रद्धा गमनं प्रति
भार्गव! । अनुज्ञां प्रतिगृह्य त्वं स्वगृहान् गच्छ मा
चिरम् । उतङ्क उवाच । गुर्वर्थं कं प्रयच्छामि ब्रूहि
पृष्ठ १०७४
त्वं द्विजसत्तम । तमुपाहृत्य गच्छेयमनुज्ञातस्त्वया विभो! ।
गीतम उवाच । दक्षिणा परितोषो वै गुरूणां सद्भिरुच्यते ।
तव ह्याचतरतो ब्रह्मंस्तुष्टोहं वै न संशयः । इत्थञ्च
परितुष्टं मां विजानीहि भृगूद्वह! । युवा षोड़शवर्षो
हि यद्यद्य भविता भवान् । ददानि पत्नीं कन्याञ्च स्वां
ते दुहितरं द्विज! । एतामृतेऽङ्गना नान्या त्वत्तेजोऽर्हति
सेवितुम् । ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम् ।
गुरुणा चाभ्यनुज्ञातो गुरुपत्नीमथाब्रवीत् । कं भवत्यै
प्रयच्छामि गुर्वर्थं विनियुङ्क्ष्व माम् । प्रियं हितञ्च
काङ्क्षामि प्राणैरपि धनैरपि । यद्दुर्लभं हि लोकेऽस्मिन्
रत्नमत्यद्भुतं महत् । तदानयेयं तपसा न हि मेऽत्रास्ति
संशयः । अहल्योवाच । परितुष्टाऽस्मि ते विप्र! नित्यं
भक्त्याऽनयाऽनघ! । पर्य्याप्तमेतद्भद्रन्ते गच्छतात! ययेप्सि-
तम् । वैशम्पायन उवाच । उतङ्कस्तु महाराज पुनरेवाव्र-
वीद्वचः । आज्ञापयस्व मां मातः! कर्त्तव्यञ्च तव प्रियम् ।
अहल्योवाच । सौदासपत्नीविधृते दिव्ये ये मणिकुण्डले ।
ते समानय भद्रन्ते गुर्व्वर्थः सुकृतो भवेत् । स तथेति
प्रतिश्रुत्य जगाम जनमेजय! । गुरुपत्नीप्रियार्थं वै ते
समानयितुं तदा । स जगाम ततः शीघ्रमुतङ्को ब्राह्मण-
र्षभः । सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले ।
गौतमस्त्वब्रवीत् पत्नीमुतङ्को नाद्य दृश्यते । इति पृष्टा
तमाचष्ट कुण्डलार्थं गतञ्च सा । ततः प्रोवाच पत्नीं स न
ते सम्यगिदं कृतम् । शप्तः स पार्थिवो नूनं ब्राह्मणं तं
बधिष्यति । अहल्योवाच । अजानत्या नियुक्तः स
भगवन्! ब्राह्मणोमया । भवत्प्रसादान्न भयं किञ्चित्तस्य
भविष्यति । इत्युक्तः प्राह तां पत्नीमेवमस्त्विति गौतमः ।
उतङ्कोऽपि वने शून्ये राजानं तं ददर्श ह” ।
आश्व० ५६ अ० । इतःपरं तत्कुण्डलानयनादिकं
नागतक्षकविघ्नमुपवर्ण्य वह्निप्रमादात्तत् नागलोकादानीय
गुरुपत्न्यै तद्दानमुक्तमित्ययं संक्षेपो विस्तरस्तत्र दृश्यः ।
अस्यैव तोयाभिलाषपूरणार्थमीश्वरेण उतङ्कमेघः प्रव-
र्त्तितः तत्कथा उतङ्कमेशषब्दे दृश्या ।

उतङ्कमेव पु० उतङ्कार्थमीश्वरेण प्रवर्त्तितोमेघः । मरुदेशस्थोत-

ङ्कतोयाकाङ्क्षापूरणार्थमीश्वरेण कृष्णेन नियोजिते मेघे ।
तत्कथा भा० आश्व० ५५ अ० । “उतङ्क उवाच ।
अवश्यकरणीयञ्च यद्येतन्मन्यसे विभो! । तोयमिच्छामि
यत्रेष्टं मरुष्वेतद्धि दुर्लभम् । ततः संहृत्य तत्तेज प्रो-
वाचोतङ्कमीश्वरः । एष्टव्ये सति चिन्त्योऽहमित्युक्त्वा
द्वारकां ययौ । ततः कदाचिद्भगवानुतङ्कस्तोयका-
ङ्क्षया । तृषितः परिचक्राम मरौ सस्मार चाच्युतम् ।
ततो दिग्वाससं धीमान्मातङ्गंमलपङ्किनम् । अपश्यत मरौ
तस्मिन् श्वयूथपरिवारितम् । भीषणं बद्धनिस्त्रिंशं
वाणकार्मुकधारिणम् । तस्याधः स्रोतसो ऽपश्यत् द्वारि भूरि
द्विजोत्तमः । स्मरन्नेव च तं प्राह मातङ्गः प्रहसन्निव ।
एह्युतङ्क! प्रतीच्छस्व मत्तो वारि भृगूद्वह! । कृपा
हि मे सुमहती त्वां दृष्ट्वा तृट्समाश्रितम् । इत्युक्तस्तेन
स मुनिस्तत्तोयं नाभ्यनन्दत । चिक्षेप च स तं धीमान्
वाग्भिरुग्राभिरच्युतम् । पुनः पुनश्च मातङ्गः
पिबस्वेति तमब्रवीत् । न चापिबत् स सक्रोधः क्षुधितेनान्त-
रात्मना । स तयो निश्चयात्तेन प्रत्याख्यातो महात्मना ।
श्वभिः सह महाराज! तत्रैवान्तरधीयत । उतङ्कस्तं
तथा दृष्ट्वा ततो व्रीडितमानसः । मेने प्रलब्धमात्मानं कृष्णे-
नामित्रघातिना । अथ तेनैव मार्गेण शङ्खचक्रगदा-
धरः । आजगाम महाबुद्धिरुतङ्कश्चैनमब्रवीत् । न
दत्तं तादृशं दातुं त्वया पुरुषसत्तम । सलिलं विप्र-
मुख्येभ्यी मातङ्गस्रोतसा विभो । इत्युक्तवचनं तन्तु
महाबुद्धिर्ज्जनार्द्दनः! । उतङ्कं श्लक्ष्णया वाचा सान्त्व-
यन्निदमब्रवीत् । यादृशेनेह रूपेण योग्यं दातुं धृतेन
वै । तादृशं खलु ते दत्तं तच्च त्वं नावबुध्यथाः ।
मया त्वदर्थमुक्तो वै वज्वपाणिः पुरन्दरः । उतङ्का-
यामृतं देहि तीयरूपमिति प्रभुः । स मामुवाच देवे-
न्द्री न मर्त्योऽमर्त्यतां व्रजेत् । अन्यमस्मै वरं देही-
त्यसकृद्भृगुनन्दन । अमृतं देयमित्येव मयैवोक्तः
शचीपतिः । स मां प्रसाद्य देवेन्द्रः पुनरेवेदमब्रवीत् । यदि
देयमवश्यं वै मातङ्गो हि महामते! । भूत्वाऽमृतं प्रदा-
स्यामि भार्रवाय महात्मने । यद्येवं प्रतिगृह्णाति
भार्गवोऽमृतमद्य वै । प्रदातुमेष गच्छामि भार्गवस्यामृतं
विभो! । प्रत्याख्यातस्त्वहं तेन दास्यामि न कथञ्चन ।
स तथा समयं कृत्वा तेन रूपेण वासवः । उपस्थित-
स्त्वया चापि प्रत्याख्यातोऽमृतं ददत् । चाण्डालरूपी
भगवन्! सुमहांस्ते व्यतिक्रमः । तन्न शक्यं मया
कर्त्तुं भूय एव तषेप्सितम् । तोयेप्सां तव दुर्द्धर्षां करिष्ये
सफलामहम् । येष्वहःसु च ते ब्रह्मन् । सलिलेप्सा
भविष्यति । तदा मरौ भविष्यन्ति जलपूर्णाः पयोधराः ।
रसवच्च प्रदास्यन्ति तोयं ते भृपुनन्दन! । उतङ्कमेषा
इत्युक्ताः ख्यातिं यास्यन्ति चापि ते । इत्युक्तः प्रीति-
मान् विप्रः कृष्णेन स बभूव ह । अद्याप्युतङ्कमेघाश्च मरौ
वर्षन्ति भारत” ।
पृष्ठ १०७५

उतथ्य पु० अङ्गिरसः श्रद्वायां पत्न्यामुत्पन्ने गुरोर्ज्येष्ठभ्रातरि ।

“त्रयोह्यङ्गिरसः पुत्रा एते सर्वत्र विश्रुताः । वृहस्पति-
रुतथ्यश्च संवर्त्तश्च धृ तव्रतः” भा० आ० ६६ अ० । तस्या-
पत्यम् अण् औतथ्यः स च उतथ्येन ममतायामुत्पन्नः
वृहस्पतिशापात् जात्यन्धतां प्राप्तस्तत्कथा यथा
“अथोतथ्य इति ख्यात आसीद्धीमानृषिः पुरा । ममता
नाम तस्यासीद्भार्य्या परमसम्मता । उतथ्यस्य
यवीयांस्तु पुरोधास्त्रिदिवौकसाम् । द्बहस्पतिर्वृहत्तेजा
ममतामन्वपद्यत । उवाच ममता तन्तु देवरं वदतांवरम् ।
अन्तर्व्वत्नी त्वहं भ्रात्रा ज्येष्ठेनारम्यताभिति । अयञ्च
भे सहाभाग! कुक्षावेव वृहस्पते! । औतथ्यो वेदमत्रापि
षड़ङ्गं प्रत्यधीयत । अमोघरेतास्त्वञ्चापि द्वयोन्नास्त्यत्र
सम्भवः । तस्मादेवञ्च नत्वद्य उपारमितुमर्हसि ।
एवमुक्तस्तदा सम्यग्वृहस्पतिरधीरधीः । कामात्मानं
तदात्मानं न शशाक नियच्छितुम् । स बभूव ततः कामी
तया सार्द्धमकामया । उत्सृजन्तन्तु तं रेतः स गर्भस्थो-
ऽभ्यभाषत । भोस्तात! मा गमः कामं द्वयोर्न्नास्तीह
सम्भवः । अल्पावकाशो भगवन्! पूर्व्वं चाहमिहागतः ।
अमोघरेताश्च भवान्न पीडां कर्त्तुमर्हसि । अश्रुत्वैव तु
तद्राक्यं गर्भस्थस्य वृहस्पतिः । जगाम मैथुनायैव ममतां
चारुलोचनाम् । शुक्रोत्सर्गं ततो बुद्ध्वा तस्या गर्भगतो
मुनिः । पद्भ्यामारोधयन्मार्गं शुक्रस्य च वृहस्पतेः ।
स्थानमप्राप्तमपतद्रेतः प्रतिहतं तदा । पपात सहसा
मूमौ ततः क्रुद्धो वृहस्पतिः । तदृष्ट्वा पतितं शुक्र
शशाप स रुषाऽन्वितः । उतथ्यपुत्त्रं गर्भस्थं निर्भर्त्स्य
भगवानृषिः । यन्मां त्वमीदृशे काले सर्व्वभूतेप्सिते
सति । एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि । स वै
दीर्घतमा नाम शापादृषिरजायत । वृहस्पतेर्वृहत्कीर्त्तेर्वृह-
स्पतिरिवौजसा । जात्यन्धो वेदवित्प्राज्ञः पत्नीं लेभे स
विंद्यया । तरुणीं रूपसम्पन्नां प्रद्वेषीं नाम ब्राह्मणीम् ।
स पुत्राञ्जनयामास गौतसादीन् महायशाः । ऋषेरुत-
थ्यस्य तदा सन्तानकुलवृद्धये । धर्मात्मा च महात्मा च
वेदवेदाङ्गपारगः । गोधर्मं सौरभेयाच्च सोऽधीत्य निखिलं
मुनिः । प्रावर्त्तत तदा कर्त्तुं श्रद्धावांस्तमशङ्कया” ।
भा० आ० १०४ अ० । “शूद्रावेदी पतयत्रेरुतथ्यतनयस्य
च” मनुः । “उतथ्यतनयस्य गौतमस्येति” कुल्लू० । तस्य
उतथ्यपौत्रत्वेऽपि तत्कुलवर्द्धनात्तथात्वं तस्य जात्य-
न्धतया स्मृतिकर्त्तृत्वाभावेन तत्पौत्रस्यैव गौतमस्य स्मृति
कर्त्तृत्वात् तस्यैव सम्मतिकथनं युक्तमिति” “तथ्यामुतथ्या
नुवज्जगादाग्रे गदाग्रजः” माघः । अयञ्च आङ्गिरस-
गोत्रप्रवरमध्यस्थ ऋषिभेदः ८१७ पृ० विवृतः ।

उतथ्यानुज पु० ६ त० । वृहस्पतौ उतथ्यावरजादयोऽप्यत्र ।

“तथ्यामुतथ्यानुजवज्जगादाग्रे गदाग्रजः” ।

उताहो अव्य० उत च आहो च द्व० । १ विकल्पे, २ प्रश्ने ३ विचारे च

उत्क त्रि० उद्गतं मनोऽस्य उद् + नि०--क । १ उन्ममस्के २ अन्य-

मनस्के । “अगमयदद्रिसुतासमागमोत्कः” कुमा० । “तच्
श्रत्वा च श्रवणदुभगं गर्ज्जितं मानसोत्काः” मेघ०” ।
“उत्कं धरं द्रष्टुमवेक्ष्य शौरिमुत्कब्धरं दारुक इत्युवाच”
माघः ।

उत्कच त्रि० उद्गतः उन्नतो--कचोऽस्य । १ विकचे केशशून्ये २ उन्नत

केशे च “प्रणम्य विकचः पादावगृह्णात् स पितुस्तदा ।
मातुश्च परमेश्वासस्तौ च नामास्य चक्रतुः । घटोहास्योत्कच
इति माता तं प्रत्यमाषत । अब्रवीत्तेन नामास्य षटो
त्कच इति स्म सा” भा० आ० १५६ ।

उत्कट पु० अतीव कटति उद् + कट--अच् । १ रक्तेक्षौ, २ शरे

च ३ त्वक्पत्रे । (तेजपात) ४ गुडत्वचि (दारचिनि) च
न० । ४ अविसंवादिविषये त्रि० । उत्ककोटिसम्भवना
तत्रौत्कट्यं विषयताविशेषः स च अविसवादिप्रवृत्तिप्रयो-
जकताप्रयोज्य इति नव्यनैयायिकाः । उद्गतः कटः आवरणं
यस्य प्रादि० ब० । ५ तीव्रे त्रि० । ६ भिन्नकटे गजे पु० ।
“चन्द्रांशुनिकराभासाहाराः कासाञ्चिदुत्कटाः” रामा० ।
मदोत्कटः । “शुक्रशोणिसंयोगे यो भवेद्दोष उत्कटः”
सुश्रु० “कितवा यानि दीव्यन्तः प्रलपन्त्युत्कटा इव” भा०
स० ६ ३ अ० । ६ विषमे त्रि० उत्कठाशनम् “कांश्चित्त कुटजा-
नान्तु विटपेषूकटानिव” भा० व० १५६ अ० । ७ सैंहील-
तायाम् स्त्री ।

उत्कण्ठ पु० उद्गतः कण्ठं पादोयत्र । “नारीपादौ च

हस्तेन धारयेद्गलके पुनः । स्तनार्पितकरः कामी बन्ध-
श्चोत्कण्ठसंज्ञित” इति रत्यङ्गेबन्धभेदे उन्नतःकण्ठो
यस्य । २ उद्ग्रीवे त्रि० । “रथस्वनोत्कण्ठमृगः” रघुः ।

उत्कण्ठा स्त्री० उद् + कठि--अ । इष्टलाभाय कालासहनरूमे

१ औत्सुक्ये २ चिन्तयाञ्च । “यास्यत्यद्य शकुन्तलेति हृदयं
संस्पृष्टमुत्कण्ठया” शकु० । “उत्कण्ठायां हृदि न कुरुते
कारणानां सहस्रम्” पदाङ्कदू० “त्वासुत्कणठा विरचित-
पदम्” केकोत्कण्ठा भवनशिखिनः” मेघदू० ।
पृष्ठ १०७६

