वाचस्पत्यम्/आनीत

विकिस्रोतः तः


पृष्ठ ०७३०

आनीत त्रि० आ + नी--कर्म्मणि क्त । देशाद्देशान्तरं नीते ।

“आनीता भवता यदा पतिरता साध्वी धरित्रीसुता”
नाटकम् ।

आनीति स्त्री आ + नी--क्तिन् । आनयने “चङ्क्रमित्वाप्रियानीतिं रामोरक्षोबधे स्थितः” मुग्ध० ।

आनील पु० ईषदर्थे आङ् प्रा० स० । १ ईषन्नीलवर्ण्णे २ तद्वति

त्रि० । ३ नीलघोटके पु० हेम० । ४ तज्जातिस्त्रियां स्त्री ङीप्

आनु त्रि० अन--उण् । प्राणिनि आनवशब्दे उदा० ।

आनुकल्पिक त्रि० अनुकल्पं वेत्ति तद्बोधकग्रन्थमधीते वा

उक्था० ठक् १ अनुकल्पाभिज्ञे २ तद्बोधकग्रन्धाध्येतरि च
अनुकल्पेन प्राप्तः ठक् । ३ अनुकल्पेन प्राप्ते । अनुकल्पाय
हितम् ठक् । ४ अनुकल्पसाधने ।

आनुकूलिक त्रि० अनुकूलं वर्त्तते ठक् । आनुकूल्येन वर्त्तमाने ।

आनुकूल्य न० अनुकूलस्य भावः कर्म्म वा ष्यञ् । अनुकूलता-

चरणे १ साहाय्ये २ अनुगुणतायाञ्च । “यत्रानुकूल्यं दम्पत्यो
स्त्रिवर्गस्तत्र वर्द्धते” या० स्मृ० “रमतश्चानुकूल्येन ययुः
संवत्सरा दश” रामा० ।

आनुगङ्ग्य त्रि० अनुगङ्गं भवः परिमुखा० ञ्य । गङ्गापश्चाद्भवादौ ।

आनुगतिक त्रि० अनुगतमनुगमनं भावे क्त तेन निर्वृत्तः

अक्षद्यूता० ठक् । अनुगमेन निर्वृत्ते सन्तोषादौ ।

आनुगत्य न० अनुगतस्य भावः कर्म्म वा ष्यञ् । १ अनुगमन

रूपाचरणे २ अनुगतत्वेच ।

आनुगादिक त्रि० अनुगदतीति अनुगादीस एव अनिगादिन + स्वार्थे ठक् । पञ्चात्कथके ।

आनुगुणिक त्रि० अनुगुणमधीते वेद वा वसन्ता० ठक् ।

१ अनुगुणाभिज्ञे २ तद्बोधकग्रन्धाध्येतरि च । स्त्रियां ङीप् ।

आनुगुण्य न० अनुगुणस्य भावः कर्म्म वा ष्यञ् । १ अनुकूल-

ताचरणे २ अनुकूणत्वे च ।

आनुग्रामिक त्रि० अनुग्रामं भवः ठञ् । ग्रामपश्चाद्भवादौ स्त्रियां ङीप् ।

आनुचारक न० अनुचारकस्य धर्म्म्यं महिय्यादि० अण् ।

अनुचरधर्म्म्ये आचरणे ।

आनुति पुं स्त्री० आनुतस्यापत्यम् इञ् । आनुतननास्नोयुने-

रपत्ये । “इञः प्राचाम्” ततः युवप्रत्ययस्य लुक् तु तौल्व-
स्यादित्वात् न । आनुतिः पिता आनुतायनः पुत्रः ।
आ + नु--क्तिन् । सम्यक्स्तवने स्त्री ।

आनुतिल्य त्रि० अनुतिलं भवः परिमुखा० ञ्य । तिलस्य पश्चाद्भवादौ ।

आनुदृष्टिनेय पुं स्त्री अनुदृष्टौभवः शुभ्रा० ढक् कल्या० आनङ्

च । अनुदृष्टिभवे ।

आनुनाश्य त्रि० अनुनाशं विनाशस्य पश्चाद् भवः संका० ण्य । ध्वंसपश्चाद्भवे स्त्रियां ङीप् ।

आनुनासिक्य न० आनुनासिकस्य भावः ष्यञ् । अनुना-

सिकधर्म्मे नासासहिततत्तत्स्थानोच्चार्य्यत्वे “प्रतिज्ञानु-
नासिक्याः पाणिनीयाः” व्याकरणीया परिभाषा ।

