वाचस्पत्यम्/आसङ्ग

विकिस्रोतः तः


पृष्ठ ०८७९

आसङ्ग पु० आ + सन्ज--घञ् । १ अभिनिवेशे, प्राप्तस्योपस्थि-

तस्य वा नश्यतो वस्तुनः २ रक्षणाभिलाषे, ३ भोगा-
भिलाषे, ४ कर्तृत्वाभिमाने ५ विषयान्तरपरिहारेण
चेतस एकत्राभिनिवेशे च । “नयनप्रीतिः प्रथमं चित्तासङ्ग-
स्ततोऽथ सङ्कल्पः” सा० द० । “तेऽसुररक्षसेभ्य आसङ्गा-
द्बिभयञ्चचक्रुः” शत० ब्रा० १, १, २, ३ “तथोहैन सूयमान
मासङ्गो न विन्दति” शत० ब्रा० ५२, ३, ५, “त्यक्त्वा कर्म्मफला
सङ्गम्” गीता । ६ सम्यक् सम्बन्धे “सशैवलासङ्गमपि प्रका-
शते” कुमा० । आसज्यते कर्म्मणि घञ् । ७ आसञ्जनीये
उत्तरासङ्गः “त्वगुत्तरासङ्गवतीं निवीतिनीम्” कुमा० ।
८ सौराष्ट्रमृत्तिकायां राजनि० ९ अनवरते न० १० तद्वति
त्रि० जटा० । सौरष्ट्रम्रत्तिकाया गात्रे आसञ्जनीयत्वात्त-
थात्वम् । अनवरतस्य च सततसम्बन्धात् आसङ्कत्वम् ।

आसङ्गत्य न० न सङ्गतः तस्य भावः ष्यञ् चतुरादिषु पर्य्यु-

दासात् नोत्तरपदवृद्धिः । साङ्गत्याभावे असम्बन्धे ।

आसङ्गिनी स्त्री आसङ्गः सातत्यमस्त्यस्य इनि ङीप् ।

१ वात्यायां त्रिकाण्ड० । २ आसङ्गयुक्ते त्रि० स्त्रियां ङीप् ।

आसङ्गिम पु० आसङ्गे भवः डिमच् । सुश्रुतोक्ते कर्ण्णवेधाङ्ग-

कर्ण्णबन्धनाकृतिभेदे । “तत्र समासेन पञ्चदश कर्ण्णबन्धना
कृतयोभवन्ति वक्रश्च वन्धूरक आसङ्गिम” इत्यादिना विभज्य
“अभ्यन्तरदीर्घैकपालिरासङ्गिमः” इति सुश्रुते लक्षितः ।

आसञ्जन न० आ + सन्ज--ल्युट् । १ आसङ्गे २ सम्यक्सम्बन्धे

“व्रततिवलयासञ्जनात्” शकु० । णिच्--ल्युट् । ३ योजने

आसञ्जित त्रि० आ + सन्ज--णिच्--क्त । संयोजिते

आसत्ति स्त्री आ + सद--क्तिन् । १ नैकट्यसंबन्धे २ प्राप्तौ न्यायमते

३ प्रत्यक्षजनकसन्निकर्षे “आसत्तिराश्रयाणां तु सामान्यज्ञान-
मिष्यते” भाषा० । ४ शाब्दबोधोपयोगिन्यामव्यवधानेन
षदजन्यपदार्थोपस्थितौ । “आसत्तियोग्यताकाङ्क्षातात्-
पर्य्यज्ञानमिष्यते । कारणसन्निधानन्तु पदस्यासत्तिरुच्यते,
भाषा० “यत्पदार्थस्य यत्पदार्थेनान्वयोऽपेक्षितस्तयोरव्यव-
धानेनोपस्थितिः कारणम् । तेन गिरिर्भुक्तमग्निभान्
देवदत्तेनेत्यादौ न शाब्दबोधः । नीलो घटो द्रव्यं पट इत्या-
दावासत्तिभ्रमाच्छाब्दबोधः । आसत्तिभ्रमाच्छाब्दभ्रमा-
भावेऽपि न क्षतिः । ननु यत्र छत्री कुण्डली वासस्वी
देवदत्त इत्युक्तं तत्रोत्तरपदस्मरणकाले पूर्वपदस्मरणस्य नाशात्
अव्यवधानेन उत्तरपदस्मरणासम्भव इति चेन्न
प्रत्येकपदसंस्कारैश्चरमतावद्विषयकस्मरणस्याव्यवधानेनोत्पत्तेः
नानासन्निकर्षैरेकप्रत्यक्षस्येव नानासंस्कारैरेकस्मरणोत्पत्ते-
रपि सम्भवात् । तावत्पदसंस्कारसहितचरमवर्ण्ण ज्ञानस्यी-
द्बोधकत्वात् । कथमन्यथा नानावर्णकपदस्मरणम् । परन्तु
तावत्पदार्थानां स्मरणादेकदैव खलेकपोतन्यायात्
तावत्पदार्थानां क्रियाकर्म्मभावेनान्वयबोधरूपः शब्दबोधो
भवतीति केचित्” मुक्ता० ।
शाब्दबोधतुहेः आसत्तिश्च शब्दचिन्तामणौ निरूपिता
यथा । “आसत्तिश्चाव्यवधानेनान्वयप्रतियोग्युपस्थितिः सा
च स्मृतिर्नानुभवोऽतोनान्योन्याश्रयः अथ नानाविशेषण-
ककर्म्मकर्तृकरणाधिकरणक्रियादिपदज्ञानजन्यक्रमिकपदार्थ-
स्मृतीनां न यौगपद्यं सम्भवति आशुतरविनाशिनां
क्रमिकाणां मेलकानुपपत्तेरिति कथन्तावत्पदार्थान्वय-
बोधः विशेषणज्ञानसाध्यत्वाद्विशिष्टज्ञानस्येति चेत् श्रौत्र-
प्रत्येकवर्ण्णानुभवजन्यसंस्कारमेलकादेव तावत्पदस्मृतिः
तत एकदैव तावत्पदार्थस्मृतौ सत्यां वाक्यार्थानुभवः न
चान्यविषयसंस्कारेणान्यस्य न स्मरणमिति वाच्यं वाक्या-
र्थानुभवानुपपत्त्या फलबलेन संस्काराणां परस्परसहकारेण
तत्रैकस्मरणकल्पनात् प्रत्येकवर्ण्णसंस्काराणामिवानन्यगति-
कतया पदस्मरणे । अथ “यद्यदाकाङ्क्षितं योग्यं सन्नि-
धानं प्रपद्यते । तेन तेनान्वितः स्वार्थः पदैरेवावगम्यते”
नचैवमन्वयान्तराभिधानं न स्यात् विरम्य व्यापाराभावा-
दिति वाच्यं एवमपि प्रथममन्वये हेत्वनुपन्यासात्
उत्तरस्य हीदं सामग्रीवैकल्यं न पूर्ब्बस्येति चेत् अस्तु-
तावदेवं तथापि चरमन्तावत्पदार्थघटितवाक्यार्थानुभवे
उक्तैव गतिरनन्यगतिकत्वात् । अत्र वदन्ति । सन्निधानं-
पदजन्मैवान्वयबोधहेतुः द्वारमित्यादावध्याहृतेनापि पिधा-
नादिनान्वयबोधदर्शनात् न च द्वारं पिधेहीतिशब्द एवाध्या
ह्रियते अनुपयोगात् अर्थस्यैवान्वयप्रतियोगित्वादा-
वश्यकत्वाच्च अर्थापत्तेरुपपादकविषयकत्वात् । न च शब्द-
मात्रमुपपादकमपि तु तदर्थः । अवश्यं कल्प्यार्थसाहच-
र्य्येण दैववशसम्पन्नशब्दस्मृतेरन्यथासिद्धेः अन्यथा
पदबोधितस्यैवार्थस्यान्वयबोधकत्वमिति नियमशक्तिकल्पना-
पत्तिः स्वार्थान्वयपरत्वाच्छब्दानां द्वारमिति न पिधानान्व-
यबोधकमिति तदन्वयबोधार्थमवश्यं शब्दकल्पनमिति
चेत् लक्षणायां व्यभिचारात् तत्राक्षेपाक्षिप्तेन कर्त्रा-
ऽन्वयबोधाच्च अथ द्वारपदसहभावमात्रं पिधेहि
शब्दस्य कल्प्यते लाघवात् न च पिधानाभिधायकानेक
शब्दोपस्थितौ विनिगमकविरहः संस्कारतारतम्यात्-
पृष्ठ ०८८०
पदविशेषस्मृतेरिति चेत् न आकाङ्क्षादिमत्प्रतियोग्य-
न्वितस्वार्थपरत्वस्य कॢप्तत्वाल्लाघवेनार्थाध्याहारात् न च
श्रुतपदानि लब्धप्रयोजनानीति कथमध्याहृते तेषां तात्-
पर्य्यमिति वाच्यं श्रुतार्थान्वयानुपपत्त्याध्याहृते तात्पर्य्यात्
कथन्तर्होदनं पचतीत्यत्र समभिव्याहृतमात्रादन्वयबोधः
कलायादेरपि स्मृतत्वादिति चेत् न तात्पर्य्यनियमादित्य-
वेहि “यत्परः शब्दः सशब्दार्थः” इति न्यायात् अन्यथा
तवापि दैवशात् स्मृतकलायपदोपस्थानेनान्वयबोधः
स्यात् अथ देवदत्त ओदनमित्यादिवाक्ये क्रियापदाध्या-
हाराभावेन कर्त्तुरनभिधानात् तृतीया स्यादिति चेत्
न अध्याहृतेनापि पचतिपदेन कर्त्तुरनभिधानात् । कर्तृ-
संख्याभिहितेति चेत् न, देवदत्तस्य पाकैत्यत्र तृतीयापत्तेः
तात्पर्य्यतस्तत्र व्यवस्थेति चेत् तुल्यं मनु द्वारं पिधेहीत्यादौ
पिधानशाब्दानुभवे पिधानोपस्थापकपदत्वे नान्वयबधो
जनकत्वमिति चेत् न अन्वयप्रतियोग्युपस्थापकपदत्वेन-
जनकत्वात् न तु तदुपस्थापकयावत्पदत्वेन गौरवात् एवंपि-
धानान्वयबोधेऽपि अन्यथा गौणलाक्षणिकयोरन्वयबोधोन
स्यात् तयोरननुभावकत्वादिति उच्यते क्रियापदोपस्था-
पिता क्रिया कारकपदोपस्थापितं च कारकं परस्परमाका-
ङ्क्षति न तूपस्थितिमात्रम् अन्यथा द्वारं कर्भता पिधेहि
द्वारं पिधानङ्कृतिरित्यत्रापि क्रियाकर्माध्याहार इवान्वयबोध-
प्रसङ्गः क्रियाकर्म्मणोरुपस्थितेस्तुल्यत्वात् एवंविधपदोपस्थापि-
ते परस्परमाकाङ्क्षा नास्तीति चेत् तर्ह्याकाङ्क्षायां पद विशेषो
पस्थापितत्वं तन्त्रं नतूपस्थितिमात्रम् । अर्थविशेषेऽसाधुत्वात्
न तत्रान्वयबोध इति चेत् न पिधेहीति पदं विना द्वार
मित्यस्याप्यसाधुत्वात् तदर्थप्रयोगे साधुत्वस्य तुल्यत्वात्
साधुत्वज्ञानस्यान्वयबोधेऽप्रयोजकत्वाच्च गोणीत्याद्यपभ्रंशादाव
प्यन्वयबोधाच्च न चात्रासंसर्गाग्रहोबाधकाभावात् ।
तस्मात् क्रियापदस्य कारकपदेन, कारकपदस्य च क्रियापदेन
सहान्वयबोधकत्वं नत्वेकं विनापरस्य । अपि च सकर्म्मक-
क्रियापदप्रयोगं विना द्वितीयानुपपत्तिः क्रियाप-
दार्थयोगे द्वितीया चेत् षटः आनयनं कृतिरित्यत्रापि
द्वितोयापत्तेः तथा पुष्पेभ्य इत्यत्र स्पृहयतिपदाध्याहारं
विना चतुर्थ्यनुपपत्तिः यदि च स्मृहयतिपदार्थयोगे चतुर्थी
तदा पुष्पमिच्छतीत्यत्रापि स्यात् स्पहयतीच्छति पदयोरेका-
र्थत्वात् । अथ साधुत्वार्थं द्वारं पुष्पेभ्य इत्यत्र पिधेहि स्पृह
यति पदाध्याहारोऽनुमन्यते नत्वम्बयबोधार्थं तस्यान्वय
प्रतियोगिज्ञानादेवोत्पत्तेरिति चेत् तर्हि क्रियापदप्रयोगं
विना न कारकविभक्तिः कारकपदप्रयोगं विना न तदन्वय
योग्यं क्रियापदमिति केबलकारके क्रियापदाध्याहारः
केवलक्रियायाञ्च कारकपदाध्याहारः साधुत्वार्थमावश्यक
इति तज्जन्यैवोपस्थितिरन्वयबोधौपयिकी । तस्मात् क्रिया
कारकपदोपस्थापितयोरेव क्रियाकारकयोः परस्परान्वय
इति शब्दाध्याहारएव कर्त्त्राक्षेपे वक्ष्यामः” ।
व्याख्यातं चैतत् मथुरानाथेन दिङ्मात्रमत्रोदाह्रियते
“आसत्तिं निरूपयति आसत्तिश्चेति अन्वयप्रतियो-
गिनोःपदार्थयोरव्यवधानेनोपस्थितिरासत्तिरित्यर्थः स्वा-
व्यवहितत्वसम्बन्धेन तत्पदार्थोपस्थितिमती तत्पदार्थो-
पस्थितिस्तत्पदार्थे तत्पदार्थस्यासत्तिरिति फलितार्थः
नचैवमासन्नानासन्नविभागव्याघातः समूहालम्बनरूपपदा-
र्थोपस्थितेरेव सर्वत्र शाब्दाबोधोपयोगितया गिरिर्भुक्त-
मग्निमान् देवदत्तेनेत्यादावपि शाब्दानुभवाव्यवहित-
पूर्ब्बवर्त्तिसमूहालम्बनोपस्थितिमादायैवाव्यवधानेनोपस्थिति
सत्त्वात् उपस्थितेरैक्येन व्यवधानासम्भवादिति वाच्यं
भेदगर्भाव्यवधानस्य पूर्वोत्तरक्षणसाधरणस्यात्र प्रवेशात् तच्च
खध्वं साधिकरणभिन्नत्वे सति यः स्वप्रागभावाधिकरणसमय
प्रागभावानधिकरणक्षणस्तदवच्छेदेन खसमवायिदेशोत्पत्तिक
त्वेसति स्वभिन्नत्वम् । इत्थञ्च प्रथमं या प्रत्येकपदेभ्यः प्रत्येक
पदार्थानां क्रमिका स्मृतिःसैवासत्तिरन्ववयबोधाव्यवहित-
पूर्व्ववर्त्तिसमूहालम्बनरूपीपस्थितिः । अतएवासत्तिज्ञानं
हेतुः प्रत्येकपदजन्यपदार्थोपस्थितीनामाशुविनाशिनीनां
युगपच्छाब्दबोधात् पूर्व्वमसम्भवेन स्वरूपसद्धेतुत्वासम्भवात्
नचैवं दण्डी कुण्डली खड़्गी देवदत्तैत्यादावेकविशेष्य-
कनानाविशेषणकान्वयबोधस्थले आसत्त्यभावप्रसङ्कः तत्र
विशेषणो पस्थितेर्विशेषणान्तरोपस्थित्या व्यवधानादिति वाच्यं
प्रकृतान्वयबोधाननुगुणायः स्वध्वंसाधिकरणक्षणस्तद्भिन्न-
त्यस्याव्यवधानघटकीभूतसत्यन्तदलार्थत्वात् विशेषणान्तरो-
पस्थिरिक्षणश्च न प्रकृतान्वयबुद्ध्यननुगुणः अननुगुणत्वञ्च
फलबलकल्प्य यादृशयादृशक्षणेन व्यवधानेऽप्यन्वयबोधोऽ-
नुभवसिद्धस्तत्क्षणभिन्नत्वस्यैवाननुगुणत्वरूपत्वात् । अतएव
गिरिर्भुक्तमित्यादौ भुक्तादिपदार्थोपस्थितिक्षणोयत्रैक-
पदोच्चारणानन्तरं चिरतरं विलम्ब्यान्यपदमुच्चारितं तत्रा
व्यवधायकक्षणोऽप्रिचाननुगुणस्तत्रान्वयबोधानुत्पत्तेरिति-
तदुभयत्र नासत्तिः । नचैवं यत्र पदोपस्थितिर्व्यवधानेन,
पदार्थोपस्थितिश्चाव्यवधानेन, तत्राष्यासत्त्यापत्तिरिति वाच्यं
तत्पदोपस्थित्यव्यवहिततत्पदोपस्थितिकन्या तत्पदार्थो
पृष्ठ ०८८१
पस्थितेरव्यवधानेन तत्पदार्थोपस्थितिस्तत्पदद्वयजन्यतत्-
पदार्थयोरन्वयबोधे आसत्तिरिति विवक्षितत्वात् । एवञ्च
यत्र पदोपस्थितिरव्यवधानेन, पदार्थोपस्थितिश्च व्यवधानेन,
यत्र वा पदार्थोपस्थितिरव्यधानेन, पदोपस्थितिश्च व्यवधानेन,
तत्रोभयत्रापि नासत्तिः किन्त्वेकपदोपस्थितिजन्यपदार्थोप-
स्थितिरपरपदोपस्तितिश्च समूहालम्बनरूपा ततोऽपरपदा-
र्थोपस्थितिः पदान्तरोपस्थितिश्च समूहालम्बनरूपेत्या-
दिक्रमेण पदार्थोपस्थितिस्तत्रैवासत्तिः पदोपस्थिते
रव्यवधानमपि पूर्वोत्तरक्षणसाधारणं प्रकृतान्वयबोधा-
ननुगुणलक्षणघटितं बोध्यम् ननु आसत्तिभ्रमादन्वबोध
इति सर्वैर्गीयते स कुत्रेति वाच्यं यत्र व्यवहितपदोप-
स्थितावव्यवहितत्वधीर्व्यवहितायां पदार्थोपस्थितौ अव्य-
वहितत्वधीर्वा तत्र तत्सम्भवात् । अथैवमासत्तिज्ञानस्य
शाब्दकोधहेतुत्वेरूपसत्याः पदजन्यपदार्थोपस्थितेः पृथक्-
कारणत्वे किं मानं, न च विशेषणज्ञानसाध्यं विशिष्ट-
ज्ञानमिति विशेषणज्ञानत्वेन कारणमिति वाच्यम्
आसत्तिज्ञानस्यैव पदार्थविषयकत्वेन विशेषणज्ञानत्वादिति
चेन्न तद्विलम्बेनापि शाब्दधीविलम्बात् तस्यापि पृथक्-
कारणत्वात् न च तद्व्यतिरेकस्थाने आसत्तिविलम्बादेव
शाब्दधीविलम्ब इति वाच्यं नह्यासत्तिः स्वरूपसती
हेतुः किन्तु तज्ज्ञानमेव तद्व्यतिरेकस्थानेऽपि सम्भवादिति
निर्णयकृतस्तदसत् एकलडुपस्थाप्यकृतिवर्त्तमानत्वयोरन्वय-
बोधस्थानेऽव्याप्तेर्यत्रानुमित्यादिना एकदैव पदजात
मनुमितं स्मृतं वा ततश्च समूहालम्बनपदार्थस्मरणं
जातं तत्राव्याप्तेश्च तत्र प्रत्येकपदार्थोपस्थितेरभावात् नच
तत्रापि क्रमिकप्रत्येकपदार्थोपस्थितिः कल्पनीयेति वाच्यम्
अनुभवविरोधात् प्रत्येकपदार्थोपस्थितिमन्तरेणापि तत्र
शाब्दबोधस्यानुभविकत्वात् किञ्चैतस्याः स्वरूपसद्धेतुत्वं स्वय-
मेव निराकृतं क्रमिकप्रत्येकपदार्थोपस्थितेः शाब्दबो-
धात् पूर्ब्बं चिनष्टत्वात् नाप्येतज्ज्ञानं कारणं
मानाभावात् नह्यपस्थितिज्ञानविलम्बात् शाब्दबोधविलम्ब-
आनुभविकः न च दैवाददृष्टादिना पदार्थोपस्थितौ
पदजन्यत्वभ्रमेण शाब्दबोधानुदयात् तज्ज्ञानस्यापि हेतुत्वमिति
वाच्यं वृत्त्या पदजन्यपदार्थोपस्थितेः स्वरूपसतोहेतुत्वा-
त्तद्भ्रमे शाब्दबोधाभावात् अव्यवधानांशवैयर्थ्याच्च न
चैतद्भ्रमानन्तरं शाब्दानुभवदर्शनादेतज्ज्ञानं हेतुरिति
वाच्यं नहि यत्सत्त्वे यदुत्पद्यते तदेव तत्कारणं,
घटाव्यवहितपूर्व्ववर्त्तियावत्पदार्थानामेव घटहेतुत्वापत्तेः
न च पदजन्यपदार्थोपस्थितौ अव्यवहितत्वाव्यवहितपद-
जन्यत्वयोः संशये व्यवहितत्वव्यवहितपदजन्यत्वनिश्चये च
शाब्दबोधानुत्पत्तेस्तन्निश्चयोहेतुः तयोः प्रतिबन्धकत्वकल्पने
गौरवादिति वाच्यं तात्पर्य्यज्ञानसत्त्वे व्यवहितत्वव्य-
वहितपदजन्यत्वग्रहेऽपि शाब्दबोधदर्शनादनुत्पत्तेरेवा-
सिद्धेः नचैवं व्यवहितपदकदम्बात्मकश्लीकादौ योजनायां
कारितायामेवान्वयवोधोनत्वन्थथा इत्यत्र किं वीजमिति
वाच्यं योजनायास्तात्पर्य्यग्राहकत्वात् । अतएव यस्य
योजनां विनैव तात्पर्य्यग्रहस्तस्य न योजनापेक्षा । एतेन
अन्वयप्रतियोगिपदं तदुपस्थापकपरं तथा च तदुपस्थाप-
कपदोपस्थित्यव्यवधानेन तदुपस्थापकपदोपस्थितिस्तयो
रासत्तिः न तु पदार्थोपस्थितीनामव्यवधानमपेक्षितमिति
केषाञ्चिन्मतमप्यपास्तं वक्ष्यमाणान्योन्यश्रयाशङ्कानुत्थितेः
समूहालम्बनोपस्थितिमादाय सर्व्वत्रास्याः सत्त्वेन
आसन्नानासन्नार्थविभागव्याषासापत्तेः । न च भेदगर्भमव्य-
वधानं विवक्षणीयं पूर्व्वोक्तदोषाणामपि वृत्तेः । एतज्-
ज्ञानस्य कारणत्वेउक्तरूपेण मानाभावाच्च । केचित्तु अव्यव-
धानेनेति विशेषणे तृतीया अन्वयप्रतियोगिपदञ्च अन्व-
प्रतियोगिन उपस्थिति र्यस्मात् इति व्युत्पत्या अन्वय-
प्रतियोग्युपस्थापकपरं तथा च तत्पदार्थान्विततत्पदा-
र्थशाब्दवुद्धौ तत्पदे तत्पदाव्यवधानमासत्तिः नतूप-
स्थितीनामव्यवधानं विवक्षितं मौतिश्लोकादौ लिप्यादि-
रूपदीषविशेषात् अव्यवधानभ्रमेणान्वयबोधः । न चैवं
श्लोकादौ योजनायामप्यन्वयबोधो न स्यात् वक्त्रेदंव्यव-
धानेनोच्चारितमिति विशेषदर्शनेन भ्रमासम्भवात् इति
वाच्यं योजनयोपस्थितवाक्यान्तरादेव तत्रान्वयबोधात्
न तु श्लोकादितः । अव्यवधानञ्चाननुगुणक्षणभेदाभेद
साधारणं स्वपरसाधारणञ्च वाच्यं तेनैकपदाद्युपस्थि-
तयोः कृतिवर्त्तमानत्वयोरन्वयबोधेऽपि न काप्यनुपपत्ति-
रित्याहुः तदप्यसत् वक्ष्यमाणान्योन्याश्रयशङ्कानुत्थितेस्तात्
पर्य्यादिज्ञानसत्त्वे अव्यवधानज्ञानाभावेऽपि शाब्दबुद्धेरानु-
भविकत्वाच्च नव्यास्तु वृत्त्या पदधोजन्यपदार्थोपस्थितिरा-
सत्तिरियञ्च स्वरूपसत्येव हेतुः अत एव त्रिसूत्र्याम्
आसत्तिस्तु यद्यपि स्वरूपसत्येव प्रयोजिका इत्यादिप्रभाक-
रोपाध्यायेनोक्तं न च एतप्या अपि कारणत्वे-
मानाभाव इति वाच्यं तथासति आनयेति वाक्यमा-
कर्ण्णयतः प्रत्यक्षेण घटं पश्यतोघटस्य शाब्दबोधापत्तेः
घटमानयेति वाक्यमाकर्ण्णयतः कारणतया घटपदकारणा
पृष्ठ ०८८२
काशस्मरणवत आकाशस्य शाब्दबोधापत्तेः नचैवं गिरि-
र्भुक्तमग्निमान् देवदत्तेनेत्यादितोगिरिरग्निमान् भुक्तं
देवदत्तेनेत्यन्वयबोधापत्तिरिति वाच्यं तथा तात्पर्य्य-
ग्रहसत्त्वे इष्टापत्तेः कदाचित्तु तत्र तथान्वयबोधस्य
सर्वैरेव इष्टत्वात् नचैवं क्वचिद्योजनायाः कथमुपयोग-
इतिवाच्य तात्पर्य्यग्रहार्थं तदुपयोगितेत्युक्तत्वादिति प्राहुः
अव्यवधानेनान्वयप्रतियोग्युपस्थितिरासत्तिरुक्ता सा च
शाब्दबोधादेव तथा च तस्यापि आसत्तिः कारणं सा च
शाब्दबुद्धिरूपा तस्याञ्च यद्यपरासत्तिः कारणं तदा
अतवस्था फलीभूता चेत् अन्योन्याश्रय इत्यतआह सा चेति
प्रसङ्गादन्वयबोधनिर्वाहकपदजन्यपदार्थोपस्थितिपरिपाटीं
प्रदर्शयितुमाशङ्कते अथेति नव्यास्तु ननु वृत्त्या पद जन्यप-
दार्थोपस्थितिश्चेदासत्तिस्तदा नानाविशेषणकस्थाने कथमन्वय-
बोधः? सर्व्वासां पदार्थोपस्थितीनाम् एकदाऽसम्भवादि-
त्याशङ्कते अथेति इत्याहुः । मेलकं मेलनम् । विशेषणज्ञान-
साध्यत्वादिति विशेषणं पदार्थस्तदुपस्थितिसाध्यत्वात् इत्यर्थः
वृत्त्या पदधीजन्येयादिः । विशिष्टज्ञानस्य शाब्दबोधानुभ-
वस्य । मेलकात् समूहात् एकदैव तावत्पदस्मृतिः न च
सकलपदगोचरस्मरणाभावेऽपि प्रत्येकपदानुभवजनितप्रत्येकपदार्थ-
स्मरणाहितसंस्कारेभ्य एव सकलपदार्थगोचरमनेकं स्मरणं
सम्भवति तथा च सकलपदगोचरैकर्म्मरणपर्य्यन्तानुधा-
वनं विफलमिति वाच्यं प्रकारान्तरेण पदार्थोपस्थितेः
शाब्दबोधाहेतुत्वात् पदज्ञानजन्यत्वोपपत्तये तदनुधावनात्
ननु श्रोत्रेण प्रत्येकपदानुभवोऽपि न सम्भवति तथाहि
आदौ घोत्पत्तिस्ततो द्वितीयकाले घघत्वनिर्विकल्पकोत्पत्तिः
अकारोत्पत्तिश्च अथ तृतीयकाले अकारतत्त्व निर्विकल्पक-
घत्वविशिष्टधीटोत्पत्तिघनाशाः ततश्चतुर्थकाले अत्वविशिष्टधी
टटत्वनिर्विकल्पकाकारनाशचरमाकारोत्पत्तयः इदानीञ्च
घकारभानं न सम्भवति प्रत्यक्षं प्रति विषयस्य हेतुत्वात् ततः
पञ्चमकाले टत्वविशिष्टबोधाकारतत्त्वनिर्विकल्पकटकारनाशाः
इदानीं प्राथमिकाकारभानं न सम्भवति तदभावात् ततः
षष्ठक्षणे अत्वविशिष्टबोधाकारनाशौ इदानीं टकारभानं
न सम्भवति तदभावात् तथा च कथं वर्णसमूहात्मकपद-
गोचरश्रौत्रानुभवः न च पूर्ब्बपूर्ब्बवर्णोपनयसहितान्त्य-
वर्ण्णसन्निकर्षात् श्रौत्रान्भवसम्भव इति वाच्यं
बहिरिन्द्रियजप्रत्यक्षे उपनीतं विशेषणतयैव भासते इति
नियमात् प्रत्येकवर्ण्णसमूहमुख्यविशेष्यकपदप्रत्यक्षस्योपनय-
मर्य्यादया श्रवणसम्भवात् पदप्रत्यक्षे प्रत्येकं सर्वस्य वर्ण्णस्य
मुख्यविशेष्यत्वात् न च पूर्व्ववर्ण्णोऽन्त्यवर्ण्णविशेषणतया
भासत इति वाच्यं पूर्ब्बवर्ण्णेऽन्यवर्ण्णविशेषणत्वनियामकस्य
तत्सम्बन्धस्याभाबात् इति चेत् मैवं घादिसमुदायमात्रं न
घटादिपदं टघादेरपि घटपदत्वापत्तेरपि तु अव्यवहितो-
त्तरत्वसम्बन्धेन पूर्वपूर्ववर्णवदुत्तरोत्तरवर्ण एव पदं तच्च श्रव-
सा न दुर्ग्रहं पूर्ब्बपूर्बवर्ण्णोपनयसहकारेणाव्यवहितोत्तरत्व-
सम्बन्धेन उत्तरोत्तरवर्णविशेषणतया पूर्बपूर्बवर्णग्रहसम्भवात्
वैयाकरणास्तु पूर्ब्बवर्ण्णज्ञानरूपाया उपनयसामग्र्याः सत्त्वे-
ऽपि पूर्ववर्णस्यैवोत्तरवर्णे विशेषणत्वेन भाने नियाम-
काभात् विनिगमनाभावेन अव्यवहितपूर्ब्बत्वसम्बन्धेनैव
उत्तरोत्तरवर्णस्यापि विशेणतया भानस्य र्दुर्वारतया
अत्तशब्दयोस्तुल्यपदत्वापत्तेः तथा च अत्पदोच्चारणे
तपदस्य श्रवसा ग्राह्यत्वापत्तिरित्यतोवर्ण्णसमुदयादन्यः स्फोट-
एव पदमित्याहुः तद्विशेषश्च स्फोटशब्दे वक्ष्यते ।
अत्रायं विशेषः । चिन्तामणिमते शब्दाध्याहारएव
मथुरानाधेन तु आसत्तिग्रन्थशेषे आर्थाध्याहारोऽपीति
व्यवस्थापितम् । यथा “अस्तु वा शब्दाध्यहार एवावश्यक
स्तथापि तज्जन्यपदार्थोपस्थितित्वेन कुतोहेतुत्वं
लाघवात् पदार्थोपस्थितित्वेन हेतुत्वस्योचितत्वात् तथा च
ओदनं पचनीत्यादौ सति तात्पर्य्यग्रहे यथाकथञ्चिदुप-
स्थितकलायादेरप्यन्वयबोध इत्यर्थाध्वाहारपक्ष एव सम्यक्”
“वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः” सा० द० ।
“आसत्तिक्रमेणान्वयः” रघु० ।