उत्कण्ठित त्रि० उत्कण्ठा जाताऽस्य तारकादि० इतच् ।

१ उत्कण्ठायुक्ते २ नायिकाभेदे स्त्री । “सास्रेणाश्रुद्रुत-
मविरतोत्कण्ठमुत्कण्ठितेन” मेघदू० । नाषिकाभेदस्तु
“आगन्तुं कृतचित्तोऽपि दैवान्नायाति यत् प्रियः ।
तदनागमदुःखेन विरहोत्कणिटता तु सा” सा० द० उक्तः ।
“उत्कण्ठिताऽसि तरले! न हि नहि सखि! पिच्छिलः
पन्थाः सा० द० ।

उत्कता स्त्री उत्कं तनोति तन--ड । गजपिप्पल्याम्

शब्दच० उत्कस्य भावः तल् । २ उत्सुकतायाम् ।

उत्कन्धर त्रि० उन्नतः कन्धरोऽस्य प्रा० ब० वा नतलोपः ।

उन्नतग्रीवे “उत्कन्धरं दारुकैत्युवाच” माघः ।

उत्कम्प पु० उत्कृष्टः कम्पः प्रा० त० । १ कामादिजनिते

कम्पने । “सोत्कम्पानि प्रियसहचरीसम्भ्रमालिङ्गितानि”
मावः । भावे ल्युट् । उत्कम्पनमप्यत्र न० । व्याधिर्जरा-
“दिर्वाताद्यैर्भूमीच्छोत्कम्पनादिकृत्” शैत्यभवस्योत्कम्पनादयः”
इति च सा० द० । उत्कम्पते अच् । २ उत्कम्पान्विते त्रि० ।
“बिस्मयोत्कम्पहृदया नाम चक्रुर्महर्षयः” आ० प० ३०
अ० । णिनि । उत्कम्पिन् स्त्रियां ङीप् । उत्कम्पान्विते,
उत्कम्पयति णिजन्तात् णिनि उत्कम्पकारके च
“किमिदं हृदयोत्कम्पि मनीमम विषीदति” रामा० ।

उत्कर पु० उद् + कॄ--अप् । १ धान्यादीनां राशीकरणे २ प्रसा-

रणे, ३ तृणापसारणे ४ हस्तपदादिविक्षेपे ५ समूहे च ।
“तृणपर्ण्णोत्करयुतं कलुषं विषसंयुतम्” सुश्रु० । “केश-
रोत्करसंमिश्रमशोकानामिवोत्करम्” भा० व० १११५० ।
कर्म्मणि अप् । ६ उत्कीर्य्यमाणे धूल्यादौ “अथ खनति
प्राञ्चमुत्करमित्करति” शत० ब्रा० ३, ६, १, ६, । उत्की-
र्य्यतेऽत्र आधारे अप् । पांश्वादेरुत्क्षेपाधारे गर्त्तादौ,
“चत्वालोत्करावन्तरेण सञ्चरः” कात्या० १, ३, ४२, सञ्च-
रोमार्गः चत्वालोगर्त्तः उत्करस्तत्क्षेपणगर्त्तस्तयोरन्त-
रालेन विहितकार्य्यार्थं सञ्चारमार्गः । “प्रणीतोत्करावशि-
ष्टेषु” कात्या० १, ३, ४३, ।

उत्करादि पु० चतुरर्थ्याम् “उत्करादिभ्यश्छ” पा० विहितछप्र-

त्ययनिमित्ते शब्दगणे स च गणः “उत्कर संफल शफर
पिप्पल पिप्पलीमूल अश्मन् सुवर्ण खलाजिन तिक
कितव अणक त्रैवण पिचुक अश्वत्थ काश क्षुद्र यस्त्रा शाल
जन्या अजिर चर्म्मन् उत्क्रोश क्षान्त स्वदिर शूर्पणाय
श्यावनाय नैवाकव तृण वृक्ष शाक पलाश विजिगीषा
अनेक आतप फल सम्पर अर्क गर्त्त अग्नि वैराणक इड़ा
अरण्य निशान्त पर्ण नीचायक शंकर अवरोहित क्षार
विशाल वेत्र अरीहण खण्ड वातागर मन्त्रणार्ह इन्द्र-
वृक्ष नितान्तावृक्ष आर्द्रवृक्ष” । छ उत्ककरीय तत्सन्नि-
हितदेशादौ त्रि० ।

उत्कर्ण्ण त्रि० उन्नतःकर्णो यस्य यस्मिन् वा प्रा० ब० वा

नतलोपः । कृतकर्ण्णोत्तोलने “उत्कर्णमुद्वाहितकन्धरेण” माघः ।

उत्कर्त्तन न० उत् + कृत--ल्युट् । १ छेदने २ उत्पाटने “दंश-

स्योत्कर्त्तनं कुर्य्यादल्पश्वयथुकस्य च” सुश्रु० उत्कर्त्तनञ्च
मूढ़गर्भचिकित्सोपायः । सुश्रुते दर्शितः यथा ।
“उत्क र्षणापकर्षणस्थानापवर्त्त नोत्कर्त्तनभेदनच्छेदनपीड़न-
र्जूकरणदारणानि” । उत्कर्त्तनकर्म्मयोग्यता च पुष्प-
फलालाबुकालिन्दकत्रपुसैर्वारुककर्कारुकप्रभृतिषु च्छेद्य-
विशेषान् दर्शयेदुत्कर्त्तनपरिकर्त्तनानि चोपदिशेत्”
सुश्रु० उक्तवस्तुषु उपरिशस्त्र चालने तदीमोपरिस्थ
शूकमात्रखण्डनं न त्वक्खण्डनं यथाभबति एवं गर्म-
रक्षणेन उपरितनवस्तुमात्रच्छेदनं यत्तदुत्कर्त्त नमिति
शिक्षार्थमुक्तमिति तात्पर्य्यम् । २ उत्पाट्यच्छेदने च ।

उत्कर्ष पु० उद् + कृष--घञ् । १ प्राशस्त्ये २ अतिशके ३ स्वकालात्

परकालकर्त्तव्यतायाम् । यथा पतितमासिकानां
स्वकाले दैवादकरणे मृतसजातीयपरमासीयतिथौ करणम्
“एकोद्दिष्टे तु संप्राप्ते यदि विघ्नं प्तजायते । मासेऽन्य-
स्मिन् तिथौ तस्मिन् तदा दद्यात् विचक्षणः” इति स्मृतौ-
तथा विधानात्तस्य तथात्वम् । “पञ्चानामपि भूतानामुत्कर्षं
पुपुषुर्गुणाः” रघुः । स्त्रीणाञ्च उत्कर्षः भर्त्तृगुणेनैव “यादृ-
ग्गुणेन भर्त्त्रा स्त्री संयुज्येत यथाविधि । तादृग्गुणा सा
भवति समुद्रेणेव निम्नगा । अक्षमाला वशिष्ठेन संयुक्ताऽ-
धमयोनिजा । शारङ्गी मन्दपालेन जगामाभ्यर्हणीय-
ताम् । एताश्चान्याश्च लोकेऽस्मिन्नपकृष्टप्रसूतयः । उत्कषं
योषितः प्राप्ताः स्वैः स्वैर्भर्त्तृगुणैः शुभैः” मनुः ।
“उत्तमैरुत्तमैर्नित्यं संबन्धानाचरेत् सह । निनीषुः
कुलमुत्कर्षमधमानधमांस्त्यजेत्” मनुः ।
उत्कर्षः निमित्ततयाऽस्त्यस्य अच् । ४ उत्कर्षनिमित्ते
त्रि० “निषिद्धभक्षणं जैह्म्यमुत्कर्ष च वचोऽनृतम् ।
रजस्वजामुखास्वादः सुरापाणसमानि तु” या० स्मृ० । उत्क-
र्ममुत्कर्षनिमित्तं राजकुलादावचतुर्वेद एव चतुर्वेदो-
हम्” इत्यनृतभाषणम्” मिता० । उत्कृष्यते अपकृष्टे
भ्योगुणविशेषेण विभज्यत इति व्युत्पत्त्या गुणविशेषद्वारैव
पृष्ठ १०७७
अपकृष्टात् विभजनम् । स च स्वस्वजातिषु उत्तमगुणे-
नैव । तत्र विप्राणां विनयविद्यादिना, राज्ञां शौर्य्यवी-
र्य्यदिना, वैश्यानां धनादिना, शूद्राणां नम्रतादिना ।
एवमन्यवस्तुन्यपि यथायथमूह्यम् । द्वयोर्मध्ये
एकस्योत्कर्षेऽर्थे तरप् विद्वत्तरः शूरतरः बहूनां मध्ये तु
तमप् । विद्वत्तमः शूरतमः इत्यादि । “उत्कर्षे हेतवः
प्रोक्ता गुणालङ्काररीतयः” सा० द० । “उत्तरोत्तरमुत्कर्षो
वस्तुनः सार उच्यते” सा० द० । “यथा वर्ण्णानामुत्कर्षा-
पकर्षकृतेन संयोगविशेषेण” सुश्रु० भावे ल्युट् । उत्कर्षण-
प्यत्र न० । उत्कृष्यते कर्ण्णणि घञ् । ५ उत्कर्षान्विते । उद्धृत्य
कर्षः । ६ उत्पाट्यकर्षणे उद्धरणे पु० “सन्धानमुत्कर्षमिव
व्युदस्य” माघः । ल्युट् । उत्कर्षणमप्यत्र न० । “स्फाटिकं
स्थलमासाद्य जलमित्यभिशङ्कया । वस्त्रस्योत् कर्षणं राजा
कृतवान् बुद्धिमोहितः” भा० स० ४६ अ० ।

उत्कर्षक त्रि० उत्कर्षयति उत् + कृष--णिच् ण्वुल् । १ उत्क-

र्षाघायके “काव्यस्योत्कर्षका उच्यन्ते” सा० द० उद् +
कृषण्वुल् । उत्पाट्य २ कर्षणकारिणि ।

उत्कर्षित त्रि० उत्कर्षोजातोऽस्य तारका० इतच् । जातोत्कर्षे ।

उत्कर्षिन् त्रि० उत्कर्षति उत्तोल्य कर्षति । २ उत्तोल्यकर्षके

उद्धारके “अयं स रशनोत्कर्षी पीनस्तनविमर्दनः” सा० द०
धृतम् । २ उत्कर्षान्विते च । स्त्रियामुभयतो ङीप् ।

उत्कल पु० “जगन्नाथप्रान्तदेश उत्कलः परिकीर्त्तित” इत्युक्ते

१ उड्रदेशस्थे (उड़िस्या) इति ख्याते देशभेदे । स च देशः
कूर्म्मविभागे प्राच्यतया “वृ० स० उक्तः तच्च उड्रशब्दे उक्तम् ।
अस्मद्देशापेक्षया च तस्य दाक्षिणात्यत्वमिति भेदः” “उत्क-
लादेशितपथः कलिङ्गाभिमुखं ययौः” रघुः । ४ सुद्यु-
म्नपुत्रे राजभेदे । “मनोर्वंशकरः पुत्रस्त्वमेव च भविष्यसि ।
सुद्युम्न इति विख्यातस्त्रिषु लोकेषुं विश्रुतः” इत्युपक्रम्य
“सुद्युम्नस्य च दायादास्त्रयः परमधार्मिकाः । उत्कलश्च
गयश्चैव विनताश्वश्च भारत! । उत्कलस्योत्कला राजन्!
विनताश्वस्य पश्चिमा । दिक् पूर्व्वा भरतश्रेष्ठ गयस्य तु गया
पुरो” हरिवं० १० अ--इत्युक्तेश्च तस्य उत्कला
ख्या पुरी आसोत् तत्संबन्धित्वाच्च तद्देशस्योत्कलत्वम ।
उत्कलोऽभिजनोऽस्य अण् । औत्कल तद्वासिजने
तद्देशानां राजा अण् । औत्कल तद्देशानां राजनि ।
उभयत्र बहुषु अणो लुक् । “उत्कला मेकलाः पौण्ड्राः
कलिङ्गान्ध्राश्च संयुगे” भा० औ० ४ अ० । उत्कः सन् लाति
ला + क । २ व्याधे, ३ भारटाहके च शब्दमा० । ४ ध्रवपुत्रभेदे
पु० । “प्रजापतेर्दुहितरं शिशुमारस्य वै ध्रवः ।
उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ । इडायामपि
भार्य्यायां वायोः पुत्र्यां महाबलः! । पुत्रमुत्फलनामानं
योषिद्रत्नभजीजनत्” भाग० ४ स्क० १० अ० । पञ्चगौड-
मध्ये ५ विप्रभेदे च । “सारस्वताः कान्यकुब्जाः गौडमैथिल-
कीत्ककाः” ।

उत्कलिका स्त्री उद्--कल--वुन् । १ उत्कण्ठायाम् कामादि-

जाताया २ स्मृतौ च । ३ तरङ्गे हला० “वनावलीरुत्क-
लिकासहस्रप्रतिक्षणोत्कूलितशैवलाभाः” माघः । ४
कलिकायां कोरके ५ हेलायाञ्च हेमच० ।

उत्कलिकाप्राय न० “भवेदुत्कलिकाप्रायं समासाढ्य

दृढाक्षरम्” । छ० म० उक्ते गद्यभेदे

उत्कलित त्रि० क्त उद् + कल--क्त । उद्ग्रथिते

उत्कषण न० उद् + कष--ल्युट् । कर्षणे । “सद्यःसीरोत्क-

षणसुरभिक्षेत्रमारुह्य मालम्” मेघदू० ।

उत्काका स्त्री उत्केवाकति अक--अच् । प्रतिवर्षंप्रसूतायां

गवि शब्दचि० तु उत्कारेति शब्दमाह ।

उत्काकुद् त्रि० उन्नतं काकुदमस्य “उद्विभ्यां काकुदस्य”

पा० अन्त्यलोपः समा० । उन्नततालुके ।

उत्कार पु० उद् + कॄ--“कॄ धान्ये” पा० घञ् । धान्यादेः विक्षेपे

“उत्कारेषु च धान्यानमनभीष्टपरिग्रहाः” भट्टिः ।

उत्कारिका स्त्री उद् + कॄ--ण्वुल् । सुश्रुतोक्ते शोफादिनि-

वारके पाचनभेदे यथा “ब्रणस्य षष्टिरुपक्रमा भवन्ति ।
अपतर्पणमालेप” इत्युपक्रम्य “निर्वापणमुत्कारिका कषाय”
इत्यादीनि विभज्य उत्कारिकाविषयपाचनप्रकारोदर्शितः ।
“निवर्त्त ते न यः शोफो विरेकान्तैरुपक्रमैः । तस्य संपा-
चनं कुर्य्यात् समाहृत्यौषधानि तु । दधितक्रासुराशुक्त
धान्याम्लैर्योजितानि तु । स्निग्धानि लवणीकृत्य पचेदुत्-
कारिकां शुमाम्” । “स्नैहिकेषु च वीजेषु पचेदुत्कोरिकां
शुभाम्” । “स्नैहिकफलसारीत्कारिका वा” । “स्नुहीभा-
वितामुत्कारिकां दापयेत्” इति च सुश्रु० ।

उत्कास पृ० उत्कमस्यति अस--अण् उप० स० ।

ऋषिभेदे वस्य गोत्रापत्यम् इञ् । औत्कासि तद्गोत्रापत्ये
बहुषु तु अस्त्रिया तस्य लुक् । उत्कासाः । अस्यते
क्षिप्यतेऽनेन अस करणे घञ् आसः ऊर्द्धस्य कस्य श्लेष्म-
जलस्य आसः । २ ऊर्द्ध्वगतश्लेष्मोत्क्षेपकरोगभेदे च । स च
अन्तःस्थितकफादेरूर्द्धावायुना उत्क्षेपसाधनं रोगःस्वना-
मख्यातः ।
पृष्ठ १०७८

उत्कासिका उत्कमूर्द्धजलमस्यति अस--ण्वुल् । ऊर्द्धश्लेष्म-

क्षेपके रोगभेदे ।

उत्कासन न० उत् उर्द्धस्थस्य कस्य आसनं क्षेपणम् अस +

णिच्--ल्युट् । अन्तःस्थकफरूपस्य कस्य उर्द्धदेशेन निस्मा-
रणरूपे व्यापारे । “आहारशेषश्लेष्महीनाणुशल्यानि
श्वसनोत्कासनप्रधमनैर्निर्द्धमेत्” । “सन्धिगतः पीड्यमानी
न प्रवर्त्तत आकुञ्चनप्रसारणोन्नमनविनमनप्रधावनोत्का-
सनप्रवाहणैश्च स्ववति” सुश्रु० । (कासीकरान)