आनुपथ्य त्रि० अनुपथं भवः परिमु० ञ्य । मार्गस्य पश्चाद्भवादौ

आनुपदिक त्रि० अनुपदं घावति ठक् । अनुपदं १ धावमाने

पदस्य वेदपाठविशेषस्य पश्चात् अनुपदं तद्वेत्ति तद्बोध-
कग्रन्थं वाऽधीते उक्था० ठक् । २ पदग्रन्थाध्येतरि
३ तदभिज्ञे च स्त्रियां ङीप् ।

आनुपद्य त्रि० अनुपदं भवः परिमुखा० ञ्य । पदस्य पश्चाद्भवादौ ।

आनुपूर्व्वी स्त्री पूर्व्वमनुक्रम्य अनुपूर्ब्बं तस्य भावः ष्यञ् ततो

वा ङीषि यलोपः । परिपाट्याम् मूलावधिके क्रमे
“षड़ानुपूर्व्या विप्रस्य क्षत्रस्य चतुरोऽवरान्” मनुः ।
ङीषभावपक्षे आनुपूर्व्यमप्यत्र न० । “वसीरन्नानुपूर्व्येण
शाणक्षौमाविकानि च” मनुः ।

आनुमानिक त्रि० अनुमानादागतः ठक् स्त्रियां ङीप् । अनुमा-

नप्राप्ते १ युक्तिसिद्धे २ व्याप्तिविशिष्टलिङ्गज्ञानादवगते अनुमिते
पदार्थे यथा धूमदर्शनात् वह्निरनुमीयते स च वह्निः
स्वव्याप्तिविशिष्टधूमज्ञानेमैवावगत इति तस्य तथात्वम् ।
अनुमानमात्रेणावगम्ये वेदे वाचकशब्दशून्ये सांख्यमत-
सिद्धे ३ प्रधाने न० । “ईक्षतेर्नाशब्दमिति” शा० सूत्र
भाष्ये तस्य च वेदशब्दप्रतिपाद्यत्वं निराकृत्य “रचनानु-
पपत्तेर्नानुमानम्” सू० भा० अनुमानगम्यत्वमपि निरा-
कृतम् । तस्य च यथानुमानिकत्वं तथा ४६६, ६७ पृष्ठे
अव्यक्तशब्दे दर्शितम् “आनुमानिकमप्येकेषामिति चेन्न
शरीररूपकविन्यस्तगृहीतेर्दर्शयति च” शा० सू० ।

आनुमाय्य त्रि० अनुमाषं भवः परिमुखा० ञ्य । माषस्य

पश्चाद्भवादौ ।

आनुयव्य त्रि० अनुयवं भवः परिमुखा० ञ्य । यवस्य पश्चाद्भवादौ ।

आनुयूष्य त्रि० अनुयूषं भवः परिमुखा० ञ्य । यूषस्य पश्चा-

द्भवादौ ।

आनुरक्ति स्त्री आ + अनु + रन्ज--क्तिन् । १ अनुरागे २ आनुगत्ये च ।

आनुराहति पुं स्त्री० अनुरहतोऽपत्यम् बाह्वा० इञ्

अनुश० द्विपदवृद्धिः । मुनिभेदे युवापत्ये तु ततः फक्
तौल्वल्वा० नं लुक् । आनुराहतायनः । तस्य युवापत्ये ।
आनुहारति इति पाठान्तरम् ।

आनुरोहति पुं स्त्री० अनुरोहतोपत्यम् बाह्वा० इञ् ।

अनुरोहन्मुनेगौत्रापत्ये तस्य युवापत्ये फक्तस्य तौ० न लुक् ।
आनुरोहतायनः तदीययुवापत्ये ।

आनुलेपिक त्रि० आनुलेपिकायाः स्त्रिया धर्म्म्यम् महिष्या०

अण् । अनुलेपिकाया धर्म्ये कर्म्मणि ।
पृष्ठ ०७३१

आनुलोमिक त्रि० अनुलोमं वर्त्तते अनुलोम + ठक् ।

अनुलोमाचारवति । स्त्रियां ङीप् ।

आनुलोम्य न० अनुलोमस्य भावः कर्म्म वा ब्राह्म० ष्यञ् ।

१ अनुक्रमे “आनुलोम्येन सम्भूता जात्या ज्ञेयास्तएव ते ।
“एकान्तरे त्वानुलोम्यादम्बष्ठोग्रौ तथा स्मृतौ” इति च
मनुः अनुकूलत्वे “क्रियाणामानुलोम्यञ्च करोत्यकुपितो-
ऽनिलः” सुश्रु० ।