आसदन न० आ + सद--ल्युट् । १ प्राप्तौ २ नैकट्यसम्बन्धे च ।

आसन न० आस--ल्युट् । १ स्थितौ “एकत्रासनभोजनैः”

स्मृतिः । २ स्वस्थानस्थितिरूपे राज्ञां षड़्गुणान्तवर्त्तिगुण-
भेदे च । तद्विवृतिराग्नेये । “परस्परस्य सामर्थ्य-
विघातादासनं स्मृतम् । अरेश्च विजिगीषोश्च यानवत्
पञ्चधा स्मृतम्” । यानस्य पश्चविधत्वञ्च । “विगृह्य
सन्धाय तथा संभूयाथ प्रसङ्गतः । उपेक्षया च निपुणैर्यानं
पञ्चविधं स्मृतमिति” तत्रैवोक्तम् । “परस्य स्वस्य सैन्यानां
साम्यं ज्ञात्वा विवक्षणः । आसनं स्वामिने ब्रूयात्
मन्त्री स्वामिहिते रतः इत्युक्ते ३ विजिगोषोर्यात्रानि-
वर्त्तकव्यापारे च । आस्यतेऽत्र आधारे ल्युट् । ४ उपवेशना-
धारे कम्बलाद्यासने । “आसनं वसनं शय्या दारामत्रं
अमण्डलुः । आत्मनस्तु शुचि प्रोक्तं न परेषां कदाचन”
आ० त० पु० । “प्रयत्नमुक्तासनया गृहागतः” रघुः ।
“स्वहस्तदत्ते मनिमासने मुनिः” माघः “कॢप्तासनं कौतुकवे-
पृष्ठ ०८८३
दिमध्यम्” कुमा० “शुचौ दे शे प्रतिष्ठाप्य स्थिरमासनमात्मनः”
गीता “स्थापयेदासने तस्मिन् खिन्नः कार्येक्षणे नृणाम्”
मनुः । “स वासवेनासनसन्निकृष्टम्” “प्राञ्जलिर्जलजासनम्”
कुमा० । ५ देवतापूजाङ्गे उपचारभेदे तद्भेदादि कालि०
पु० । “आसनं प्रथमं दद्यात् पौष्पं दारुजमेव वा । वास्त्रं
वा चार्म्मणं कौशं मण्डलस्योत्तरे सृजेत् । पौष्पासनं यद्वि-
हितं यस्य तद्यदि गर्भकम् । निवेदयेत्तदा पद्मेविपुलं द्वारि
चोत्सृजेत् । पौष्पं पुष्पौघरचितं कुशसूत्रादिसंयुतम् ।
अतिप्रीतिकरं देव्या ममाप्यन्यस्य भैरव! । यज्ञदारुसमु-
द्भूतमासनं मसृणं शुभम् । नोच्छृआयं नातिविस्तीर्णमासनं
विनियोजयेत् । अन्यदारूद्भवञ्चापि दद्यादासनमुत्तमम् ।
सकण्टकं क्षीरयुक्तं दारु सारविवर्जितम् । चैत्यश्मशान
संभूतं वर्जषित्वा विभीतकम् । वाल्कलं कोषजं फालं वस्त्र
मेतत्त्रयं मतम् । रोमजं कम्बलञ्चैव तदनेन चतुष्टयम् ।
अनेन रचितं दद्यादासनं चेष्टभूतये । सिंहव्याघ्रतरक्षूणां
छागस्य महिषस्य च । गजानां तुरगाणाञ्च कृष्णसारस्थ
चर्म्मणा । सृमरस्याथ रामस्य मृगाणां नवभेदिनाम् । चर्म्म
भिः सर्ब्बदेवानामासनं प्रीतिदं स्मृतम् । वास्त्रेषु कम्बल
शस्तमासनं देवतुष्टये । राङ्कवं चार्म्मणं श्रेष्ठं दारवं
चन्दनोद्भवम् । यच्चासनं कुशमयं तदासनमनुत्तमम् । सर्वेषा
मपि देवानामृषीणाञ्च यतात्मनाम् । योगपीठस्य सदृश
मासनं स्थानमुच्यते । आसनस्य प्रदानेन सौभाग्यं भुक्ति
माप्नुयात् । सृमरो रोहितो न्यङ्कुः शंवरो बभ्रुणो
रुरुः । शशेणहरिणाश्चेति मृगा नवविधा मताः ।
हरिणश्चापि विज्ञेयः पञ्चभेदोऽत्र भैरव! । ऋष्यः स्वड्गो
रुरुश्चैव पृषतश्च मृगस्तथा । एते वलिप्रदानेषु चर्म्म-
दाने च कीर्त्तिताः । सर्ब्बेषां तैजसानाञ्च आसनं ज्येष्ठ
मुच्यते । आयसं वर्ज्जियित्वा तु कांस्यं सीसकमेव व ।
शिलामयं मणिमयं तथा रत्नमयं मतम् । आसनं देवता-
भ्यस्तु भुक्त्यै मुक्त्यै समुत्सृजेत् । अत्रैव साधकानाञ्च
आसनं शृणु भैरव! । यत्रासीतः पूजकस्तु सर्ब्बसिद्धि
मवाप्नयात् । ऐणञ्च चार्म्मणं वास्त्रं तैजसञ्च चतुष्टयम् ।
आसनं साधकानाञ्च सततं परिकीर्त्तितम् । पूर्व्वोक्तं
यच्च देवेभ्य आसनं परिकीर्त्तितम् । तत् सर्व्वमासनं शस्तं
पूजाकर्म्मणि साधके । न यथेष्टासनो भृयात् पूजाक-
र्म्मणि साधकः । काष्ठादिकासनं कुर्य्यात् मितमेवं सदा
बुधः । चतुर्व्विंशत्यङ्गुलेन दीर्घं काष्ठासनं मतम् । षोडशाङ्गुल-
विस्तीर्णमुत्सेधेचतुरङ्गुलम् । पञ्चाङ्गुलं वा कुर्य्यात्तु नोच्छ्रितं
चात्र कारयेत् । पूर्व्वोक्तं वर्ज्जयेद्वर्ज्ज्यमासनं पूजनेष्वपि ।
वास्त्रं द्विहस्तान्नो दीर्घं सार्द्धहस्तान्न विस्तृतम् । त्र्यङ्गृ-
लात्तु तथोच्छायं पूजाकर्म्मणि संश्रयेत् । यथेष्टं चार्म्मणं
कुर्य्यात् पूर्व्वोक्तं सिद्धिदायकम् । षडङ्गुलाधिकं कुर्य्यान्नो-
च्छ्रये तु कदाचन । काम्बलं चार्म्मणं चैलं महामायाप्रपू-
जने । प्रशस्तमासनंप्रोक्तं कामाख्यायास्तथैव च । त्रिपुरा-
याश्च सततं विष्णोश्चापि कुशासनम् । बहूच्छ्रायं न चैव स्यात्
तथैव वहुविस्तृतम् । दारु भूमिसनं प्रोक्तमश्मापि सर्व्व-
कर्म्मणि । पृथक् पृथक् कल्पयेच्च शोभनं तादृशासनम् ।
न पत्रमासनं कुर्य्यात् कदाचिदपि पूजने । न प्राण्यङ्गं-
न मुद्भूतमस्थिजं द्विरदादृते । मातङ्गदन्तसञ्जातमासनं
कामिके चरेत् । चर्म्म पूर्व्वोदितं ग्राह्यं तथा गन्धमृगस्य च ।
सलिले यदि कुर्व्वीत देवतानां प्रपूजनम् । तत्राप्यासन
मासीनो नोत्थितस्तु समाचरेत । तोये शिलामयं कुर्य्या-
दासनं कौशमेव वा । दारवं तैजसं वापि नान्यदासन
माचरेत् । आसनारोपसंस्थानस्थानाभावे तु पूजकः ।
आसनं कल्पयित्वा तु मनसा पूजयेज्जले । यद्यासनस्य
संस्थानं तोयमध्ये न बिद्यते । अन्यत्र वा तदा स्थित्वा
देवपूजां समाचरेत् । इत्येतत् कथितं पुत्र! पूज्यपूजक
सङ्गतम्” । आस्यतेऽनेन करणे ल्युट् । ५ देहस्थैर्यसाधने
करचरणादिबन्धभेदरूपे योगाङ्गभेदे “यमनियमासनप्राणा-
यामप्रत्याहारध्यानधारणासमाधयोऽष्टावङ्गानि” विभज्य
“स्थिरसुखमासनम्” पात० सू० लक्षितं तस्य वृत्तिः यथा
“निश्चलं सुखावहं च यदासनं तद्योगाङ्गम् । आस्यतेऽनेने-
त्यासनं तच्च द्विविधम् बाह्यं शारीरं च तत्र चैलाजि-
नकुशोत्तरं बाह्यं, शारीरं पद्मस्वस्तिकादि । तत्र पद्मासनं
प्रसिद्धम् । सव्यमाकुञ्चितचरणम् दक्षिणजङ्घोर्वन्तरे,
दक्षिणं च सव्यजङ्घोर्वन्तरे, निक्षिपेदिति स्वस्तिकासनम् ।
द्वे पादतले वृषणसमीपे संपुटीकृत्य संपुटोपरिपाणिक-
च्छपिकां न्यसेदिति भद्रासनम् । योगपट्टेन सोपाश्र-
यासनम् । जानुप्रसारितवाह्वोःशयनं पर्य्यङ्कासनं क्रौञ्चो-
ष्ट्रगजादिवदुपवेशनं क्रौञ्चाद्यासनं द्रष्टव्यम् ।
आसनस्थैर्य्योपायमाह । “प्रयत्नशौथिल्यानन्तसमापत्तिभ्याम्”
पात० सू० । “स्वाभाविकः प्रयत्नश्चलत्वादासनविघातकः
तस्योपरमेणासनं सिध्यति अनन्ते नागनायके स्थिर-
तरफणासहस्रविधृतविश्वमण्डले चित्तस्य समापत्त्या देहा-
भिमानाभावेनासनदुःखास्फूर्त्तेरासनं सिध्यति । तत्सिद्धि-
लिङ्गमाह । “ततोद्वन्द्वानभिघातः” पात० सृ० । “आसन-
पृष्ठ ०८८४
जयाच्छीतोष्णादिमिरनभिघातो बाधाभावो भवति” वृत्तिः
इदञ्च राजयोगाङ्गं हटयोगाङ्गानि पुनरन्येऽपि वन्धाः-
काशी० उक्ताः यथा “महामुद्रां नभोमुद्रामुड्डीयानं
जलन्धरम् । मूलबन्धन्तु योवेत्ति स योगी योगसिद्धिभाक् ।
शोधनं नाड़िजालस्य घटनञ्चन्द्रसूर्ययोः । रसानां शोषणं
सम्यक् महामुद्राभिधीयते । योनिं वामाङ्घिणापीड्य कृत्वा
वक्षःस्थले हनुम् । हस्ताभ्यां प्रसृतं पादं धारयेद्दक्षिणञ्चि-
रम् । प्राणान् कुक्षौ समापूर्य्य चिरं सञ्चारयेच्छ्वनैः ।
एषा प्रोक्ता महामुद्रा महारोगविनाशिनी । चन्द्राङ्गे तु
समभ्यस्य सूर्य्याङ्गे पुनरभ्यसेत् । या वहुल्या भवेत्
संख्या ततोमुद्रां विसर्जयेत् । न हि पथ्यमपथ्यं वा रसाः
सर्व्वेऽपि नीरसाः । अपि घोरं विषं पीतं पीयूषमिव
जीर्य्यति । क्षयकुष्ठगुदावर्त्तगुल्माजीर्ण्णषुरोगमाः । तस्य
दोषाः क्षयं यान्ति महामुद्राञ्च योऽभ्यसेत् । कपाल-
कुहरे जिह्वा प्रतिष्ठा विपरीतगा । भ्रुवोरन्तर्गता दृष्टि-
र्मुद्रा भवति खेचरी । न पीद्ध्यते स रोगेण न च लिप्येत
कर्म्मणा । बाध्यते न स कालेन यीमुद्रां वेत्ति खेचरीम् ।
चित्तञ्चरति खे यस्माज्जिह्वा चरति खेगता । तेनैषा खेचरी
नाम मुद्रा सिद्धैर्निषेविता । यावद्विन्दुः स्थितोदेहे
तावन्मृत्युभयं कुतः । यावद्बद्धा नभोमुद्रा तावद्विन्दुर्न गच्छति ।
उड्डीनङ्कुरुते यस्मादहोरात्रं महाखगः । उड्डीयानं
ततः प्रोक्तं तत्र बन्धोऽभिधीयते । जठरे पश्विमं जानु-
नाभेरूर्द्धञ्च धारयेत् । उड्डीयानं ह्ययं बन्धोमृत्योरपि
भयं जयेत् । बध्नाति हि शिराजालमधोगामि न भोजनम् ।
एष जलन्धरो बन्धः कण्ठे दुःखौघनाशनः । जलन्धरे कृते
बन्धे कण्ठसङ्कोचलक्षणे । न पीयूषं पतत्यग्नौन च वायुः
प्रधावति । पर्ष्णिभागेन संपीड्य योनिमाकुञ्चयेद्गुदम् ।
अपानमूर्द्धमाकृष्य मूलबन्धोऽभिधीयते । अपानप्राणयो-
रैक्यं क्षये मूत्रपुरीषयोः । युवा भवति वृद्धोऽपि सततं मूलबन्धनात्”।
रुद्रयामलेऽनेकविधान्यासनानि दर्शितानि यथा । “अथा-
सनप्रभेदञ्च शृणुष्व सिद्धिकाङ्क्षिणाम् । यत्र तत्र
पूजकानां सिद्धिरत्र महीतले । अधोमुखासनं नाथ!
सर्वेषां प्राणिनां सुखम् । ऊर्द्ध मार्गेण देवेश! धारयेत्
मारुतं सुधीः । सर्व्वासनानां श्रेष्ठं हि ऊर्द्धपादो हि
यत्चरेत् । तदैव महितां सिद्धिं ददाति वायवी कला ।
पद्मासनं तथा कुर्य्यात्प्राणवायुषु सिद्धये । शुभासनं सदा
ध्यायेत् पूरयित्वा पुनःपुनः । उरुमूले वामपादं पुन-
स्तद्दिक्षणं पदम् । वामोरौ स्थापयित्वा च पद्मासनमिति
स्मृतम् । सव्यापसव्ययोगेन आसनं परिकल्पयेत् । तदैका-
सनकाले तु द्वितीयासनमारभेत् । पृष्ठे पादद्बयं सीम्रि-
वृद्धाङ्गुष्ठद्वयं सुधीः । कायसङ्कोचमाकृत्य धृत्वा बद्धासनं
भवेत् । इति बद्धासनं बद्ध्वा वायुबद्धः पुनःपुनः
चिवुके स्थापवेद्यत्राद्धृदि तेजश्च भास्करे । इत्यासनं हि
सर्व्वेषां प्राणिनां सिद्धिकारणम् । वायुं वशे तु
कुर्य्याद्यः स योगी नात्र संशयः । भावसिद्धिकरं नाथ!
सर्वेषां दृष्टिकारणम् । वामपादतले कुर्य्यात् पादं दक्षिण-
मेव तत् । सव्यापसव्ययोगेन आसनद्वयमेव च । सर्वत्रैवं-
प्रकारञ्च कृत्वा नातीव साधयेत् । शृणुष्वान्यान्यासनानि
द्वात्रिंशत्संख्यकानि च । सव्यापसव्ययोगेन द्विगुणं प्रभ-
वेदिह । चतुःषष्ट्यासनानीह वदामि वायुशीधनात् । द्वा
त्रिंशद्ग्रन्थिभेदेन कल्पयेत् वायुवृद्धये । कार्म्मुकासनमा-
कृत्य उदरे पूरयेत् मुखम् । तदा वायुर्वशं याति कालेन
सूक्ष्मवायुना । बद्धपद्मासनं मन्त्री वेष्टयित्वा प्रधा-
रयेत् । करेणं दक्षिणेनैव वामपादाङ्गुलीतटम् । सव्या
पसव्यद्विगुणं कार्म्मुकासनमेव च । कार्म्मुकद्वययोगेन
शरववद्वायुना नयेत् । कुक्कुटासनमावक्ष्ये नाड़ीनिर्म्मलहेतुतः ।
सत्कुलागममार्गेण कुर्य्यात् वायुनिवेशनम् । निजहस्त-
द्वयं भूमौ पातयित्वा जितेन्द्रियः । पद्भ्यां बद्ध्वा करौ
देव! कर्परद्वयमध्यतः । सव्यापसव्ययुगलं कुक्कुटं ब्रह्मणा-
कृतम् । बद्धं कृत्वा अधःशीर्षं यः करोति खगासनम् ।
खगासनप्रसादेन श्रमलोपोभवेद्रुतम् । पुनःपुनः श्रमा-
देव विषयश्रमलोपकृत् । लोलासनं सदा कुर्य्यात् वायु-
लौल्यापघातनात् । स्थिरवायुप्रसादेन स्थिरचेता भवेद्
द्रुतम् । पद्मासनं समाकृत्य पादयोः सन्धिगह्वरे ।
हस्तद्वयमधोदेशे नियोज्य कुक्कुटाकृति । निजहस्तद्वयं
लग्नं निपात्य हस्तनिर्भरम् । तस्मात् शरीरमुत्याप्य स्थिरप-
द्मासनेऽनिलम् । स्थित्वैतदासने मन्त्री अधःशीर्षं करोति
चेत् । उत्तमं त्वासनं ज्ञेयं योगिनामतिदुर्ल्लभम् ।
एतदागनमात्रेण शरीरं शीतलं भवेत् । पुनःपुनः
शोधनेन चेतना कुण्डली भवेत् । सव्यापसव्ययोगेन
यः करोति पुनःपुनः । पूरयित्वा मूलपद्मे सूक्ष्मवायुं
विकुम्भयेत् । कृत्वा कुम्भकमेवं हि सूक्ष्मवायौ लसद्विधौ ।
मूलादिब्रह्मरन्ध्रान्ते स्थापयेत् गगने पदे । एतत् शुभा-
सनं कृत्वा सूक्ष्मरन्ध्रेष्वशेषतः । सूचीरन्ध्रे यथा सूत्रं
पूरयेत् सूक्ष्मवायुना । एवं क्रमेण षन्मासात् पूरकस्यापि
पृष्ठ ०८८५
लक्षणम् । महासुखं समाप्नोति योगाष्टाङ्गनिषेवणात् ।
अथ वक्ष्येमहादेव! पर्वतासनमुत्तमम् । यत् कुत्वा स्थिर-
रूपःस्यात् षट्चक्रादिविलोड़नः । योन्यासनं सर्व्व-
योगे योगिनामबलम्बनम् । तत्कालं सकलं तावत्
खेचरोयावदेव हि । पादगोष्ठेन चाक्रम्य लिङ्गाग्रं योनियो
जयेत् । अन्यं पादमुरौ दत्त्वा तत्र योन्यासनं भुवि ।
एतन्मध्ये महादेव! बद्धयोन्यासनं शृणु । यत् कृत्वा विचरेत्
योगी पृथिव्यामीश्वरो यथा । कृत्वा योन्यासनं नाथ!
लिङ्गगुह्यादिबन्धनम् । मुखनासानेत्रकर्ण्णं कनिष्ठाङ्गुलि-
भिस्तथा । ओष्ठाधरं कनिष्ठाभ्यामनामाभ्याञ्च नासिके ।
मध्यमाभ्यां नेत्रयुग्मं तर्जनीभ्यामथ श्रुती । एतत् सिद्धा-
सनं नाम योगिनामतिदुर्लभम् । कृत्वा वायुस्तम्भनं च
मूलमारभ्य स्तम्भयेत् । सव्यापसव्ययोगेन सिद्धो भवति
साधकः । शनैःशनैः समारुध्य कुम्भयेच्च प्रपूरयेत् ।
अरुणोदयकालाच्च वसुदण्डेन भैरव! सव्यापसव्ययोयेन-
गृहीत्वा बाह्यगानिलम् । द्वितीयप्रहरे कुर्य्यात् बाह्य-
पूजां मनोरमाम् । एतदासनमाकृत्य सिद्धो भवति
साधकः । अथान्यदासनं वक्ष्ये यत् कृत्वा चामरोभ-
वेत् । मत्साधकः शुचिः श्रीमान् कुर्य्याद्भावाभि
भावितः । भेकनामासनं योग्यं नाथ! वक्ष्यामि तद्गु-
णम् । निधाय पादयुगलं स्कन्धे वाहौ पदोपरि । ध्याये
दिष्टपदं श्रीमान् आसनस्थः सुखाय च । यदि
सर्व्वाङ्गमुत्तील्य गगने खेचरासनम् । महाभेकासनं प्रोक्तं
सर्व्वसिद्ध्विप्रदायकम् । महाविद्या--महामन्त्रं प्राप्नोति
जपतीह यः । एतत् प्रभेदं वक्ष्यामि यः करोति
सचाभरः । एकं पादमुरौ बद्ध्वा स्कन्धेऽन्यपादरक्षणम् । एतत्
प्राणासनं नाम सर्वसिद्धिप्रदायकम् । वायुं मूले
समारोप्य प्रत्याकुञ्च्य प्रसारयेत् । केवलं पादमेकञ्च
स्कन्धे चारोप्य यत्नतः । एकपादेन गगने तिष्ठेत् स दण्ड-
वत् प्रभो! । अपानासनमेतद्धि सर्वेषां पूरकाश्रयम् ।
कृत्वा सूक्ष्मशीर्षपद्मे समारोप्य च वायुभिः । तदा मिद्धो
भवेन्मर्त्यो नात्र कार्य्या विचारणा । प्राणापानासने कृत्वा
मन्त्री योगेश्वरो भुवि । समानासनमावक्ष्ये सिद्धिमन्त्रादिसा-
धनम् । एकं पादमुरौ दत्त्वा गुह्येऽन्यं लिङ्गवक्त्रके ।
एतद्वीरासनं नाथ! समानासनसंज्ञकम् । इत्याकृत्य
जपेन्मन्त्रं धृत्वा वायुं चतुर्दले । कुण्डलीं भाययेन्मन्त्री कोटि
विद्युल्लताकृतिम् । आत्मचन्द्रामृतरसैराप्लुतां योगिनीं
सदा । वीरासनं तु वीराणां योगवायुप्रसाधनम् । योजा-
नाति महावीरः स योगी भवति ध्रुवम् । अथ वक्ष्ये
महाकाल । समानासनसाधनम् । भेदक्रमेण यज्ज्ञात्वा
वीराणामधिपोभवेत् । समानासनमाकृत्य बद्ध्वाङ्गुष्ठं करेण
च । एतेन साधुकारी स्यात् सर्वयोगादिसाधने । आसनं
योहि जानाति वायुना हरणं तथा । कालादीनां निर्ण्णयन्तु
स कदाचित् न नश्यति । कालेन लभ्यते सिद्धिः
कालरूपोमहोज्ज्वलः । साधकैर्योगिभिर्ध्येयः सिद्धवीरासना-
त्मना । अथ वक्ष्ये नीलकण्ठ । ग्रन्थिभद्रासनं शुभम् ।
ज्ञात्वा रुद्रो भवेत् क्षिप्रं सूक्ष्मवायुनिषेवणात् । कृत्वा-
पद्मासनं मन्त्री जङ्घायाः कुहरे करौ । कर्परस्थलपर्य्यन्तं
विभिद्य स्कन्धधारणम् । भित्त्वा पद्मासनं मन्त्री हस्तार्द्धे-
न विपाटयन् । येन शीर्षं भवेन्नम्रं सर्वाङ्गुलिभिराश्रितम् ।
ग्रन्थिभेदासनं कुर्य्यात् खेचरादिप्रदर्शनम् । कृत्वा सूक्ष्म-
वायुलयं परमात्मनि कारयेत् । अथान्यासनमावक्ष्ये-
योगपूर्वकरक्षणात् । कृत्वा पद्मासनं पादाङ्गुष्ठं जङ्घां
हि संस्थितम् । हस्तमेकन्तु जङ्घायां कार्म्मुकं कर्परो
र्द्धकम् । पद्मासने समाधाय अङ्गुष्ठं परिधारयेत् ।
कार्म्मुकासनमेतद्धि सव्यापसव्ययोगतः । पद्मासनं वेष्ट-
यित्वा अङ्गुष्ठं च प्रधारयेत् । यः करोति सदा नाथ!
कार्म्मुकासनमुत्तमम् । रोगादिनाशं शत्रूणां क्षयं नीत्वा
सुखी भवेत् । अथ वक्ष्येऽत्र संक्षेपात् सर्वाङ्गासनमुत्त-
मम् । यत् कृत्वा निपुणो योगी विद्याभिः पण्डितो
भवेत् । अधो निधाय शीर्षञ्च ऊर्द्धपादद्घयञ्चरेत् । पद्मा-
सनं तु तत्रैव भूमौ कर्परयुग्मकम् । दण्डे दण्डे तु यः
कुर्य्यात् श्वासशान्तिपरः सुधीः! नित्यं सर्वासनं हित्वा
न कुर्य्याद्वायुधारणम् । मासेन तस्य सिद्धिः स्यात् सर्व्व-
रोगविनाशनम्” । अन्यान्यप्यामनानि तत्रोक्तानि विस्त-
रान्न दर्शितानि । निर्वाणतन्त्रे जन्तुसंख्यया चतुर-
शीतिलक्षसंख्यकान्यासनान्युक्तानि किन्तु तेषां लक्षणवि-
शेषास्तत्र नोक्ताः तेषां मध्ये द्वयोरेव प्राधान्थमित्यपि
तत्रैवोक्तम् । यथा “आसनानि कुलेशानि! यावन्तोजीव-
जन्तवः । चतुरशीतिलक्षाणि चैकैकंसमुदाहृतम् ।
आसनेभ्यः समस्तेभ्यः साम्प्रतं द्वयमुच्यते । एकं सिद्धासनं
नाम द्वितीयं कमलासनम्” । एषां बहुविधानामासनांनां
मध्ये “सुखेनैव भवेद्यस्मिन्नासने ब्रह्मचिन्तनम् । आसनं
तद्विजानीयादितरत् सुखनाशनम्” इत्यभियुक्तोक्तेः
पातञ्जलोक्तस्य स्थिरमुखस्यैवासनस्य ब्रह्मचिन्तने ग्राह्य-
तेत्येवसेयम् । तन्त्रसारे योगाङ्गासनानि पञ्च सलक्षणान्यु-
पृष्ठ ०८८६
क्तानि यथा “पद्मासनं खस्तिकाख्यं भद्रं वज्रासनन्तथा ।
वीरासनमिति प्रोक्तं क्रमादासनपञ्चकम् । उर्व्वोसपरि
बिन्यस्य सम्यक् पादतले उभे । अङ्गुष्ठौ च निबध्नीयाद्ध-
स्ताभ्यां व्युत्क्रमात्ततः । पद्मासनमिदं प्रोक्तं योगिनां
हृदयङ्गमम् । जानूर्व्वोरन्तरे सम्यक् कृत्वा पादतले उभे ।
ऋजुकायो विशेद्योगी स्वस्तिकन्तत् प्रचक्षते । सीमनि
पार्श्वयोर्न्यस्य गुल्फयुग्मं सुनिश्चलम् । वृषणाधः पार्श्व-
पादौ पाणिभ्यां परिरक्षयेत् । भद्रासनं समुद्धिष्टं
योगिभिः परिकल्पितम् । उर्वोः पादौ क्रमान्न्यस्येत्ताल्वोः
प्रत्यङ्मुखाङ्गुली । करौ निदध्यादाख्यातं वज्रासनमनुत्तमम् ।
एकम्पादमधः कृत्वा विन्यस्योरौ तथेतरम् । ऋजुकायोविशे-
न्मन्त्री वीरासनमितीरितम्” यत्र महामात्रोवसति
तस्मिन् ६ गजस्कन्धदेशे आस्यतेऽनेन आ + अस--कर्म्मणि
ल्युट् । ७ सम्यग् विक्षेपणसाधने । असनएव अण् । ८
असनवृक्षे पु० ९ जीवकवृक्षे पु० । आसनशब्दस्थाने शसादौ
तद्धितयाजादौ च परे आसन्नादेशः इति काशिकादयः
मसोरमायान्तु तत् दूषयित्वा आस्यशब्दस्थाने एव तदादेश
इत्युक्तं यथा “यत्तु आसनशब्दस्य आसन्नादेश इति
काशिकायामुक्तन्तत् प्रामादिकम् “आस्रोवृकस्य वर्त्तिकाम-
भीके” इति मन्त्रे मुखादित्यर्थस्यौचित्यात् “वृकस्य चित्
वर्त्तिकामन्तराणादिति” मन्त्रान्तरसंवादाच्च वाख्यातञ्च
तथैव वेदभाष्ये इति ।