उत्किर त्रि० उद्--कॄ कर्त्तरि श । उत्क्षेपके । “पुष्परेणू-

किरैर्वातैः” रघुः “निनाय सात्यन्तहिमोत्किरानिलाः ।
“आप्लुतास्तीरमन्दार कुसुमोत्किरवीचिषु” कुमा० “शाखि-
मिः कुसुमोत्किरैः” भट्टिः

उत्कीर्ण्ण त्रि० उद् + कॄ--क्त । १ उल्लिखिते, २ कृतवेधे च “मणौ

वज्रसमुत्कीर्णे” रघुः । ३ ऊर्द्ध्वं क्षिप्ते च “रजोमिस्तुरगो-
त्कीर्ण्णैः” रघुः । ४ लिखिते “उत्कीर्ण्णापि विप्रलभते” काद० ।

उत्कीर्त्तन न० उच्चैः कीर्त्तनम् । देवनामादेः उच्चैः कथने ।

उत्कीर्त्तित त्रि० उद् + कीर्त्त--क्त । उच्चैः कथिते ।

उत्कुट न० कुट--सङ्कोचे क उन्नतंकुटो यत्र । उत्तानशयने हारा० ।

उत्कुण त्रि० उत्तोल्य कुण्यते हिंस्यते कुण--हिंसने अद०

चुरा० कर्म्मणि अच् । उत्तोल्य हिंस्ये (उकुण)
ख्यरते केशकीष्टे हेयच० ।

उत्कूट पु० ज्वन्नतं कूटमस्य । छत्रे हारा० ।

उत्कूल त्रि० उत्क्राग्नः कूलात् निरा० स० । १ उत्क्रान्तकूले

नदादौ । कूलमुद्गतः अत्या० स० । २ कूलप्राप्ते । तत्करो-
तीत्यर्थेनिचि कर्म्मणि क्त । उत्कूलित । कूल प्रापिते
त्रि० । “प्रतिक्षणोत्कूलितशैवलाभगः” माघः ।

उत्कृति स्त्री षड्विंशत्यक्षरपादके छन्दोभेदे । “उक्तात्युक्ते”

त्युपक्रम्य “विकृतिः सङ्कतिश्चैव तथातिकृतिरुत्कृतिः” वृ० र०

उत्कृत्य अव्य० उद् + कृत--ल्यप् । १ उत्कर्त्तनं कृत्नेत्यर्थे ।

“उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूत्सेधेत्यादि”
मालती० । ऋदुपधत्वात् कर्म्मणि क्यप् । २ उत्कर्त्तनीये
छेदनीये त्रि०

उत्कृष्ट त्रि० उद् + कृष--क्त । १ प्रशस्ते २ उत्तमे ३ उत्कर्षान्विते

“सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः” “वसनस्य दशा
ग्राह्या शूद्योत्कृष्टवेदने” “कन्यां भजन्तीमुत्कृष्टं न
किञ्चदपि दापयेत्” “वीजस्य चैव योन्याश्च वीजमुत्कृष्ट
म्व्यते” इति च मनुः । ४ कर्षणयुक्ते क्षेत्रादौ च । अतः
अतिशये तरष् तमप् च उत्कष्टतरः उत्कृष्टतमः ।

उत्कृष्टभूम पु० उत्कृष्टा भूमिर्यत्र बा० अच् समा० ।

प्रशस्तभूमौ देशे जटा० अभिधानात् पुंस्त्वम् ।

उत्कोच पु० स्त्री उद्गतः कोचः सङ्कोचः कार्य्य प्रतिबन्धोयेन ।

अन्याय्यकर्म्मकरणार्थं स्वार्थप्रतिबन्धनिरासाय वादिप्रति-
वादिभ्यां दाने (घुस्) इति ख्याते । “तथोत्कोचपरी-
हासव्यात्यासच्छलयोगतः” अदतगणनायां नारदः ।
“उत्कोचजीविनो द्रव्यहीनान् कृत्वा प्रवासयेत्” या०
स्मृ० । उत्कोचदत्तस्यादत्ततैव यथा “दत्तं सप्तविधं
प्रोक्तमदत्तं षोड़शात्मकमिति” सामान्यतोऽभिधाय
“अदत्तं तु भयक्रोधेत्यादिना शोडशविधादत्तपदर्था
नारदेन दर्शिताः अदत्ताशब्दे तच्चोदाहृतम् ११३ पृष्ठे दृश्यम्
“उत्कोचेन कार्य्यप्रतिबन्धनिरासार्थमधिकृतेभ्योदत्तम्”
मिता०

उत्कोचक पु० उत्कोचे उत्कीचद्रव्यग्रहणे प्रसृतः बा०

कन् । १ उप्कोचग्राहिणि “उत्कोचकाश्चोपधिका वञ्च-
काः कितवास्तथा” इत्युपक्रम्य “एवमादीन् विजानीयात्
प्रकाशालाँकवञ्चकान्” मनुः । २ धौम्याश्रमान्तिके तीर्थभेदे
“यवीयान् देवलस्यैष वने भ्राता तपस्यति । धौम्य
उत्कोचके तीर्थे तं वृणुध्वं यदीच्छत” । “तत्र उत्कोचकं
तीर्थ” गत्वा धौमाश्रमं ततः” भा० आ० १८३ अ० ।

उत्क्रम पु० उद् + क्रम--घञ् अवृद्धिः । व्युत्क्रमे, विपरीत-

क्रमे “क्रमोत्क्रमान्मेषतुलादिमानम्” ज्यो० त० । “अथो-
त्क्र मायानुपक्रमाय शतमानं भवति” शत० ब्रा० १३,
४, २, १० । उद् + क्रम--घञ् । २ उत्क्रान्तौ ऊर्द्धगतौ ।