आसनबन्ध पु० आसनार्थो बन्धः । करचरणादीनामन्योन्यबन्धे “निषेदुषीमासनवन्धधीरः” रघुः ।

आसनमन्त्र पु० आसनस्य शुद्ध्यर्थो दानार्थो वा मन्त्रः ।

तन्त्रोक्ते “आधारशक्तिकमलासना य नमः” इत्यादिके तत्तत्प्र-
करणोक्ते १ मन्त्रभेदे २ देवेभ्य आसनदानार्थे मन्त्रभेदे च ।
स च मन्त्रः “पुरुष एवेदं सर्व्वं यद्भूतं यच्च भाव्यम् ।
उतामृतस्येशानो यदन्नेनाभिरोहति” श्रौतः । “शेष-
मञ्चं महादिव्य फणामणिसहस्रकम् । कोटिसूर्य्यप्रती-
काशं गृहाणासनमीश्वर!” इति पौराणिकश्च ।
एवग्रन्योऽपि तत्तत्कल्पोक्तो ज्ञेयः । आसनपरिग्रहार्थे
३ मन्त्रं च “आसनमन्त्रस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः
कूर्म्मोदेवता आसनपरिग्रहे विनियोगः” तन्त्रसा० ।

आसना स्त्री आस--युच् । १ स्थितौ २ उपवेशने ।

आसनादि पु० आसनमादिर्यस्य । मन्त्रोक्ते पूजाङ्गे

आसनप्रभृतौ उपचारगणे “आसनं स्वागत पाद्यमर्घमाचम-
नीयकम्” उपचारशब्दे निवृतिः ।

आसनी स्त्री आस--आधारे ल्युट् ङीप् । १ विपणौ

२ मर्य्यादायाञ्च मेदि० ।

आसन्द पु० आसीदत्यस्मिन् प्रलयकाले आ + सद्--अब्दादि० नि० । वासुदेवे मेदि० ।

आसन्दी स्त्री आसद्यतेऽस्याम् आ + सद--अब्दादि० नि० गौरा०

ङीष् । १ उपवेशनयोग्ये आसनयन्त्रे (केदारा)
२ क्षुद्रखट्टायाम् (क्ॐच) । ३ सभामध्ययेदिकायाम्
“औदम्बरीमासन्दीं नाभिदघ्नामरत्निमात्रामुताहरन्ति”
कात्या० ७, २७ । ४ उक्तलक्षणायां पीठिकायाञ्च । आसन्दी-
शब्दस्य निरुक्तिरपि शत० ब्रा० दर्शिता । “इयं वा
आसन्दी अस्यां हीदं सर्व्वमासन्नम् तस्मादस्मा
आसन्दीमाहरन्ति” इति । स्वल्पार्थे कन् । क्षुद्रास-
नयन्त्रभेदे स्त्री । “जाम्बूनदमयीमासन्दिकाम्” काद० ।
आसन्दी + अस्त्यर्थे मतुप् मध्वा० मस्य वः । आसन्दीयुक्ते
त्रि० स्त्रियां ङीप् । “आसन्दीवान् ग्रामभेदः” सि० कौ० ।

आसन्न त्रि० आ + सद--क्त । १ निकटस्थे, २ उपस्थिते च ।

“आसन्नपतने कूले कूलं पिपतिषतीति” शा० भा० ।
३ सन्निधानयुक्ते ४ सम्यक्स्थिते च “सर्वमत्रासन्नमिति”
शत० ब्रा० । ६ शाब्दबोधसाधनासत्तियुक्तेवाक्ये “आसन्ना-
नासन्नविभागव्याघातः” शब्दचिन्ता० । ५ मुमूर्षौ च ।

आसन्नकाल पु० आसीदत्यस्मिन् काले आ + सद--आधारे क्त

कर्म्म० । मृत्युकाले ।

आसन्य पु० आस्ये भवः यत् आसन्नादेशः । मुखभवे

मुखान्तर्विलस्थे मुख्ये प्राणे “अथ हैनमासन्यं प्राण-
मूचुः” शत० ब्रा० ।

आसन्वत् त्रि० आस्यसमानार्थकः आसन्शब्दोऽस्ति ततः

अस्त्यर्थे मतुप् । आस्ययुक्ते समुखे । “यद्भूतं यच्च
भाव्यभासन्वत्तेन ते चारये विषम्” अथ० ६, १२, २ ।

आसमञ्ज पु० असमञ्ज एव स्वार्थे अण् । सूर्य्यवंश्ये

सगरपुत्रे क्षत्रियभेदे ।

आसम्बाध त्रि० समन्तात् संबाधा यत्र । सङ्कीर्ण्णस्थाने

परस्परसंघर्षणेन क्लिष्टे । “आसम्बाधा भविष्यन्ति पन्थानः
शरवृष्टिभिः” रामा० ।

आसव पु० आसूयते आ + सू--कर्म्मणि अण् । १ अभिषव-

णीये मद्ये (चोयानमद) तल्लक्षणादि भावप्र० । “यच्च
पक्वौषधाम्बुभ्यां सिद्धं मद्यं स आसवः । आसवस्य
वीजद्रव्यगुणैर्ज्ञेयागुणाःःसमाः” नवपुराणमद्ययोर्गुणास्तत्रैव ।
“मद्यं नवमभिष्यन्दि त्रिदोषजनकः परम् । अकृच्छ्रं
वृंहणं ग्राहि दुर्गन्धं विशदं गुरु । जीर्ण्णं तदेव रोचिष्ण
कृमिश्लेष्मानिलापहम् । हृद्यं सुगन्धि गुणवल्लघु श्रम-
पृष्ठ ०८८७
विशोधनम्” । सात्विकादिपानकर्त्तृभेदेन चेष्टाविशेषाश्च
तत्रोक्ताः “सात्विकोगीतिहास्यादि राजसो साहसादिकम् ।
तामसो निन्द्यकर्म्माणि निद्रां च मदिरां चरन्” । चरन्
पिबन् कुर्य्यादिति शेषः । “विधिना मात्रया काले हितै
रन्यैर्यथाबलम् । प्रहृष्टोयः पिबेन्मद्यं तस्य स्यादमृतं
यथा । किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम्”
सुश्रुते तु मद्यभेदेन गुणविशेषादिकमुक्तं यथा
“सर्व्वं पित्तकरं मद्यमम्लं दीपनरोचनम् । भेदनं
कफवातघ्नं हृद्यं वस्तिविशोधनम् । पाके लघु विदाह्युष्णं
तीक्ष्णमिन्द्रियबोधनम् । विकाशि सृष्टविण्मूत्रं शृणु
तस्य विशेषकम् । मार्द्वीकमविदाहित्वान्मधुरान्वयतस्तथा ।
रक्तपित्तेऽपि सततं बुधैर्न प्रतिषिध्यते । मधुरं तद्धि
रूक्षञ्च कषायानुरसं लघु । लघुपाकि सरं शोथविषम-
ज्वरनाशनम् । मार्द्वीकाल्पान्तरं किञ्चित् खार्जूरं
वातकोपनम् । तदेव विशदं रुच्यं कफघ्नं कर्शनं लघु ।
कषायमधुरं हृद्यं सुगन्धीन्द्रियबाधनम् । कासार्शो-
ग्रहणीदोषमूत्राघातानिलापहा । स्तन्यरक्तक्षयहिता
सुरा वृंहणदीपनी । कासार्शोग्रहणीश्वासप्रतिश्यायविना-
शिनी । श्वेता मूत्रकफस्तन्यरक्तमांसकरी सुरा । छर्द्य-
रोचकहृत्कुक्षितोदशूलप्रमार्दनी । प्रसन्ना कफवातार्शो-
विबन्धानाहनाशिनी । पित्तलाल्पकफा रूक्षा
यवैर्य्यातप्रकोपणी । विष्टम्भिनी सुरा गुर्वी श्लेष्मला तु
मधूलिका । रूक्षा नातिकफा वृष्या पाचनी चाक्षिकी स्मृता ।
त्रिदोषो भेद्यवृष्यश्च कोहलो वदनप्रियः । ग्राह्युष्णो-
ऽजगलः पक्ता रूक्षस्तृट्कफशोफहृत् । हृद्यः प्रवाहि-
काटोपदुर्नाभानिलशोषहृत् । वक्वसो हृतसारत्वा-
द्विष्टम्भी वातकोपनः । दीपनः सृष्टविण्मूत्रो
विशटोऽल्पमदो गुरुः । कषायो मधुरः शीधुर्गौडः पाचन
दीपनः । शार्करो मधुरो रुच्यो दीपनो वस्तिशोधनः ।
वातघ्नो मधुरः पाके हृद्य इन्द्रियबोधनः । तद्वत् पक्व-
रसः शीधुर्वलवर्णकरः सरः । शोफघ्नो दीपनो हृद्यो
रुच्यः श्लेष्मार्शसां हितः । कर्शनः शीतरसिकः श्वयथूदर-
नाशनः । वर्णकृज्जरणः स्वर्य्यो विबन्धघ्नोऽर्शसां हितः ।
आक्षिकः पाण्डुरोगघ्नोव्रण्यः संग्राहको लघुः ।
कषायमधुरः शीधुः पित्तघ्नोऽसृक्प्रसादनः । जाम्बवो
बद्धनिस्यन्दस्तुवरो वातकोपनः । तीक्ष्णः सुरासवो हृद्यो
मूत्रलः कफवातनुत् । मुखप्रियः स्थिरमदो विज्ञेयोऽ-
निलनाशनः । लघुर्मध्वासवश्छेदी मेहकुष्ठविषापहः ।
तिक्तः कषायशोफघ्नस्तीक्ष्णः स्वादुरवातकृत् । तीक्ष्णः
कषायो मदकृद्दुर्नामकफगुल्महृत् । कृमिमेदोऽनिलहरो
मैरेयो मधुरो गुरुः । बल्यः पित्तहरो वर्ण्यो मृद्वी-
केक्षुरसासवः । शीधुर्मधूकपुष्पोत्थो विदाह्यग्निबलप्रदः ।
रूक्षः कषायकफहृद्वातपित्तप्रकोपणः । निर्दिशेद्रसत-
श्चान्यान् कन्दमूलफलासवान् । नवं मद्यमभिस्यन्दि गुरु
वातादिकोपनम् । अनिष्टगन्धं विरसमहृद्यञ्च विदाहि
च । सुगन्धि दीपनं हृद्यं रोचिष्णु कृमिनाशनम् ।
स्फुटस्रोतस्करं जीर्णं लघु वातकफापहम् । अरिष्टो
द्रव्यसंयोगसंस्कारादधिको गुणैः । बहुदोषहरश्चैव दोषा-
णां शमनश्च सः । दीपनः कफवातघ्नः सरः पित्त-
विशोधनः । शूलाघ्मानोदरप्लीहज्वराजीर्ण्णार्शसां हितः ।
पिप्पल्यादिकृतो गुल्मकफरोगहरः स्मृतः । चिकि-
त्सितेषु वक्ष्यन्तेऽरिष्टा रोगहराः पृथक् । अरिष्टास-
वशीधूनां गुणान् कर्म्माणि चादिशेत् । बुद्ध्या यथास्वं
संस्कारमवेक्ष्य कुशलो भिषक् । सान्द्रं विदाहि दुर्गन्धं
विरसं कृमिलं गुरु । अहृद्यं तरुणं तीक्ष्णमुष्णं दुर्भा-
जनस्थितम् । अल्पौषधं पर्य्युषितमत्यच्छं पिच्छिलञ्च
यत् । तद्वर्ज्यं सर्व्वदा मद्यं किञ्चिच्छेषन्तु यद्भवेत् ।
तत्र यत् स्तोकसम्भारं तरुणं पिच्छिलं गुरु । कफप्रकोपि
तन्मद्यं दुर्जरञ्च विशेषतः । पित्तप्रकोपि बहुलं तीक्ष्ण-
मुष्णं विदाहि च । अहृद्यं फेनिलं पूति कृमिलं विरसं
गुरु । तथा पर्य्युषितञ्चापि विद्यादनिलकोपनम् । सर्व्व-
दोषैरुपेतन्तु सर्वदोषप्रकोपणम् । चिरस्थितं यातरसं
दीपनं कफवातजित् । रुच्यं प्रसन्नं सुरभि मद्यं सेव्यं
मदावहम् । तस्यानेकप्रकारस्य सद्यस्य रसवीर्य्यतः ।
सौक्ष्म्यादौष्ण्याच्च तैक्ष्ण्याच्च विकाशित्वाच्च वह्निना । समेत्य
हुदयं प्राप्य धमनीरूर्द्ध्वमागतम् । विक्षोभ्येन्द्रियचेतांसि
वीर्य्यं मदयतेऽचिरात् । चिरेण श्लेष्मिके पुंसि पानतो
जायते मदः । अचिराद्वातिके दृष्टः पैत्तिके शीघ्रमेव तु ।
सात्विके शौचदाक्षिण्यहर्षमण्डनलालसः । गीताध्ययन
सौभाग्यसुरतोत्साहकृन्मदः । राजसे दुःखशीलत्वमात्म-
त्यागं ससाहसम् । कलहं सानुबन्धन्तु करोति पुरुषे
मदः । अशौचनिद्रामात्सर्य्यागम्यागमनलोलताः ।
असत्यभाषणञ्चापि कुर्य्याद्धि तामसे मदः । रक्तपित्तकरं
शुक्तं छेदि भुक्तविपाचनम् । वैस्वर्य्यं जरणं श्लेष्मपाण्डु-
क्रिमिहरं लघु । तीक्ष्णोष्णं मूत्रलं हृद्यं कफघ्नं
कटुपाकि च । तद्वत्तदासुतं सर्वं रोचनञ्च विशेषतः । गौड़ानि
पृष्ठ ०८८८
रसशुक्तानि मधुशुक्तानि यानि च । यथापूर्व्वं गुरुतराण्य-
भिस्यन्दकराणि च । तृषां तु दीपनं हृद्यं हृत्या-
ण्डुकृमिरोगनुत् । ग्रहण्यर्शोविकारघ्नं भेदि सौवीरकं
तथा । धान्याम्लं धान्ययोनित्वाद्दीपनं दाहनाशनम् ।
स्पर्शात्पानात्तु पवनकफतृष्णाहरं लघु । तैक्ष्ण्याच्च निर्ह-
रेदाशु कफं गण्डूषधारणात् । मुखवैरस्यदौर्गन्ध्यमल-
शोषक्लमापहम् । दीपनं जरणं भेदि हितमास्थापनेषु
च । समुद्रमाश्रितानाञ्च जनानां सात्म्यमुच्यते ।”
स्मृतौ तु जातिभेदेन मद्यविशेषपाननिषेधार्थं मद्य-
विभागादि दर्शितं यथा प्रा० वि० मनुहारीतयमैः ।
“सुरा वै मलमन्नानां पाप्मा च मलमुच्यते । तस्माद्ब्राह्मण
राजन्यौ वैश्यश्च न सुराम्पिबेत्” । तथा च श्रुतिः “सुरा
वै मलमन्नानामनृतं पाप्मतमंसुरेति” । यद्यप्यन्नशब्दःशूक-
धान्यतण्डुलविकारविशेष ओदने प्रसिद्धस्तथापि बहुतर
वचनात् पिष्टयवान्नादिविकारमपि लक्षयति । तेनान्न-
विकारविशेषोमदहेतुः सुरा इत्युच्यते । अत्रिः । “गौड़ी-
पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा । यथैवैका तथा
सर्व्वा न पातव्या द्विजोत्तमैरिति” त्रिविधैव सुरेति
पनसादिविकारव्यावृत्तस्य त्रितयस्यानुगतस्यैकस्य प्रवृत्तिनिमि-
त्तस्याभावात् न पानक्रियाव्याप्यत्वम् इतरव्यावर्त्तकधर्म्मश्च
महापातकहेतुपानकर्मत्वमुपाधिः सुराज्ञानाधीनं
महापातकं तज्ज्ञानाधीनञ्च सुराज्ञानम् इतरेतराश्रयापत्तेः-
पुलस्त्यवचनविरोधाच्च यथा पुलस्त्यः । “पानसं द्राक्षं माधूकं
खार्ज्जूरं तालमैक्षवम् । माक्षिकं टाङ्कं माध्वीकमैरेयं नारि-
केलजम् । समानानि विजानीयान्मद्यान्येकादशैव तु ।
द्वादशन्तु सुरा मद्यं सर्वेषामधमं स्मृतम्” । अनेनैकादशानां
सुरात्वं निषेधति । मद्यशब्दस्तु मदहेतुद्रवद्रव्यमात्र-
वचनः अस्मादेव वचनात् न तु मद्यमात्रं सुराशब्दस्यार्थः
तथा च वृहस्पतिः । “गौड़ीं माध्वीं सूरां पैर्ष्टी पीत्वा-
विप्रः समाचरेत् । तप्तकृच्छ्रं पराकञ्च चान्द्रायणमनुक्र-
मात्” । त्रयाणां सुरात्वे क्रमेण प्रायश्चित्तत्रयं न स्यात् ।
तथा भविष्ये “सुरा पैष्टी तु मुख्योक्ता न तस्यश्चेतरे समे” ।
पैष्टीति तण्डुलविकारमात्रोपलक्षणम् । इतरे गौड़ी-
माध्व्यौ । अतो अन्नविकार एव सुराशब्दस्य मुख्यत्वात्
त्रिविधा सुरेति गौड़ीमाध्व्योर्गौणसुरात्वज्ञापनार्थम् तेनै-
तत्पानेऽपि महापातकत्वमतिदिशति यथैवैका तथा सर्वेति
पैष्ट्यां पूर्ब्बप्रसिद्धिं दर्शयति यथा पैष्टी सुरा तथा सर्व्वा
गौड़ी माध्वी च । पूर्ववचनोक्तापि पैष्टी दृष्टान्तत्वेनात्र-
दर्शिता । न पातव्या द्विजोत्तमैर्ब्राह्मणैरित्यर्थः ।
त्रैवर्ण्णिकपरत्वे उत्तमपदानर्थक्यात् । न तु बहुवच-
नानर्थक्यपरीहारार्थमुत्तमप्रातिपादिकानर्थक्यं युक्तं
बहुवचनस्य सजातीयोपस्थापकत्वेन चरितार्थत्वात् । अतो
ब्राह्मणस्य त्रिविधसुरापानं महापातकम् । “क्षत्रियवैश्य-
योस्तु” सुरा वै मलमन्नानामिति वचनेन पैष्ट्येवेति स्थितम्
गोविन्दराजविश्वरूपवीरेश्वराणामयमनुमतोऽर्थः । अत
एव “एवं माध्वी च गौड़ी च पैष्टी च त्रिविधा सुरा ।
द्विजातिभिर्न्नपातव्या कदाचिदपि कर्हिचित्” इतिमनुवच-
नेऽपि द्विजातिपदं ब्राह्मणपरमेव । अतएव द्विविधसुरा-
पाने क्षत्रियादीनां महापातकं तावदस्तु दोषाभावमेवाह
वृद्धयाज्ञल्क्यः । “कामादपि हि राजन्योवैश्यो वापि
कथञ्चन । मद्यमेवासुरां पीत्वा न दोषं प्रतिपद्यते” तदेवं पैष्टी
निषेधस्त्रैवर्ण्णिकानाम् गौडीमाध्वीनिषेधस्तु ब्राह्मणस्यैव
ननु ब्राह्मणराजन्याविति कर्तृविशेषणं पुंलिङ्गं तत्र विवक्षि-
तम् अतः कथं व्राह्मण्याः सुरापानं महापातकम् उच्यते
निषिध्यमानक्रियायाविधेयत्वेन तत्कर्त्तुरनुपादेयत्वात्त
द्विशेषणं लिङ्गमविवक्षितम् हविरुभयत्ववत् । अतस्त-
ज्जातिस्त्रीणामपि पाननिषेधः । तथा च भविष्ये
“तस्मान्न पेयं विप्रेण सुरामद्यं कथञ्चन । ब्राह्मण्यापि न
पेया वै सुरा पापभयावहा” । “यद्व्राह्मणी सुरापी स्यान्न तां
देवाः पतिलोकं नयन्तीति” श्रुतिः । “पतत्यर्द्धशरीरेण
भार्य्या यस्य सुरां पिबेत् । पतितार्द्धशरीरस्य निष्कृतिर्नो-
पपद्यते” । न चैवं क्षत्रियवैश्यस्त्रीणामनिषेधः ब्राह्मणी-
पदस्य निषिद्धसुरापानकर्त्तभार्य्योपलक्षकत्वात् “भार्य्या यस्य
सुरां पिबेदिति सामान्यश्रवणाच्च ।
वेदविहितः मद्यसवनप्रकारस्तु सौत्रामणीशब्दे वक्ष्यते ।
“यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम् । तत्ब्राह्म-
णेन नात्तव्यं देवानामश्नता हविः” मनुः । “अनासवाख्यं
करणं मदस्य” कुमा० । “नानासवपात्रसङ्घुलम्”
काद० । “मुखं लालाक्लिन्नं पिबति चषकं सासवमिव”
शान्तिश० । “संविदासवयोर्मध्ये संविदैव गरीयसी”
तन्त्र० । भावे घञ् । २ मद्यादेरभिषवे (मदचोयान)
आसूयतेऽत्र आधारे घञ् । ३ अभिषवपात्रे । आ +
सूप्रसवे अच् । ६ प्रसवकर्त्तरि त्रि० । “देवस्य सवितुर्मति-
मासवं विश्वदेव्यम्” श्रुतिः ।

आसवद्रु पु० आसवस्य (ताड़ी) मद्यभेदस्य कारणं द्रुः शाक० त० । तालवृक्षे ।

आसवनीय त्रि० आ + सु--कर्म्मणि अनीयर् । अभिषवणीये-

पृष्ठ ०८८९

आसा स्त्री आ + सो--अङ् । अन्तिके निरु० “पितुर्न यस्या-

सया” ऋ० १, १२७, ८, “आसया अन्तिकेन” भा० । तस्य
क्लीवत्वमपि । “आ न इन्द्रो दूरादासात्” ऋ० ४, २०, १,
“आसादन्तिकादिति” भा० ।

आसादन न० आ + सद--णिच्--ल्युट् । १ सन्निधापने, २ स्थापने

“कृत्वोत्तरपरिग्रहादि करोत्याज्यासादनात्” कात्या० ६, २, ५,
आश्वला० शब्दे उदा० ३ आसन्नतासम्पादने ४ मर्द्दने च
“वयमासादने तस्य दर्पमद्य हरेमहि” भा० स० २० अ० ।

आसादित त्रि० आ + सद--णिच्--क्त । १ निकटीकृते २ प्राप्ते च

“आसादितप्रकटनिर्म्मलचन्द्रहासः” सा० द० ३
आयोजिते ४ सन्निधापिते ५ सम्पादिते ६ कामकेलिपरे च ।

आसाद्य त्रि० आ + सद--णिच्--यत् । प्राप्ये “अभूदनासाद्यम-

धिज्यधन्वनः” रघुः । २ निकटीकार्य्ये ३ अवसादं प्रापणीये
आ + सद--णिच्--ल्यप् । ४ प्राप्येत्यर्थे अव्य० ।

आसार पु० आ + सृ--घञ् । १ धारासम्पाते २ वेगवृष्टौ, “त्वामा-

सारप्रशमितबनोपप्लवं साधु मूर्ध्ना” । “पुष्पासारैः स्नपयतु
भवान् व्योमगङ्गाजलार्द्रैः” मेघदू० “आसारसिक्तक्षिति-
वाष्पयोगात्” रघुः । ३ प्रसरणे, ४ सैन्यानां सर्व्वतो व्याप्तौ
च । ५ करणे घञ् । सुहृद्बले । ६ द्वादशराजमण्डलमध्ये
नृपभेदे । द्वादशराजमण्डलञ्चाग्नेये दर्शितम् यथा
“आत्ममण्डलमेवात्र प्रथमं मण्डलं भवेत् । समन्तात्तस्य
विज्ञेया रिपवो मण्डलस्य तु । उपेतस्तु सुहृत् ज्ञेयः
शत्रुमित्रमतः परम् । मित्रमित्रमतो ज्ञेयं मित्रमित्र
रिपुस्ततः । एतत् पुरस्तात् कथितं पश्चादपि निबोध मे ।
पार्ष्णिग्राहस्ततः पश्चात् तत आक्रन्द उच्यते । आसारस्तु
ततोऽन्यः स्यादाक्रन्दासार उच्यते । जिगीषोः शत्रुयु-
क्तस्य विमुक्तस्य तथा द्विज! । तत्रापि निश्चयः शक्योवक्तुं
मनुजपुङ्गव! निग्रहानुग्रहे शक्तोमध्यस्थः परिकीर्त्तितः ।
निग्रहानुग्रहे शक्तः सर्वेषामपि यो भवेत् । उदासीनः
स कथितो बलवान् पृथिवीपतिः । मण्डलं तव संप्रोक्त
मेतत् द्वादशराजकम्” । ६ षड़्विंशरगणैः रचिते
दण्डदच्छन्दोभेदे च ।

आसाव्य त्रि० आ + सु--ण्यत् । अभिषवणीये मद्यादो ।

आसिक पु० असिः प्रहरणमस्य ठक् । खड्गेन युद्धकारके

आसिका स्त्री पर्य्यायेणासनम् आस--पर्य्याये ण्वुल् । पर्य्या-

येण उपवेशने । “उष्ट्रासिकाः सुप्यन्ते” पात० भा० ।

आसिक्त त्रि० ईषत् सम्यक् वा सिक्तः आ + सिच--क्त । १ ईषत्

सिक्ते २ सम्यक्सिक्ते च ।

आसित न० आस + भावे--क्त । १ उपवेशने । आसधातौ

उदा० । आधारे क्त । उपवेशनाधारे स्थाने ।
आसितस्य मुनेरपत्यं शिवा० अण् । असितमुनेरपत्ये स च
शाण्डिल्यगोत्रे प्रवरः ।

आसिधार न० असिधारा इवास्त्यत्रऽण् । युवा युवत्या सार्द्धं

यत् मुग्धभर्त्तृवदाचरेत् । अन्तर्निवृत्तनद्धः स्यात् आसिधार-
व्रतं हि तत्” इति यादवोक्ते व्रतभेदे “अभ्यस्यतीव व्रत-
मासिधारम्” रघुः ।

आसिद्ध त्रि० आ + सिध--क्त । राजाज्ञया वादिना कृतावरोधे

प्रतिवादिनि “नासिद्धस्तं विलङ्घयेत्” नार० ।

आसिनासि पुंस्त्री आसिरिव तीक्ष्णाग्रा नासा यस्य असिनासः

मुनिभेदस्तस्यापत्यम् इञ् । तदपत्ये ततः युवापत्ये फक्
तौल्व० न लुक् । आसिनासायनः तत्पौत्रे ।

आसिबन्धकि पु० असिबन्धकस्यापत्यम् इञ् । असिबन्धका-

पत्ये ततः युपापत्ये फक् तस्य तौल्व० न लुक् ।
आसिबन्धकायनः तत्पौत्रे ।

आसीन त्रि० आस + शानच् । उपविष्टे आसधातौ उदा०

आसीनप्रचलायित न० आसीनेन उपविष्टेनैव प्रचलवत्

आचरितम् प्रचल--क्यच् भावे क्त । उपविश्य निद्रावशेन
प्रचलनरूपे (वसेढोला) दोलने ।

आसुत् त्रि० आ + सु--क्विप् । कृताभिषवे । तस्येदम् गहा०

छ । आसुतीयः । तत्संबन्धिनि त्रि० ।

आसुति स्त्री आ + सु--क्तिन् । सोमादिनिष्पीड़ने १ अभिषवे,

२ मद्यनिष्पादने(चोयान) इति ख्याते मद्यपाके च । “परिष्कृ-
तस्य रसिन इयमासुतिश्चारुर्मदाय” ऋ० ८, १, २६ । आ + सु--
प्रसवे क्विप् । ३ प्रसवे । “योनाविन्द्र! क्षुध्यद्भ्योवय आसुतिं
दाः” ऋ० १, १०४, ७ । आसुतेः सन्निकृष्टदेशादि चतुरर्थ्यां
मध्वा० मतुप् । आसुतिमत् तद्वति त्रि० स्त्रियां ङीप् ।