उत्क्रमण न० उद् + क्रम--ल्युट् । १ अपसरणे “सोमवदुत्क्रमण

मपगमनञ्च” कात्या० १९, ५, १७ । २ देहात् जीवादेरपसरणे
“शतं चैका च हृष्टयस्य नाड्यस्तासां मूर्द्धानमभि निस्मृ-
तैका । तयोर्द्ध्वमायन्नमृत वमेति विष्वङ्ङन्या उत्क्रमणे
भवन्ति” कठोप० अस्य भाष्यं यथा “तत्र शतञ्च
शतसङ्ख्याका एका च सुषुमणा नाम पुरुषस्य हृदयाद्विनिः
स्मृता नाड्यः शिरास्तासां मध्ये मूर्द्धानं भित्त्वाऽभिनिः-
सृता निर्गता एका सुकुम्णा नाम तयाऽन्तकाले हृदये
आत्मानं वशीकृत्य योजयेत् । तया नाद्ध्योर्द्ध्वमुपरि आयन्
गच्छन्नादित्यद्वारेणामृतत्वभमरणधर्म्मत्वमापेक्षिकम् ।
“आभूसंप्लवं स्थानममृतत्वं हि भाष्यत” इति स्मृतेः । ब्रह्मणा
वा सह कालान्तरेण मुख्यममृतत्वमेति भुक्त्वा भोगाननुपमान्
ब्रह्मलोकगतान्, विष्वङ् नार्नाविधगतयोऽन्या नाड्य
उत्कुमणे निमित्तं भवन्ति संसारपतिपत्त्यर्था एव भवन्ती-
पृष्ठ १०७९
भ्यर्थः” । तत्रोत्क्रमणप्रकारः वृ० उ० ६, ३, ४, ब्रा० दर्शितो
यथा “तद्यथाऽनः सुसमाहितमुत्सर्ज्जद्यायादेवमेवायं
शारीर आत्मा प्राज्ञेनात्मनाध्वारूढमुत्र्ज्जद्याति यत्रैतदू-
र्द्धोच्छ्वासी भवति” ३५ क० । स यत्रायमणिमानं न्येति जरया
वोपतपता वाणिमानं निगच्छति तद्यथाम्रं वोदुम्बरं वा
पिप्पलं वा वन्धनात्प्रमुच्यत एवमेवायं पुरुष एभ्योऽङ्गेभ्यः
"प्रमुच्यपुनः प्रतिन्यायं प्रतियोन्याद्रवति प्राणायैव” ३६ क० ।
“तद्यथा राजानं प्रयियासन्तमुग्राः प्रत्येनसःसूतग्रामण्योऽ-
भिसमा यन्त्ये वमेवेममात्मानमन्तकाले सर्व्वे प्राणा अभिसमा-
यन्ति यत्रैतदूद्ध्वाच्छ्वासी भवति” ३८ क० । “स यत्रायमा-
त्माऽबल्यं न्येत्य सम्भोहमिवन्येत्यर्थैनमेते प्राणा अभिसमा-
यन्ति स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्व-
वक्रामति स यत्रैष चाक्षुषः पुरुषः पराङ् पर्य्यावर्त्तते
तथा रूपज्ञो भवति १ । एकीभवति न पश्यतीत्याहुरेकी
भवति न जिघ्रतीत्याहुरेकीभवति न रसयत इत्याहुरे-
कीभवति न वदतीत्याहुरेकीभवति न शृणोतीव्याहुरेकी-
भवति न मनुत इत्याहुरेकीभवति न स्पृशतीत्याहुरेकी-
भवति न बिजानातीत्याहुस्तस्य हैतस्य हृदमस्याग्रं प्रद्यो-
तते तेन प्रद्योतेनैष आत्मा निष्क्रामति, चक्षषो-
वा मूर्द्ध्नो वाऽन्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तं प्राणो-
ऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्व्वे प्राणा अनूत्क्रामन्ति
सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति । तं विद्याक-
र्म्मणी समन्वारभेते पूर्व्वप्रज्ञा च” ४ ब्रा० १ क० ।
अत्र शाङ्क० भाष्यं यथा । “इत आरभ्यास्य
संसारोवर्ण्यते । यथायमात्मा स्वप्नान्ताद्वुद्धान्तमागत
एवमयमस्माद्देहाद्देहान्तरं प्रतिप्रत्स्यत इत्याहात्र दृष्टान्तः ।
तत्तत्र यथा लोके अनः शकटं सुसमाहितं सुष्टु
भृशं वा समाहितं भाण्डोपस्करणेनोलूखलमुसल-
शूर्पपिठरादिनान्नाद्येन च सम्पन्नं सम्भारेणाक्रान्त-
मित्यर्थः । तथा भाराक्रान्तं सदुत्सर्जच्छब्दं कुर्व्वद्यथा
यायाद्गच्छेत् शाकटिकेनाधिष्ठितं सत् । एवमेव
यथोक्तदृष्टान्तोऽयं शारीरः शरीरे भवः । कोऽसौ आत्मा
लिङ्गोपाधिर्य्यः स्वप्नबुद्धान्ताविव जन्ममरणाभ्यां पाप्म-
सन्सर्गवियोगलक्षणाभ्यामिहलोकपरलोकावनुसञ्चरति
यस्योत्क्रमणमनु प्राणाद्युत्क्रमणम् । थ पाज्ञेन परेणात्मना
स्वयंज्योतिःस्वभावेनान्वारूढोऽधिष्ठितोऽवभास्यमानस्तथा
चोक्तम्” “आत्मनैवायं प्योतिषाऽऽणे पाययते” ष्मति ।
उत्सर्जन् याति तत्र चैतन्यात्मज्जोतिसा भास्ते लिङ्गे
प्राणप्रधाने गच्छति सति तदुपाधिरप्यात्मा गच्छ
तीव । तथा च श्रुत्यन्तरम् “कस्मिन्न्वहमित्यादिं
“ध्यायतीवेति” च । अत एवोक्तं प्राज्ञेनात्मनान्वारूढ
इत्यन्यथा प्राज्ञेनैकीभूतः शकटवत्कथमुत्सर्जन याति तेन
लिङ्गीपाधिरात्मा उत्सर्जन्मर्म्ममु निःकृत्यमानेषु दुःख-
वेदनयार्त्तः शब्दं कुर्व्वन् याति गच्छति । तत्कस्मिन्-
काले? इत्युच्यते । यत्रैतद्भवत्येतदिति क्रियाविशेषणमूर्द्ध्वो-
च्छ्वासी यत्रोर्द्धोच्छ्वासित्वमस्य भवतीत्यर्थः । दृश्यमान-
स्याप्यनुवदनं वैराग्यहेतोः । ईदृशः कष्टः स्वल्वयं संसारो
येनोत्क्रान्तिकाले मर्म्मसूत्कृत्यमानेषु स्मृतिलोपो दुःख-
वेदनार्त्तस्य पुरुषार्थसाधनप्रतिपत्तौ चासामर्थ्यं परवशी-
कृतचित्तस्य । तस्माद्यावदियमवस्था नागमिष्यति तावदेव
पुरुषार्थसाधनकर्त्तव्यतायामप्रमत्ता भवतेत्याह कारुण्याच्छु-
तिः ३५ क० । तत्तस्योर्द्ध्वोच्छ्वासित्वं कस्मिन्काले? किं
निमित्तं? कथं? निमिथं? वा स्यादित्येतदुच्यते । सोऽय
प्राकृतः शिरःपाण्यादिमान् पिण्डो यत्र यस्मिन् कालेऽय-
मणिमानमणोर्भावमणुत्वं कार्श्यमित्यर्थः नि एति निगच्छति ।
किं निमित्तं जरया वा स्वयमेव कालपक्वफलवज्जीर्णः कार्श्यं
गच्छति उपतपतीत्युपतपत् ज्वरादिरोगग्रस्तेनोपतपता वा
उपतप्यमानी हि रोगेण विषमाग्नितयान्नं भुक्तं न जरयति
ततोऽन्नरसेनानुपचीयमानः पिण्डः कार्श्यमापद्यते
तदुच्यते उपतपता वेति आणिमानं निगच्छति । यदात्य-
न्तकार्श्यं प्रतिपन्नो ज्वरादिनिमित्तैस्तदोर्द्ध्वोच्छ्वासी भवति ।
यदीर्द्ध्वोच्छ्वासी तदा मृशाहितसम्भारशकटवदुत्सर्जन् याति
जराभिभवो रोगादिपीडनं कार्श्यापत्तिश्च शरीरवतोऽवश्यं
भाविन एतेऽनर्था इति वैराग्यायेदमुच्यते । यदाऽसा-
बुत्सर्जन् याति तदा कथं शरीरं विमुञ्चतीति दृष्टान्त
उच्यते । तत्तत्र यथाम्रं वा फलमुडुम्बरं वा फलं
पिप्पलं वा फलं विषमानेकदृष्टान्तोपादानं मरणस्यानिय-
तनिमित्तताख्यापनार्थम् । अनियतानि हि मरणस्थ निमि-
त्तान्यसङ्ख्यातानि च । एतदपि वैराग्यार्थमेव । यस्मादयमने-
कमरणनिमित्तवांस्तस्मात्सर्वदा मृत्योरास्ये वर्त्तत इति । बन्ध-
नाद्बध्यते येन वृन्तेन स बन्धनकारणो रसो यस्मिन् वा
बध्यत इति वृन्तमेवीच्यते बन्घनम् । तस्माद्रसात् वृन्ताद्वा
वन्धनात्प्रमुच्यते वाताद्यनेकनिमित्तम्, एवमेवायं पुरुषो
लिङ्गात्मा लिङ्गीपाधिःएभ्योऽङ्गेभ्यश्चक्षुरादिदेहावयवेभ्यः सम्प्र-
मुच्यते सम्यङिर्लेपेन प्रमुच्यते न सुषुप्तगमनकाल इव
प्राणेन रक्षन् । किन्तर्हि सह वायुनोपसंहृय, पुनः प्रति-
पृष्ठ १०८०
न्यायं पुनःशब्दात्पूर्व्वमप्ययं देहाद्देहान्तरमसकृद्गत-
वान् यथा स्वप्तबुद्धान्तौ पुनः पुनगेच्छति तथा पुनः प्रति-
न्यायं प्रतिगमनं यथागतमित्यर्थः । प्रतियोनि योनिं-
योनिं प्रति कर्म्मश्रुतादिवशादाद्रवति । किमर्थम्? प्राणा-
यैव प्राणव्यूहायैवेत्यर्थः । सप्राण एव हि गच्छति ततः
प्राणायवेति विशेषणमनर्थकं प्रीणिव्यूहाय हि गमनं देहा-
द्देहान्तरं प्रति । तेन ह्यस्य कर्मफलभोगार्थसिद्धिः । न
प्राणसत्तामात्रेण तस्मात्तादर्थ्यार्थं युक्तं विशेषणं प्राणव्यूहा-
येति” ३६ । “तमेवं जिगमिषुं के सह गच्छन्ति? ये वा गच्छन्ति
ते किं तत्क्रियाप्रणुन्ना? आहोस्वित्तत्कर्म्मवशात्खयमेव
गच्छन्ति परलौकिकशरीरकर्तॄणीव भूतानीत्यत्रोच्यते
दृष्टान्तः । तद्यथा राजानं प्रयियासन्तं प्रकर्षेण यातुमि-
च्छन्तमुग्राः प्रत्येनसः सूतग्रामण्यस्त एवाभिसमायन्त्याभि-
मुख्येन समायान्त्येकीभावेन तमभिमुखा आयान्त्यनाज्ञप्ता
एव राज्ञा केवलतज्जिगमिषाभिज्ञाः । एवमेवेममात्मानं
भीक्तारमन्तकाले मरणकाले सर्व्वे प्राणा वागादयीऽभिस-
मायन्ति यत्रैतदूर्द्धोच्छ्वासी भवतोति व्याख्यातम्” ३८ ।
“स यत्रायमात्मतेति संसारोपवर्णनं प्रस्तुतम् । तत्रायं
पुरुष एभ्योऽङ्गेभ्यः सम्प्रमुच्येत्युक्तम् । तत् सम्प्रमोक्षणं
कस्मिन् काले कथं वेति? सविस्तरं संसरणं वर्णयितव्य-
मित्यारभ्यते । सोऽयमात्मा प्रस्तुतोयत्र यस्मिन् काले
अबल्यमबलभावं नि एत्य गत्वा यद्देहस्य दौर्बल्यं तदात्मन
एव दौर्बल्यमित्युपचर्य्यते अबल्यं नेत्येति । न ह्यसौ
स्वतोऽमूर्त्तत्वादबलभावं गच्छति तया सम्मोहमिव संमूढता
संमोहीविवेकाभावः संमोहमिव नि एति निगच्छति
न चास्य स्वतः संमोहोऽसंमोहो वास्ति नित्यचैतन्य-
ज्योतिःस्वभावत्त्वात् तेनेवशब्दः संमोहसिव न्येतीति ।
उत्क्रान्तिकाले हि करणोपसंहारनिमित्तो व्याकुलीमाव
आत्मन इव लक्ष्यते लौकिकैः तथा च वक्तारा भवन्ति
संमूढः संमूढीयमिति । अथ वोभयत्रेवशब्दप्रयोगो
यीज्योऽबल्यमिव न्येतोत्यसम्भोहमिव न्येतीति ।
उभयस्य परोपाधिनिमित्तत्वाविशेषात् समानकर्तृकनिर्द्देशाच्च ।
अथास्मिन् काल एते प्राणा वागादय एनमात्मानमभिस-
मायन्ति तदास्य शारीरस्यात्मनी ऽङ्गेभ्यः सम्प्रमोक्षणम् ।
कथं पुनः सम्प्रमोक्षणं, केन वा प्रकारेणात्मानमभिस-
मायन्ति? इत्युच्यते । स आत्मा एतास्तेजोमात्रास्तेजसो
मात्रास्तेजोभात्रास्तेजोऽवयवा रूपादिप्रकाशकत्वाच्चक्षुरा-
दीनि करणःनीत्यर्थः । ता एताः समभ्याददानः सम्य-
ङ्निर्लेपेनाभ्याददानः आभिमुख्यनाददानः संहरमाणस्तत्स्व-
प्नापेक्षया विशेषणं समिति न तु स्वप्ने निर्लेपेन
समभ्यादानमस्ति त्वादानमात्रम् । “गृहीता वाक् गृहीतञ्चक्षु-
रस्य लोकस्य सर्वावतो मात्रामुपादाय शुक्रमादाये-
त्यादि” वाक्येभ्यः हृदयमेव पुण्डरीकाकाशमन्ववक्रामत्यन्वव
गच्छति हृदयेऽभिव्यक्तविज्ञानो भवतीत्यर्थो बुद्ध्यादिविक्षे-
पोपसिंसा मति । न हि तस्य स्वतश्चलनं विक्षेशोपसं-
हारादिविक्रिया वा “ध्यायतीव लेलायतीव” इत्युक्तत्वात् ।
बुद्ध्याद्युपाधिद्वारैव हि सर्वविक्रियाध्यारोप्यते तस्मिन् ।
कदा पुनस्तस्य तेजोमात्राभ्यादानमित्युच्यते । स यत्रैष
चक्षुषि भबश्चाक्षुषः आदित्यांशो भोक्तुः कर्म्मणा प्रयुक्तो
यावद्देहधारणं तावच्चक्षुषोऽनुग्रहं कुर्वन् वर्त्तते । मरणकाले
त्वस्य चक्षुषोऽनुग्रहं परित्यजति स्वमादित्यात्मानं प्रति-
पद्यते । तदेतदुक्तम् “यत्रास्य पुरुषस्य मृतस्याग्निं
वागप्येति, वातं प्राणश्चक्षुरादित्यमित्यादि” । पुनर्द्देहग्रहण-
काले संश्रयिष्यति तथा खप्स्यतः प्रबुध्यतश्च । तदेतदाह ।
चाक्षुषः पुरुषो यत्र यस्मिन् काले पराङ् पर्य्यावर्त्तते
परि समन्तात् पराङ् व्यावर्त्तत इति यथाऽत्रास्मिन् काले-
ऽरूपज्ञो भवति मुमूर्षुर्हि रूपं न जानाति । तदायमात्मा
चक्षुरादितेजोमात्राः समभ्याददानो भवति स्वप्नक्
इव । सएकीभवति करणजातं स्वेन लिङ्गात्मना ।
पार्श्वस्था आहुर्न पश्यतीति । तथा घ्राणदेवतानिवृत्तौ
घ्राणमेकीभवति लिङ्गात्मना । तदा न जिघ्रतीत्याहुः ।
समानमन्यत् । जिह्वायां सोमो वरुणो वा देवता तन्नि-
वृत्त्यपेक्षया न रसयत इत्याहुः । तथा न वदति न
शृणोति न मनुते न स्पृशति न विजानातीत्याहुस्त-
दोपलक्ष्यते देवतानिवृत्तिः करणानाञ्च हृदय
एकीभावः तत्र हृदयौपसंहृत्य तेषु योऽन्तर्व्यापारः स
कथ्यते । तस्य ह एतस्य प्रकृतस्य हृदयस्य हृदयच्छिद्रस्ये-
त्येतत् । अग्रं नाडीमुखं निर्गमनद्वारं प्रद्योतते स्वप्नकाल
इव स्वेन भासा तेजोमात्रादानकृतेन स्वेनैव ज्योतिषाऽऽ-
त्मनैव च तेनात्मज्योति प्रद्योतेन हृदयाग्रेण एष आत्मा
विज्ञानमयो लिङ्गोपाधिर्निर्गच्छति निष्क्रामति । तथाऽऽ-
थर्वणे “कस्मिन् न्वहमुक्रान्त उत्क्रान्तो भविष्यामि?
कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति? स प्राणससृजतेति”
तत्र चात्मचैतन्यज्योतिः सर्वदाभिव्यक्ततरं तदुपाधिद्वारा
ह्यात्मनि जन्ममरणगमनागमनादिसर्वविक्रियालक्षणः
संव्यवहारस्तदात्मकं हि द्वादशविधं करणम् । बुद्ध्यादि
पृष्ठ १०८१
तत्सूत्रूं तज्जीवनं सीऽन्तरात्मा जगतस्तस्थुषश्च । तेन प्रद्यो-
तेन हृदयाग्रप्रकाशेन निःक्रममाणः । केन मार्गेण
निष्क्रामतीत्युच्यते । चक्षुषो वाऽऽदित्यलोकप्राप्तिनिमित्तं
ज्ञानं कर्म्म वा यदि स्यात् । मूर्द्ध्नो वा ब्रह्मलोकप्राप्तिनि-
मित्तं चेत् । अन्येभ्यो वा शरीरदेशेभ्यः शरीरावयवेभ्यो
यथाकर्म्म यथाश्रुतमिति तं विज्ञानात्मानमुत्क्रा-
मन्तं परलोकाय प्रस्थितं परलोकायोद्भूताकूतमित्यर्थः ।
सर्व्वाधिकारस्थानीयोराज्ञ इवानूत्क्रामति तञ्च प्राण
मनूत्क्रामन्तं वागादयः सर्व्वे प्राणा अनूत्क्रामन्ति ।
यथाप्रधानान्वाचिख्यासेयम् न तु क्रमेण सार्थवद्गमन-
मिह विवक्षितम् । एष आत्मा सविज्ञानो भवति स्वप्नैव
विशेषविज्ञानवान् भवति कर्म्मवशादस्वतन्त्रः
सातन्त्र्येण हि सविज्ञानत्वे सर्व्वः कृतकृत्यः स्यात् नैव तु तल्ल
भ्यते अतएवाह व्यासः “सदा तद्भावभावितः” इति
कर्म्मणानुद्भाव्यमानेनान्तःकरणवृत्तिविशेषाश्रितवासनात्मक-
विशेषविज्ञानेन सर्व्वोलोक एतस्मिन् काले सविज्ञा-
नोभवति सविज्ञानमेव च गन्तव्यमन्ववक्रामत्यनुग-
च्छति विशेषविज्ञानोद्भासितमेवेत्यर्थः । तस्मात्तत्काले
स्वातन्त्र्याथं योगधर्म्मानुसेवनं परिसंख्यानाभ्यासश्च विशिष्ट
पुण्योपचयश्च श्रद्दधानैः परलोकार्थिभिरप्रमत्तैः कर्त्तव्य
इति सर्व्वशास्त्राणां यत्नतोविधेयोऽर्थो दुश्चरिताच्चोपरम-
णम् न हि तत्काले शक्यते किञ्चित्संपादयितुम् कर्म्मणानीय
मानस्य स्वातन्त्र्याभावात् “पुण्योवै पुण्येन कर्म्मणा भवति
पापः पापेन” इत्युक्तेः एतस्य ह्यनर्थस्योपशमोपायविधानाय
सर्व्वशाखोपनिषदः प्रवृत्ताः नहि तद्विहितोपायानुसेवनं
मुक्तात्यन्तिकस्यानर्थस्योपशमोपायोऽस्ति तस्मादत्रैवो-
पनिषद्विहितोपाये यत्नपरैर्भवितव्यमित्येष प्रकरणार्थः
शकटवत्सम्भृतसम्भार उपसर्ज्जद्यातीत्युक्तं किंपुनस्तस्य
परलाकाय प्रस्थितस्य पथ्यदनं शाकटिकसम्भारस्थानीयं
गत्वा वा परलोकं यद्भुङ्क्ते शरीराद्यारम्भकञ्च यत्तत्
किम्? इत्युच्यते । तं परलोकाय गच्छन्तभात्मानं विद्या
कर्म्मणी विद्या च कर्म्म च विद्याकर्मणी विद्या सर्व्वप्रकारा
विहिता प्रतिषिद्धा अविहिता ऽप्रतिषिद्धा च तथा कर्म्म
विहितं प्रतिषिद्धं चाविहितमप्रतिषिद्धञ्च समन्वारभेते
सम्यगन्वारभेते अन्वालभेते अनुगच्छतः पूर्व्वप्रज्ञा च पूर्ब्बा-
नुभूतविषया प्रज्ञा पूर्वप्रज्ञातीतकर्म्मफलानुभववासनेत्यर्थः ।
सा च वासनाऽ पूर्व्वकर्म्मारम्भे कर्म्मविपाके चाङ्गं भवति ।
तेनासावप्यन्वारभते नहि तया वासनया विना केनचित्
कर्म्म कर्त्तुं फलं चोपभोक्तुं शक्यते नह्यनभ्यस्ते
विषये कौशलमिन्द्रियाणां भवति, पूर्व्वानुभववासना
प्रवृत्तानां त्विन्द्रियाणामिहाभ्यासमन्तरेण कौशलमुप-
पद्यते, दृश्यते च केषाञ्चित् कासुचित् क्रियाणु चित्र
कर्म्मादिलक्षणासु बिनैवेहाभ्यासेन जन्मत एव कौशलम्
कासुचिदत्यन्तसौकर्य्ययुक्तास्वप्यकौशलम् केषाञ्चित्, तथा
विषयोपभोगेषु स्वभावत एव केषाञ्चित्कौशलाकौशले
दृश्येते तच्चैतत् सर्व्वं पूर्व्वप्रज्ञोद्भवानुद्भवनिमित्त,
तेन पूर्ब्बप्रज्ञया विना कर्म्मणि वा फलोपभोगे वा
न कस्यचित् प्रवृत्तिरुप्रपद्यते, तस्मादेत्तत्त्रयं शाकटिक-
भारस्थानीय परलोकपथ्यदनं विद्याकर्म्मपूर्ब्बप्रज्ञाख्यम् ।
यस्माद्विद्याकर्म्मणी पूर्व्वप्रज्ञा च देहान्तरप्रतिपत्तुर्भोगसाधनं
तस्माद्विद्याकर्म्मादि शुभमेव समाचरेत् । यथा इष्टदेह-
संयोगभोगोपभोगौ ४ ब्रा० स्यातामिति प्रकरणार्थः” १ क० ।
शा० सू० भाष्ययोश्च उत्क्रमणप्रकारः प्रपञ्चितो यथा
“वाङ्मनसि दर्शनाच्छब्दाच्च” सू० । “अथापरासु विद्यासु
फलप्राप्तये देवयानं पन्थानमतारयिष्पन् प्रथमं
तावद्यथाशास्त्रमुत्क्रान्तिक्रममाचष्टे समाना हि विद्वदवि-
दुषोरुत्क्रान्तिरिति वक्ष्यति । अस्ति प्रायणविषया श्रुतिः
“अस्य सोम्य! पुरुषस्य प्रयतोवाङ् मनसि सम्पद्यते,
मनः प्राणे, प्राणस्तेजसि, तेजः परस्यान्देवतायामिति”
किमिह वाच एव वृत्तिमत्याः मनसि सम्पत्तिरुच्यते
उतवाग्वृत्तेरिति? विशयः । तत्र वागेव तावन्मनसि सम्पद्यत
इति प्राप्तं तथा हि श्रुतिरनुगृहीता भवति । इतरथा-
लक्षणा स्यात् श्रुतिलक्षणाविषये च श्रुतिर्न्याय्या न लक्षणा
तस्माद्वाच एवायं मनसि प्रविलय इत्येवं प्राप्ते ब्रूमः ।
वाग्वृत्तिर्मनसि सम्पद्यत इति । कथं वाग्वृत्तिरिति
व्याख्यायते यावता वाङ्मनसीत्येवाचार्य्यः पठति । सत्य
मेतत् पठिष्यति तु “परस्तात् अविभागोवचनादिति” ।
तस्मादत्र वृत्त्युपशममात्रं विवक्षितमिति गम्यते । तत्त्व-
प्रलयविवक्षयान्तु सर्वत्रैवाविभागसाम्यात् किं परत्रैव
विशिंष्यादविभाग इति । तस्मादत्न वृत्त्युपसंहारविष-
क्षायां वाग्वृत्तिः पूर्ब्बमुपसंह्रियते मनोवृत्ताववस्थि-
यामित्यर्थः । कस्मात्? दर्शनात् दृश्यते हि वाग्वृत्तेः
पूर्वोपसंहारोमनोवृत्तौ विद्यमानायाम् । न तु वाच एव
वृत्तिमत्यामनस्युपसंहारः केनचिदपि द्रष्टुं शक्यते ।
ननु श्रुतिसामर्थ्याद्वाच एवायं मनस्यप्यय इत्युक्तं
नेन्याह अतत्प्रकृतित्वात् यस्य हि यत उत्पत्तिस्तस्य
पृष्ठ १०८२
तत्र लयोनाय्योमृदीव शरावस्य । न च मनसो वागुत्प-
द्यत इति किञ्चन प्रमाणमस्ति । वृत्त्युद्भवाभिभवौ त्व
प्रकृतिसमाश्रयावपि दृश्येते । पार्थिवेभ्योहीन्धनेभ्यस्तैजस-
स्याग्नेर्वृत्तिरुद्भवति अप्सु चोपशाम्यति । कथं तर्ह्यस्मिन्
पक्षे वाङ्मनसि सम्पद्यत इति शब्दः इत्यत आह शब्दा-
च्चेति । शब्दोऽप्यस्मिन् पक्षेऽवकल्पते वृत्तिवृत्तिमतोरभेदीप-
चारादित्यर्थः” भा० । “अतएव च सर्व्वाण्यनु” सू० ।
“तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः”
इत्यत्राविशेषेण सर्वेषामेवेन्द्रियाणां मनसि सम्पत्तिः श्रूयते
तताप्यत एव वाच इव चक्षुरादीनामपि सवृत्तिके मनस्य
वस्थिते वृत्तिलोपदर्शनात्तत्त्वप्रलयासम्भवाच्छब्दोपपत्तेश्च
वृत्तिद्वारेणैव सर्वाणीन्द्रियाणि मनोऽनुवर्त्तन्ते । सर्वे-
वाङ्करणानां मनस्युपसंहराविशेषे सति वाचः पृथग्ग्रहणं
वाङमनसि सम्पद्यत इत्युदाहरणानुरोधेन” भा० ।
“तन्मनः प्राण उत्तरात्” सू० । “समधिगतमेतत्
वाङ्मनसि सम्पद्यत इत्यत्र वृत्तिसमपत्तिर्विवक्षितेति ।
अथ यदुत्तरं वाक्यम् “मनः प्राणैति” किमत्रापि वृत्ति-
सम्पत्तिरेव विवक्षिता उन वत्तिमत्सम्पत्तिरिति?
विचिकित्सायां वृत्तिमत्सम्पत्तिरेबेति श्रुत्यनुग्रहात्तत्-
प्रकृतितोपपत्तेश्च तथा हि “अन्नमयं हि सौम्य मन”
आपोमयः प्राण” इत्यत्र अन्नयोनि मन आमन
न्ति अब्योनिञ्च प्राणम् । आपश्चान्नमसृजन्तेति श्रुतेः”
“अतश्च यन्मनः प्राणे प्रलीयते अन्नमेव तदप्सु प्रलीयते-
अन्न हि मनः, आपश्च प्राणः, प्रकृतिविकाराभेदादि-
त्येवं प्राप्ते ब्रूमः तदप्यात्मगृहीतबाह्येन्द्रिय-
वृत्तिमनोवृत्तिद्वारेणैव प्राणे प्रलीयत इत्युत्तराद्वाक्यादव-
गन्तव्यम् । तथा हि सुषुप्सोर्मुमूर्षोश्च प्राणवृत्तौ
परिस्पन्दात्मिकायामवस्थितायां मनोवृत्तीनामुपशमो
दृश्यते । न च मनसः स्वरूपाप्ययः प्राणे सम्भ-
वति अतत्प्रकृतित्वात् । ननु दर्शितं मनसः
प्रकृतित्वम् । नैतत्सारं न हीदृशेन प्राणालिकेन
तत्प्रकृतित्वेन मनः प्राणे सम्पत्तुमर्हति । एवमपि ह्यन्न
मनः सम्पद्येत अप्सुचान्नं अप्स्वेव च प्राणः । नह्येतस्मि-
ञ्चपि पक्षे प्राणभावपरिणताभ्योऽद्भ्योमनोजायत इति
किञ्चन प्रमाणमस्ति । तस्मान्न मनसः प्राणे स्वरूपाप्ययः ।
वृत्त्यप्यये तु शब्दोऽवकल्पते वृत्तिवृत्तिमतोरभेदोपचारादिगि
दर्शितम्” भा० । “सोऽध्यक्षे तदुपगमादिभ्यः” सू० ।
“स्थितमेतद्यस्य यतोनोत्पत्तिस्तस्य तस्मिन् वृत्तिलयो
न स्वरूपलय इति । इदमिदानी प्राणस्तेजसीत्यत्र
चिन्त्यते किं यथाश्रुति प्राणस्य तेजस्येव वृत्त्युपसंहारः किं
वा देहेन्द्रियपञ्जराध्यक्षे जीवे? इति । तत्र श्रुतेरनति
शङ्क्यत्वात् प्राणस्य तेजस्येव सम्पत्तिः स्यात् अश्रुतकल्पना-
या अन्याय्यत्वादित्येवं प्राप्ते प्रतिपद्यते सोऽध्यक्ष इति ।
स प्रकृतः प्राणोऽध्यक्षेऽविद्याकर्म्मपृर्व्वप्रज्ञोपाधिके विज्ञा-
नात्मन्यबतिष्ठते तत्प्रधाना प्राणवृत्तिर्भवतीत्यर्थः । कुतः?
तदुपगमादिभ्यः । “एवमेवेममात्मानमन्तकाले सर्व्वे प्राणा
अभिसमायन्ति यत्रैतदूर्द्ध्वोच्छ्वासी मवतीति” हि श्रुत्य-
न्तरम् अध्यक्षोपगामिनः सर्व्वान् प्राणानविशेषेण दर्शयति ।
विशेषेणैव “तमुत्क्रामन्तं प्राणोनूत्क्रामतीति” पञ्चवृत्तेः
प्राणस्याध्यक्षानुगामितां दर्शयति तदनुवृत्तिताञ्चेतरेषाम्,
“प्राणमनूत्क्रामन्तं सर्व्वे प्राणा अनूत्क्रामन्तीति” ।
“सविज्ञानोभवर्तीति” चाध्यक्षस्यान्तर्विज्ञानवत्त्वप्रदर्शनेन
तस्मिन्नपीतकरणग्रामस्य प्राणस्यावस्थानं गमयति! ननु
“प्राणस्तेजसीति” श्रूयते कथं प्राणोऽध्यक्ष इत्यधिकावापः
क्रियते । नैष दोषः अध्यक्षप्रधानत्वादुत्क्रमणादिव्यवहारस्य
श्रुत्यन्तरगतस्यापि च विशैषस्यापेक्षणीयत्वात् । कथं तर्हि
“प्राणस्तेजसीति” श्रुतिरित्यत आह” भा० । “भूतेषु
तच्छुतेः” सू० । “स प्राणसंयुक्तोऽध्यक्षः तेजःसहचरितेषु
भूतेषु देहवीजभूतेषु सूक्ष्मेष्ववतिष्ठत इत्यवगन्तव्यम्
“प्राणस्तेजसि” इत्यतः श्रुतेः । ननु चेयं श्रुतिः प्राणस्य
तेजसि स्थितिं दर्शयति न प्राणसं युक्तस्याध्यक्षस्य । नैषःदोषः
“सोऽध्यक्षः” इत्यध्यक्षस्याप्यन्तराल उपसंख्यातत्वात् ।
योऽपि हि स्रुघ्नान्मथुरां गत्वा मथुरायाः पाटलि पुत्रं
व्रजति सोऽपि स्रुध्नात् पाटलिपुत्रं यातीति शक्यते
वदितुम् । तस्मात् प्राणस्तेजसीति प्राणसंयुक्तस्याध्यक्षस्यैवैत-
त्तेजःसहचरितेषु भूतेष्ववस्थानम् । कथं तेजःसहचरि
तेषु भूतेष्वित्युच्यते यावता तेजः श्रूयते “प्राणस्तेज-
सि” इत्यत आह” भा० । “नैकस्मिन् दर्शयतोहि” सू० ।
“नैकस्मिन्नेव तेजसि शरंरान्तरप्रेप्सावेलायां जीवोऽव-
तिष्टते कार्य्यस्य शरीरस्यानेकात्मकतादर्शनात् । दर्शयत-
श्चैतमर्थं प्रश्नप्रतिवचने “आपः तरुषवचस” इति ।
तद्व्याख्यातं “त्र्यात्मकत्वालु भूयम्त्वात्” इत्यत्र । श्रुति-
स्मृती चैतमर्थं दर्शयतः । श्रुतिः “पृथितीमय आपमयस्तेज-
मयो वायुमय आकाशमय” इत्याद्या । अतिरपि “अण्व्यो-
मात्रा ऽविनाशिन्यो दशार्द्धानान्तु याः स्मृताः । ताभिः
सार्द्धगिदं एर्त्वं सल्भवत्यनुपूर्व्वशः” इत्याद्या । ननु चोपसं-
पृष्ठ १०८३
हृतेषु करणेषु शरीरान्तरप्रेप्सावेलायां क्कायन्तदा पुरुषो
भवतीत्युपक्रम्य श्रुत्यन्तरं कर्म्माश्रयतां निरूपयति “तौ ह
यदूचतुः कर्म्म हैव तदूचतुः अथ ह यत् प्रशशंसतुः कर्म्म
हैव तत् प्रशशंसतुरिति” । तत्रोच्यते । तत्र कर्म्मप्रयुक्तस्य
ग्रहातिग्रहसंज्ञकस्येन्द्रियविषयात्मकस्य बन्धनस्य प्रवृत्तिरिति
कर्म्माश्रयतोक्ता इह पुनर्भूतोपादानाद्देहान्तरोत्पत्ति-
रिति भूताश्रयत्वमुक्तम् । प्रशंसाशब्दादपि तत्र प्राधान्य-
मात्रं कर्म्मणः प्रदर्शितं न त्वाश्रयान्तरं निवारितम् तस्माद-
विरोधः” भा० । “समाना चा सृत्युपक्रमादमृतत्वञ्चानुपोष्म”
सू० “सेयमुत्क्रान्तिः किं विद्वदविदुषोः समाना? किं वा
विशेषवतीति? विशयानानां विशेषवतीति तावत् प्राप्तम् ।
भूताश्रयविशिष्टा ह्येषा पुनर्भवाय भूतान्याश्रीयन्ते न च
विदुषः पुनर्भवः सम्भवति” “अमृतत्व हि विद्वानभ्यश्नुते”
इति श्रुतेः । त मादविदुष एवैषोत्क्रान्तिः । ननु विद्या-
प्रकरणे समाम्नानाद्विदुष एवैषा भवेत्, न स्वापादिवद्यथा-
प्राप्तानुकीर्त्तनात् । तथा हि “यत्रैतत्पुरुषः स्वपिति
नाम अशिशिषति नाम पिपासति नामेति” च सर्व-
प्राणिसाधारणा एव स्वापादयोनुकीर्त्त्यन्ते विद्याप्रकरणे-
ऽपि प्रतिपिपादयिषितवस्तुप्रतिपादनानुगुण्येन, न तु
विदुषीबिशेषवन्तोविधित्स्यन्ते एवमियमप्युत्क्रान्तिर्महा-
जनगतैवानुकीर्त्यते यस्यां परस्यां देवतायां पुरुषस्य प्रय-
तस्तेजः सम्पद्यते, “स आत्मा तत्त्वमसीति” प्रतिपादयि-
तुम् । प्रतिषिद्धा चैषा विदुषः । तस्मादविदुष एवैषेत्येवं
प्राप्ते ब्रूमः । समानैषोत्क्रान्तिः वाङ्मनसीत्याद्या विद्वद-
विदुषोरा सृत्युपक्रमाद्भवितुमर्हति अविशेषश्रवणात् ।
अविद्वान् देहवीजतूतानि भूतसूक्ष्माण्याश्रित्य कर्मप्रयुक्तो-
देहग्रहणमनुभवितुं संसरति विद्वांस्तु ज्ञानप्रकाशितं
मोक्षं नाडीद्वारमाश्रयते तदेतदा सृत्युपक्रमादित्युक्तम् ।
नन्वात्मतत्त्वं विदुषा प्राप्तव्य न च तद्देशान्तरायतं तत्र
कुतो भूताश्रयत्वं सृत्युपक्रमो वेति” । अत्रो-
च्यते । अनुपीष्य चेदम् अदग्ध्वाऽत्यन्तमविद्यादीन् क्लेशा-
नपरविद्यांसामर्थ्यादापेक्षिकममृतत्वं प्राप्स्यते । सम्भवति
तत्र सृत्युपक्रमोभूताश्रयत्वञ्च । न हि निराश्रयाणां
प्राणानां गतिरुपपद्यते । तस्माददोषः” भा० । “तदा-
ऽपीतेः संसारव्यपदेशात्” सू० । “तेजः परस्यां देवतायामि-
त्यत्र प्रकरणसामर्थ्यात्तद्यथा प्रकृतं तेजः साध्यक्षं
सपाणं सकरणग्रामं मूतान्तरसहितं प्रयतः पुंसः
परस्यां देवतायां सम्पद्यत इत्येतदुक्तं भवति । कीदृशी-
पुनरियं सम्पत्तिः स्यादिति चिन्त्यते । तत्रात्यन्तिकएव-
तावत् स्वरूपप्रविलय इति प्राप्तं तत्प्रकृतित्वोपपत्तेः ।
सर्व्वस्य हि जनिमतोवस्तुजातस्य प्रकृतिः परा देव
तेति प्रतिष्ठापितम् । तस्मादात्यन्तिकीऽयमबिभागापत्तिः
इत्येवं प्राप्ते ब्रूमः । तत्तेजआदिभूतसूक्ष्मं श्रोत्रा-
दिकरणाश्रयभूतमाऽपीतेरा संसारमोक्षात् सम्यगज्ञाननि-
मित्तादवतिष्ठते । “योनिमन्ये प्रपद्यन्ते शरीरत्वाय