आसुतीवल पु० आसुतिरस्त्यस्य बलच् दीर्घः । १ शौण्डिके ।

२ सोमाभिषवशालिनि याज्ञिके च ।

आसुर त्रि० असुरस्येदम् अण् । असुरसंबन्धिनि । “आसुरं

तद्भयेत्तोयं पीत्वा चान्द्रायणञ्चरेत्” स्मृतिः “कुलाल-
चक्रनिष्पन्नमासुरं मृण्मयं स्मृतम् । तदेव हस्तघटितं
स्थाल्यादि दैविकं भवेत्” कात्या० स्मृ० । तेन (मालसा)
प्रभृतिमृण्मयस्य हस्तघटितत्वेन ग्राह्यताऽन्येषां
त्वग्राज्यता । स्त्रियां ङीप् । “आसुरी रात्रिरत्यत्र तस्मातां
परिवर्जयेत्” स्मृतिः । २ असुरवदाचारयुक्ते तदाचारश्च
गीतायामुक्तोयथा ।
पृष्ठ ०८९०
“द्वौ भूतसर्गौ लोकेऽस्मिन् दैवआसुरएव च । दैवोविस्त-
रशः प्रोक्तआसुरं पार्थ मे शृणु । प्रवृत्तिञ्च निवृत्तिञ्च
जना न विदुरासुराः । न शौचं नापि चाचारंन सत्यं
तेषु विद्यते । असत्यमप्रतिष्ठन्ते जगदाहुरनीश्वरम् ।
अपरस्परसम्भूतं किमन्यत् कामहेतुकम् । एतां दृष्टिमवष्टभ्य
नष्टात्मानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्म्माणः क्षयाय
जगतोऽहिताः । काममाश्रित्य दुष्पृरं दम्भमानमदान्विताः ।
मोहाद्गृहीत्वाऽसद्ग्राहान् प्रवर्त्तन्तेऽशुचिव्रताः । चिन्ता-
मपरिमेयाञ्च प्रलयान्तामपाश्रिताः । कामोपभोगपरमाएता-
वदिति निश्चिताः । आशापाशशतैर्बद्धाः कामक्रोधपरा-
यणाः । ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ।
इदमद्य मया लब्धमिदं प्राप्स्ये मनोरमम् । इदमस्तीदमपि
मे भविष्यति पुनर्धनम् । असौ मया हतः शत्रुर्हनिष्ये
चापरानपि । ईश्वरोऽहमहं भोगी सिद्ध्वोऽहं बलवान्
सुखी । आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो
मया । यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ।
अनेकचित्तविभ्रान्तामोहजालसमावृताः । प्रसक्ताः
कामभोगेषु पतन्ति नरकेऽशुचौ । आत्मसम्भाविताः स्तब्धा
धनमानमदान्विताः । यजन्ते नाम यज्ञैस्ते दम्भेनाविधिपूर्ब्ब-
कम् । अहङ्कारं बलं दर्पं कामं क्रोधञ्च संश्रिताः ।
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः । तानहं द्विषतः
क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभास्वा-
सुरीष्वेव योनिषु । आसुरीं योनिमापन्ना मूढा जन्मनि
जन्मनि । मामप्राप्यैव कौन्तेय! ततोयान्त्यधमां गतिम् ।
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा
लोभस्तस्मादेतत्त्रयं त्यजेत् । एतैर्विमुक्तः कौन्तेय!
तमोद्वारैस्त्रिभिर्नरः । आचरत्यात्मनः श्रेयस्ततोयाति परां
गतिम् । यः शास्त्रविधिमुत्सृज्य वर्त्तते कामचारतः ।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् । तस्माच्छास्त्रं
प्रमाणन्ते कार्य्याकार्य्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधा-
नीक्तं कर्म्म कर्त्तुमिहार्हसि” ।
३ असुरवत् कर्त्तव्ये विवाहभेदे पु० । स च “ब्राह्मोदैवस्तथै-
वार्षः प्रजापत्यस्तथासुर” इति विभज्य “पैशाचश्चासुरश्चैव
न कर्त्तव्यो कदाचन” इति निषिध्य “ज्ञातिभ्योद्रविणं दत्त्वा
कन्यायं चैव शक्तितः । कन्याप्रदानं स्वाच्छन्द्यादासुरोधर्म
उच्यते” इति मनुना लक्षितः । ब्राह्मादिविवाहेषु प्रशस्त
पुत्रलाभरूपफलमुक्त्वा “इतरेषु च शिष्टेषु नृशंसानृतवा-
दिनः । जायन्ते दुर्विवाहेषु ब्रह्मधर्म्मद्विषः सुताः” । अन-
न्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा । निन्दितर्निन्दिता
नृणां तस्मान्निन्द्यान् विवर्जयेत्” । “कुविवाहैः क्रियालोपै
वदानध्ययनेन च कुलान्यकुलतां यान्ति ब्राह्मणातिक्र-
मेण च” इति मनुना तस्य निन्दा कृता “आसुरोद्रविणदानात्”
या० स्मृ० । आसुरादिविवाहस्तु कर्त्तव्यीह्यग्निसाक्षिकः”
इत्युक्तेः तत्राप्यग्न्याधानं कार्य्यमेव “आसुरादिविवाहेषु
पितृगामि भवेद्धनम्” स्मृतिः “अप्रजस्त्वीधनं भर्त्तुर्ब्रा-
क्ष्यादिषु चतुर्ष्वपि । दुहितॄणां प्रसूता चेच्छेषेषु पितृ-
गामि तत्” या० स्मृ० । “शेषेष्वासुरगान्धर्वराक्षसपैशा-
चेषु भार्य्यात्वं प्राप्तायाः” इति मिता० । दायभागकृता तु
तत्तद्विवाहकालेषु दत्तंधनमिति व्याख्यातम् । ४ राजसर्षपे
(राइसरिषा) स्त्री राजनि० । ५ विड्लवणे न० । स्वार्थे अण् ।
६ असुरे । “तस्मादप्यस्येहाददानमश्रद्दधानमयजमानमाहु-
रासुरोवतेति” छा० उ० उक्ते ७ अयजनशीले अयजनादि-
कर्त्तृत्वादस्यासुरत्वम् । अतएव मनुना “अयज्वनां हि
यद्वित्तमासुरखं तदुच्यते इति” तद्द्रव्यस्यासुरधनत्वमु-
क्तम् । ततश्च शास्त्रानभ्यनुज्ञातविषयभोगहेतुरागप्रधाना,
वैदिकनिषेधातिक्रमेण स्वभावसिद्धरागद्वेषानुसारिसर्व्वानर्थ-
हेतुप्रवृत्तिहेतुभूता च राजसी प्रवृत्तिः आसुरी प्रकृतिः ।
आसुरी सम्पत्तु असुरमणहेतुभूता रजस्तमोमयी सम्पद्
सा च अशुभवासनासन्ततिजन्या तल्लिङ्गं तु “दम्भोदर्पो-
ऽभिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य
पार्थ! । सम्पदमासुरीम्” गीतोक्तम् । “दैवी सम्पद् विमो-
क्षाय निबन्धायासुरी मता” गीता ८ छेदात्मकचिकित्साभेदे
स्त्री शब्दच० ।

आसुरस्व न० ६ त० । “अयज्वनान्तु यद्द्रव्यमासुरस्वं

तदुच्यते” इति मनूक्ते अयाज्ञिकधने ।

आसुरायण पु० आसुरेरपत्यं युवा फक् । आसूरेर्युवगोत्रापत्ये

स च शुक्लयजुःसम्प्रदाय प्रवर्त्तक “आसुरायणाच्च
यास्कादासुरायणः” शत० ब्रा० “आसुरेरुपसंख्यानम्”
वार्त्ति० उक्तेः स्त्रियां ष्फे षित्त्वात् ङीष् । आसुरायणी ।

आसुरि पु० तत्त्वज्ञानोपदेशेन अस्यति संसारम्

असउरच् असुरः कपिलस्तस्य छात्रः इज् । साङ्ख्ययो-
गाचार्य्ये कपिलशिष्ये ऋषिभेदे । “एतत्पवित्रमग्य्रं मुनि-
रासुरयेऽनुकम्प्रया प्रददौ । आसुरिरपि पञ्चशिखाय तेन
बहुधा कृतं तन्त्रम्” सा० का० । सएव प्रत्यहं तर्पणी-
यर्षिगणे पठितः । “सनकश्च सनन्दश्च तृतीयश्च सनातनः ।
कपिलश्चासूरिश्चैव वोढुः पञ्चशिखस्तथेति “तर्पणे स्मृतिः ।
पृष्ठ ०८९१
युवापत्ये तु फक् तस्य तौल्व० न लुक् । आसुरिः तत्पुत्रः
आसुरायणः तत्पौत्रः स च यजुर्वेदसंप्रदायप्रवर्त्तकः
आसुरायणशब्दे उदा० ।

आसुरिवासिन् पु० आसुरौ तत्समीपे वसति णिनि ।

आसुरिमुनेरन्तेवासिनि प्राश्नीपुत्रे शुक्लयजुःसंप्रदाय
प्रवर्त्तके ऋषिभेदे । “प्राश्नीपुत्रात् आसुरिवासिनः
प्राश्नीपुत्रः” शत० व्रा० ।

आसेक पु० आ + सिच--घञ् । जलादिना १ वृक्षादेरीषत्सेचने २ सम्यक्सेके च ।

आसेक्य पु० आसेकमर्हति यत् आ + सिच--ण्यत् वा । “पित्रोस्तु

तुल्यवीर्य्यत्वादासेक्यः पुरुषो भवेत् । स शुक्रं प्राश्य
लभते ध्वजोन्नतिमसंशयम्” इति वैद्यकोक्ते नपुंसकभेदे ।
ध्वजोन्नतये तस्य जन्मोत्तरं शुक्रसेकयोग्यत्वात् तथात्वम् ।

आसेचन त्रि० न सिच्यते तृष्यति मनोऽत्र आधारे ल्युट्

असेचनः स्वार्थेऽण् । १ यद्दर्शने मनो न तृष्यति तस्मिन्
मन आनन्दविशेषहेतौ पदार्थे । स्वार्थेकन् । तत्रैव ।
“नयनयुगासेचनकम्” सा० द० । रायमुकुटस्तु असेचनैत्ये-
वाह । आ + सिच--भावे ल्युट् । २ सम्यक्सेके न० ।
“तस्य सर्पिरासेचनं कृत्वा” शत० ब्रा० । करणे ल्युट् ।
३ आसेचनसाधने पात्रे । “या पात्राणि पूष्ण
आसेचनानि” ऋ० १, १६ २, १३ । ४ तादृशे क्षुद्रपात्रे स्त्री ङीप् ।

आसेदिवस् त्रि० आ + सद--कृसु । १ निकटागते २ प्राप्ते च ।

स्त्रियां ङीप् वस्योत्त्वम् इटोनिवृत्तिश्च । आसेदुषी ।

आसेद्धृ त्रि० आ + सिध--तृच् । व्यवहारे राजाज्ञया

प्रतिवादिनो गत्यादिरोधकर्त्तरि वादिनि स्त्रियां ङीप् ।
आसेधशब्दे उदा० ।

आसेध पु० आ + सिध--भावे घञ् । व्यवहारे राजाज्ञया वादि-

ना प्रतिवादिनः स्थानान्तरगत्याद्यवरोधे” तत्कालप्रका-
रभेदादिः मिता० नारदेनोक्तः । “वक्तव्येऽर्थे ह्यतिष्ठन्तमुत्-
क्रामन्तञ्च तद्वचः । आसेधयेद्विवादार्थी यावदाह्वा
नदर्शनम् । स्थानासेधः कालकृतः प्रवासात् कर्म्मण-
स्तथा । चतुर्बिधःस्यादासेधो नासिद्धस्तं विलङ्घयेत् ।
आसेघकाल आसिद्धः आसेधं योऽतिवर्त्तते । स
विनेयोऽन्यथा कुर्व्वन्नासेद्धा दण्डभाग् भवेत् । नदीसन्तार
कान्तारदुर्द्देशोपप्लवादिषु । आसिद्धस्तं परासेधमुत्-
क्रामन्नापराध्नुयात् । निर्वेष्टुकामोरोगार्थो यियक्षुर्व्य-
सने स्थितः । अभियुक्तस्तथान्येन राजकार्य्योद्यतस्तथा ।
गवां प्रचारे गोपालाः शस्यावापे कृषीवलाः । शिल्पिन-
श्चापि तत्कालमायुधीयाश्च विग्रहे” । नासेद्धव्याइति शेषः

आसेवन न० सम्यक् सेवनम् । १ सततसेवने २ पौनःपुन्ये च ।

“निसस्तपतावनासेवने” पा० । “आसेवनं पौनःपुन्यम्”
सि० कौ० ।

आसेवा स्त्री आ + सेव--अ । १ पौनःपुत्ये “पौनःपुन्य-

मासेवा” सि० कौ० । २ सम्यक्सेवायाञ्च ।

आसेवित त्रि० आ + सेव--क्त । १ सम्यक्सेविते २ पौनःपुन्येन

सेविते च भावे क्त । ३ आसेवायां न० । ततः इष्टा० इनि ।
आसेवितिन् । आसेवनकर्त्तरि त्रि० स्त्रियां ङीप् ।

आस्कन्द पु० आ + स्कन्द--घञ् । १ उत्प्लवने २ आक्रमणे

३ संशोषणे ४ तिरस्कारे घोटकानामास्कन्दिताख्ये ५ गतिभेदे

आस्कन्दन न० आस्कद्यतेऽत्र आधारे ल्युट् । १ युद्धे भावे

ल्युट् । २ तिरस्कारे ३ आक्रमणे “चरणास्कन्दननामिताच-
लेन्द्रः” किरा० । ४ अश्वगतिभेदे च ।

आस्कन्दित आ + स्कन्द--स्वार्थे णिच्--क्त आस्कन्दोजातोऽस्य

तारका० इतच् वा । १ अश्वानां गतिभिदे स च पञ्च-
विधः तल्लक्षणमुक्तं हेमचन्द्रेण । “गतयः पञ्च धारास्थास्तु-
रङ्गाणां क्रमादिमाः । तत्र धौरितकं धौर्य्यं धोरणं
धोरितञ्च तत् । बभ्रुकङ्कशिखिक्रोड़गतिवद् वल्गितं
पुनः । अग्रकायसमुल्लासात् कुञ्चिताग्रं नतत्रिकम् ।
प्लुतं तु लङ्घनं पक्षिमृगयोरनुहारकम् । उत्तेजितं
तेरितं स्यात् मध्यवेगेन या गतिः । उत्तेरितमुपकण्ठ-
मास्कन्दितमित्यपि । चतुर्भिश्च पदैः कोपादिव उत्प्लु
त्य या गतिः” । संज्ञायां स्वार्थे वा कन् । तत्रैव । तार०
इतच् । २ आस्कन्दनयुक्तमात्रे त्रि० ।

आस्क्र त्रि० आ + क्रम--ड वेदे नि० सुट् । आक्रामके “आनो-

विश्वा आस्क्रा गमन्तु देवाः” ऋ० १, १८३, २ । “आस्क्राः
शत्रूणामाक्रमितारः” भाष्यम् ।

आस्त त्रि० आ + अस + विक्षेपे क्त । सम्यक्क्षिप्ते ।

आस्तर पु० आ + स्तॄ--कर्मणि अप् । १ हस्तिपृष्ठस्थकम्बले (झुल)

इति ख्याते । २ विस्तरणीये कटादौ “वासो वल्कलमास्तरः
किसलयः” शा० श० । भावे अप् । ३ सुविस्तारे

आस्तरण न० आस्तीर्य्यते कर्म्मणि ल्युट् । १ आस्तीर्य्यमाणे

कटादौ “दिवास्तरणसंकीर्ण्णे विस्तीर्ण्णे गमर्नोत्तमे” । “दर्भा-
स्तरणमास्तीर्य्य” भा० प० २५० अ० । २ आस्तरण
पट्याम् स्त्री ङीप् । मावे ल्युट् । ३ विस्तारे । “निवेशनं
पुनर्नवीकृत्य लेपनास्तरणोपस्तरणैः” आश्व० गृ० । आस्तरणे
दीयते कार्य्यं वा व्युष्टा० अण् । ४ आस्तरणे दीयमाने
५ तत्र कार्य्ये च त्रि० ।
पृष्ठ ०८९२

आस्तरणिक त्रि० आस्तरणं प्रयोजनमस्य ठक् । आस्तरण-

साधने वस्त्रादौ । “अथास्तरणिकं सर्वं घृताक्तं समवेशयन्”
रामा० । तस्येदम् वृद्धत्वात् छ । आस्तरणीय आस्तरण
सम्बन्धिनि त्रि० ।

आस्तायन त्रि० अस्तीत्यव्ययम् अस्ति + विद्यमानस्य सन्निकृष्ट-

देशादि पक्षा० फक् । विद्यमानसन्निकृष्टदेशादौ ।

आस्तार पु० आस्तीर्य्यते आ + स्तॄ--घञ् । १ विस्तार्य्ये २ विस्तारे च

आस्तारपङ्क्ति स्त्री कर्म्म० । वैदिके छन्दोभेदे सा च सर्व्वानु०

कात्या० दर्शिता यथा “पञ्चमं पङ्क्तिः पञ्चपदा । अथ
चतुष्पदाद्या विराट् दशका । अयुजौ जागतौ ततोवृहत्यौयुजौ
तद्विपरीताद्यौ चेत् प्रस्तारपङ्क्तिरन्त्यौ चेदास्तारपङ्क्तिरा-
द्यन्त्यौ चेत् संस्तारपङ्क्तिर्मध्यमौ चेद्विष्टारपङ्क्तिः” ।

आस्ताव पु० आस्तुवन्त्यत्र आ + स्तु + आधारे घञ् । यज्ञे

स्तोतॄणां १ स्तवनाधारे देशे । “तत्रोद्गातॄनास्तावे स्तो-
ष्यमाणानुपोपविवेश” छा० उ० । “उद्गातॄन् उद्गातृपुरु-
षान् आगत्य आस्तुवन्त्यस्मिन्निति आस्तावस्तस्मिन्ना-
स्तावे” भा० । “उदञ्चोगत्वाऽऽस्तावचात्वालशामि-
त्रान् उदङ्मुखोनभोऽसंमृष्टः” द्राह्यायणः ।
“उदङ्मुखास्तिष्ठन्तः ततः आस्तावदेशं चात्वालं शामित्रं च
स्तुत्यादिभिर्मन्त्रैर्यथाक्रममुपतिष्ठेरन्” ताण्ड्यब्रा० भा० ।
“वहिर्वेद्यास्तावे वा स्थापयेयुः” आश्व० श्रौ० । भावे
घञ् । २ सम्यक्स्तवे ।

आस्तिक त्रि० अस्ति परलोक इति मतिर्यस्य ठक् । १ परलोका-

स्तित्ववादिनि “आस्तीत्युक्त्वा गतो यस्मादास्तिकस्तेन
कथ्यते” इति निरुक्तसंज्ञके जरत्कारमुनिसुते २ मुनिभेदे
आस्तिकोत्पत्तिकथा आस्तीकशब्दे वक्ष्यते । “आस्तिकस्य
मुनेर्माता भगिनी वासुकेस्तथा जरत्कारमुनेः पत्नी
मनसादेवि ते नमः” मनसाप्रणाममन्त्रः ।

आस्तिकार्थद पु० आस्तिकायार्थं ददाति दा--क । जनमे-

जये राजनि शब्दच० ।

आस्तिक्य न० आस्तिकस्य भावः ष्यञ् । आस्तिकत्वे

परलोकाभ्युपगन्तृत्वे “माहात्म्यमपि चास्तिक्यं सत्यं शौचं
दयार्जवम् । विद्वद्भिः कथ्यते लोके पुराणैःकविसत्तमैः ।
भा० आ० १ अ० । “भावितैः करणैः पूर्व्वमास्तिक्या-
च्छ्रुति दर्शनात्” भा० व० ८५ अ० । “आस्तिक्यशुद्धभ-
वतः प्रियधम्मर्धर्म्मम्” किरा० ।

आस्तीक पु० वासुकिभगिन्यां जरत्कारुनाम्न्यां जरत्का-

रुमुनेःपुत्रे मुनिभेदे तदुत्पत्तिकथा यथा ।
“तत्र तां भैक्षकत्कन्यां प्रादात्तस्मै महात्मने । नागेन्द्रो
वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्लत । अस्वनामेति वै मत्वा
भरणे चाविचारिते । मोक्षभावे स्थितश्चापि द्वन्दभूतः
परिग्रहे । ततो नाम स कन्यायाः पप्रच्छमृगुनन्दन! ।
वासुकिं भरणं चास्या न कुर्य्यामित्युवाच ह । भा०
आ० ४६ अ० । “सौतिरुवाच । वासुकिस्त्वब्रवीद्वाक्यं
जरत्कारुमृषिं तदा । सनाम्नी तव कन्येयं स्वसा
मे तपसाऽन्विता । भरिष्यामि च ते भार्य्यां प्रतीच्छेमां
द्विजोत्तम । रक्षणञ्च करिष्येऽस्याः सर्वशक्त्या तपोधन! ।
त्वदर्थं रक्ष्यते चैषा मया मुनिवरोत्तम! । ऋषिरुवाच ।
न भरिष्येऽहमेतां वै एष वै समयः कृतः । अप्रियञ्च न
कर्त्तव्यं कृते चैनां त्यजाम्यहम् । सौतिरुवाच । प्रतिश्रुते
तु नागेन भरिष्येभगिनीमिति । जरत्कारुस्तदा वेश्म
भुजगस्य जगाम ह” इत्युपक्रम्य । “उत्सङ्गेऽस्याः शिरः कृत्वा
सुष्वाप परिखिन्नवत् । तस्मिंश्च सुप्ते विप्रेन्द्रे सविताऽस्त-
मियाद्गिरिम् । अह्नः परिक्षये ब्रह्मंस्ततः साऽचिन्तय-
त्तदा । वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी ।
किन्नु मे सुकृतं भूयाद्भर्त्तुरुत्थापनं न वा । दुःखशीलो
हि धर्म्मात्मा कथं नास्यापराध्नुयाम् । कोपो वा धर्म्म-
शीलस्य धर्म्मलोपोऽथवा पुनः । धर्म्म लोपो गरीयान्वै
स्यादित्यत्राकरोन्मतिम् । उत्थापयिष्ये यद्येनं ध्रुवं कोपं
करिष्यति । धर्म्मलोपो भवेदस्य सन्ध्याऽतिक्रमणे ध्रु-
वम् । इति निश्चित्य मनसा जरत्कारुर्भुजङ्गमा । तमृषिं
दीप्ततपसं शयानमनलोपमम् । उवाचेदं वचः श्लक्ष्णं
ततो मधुरभाषिणी । उत्तिष्ठ त्वं महाभाग! सूर्य्योऽस्त-
मुपगच्छति । सन्ध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रत! ।
प्रादुष्कृताग्निहोत्रोऽयं मुहूर्त्तो रम्यदारुणः । सन्ध्या
प्रवर्त्तते चेयं पश्चिमायां दिशि प्रभो! । एवमुक्तः स भगवान्
जरत्कारुर्म्महातपाः । भार्यां प्रस्फुरमाणौष्ठ इदं
वचनमब्रवीत् । अवमानः प्रयुक्तोऽयं त्वया भम भुजङ्गमे! ।
समीपे ते न वत्स्याभि गमिष्यामि यथागतम् । शक्तिरस्ति
न वामोरु! मयि सुप्ते विभावसोः । अस्तं गन्तुं यथाकाल
मिति मे हृदि वर्त्तते । न वाऽप्यवमतस्येह वासो रोचेत
कस्यचित् । किं पुनर्द्धर्मशीलस्य मम वा मद्विधस्य वा ।
एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम् । अब्रवीद्भगिनी
तत्र वासुकेः सन्निवेशने । नावमानात्कृतवती तवाहं
विप्रबोधनम् । धर्म्मलोपो न ते विप्र! स्यादित्ये तन्मया
कृतम् । उवाच भार्यामित्युक्तो जरत्कारुर्म्महातःपा ।
पृष्ठ ०८९३
ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजङ्गमाम् । न मे
वागनृतं प्राह गमिष्येऽहं भुजङ्गमे! समयो ह्येष मे पूर्ब्बं
त्वया सह मिथः कृतः । सुखमस्म्युषितो भद्रे! ब्रूयास्त्वं
भ्रातरं शुभे! । इतो मयि गते भीरु! गतः स भगवानिति ।
त्वं चापि मयि निष्क्रान्ते न शोकं कर्त्तुमर्हसि । इत्युक्ता
साऽनवद्याङ्गी प्रत्युवाच मुनिं तदा । जरत्कारुं
जरत्कारुश्चिन्ताशोकपरायणा । वाष्पगद्गदया वाचा मुखेन
परिशुष्यता । कृताञ्जलिर्व्वरारोहा पर्यश्रुनयना ततः ।
धैर्यमालम्ब्य वामोरूर्हृदयेन प्रवेपता । न मामर्हसि
धर्मज्ञां परित्यक्तुमनागसम् । धर्मे स्थितां स्थितो धर्मे
सदा प्रियहिते रताम् । प्रदाने कारणं यच्च मम तुभ्यं
द्विजोत्तम! । तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुकिः ।
मातृशापाभिभूतानां ज्ञातीनां मम सत्तम! । अपत्यमी-
प्सितं त्वत्तस्तच्च तावन्न दृश्यते । त्वत्तोह्यपत्यलाभेन ज्ञा-
तीनां मे शिवं भवेत् । संप्रयोगो भवेन्नायं मम
मोघस्त्वया द्विज! । ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये ।
इममव्यक्तरूपं मे गर्भमाधाय सत्तम! । कथं त्यक्त्वा महात्मा
सन् गन्तुमिच्छस्यनागसम् । एवमुक्तस्तु स मुनिर्भार्य्यां
वचनमब्रवीत् । यदुक्तमनुरूपञ्च जरत्कारुं तपोधनः ।
अस्त्ययं सुभगे! गर्भस्तव वैश्वानरोपमः । ऋषिः परमध-
र्म्मात्मा वेदवेदाङ्गपारगः । एवमुक्त्वा स धर्मात्मा जरत्का-
रुर्महानृपिः । उग्राय तपसे भूयो जगाम कृतनिश्चयः” ।
“ततः प्रववृधे गर्भो महातेजा महाप्रभः । यथा सोमो
द्विजश्रेष्ठ! शुक्लपक्षोदितो दिवि । अथ काले तु सा ब्रह्मन्!
प्रजज्ञे भुजगस्वसा । कुमारं देवगर्भाभं पितृमातृभयाप-
हम् । ववृधे स तु तत्रैव नागराजनिवेशने । वेदांश्चाधि-
जगे साङ्गान् भार्गवाच्च्यबनान्मुनेः । चीर्ण्णव्रतो बाल एव
बुद्धिसत्त्वगुणान्वितः । नाम चास्याभवत् ख्यातं लोकेष्वा-
स्तीक इत्युत । अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव
तम् । वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम्” ।
भा० आ० ४७ अ० “यो जरत्कारुणा जातो जरत्कारौ
महायशाः । आस्तीकः सर्पसत्रेवः पन्नगान् योऽभ्यरक्षत ।
तं स्मरन्तं महाभागा! न मां हिंसितुमर्हथ । सर्पापसर्प-
भद्रं ते गच्छ सर्प! महाविष! । जनमेजयस्य यज्ञान्ते
आस्तीकवचनं स्मर । आस्तीकस्य वचः श्रुत्वा यः सर्पो न
निवर्त्तते । शतधा भिद्यते मूर्ध्नि शिंशवृक्षफलं यथा” तत्रैव ।
“आस्तीकस्य कवेः साधोः सुश्रूषापरमास्तिनः” भा०
आ० १५ अ० आस्तीकमधिकृत्य कृतोग्रन्थः अण् । २ आस्ती-
कचरिताख्यापके भारतान्तर्गते अवान्तरपर्व्वभेदे । “पौष्यं
पौलोममास्तीकमादिवंशावतारणम्” भा० आ० १ अ० ।
“आयुष्मानिदमाख्यानमास्तीकं कथयामि ते” भा० आ०
१५ अ० । आस्तीके भोजयेद्राजन्! दद्याच्चैव गुड़ौदनम्
भा० स्वर्गा० प० ६ अ० ।

आस्तीकजननी स्त्री ६ त० । मनसादेव्यां वासुकिभगिन्यां जरत्कारुमुनिपत्न्याम् ।

आस्तीर्ण्ण त्रि० आ + स्तृ--क्त । विस्तीर्ण्णे कृतप्रसारणे

“आस्तीर्ण्णतल्परचितावसथः क्षणेन” माघः । “आस्तीर्ण्णाजि-
नरत्नासु” रघुः ।

आस्तृत त्रि० आ + स्तृ--क्त । विस्तीर्ण्णे

आस्तेय स्त्री अस्तीत्यव्ययंतत्रविद्यमाने भवः “दृतिकुक्षी-

त्यादि०” पा० ढक् । विद्यमानपदार्थभवे ।

आस्त्र त्रि० अस्त्रस्येदम् अण् । अस्त्रसम्बन्धिनि । “त्वं त्यमिन्द्र-

त्यमास्त्रबुध्नाय वेन्यम्” ऋ० १०, १७१, ३ । “आस्त्रबु-
ध्नाय अस्त्रस्वस्वन्धिमुखतुल्यमूलाय” भा० ।

आस्था स्त्री आ + स्था--अङ् । १ आलम्बने, २ अपेक्षायां,

३ श्रद्धायां, ४ स्थितौ, ५ यत्ने “६ आदरे च “अनास्थया
सूनकरप्रसारिणीम्” नैष० । “स्त्री पुमानित्यनास्थैषा”
“अनास्था बाह्यवस्तुषु” इति च कुमा० । “मर्त्येष्वा-
स्थापराङ्मुखः” “पिण्डेष्वनास्था खलु भोतिकेषु” रघुः ।
“कास्थाभेकेऽस्मिन् तव राम! रामे” भट्टिः । आधारे
अङ् । ७ सभायाम् आस्थाने ।

आस्थान न० आस्थीयतेऽत्र आ + स्था आधारे ल्युट् । १

सभायाम् “तदीयमास्थाननिकेतनाजिरम्” किरा० “राजा-
नमास्थानमण्डपगतम्” काद० । २ विश्रामस्थाने ।
आस्थानीत्यपि सभायाम् । टित्त्वात् ङीप् । आस्था
नीधूर्त्तः सभाधूर्त्तः । भावे ल्युट् । ३ आस्थायां
४ श्रद्धायाञ्ज न० ।