देहिनः । स्थाणुमन्थेऽनुसयान्ति यथाकर्म यथाश्रुतम्”
इत्यादिसंसारव्यपदेशात् । अन्यथा हि सर्वः प्रायणसम-
य एवोपाधिप्रत्यस्तमयादत्यन्तं ब्रह्म सम्पद्येत तत्र विधि-
शास्त्रं चानर्थकं स्याद्विद्याशास्त्रञ्च । मिथ्याज्ञाननिमि-
त्तश्च बन्धो न सम्यग्ज्ञानादृते विस्र सितुमर्हति । तस्मात्तत्-
प्रकृतित्वेऽपि सुषुप्तिप्रलयवद्वीजभावावशेषैवैषा सत्सम्पत्तिः”
भा० । “सूक्ष्मं प्रमाणतश्च तथोपलब्धेः” सू० ।
“तच्चेतरभूतसहितं तेजीजीवस्यास्माच्छरीरात् प्रवस-
त आश्रयभूतं स्वरूपतः परिमाणतश्च सूक्ष्मं भवितु-
भर्हति । तथा हि नाडीनिष्क्रमणश्रवणादिभ्योंऽस्य
सौक्ष्म्यमुपलभ्यते । तत्र तनुत्वात् सञ्चारोपपत्तिः
स्वच्छत्वाच्चाप्रतीघातीपपत्तिः अतएव च देहान्निर्गच्छत्-
पार्श्वस्थैर्नोपलभ्यते” भा० । “नोपमर्देनातः” सू० ।
“अतएव च सूक्ष्मत्वान्नास्य स्थूलशरींरस्योपमर्द्देन
दाहादिनिमित्तेनेतरत् सूक्ष्मशरीरमुपमृद्यते” भा० ।
“अस्यैव चोपपत्तेरेष उष्मा” सू० । “अस्यैव च
सूक्ष्मशरीरस्यैष उष्मायमेतस्मिन् जीवच्छरीरे संस्प-
र्शेनोष्णिमानं विजानाति । तथा हि मृतावस्था-
यामवस्थितेऽपि देहे विद्यामानेष्वपि च रूपादिषु देह
गुणेषु नोष्मोपलभ्यते जीवदवस्थायामेव तूपलभ्यते इत्यत
उपपद्यते प्रसिद्धशरीरव्यतिरिक्तरूपाश्रय एवैष उष्मेति ।
तथा च श्रुतिः “उष्ण एव जीविष्यंच्छीतो मरिष्यन्निति”
भा० । “प्रतिषेधादिति चेन्न शारीरात्” सू० । “अमृतत्व-
ञ्चानुपोष्येत्थतोविशेषणादात्यन्तिकेऽमृतत्वे गत्युत्क्रा-
न्त्योरभावोऽभ्युपगतः तत्रापि केनचित् कारणेनोत्क्रान्ति
माशङ्क्य प्रतिषेधति । “अथाकामयमानोयोऽकामो-
निष्काम आप्तकाम आत्मकामोन तस्य प्राणाउत्क्रामन्ति
ब्रह्मैव सन् ब्रह्माप्येतीति” । अतः परविद्याविषयात्
प्रतिषेधात् न परब्रह्मविदोदेहात् प्राणानामुत्क्रान्तिर
स्तीति चेन्नेत्युच्यते । यतः शारीरादात्मन एष उत्क्रान्ति
प्रतिषेधः प्राणानां, न शरीरात् । कथमवयस्यते । “न
पृष्ठ १०८४
तस्मात् प्राणाउत्क्रामन्तीति” शाखान्तरे पञ्चमीप्रयोगात् ।
सम्बन्धसामान्यविषया हि षष्ठी शाखान्तरगतया पञ्चम्या
सम्बन्धविशेषे व्यवस्थाप्यते । तस्मादिति च प्राधान्यादभ्यु-
दयनिःश्रेयसाधिकृतो देही सम्बध्यते न देहः । न तर्स्मा
दुच्चिक्रमिषोर्जीवात् । प्राणाउत्क्रामन्ति सहैव तेन भवन्ती
त्यर्थः । सप्राणस्य प्रवसतो भवत्युत्क्रान्तिर्देहादित्येवं प्राप्ते
प्रत्युच्यते” भा० । “स्पष्टोह्येकेषाम्” सू० । “नैतदस्ति यदुक्तं पर
ब्रह्मविदोऽपि देहादस्त्युत्क्रान्तिः प्रतिषेघस्य देह्यपादानत्वा
दिति । यतोदेहापादान एवीत्क्रान्तिप्रतिषेध एकेषां
समाम्नातॄणां स्पष्ट उपलभ्यते । तथाह्यार्त्तभागप्रश्ने
“यत्रायं पुरुषोम्रियते तदस्मात् प्राणाः उत्क्रामन्त्याहो
स्विन्न?” इत्यत्र “नेतिहोवाच याज्ञवल्क्य” इत्यनुत्क्रान्ति
पक्षं परिगृह्य न तर्ह्ययमनुत्क्रान्तेषु प्राणेषु मृत इत्यस्या
माशङ्कायाम्” “अत्रैव समबलीयन्त” इति प्रविलयं प्राणा-
नां प्रतिज्ञाय तत्सिद्धये “सौच्छ्वयत्याध्मायत्याध्मातोमृतः
शेत” इति सशब्दपरामृष्टस्य प्रकृतस्योत्क्रान्त्यवधेरुछ्वयनादोनि
समामनति “देहस्य चैतानि स्युर्न देहिनः” । तत्सामान्यात्
“न तस्मात् प्राणा उत्क्रामन्त्यत्रैव समबलीयन्त” इत्यत्राप्य
भेदीपचारेण देहापादानस्यैवोत्क्रमणस्य प्रतिषेधः यद्यपि
प्राधान्यं देहिन इति व्याख्येयम् । येषां पञ्चमीपाठः
येषान्तु षष्ठीपाठस्तेषां विद्वत्सम्बन्धिन्युत्क्रान्तिः प्रति
षिध्यत इति प्राप्तोत्क्रान्तिप्रतिषेधार्थत्वादस्य वाक्यस्य
देहापादनैव सा प्रतिसिद्धा भवति देहादुत्क्रान्तिः प्राप्ता
न देहिनः । अपि च “चक्षुष्टो वा मूर्द्ध्नोवान्येभ्यो वा शरीर
देशेभ्यस्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं
सर्व्वे प्राणा अनूत्क्रामन्ति” इत्येवमविद्वद्विषये सप्रपञ्चमुत्
क्रमणं सं सारगमनञ्च दर्शयित्वा “इति नु कामयमान” इत्युप-
संहृत्याविद्वत्कथाम् “अथाकामयमान” इतिव्यपदिश्य विद्वां
सं, यदि तद्विषयेऽप्युत्क्रान्तिमेव प्रापयेदसमञ्जस एव व्यप-
देशःस्यात् । तस्मादविद्वद्विषये प्राप्तयोर्गत्युत्क्रान्त्यो
र्विद्वद्विषये प्रतिषेध इत्येवमेव व्याख्येयं व्यपदेशार्थवत्त्वाय ।
न च ब्रह्मविदः सर्व्वगतव्रह्मात्मभूतस्य प्रक्षीणकाम
कर्म्मण उत्क्रान्तिर्गतिर्वोपपद्यते निमित्ताभावात् । “अत्र
ब्रह्म समश्नुत” इति चैवं जातीयकाः श्रुतयोगत्युत्क्रान्त्यो
रभाव सूचयन्ति” भा० । “स्मर्य्यते च” सू० । स्मर्य्यतेऽपि
च महाभारते गत्युत्क्रान्त्योरभावः । “सर्व्वभूतात्मभूतस्य
सम्यग्भूतानि पश्यतः । देवा अपि च मार्गेषु मुह्यन्तेऽस्य
पदैषिण” इति । ननु गतिरपि ब्रह्मविदः स्मर्य्यते “शुकः किल
वैयासकिर्म्ममुक्षरादिमम्ण्डलमभिप्रतस्ये पित्रा त्वनु-
गम्याहूतोभो इति प्रतिशुश्रावेति” । न सशरीरस्यैवायं
योगबलेन विशिष्ठदेशप्राप्तिपूर्ब्बकः शरीरोत्सर्ग इति
द्रष्टव्यं स र्व्वभूतदृश्यत्वाद्युपन्यासात् । नह्यशरीरं गच्छन्तं
सर्व्वभूतानि द्रष्टुं शक्नुयुः । तथा च तत्रैवोप संहृतम् ।
“शुकस्तु मारुताच्छीघ्रां गतिं कृत्वान्तरिक्षकः । दर्शयित्वा
प्रभावं स्वं सव्वैभूतगतोऽभवदिति । तस्मादभावः परब्रह्म
विदोगत्युत्क्रान्त्योः । गतिश्रुतीनान्तु विषयमुपरिष्टा-
द्व्याख्यास्यामः” भा० “तानि परे तथाह्याह” सू० । “तानि
पुनः प्राणशब्दोदितानीन्द्रियाणि भूतानि च परब्रह्मविदस्त-
स्मिन्नेव परस्मिन्नात्मनि प्रलीयन्ते । कस्मात्? तथाह्याह
श्रुतिः “एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषा-
यणाः पुरुषं प्राप्यास्तं गच्छन्तीति” । ननु “गताः कलाः
पञ्चदश प्रतिष्ठा” इति विद्वद्विषयैवापरा श्रुतिः परस्मा-
दात्मनोऽन्यत्रापि कलानां प्रलयमाहस्म । न सा खलु
व्यवहारापेक्षा पार्थिवाद्याः कलाः पृथीव्यादीरेव स्वप्रकृ-
तीरपियन्तीति । इतरा तु विद्वत्प्रतिपत्त्यपेक्षा कृत्स्नं
कलाजातं परब्रह्मविदो ब्रह्मैव सम्पद्यत इति तस्माददोषः”
भा० “अविभागो वचनात्” सू० । “स पुनर्विदुषः
कलाप्रलयः किमितरेषामिव सावशेषो भवत्याहोस्विन्निरवशेष?
इति । तत्र प्रलयसामान्याच्छक्त्यवशेषताप्रसक्तौ ब्रवीति
अविभागापत्तिरिति । कुतः? वचनात् । तथाहि कलाप्रलय-
मुक्त्वा वक्ति” “भिद्येते चासां नामरूपे पुरुष इत्येवं प्रोच्यते
सएषोऽकलोऽमृतो भवतीति” । अविद्यानिमित्तानाञ्च कलानां
न विद्यानिमित्ते प्रलये सावशेषतोपपत्तिः । तस्मादविभाग
एवेति” भा० । “तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्या-
सामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्द्दानुगृहीतः शताधि
कया” सू० । “समाप्ता प्रासङ्गिकी परविद्यागता चिन्ता ।
संप्रति त्वपराविद्याविषयामेव चिन्तामनुवर्त्तयति । समाना
ऽऽसृत्युपक्रमा चाद्विद्वदविदुषोरुत्क्रान्तिरित्युक्तं तमिदानीं
सृत्युपक्रमं दर्शयति । तस्योपसंहृतवागादिकलापस्योच्चि
क्रमिषतो बिज्ञानात्मन ओक आयतनं हृदयम् ।
“सएतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्राम-
तीति” श्रुतेः । तदग्रज्वलमम् । तत्पूर्ब्धिका चक्षुरादि
स्थानापादाना चोत्क्रान्तिः श्रूयते “तस्य हैतस्य हृदय-
स्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति
“चक्षुष्टो वा मूर्द्ध्नोवान्येभ्यो वा शरीरदेशेभ्य” इति ।
सा किमविशेषेणैव विद्वदविदुषोर्भवति? अथास्ति कश्चिद्वि-
पृष्ठ १०८५
दुषो विशेषनियमः? इति विचिकित्सायां श्रुत्यविशेषाद
नियमप्राप्तावाचष्ठे । समाने पि हि विद्वदविदुषोर्हृदया
ग्रप्रद्योतन तत्प्रकाशितद्वारत्वे च मूर्द्धस्थानादेव
विद्वान्निष्क्रामति स्थानान्तरेभ्यस्त्वितरे । कुतः? विद्यासाम-
र्थ्यात् । यदि विद्वानपीतरवत् यतः कुतश्चिद्देहदेशादुत्
क्रामेन्नैवोत्कृष्टं लोकं लभेत तत्रानर्थिकैव विद्या-
स्यात् । तच्छेषगत्यनुस्मृतियोगाच्च विद्याशेषभूता
च मूर्द्धन्यनाडीसम्बन्धा गतिरनुशीलयितव्या विद्या
विशेषेषु विहिता तामभ्यस्य स तथैव प्रतिष्ठत इति
युक्तम् । तस्माद्धृदयालयेन ब्रह्मणा सूपासितेनानुगृहीत-
स्तद्भावमापन्नोविद्वान् मूर्द्धन्ययैव शताधिकया शतादति-
रिक्तया एकशततमया नाड्या निष्क्रामति इतराभिरि-
तरे । तथा हि हार्दविद्यां प्रकृय समामनन्ति
“शतञ्चैका च हृदयस्य नाड्यस्तासां मूर्द्धानमभिनिःसृतै-
का । तयोर्द्ध्वमायन्नमृतत्वमेति विष्वङङन्या उत्क्रमणे
भवन्तीति” भा० । “रश्म्यनुसारी” सू० । “अस्ति
दहरोऽस्मिन्नन्तराकाश” इति हार्दविद्या “अथ यदिदमस्मिन्
ब्रह्मपुरे दहरं पुण्डरीकं वेश्म” इत्युपक्रम्य विहिता ।
तत्प्रक्रियायाम् अथ एताहृदयस्य नाड्य इत्युपक्रम्य
सप्रपञ्च नाडीरश्मिसम्बन्धमुक्त्वोक्तम् । “अथ यत्रैतद-
स्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्द्ध्वमाक्रमत” इति ।
पुनश्चोक्तम् “तयोर्द्ध्वमायन्नमृतत्वमेतीति” । तस्माच्छताधि-
कया नाड्या निष्क्रमन् रश्म्यनुसारी निष्क्रामतीति
गम्यते । तत्किमविशेषेणैवाहनि रात्रौ वा म्रियमाणस्थ
रश्म्यनुसारित्वमाहोस्विदहन्ये वेति संशये सति अविशेषश्रव-
णादविशेषेणैव तावद्रश्मनुसारीति प्रतिज्ञायते” भा० ।
“निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति”
च” सू० । “अस्त्यहनि नाड़ीरश्मिसम्बन्ध इत्यहनि”
मृतस्य स्याद्रश्म्यनुसारित्वं रात्रौ तु प्रेतस्य न स्यात्
नाडीरश्मिसम्बन्धविच्छेदादिति चेन्न । नाडीरश्मिसम्बन्धस्य
यावद्देहभावित्वात् यावद्देहभावी हि शिराकिरण-
सम्पर्कः । दर्शयति चेतमर्थं श्रुतिः “अमुष्मादादित्यात् प्रता-
यन्तेता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते
ता अमुष्मिन्नादित्ये स्मृप्ताः” इति । निदाघसमये च निशा-
षुपि किरणानुवृत्तिरुपलभ्यते प्रतापादिकार्य्यदर्शनात् ।
स्तोकानुवृत्तेस्तु दुर्लक्ष्यत्वमृत्वन्तररजनीष शैशिरेष्विव र्दि-
नेषु । “अहरेवैतद्रात्रौ विदघातीति” चैतदेव दर्शयति ।
यदि च रात्रौ प्रेतीविनैव रश्मानुसारेणोर्द्ध्वमाक्रमेत रश्म-
नुसारानर्थक्यं भवेत् । न ह्येतद्विशिष्याभिधीयते योदि-
वा प्रैति स रश्मीनपेक्ष्योर्द्ध्वमाक्रमते यस्तु रात्रौ सोऽन-
पेक्ष्यैवेति” । अथ तु विद्वानपि रात्रि प्रायणाऽपराध-
मात्रेण नोर्द्ध्वआक्रमेत पाक्षिकफला विद्येति अप्रवृत्ति-
रेव तस्यां स्यात् मृत्यु कालानियमात् । अथापि रात्रावुप-
रतोऽहरागममुदीक्षेत । अहरागमेऽप्यस्य कदाचिद्रश्मि-
सम्बन्धार्हं शरीरं स्यात् पावकादिसम्पर्कात् । “स यावत्
क्षिप्येन्मनस्तावदादित्यं गच्छतीति” च श्रुतिरनुदीक्षां दर्श-
यति । तस्मादविशेषेणैवेदं रात्रिन्दिवं रश्म्यनुसारि-
त्वम्” भा० । “अतश्चायनेऽपि दक्षिणे” सू० । “अतए-
वोदीक्षानुपपत्तेः अपाक्षिकफलत्वाच्च विद्याया
अनियतकालत्वाच्च मृत्योदक्षिणायनेऽपि म्रियमाणो
विद्वान् प्राप्नोत्येव विद्याफलम् । उत्तरायणमरणप्राश-
स्त्यप्रसिद्धेभींष्मस्य च प्रतीक्षादर्शनात् “आप्र्य्यमाणपक्षा-
द्यान् षडुदङ्ङेति मासान् तानिति” च श्रुतेरपेक्षित-
तव्यमुत्तरायणमितीमामाशङ्कामनेन सूत्रेणापनुदति । प्रा-
शस्त्यप्रसिद्धिरविद्वद्विषया । भीष्मस्य प्रतिपालनमाचारपरि-
पालनार्थं पितृप्रसादलब्धस्वच्छन्दमृत्युताख्यापनार्थञ्च ।
श्रुतेस्त्वर्थं वक्ष्यति आतिवाहिकस्तल्लिङ्गात्” इति । ननु
च “यत्र काले त्वनावृत्तिमावृत्तिञ्चैव योगिनः । प्रयाता
यान्ति तं कालं वक्ष्यामि भरतर्षभेति” कालप्राधान्येनीप-
क्रमस्याऽहरादिकालविशेषः स्मृतावलावृत्तये नियतः कथं
रात्रौ दक्षिणायने वा प्रयातोऽनावृत्तिं यायादिति । अत्रो-
च्यते भा० । “योगिनः प्रति च स्मर्य्यते स्मार्त्ते चैते” सू० ।
“योगिनः प्रति चायमहरादिकाल विनियोगोऽनावृत्तये-
स्मर्य्यते स्मार्ते चैते योगसाङ्ख्ये न श्रौते । अतोविषय-
भेदात् प्रमाणविशेषाच्च नास्य स्मार्त्तस्य कालविनियोगस्य
श्रोतेसु विज्ञानेष्ववतारः । “ननु अग्निर्ज्योतिरहः शुक्लः
षण्मासा उत्तरायणम्” । “धूमोरात्रिस्तथा कृष्णः
षण्मासादक्षिणायन मिति” श्रौतावेव देवपितृयाणौ प्रत्य-
भिज्ञायेते स्मृतावपीति । उच्यते । “तङ्कालं वक्ष्यामीति
स्मृतौ कालप्रतिज्ञानाद्वि रोधमाशङ्क्य परिहार उक्तः ।
यदा पुनः स्मृतावपि अग्न्याद्यादेवा एवातिवाहिका
गृह्यन्ते तदा न कश्चिद्विरोघ इति भा०”

उत्क्रमणीय त्रि० उद् + कृम--कर्मणि अनीयर् । अतिक्रम-

णीये “न वेदवेचनात्तात न लोकवचनादपि ।
गतिरुत्क्रमणीया ते प्रयागमरणं प्रति” भा० व० ८५ अ० ।
उद्क्रमणस्येदम् छ । उत्क्रमणसम्बन्धिनि त्रि० ।
पृष्ठ १०८६

उत्क्रान्त त्रि० उद् + क्रम--कर्त्तरि क्त । १ अतिक्रान्ते देहा-

द्देहान्तरप्राप्त्यै २ अपसृते मृतेच । “उत्क्रान्तानामामिषा-
योपरिष्टात्” माघः “उत्क्रान्तानां मृतानाम्” मल्लि० ।

उत्क्रान्ति स्त्री उत् + क्रम--क्तिन् । देहादुत्क्रमणे

अपसरणे च उत्क्रमणशब्दे विवृतिः ।

उत्क्रीश पु० उद् + क्रुश--अच् । १ कुररीपक्षिणि । अयञ्च

पक्षी सुश्रु० जलचरमध्य प्लवत्वेन संघचारित्वेनोक्तः ।
“हंससारसक्रौ ञ्चेत्याद्युपक्रमे “मद्गूत्क्रोशकाचाक्षेत्यानी-
नुक्त्वा “प्लवाः संघचारिण” इत्यन्तेन । “उत्क्रोशरससंसिद्धा
मनल्पस्नेहां यवागूं पाययेत्” सुश्रु० । २ उच्चैःक्रन्दिनि
त्रि० । ततः चतुरर्थ्याम् उत्करा० छ । उत्क्रोशीय
तत्सन्निहिते देशादौ ।

उत्क्लेदिन् त्रि० उद् + क्लिद--णिच्--णिनि । ऊर्द्ध्वतः क्लेद-

कारके आर्द्रीकारके “लघु तीक्ष्णोष्णमुत्क्लेदि सूक्ष्मं वाता-
नुलोमनम्” सुश्रु० । स्त्रियां ङीप् ।

उत्क्लेश पू० उद् + क्लिश--घञ् । ऊर्द्ध्वगवायुकृते क्लेशे स च

“उत्क्लिश्यान्नं न निर्गच्छेत् प्रसेकं ष्टीवनेरितम् ।
हृदयं पीड्यते चास्य तमुत्क्लेशं विनिर्द्दिशेत्” इत्युक्तल-
क्षणः रोगभेदः । “गुरुपाकसृष्टविण्मुत्रतया कफोत्-
क्लेशेन च” “क्लिन्नमुत्क्लेशजननम्” “तृष्णाशूलकफोत्-
क्लेशच्छर्द्दिश्वासनिवारणम्” सुश्रु० ल्युट् । उत्क्लेशन-
मप्यत्र न० “दद्यादुत्क्लेशनं पूर्व्वम्” सुश्रु० ।

उत्क्लेशक त्रि० उद् + क्लिश--णिच्--ण्वुल् । १ उत्क्लेश-

कारके “कौण्डिल्यकः करभक इत्युपक्रमे” क्लीतः कृमिः-
शरारी च यश्चाप्युत्क्लेशकः स्मृतः” । एते ह्यग्निप्रकृतय-
श्चतुर्विंशतिरेव च” सुश्रुतोक्ते २ अग्निप्रकृतिके कीटभेदे ।
उत्क्लिश्नाति उद् + क्लिश--णिनि । ३ ऊर्द्ध्वगवायुहेतु-
क्लेशकारके त्रि० स्त्रियां ङीप्ं । “अम्लीभूतं कफोत्-
क्लेशि न हितं तत् पिपासवे” सुश्रु० ।

उत्क्षिप्त त्रि० उद् + क्विप्--क्त । १ ऊर्द्ध्वं क्षिप्ते “क्षणं क्षणोत्-

क्षिप्तगजेन्द्रकृत्तिना” “उत्क्षिमुच्छ्रितशतांशुकरावलम्बैः”
माघः २ उच्चाटिते च । (रक्षिभिः) उत्क्षिप्तगुल्मैश्च तथा
हयैश्च सपताकिभिः” भा० व० १५ अ० “गुल्मो यत्र
स्थितेन योधसंघेन चतुर्दिगवस्थितारिपवोद्रष्टु बाणा-
दिना प्रहर्त्तुं । शक्यन्ते ताद्दशमुच्चस्थानमुत्क्षिप्तगुल्मैः
परकीयगुल्मोच्चाटनकरैः” लीलक० । धुस्तूरे पु० शब्दच० ।
तस्य फलसेवने जन्मत्तताधायकत्वात्तथात्वम् ।

उत्क्षिप्तिका स्त्री घत्क्षिप्तः धुस्तूरैव कन् स्त्रीत्वात् टापि

अत इत्त्यम् । धुस्तूराकारे कर्ण्णमूषणभेदे हेमचन्द्रः ।

उत्क्षेप पु० उद् + क्षिप--घञ । १ उर्द्ध्वक्षेपणे “पक्ष्मोत्क्षेपादु-

परिविलसत्कृष्णसारप्रभाणाम्” मेघ० । “पक्षोत्क्षेपात्
समोदिष्टः” सुश्रु० । कर्त्तरि अच् । २ उत्क्षेपकारके त्रि०

उत्क्षेपक त्रि० उद् + क्षिप--ण्वुल् । १ ऊर्द्ध्वं प्रक्षेपके २ उत्क्षि-

प्यापहारके चौरे च । “उत्क्षेपकग्रन्थिभेदौ करसंदश-
हीनकौ । कार्य्यौ द्वितीयापराधे करपादैकहीनकौ” या०
स्मृ० वस्त्राद्युत्क्षिपत्यपहरतीत्युत्क्षेपकः । शस्त्रादिबद्धं
स्वर्ण्णादि विस्रस्योत्कृत्य वा योपहरत्यसौ ग्रन्थिभेदः
तौ यथाक्रमङ्करेण सन्दंशसदृशेन तर्ज्जन्यङ्गुष्ठेन हीन
कौ कार्य्यौ द्वितीयापराधे पुनः करश्च पादश्च करपाद
तच्च तदेकञ्च करपादैकन्तद्धीनं ययोस्तत्करपादैकहीनकौ-
कार्य्यौ । उत्क्षेपकग्रन्थिभेदकयोरेकमेकं करम्पादञ्च
छिन्द्यादित्यर्थः । एतदप्युत्तमसाहसप्राप्तियोग्यद्रव्य
विषयम् । “तदङ्गच्छेद इत्युक्तोदण्ड उत्तमसाहस” इति
नारदवचनात् । तृतीयापराधे तु बध एव । तथा च मनुः
“अङ्गुलीं ग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे । द्वितीये
हस्तचरणौ तृतीये बधमर्हतीति” मिता० ।

उत्क्षेपण न० उद् + क्षिप--ल्युट् । १ ऊर्द्ध्वक्षेपणे । “उत्क्षेपणं

तथावक्षेपणमाकुञ्चनं तथा । प्रसारणञ्च गमनं कुर्म्माण्ये-
तानि पञ्च च” भाषा० “उतक्षेपणमवक्षेपण-
माकुञ्चनं प्रसारणं गमनमिति कर्म्माणि” कणा० सू०
“इतिरवधारणार्थः भ्रमणादेरपि गमनान्तर्गतत्वात् ।
अत्र च उत्क्षेपणत्वावक्षेप्रणत्वाकुञ्चनत्वप्रसारणत्वग-
मनत्वानि कर्म्मत्वसाक्षांद्व्याप्याः पञ्च जातयः । नन्वेत-
दनुप्रपन्नंगमनस्य कर्म्मपर्य्यायत्वात् सर्व्वत्र गच्छतीतिबुद्धे-
र्दृष्टत्वादुत्क्षेपणत्वादीनां चतसृणां जातीनां परस्परा-
त्यन्ताभावसमानाधिकरणानां सामानाधिकरण्याननुमवात्
चतस्र एव कर्म्मत्वव्याप्या जातय इति चेत् सत्यं कर्म्म-
पर्य्याय एव गमनं पृथगभिधानन्तु भ्रमणरेचनस्यन्दनो-
र्द्ध्वज्वलननमनोन्नमनांदीनां भिन्नभिन्नबुद्धिव्यपदेशभाजा-
मेकेन शब्देन सङ्ग्रहार्थं यद्वा गमनत्वमपि कर्म्मत्वव्याप्या
पञ्चमी जातिरेव तेन भ्रमणरेचनादिष्वेव गमनप्रयोगो
मुख्यः उत्क्षेपणावक्षेपणादिषु यदि गमनप्रयोगस्तदा
भाक्तः स्वाश्रयसंयीगविभागासमवायिकारणत्वमेव
गौणमुख्यसाधारणो धर्म्मः गमनत्वजातेस्त्वनियतदिग्देशसंयो-
गविभागासमवायिकारणत्वमेव व्यञ्जकं तच्च भ्रमणादिषु
सर्व्वत्रेति गमनग्रहणेनैव तेषां ग्रहणमिति । निष्क्र-
पृष्ठ १०८७
मणत्वप्रवेशनत्वादिका तु न जातिः एकस्मिन्नेव कर्म्मणि
गृहाद् गृहान्तरं गच्छति पुरुषे कस्यचित् द्रष्टुः प्रविश-
तीति प्रत्ययः कस्यचित्तु निष्क्रामतीति तत्र जातिसङ्करः
स्यात् तथा भ्रमणादेरेकस्या जलप्रणाल्या निष्क्रम्यापरां
प्रविशति निष्क्रामति प्रविशतीति प्रत्ययद्वयदर्शनादुपाधि-
सामान्यमेवैतदध्यवसेयम् । उत्क्षेपणादौ तु मुसलमुत्-
क्षिपाणीतीच्छाजनितेन प्रयत्नेन प्रयत्नवदात्मसंयोगादस-
मवायिकारणाद्धस्ते तावदुत्क्षेपणं तत उत्क्षेपणविशिष्ट
हस्तनोदनादसमवायिकारणात् मुसलेऽप्युत्क्षेपणाख्यं कर्म्मं
युगपद्वा तत् ऊर्द्ध्वमुत्क्षिप्तयोर्हस्तमुसलयोरवक्षेपणेच्छा-
जनितप्रयत्नवदात्मसंयोगाद्धस्तनोदनाच्च युगपदेव हस्ते
मुसले चावक्षेपणम् उलूखलपातानुकूलं संजायते ततो
दुढतरद्रव्यसंयोगाद् यदकस्मान्मुसलस्योर्द्ध्वगमनं भवति
तत्र नेच्छा न वा प्रयत्नः कारणं किन्तु संस्कारमात्रादेव
मुसलस्योत्पतनं तच्च गमनमात्रं नतूत्क्षेपणं, भाक्तस्त-
त्रोत्क्षेपणव्यवहारः एवमनुलोमप्रतिलोमवायुद्वयसङ्घट्ट-
वशाद्वाय्योस्तत्प्रेरिततृणतूलकादौ चोत्क्षेपणव्यवहारो
भाक्तः । एवं स्रोतोद्वयसङ्घट्टवशाज्जलोर्द्ध्वगमनेऽपि ।
एवमुत्क्षेपणावक्षेपणव्यवहारः शरीरतदवयवतत्संयुक्तमुस-
लतोमरादिष्वेव मुख्यः । भवति हि हस्तमुत्क्षिपति
तोमरमुत्क्षिपतीति एवमवक्षिपतीत्यपि” उपस्करः ।
उत्क्षेणञ्च श्रौते कर्म्मणि गोघ्राणायोग्यदेशक्षेपणे भवति
तथा हि । “मूतयोः कृत्वा वेणुयष्ट्यां वा कुपे वाऽऽसज्यो-
भयतः स्थाणुवृक्षवंशवल्मीकानामन्यतमस्मिन्नुत्क्षेपण-
वदासजत्येतत्ते” कात्या० ५, १०, २१ । “उत्क्षेषणवदिति
गोरध्राणदेशम्” कर्कः यजु० ३, ६१ मन्त्रव्या०
“गोभिराघ्रातुमशक्यत्वादिति” बेददी० तत्पदं व्याख्यात् ।
“अतिमात्रलोहिततलौ बाहू घटोत्क्षेपणात्” शकु० ।
करणे ल्युट् । २ धान्यमर्दनकाष्ठादौ मेदि० ३ उदञ्चने
४ षोड़शपणे च हेमच० । कर्म्मणि ल्युट् । ५ व्यजने न० ।

उत्खचित त्रि० उद् + खच--बन्धे क्त । १ उद्ग्रषिते २ रचिते

च । “कुसुमोन्खचितान् बलीभृतः” रघुः ।

उत्खला स्त्री उद् + खल--जन्यर्थे--अच् । मुरानामगन्धद्रव्ये शब्दच० ।

उत्खात त्रि० उद् + खन--क्त । १ उन्मूलिते २ उत्पाटिते

“फलैः संबर्द्धयामासुरुत्खातप्रतिरोपिताः” रघुः ।
“रथेनानुत्खातस्तिमितगतिना शकु० भावे क्त । ३
उत्खनने न० । उत्खातकेलिः ।

उत्खातकेलि पु० उत्खातमुत्खबमेव केलि । “उत्खात-

केलिः शृङ्गाद्यैर्वप्रक्रीडा निगद्यते” इत्युक्तलक्षणे
वृषगजादेः शृङ्गादिना मृत्तिकाखननरूपक्रीडायाम् ।

उत्खाय अव्य० उद् + खन--ल्यप् । उत्पाट्येत्यर्थे । “वङ्गा-

नुत्खाय तरसा” रघुः पक्षे उत्खन्येत्यप्यत्र ।

उत्खेद पु० उद् + खिद--भावे घञ् । छेदने उद् + खदधातौ अमरः ।

उदा० ।

उत्त त्रि० उन्द--क्लेदने क्त वा तस्य नः । क्लिन्ने आर्द्रवस्तुनि

उत्तंस पु० उद् + तसि--अच् । १ कर्णाभरणे, २ शिरोभूषणे च ।

“नोत्तंसं क्षिपति क्षितौ श्रवणतः सा मे स्फुटेऽप्यागसि”
सा० द० । अस्य कर्णमूषणवाचकत्वेऽपि कर्णपदसमभि-
व्याहारे भूषणमात्रपरता तत्काले कर्णस्थितत्वद्योतनार्थं
वा कर्ण्णादिशब्दप्रयोगः ।

उत्तट त्रि० उत्क्रान्तं तटम् अत्या० त० । तटपर्य्यन्ताप्लावके

“उत्तटा इव नदीरयाः स्थलीम्” रघुः ।

उत्तप्त त्रि० उद् + तप--क्त । १ संतप्ते २ शुष्कमांसे न० भावे क्त ।

३ उत्तापे न० । उद्गतं तप्तं तापो यस्य । ४ स्नाते त्रि० मेदि०

उत्तब्ध त्रि० उद् + स्तन्भ--क्त । १ ऊर्द्ध्वस्तब्धे २ ऊर्द्धावस्थिते ।

उत्तम त्रि० उद् + तमप् । १ उत्कृष्टे । “ज्योतिषामुत्तमोदेव ।

दीपोऽयं प्रतिगृह्यताम्” दीपमन्त्रः “अदस्त्वया मुन्न-
मनुत्तमं तमः” माघः “उत्तमः पुरुषस्त्वन्यः परमात्मे-
त्युदाहृतः” “यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः”
गीता । द्विजोत्तमः नरोत्तमः नृपोत्तम! “घर्मोऽ-
धर्मविदुत्तमः” विष्णुसह० । उत्--उद्गतः अतिशये तमप् ।
२ विष्णौ पु० । “अनादिनिधनो धाता विधाता धातु-
रुत्तमः” विष्णुसह० । “धातुरुत्तम इति नामैक
सविशेषणं सामानाधिकरण्येन । सर्वधातुभ्यः पृथि-
व्यादिभ्य उत्कृष्टश्चिदातुरित्यर्थः धातुर्विरिञ्चेरुत्कृष्ट
इति वा । नामद्वयं वा कार्य्यकारणप्रपञ्चधारणात्
धातुश्चिद्धातुः उत्तमः सर्व्वेषामुद्गतानामुद्गतत्वादुत्तमः”
भा० । ३ अन्त्ये । “उत्तमैकाभ्याञ्च” पा० । “उत्तमशब्दी-
ऽन्त्यार्थः” सि० कौ० । उत्तानपादस्य पुत्रभेदे ४ ध्रुवसपत्न-
भ्रातरि पु० स च उत्तानपादस्य सुरुचौ भार्य्यायामुत्पन्नः ।
“जाये उत्तानपदस्य सुनीतिः सुरुचिस्तथा । सुरुचिः प्रेयसी
पत्युर्नेतरा यत् सुतोध्रुवः । एकदा सुरुचेः पुत्रमङ्कमारीप्य-
लालयन् । उत्तमं मारुरुक्षुस्तं ध्रुवं राजाभ्यनन्दत”
भा० ४ स्क० ८ अ० । “उत्तमस्त्वकृतोद्वाहो मृगयायां
बलीयसा । हतः पुण्यजनेनाजौ तन्मातास्य गतिं
पृष्ठ १०८८
गता” भा० ४, स्क० १० अ० । प्रियव्रतस्य ५ पुवभेदे
स एव तृतीयमनुः यथोक्तं भाग० ८ स्कं० १ अ० ।
“तृतीय उत्तमो नाम प्रियव्रतसुतोमनुः । पवनः सृञ्जयो
यज्ञहोत्राद्यास्तत्सुता नृप! । वशिष्टातनयाः सप्त ऋषयः
प्रमदादयः । सत्यावेदश्रुता भद्रादेवा इन्द्रस्तु सत्यजित् ।
धर्म्मस्य सुनृतायान्तु भगवान् पुरुषोत्तमः । सत्यसेन
इति ख्यातः जातः सत्यव्रतैः सह” । हरिवं० ७ अ०
तु औत्तमित्वेनायं पठितः यथा । “स्वायम्भु-
वोमनुस्तात! मनुः स्वारोचिषस्तथा । औत्तमिस्तामस-
श्चैव रैवतश्चाक्षुषस्तथा । वैवस्वतश्च कौरव्य! साम्प्र-
तोमनुरुच्यते” इति सप्तमनूनुद्दिश्य । “इदं
तृतीयं वक्ष्यामि तन्निबोध नराधिप! । वसिष्ठपुत्राः
सप्तासन् वासिष्ठा इति विश्रुताः । हिरण्यगर्भस्य सुता
ऊर्जा नाम सुतेजसः । ऋषयोऽत्र मया प्रोक्ताः कीर्त्त्य-
मानान् निबोध तान् । औत्तमेयान् महाराज!
दशपुत्रान् मनोरमान् । ईष ऊर्जस्तनूर्ज्जश्च मधुर्माधव एव
च । शुचिः शुव्रुः सहश्चैव नभस्यो नभएव च । भानवस्तत्र
देवाश्च मन्वन्तरमुदाहृतम्” । तत्र स्वार्थे इञ् औत्तमिः ।
ॠषिपुत्रादिनामभेदस्तु कल्पभेदादविरुद्धः” ।