आस्थापन न० आ + स्था--णिच्--पुक् ल्युट् । १ सम्यक्स्थापने ।

करणे ल्युट् । २ सुश्रुतोक्ते व्रणोपक्रमणीयवस्तिभेदे च ।
“द्विविधोवस्तिः नैरूहिकः स्नैहिकश्च । आस्थापनं
निरूह इत्यनर्थान्तरम् । “सदोषनिर्हरणात् शरीररोग
हरणाद्वा निरूहः वयःस्थापनादायुःस्थापनाद्वास्थापनम्”

आस्थापित त्रि० आ + स्था + णिच्--पुक् क्त । सम्यक् स्थापिते

आचितादिपाठात् अस्यान्तोदात्ततान ।

आस्थायिका स्त्री आ + स्था--धात्वर्थनिद्देशे ण्वुल् स्त्रीत्वात्

टापि अत इत्त्वम् । १ आस्थाने आस्थितौ । “जनकोह वैदेह
आसाञ्चके छा० उ० भाष्ये “आसाञ्चक्रे आस्थायिकां दत्त-
पृष्ठ ०८९४
वानितित्युक्तम् कर्त्तरि ण्वुल् । आस्थावकः २ आस्थान-
कर्त्तरि त्रि० । स्त्रियां टाप् अत इत्त्वम् ।

आस्थित त्रि० आ + स्था--क्त । १ अवस्थाने २ प्राप्ते ३ आरूढे

“एकं स्यन्दनसास्थितौ” रघुः । ३ आश्रिते च ।

आस्थिति आ + स्था--क्तिन् । १ कृतास्थायां २ तात्पर्य्येण वर्त्तने च ।

आस्थेय त्रि० आ + स्था--कर्म्मणि यत् । अवलम्ब्ये । “नह्येषा

बुद्धि रास्थेया” रामा० । “यत्नान्तरमास्थेयम्” काशिका ।

आस्नात त्रि० आ + स्ना--कर्त्तरि क्त । कृतस्नाने कृतावगाहने

आस्नान त्रि० आ + स्ना--भावे ल्युट् । प्रक्षालनेन शुद्धौ ।

“आस्नाने तां नि दध्मसि” अथ० १४, २, ६५ ।

आस्नेय त्रि० आस्ये भवः ढक् आसन्नादेशः अतोलोपः । आस्यभवे ।

आस्पद न० आ + पद--घ सुट् च । १ प्रतिष्ठायाम्, २ पदे, ३ स्थाने,

“ध्यानास्पदं भूतपतेर्विवेश” स्तनद्वयेऽस्मिन् हरिचन्दना-
स्पदे “सरागमस्या रशनागुणास्पदम्” इति च कुमा० ।
“तदास्पदं श्रीर्युवराजसंज्ञितम्” । रघुः “व्योम्नीव भ्रुकु-
टीच्छलेन वदने केतुश्चकारास्पदम्” माघः ४ कृत्ये, ५ प्रभुत्वे च
६ अवलम्बने ७ विषये च । “निधनता सर्व्वापदामास्प-
दम्” किरा० । “तस्मात् केवलप्रकृतास्पदा तुल्य
योगितेति” माघस्य ५, २१ व्या० मल्लि० । ८ अवस्थाने
उपगृह्यास्पदञ्चैव” मनुः । ९ लग्नावधिदशमस्थाने ।
“कर्म्मस्थानञ्च दशमं मेसूरणमास्पदं खञ्च” ज्योतिषम् ।

आस्पन्दन न० आ + स्पन्द--ल्युट् । १ ईषत्कम्पने ईषच्चलने

आस्पात्र न० आस्यरूपं पात्रं पृ० । आस्यरूपे पात्रे “आस्-

पात्रं जुहूर्देवानामिति” शत० ब्रा० १, ४, २, १३ । “आस्यरूपं
पात्रआस्पात्रम्” भा० ।

आस्फाल पु० आ + स्फल--चाले णिच्--अच् स्फुल + घञ्

स्फालादेशः वा । १ चालने २ हस्तिकर्ण्णचालने हारा०

आस्फालन न० आ + स्फल--चाले--णिच्--ल्युट् । १ ताड़ने

२ चालनेच । “ऐरावतास्फालनकर्कशेन” कुमा० सुरद्विपास्फा-
लनकर्कशाङ्गुलौ” “ऐरावतास्फालनविश्लथं यः” “आसां
जलास्फालनतत्पराणाम्” रघुः । अनवरतधनुर्ज्यास्फा-
लनेति” शकु० । “एलालतास्फालनलब्धगन्धः” माघः ।
३ आटोपे ४ प्रागल्भ्ये च ।

आस्फालित त्रि० आ + स्फल + णिच्--क्त । १ चालिते २ आघट्टिते

३ ताड़िते च । “अजस्रमास्फालितवल्लकीगुणः” माघे पाठान्तरम्

आस्फुजित् पु० अस्फुलति आ + स्फुल--बा० डु तं जयति

जिक्विप् । शुक्राचार्य्ये । “शुक्रोभृगुर्भृगुसुतः सित आस्फु-
जिच्च” ज्यो० त०

आस्फोट पु० आ + स्फुट--णिच्--कर्त्तरि अच् । १ अर्कवृक्षे

शब्दरत्ना० २ नवमल्लिकायां स्त्री । ३ शूरादेर्वाहुशब्दे
(ताल् ठोका) ३ संघर्षणजातशब्दमात्रे “लाङ्खूलास्फोट-
शब्दाच्च चालितः स महागिरिः भा० व० १३ अ० ।

आस्फोटक च० आ + स्फुट--णिच्--ण्वुल् । (आखरोट)

१ प्रसिद्धे पर्व्वतपीलुभेदे २ बाहुशब्दकारके त्रि० ।

आस्फोटन न० आ + स्फुट--णिच्--भावे ल्युट् । १ प्रकाशने

२ वाह्वादेः शब्दकरणे “आस्फोटननिनादांश्च बालानां
खेलतां तथा” रामा० । ३ शूर्पादिना धान्यादेस्तुषादि
निरमने (आच्डान) व्यापारे च । “कुञ्चनास्फोट-
नाध्मानवेपथुव्यथनैः” सुश्रु० ।

आस्फोटनी स्त्री आस्फोट्यते विदार्य्यतेऽनया अ + स्फुट--णिच्-

करणे ल्युट् स्त्रीत्वात् ङीप् । (तुरपिन) वेधनास्त्रे ।

आस्फोटित न० आ + स्फुट--णिच्--भावे क्त । वाह्वादेः शब्दे

२ प्रकाशने च । कर्म्मणि क्त । विदलिते त्रि० ।

आस्फोत पु० आ + स्फुट--अच् पृषो० टस्य तत्वम् । १ अर्कवृक्षे

२ कोविदारवृक्षे, ३ पलाशवृक्षे च “आस्फोतजातिकरवीर-
पत्रैः” सुश्रु० । स्वार्थे कन् । आस्फोतकोऽर्कवृक्षे ।

आस्फोता स्त्री आ + स्फुट--अच् पृषो० । १ अपराजितायां,

सा च द्विविधा श्वेतपुष्पी नीलपुष्पी च तयोर्गुणपर्य्यायौ
भावप्र० “आस्फीता गिरिकर्ण्णी च विष्णुक्रान्ताऽपरा-
जिता । अपराजिते कटुके शोते कण्ठसुहृष्टिके ।
कुष्ठगूल्मत्रिदोषामशोथज्वरविषापहे । कषाये कटुपाके च
सुतिक्ते स्मृतिबुद्धिदे । २ सारिवायाम् (हापरमाली)
लताभेदे च ।

आस्माक त्रि० अस्माकमिदम् अस्मद् + इदमर्थेऽण् अस्मा-

कादेशः । अस्मत्सम्बन्धिनि । स्त्रियां ङीप् । “रामादि-
तादात्म्याङ्गीकारे चास्माकीं सिद्धान्तशय्यामधिशय्य”
सा० द० ।

आस्माकीन त्रि० अस्माकमिदम् खञ् अस्माकादेशः । अस्मत्सम्बन्धिनि ।

आस्य न० अस्यते ग्रासोऽत्र + अस--आधारे ण्यत् । १ मुखे

“तदास्यदास्येऽपि गतोऽधिकारिताम्” नैष० । “तं हि
स्वयंभूः स्वादास्यात्” यस्यास्येन सदाश्नन्ति” “पाण्यास्योहि
द्विजः स्मृतः” “नित्यमास्यं शुचि स्त्रीणाम्” इति च मनुः ।
२ तन्मध्ये च । शसादौ तद्धितयाजादौ अस्य स्थाने
वा आसन्नादेशः । तदादेशपक्षे आस्ये भवः आसन्यः
यथा च अस्यैव आसन्नादेशस्थानिता तथासनशब्दे ८८६
पृष्ठे उक्ता । आस्ये भवः यति वा नासन्नादेशः यलोपः ।
३ मुखभवे त्रि० । “तुल्यास्यप्रयत्नम्” पा० आस्ये भवमास्यं
ताल्वादिस्थानम्” सि० कौ० ।
पृष्ठ ०८९५

आस्यन्दन आ + स्यन्द--भावे ल्युट् । ईषत्क्षरणे ।

आस्यन्धय त्रि० आस्यं धयति--धे--ख--मुम्--उप० स० ।

मुग्ध० । मुखामृतास्वादके मुखचुम्बके ।

आस्यपत्र न० आस्यमेव पत्रमस्य । १ पद्मे शब्दचन्द्रिका ।

आस्यलाङ्गल पु० आस्यं लाङ्गलमिव भूमिविदारकं यस्य ।

शूकरे ।

आस्यलोमन् न० आस्यभवं लोम । पुरुषमुखजाते लोम्नि (दाड़ि) ।

आस्यहात्य त्रि० असिनाऽहत्याऽहननम् ततः अस्त्यर्थे

विमुक्तादि० अण् । अनुशतिका० द्विपदवृद्धिः । खड़्गेन
हननशून्ये ।

आस्या स्त्री आस--मावे क्यप् । १ स्थितौ, गतिराहित्ये ।

“आस्या वर्ण्णकरी स्थौल्यसौकुमार्य्यकरी शुभा” सुश्रु० ।

आस्यासव पु० आस्यस्यासव इव । (लाल) इति ख्याता-

याम् लालायाम् ।

आस्र न० अस्रमेव स्वार्थेऽण् । रुधिरे । ततः सुखादि० अस्त्यर्थे

इनि । आस्त्री रुधिरयुक्ते त्रि० स्त्रियां ङीप् ।

आस्रप पु० आस्रं रुधिरं पिबति पा--क उप० स० ।

१ राक्षसे तद्देवताके २ मूलनक्षत्रे च ।

आस्रव पु० आस्रवति मनोऽनेन करणे अप् । १ क्लेशे । कर्त्तरि अच् ।

२ अर्हन्मतसिद्धे पदार्थभेदे । अर्हच्छब्दे ३८१ पृष्ठे विवृतिः ।

आस्राव पु० आस्रवति रुधिरमस्मात् अ + स्रु--अपादाने

धञ् । १ क्षते “जातएष तवास्रावस्त्वन्तु मोहान्न बुध्यसे”
भा० उ० ५७ अ० । भावे घञ् । २ सम्यक्क्षरणे कर्त्तरिण ।
सम्यक्क्षरणयुक्ते त्रि० । आस्ववति आ + स्रु--ण ।
मुखलालायाम्” “च्युतेरास्राववत् विद्यात् निगिरन्नेव
तत् शुचिः” आ० त० गौत० “आस्रावोलाला” रघु० ।

आस्राविन् त्रि० आ + स्रु--णिनि । भदादिक्षरणशीले । “महा-

गजैवास्राबी प्रभञ्जन् विविधान् द्रुमान्” भा० व० प० १४६
आस्रावयुक्ते च “दुष्टशोणितास्रावो दीर्घकालानुबन्धी चेति
दुष्टव्रणलिङ्गानि” सुश्रु० ।

आस्वनित आ + स्वत--क्त पक्षे इट् । शब्दिते ।

आस्वाद पु० आ + स्वद--कर्म्मणि घञ् । १ मधुरादिरसे २ शृङ्गा-

रादिरसे च । भावे घञ् । ३ रसानुभवे । “मध्वापातोवि-
षास्वादः, मनुः “न जायते तदास्वादो विना रत्यादिवा-
सनाम् । “तदास्वादे विभावादेः परिच्छेदो न विद्यते”
सा० द० “चूताङ्कुरास्वादकषायकण्ठः” कुमा० । आस्वादश्च
माधुर्य्यादिरसानुभवहेतुव्यपारभेदः स च लोके चर्व्वणादि
शृङ्गारादिरसास्वादे अन्यविधएव व्यापारः यथाह सा० द० ।
“न जायते तदास्वादोविना रत्यादिवासनाम् । वासना
चेदानीन्तनी प्राक्तनी च रसास्वादहेतुः तत्र यदि आद्या
न स्यात् श्रोत्रियजरन्मीमांसकादीनामपि सा स्यात् यदि
द्वितीया न स्यात् रागिणामपि केषाञ्चिद्रसोद्बोधोन
दृश्यते तन्न स्यात् उक्तञ्च धर्म्मदत्तेन “सवासनानां सभ्यानां
रसस्यास्वादनं भवेत् । निर्व्वासनास्तु रङ्गान्तःकाष्ठकुड्या-
श्मसन्निभाः” इति । ननु कथं रामादिरत्याद्युद्बोधकारणैः
सीतादिभिः सामाजिकरत्याद्युद्बोधैत्युच्यते । व्यापा-
रोऽस्ति विभावादेर्नाम्ना साधारणीकृतिः । तत्प्रभावेन
यस्यासन् पाथोधिप्लवनादयः । सभ्यानां तदभदन स्वात्मानं
प्रतिपद्यते । ननु कथं मनुष्यमात्रस्य समुद्रलङ्घनादावु-
त्साहोद्बोधैत्युच्यते । उत्साहादिसमुद्बोधः साधारण्या-
भिमानतः । नृणामपि समुद्रादिलङ्घनादौ न दुष्यति ।
रत्यादयोऽपि साधारण्येन प्रतीयन्ते इत्याह । साधारण्येन
रत्यादिरपि तद्वत् प्रतीयते । रत्यादेरपि ह्यात्मगतत्वेन
प्रतीतौ सभ्यानां पीड़ातङ्कादिर्भवेत् परगतत्वेन त्वरस्य-
त्वापातः । विभावादयोऽपि प्रथमतः साधारण्येन प्रतीयन्ते
इत्याह । परस्य न परस्येति ममेति न ममेति च ।
तदास्वादे विभावादेः परिच्छेदोन विद्यते । ननु तथापि
कथमेवमलौकिकत्वमेतेषां विभावादीनामित्युच्यते । विभा-
वनादिव्यापारमलौकिकमुपेयुषाम् । अलौकिकत्वमेतेषां
भूषणं न तु दूषणम् । आदिशब्दादनुभावनसञ्चारणे ।
तत्र विभावनं रत्यादेर्विशेषेण आस्वादाङ्कुरणयोग्यता-
नयनम् । अनुभावनमेवंभूतस्य रत्यादेः समनन्तरमेव रसा
दिरूपतया भावनम् । सञ्चारणं तथाभूतस्यैतस्य सम्यक्-
चारणम् । विभावादीनां यथासंख्यं कारणकार्य्यसह-
कारित्वे कथं त्रयाणामपि रसोद्बोधे कारणत्वमित्युच्यते
कारणकार्य्यं सञ्चारिरूपा अपि हि लोकतः । रसोद्बोधे
विभावाद्याः कारणान्येव ते मताः । ननु तर्हि कथं
रसास्वादे तेषामेकः प्रतिभासैत्युच्यते । प्रतीयमानः
प्रथमं प्रत्येकं हेतुरुच्यते । ततः संवलितः सर्व्वोविभावादिः
सचेतसाम् । प्रपानकरसन्यायाच्चर्व्व्यमाणोरसोभवेत् । यथा
खण्डमरिचादीनां संमेलनादपूर्व्वैव कश्चिदास्वादः
प्रपानकरसे संजायते विभावादिसंमेलनादिहापि तथेत्यर्थः”
“ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः” येमदू०
ल्युट् । आस्वादनमप्यत्र न० उक्त सा० द० वाक्ये उदा० ।
पृष्ठ ०८९६

आस्वादक न० आ + स्वद--ण्वुल् । आस्वादनकर्त्तरि “दर्शयन्

नर्त्तकोनैव रसस्यास्वादको भवेत्” सा० द० ।

आस्वादित त्रि० आ + स्वद--णिच्--क्त । कृतास्वादे भक्षिते

पदार्थे “आस्वादितार्द्रक्रसुकाः समुद्रात्” माघः ।

आस्वाद्य त्रि० आ + स्वद--णिच्--यत् । १ आस्वादयोग्ये पदार्थे

“घ्राणेन न तदाध्रेयं नास्वाद्यञ्चैव जिह्वया” भा० आ० प०
३० अ० । “आस्वाद्यतोयाः प्रभवन्ति नद्यः समुद्रमासाद्य
भवन्त्यपेयाः” हितो० । आ + स्वद + णिच्--ल्यप् । २ भक्षयि-
त्वेत्यर्थे अव्य० ।

आस्वान्त त्रि० आ + स्वन--इडभावे दीर्घः । शब्दिते ।

आह अव्य० व्रू अच् णि० आहादेशः उवाचेत्यर्थे तिपोणलि

ब्रुवादेशस्तु वर्त्तमानकथनवाची एतस्माद्भिन्नः तच्च क्रियापदम्
अयन्तु क्रियाप्रतिरूपकमव्ययम् । “अथाह वर्ण्णी विदितो
महेश्वरः” कुमा० ।

आहक पु० आहन्ति आ + हन--ड संज्ञायां कन् । वैद्यकोक्ते

ज्वरभेदे (नासाज्वर) “तनुना रक्तशोथेन युक्ता नासा-
पुटान्तरे । गात्रशूलज्वरकरः श्लेष्मणा ह्याहकोज्वरः” वै० ।

आहत त्रि० आ + हन--क्त । १ ताड़िते, “आह्लादिकह्ला-

रसमीरणाहते” “नयनयुगनिमोलत्तावदेवाहतोऽसौ”
माघः । २ बन्ध्यासुतोहमित्यादौ मृषार्थके वाक्येन० ।
३ ढक्कायाम् पु० । “ईषद्धौतं नवं शुभ्रं सदशं यन्न धारि
तम् । आहतं तद्विजानीयात् सर्व्वकर्म्मसु पावनम्”
वसिष्ठोक्तलक्षणे ४ वस्त्रे न० । “आहतेन वसनेन तां
परिदध्यात्” गोभि० । “आच्छादनं तु योदद्यादाहतं
श्राद्धकर्म्मणि” वायु० पु० । “परिधाप्याहते शुक्ले वाससी
हेमकुण्डले” छन्दो० ५ पुराणवस्त्रे न० तस्य उपभोगेन मर्दितप्रा-
यत्वात्तथात्वम् । ६ आघातप्राप्ते ७ मर्दिते त्रि० “पादाहतं
यदुत्थाय मूर्द्ध्वानमधिरोहति” माघः । ८ आघूर्णिते ।
९ अभ्यस्ते १० गुणिते च त्रि० “सूर्थ्याब्धिसंख्यया द्वित्रि-
सागरैरयुताहतैः” सू० सि० ।

आहतलक्षण पु० आहतमभ्यस्तं लक्षणं यस्य । गुणैः प्रसिद्धे

अमरः प्रसिद्धगुणानां हि सर्व्वैर्ज्ञातत्वेन परिचित-
तयाभ्यस्तगुणत्वात् तथात्वम् ।

आहति स्त्री आ + हन--क्तिन् । शब्दहेतुसंयोगभेदे १ आघाते

२ ताड़ने “प्रभातवाताहतिकम्पिताकृतिः” भट्टिः ३ आगमने
अत्र श्लोके पक्षे आहतिरागतिरित्यर्थः ४ गुणने “अंशा-
हतिश्छेदवधेन भक्ता” लीला० । ५ मर्द्दने च ।

आहनन आ + हन--करणे ल्युट् । १ ताडनसाधने दण्डादौ ।

तत्र भवः यत् । आहनन्यः । आहननदण्डादिभवे “नमो
दुन्दुभ्याय चाहनन्याय च” यजु० १६, ३५ । “आहन्यते
वाद्यतेऽनेनाहननं वाद्यसाधनं दण्डादि तत्र भवस्तस्मै”
वेददी० । भावे ल्युट् । २ आहतिशब्दार्थे ।

आहनस् त्रि० आ + हन--असुन् । १ आहननीये २ निष्पीड्ये

सौमादौ । “तदाहना अभवत् पिप्युषी” ऋ० २, २३,
१ । आहनाः आहननीयः सोमादिः” भा० आहनसे साधु
यत् । “आहनस्यं तत्साधने त्रि० । “आहनस्याद्वै रेतः
सिच्यते” ऐत० व्रा० ।

आहर त्रि० आहरति आ + हृ--अच् । सञ्चयकारके “वना-

न्तरादुपावृत्तैः समित्कुशफलाहरैः” रघुः । टचि तु
कर्म्मोपदएव साधुतेति भेदः ।

आहरकरटा स्त्री आहर करट! इत्युच्यते यस्यां क्रियायां

मयूर० । करटं प्रति आहरणार्थायां निदेशक्रियायाम्

आहरचेटा स्त्री अहर चेट! इत्युच्यते यस्यां क्रियायाम्

मयू० । चेटं प्रति आहरणार्थनिदेशक्रियायाम् ।

आहरण न० आ + हृ--भावे ल्युट् । स्थानात् स्थानान्तर-

प्रापणे १ आनयने । “मृदाहरणसंघट्टौ प्रतिष्ठाह्वानमेवच” ।
देवीपु० “करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम्”
सां० का० “समिदाहरणाय प्रस्थिता वयम्” शकु० २
आयोजने अनुष्ठाने च “अश्वमेधस्य कौरव्य! चकाराहरणे
मतिम्” भा० आश्व० ७१ अ० । कर्म्मणि ल्युट् । ३ आह्रि-
यमाणे पदार्थे ४ विवाहादौ उपढौकनद्रव्ये “सत्त्वानुरूपा-
हरणोकृतश्रीः” रघुः ।

आहरणीय त्रि० आ + हृ--अनीयर् । १ आयोजनीये २ आनयनीये ३ उपढौकनीये च ।

आहरनिवपा स्त्री आहर निवप इत्युच्यते यस्यां क्रियायाम्

मयू० । आहरणनिवापार्थनिदेशक्रियायाम् ।

आहरनिष्किरा स्त्री आहर निष्किर इत्युच्यते यस्यां क्रिया-

याम् मयू० । आहरणनिष्किरणनियोगक्रियायाम् ।
एवमाहरविताना आहरवसना आहरसेना इत्यादयोऽपि
मयू० पठिताः तत्तत्कर्म्मार्थनियोगक्रियायासु ।

आहर्त्त त्रि० आ + हृ--तृच् स्त्रियां ङीप् १ अर्ज्जके । “आहर्त्ता

शोधयेत् भुक्तिमागमञ्चापि संसदि” वृह० २ आयोजके
“आहर्त्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप!” भा० आ०
५ अ० ३ आनेतरि “आहर्त्ता सर्वरत्नानां सर्वेषां न सुखा-
वहः” भा० व० १४ अ० । ४ अनुष्ठातरि “आहर्त्ता क्रतूनाम्”
काद० शीलार्थे तृणि तु कर्म्मणि न षष्ठी । “आत्मनो-
बधमाहर्त्ता क्वासौ विहगतस्कर” विक्रमो० ।
पृष्ठ ०८९७

आहव न० आहूयन्तेऽरयोऽत्र आ + ह्वे--अप् संप्रसारणे

गुणः । १ युद्धे । “एवं विधेनाहवचेष्टितेन” रघुः “प्रावि-
शन्नाहवप्रज्ञा आहावमुपलिप्सवः” भट्टिः “न च श्रेयोऽनुप-
श्यामि हत्वा स्वजनमाहवे” गीता । “उद्यतैराहवे शस्त्रैः
क्षत्रधर्म्महतस्य च” “डिम्बाहवहतानाञ्च विद्युता पार्थिवेन
च” इति च मनुः । आहूयतेऽत्र आ + हु--आधारे अप् ।
२ यज्ञे “तत्र नाभवदसौ महाहवे” माघः ‘आहवोयागः’ मल्लि०

आहवन न० आहूयतेऽस्मिन् आधारे ल्युट् । १ यज्ञे “द्रष्टुमाह-

वनमग्रजन्मनाम्” माघः । मावे ल्युट् । २ समन्ताद्धवने च
“त्वे अग्ने आहवनानि भूरि” ऋ० ७, १, १७ ।

आहवनीय पु० आहूयते १ प्रणीयते प्रक्षिप्यते वा हविरत्र आ +

हु--कर्म्मणि आधारे बा० अनीयर् आहवनमर्हति छ वा ।
१ अग्निभेदे । तदुद्धरणप्रकारः आश्व० स्रौ० उक्तः । “उत्सर्गे-
ऽपराह्णे गार्हपत्यं प्रज्वाल्य दक्षिणाग्निमानीय विट्कुला
द्वित्तवतो वा वैकयोनय इत्येके ध्रियमाणं वा प्रज्वाल्या-
ऽरणीमन्तं वा मथित्वा गार्हपत्यादाहवनीयमुद्धरेत्” सू०
दिवाशेषचतुर्थयामे गार्हपत्यं प्रादुष्कृत्य दक्षिणाग्निं
प्रज्वाल्य च वैश्यगृहात् द्रव्यतोवान्यस्य गृहात् गार्हपत्याद्वा
आनयेत् । तथा च अग्निमन्थनादिनाऽन्यतमप्रकारेण दक्षि-
णाग्निं साधयित्वा गार्हपत्यात् ज्वलन्तमग्निमाहवनोयार्थ-
मुद्धरेत् पात्रान्तरेण पृथक् कुर्य्यादिति तदर्थः । तत्र मन्त्रा-
दिकविनियोग उत्तरसूत्रादावुक्तः । “आहवनीये
वैश्यानरं द्वादशकपालमधिश्रयति” तैत्ति० । “यस्य गार्ह-
पत्याहवनीयौ मिथः संसृज्याताम्” ऐत० ब्रा० । “पिता वै
गार्हपत्योऽग्निर्माताग्निर्दक्षिणः स्मृतः । गुरुराहवनीयस्तु
साग्नित्रेता गरीयसी” मनुः । कर्मणि अनीयर् । २ सम्यग्
होतव्ये हविरादौ त्रि० ।

आहार पु० आ + हृ--घञ् । १ आहरणे । उपसर्गयोगात्

२ भोजने “निराहारौ यताहारौ तन्मनस्कौ समाहितौ”
देवीमा० आहारविधिश्च सुश्रुते उक्तः यथा “अथाहा-
रविधिं वत्स! विस्तरेणाखिलं शृणु । आप्तान्वित-
मसंकीर्ण्णं शुचि कार्य्यं महानसम् । तत्राप्तैर्गुणसम्पन्न-
मन्नं भक्ष्यं सुसंस्कृतम् । शुचौ देशे सुसंगुप्तं समुपस्थापये-
द्भिषक् ॥ विषध्नैरगदैः स्पृष्टं प्रीक्षितं व्यजनोदकैः ।
सिद्धैर्मन्त्रैर्हतविषं सिद्धमन्नं निवेदयेत् । वक्ष्याम्यतःपरं
कृत्स्नमाहारस्योपकल्पनम् । घृतं कार्ष्ण्यायसे देयं पेया
देया तु राजते । फलानि सर्वभक्ष्यांश्च प्रदद्याद्वैदलेषु
च । परिशुष्कप्रदिग्धानि सौवर्णेषु प्रकल्पयेत् । प्रद्रवाणि
रसांश्चैव राजतेषूपहारयेत् । कट्वराणि खडांश्चैव सर्व्वान्
शैलेषु दापयेत् । दद्यात्ताम्रमये पात्रे सुशीतं सुशृतं
पयः । पानीयं पानकं मद्यं मृण्मयेषु प्रदापयेत् ।
काचस्फटिकपात्रेषु शीतलेषु शुभेषु च । दद्याद्वैदूर्य्य पात्रेषु
रावखाण्डकशर्कराः । पुरस्ताद्विमले पात्रे सुविस्तीर्ण्णे
मनोरमे । सूदः सूपौदनं दद्यात् प्रलेहांश्च सुसंस्कृतान् ।
फलानि सर्व्वभक्ष्यांश्च परिशुष्काणि यानि च । तानि
दक्षिणपार्श्वे तु भुञ्जानस्योपकल्पयेत् । प्रद्रवाणि रसांश्चैव
पानीयं पानकं पयः । खड़ान् यूषांञ्च पेयांश्च सव्ये पार्श्वे
प्रदापयेत् । सर्व्वान् गुडविकारांश्च रावखाण्डकशर्कराः ।
पुरस्तात् स्थापयेत्प्राज्ञो द्वयोरपि च मध्यतः । एवं
विज्ञाय मतिमान् भोजनस्योपकल्पनाम् । भोक्तारं विजने
रम्ये निःसम्बाधे शुभे शुचौ । सुगन्धिपुष्परचिते समे
देशेऽथ भोजयेत् । विशिष्टमिष्टसंस्कारैः पथ्यैरिष्टैरसा-
दिभिः । मनोज्ञं शुचि नात्युष्णं प्रत्यग्रमशनं हितम् ।
पूर्ब्बं मधुरमश्नीयान्मध्येऽम्ललवणौ रसौ । पश्चाच्छेषान्
रसान् वैद्यो भोजनेष्ववचारयेत् । आदौ फलानि भुञ्जीत
दाडिमादीनि बुद्धिमान् । ततः पेयांस्ततो भोज्यान् भक्ष्यां
श्चित्रांस्ततः परम् । धनम्पूर्ब्बं समश्नीयात् केचिदाहु-
र्व्विपर्य्ययम् । आदावन्तेच मध्ये च भोजनस्य तु शस्यते ।
निरत्ययं दोषहरं फलेष्वामलकं नृणाम् । मृणालविस-
शालूककन्देक्षुप्रभृतीनि च । पूर्ब्बं योज्यानि भिषजा नतु
भुक्ते कथञ्चन । सुखमुच्चैः समासीनः समदेहोऽन्नतत्परः ।
काले सात्म्यं लघु स्निग्धं क्षिप्रमुष्णं द्रवोत्तरम् । बुभुक्षितो-
ऽन्नमश्नीयान्मात्रावद्विदितागमः । काले भुक्तं प्रीणयति
सात्म्यमन्नं न बाधते । लघु शीघ्रं व्रजेत्पाकं स्निग्धोढ्यं
बलवह्निदम् । क्षिप्रं भुक्तं समं पाकं यात्यदोषं द्रवोत्तरम् ।
सुखं जीर्य्यति मात्रावद्धातुसाम्यं करोति च । अतीवा
यतयामास्तु क्षपा येष्वृतुषु स्मृताः । तेषु तत्प्रत्यनीकाद्यं
भुञ्जीत प्रातरेव तु । येषु चापि मवेयुश्च दिवसा
भृशमायताः । तेषु तत्कालविहितमपराह्णे प्रशस्यते । रजन्यो
दिवसाश्चैव येषु चापि समाः स्मृताः । कृत्वा सममहो-
रात्रं तेषु भुञ्जीत भोजनम् । नाप्राप्तातीतकालं वा
हीनाधिकमथापि वा । अप्राप्तकाले भुञ्जानः शरीरे ह्यल-
घौ नरः । तांस्तान् व्याधीनवाप्नोति मरणं वा नियच्छति ।
अतीतकाले भुञ्जानो वायुनोपहतेऽनले । कृच्छ्राद्विपच्यते
भुक्तं द्वितीयञ्च न काङ्क्षति । हीनमात्रमसन्तीषं करोति
च बलक्षयम् । आलस्यगौरवाटोपसादांश्च कुरुतेऽ-
पृष्ठ ०८९८
धिकम् । तस्मात्सुसंस्कृतं युक्त्या दोषैरेतैर्विवर्जितम् ।
यथोक्तगुणसम्पन्नमुपसेवेत भोजनम् । विभज्य कालदोषा-
दीन् कालयोरुभयोरपि । अचोक्षं (अपरित्रम्) दुष्ट-
मुच्छिष्टं पाषाणतृणलोष्टवत् । द्विष्टं व्युषितमस्वादु
पूति चान्नं विवर्जयेत् । चिरसिद्धं स्थिरं शीतमन्न-
मुष्णीकृतं पुनः । अशान्तमुपदग्धञ्च तथा स्वादु न
लक्ष्यते । यद्यत् स्वादुतरं तत्र विदध्यादुत्तरोत्तरम् ।
प्रक्षालयेदद्भिरास्यं भुञ्जानस्य मुहुर्म्महुः । विशुद्धे रसने
तस्मै रोचतेऽन्नमपूर्बवत् । स्वादुना तस्य रसनं प्रथमेनापि
तर्पितम् । न तथा स्वादयेदन्यत्तस्मात्प्रक्षाल्यमन्तरा ।
सौमनस्यं बलं पुष्टिमुत्साहं हर्षणं सुखम् । स्वादु
सञ्जनयत्यन्नम स्वादु च विपर्य्ययम् । भुक्त्वा च यत्प्रार्थयते
भूयस्तत् स्वादु भोजनम् । अशितश्चोदकं युक्त्या भुञ्जान-
श्चान्तरा पिवेत् । दन्तान्तरगतं चान्नं शोधनेनाहरेच्छनैः ।
कुर्य्यादनाहृतं तद्धि मुखस्यानिष्टगन्धताम् । जीर्णेऽन्ने
वर्द्धते वायुर्विदग्धे पित्तमेव तु । भुक्तमात्रे कफश्चापि
तस्माद्भुक्ते हरेत्कफम् । धूमेनापोह्य हृद्यैर्वा कषायक-
टुतिक्तकैः । पूगकक्कोलकर्पूरलवङ्गसुमनःफलैः । कटुति-
क्तकषायैर्वा मुखवैशद्यकारकैः । ताम्बूलपत्रसहितैः
सुगन्धैर्वा विचक्षणः । भुक्त्वा राजवदासीत यावदन्नक्लमो गतः ।
ततः पदशतं गत्वा वामपार्श्वे तु संविशेत् । शब्दरूप-
रसस्पशांन् गन्धांश्च मनसः प्रियान् । भुक्तवानुपसे-
वेत तेनान्नं साधु तिष्ठति । शब्दरूपरसस्पर्शगन्धाश्चापि
जुगुप्सिताः । अशुच्यन्नं तथाभुक्तमतिहास्यञ्च वामयेत् ।
शयनं चासनं वापि नेच्छेद्वापि द्रवोत्तरम् । नाग्न्यातपौ
न प्लवनं न यानं नापि वाहनम् । नचैकरससेवायां
प्रसज्येत कदाचन । शाकावरान्नभूयिष्ठमम्लञ्च न समाचरेत् ।
एकैकशः समस्तान् वा नाप्यश्नोयाद्रसान् सदा । प्राग्-
भुक्ते त्वविविक्तेऽग्नौ द्विरन्नं न समाचरेत् । पूर्व्वभुक्ते
विदग्धेऽन्ने भुञ्जानो हन्ति पावकम् । मात्रागुरुं परिह-
रेदाहारं द्रव्यतश्च यः । पिष्टान्नं नैव भुञ्जीत मात्रया वा
बुभक्षितः । द्विगुणञ्च पिबेत्तोयं सुखं सम्यक् प्रजीर्य्यति ।
पेयलेह्याद्यभक्ष्याणां गुरु विद्याद्यथोत्तरम् । गुरूणाम-
र्द्धसौहित्यं लघूनां तृप्तिरिष्यते । द्रवोत्तरो द्रवश्चापि न
मात्रागुरुरिष्यते । द्रवाढ्यमपि शुष्कन्तु सम्यगेवोपप-
च्यते । विशुष्कमन्नमभ्यस्तं न पाकं साधु गच्छति ।
पिण्डीकृतमसंक्लिन्नं विदाहमुपगच्छति । स्रोतस्यन्नवहे
पित्तं पक्तो वा यस्य तिष्ठति । विदाहि भुक्तमन्यद्वा तस्या-
प्यन्नं विदह्यते । शुष्कं विरुद्धं विष्टम्भि वह्निव्यापदमा-
वहेत् । आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः ।
अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः । अत्यम्बुपाना-
द्विषमाशनाद्वा सन्धारणत्स्वप्नविपर्य्ययाच्च । कालेऽपि सात्म्यं
लघु चापि भुक्तमन्नं न पाकं भजते नरस्य । ईर्ष्याभय-
क्रोधपरिक्षतेन लुब्धेन रुग्दैन्यनिपीड़ितेन । प्रद्वेषयुक्तेन
च सेव्यमानमन्नं न सम्यक् परिणाममेति । माधुर्य्यमन्नं
गतमामसंज्ञं विदग्धसंज्ञं गतमभ्लभावम् । किञ्चिद्विपक्वं
भृशतोदशूलं बिष्टब्धमाबद्धविरुद्धवातम् । उद्गारशुद्धावपि
भक्तकाङ्क्षा न जायते हृद्गुरुता च यस्य । रसावशेषेण तु
सप्रसेकं चतुर्थमेतत् प्रवदन्त्यजीर्णम् । मूर्च्छाप्रलापो वमथुः
प्रसेकः सदनं भ्रमः । उपद्रवा भवन्त्येते मरणं चाप्यजी-
र्णतः । तत्रामे लङ्घनं कार्य्यं विद्गधे वमनं हितम् ।
विष्टब्धे स्वेदनं पथ्यं रसशेषे शयीत च । वामयेदाशु तं
तस्मादुष्णेन लवणाम्बुना । कार्य्यं चानशनं तावद्यावन्न
प्रकृतिं भजेत् । लघुकायमतश्चैनं लङ्घनैः समुपाचरेत् ।
यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा । हिताहि-
तोपसंयुक्तमन्नं समशनं स्मृतम् । बहु स्तोकमकाले वा
विज्ञेयं विषमाशनम् । अजीर्णे भुज्यते यत्तु तदध्यशन
मुच्यते । त्रयमेतन्निहन्त्याशु बहून् व्याधीन् करोति च ।
अन्नं विदग्धं हि नरस्य शीघ्रं शीताम्बुना वै परिपाकमेति ।
तद्ध्यस्य शैत्येन निहन्ति पित्तमाक्लेदिभावाच्च नयत्यधस्तात् ।
विदह्यते यस्य तु भुक्तमात्रे दह्येत हृत्कण्ठगलञ्च यस्य ।
द्राक्षाभयां माक्षिकसम्प्रयुक्तां लीढ्वाभयां वा स सुखंलभेत ।
भवेदजीर्णं प्रति यस्य शङ्का स्निग्धस्य जन्तोर्बलिनोऽन्न-
काले । प्रातःस शुण्ठीमभयामशङ्को भुञ्जीत सम्प्राश्य हितां
हितार्थी । स्वल्पं यदा दोषविबद्धमामं लीनं न तेजःपथ-
मावृणोति । भवत्यजीर्णेऽपि तदा बुभुक्षा सा मन्दबुद्धिं
विषवन्निहन्ति” । “पञ्चभूतात्मके देहे आहारः पाञ्च-
भौतिकः । विपक्वः पञ्चधा सम्यग्गुणान् स्वानभिवर्द्ध-
येत् । अविदग्धः कफं, पित्तं विदग्धः पबनं पुनः ।
सम्यग्विपक्वो निःसार आहारः परिवृंहयेत् । विण्मूत्र-
माहारमलः सारः प्रागीरितो रसः । स तु व्यानेन
विक्षिप्तः सर्व्वान्धातून् प्रतर्पयेत् । कफः पित्तं मलः शेषः
स्वेदः स्यान्नखरोम च । नेत्रविट्त्वक्षु च स्नेहो धातूनां
क्रमशोमलाः । दिवाविबुद्धे हृदये जाग्रतः पुण्डरीकवत्
अन्नमक्लिन्नधातुत्वादजीर्णे पिहितं निशि । हृदि सन्मी-
लिते रात्रौ प्रसुप्तस्य विशेषतः । क्लिन्नविस्रधातुत्वादजी-
पृष्ठ ०८९९
र्णे न हित दिवा” भाव० प्र० भोजनकालदेशपात्रादि-
भेदंदर्शनपूर्वमेतद्व्याख्या प्रसङ्गात् कृता यथा । “आहारं
पचति शिखी दोषानाहारः पवति । दोषक्षये धातून्प-
चति पचति च धातुक्षये प्राणान् । आहारः प्राणिनां सद्योब-
लकृद्देहधारणः । स्मृत्यायुःशक्तिवर्ण्णौजःसत्वशोभाविबर्द्धनः ।
यथोक्तगुणसम्पन्नमुपसेवेत भोजनम् । विचार्य देशकाला-
दीन्कालयोरुभयोरपि” । उभयोःकालयोः प्रातः सायं च ।
तथा च “सायंप्रातर्मनुष्याणामशनं श्रुतिबोधितम्” नान्तरा
भोजनं कुर्य्यादग्निहोत्रसमोविधिः” । प्रातः प्रथमयामादु-
परि द्वितीययामादर्व्वाक् तथा च “याममध्ये न भोक्तव्यं
यामयुग्मं न लङ्घयेत् । याममध्ये रसोत्पत्तिर्यामयुग्माद्व-
लक्षयः” अन्यच्च “क्षुत्संभवति पक्वेषु रसदोषमलेषु च । काले
वा यदि वाऽकाले सोऽन्नकालौदाहृतः” । रसादौ
पाकज्ञानमाह “उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः ।
लघुताक्षुत्पिपासा च यदा कालः स भोजने” । स्थानमाह
“आहारन्तु नरः कुर्य्यान्निर्हारसपि सर्व्वदा । निर्जने
लक्ष्म्युपेतः स्यात्प्रकाशे हीयते श्रिया । निर्हारो मलमू-
त्रोत्सर्गः । अन्यच्च “आहारनिर्हारविहारयोगाः सदैव
सद्भिर्विजने विधेयाः” इति । भाजनमाह “दोषहृद्धृष्टिदं
पथ्यं हैमं भोजनभाजनम् । रौप्यं भवति चाक्षुष्यं पित्त-
हृत्कफवातकृत् । कांस्थं बुद्धिप्रदं रुच्यं रक्तपित्तप्रसा-
दनम् । पैत्तलं वातकृद्रूक्षमुष्णं क्रमिकफप्रणुत् । आयसे
कान्तपात्रे च भोजनं सिद्धिकारकम् । शोथपाण्डुहरं बल्यं
कामलापहमुत्तमे । शैलजे मृण्मये पात्रे भोजन श्रीनि
वारणम् । दारूद्भवे विशेषेण रुचिदं श्लेष्मकारि च । पात्रं
पत्रमयं रुच्यं दीपनं विषपापनुत् । जलपात्रं तु प्रागुक्तं
तदभावे मृदोहितम् । पवित्रं शीतलं पात्रं घटितं
स्फटिकेन यत् । काचेन रचितं तद्वत्तथा वैदूर्य्यसंभवम् ।
(प्रागुक्तं सुश्रुते सौवर्ण्णाद्युक्तं तच्चाम्बुशब्दे ३३०
पृष्ठे” दर्शितम्) । “भोजनाग्रे सदा पथ्यं लवणार्द्रकभ-
क्षणम् । अग्निसन्दीपनं रुच्यं जिह्वाकण्ठविशोधनम्”
लवणस्य पित्तजनकंत्वादार्द्रकस्य कटुत्वेन पित्तलत्वात् बुभु-
क्षितस्य वृद्धपित्तस्य कघं प्रथमं लवणार्द्रकभक्ष-
णमुचितम् उच्यते “लवणं सैन्धवं ज्ञेयं चन्दनं रक्तच-
न्दनमिति” वचनाल्लवणमत्र सैन्धवं तत्त्रिदोषघ्नम् यत
आह गुणग्नन्थे “सैन्धवं लवणं स्वादु दीपनं पाचनं लघु ।
स्निगधं रुच्यं हिमं वृष्यं सूक्ष्मं नेत्र्यं त्रिदोषहृत्” आर्द्रकं
तु पित्तविरोधि मधुरपाकित्वात् यत आह तत्रैव “आ-
र्द्रिका भेदिनी गुर्व्वी तीक्ष्णोष्णा दीपनी च सा । कटुका
मधुरा पाके रूक्षा वातकफापहा” । अन्यदपि लवणार्द्रकं
च नात्रपित्तविरोधि संयोगस्वभावात् संयोगस्वरूप-
ञ्चैतादृशं भोजनस्य पूर्ब्बं लवणार्द्रकभक्षणबोधकवचन-
मेव प्रमाणयति । भोजनादौ दृष्टिदोषविनाशाय ब्रह्मा-
दीन् स्मरेत् । तद्यथा “अन्नं ब्रह्मा रसोविष्णुर्भोक्ता देवो
महेश्वरः । इति संचिन्त्य भुञ्जानं दृष्टिदोषो न बाधते ।
अञ्जनागर्भसंभूतं कुमारं ब्रह्मचारिणम् । दृष्टिदोषविना-
शाय हनूमन्तं स्मराम्यहम्” “अश्रीयात्तन्मना भूत्वा पूर्ब्बं तु
मधुरं रसम् । मध्येऽम्ललवणौ पश्चात्कटुतिक्तकषायकान् ।
फलान्यादौ समश्नीयद्दाड़िमादीनि बुद्धिमान् । विना
मोचाफलं तद्वद्वर्जनीया च कर्क्कटी । मृणालविसशालूकक-
न्देक्षुप्रभृतोन्यपि पूर्ब्बमेव हि भोज्यानि न तु भुक्त्वा कदा
चन” । मृणालं पद्मनालं, विसं विसषण्डक, शालूककन्दं
प्रसिद्धम् । “गुरु पिष्टमयं द्रव्यं तण्डुलान् पृथुकानपि । न
जातु भुक्तवान् खादेन्मात्रां खादेद्बुभुक्षितः । घृतपूर्व्वं सम
श्नीयात्कठिनं प्रकृतौमृदु । अन्ते पुनर्द्रवाशी तु बलारोग्ये
न मुञ्चति” अयमर्थः प्राक् घृतपूर्ब्बं कठिनं समश्नीयात्
यथाकाश्यादिवासिनः प्रथमं सव्यञ्जनां घृतपूर्वां रोटिकां
भुञ्जते ततो मृदुलसूपादिकमोदनं भुञ्जते अन्ते पुनर्द्रवाशिनः
भोजनान्ते दधिदुग्धतक्रादि भुञ्जते । “यद्यत् स्वादूत्तरं तद्धि
विदध्यादुत्तरोत्तरम् । भुक्त्वा यत्प्रार्थ्यते भूयस्तदुक्तं स्वादु भोज
नम्” । स्वाद्वन्यस्य गुणमाह । “सौमनस्यं बलं पुष्टिमुत्साहं
रसनासुखम् । स्वादु सञ्जनयत्यन्नमस्वादु च विपर्ययम्” ।
अत्युष्णान्नं बलं हन्ति शीतं शुष्कं च दुर्ज्जरम् । अतिक्लिन्नं
ग्लानिकरं युक्तियुक्त हि भोजनम् । अतिद्रुततयाहारी
गुणान् दोषान्न विन्दति । भोज्यं शीतमहृद्यं च स्याद्विलम्बि-
तमश्नतः । त्रिविधं गुरु तन्निवारयन्नाह “मन्दानलो नरो द्रव्यं
मात्रागुरु विवर्जयेत् स्वभावतश्च गुरु यत्तथा संस्कारतोगुरु ।
मात्रागुरुस्तु मुद्गादिर्माषादिः प्रकृतेर्गुरुः । संस्कार-
गुरु पिष्टान्नं प्रोक्तमित्युपलक्षणम् । आहारः षद्विधः
श्चूष्यं पेयं लेह्यं तथैव च । भोज्यं भक्ष्यं तथा चर्व्यं
गुरु विद्याद्यथोत्तरम् । चूष्यं इक्षुदाडिमादि, पेयं
पानकशर्करोदकादि । लेह्यं रसालाक्वथितादि (कडी)
इति लोके पसिद्धम् । भोज्यं भक्तसूपादि । भक्ष्यं लड्डुक-
मण्डकादि (खरं विशदमव्यवहार्य्यंभक्ष्यमितिपात० भा०) ।
चर्व्यं चिपिटचणकादि । स्वभावगुरुसंस्कारगुरुणोः स्वभाव-
लघुनश्च भक्ष्यस्य भोजनपरिमाणमाह “गुरूणामर्द्धसौहित्यं
पृष्ठ ०९००
लघूनां तृप्तिरिष्यते” अयमर्थः मांसपिष्टान्नादिभिरर्द्धं सौहित्यं
कर्त्तव्य मुद्गादिभिः स्वाभाविक्या मात्रया तृप्तिः कर्त्त-
व्येति । “द्रवोद्रवोत्तर श्चापि न मात्रागुरुरिष्यते” । द्रवः पेया-
दिर्द्रवोत्तरः तक्राद्यधिक ओदनादिः मात्रातोधिकोऽपि
मात्रागुरुर्न्न मन्तव्यः पेयस्य सर्वतोलघुत्वात् उक्तञ्च सुश्रुते
“पेयलेह्याद्यभक्ष्यणां गुरु विद्याद्यथोत्तरमिति” पेयं
क्षीरादि लेह्यं रसालादि आद्यम् ओद्रनसूपादि भक्ष्यं
मोदकादि “द्रवाढ्यमपि शुष्कं तु सम्यगेवोपपच्यते । विशुष्-
कमन्नमभ्यस्तं न पाकं साधु गच्छति” । अयमर्थः शुष्कमपि
स्रोतोरोधकरमपि द्रवाढ्यं सम्यक् पाकं याति । केवलस्य
शुष्स्यान्नस्य दोषमाह विशुष्कमन्नमित्यादि । अपक्वं
तत् किं भवतीत्यपेक्षायामाह “पिण्डीकृतमसंक्लिन्नं
विदाहमुपगच्छति” पिण्डीकृतम् अष्ठीलावद्भूतम्
असंक्लिन्नमसम्पगार्द्रं विदाहमुपगच्छति विदग्धं भवती-
त्थर्थः । शुष्कादीनां वैगुण्यमाह “शुष्कं विरुद्धं
विष्टम्भि वह्निव्यापदमावहेत्” शुष्कञ्चिपिटादि विरुद्धं
क्षीरमत्स्यादि, विष्टम्भि चणकमसूरादि, वह्निमान्द्यङ्कु-
र्य्यात् । “न भक्त्वा न रदैश्छित्वा, न निशायां न वा बहून् ।
न जलान्तरितानद्भिःसक्तूनद्यान्न केवलान् । पुनर्द्दानं
पृथक्पानं सामिषम्पयसा निशि । दन्तच्छेदनमुष्णं च सप्त
सक्तुषु वर्जयेत्” विषमाशनस्य लक्षणमाह । “बहु स्तोकम-
काले वा ज्ञेयं तद्विषमाशनम्” बहुलाल्पस्य भक्षितस्य
दोषमाह “आलस्यगौरवाटोपशब्दांश्च कुरुतेऽधिकम् ।
हीनमात्रमसन्तोषं करोति च बलक्षयम्” अधिकमन्नम् ।
अकाले भुक्तेर्दोषमाह “अप्राप्तकाले भुञ्जानो ह्यस-
मर्थतनुर्न्नरः तांस्तान् व्याधीनवाप्नोति मरणञ्चाधि-
गच्छति” अप्राप्तकाले कालादतिप्राक् भुञ्जानः असमर्थ-
शरीरो भवति तथा सति तांस्तान् व्याधीन् शिरोव्यथा-
विसूचिकाऽलसकविलम्बिकादीन् आप्नोति तेषामाधिक्ये
मरणमपि प्राप्नोतीत्यर्थः “कालेऽतीतेऽश्नतोजन्तोर्वायु-
नोपहतेऽनले । कृच्छ्राद्विपच्यते भोक्तुर्न स्याद्भोक्तुं पुनः
स्पृहा” । कुक्षेर्भागद्वयं भोज्यैस्तृतीये वारि पूरयेत् । वायोः
सञ्चारणार्थाय चतुर्थमवशेषयेत्” । “रसेनान्नस्य रसना प्रथमे-
नोपतर्पिता । न तथा स्वादुमाप्नोति यथा सेव्याम्बुना-
न्तरा” “अत्यम्बुपानान्न विपच्यतेऽन्नमनम्बुपानाच्च स एव
दोषः । तस्मान्नरो वह्निविवर्द्धनाय मुहुर्मुहुर्वारि पिबेदभूरि ।
भक्तस्यादौ जलं पीतं कार्श्यमन्दाग्निदोषकृत् । मध्येऽग्नि
दोषनं श्रेष्ठमन्ते स्थौल्यकफप्रदम् । अन्यच्च “समस्थूलकशा
भुक्तमध्यान्तप्रथमाम्बुपाः” इति वाग्भटः” भुक्तं भोजनम्
“तृषितस्तु न चाश्नीयात् क्षुधितो न पिबेज्जलम् । तृषितस्तु
भवेद्गुल्मी क्षुधितस्तु जलोदरी । ननु शिष्टा भोजनान्ते दुग्ध
पिबन्ति तत्कथमुचितं यतस्त्रिधा विभक्तस्य भोजनकालस्य
प्रथमो भागोवातस्य, द्वितीयः पित्तस्य, तृतीयः कफस्य,
यत आह “अश्रीयात्तन्मना भूत्वा पूर्वं तु मधुरं रसम् ।
मध्येऽम्ललवणौ पश्चात्कटुतिक्तकषायकान्” अस्यायमभि-
प्रायः भोजने पूर्ब्बं भुक्तो मधुरो रसो बुभुणितस्य
वातपित्तयोः शमको भवति । भोजनमध्ये भुक्ते अम्ललवणे
पित्तोपशमनेन वह्निवृद्धिं कुरुतः । भोजनान्त्यसमये भुक्ताः
कटुतिक्तकषाया रसाः कफं शमयन्तीति । अतोभोजना-
वसानसमयस्य कफकालत्वात् तत्र कथं श्लेष्मजनकं दुग्धं
पातुनुचितं भवति । यतौक्तम् । “दुग्धं स्वादुरसं स्निग्धमो-
जस्यं धातुवर्द्धनम् । वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतल-
मिति” उच्यते “विदाहीन्यन्नपानानि यानि भुङ्क्ते हि
मानवः । तद्विदाहोप्रशान्त्यर्थं भोजनान्ते पयः पिवेत्” अतएव
ब्रह्मपुराणे “कुर्य्यात् क्षीरान्तमाहारं न दध्यन्तं कदाचनेति
लवणाम्लकदुष्टानि विदाहीन्यपि यानि तु । तद्दोषं हर्तु-
माहारं मधुरेण समापयेदिति” भोजनावसानसमये दुग्-
धादिमधुरभोजने वातकफोपशमनेन लवणाम्लकटुभोजनज-
नितां पित्तस्य वृद्धिं नाशयति पित्तवृद्धिनाशनेन च पित्त-
वृद्धिरुपक्षीणा भवतीति कफवृद्धिरग्निमान्द्यादीनुत्पादयितुं
न शक्नोति” ।
आह्निकतत्त्वेस्मार्त्ताहारविधिरुक्तो यथा विष्णुपु० । “स
केवलमघं भुङ्क्तेयोभुङ्क्तेत्वतिथिंविना । अघं स केवलं भुङ्क्तेयः
पचत्यात्मकारणात् । इन्द्रियप्रीतिजननं वृथापाक विवर्जयेत्”
तथा “सुवासिनीर्दुःखिनश्च गर्भिणीवृद्धबालकान् भोजयेत् ।
सस्कृतान्नेन प्रथमं, चरमं गृही । अभुक्तवत्सु चैतेषु भुञ्जन्
भुङ्क्तेऽतिदुष्कृतिम् । मृतश्च नरकं गत्वा श्लेष्मभुग्जायते
नरः । अस्नात्वाशी मलं मुङ्क्षे अजप्त्वा पूयशोणितम् ।
अहुत्वा च कृमिं भुङ्क्ते अदत्त्वा विषभोजनम् असंस्कृ-
तान्नभुङ्मूत्रं बालादिप्रथमं शकृत् । भुञ्जतश्च यथा पुंसः
पापबन्धोन जायते । इह चारोग्यमतुलं बलवृद्धिस्तथा
नृप”! । तथा “प्रशस्तरत्नपाणिस्तु भुञ्जीत प्रयतोगृही ।
अन्नं प्रशस्तं पथ्यञ्च प्रोक्षितं प्रोक्षणोदकैः । न कुत्सिता-
हृतं नैव जुगुप्सावदसंस्कृतम्” । विष्णुपु० “मन्त्राभिमन्त्रित
शस्तं न च पर्युषितं नृप! । अन्यत्र फलमांसेभ्यः शुष्क-
शाकादिकात्तथा । तद्वद्वादरिकेभ्यश्च गुड़पक्वेभ्यएव च ।
पृष्ठ ०९०१
भुञ्जीतोद्धृतसाराणि न कदाचिन्नरेश्वर! । नाशेषं पुरुषो-
ऽशीयादन्यत्र जगतीपते! । मध्वन्नदधिसर्पिर्भ्यः सक्तुभ्यश्च
विवेकवान् । अश्नीयात्तन्मना भूत्वा पूर्बन्तु मधुरं रसम् ।
लवणाम्लौ तथा मध्ये कटुतिक्तादिकांस्ततः । प्राग्द्रवं
पुरुषोऽश्नन् वै मध्ये च कठिनाशनः । पुनरन्ते द्रवाशी
तु वलारोग्ये न मुञ्चति । अनिन्द्यं भक्षयेदित्यं वाग्यतो-
ऽन्नमकुत्सयन् । पञ्च ग्रासान् महामौनं । प्राणाद्याप्यय-
नाय तत्” । मन्त्राभिमन्त्रितमिति मन्त्रानादेशे गायत्रीति
वचनात् गायत्र्यभिमन्त्रितम् । गारुड़े “शाकं सूपञ्च भूयिष्ठं
अत्यम्लञ्च विवर्जयेत् । नचैकरससेवायां प्रसज्येत कदाचन” ।
छन्दोग० प० । “मुनिभिर्द्विरशनमुक्तं विप्राणां मर्त्य-
वासिनां नित्यम् । अहनि च तथा तमस्विन्यां सार्द्धप्रह-
रयामान्तः” । अहनि अचिरो दितास्तमितसूर्य्येतरदिन-
मात्रे । तत्राप्यायुर्वेदीयेविशेषः । “याममध्ये न भोक्तव्यं
त्रियामन्तु न लङ्घयेत्” । याममध्ये रसस्तिष्ठेत्त्रियामे
तु रसक्षयः” । तत्रापि पञ्चमयामार्द्धोमुख्यकालो दक्षवचनात्
(तच्चाह्निकशब्दे ९०६ पृष्ठे वक्ष्यते त्रियामन्त्वित्रद्वियाम-
मित्येवायुर्वेदोये पाठः । दक्षवचनानुरोधात् त्रियाममिति
पाटकल्पनं बोध्यम्) । महामौनं हुङ्कारादिरहितम् ।
तथाचात्रिः “मौनव्रत महाकष्टंहुङ्कारेणैव नश्यति । तथासति
महान् दोषस्तस्मात्तु नियतश्चरेत् । एष क्रमः पौराणिकत्वात्
सर्व्वसाधारणः । विष्णुः । “न तृतीयमथाश्नीयादापद्यपि
कदाचन” । गोतासु । “आयुःसत्त्वबलारोग्यसुखप्रीतिवि-
वर्द्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्वि-
कप्रियाः । कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा
राजसस्येष्टा दुःखशोकामयप्रदाः । यातयामं गतरसं पूतिप-
र्य्युषितञ्च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्”
मनुः । “आयुष्यं प्राङ्मुखोभुङ्क्ते यशस्यं दक्षिणामुखः ।
श्रियः प्रत्यङ्मुखोभुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः” ।
नियमे त्वेवम् अनियमे तु नोदङ्मुखः । हारीतः
“नोदङ्मुखोऽश्नीयात्” । निष्कामस्य तु प्राङ्मुखेनैव यथाह
देवलः । “प्राङ्मुखोऽन्नानि भुञ्जीत शुचिःपीठमधिष्ठितः ।
विशुद्धवदनःप्रीतोभुञ्जीत न विदिङ्मुखः” । जीवन्मातृकस्य
दक्षिणामुखत्वनिषेधमाह आप० “दक्षिणामु-
खोन भुञ्जोत एवंविधभोजनमनायुष्यं मातुरुपदिशति” ।
चित्तु “कुहूस्नानं नयाश्राद्धं तिलैस्तर्पणमेव च ।
न जीवत्पितृकः कुर्य्याद्दक्षिणामुखभोजनम्” इत्याचार
रत्नाकरधृताज्जीवत्पितृकस्यापि निषेध इत्याहुः । व्यासः
“पञ्चार्द्रोभोजनं कुर्य्यात् प्राङ्मुखोमौनमास्थितः । हस्तौ
पादौ तथैवास्यमेषु पञ्चार्द्रता मता” । व्यासः “अप्ये-
कपङ्क्त्यां नाश्नीयात् संवृतः स्वजनैरपि । कोहि जानाति
किं कस्य प्रच्छन्नं पातकं महत् । भस्मस्तम्बजलद्वार मार्गैः
पङ्क्तिञ्च भेदयेत्” । जलादिना पङ्क्तिभेदाकरणे तु शङ्खः ।
“एकपङ्क्त्युपविष्टानां विप्राणां सहभोजने । यद्योकोऽपि
त्यजेत् पात्रं शेषमन्नं विवर्जयेत् । मोहात् भुञ्जीत यः
पङ्क्त्यामुच्छिष्टसहभोजनम् । प्राजापत्यं चरेद्विप्रः क्षत्रः
सान्तपनन्तथा”! । एतत्समानार्थमभिधायाह गोभिलः ।
“भुञ्जानेषु तु विप्रेषु यस्तु पात्रं परित्यजेत् । भोजने विघ्नक-
र्त्तासौ ब्रह्महापि तथोच्यते” । आप० “दिवा पुनर्न भुञ्जी-
तान्यत्र फलमूलेभ्यः” । मनुः “नातिप्रगे नातिसायं न सायं
प्रातराशितः” अतिप्रगेऽचिरोदितसूर्य्ये अतिसायं सूर्य्या-
स्तमितसमये एवं प्रातराशितः दिनभोजनेनातितृप्तः न
सायं न रात्रौ भुञ्जीतेत्यर्थः । आप० “यस्तु
भोजनशालायां भीक्तुकामौपस्पृशेत् । आसनस्थोनचान्यत्र
स विप्रः पङ्क्तिदूषकः” बौधा० “उपलिप्ते समे स्थाने
शुचौ लघ्वासनान्विते । चतुरस्रं त्रिकोणञ्च
वर्त्तुलञ्चार्द्धचन्द्रकम् । कर्त्तव्यमानुपूर्व्येण ब्राह्माणा-
दिषु मण्डलम्” । “अकृत्वा मण्डलं ये तु भुञ्जतेऽ-
धमयोनयः । तेषान्तु यक्षरक्षांसि हरन्त्यन्नानि
तद्बलात्” । आप० । “भिन्नकांस्ये तु योविप्रोयदि
भुङ्क्ते तु कामतः । उपवासेन चैकेन पञ्चगव्येन शुद्ध्यति”
तथा शूद्रादिभोजनेनापरिष्कृतपात्रेऽपि वृद्धमनुः “ताम्र
पात्रे न भुञ्जीत भिन्नकांस्ये मलाविले । पलाशपद्मपत्रेषु
गृही भुक्त्वैन्द्रंवं चरेत्” । नव्यवर्द्धमानधृताग्निपु०
“अर्कपत्रे तथा पृष्ठे आयसे ताम्रभाजने । करे कर्प-
टके चैव भुक्त्वा चान्द्रायणञ्चरेत्” । पृष्ठे कदलीपत्रादि-
पृष्ठे । पैठी० “ताम्ररजतसुवर्णाश्मशङ्खशुक्ति-
स्फटिकानां भिन्नमभिन्नमिति न दोषः” । अत्र पाषाण-
पात्रं भोजने विहितम् । “तैजसानां मणीनाञ्च सर्व्वस्या-
श्ममयस्य च । भस्मनाद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिः”
इति मनुना पाषाणपात्रस्य शुद्धिविधानाच्च । प्रचेताः
“ताम्बूलाभ्यञ्जने चैव कांस्यपात्रे च भोजनम् । यतिश्च
ब्रह्मचारी च विधवा च विवर्जयेत्” । अत्रिः “आसने
पादमारोप्य योभुङ्क्ते ब्राह्मणः क्वचित् । मुखेन चान्नमश्नाति
तुल्यं गोमांसभक्षणैः” । मुखेन हस्तोत्तोलनं विना
गवादिवदित्यर्थः । आश्वमेधिके “आर्द्रपादस्तु भुञ्जीत
पृष्ठ ०९०२
प्राङ्मुखश्चासने शुचौ । पादाभ्यां धरणीं स्पृष्ट्वा पादेनैकेन
वा पुनः” । बौधा० “भोजनं हवनं दानमुपहारः
परिग्रहः । बहिर्जानु न कार्य्याणि तद्वदाचमनं स्मृतम्”
हारीतः “मार्जनार्च्चाबलिकर्म्मभोजनानि दैवतीर्थेन
कुर्य्यात्” । पराशरभा० वृद्धमनुः “न पिबेन्नच भुञ्जीत
द्विजः सव्येन पाणिना । नैकहस्तेन च जलं शूद्रेणाव-
र्जितं पिबेत्” । मार्क० पु० “पादप्रसारणं
कृत्वा न च वेष्टितमस्तकः” । मनुः “पूजयेदशनं नित्यं
चाद्याच्चैवमकुत्सयन् । दृष्ट्वा हृष्येत् प्रसीदेच्च प्रणमेच्चैव
सर्व्वदा । अन्नं दृष्ट्वा प्रणम्यादौ प्राञ्जलिः प्रार्थयेत्ततः ।
अस्माकं नित्यमस्त्वेतदिति भक्त्याथ वन्दयेत्” । विष्णु-
पु० “नागः कूर्म्मश्च क्रकरो देवदत्तोधनञ्जयः ।
बहिःस्था वायवः पञ्च तेषां भूमौ प्रदीयते । अदत्त्वा बाह्य
वायुभ्यः प्राणादिभ्यो न होमयेत्” । इति शिष्टपठित-
वचनान्नागादिभ्योबलिदानमिति प्राचीनाचारः । तत्रान्नं
देवेभ्योदत्त्वैव भोक्तव्यं तथा च गीता “इष्टान् भोगान्
हि वोदेवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो-
योभुङ्क्ते स्तेन एव सः” । यज्ञैः भाविता संवर्द्धिताः
वोयुष्मभ्यं भोगानन्नादीन् वृष्ट्यादिद्वारा दास्यन्ति अतो
देवैर्दत्तान् अन्नादीन् तेम्योऽदत्त्वा योभुङ्क्ते स चौर एव ।
स्मृतिः “निवेद्य प्राशनात् पूर्व्वं देवपादोदकाहुतिः ।
होतव्या जठरे वह्नौ स्वेन पाणितलेन तु” । तेन पादो-
दकेनापोशानं कृत्वा प्राणाहुतिर्नैवेद्येन कार्य्या । स्वदत-
नैवेद्यभक्षणन्तु पश्चादुपपादयिष्यते । ब्रह्मपु० “आपो-
शानञ्च गृह्णीयात् सर्व्वतोर्थमयञ्च यत् । अमृतो-
पस्तरणमसि विष्णोरन्नमयस्य च । अत्र चास्तरणार्थन्तु
प्राश्यते ह्यमृतं सकृत् । अमृतोपस्तरणमसि स्वाहेति च
समुद्धरेत्” । सन्ध्यापद्धतौ लिखितवचनं प्रमाणय-
न्तोऽसीत्येतदनन्तरं स्वाहाकारं कुर्व्वन्ति । ब्रह्मपु०
“हस्तेन लङ्घयेन्नान्नं नोदकेन कदाचन । दम्भाद्योलङ्घ
येम्भुञ्जस्तेनान्नं निहतं भवेत् । हतञ्चान्नमभक्ष्यत्वं तस्य
याति दुरात्मनः । प्राणेभ्यस्त्वथ पञ्चभ्यः स्वाहाप्रणवसं-
युताः । पञ्चाहुतीस्तु जुहुयात् प्रलयाग्निनिभेषु च ।
प्राणाहुतिमुद्रामाह शौनकः । “तर्जनीमध्यमाङ्गुष्ठैर्लग्ना
प्राणाहुतिर्भवेत् । मध्यमानामिकाङ्गुष्ठैरपाने जुहुया
त्ततः । कनिष्ठानामिकाङ्गुष्ठैर्व्याने च जुहुयाद्धविः । तर्ज
नीन्तु अहिष्कृत्वा उदाने जुहुयात्ततः । समाने सर्व्वहस्तेन
समुदायाहुतिर्भंवेत्” । स्मृत्यर्थसारे । “प्राणाहुतौ घृता-
भावे पश्चाद्भुञ्जीत नो घृतम्” । देवलः “न भुञ्जीत घृतं नित्यं
गृहस्थो भोजनद्वये । पवित्रमथ जुष्टञ्च सर्पिराहुरघा-
पहम्” । काशी० “दर्भपाणिस्तु योभुङ्क्षेतस्य दोषोन
बाधते । केशकीठादिसम्भूतस्ततोऽश्नीयात् सदर्भकः ।
यावदेवान्नमश्नीयान्न ब्रूयात्तद्गुणागुणान् । अतोमौनेन-
योभुङ्क्षे स भुङ्क्ते केवलामृतम्” । मनुः “स्वाध्याये भोजने
चैव दक्षिणं पाणिपुड्वरेत्” । उड्वरेद्वस्त्राद्बहिः कुर्य्यादि-
त्यर्थः । बौधा० “आचम्प संवृते देशे उपविश्यान्नं
संगृंह्य सर्व्वाङ्गुलीभिरशब्दमश्नीयात्” । संगृह्य अन्न-
पात्रं सम्यक्स्पृष्ट्वेत्यर्थः । काशी० “प्रदद्याम्भुवः पतये
भुवनपतये तथा । भूतानां पतये स्वाहेत्युक्त्वा भूमौ
बलित्रयम् । आपोशानं विधानेन कृत्वाश्नीयात् सुधीर्द्विजः” ।
ब्रह्मपु० “तेजोसीति जपस्त्वन्नं प्रणमेदमृतञ्च यत् ।
आपोशानञ्च गृह्णीयात् सर्व्वतीर्थमयञ्च यत् । अमृतो-
पस्तरणमसि विष्णोरन्नमयस्य च” । अन्नमयस्य विष्णो-
र्यदास्तरणमसीत्यर्थः ततश्च तेजोसीति नमस्कृत्य
भुञ्जीतेत्यर्थः । भविष्यो० “स्नातस्तु वरुणस्तेजी जुह्व-
तोऽग्निः श्रियं हरेत् । भुञ्जानस्य यमस्त्वायुस्तस्मान्न-
व्याहरेत्त्रिषु” । मौने विशेषमाह आप० । “तत्र
त्रैविद्यवृद्धैर्मुनिभिरन्यैराश्रमिभिर्बहुश्रुतैर्दन्तैर्दन्तानसन्धा-
यान्तर्मुख एव यावद्यावदर्थं भाषेत न मन्त्रलोपोभवती-
तिविज्ञायते इति” मन्त्रलोपोमौनब्रतलोपः । ब्रह्मपु०
“यस्तु पाणितले भुङ्क्ते यस्तु हुङ्कारसंयुतम् । प्रसृता-
ङ्गुलिभिर्यस्तु तस्य गोमांसवद्भवेत् । करेण च पिबेत्तोयं
यावन्मांसं न भक्षयेत् । मांसलिप्तकरे तोयं तुल्यं
गोमांसभक्षणैः” । अत्र मांसलिप्तकरेण जलपाननिषेधात्
मांसलिप्तकरं प्रलाल्यैवापोशनं कर्त्तव्यम् । प्रत्यापोशाने तु
हस्तप्रक्षालननिषेधात् मांसलिप्तकरं प्रक्षाल्य पुनरन्नलिप्त
करेण प्रत्यापोशानं कर्त्तव्यम् । षट् त्रि० “पिब-
तो यत् पतेत्तोयं भाजने मुस्वनिःसृतम् । अभक्ष्यं तद्भवे-
दन्नं भुक्त्वा चान्द्रायणञ्चरेत् । वामपार्श्वेस्थिते तोये
योभुङ्क्ते ज्ञानदुर्बलः । ग्रासे ग्रासे मलं भुक्त्वा पानीयं रुधिरं
पिबेत् । विद्यमाने तु हस्ते तु व्राह्मणोज्ञानदुर्बलः ।
तोयं पिबति वक्त्रेण श्वादिर्जायेत नात्यथा । उद्धृत्य
वामहस्तेन यत्तोयं पिवति द्विजः । सुरापानेन तुल्यं स्यात्
मनुराह प्रजापतिः” । वामहस्तेन केवलवामहस्तेन ।
अतएव “पीतशेषन्तु यत्तोयं तत्पिबेन्न द्विजोत्तमः” ।
“पीतशेषं पिबेन्नैव” इति ब्रह्मपु० अविशेषात् सर्व्वं
पृष्ठ ०९०३
निषिद्धम्” । व्रह्म० “तिलकल्कं जलं क्षीरं दधि
क्षौद्र घृतानि च । न त्यजेदर्द्धजग्धानि सक्तुं शाकं
कदाचन” । भारते “पानीयं पायसं सर्पिर्दधिक्षौद्र-
घृतान्यपि । निरश्यं शेषमेतेषां न प्रदेयन्तु कस्यचित्” ।
एतन्न त्याज्यं अशक्तौ कस्यचिन्न देयमित्यर्थः । निरश्यं
निःशेषमशनीयमित्यर्थः । तथा “अन्नं प्रशस्तं पथ्यञ्च
प्रोक्षितं प्रोक्षणोदकैः” । इति प्रागुक्तविष्णुपुराणाद्युक्ते-
तरभक्षणे दोषमाह मनुः “आलस्यादन्नदोषाच्च मृत्युर्वि
प्रान् जिघांसति” । अन्नदोषस्त्रिविधः दृष्टद्वारकः अदृष्ट
द्वारकः दृष्टादृष्टद्वारकः । दृष्टद्वारकआयुर्व्वेदोक्तः ।
अदृष्टद्वारकः स्मृत्युक्तः । उभयत्रोक्तास्तु बालवत्साविवत्सा-
दुग्धादिदोषा दृष्टा दृष्टद्वारकाः । अतएव मनुनैवोक्तम् “स्वा-
ध्याये चैव युक्तः स्यात् नित्यमात्महितेषु च” युक्त
उद्घुक्तः । हारीतः “पृथक् पानं पुनर्दानमामिषं
पायसानि च । दन्तच्छेदनमुष्णञ्च सप्त सक्तुषु वर्जयेत्” ।
सचाहारस्त्रिविधः सात्विकराजसतामसभेदात् यथोक्तं
गीतायाम् “आहारस्त्वपि सर्वस्य त्रिविधोभवति प्रियः ।
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु” इत्युपक्रम्य “आयुः-
सत्त्वेत्यादि” तच्च वाक्यम् आ० त० ९०१ पृष्ठे दर्शितम्” ।
अत्र सर्व्वत्र “कृदभिहितोभावोद्रव्यवत् प्रकाशते” इति
भाष्योक्तेः आह्रियते भुज्यते कर्म्मणि घञि वा आहारशब्दस्य
भक्ष्यपरत्वम् अतएव भावप्र० “आहारः षड़िवधश्चूष्य-
मित्यादि” ८९९ पृष्ठेउक्तम् । स च षोढा “आहार्य्यंषड्विधं
भोज्य भक्ष्यं चर्व्यं तथैव च । लेह्यं चूष्यं तथा पेयं
तदुदाहारणानि तु । भोज्यमोदनपूपादि भक्ष्यमोदन-
मण्डके । चर्व्यं चिपिटधानादि रसालादि तु लिह्यते ।
चूष्यमाम्रफलेक्ष्वादि षीयते पानकं पयः” भाप्रप्र० उक्तेः ।
आह्रियते इत्याहारः । ३ शब्दादिविषयज्ञाने च
आहारशुद्धि शब्देशा० भा० वाक्यम् उदा० ।