उत्तमफलिनी कर्म्म० नित्यस० । (क्षीराइ) । दुग्धिकावृक्षे रत्नमा० ।

उत्तमर्ण पु० उत्तममृणमस्य । ऋणप्रयोजके (महाजन) ।

उत्तमर्णवृद्ध्यादिग्रहणधर्मोविष्णुना दर्शितो यथा “अथोत्त-
मर्णोऽधमर्णाद्यथादत्तमर्थं गृह्णीयात् द्विकं त्रिकं चतुष्कं
पञ्चकञ्च शतं वर्णानुक्रमेण प्रतिमासम् । सर्वेवर्णा वा
स्वप्रतिपन्नां वृद्धिं दद्युः । अकृतामपि वत्सरातिक्रमेण
यथाविहिताम् । आध्युपभोगे वृद्ध्यभावः । दैवराजोप-
घातादृते विनष्टमाधिमुत्तमर्णोदद्यात् । अन्तवृद्धौ प्रवि-
ष्टायामपि । न स्थावरमाधिमृते वचनात् । गृहीतधनप्रवे-
शार्थमेव यत् स्थावरं दत्तं तद्गृहीतधनप्रवेशे दद्यात् ।
दीयमानं प्रयुक्तमर्थमुत्तमर्णस्यागृह्णतस्ततः परं न वर्द्धते ।
हिरण्यस्य परा वृद्धिर्द्विगुणा, धान्यस्य त्रिगुणा,
वस्त्रस्य चतुर्गुणा, सन्ततिः स्त्रीपशूनाम् । किण्वका-
र्पाससूत्रचर्म्मायुधेष्टकाङ्गाराणामक्षया, अनुक्तानां द्वि-
गुणा । प्रयुक्तमर्थं यथा कथञ्चित् साधयन्न राज्ञोवाच्यः
स्यात् । साध्यमानश्चेद्राजानमभिगच्छेत्तत्समं दण्ड्यः ।
उत्तमर्णश्चेद्राजानमियात्तद्विभावितोऽधमर्णोराज्ञे
धनदशभागसम्मितं दण्डं दद्यात् । प्राप्तार्थश्चोत्तमर्णोविंशति-
तितममंशम् । सर्व्वापलाप्येकदेशविभावितोऽपि सर्वं द-
द्यात् । तस्य च भावनास्तिस्रोभवन्ति लिखितं साक्षिणः
समयक्रिया च । ससाक्षिकमाप्तं ससाक्षिकमेव दद्यात् ।
लिखितार्थप्रविष्टे लिखितं पाटयेत् । असमग्रदाने लेख्या-
सन्निधाने चोत्तमर्णोलिखितं दद्यात्” । अधिकमृणशब्दे
वक्ष्यते । उत्तमं देयत्वेनास्त्यस्य ठन् । उत्तमर्ण्णिको-
ऽप्यत्र । “पञ्च पञ्चशतम् दाप्यः प्राप्तार्थोह्युत्तमर्ण्णिकः”
या० स्मृ० । “यैर्यैरुपापैरर्थं स्वं प्राप्नुयादुत्तमर्ण्णिकः ।
स्तैस्तैरुपायैः संगृह्य दापयेदधमर्णिकम्” मनुः “ते च
उपाया वृहस्पतिना दर्शिताः यथा । “छद्मना याचितञ्चार्थ-
मानीय ऋणिकाद्बलैः । अन्याहृतादि वाऽऽहृत्य दाप्यते
तत्र सोपधिः । दारपुत्रपशून् हृत्वा कृत्वा द्वारोपवे-
शनम् । यत्रार्थी दाप्यतेऽर्थं स्वं तदाचरितमुच्यते । बद्ध्वा-
स्वगृहमानीय ताडनाद्यैरुपक्रमैः । ऋणिको दाप्यते
यत्र बलात्कारः स कीर्त्तितः” ।

उत्तमशाख पु० उत्तमा उत्कृष्टा शाखाऽस्य । उत्ष्टकृशास्वे

द्रुमे गहा० चतुरर्थ्यां छ । ऊत्तमशाखीय तत्सन्नि-
हितादौ त्रि० ।

उत्तमश्लोक त्रि० उत्तमः श्लोकः चरितं यस्य । १ पुण्यकीर्त्तौ

कम्म० । २ उत्तमे काव्ये पु० । स च ध्वनिरूपः “इदमु-
त्तममतिशयिनि व्यङ्ग्ये वाच्यात् ध्वनिर्बुधैः कथितः”
काव्यप्र० उक्तलक्षणः ।

उत्तमस् त्रि० उल्लङ्घितं तमो येन प्रा० ब० वा लङ्घितलोपः ।

१ उल्लङ्घिततमस्के २ तमोऽतीते च । “क उत्तमःश्लोकगुणानु-
वादात् पुमान् विरज्येत विना पशुघ्नात्” भाग० १० स्क० १ अ०

उत्तमसाहस पु० साहसमधिकृततयाऽस्त्यस्य अर्श० अच् +

कर्म्म० । स्मृत्युक्ते साहसाधिकारेण विहिते १ उत्कृष्टे
दण्डे । “पणानां द्वे शते सार्द्धे प्रथमः साहसः स्मृतः ।
मध्यमः पञ्च विज्ञेयः सहस्रं त्वेष चोत्तमः” मनुः
“अनाख्याय ददद्दोषं दण्ड्य उत्तमसाहसम्” या० स्मृ०
नानास्थाने उत्तमदण्डविषयमाह विष्णः यथा
दण्ड्य इत्युपकुमे “परस्य पतनीयाक्षेपे कृते तूत्तमसाहसम्” ।
“व्यङ्ग्यतायुक्ताक्षेपे कार्षापणशतम्” “मातृयुक्तेतूत्तमम्”
“पारजायी सवर्ण्णागमने तूत्तमसाहसं दण्ड्यः” । “अदुष्टां
(कन्याम्) दुष्टामिति ब्रुवन्नुत्तमसाहसम्” “फलोपगमद्रुमो-
च्छेदी कीटोपघाती तूत्तमसाहसं दण्ड्यः” (अवगोरयिता)
शस्त्रेणोत्तमसाहसं दण्ड्यः” नेत्रकन्धराबाहुसक्थ्यं
सभङ्गेचोत्तमम्” (साहसं दण्ड्यः) “रत्नान्यपहार्य्युत्तससाह-
सम्” । “यस्तयोः (पितापुत्रयोर्विवादे) पान्तरः
पृष्ठ १०८९
स्यात्तस्योत्तमसाहसः “तुलामानकूटकर्तुश्च तदकूटे
कूटवादिनश्च द्रव्याणां प्रतिरूपविक्रयिकस्य च” ।
“सम्भूय बणिजां पण्यमनर्घेणावरुन्धताम्” प्रत्येकं
“विक्रीणताञ्च” । “यस्तूत्तमवर्णान् दास्ये नियोजति-
स्योत्तमसाहसदण्डः” । “सीमाभेत्तारमुत्तमसाहसेन दण्ड-
यित्वा पुनः सीमां कारयेत्” “अभक्ष्यस्याविक्रेयस्य च
विक्रयी देवप्रतिमाभेदकश्चोत्तमसाहसम् दण्डनीयः ।
“भिषङ्मिथ्याचरन्नुत्तमेषु पुरुषेषु” । २ प्राणिहिंसा-
दिरूपे बलकृते कर्म्मभेदे न० । तत्रोत्तमसाहसा-
दिस्वरूपलक्षणविभागादि मिता० दर्शितं यथा । “सामा-
न्यद्रव्यप्रसभहरणात् साहसं स्मृतम्” या० स्मृ० ।
“सामान्यस्य साधारणस्य यथेष्टं विनियोगानर्हत्वाविशेषेण
परकीयस्य वा द्रव्यस्यापहरणं साहसम् । कुतः प्रसभहर-
णात् प्रसह्याहरणाब्बलावष्टम्भेन हरणादिति यावत् ।
एतदुक्तं भवति । राजदण्डञ्जनाक्रोशं चोल्लङ्घ्य
राजपुरुषेतरजनसमक्षं यत्किञ्चिद्धरणमारणपरदारप्रधर्षणादिकं
क्रियते तत् सर्वं साहसमिति साहसलक्षणम् । अतः साधा-
रणधनपरधनयोर्हरणस्यापि बलावष्टम्भेन क्रियमाणत्वा-
त्साहसत्वमिति । नारदेनापि साहसस्य स्वरूपं विवृतम् ।
“सहसा क्रियते कर्म यत् किञ्चिद्बलदर्पितैः । तत्साहस-
मिति प्रोक्तं सहो बलमिहोच्यते” । तदिदं साहसञ्चौ-
र्य्यवाग्दण्डपारुष्यस्त्रीसंग्रहेषु व्यासक्तमपि बलदर्पावष्ट-
म्भोपाधितोभिद्यत इति दण्डातिरेकार्थं पृथगभिधा-
नस्य दण्डवैचित्र्यप्रतिपादनार्थं प्रथमादिभेदेन त्रैवि-
ध्यमभिधाय तल्लक्षणन्तेनैव विवृतम् । “तत् पुनस्त्विविधं
ज्ञेयं प्रथमं मध्यमन्तथा । उत्तमञ्चेति शास्त्रेषु तस्योक्तं
लक्षणं पृथक् । फलमूलोदकादीनां क्षेत्रोपकरणस्य च ।
भङ्गाक्षेपोपमर्दाद्यैः प्रथमं साहसं स्मृतम् । वासः-
पश्वन्नपानानां गृहोपकरणस्य च । एतेनैव प्रकारेण
मध्यमं साहसं स्मृतम् । व्यापादोविषशस्त्राद्यैः परदारा-
भिमर्शनम् । प्राणोपरधि यच्चान्यदुक्तमुत्तमसाहसम् । तस्य
दण्डः क्रियाक्षेपः प्रथमस्य शताबरः । मध्यमस्य तु
शास्त्रज्ञैर्दृष्टः पञ्चशतावरः । उत्तमे साहसे दण्डः
सहस्रावर इष्यते । बधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने ।
तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहमे” इति । बधादय-
श्चापराधतारतम्यादुत्तमसाहसे समस्ताव्यस्ता वा योज्याः” ।
तत्र परद्रव्यापहरणरूपे साहसे दण्डमाह” मिता० ।
“तन्मूल्याद्द्विगुणोदण्डोनिह्नवे तु चतुर्गुणः” या० स्मृ० ।
“तस्यापहृतद्रव्यस्य मूल्याद्द्विगुणोदण्डः यः पुनः साहसं
कृत्वा नाहमककार्षमिति निह्नुते तस्य मूल्याच्चतुर्गुणो
दण्डो भवति । एतस्मादेव विशेषदण्डविधानात् प्रथमसाह-
सादिसामान्यदण्डविधानमपहारव्यतिरिक्तविषयम्” मिता०

उत्तमस्त्रीसंग्रहण न० परस्त्रियाः संग्रहणं कर्म्म० । स्मृत्युक्ते

परस्त्रियामुत्तमे मिथुनाभावाय प्रवृत्तिरूपव्यापारभेदे
तत्स्वरूपविभागादि मिता० दर्शितं यथा
“प्रथम साहसादिदण्डप्राप्त्यर्थं त्रेधा तत्स्वरूपं व्यासेन
विवृतम् । “त्रिविधन्तत्समाख्यातमधमं मध्यमोत्तमम् । अदेश-
कालभाषाभिर्निर्जने च परस्त्रियाः । कटाक्षावेक्षणं हास्य-
म्प्रथमं साहसं स्मृतम् । प्रेषणङ्गन्धमाल्यानान्धूपभूषण-
वाससाम् । प्रलोभनञ्चान्नपानैर्मध्यमं समुदाहृतम् । सहा
सनं विविक्तेषु परस्परमपाश्रयः । केशाकेशि ग्रहश्चैव
सम्यक् संग्रहणं स्कृतम्” । स्त्रीपुंसयोर्मिथुनीभावः
संग्रहणं संग्रहणज्ञानपूर्ब्बकत्वात्तत्कर्तुर्दण्डविधानस्य
तज्ज्ञानोपायन्तावदाह । “पुमान् संग्रहणे ग्राह्यः केशा-
केशि परस्त्रियाः । सद्योवा कामजैश्चिह्नैः प्रतिपत्तौ द्वयो-
स्तथा” या० स्मृ० । संग्रहणे प्रवृत्तः पुमान् केशाकेश्या-
दिभिर्ल्लिङ्गैर्ज्ञात्वा ग्रहीतव्यः । परस्परकेशग्रहणपूर्ब्बका-
क्रीडा केशाकेशि “तत्र तेनेदमिति सरूप” इति पा०
बहुब्रीहौ सति “इच् कर्म्मव्यतिहारे” पा० इति समासान्त
इच् प्रत्ययः अव्ययत्वाच्च लुप्ततृतीयाविभक्तिः । ततश्चायमर्घः ।
परभार्य्यया सह केशाकेशिक्रीडनेनाभिनवैः कररुहदश-
नादिकृतव्रणैः रागकृतैर्लिङ्गैर्द्वयीः सम्पतिपत्त्या वा ज्ञा-
त्वा संग्रहणे प्रवृत्तो ग्रहीतव्यः । परस्त्रीग्रहणं नियु-
क्तावरुद्बादिव्युदासार्थम् । किञ्च । “नीवीस्तनप्रावरण
सक्थिकेशावमर्शनम् । अदेशकालसम्भाषं सहैकस्थानमेव च”
या० स्मृ० । यःपुनः परदारपरिधानग्रन्थिप्रदेशकुचप्राव-
रणजघनमूर्द्धरुहादिस्पर्शनं साभिलाषैवाचरति । तथा
अदेशे निर्जने जनताकीर्णे वान्धकाराकुलेऽकाले संलापनङ्क
रोति । परभार्यया वा सहैकमञ्चकादौ रिरंसयेवावति-
ष्ठते । सोऽपि संग्रहणे प्रवृत्तो ग्राह्यः । एतच्चाशङ्क्यमान
दोषपुरुषविषयमितरस्य न दोषः । यथाह मनुः ।
“यस्त्वनाक्षारितः पूर्व्वमभिभाषेत कारणात् । न दोषम्प्रा-
प्नुयात्किञ्चिन्न हि तस्य व्यतिक्रमः” इति यः परस्त्रिया
स्पृष्टः क्षमतेऽसावपि ग्राह्य इति तेनैवोक्तम् । “स्त्रियं
स्पृशेददेशे यः स्पृष्टोबा मर्षयेत्तथा । परस्परस्यानुभते सर्वं
संग्रहणं स्मृतमिति” यश्च मयेयं विदग्धाऽसकृद्रमि
तेति श्लाघया भुजङ्गजनसमक्षङ्ख्यापयत्यसावपि ग्राह्य
इति तेनैवोक्तम् । “दर्पाद्वा यदि वा मोहात् श्लाघया वा
स्वयं वदेत् । पूर्ब्बं मयेयम्भुक्तेति तच्च संग्रहणं स्मृतम्”
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/उ&oldid=321514" इत्यस्माद् प्रतिप्राप्तम्