आहारपाक पु० आहारस्य भक्ष्यस्य पाकः रसादि-

भावेन परिणामः । वैद्यकोक्ते भुक्तस्यान्नादेराहारस्य
रसादिरूपेण परिणामरूपे पाकभेदे तत्पाकप्रकारः
पदार्थादर्शधृतयगार्ण्णववाक्ये उक्तः तच्च आग्निशब्दे ४९ पृष्ठे
दर्शितम् । भावप्रकाशोक्तस्तत्प्रकारस्तु असृक्करशब्दे ४५८
पृष्ठे उक्तः ।

आहारशुद्धि स्त्री आहारस्य भक्ष्यादेः शुद्धिः । १ भक्ष्यादि-

द्रव्यस्य १ शुद्धौ सा च शुद्धिः स्मृत्युक्तदिशाऽवसेया । सा च
अभक्ष्यमर्ज्जनेन भक्ष्यभोजनएप भवति । अभक्ष्याणि च
अभक्ष्यशब्दे २७४ पृष्ठे उक्तानि । आहारदोषनिवारणार्था
शुद्धिः । २ दुष्टाहारजन्यदोषनिवारणार्थायां शुद्धौ प्रायश्चित्ते ।
“आहारशुद्धि वक्ष्यामि तन्मे निगदतः शृणु । अक्षारलवणं
भैक्ष्यं पिबेद्ब्राह्मीं सुर्व्वसम्” इत्यादिना अत्रिस०
दर्शिता । ३ शब्दादिविषयज्ञानशुद्धौ च “आहारशुद्धौ
सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः” छा० उ० । “आह्रि-
यते इत्याहारः शब्दादिविषयज्ञानम् तद्धि भोक्तुर्भोगाया-
ह्रियते तस्य विषयोपलब्धिलक्षणस्य विज्ञानस्य शुद्धि
राहारशुद्धिः रागद्वेषमोहदोषैरसंसृष्टविषयविज्ञान-
मित्यनर्थान्तरं तस्याहारस्य शुद्धौ सत्यां तद्वतोऽन्तःकरण
सत्त्वस्य शुद्धिर्नैर्मल्यं भवति” भाष्यम् । आहारशब्दस्य
भक्ष्यार्थतामपहाय तथा व्याख्यानं तु “रागद्वेषवि-
मुक्तैस्तु विषयानिन्द्रियैश्चरन्” इति गीतोक्तिमनुसृ-
त्यैवेति आनन्दगिरिः ।

आहारसम्भव पु० आहारात् भोज्यद्रव्यात् सम्भवति सम् +

भू--अच् । आहारपाकजे देहस्थे रसधातौ । रसस्य
यथाऽऽहारजत्वं तथाऽसृक्करशब्दे ४५८ पृष्ठे उक्तम् ।

आहार्य्य त्रि० आ + हृ--ण्यत् । १ आहरणीये “अथ मूलमना-

हार्य्यं प्रकाशक्रयशोधनम्” मनुः । २ व्याप्ये “कार्य्यञ्च तस्य
दशधाहार्य्यं धार्य्यं प्रकाश्यञ्च” सा० का० “आहार्य्यं
व्याप्यं कर्म्मेन्द्रियाणां वचनादानविहरणोत्सर्गानन्दा यथा
यथं व्याप्यास्ते च यथायथं दिव्यादिव्यतया दशेत्याहा-
र्य्यं दशधेति” सां० कौ० । कृत्रिमे “आहार्य्यशाभा-
रहितैरमायैः” भट्टिः । स्वार्थे कन् तत्रैव “आहार्य्यकमपि
तस्याः सहजमिवाशोमत” ७, २१, कुमा० मल्लि० । ४
लौकिके ५ औपासनिकेऽग्नौ च “आहार्य्येणानाहिता-
ग्निम्” “पत्नीञ्च” आश्र० श्रौ० । “येनाहिताग्निना
सर्व्वाधानं कृतं तस्य पत्नों लोकिकेन, यस्यौपासनश्चास्ति
तस्य पत्नीमौपसनिकेन दहेयुः” नारा० । ६ इच्छाप्रयो-
ज्यारोपेण विषयीकार्य्योबाधनिश्चयकालिके तद्धर्म्माभाववति
तद्धर्म्मवत्त्वेन ज्ञेये । भावे क्त । ७ तादृशज्ञाने न० । यथा
निर्वह्निः पर्व्वतो वह्निमानिति ज्ञानं तच्च वह्न्यभाववति
पर्वते वह्निप्रकारकत्वात् इच्छाप्रयोज्यत्वाच्च आहार्य्यम् । तच्च
प्रत्यक्षमेव तदभाववत्त्वेन निश्चितेऽपि धर्म्मिणि तद्बोधस्य
इच्छाप्रयोज्यत्वात् “परोक्षज्ञानम् अनाहार्य्यम् निश्च-
यश्चेति सिद्धान्तः” चिन्ता० । “शाब्दबोधोऽप्या-
हार्य्योभवत्यालङ्कारिका यथा अयं मुखमित्यादौ चन्द्र-
भिन्ने मुखे चन्द्राभेदज्ञानम् तच्चाहार्य्यमेव ८०४ पृ० आरो-
पृष्ठ ०९०४
पशब्देऽधिकमुक्तम् । “भवेदभिनयोऽवस्थानुकारः स
चतुर्विधः । आङ्गिकोवाचिकश्चैवमाहाय्यः सात्विकस्तथा”
सा० द० उक्ते नटादिभिरात्मनि कर्त्तव्ये रामाद्यारोपहेतुके
८ अभिनयभेदे च । आ + हृ--कर्म्मणि ण्यत् उपसर्गयोगात्
९ भक्ष्ये “आहार्य्यं षड्विधं भक्ष्यमित्यादि” भाव० प्र० ।

आहाव पु० आ + ह्वे + घञ् संप्रसारणे वृद्धिः । कूपसमीपे

गवादीनां जलपानाय प्रस्तरादिना रविते (खाल) १ क्षुद्रजला-
शये निपाने “प्राविशन्नाहवप्रज्ञा आहावमुपलिप्सवः”
भट्टिः । “आहावमुदकाधारम्” जयन० “निपानमाहावः”
पा० । २ युद्धे । भावे घञ् । ३ आह्वाने आ + हु--आधारे
घञ् । ४ अग्नौ । “नाभिं यज्ञानां सदनं रयीणां
महामाहावभि संनवन्त” ऋ० ६, ७, २ । आहूयतेऽस्मिन्नाहा
वमग्निम् वृष्ट्युदकधारणमाहावं निपानास्थानीयं वा”
भा० । आ + ह्वे--भावे करणे वा घञ् । ५ मन्त्रविशेषेणा-
ह्वाने ६ आह्वानसाधने मन्त्रभेदे च “आदौ निविद्धानी-
यानां सूक्तानामनेकञ्चेत् प्रथमेष्वाहावः” आश्व० श्रौ० ।
“तस्यानेकत्वे प्रथम एवाहावः” वृत्तिः “तृतीयसवने शस्त्रा-
दिष्वाहावः आश्व० श्रौ० । “एषु आहावः प्रातः
सवनेन शास्त्रादिषु” आ० श्रौ० । “एषु स्थानेषु ऋगक्षरेणा-
ह्वाने विहिते शींसावोमित्यनेनैवाह्वानं कुर्य्यात् नान्ये
नेति नियम्यते” वृत्तिः “शों सामों दैवेत्याहावे” आश्व०
श्रौ० प्रतिगरसंज्ञार्थमिमे सूत्रे ।

आहिंसि पुंस्त्री अहिंसस्यापत्यम् इञ् । अहिंसकापत्ये ततः

युवापत्ये फक् तौल्व० तस्य न लुक् । आहिंसायनः तत्पौत्रे ।

आहिक पु० अहिरिव कन् स्वार्थे अण् । १ केतुग्रहे हेमच०

तस्य सर्पतुल्याकृतित्वात्तथात्वम् । २ पाणिनिमुनौ च त्रिका० ।

आहिच्छत्र त्रि० अहिच्छत्रदेशे भवः अण् । अहिच्छत्रदेशे भवे

आहिण्डिक पु० निषादेन वैदेह्यां जनिते अन्त्यजवर्ण्णसङ्कर-

भेदे “आहिण्डिको निषादेन वैदेह्यामेव जायते” मनुः ।
“बाह्यसंरक्षणादावाहिण्डिकानाम्” औशनससूत्रोक्ता
तद्वृत्तिर्ज्ञोया ।

आहित त्रि० आ + धा--क्त ह्यादेशः । १ न्यस्ते, २ स्थापिते,

३ अर्पिते । “व्यावर्त्तनैरहिपतेरयमाहिताङ्कः” किरा०
४ कृते, ५ कृताधानसंस्कारे च “प्रणीताश्चाप्रणीतश्च यथाऽग्नि-
दैवतं नृणाम्” मनुव्या० “आहितोऽनाहितोवाग्नि-
रिति” कुल्लू० ।

आहितलक्षण त्रि० आहितं उक्षणं यस्य । १ गुणादिद्वारा विख्याते २ न्यस्तचिह्ने च ।

आहिताग्नि त्रि० आहितोऽग्निर्येन । वेदमन्त्रादिना कृत

संस्काराग्नियुक्ते तदाधानप्रकारः आधानशब्दे ७०८ पृष्ठे
उक्तप्रायः । आश्व० श्रौ० २ प्र० २ क० विस्तरेणोक्तः ।
“न दर्शेन विना श्राद्ध्वमाहिताग्नेर्द्विजन्मनः” मनुः । “गुरो-
रपीदं धनमाहिताग्नेः” रघुः । “आहिताग्निः सन्नव्र-
त्यमिदं चरेत्” तैत्ति० “न वाऽऽहिताग्निनानृतं वदितव्यम्”
शत० ब्रा० २, २, २, २० । “देवान् वा एष उपावर्त्तते य
आहिताग्निर्भवति” ऐत० ब्रा० । आहार्य्येणैवानाहिता-
ग्निम्” आश्व० श्रौ० । वा परनिपाते अग्न्याहितोऽप्यत्र ।

आहिताग्निगण पु० पाणिन्युक्ते वा परनिपातार्थे शब्दसमूह-

भेदे । स च गणः आहिताग्नि जातपुत्र जातदन्त
जातश्मश्रु तैलपीत मृतपीत मद्यपीत ऊढभार्य्य गतार्थ”
“आकृतिगणः तेनान्येऽपि” सि० कौ० ।

आहिति स्त्री आ + धा क्तिन् ह्यादेशः । १ स्थापने २ आधाने

मन्त्रेणाग्न्यादेः संस्कारे ३ आहुतौ च । “तस्मिन् यत्कि-
ञ्चात्यादध्यादाहितय एव ताः आहितयोह वै ता आहुतय
इत्याचक्षते” शत० ब्रा० १०, ६, २, २२, ।

आहितुण्डिक त्रि० अहितुण्डेन दीव्यति ठक् । व्यालग्राहिणि (सापुड़े) ।

आहिमत त्रि० अहिमतोऽदूरभवः अण् । सर्पविशिष्टदेशादूरभवे।

आहुक पु० यदुवंश्ये क्षत्रियमेदे स च वसुदेवएव । “केशवो-

ऽषि मुदा युक्तः प्रविवेश पुरोत्तमम् । पूज्यमानो
यदुश्रेष्ठैरुग्रसेनमुखैस्तथा । आहुकं पितरं वृद्धं मातरंच
यशस्विनीम् । अभिवाद्य बलञ्चैव स्थितः कमललोचनः” इति
भा० सभा० २ अ० । अत्र केशबपितृत्वेन कीर्त्तनात्
वसुदेवस्य नामान्तरत्वं तस्य प्रतीयते “एवं आहुकश्चाहुकी चैव
ख्यातौ ख्यातिमतांवरौ” हरि० ३८ अ० । एवमाहु-
किन् तद्वंश्येक्षत्रिये पु० ।

आहुत न० उद्देश्यस्याभिमुख्येन साक्षादेव हुतं दत्तम् आ +

हु--क्त । गृहस्थकर्त्तव्येषु पञ्चसु यज्ञेषु १ मनुष्ययज्ञे, २
मूतयज्ञे चेत्यन्ये । कर्म्मणिक्त । ३ आभिमुख्येन हुते देवादौ त्रि०

आहुति स्त्री आ + हु--क्तिन् । देवोद्देशेन मन्त्रेणाग्नौ हविः-

क्षेपे । “अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते” मनुः ।
“वेत्य सौम्य! यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति”
छा० उ० । “प्रातराहुत्यां हुतायां पूर्ण्णाहुत्यन्ते वरदा-
नम्” कात्या० २०, १, २० । “जुहुयात्सर्पिराहुतीः”
मनुः “प्राणाद्याहुतिपञ्चकम्” स्मृतिः । आहूयते कर्मणि
क्त । २ आहूयमाने हवनीयद्रव्ये हविरादौ । “पुनानं पवनो-
द्धूतैर्धूमैराहुतिगन्धिभिः” रघुः । “ब्रह्माहुतिहुतं यच्च” मनुः ।
पृष्ठ ०९०५

आहुल्य न० आ + ह्वल--बा० क्यप् संप्रसारणञ्च । काश्मी-

रादौ (तरवट) इति प्रसिद्धे काञ्चनवर्ण्णपुष्पे
शिल्वीफले क्षुपभेदे ।

आहुव त्रि० आ + ह्वा--घञर्थे कर्म्मणि क संप्र० उवङ् । आह्वा-

तव्ये “अनुकृष्टीनामन्वाहुवः” ऋ० ८, ३२, १९, आहुवः
आह्वातव्यः” भा० ।

आहू त्रि० आह्वयति आ + ह्वे--क्विप् संप्र० । १ आह्वायके । २ आहूयमाने च ।

आहूत त्रि० आ + ह्वे--क्त । कृताह्वाने १ आकारिते “आहूत

इव मे शीघ्रम्” भाग० १० स्कन्धे । “नचाहूतोवदेत् किञ्चि-
द्धीनोदण्ड्यश्च स स्मृतः” या० स्मृतिः । “यियक्षमाणेनाहूतः
पार्थेनाथ द्विषन्मुरम्” माघः । “आहूतो न निवर्त्तोतद्यूता-
दपि रणादपि” । आभूत + पृ० भस्य हः । २ आभूतप्रलयपर्य्यन्ते
“पटोलानि कदम्बानि वृन्ताकसहितानि च । न त्यजेत्
कार्त्तिके यस्तु यावदाहूतनारकी” ति० त० पु० “आहूतम्
आभूतप्रलयपर्य्यन्तम्” रघु० ३ नामकृतव्यपदेशे विश्वे च ।
सृष्टिकाले हि भूतानां तत्तन्नामव्यपदेश इति विश्वव्यपदेश
पर्य्यन्तमित्येव तस्यार्थोन्याय्यः । भावे क्त । ४ आह्वाने ।

आहूतप्रपलायिन् त्रि० आहूतः विवादनिर्ण्णयाय राज्ञाहूतो-

ऽपि प्रपलायते प्र + परा--अय--णिनि रस्य लः । व्यवहारे
हीनवादिभेदे स च पञ्चविधः । “अन्यवादी क्रियाद्वेषी,
नोपास्थाता निरुत्तरः । आहूतप्रपलायी च हीनः पञ्च-
विधः स्मृतः” मिता० स्मृत्युक्तेः ।

आहूतसंप्लव पु० आहूतस्य नाम्ना कृतव्यपदेशस्य विश्वस्य

संप्लवोयत्र । प्रलयकाले तत्र हि कृतव्यपदेशस्य विश्वस्य
व्यपदेशाभावेन व्यवहार्य्यत्वाभावः । “आहूतसंप्लवस्थानममृतत्वं
भाषते” इति पुराणे आभूतेत्यत्राहूतेति पाठान्तरम् ।

आहूति स्त्री आ + ह्वे--क्तिन् । आह्वाने (डाका) ।

आहूय अव्य० आ + ह्वे--ल्यप् । आह्वानं कृत्त्वेत्यर्थे “आहूय

दानं कन्याया ब्राह्मोधर्म्मः प्रकीर्त्तितः” मनुः ।

आहृत त्रि० आ + हृ--क्त । आनीते कृताहरणे ।

आहृति स्त्री आहृ--क्तिन् । आहरणे आनयने ।

आहृत्य अव्य० आ + हृ--ल्यप् । आहरणं कृत्वा आनीये-

त्यर्थे “समाहृत्यान्यतन्त्राणि” अमरः ।

आहेय त्रि० अहेरिदम् ढक् । सर्पसम्बन्धिनि विषचर्म्मास्थ्यादौ

आहो अव्य० आ + हन--डो । १ प्रश्ने, २ विकल्पे, ३ विचारे च ।

“यत्रायं पुरुषोभ्रियत उदस्मात् प्राणाः क्रामन्त्याहो नेति”
शत० ब्रा० १४, ६, २, १२, “आहो विद्वानमुं लोकं प्रेत्य-
कञ्चित् समश्नुते” कठो० । “आहो निवत्स्यति
समं हरिणाङ्गनाभिः” शाकुन्तले सखींप्रति दुष्मन्तप्रश्नः ।

आहोपुरुषिका स्त्री अहमेव पुरुषः शूरः मयू० अहो पुरुषः

तस्य भावः वुञ् स्त्वीत्वात् टाप् । दर्पजन्ये आत्मनि
उत्कर्षसम्भावने (वाहादुरी) “आहोपुरुषिकां पश्य मम
सद्रत्नकान्तिभिः” भट्टिः ।

आहोस्वित् अव्य० आहो च स्विच्च द्व० । १ विकल्पे, २ प्रश्ने च

“आहोस्वित् शाश्वतं स्थानं तेषां तत्र द्विजोत्तम!” भा०
स० ५ अ० । द्विपदमित्येके ।

आह्न न० अह्नां समूहः खण्डिका० अञ् । दिनसमूहे “अहो-

रात्रे वा अभिर्बत्तमाने संवत्सरमाप्नुतः संवत्सर इदं
सर्व्वमाह्नायैवैतामरिष्टिं स्वस्तिमाशास्ते” शत० ब्रा० ६, ६,
४, ३, अह्ना निर्वृत्तादि चतुरर्थ्याम् संकलादि० अञ् ।
दिननिर्वृत्तादौ त्रि० ।

आह्निक त्रि० अह्नि भवः अह्ना निर्वृत्तं साध्यं ठञ्स्त्रियां

ङीप् । १ दिनभवे २ दिनसाध्ये च । “भरद्वाजस्तु कौन्तेय
कृत्वा स्वाध्यायमाह्निकम्” भा० त० १३७ अ० । “अत्राह्निकं
सुरश्रेष्ठोजपते समरुद्गणः” भा० व० १४२ अ० । दिनकर्त्त-
व्यानि आह्निकतत्त्वे आह्निककृत्यप्रदीपादौ उक्तानि ।
दिवसकर्त्तव्यान्याचारशब्दे ६३१ पृष्ठे उक्तप्रायाणि
दिनविभागेषु कर्त्तव्यभेदोदक्षेण संक्षेपात् दर्शितो यथा ।
“प्रातरुत्थाय कर्त्तव्यं यद्द्विजेन दिने दिने । तत्सर्वं सं
प्रवक्ष्यामि द्विजानामुपकारकम् । उदयास्तमयं यावन्न
विप्रः क्षणिकोभवेत् । नित्यनैमित्तिकैर्मुक्तः कामैश्चान्यैर-
गर्हितैः । यः स्वकर्म परित्यज्य यदन्यत् कुरुते द्विजः ।
अज्ञानाद्यदि वा मोहात् स तेन पतितोभवेत् । दिवस-
ख्याद्यभागे तु कृत्यं तस्योपदिश्यते । द्वितीये च तृतीये च
चतुर्थे पञ्चमे तथा । षष्ठे च सप्तमे चैव अष्टमे च पृथक्
पृथक् । विभागेष्वेषु यत्कर्म्म तत्प्रवक्ष्याम्यशेषतः ।
उषःकाले तु संप्राप्ते शौचं कृत्वा यथार्थवत् । ततःऽस्नानं
प्रकुर्व्वीत दन्तधावनपूर्व्वकम् । अत्यन्तमलिनः कायोन-
वच्छिद्रसमन्वितः । स्रवत्येष दिवा रात्रौ प्रातःस्नानं विशो-
धनम् क्लिद्यन्ति हि प्रसुप्तस्य इन्द्रियाणि स्रवन्ति च ।
अङ्गानि समतां यान्ति उत्तमान्यधमैः सह । नानास्वेद-
समाकीर्णः शयनादुत्थितः पुमान् । अस्नात्वा नाचरेत्
कर्म जपहोमादि किञ्चन । प्रातरुत्थाय योविप्रः प्रातः-
स्नायी भवेत् सदा । समस्तजन्मजं पापं त्रिभिर्वर्षैर्व्यपो-
हति । उषस्युषसि यत्स्नानं सन्ध्यायामुदिते रवौ । प्रा-
जापत्येन तत्तुल्यं महापातकनाशनम् । प्रातःस्नानं प्र-
पृष्ठ ०९०६
शंसन्ति दृष्टादृष्टकरं हि तत् । सर्वमर्हति पूतात्मा प्रातः-
स्नायी जपादिकम् । स्नानादनन्तरं तावदुपस्पर्शनमु-
च्यते । अनेन तु विधानेन आचान्तः शुचितामियात् ।
प्रक्षाल्य पादौ हस्तौ च त्रिः पिवेदम्बु वीक्षितम् । सं
वृत्याङ्गुष्ठमूलेन द्विःप्रमृज्यात्ततोमुखम् । संहत्य तिसृभिः
पूर्ब्बमास्यमेवमुपस्पृशेत् । ततः पादौ समभ्युक्ष्य अङ्गानि
समुपस्पृशेत् । अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम् ।
अङ्गुष्ठनामिकाभ्याञ्च चक्षुःश्रोत्रे पुनःपुनः । कनिष्ठा-
ङ्गुष्ठेन नाभिं हृदयञ्च तलेन वै । सर्वाभिस्तु शिरः पश्चा-
द्बाहू चाग्रेण सस्पृशेत् । सन्ध्यायाञ्च प्रभाते च मध्याह्ने
च ततः पुनः । सन्ध्यां नोपासीत यस्तु ब्राह्मणोहि विशे-
षतः । स जीवन्नेव शूद्रः स्यान्मृतः श्वा चैव जायते ।
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्म्मसु । यदन्यत् कुरुते
कर्म न तस्य फलमश्नुते । सन्ध्याकर्मावसाने तु स्वयंहो-
मोविधीयते । स्वयं होमे फलं यत्तु तदन्येन न जायते ।
ऋत्विक् पुत्रोगुरुर्भ्राता भागिनेयोऽथ विट्पतिः ।
एभिरेव हुतं यत्तु तद्धुतं स्वयमेव हि । देवकार्य्यं ततः कृत्वा
गुरुमङ्गलवीक्षणम् । देवकार्य्याणि पूर्वाह्णे मनुष्याणाञ्च
मध्यमे । पितॄणामपराह्णे च कार्य्याण्येतानि यत्नतः ।
पौर्वाहिणकन्तु यत् कर्म यदि तत् सायमाचरेत् । न तस्य
फलमाप्नोति बन्ध्यस्त्रीमैथुनं यथा । दिवसस्याद्यभागे तु
सर्वमेतद्विधीयते । द्वितीये च तथा मागे वेदाभ्यासोवि-
धीयते । वेदाभ्यासोहि विप्राणां परमं तपौच्यते । ब्रह्म-
यज्ञः स विज्ञेयः षड़ङ्गसहितस्तु सः । वेदस्वीकरणं पूर्बं
विचारोऽभ्यसनं जपः । ततोदानञ्च शिष्येभ्योवेदाभ्या-
सोहि पञ्चधा । समित्पुष्पकुशादीनां स कालः समुदा-
हृतः । तृतीये चैव भागे तु पोष्यवर्गार्थसाधनम् । पिता
माता गुरुर्भार्य्या प्रजा दीनाः समाश्रिताः । अभ्यागतोऽ-
तिथिश्चान्यः पोष्यवर्गौदाहृतः । ज्ञातिर्बर्न्धुजनः क्षीणस्त-
थाऽनाथः समाश्रितः । अन्येऽप्यधनयुक्ताश्च पोष्यवर्गौदा-
हृतः । भरणं पोष्यवर्गस्य प्रशस्तं खर्गसाधनम् । नरकं
पीड़ने चास्य तस्माद्यत्नेन तं भरेत् । सार्वभौतिकमन्नाद्यं
कर्त्तव्यन्तु विशेषतः । ज्ञानविद्भ्यः प्रदातव्यमन्यथा नरकं
व्रजेत् । स जीवति यएवैकोबहुभिश्चोपजीव्यते । जीवन्तो-
मृतकाश्चान्ये य आत्मम्भरयो नराः । वह्वर्थे जीव्यते
कैश्चित् कुटुम्बार्थे तथा परैः । आत्मार्थेऽन्योन शक्नोति स्वो-
दरेणापि दुःखितः । दीनानाथविशिष्टेभ्योदातव्यं भूतिमि-
च्छता । अदत्तदाना जायन्ते परभाग्योपजीविनः । यद्द-
दाति विशिष्टेभ्योयज्जुहोति दिने दिने । तत्तु वित्तमह
मन्ये शेषं कस्यापि रक्षति । चतुर्थे च तथा भागे स्नानार्थं
मृदमाहरेत् । तिलपुष्पकुशादीनि स्नानञ्चाकृत्रिमे जले ।
नित्यं नैमित्तिकं काम्य त्रिविधं स्नानमुच्यते । तेषां मध्ये
तु यन्नित्यं तत्पुनर्भिद्यते त्रिधा । मलापहरणं पश्चा-
न्मन्त्रवत्तु जले स्मृतम् । सन्ध्यास्नानमुभाभ्याञ्च स्नानभेदाः
प्रकीर्त्तिताः । मार्जनं जलमध्ये तु प्राणायामोयतस्ततः ।
उपस्थानं ततः पश्चात् सावित्र्याजपौच्यते । सविता देबता
यस्या मुखमग्निस्त्रिधा स्थितः । विश्वामित्रऋषिश्छन्दोगा-
यत्री सा विशिष्यते । पञ्चमे च तथा भागे संविभागोय-
थार्हतः । पितृदेवमनुष्याणांकीटानाञ्चोपदिश्यते । देवैश्चैव
मनुष्यैश्च तिर्यग्भिश्चोपजीव्यते । गृहस्थः प्रत्यहं यस्मा-
त्तस्माज्ज्येष्ठाश्रमी गृही । त्रयाणामाश्रमाणान्तु गृहस्थो
योनिरुच्यते । तेनैव सीदमानेन सीदन्तीहेतरे त्रयः ।
मूलप्राणोभवेत् स्कन्धः स्कन्धाच्छाखाः सपल्लवाः । मूलेनैव
विनष्टेन सर्वमेतद्विनश्यति । तस्मात् सर्व्वप्रयत्नेन रक्षित-
व्योगृहाश्रमी । राज्ञा, चान्यैस्त्रिभिः पूज्योमाननीयश्च
सर्व्वदा । गृहस्थोऽपि क्रियायुक्तो न गृहेण गृहाश्रमी ।
न चैव पुत्रदारेण स्वकर्मपरिवर्जितः । अस्नात्वा चाप्यहुत्वा
चाजप्त्वाऽदत्त्वा च मानवः । देवादीनामृणी भूत्वा नरकं
प्रतिपद्यते । एकएव हि भुङ्क्तेऽन्नमपरोऽन्नेन भुज्यते ।
न भुज्यते सएवैकोयोभुङ्क्तेऽन्नं ससाक्षिणा । विभागशीलो
योनित्यं क्षमायुक्तोदयापरः । देवतातिथिभक्तश्च गृहस्थः
स तु धार्म्मिकः । दया लज्जा क्षमा श्रद्धा प्रज्ञा योगः
कृतज्ञता । एते यस्य गुणाः सन्ति स गृही मुख्यौच्यते ।
स विभागं ततः कृत्वा गृहस्थः शेषभुग्भवेत् । भुक्त्वा तु
सुखमास्थाय तदन्नं परिणामयेत् । इतिहासपुराणाद्यैः
षष्ठञ्च सप्तमं नयेत् । अष्टमे लोकयात्रा तु बहिःसन्ध्या
ततः पुनः । होमोभोजनकञ्चैव यच्चान्यद्गृहकृत्यकम् ।
कृत्वा चैवं ततः पश्चात् स्वाध्यायं किञ्चिदाहरेत् । प्रदोष
पश्चिमौ यामौ वेदाभ्यासेन तौ नयेत् । यामद्वयं शयानोहि
ब्रह्मभूयाय कल्पते । नैमित्तिकानि काम्यानि निपतन्ति
यथा यथा । तथा तथैव कार्य्याणि न कालस्तु विधीयते ।
अस्मिन्नेव प्रयुञ्जानोह्यस्मिन्नेव तु लीयते । तस्मात् सर्ब्ध-
प्रयत्नेन कर्त्तव्यं सुखमिच्छता । सर्वत्र मध्यमौ यामौ
हुतशेषं हविश्चयत् । भुञ्जानश्च शयानश्च ब्राह्मणोनावसीदति”
अह्ना पाठ्यम् ठञ् । ३ सूत्रात्मकशास्त्रभाष्यस्य पादांश-
व्याख्याभेदे न० । यथा कणादगौतमपाणिनिसूत्रभाष्यस्य
पृष्ठ ०९०७
पादांशव्याख्यारूपाणि अह्ना पाठ्यत्वात् आह्निकानि
“तमधीष्टोभृतो भूतोवेति” पा० ठञ् । दिवसे--सत्कृत्य-
नियोजिते ३ अध्यापके ४ भृते वेतनेन क्रीते दासादौ
५ भूते स्वसत्तया व्याप्ते ज्वरादौ च ।

आह्लाद पु० आ + ह्लद--घञ् ॥ आनन्दे । “नन्दस्त्वात्मज

उत्पन्ने जाताह्लादो महामनाः” भाग० ।

आह्लादन द० आ + ह्लद--णिच्--ल्युट् । १ आनन्दसम्पादने

कर्त्तरि ल्यु । २ आनन्दसम्पादके त्रि० । करणे ल्युट् ।
३ आनन्दसाधने त्रि० स्त्रियां ङीप् ।

आह्लादित त्रि० आ + ह्लद--णिच्--क्त । १ कृतानन्दने । यस्या-

नन्दो जनितस्तस्मिन् । आह्लादोजातोऽस्य तार० इतच् ।
२ जाताह्लादे च ।

आह्लादिन् त्रि० आ--ह्लद--णिनि १ आनन्दयुक्ते णिच्-

णिनि । २ आनन्दकारके । स्त्रियामुभयतो ङीप् ।

आह्व त्रि० आह्वयति आ + ह्वे--ड । आह्वानकारके ।

आह्वय पु० आह्वैर्यायते प्राप्यते या--घञर्थे क ३ त० ।

१ नामनि आह्वायकैर्हि नामोच्चारणेनैव आहूयते इति
आह्वायकत्वप्राप्तौ नाम्न करणत्वात्तथात्वम् । आ + ह्वे बा०
करणे श इत्यन्ये “काव्यं रामायणाह्वयम्,” रामा० ।
गजाह्वयं शताह्वयं नागाह्वयम् इत्यादि । २ प्राणिभिर्मेषा-
दिभिः सपणद्यूतभेदे च सचाष्टादशविवादान्तर्गतः । “तेषा-
माद्यमृणादानम्” इत्युपक्रम्य “द्यूतमाह्वयएव च ।
पदान्यष्टादशैतानि व्यवहारस्थिताविहेति” मनूक्तेः । अस्यसम्-
पूर्ब्बकतापि “अप्राणिभिर्यत् क्रियते तल्लोके द्यूतमुच्यते
प्राणिभिः क्रियमाणस्तु स विज्ञेयः समाह्वयः” मनुना तथा
प्रयोगात् तत्स्वरूपमुक्तं मिता० नार० “अक्षबध्नशला-
काद्यैर्देवनं जिह्यकारितम् । पणक्रीड़ा वयोभिश्च पदं
द्यूतसमाह्वयम्” व्याख्यातञ्च मिता० यथा “अक्षाः
पाशकाः बध्नश्चर्म्मपट्टिका शलाका दन्तादिमय्यो दीर्घचतु-
रस्राः आद्यग्रहणात् चतुरङ्गादिक्रीड़ासाधनकरितुरगा-
दिकं गृह्यते । तैरप्राणिभिर्यद्देवनं क्रीड़ा पणपूर्व्विका-
क्रियते तथा वयोभिः पक्षिभिः कुक्कुटपारावतादिभिः
चशब्दान्मल्लमेषादिभिश्च प्राणिभिर्या पणपूर्विका क्रीडा
क्रियते तदुभयं द्यूतसमाह्वयाख्यं विवादपदम् । द्यूतञ्च
समाह्वयश्चद्यूतसमाह्वयम् । तत्प्रकारः तत्रैव दर्शितो यथा ।
“तत्र द्यूतसभाधिकारिणो वृत्तिमाह । “ग्लहे शतिकवृद्धेस्तु
सभिकः पञ्चकं शतम् । गृह्णीयाद्धूर्तकितवादितराद्दशकं
शतम्” या० । परस्परं सम्प्रतिपत्त्या कितवैः परिकल्पितः
११ वा० भाग २
पणोग्लह इत्युच्यते । तत्र ग्लहे तदाश्रया शतिका
शतपरिमितादधिकपरिमाणा वा वृद्धिर्यस्यासौ शतिकवृद्धिः
द्धूर्तकितवात्पञ्चकंतस्मा शतमात्मवृत्यर्थं सभिको गृह्णी
यात् । पञ्च पणाआयो यस्मिन् शते तच्छतं पञ्चकं “तद
स्मिन्वृद्ध्यायलाभेत्यादिना” (पा०)कन् । जितस्य ग्लहस्य
विंशतितमम्भागं गृह्णीयादित्यर्थः । सभा कितवनिवासार्था
यस्यास्त्यसौ (ठन्) सभिकः कल्पिताक्षादिनिखिलक्रीड़ोप-
करणस्तदुपचितद्रव्योपजीवी सभापतिरुच्यते । इतर
स्मात्पुनरपरिपूर्णशतिकवृद्वेःकितवाद्दशकं शतञ्जितद्रव्यस्य
दशमम्भागं गृह्णीयादिति यावत् । एवंकॢप्तवृत्तिना
सभिकेन किङ्कर्तव्यमित्यत आह । “स सम्यक्पालितीद
द्याद्राज्ञे भागं यथा कृतम् । जितमुद्ग्राहयेज्जेत्रे दद्या-
त्सत्यं वचःक्षमी” या० । यएवं कॢप्तवृत्तिर्द्यूताधिकारी
सराज्ञा धूर्त्तकितवेभ्यो रक्षितस्तस्मै राज्ञे यथा कृतं
सम्प्रतिपन्नमंशन्दद्यात् । तथा जितं यत् द्रव्यन्तदुद्ग्राह-
येद्बन्धकग्रहणेनासेधादिना च पराजितसकाशादुद्धरेदु-
द्धृत्य च तद्धनं जेत्रे जयिने सभिकोदद्यात् । तथा क्षमी
भूत्वा सत्यञ्च वचोविश्वासार्थं द्यूतकारिणां वदेत् ।
तदुक्तन्नारदेन । “सभिकः कारयेद्यूतन्देयन्दद्याच्च यत्कृत
मिति” । यदा पुनः सभिकोदापयितुन्न शक्नोति तदा राजा
दापयेदित्याह । “प्राप्ते नृपतिना भागे प्रसिद्धे धूर्तमण्डले ।
जितं ससभिके स्थाने दापयेदन्यथा न तु” या० । प्रसिद्धे
ऽप्रच्छन्ने राजाध्यक्षसमन्विते ससभिके सभिकसहिते
कितवसमाजे सभिकेन च राजभागे दत्ते राजा धूर्तकितव-
मविप्रतिपन्नं जितम्पणन्दापयेत् । अन्यथा प्रच्छन्ने
सभिकरहिते अदत्तराजभागे द्यूते जितम्पणञ्जेत्रे न दापयेत् ।
जयपराजयविप्रतिपत्तौ निर्णयोपायमाह । “द्रष्टारो व्यव-
हाराणां साक्षिणश्च तएव हि” या० । द्यूतव्यवहाराणां
द्रष्टारः सभ्यास्तएव कितवाएव राज्ञा नियोक्तव्याः न
पुनःश्रुताध्ययनसम्पन्ना इत्यादिनियमोऽस्ति । साक्षिणश्च
द्यूते द्यूतकाराएव कार्य्याः न वा तत्र स्त्रीबालवृद्धकितवेत्या-
दिनिषेधोऽस्ति । क्वचित् द्यूतन्निषेद्धुन्दण्डमाह । “राज्ञा
सचिह्नन्निर्वास्याः कूटाक्षोपधिदेविनः” या० । कूटैरक्षा-
दिभिरुपधिना च मतिवञ्चनहेतुना मणिमन्त्रौषधादिना
ये दीव्यन्ति तान् श्वपदादिनाङ्कयित्वा राजा स्वराष्ट्रान्निर्वा-
सयेत् । नारदेन निर्वासने विशेष उक्तः । “कूटाक्षदेविनः
पापान् राजा राष्ट्राद्विवासयेत् । कण्ठेऽक्षमालामासञ्ज्य
सह्येषां विनयः स्मृत” इति । यानि च मनुवचनानि द्यू-
पृष्ठ ०९०८
तनिषेधपराणि “द्यूतं समाह्वयञ्चैव यः कुर्य्यात्कारयेत
वा । तान् सर्वान् घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः”
इत्यादीनि तान्यपि कूटाक्षदेवनविषयतया राजाध्यक्षसभि-
करहितद्यूतविषयतया च योज्यानि । किञ्च “द्यूत-
मेकमुखं कार्य्यन्तस्करज्ञानकारणात्” या० । यत्पूर्वोक्तं
द्यूतन्तदेकं मुखं प्रधानं यस्य द्यूतस्य तत्तथोक्तं कार्य्यम् ।
राजाध्यक्षाधिष्ठितं राज्ञा कारयितव्यमित्यर्थः तस्कर-
ज्ञानकारणात् तस्करज्ञानरूपम्प्रयोजनम्पर्य्यालोच्य ।
प्रायशः चौर्यार्जितधना एव कितवा भवन्त्यतश्चौर
विज्ञानार्थमेकमुखं कार्य्यम् । द्यूतधर्म्मं समाह्वयेऽति-
दिशन्नाह । “एष एव विधिर्ज्ञेयः प्राणिद्यूते समाह्वये”
या० । ग्लहे शतिकवृद्धेरित्यादिना योद्यूते धर्म्म उक्तः
सएव प्राणिद्यूते मल्लमेषमहिषादिनिर्वर्त्ये समाह्वयसज्ञके
ज्ञातव्यः” ।

आह्वयन न० आह्वयं करोत्यनेन आह्वय + णिच् करणे ल्युट् ।

नामादेशसाधने शब्दभेदे । कर्त्तरिल्यु । आह्वानकारके
त्रि० “रामस्याह्वयना द्विजाः” रामा० ।

आह्वयितव्य त्रि० आह्वयं करोति आह्वय + णिच्--कर्म्मणि

तव्य । आह्वानीये आकारणीये । “नेयमाह्वयितव्या ते
शयने वार्षपर्वणी” भा० आ०८२ अ० ।

आह्वर त्रि० आ + ह्वृ--अच् । १ कुटिले २ उशीनरदेशोत्पन्ने

च । तेन कन्थाशब्दस्य षष्ठीसमासे क्लीवत्वम् । आह्वर-
कन्वम् । अत्रोत्तरपदस्याद्युदात्तत्वम् ।

आह्वा स्त्री आ + ह्वे--अङ् । १ आह्वाने । करणेअङ् । २ संज्ञायाम्

नामनि “लेपश्च शस्यते सिक्थशताह्वगौरसर्षपैः” सुश्रु० ।

आह्वान न० आ + ह्वे--ल्युट् । आकारणे (डाका) “दूराह्वाने

च गाने च रोदने च प्लुतोमतः” व्या० का० । करणेल्युट् ।
२ संज्ञार्या नामनि नाम्नै वाऽऽकारणं हि क्रियते इति तस्य-
तथात्वम् । करणे ल्युट् । ३ आह्वानसाधने राजकीय-
पत्रे । (तलवनामा) “यावदाह्वानदर्शनम्” भावे ल्युट् ।
व्यवहारे विवादनिर्ण्णयार्थं ४ राज्ञाऽऽकारणे (तलपकरा)
तत्र वर्ज्यावर्ज्यप्रकारादि मिता० स्मृतिवाक्यात् दर्शितम् ।
यथा “विमृश्य कार्य्यं न्याय्यं चेदाह्वानार्थमतः परम् ।
मुद्रां वा निक्षिपेत्तस्मिन् पुरुषं वा समादिशेत् ।
अकल्यबालस्थविरविषमस्थक्रियाकुलान् । मत्तोन्मत्तप्रम-
त्तार्त्तभृत्याज्ञाह्वानयेन्नृपः । न हीनपक्षां युवतिं
कुलजातां प्रसूतिकाम् । सर्ववर्णोत्तमां कन्यां तां ज्ञाति-
प्रभुकाः स्मृताः । तदधीनकुटुम्बिन्यः स्वैरिण्योगणिकाश्च
याः । निष्कुला याश्च पतितास्तासामाह्वानमिष्यते ।
काल देशञ्च विज्ञाय कार्य्याणाञ्च बलाबलम् । अकल्या-
दीनपि शनैर्यानैराह्वानयेन्नृपः । ज्ञात्वाभियोग येऽपि
स्युर्वने प्रव्रजितादयः । तानप्याह्वानयेद्राजा गुरुकार्य्येष्व-
कोपयन्निति” अत्र सर्व्वत्र आह्वानं--करोति णिचि
आह्वानयेदिति सिद्धम् । “कृतोलुक् प्रकृतिवच्च कारक मिति
वार्त्तिकं तु नेह प्रवर्त्तते बहुलग्रहणात् ।

आह्वायक त्रि० आ + ह्वे--ण्वुल् युच् । आह्वानकारके आका-

आह्वारक त्रि० आ + ह्वृ--ण्वुल् । कुटिले ।

रके । “आह्वायकेभ्यः श्रुतसूनुवृत्तिः” भट्टिः णिनि
आह्वायीत्यप्यत्र स्त्रियां ङीप् ।

आह्वृति स्त्री आ + ह्वृ--क्तिन् । १ कौटिल्ये कर्त्तरि क्तिच् ।

२ राजभेदे “रुक्मी चैवाह्वृतिश्चैव नीलोनार्मदएव च” हरि०
१४१ अ० “रुक्मी चैवाह्वृतिश्चैव तस्थतुर्निश्चितौ रणे” हरि
व० १४२ अ० “जरासन्धं समाश्रत्य तथैवाह्वृतिभीष्मकौ,
हरि० १६० अ० ।
इति श्रीतारानाथतर्कवाचस्पतिसंकलिते वाचस्पत्ये
आकारादिशब्दार्थनिर्ण्णयः ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/आसङ्ग&oldid=315192" इत्यस्माद् प्रतिप्राप्तम्