आनुवंश्य त्रि० अनुवंशं भवः परिमुखा० ञ्य । वंशवृक्षस्यपश्चाद्भवादौ ।

आनुवेश्य त्रि० “अनुवेशं वसति “अव्ययीभावाच्च” पा० ञ्य

प्रातिवेश्यसन्निकृष्टगृहवासिनि । “प्रातिवेश्यानुवेश्यौ च
कल्याणे विंशतिद्विजे” मनुः । “निरन्तरगृहवासी प्रातिवेश्यः
तदन्तरगृहवासी आनुवेश्यः इति कुल्लू० अव्ययीभावा-
च्चेति सूत्रे परिमुखादिभ्य एवेष्यते इति नियमस्तु प्रायि-
कस्तेनात्रापीति बोध्यम् ।

आनुशातिक अनुशतिकस्येदम् अण् द्विपदवृद्धिः । अनुशतिकसन्धिनि ।

आनुशासनिक त्रि० अनुशासनाय हितंठक् । १ अनुशासनसा-

धने नीतिवाक्यादौ २ राज्यनीतेरनुशासनार्थे भारतान्तर्गते
पर्व्वभेदे । “ततः पर्व परिज्ञेयमानुशासनिकं परम्” भा०
आ० १ अ० ।

आनुश्रविक त्रि० गुरुपाठादनुश्रूयते अनुश्रवोवेदस्तत्र विहितः

ठक् । स्वर्गादिसाधनतया वेदविहिते कर्म्म समूहे “दृष्टव-
दानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः” सां० का० ।
“नानुश्रविकादपि तत्सिद्धिः साध्यत्वेनावृत्तियोगा-
दपुरुषार्थत्वम्” सां० सू० ।

आनुषङ्गिक त्रि० अनुषङ्गात् आगतः ठक् स्त्रियां ङीप् ।

उद्देश्यान्तरप्रवृत्तस्य तत्कर्मनान्तरीयतया प्राप्ते प्रासङ्गिके
अनुद्देश्ये “अन्यतरस्यानुषङ्गिकत्वेऽन्वाचयः” सि० कौ०
यथा भो वटो! भिक्षामट यदि गां पश्येः ताञ्चानयेत्यादौ
भिक्षार्थप्रवृत्तस्य दैवात् गोदर्शनात्तस्या आनयनमानुष-
ङ्गिकं तत्रोद्देशत्वाभावात् ।

आनुषज् अव्य० आ + अनु--सन्ज--क्विप् स्वरा० । आनुपूर्व्याम् ।

आनुषण्ड त्रि० अनुषण्डे देशभेदे भवः कच्छा० अण् ।

अनुषण्डदेशभवे ।

आनुष्टुभ त्रि० अनुष्टुप् छन्दोऽस्य उत्सा० अञ् ।

१ अनुष्टुप्छन्दस्के मन्त्रादौ ऋचि स्त्री ङीप् । “अनु-
श्यावाश्वान्धीगवे आनुष्टुभे तृचे भवत” इति सामसं०
भा० धृता श्रुतिः । अष्टुभ इदम् अज् । २ अनुष्टुप्सम्ब-
न्धिनि । अनुष्टुप्सरस्वती देवताऽस्य अण् । ३ सार-
स्वते हविरादौ” आनुष्टुभस्य हविषोयत् “ऋ०
१०, १८ १, १ । “आनुष्टुभोवा अश्वः” आनुष्टुभैषा
दिक्” शत० ब्रा० । अत्र छान्दसोङीबभावः स्वार्थे
अण् । ४ अनुष्टुप्छन्दसि न० स्वार्थिकस्य क्वचित्
प्रकृतिलिङ्गातिक्रमस्य देवतावदिष्टत्वात्लिङ्गान्यत्वम् ।

आनुसाय्य त्रि० अनुसायं भवः परिमुखा० ञ्य । सायस्य

पश्चाद्भवादौ ।

आनुसीत्य त्रि० अनुसीतं भवः परिमुखा० ञ्य । लाङ्गल

पद्धतेः पश्चाद्भवे ।

आनुसीर्य्य त्रि० अनुसीरं भवः परिमुखा० ञ्य । लाङ्गलपश्चाद्भवादौ ।

आनुसूय त्रि० अनुसूयया अत्रिपत्न्या दत्तम् अण् । अनुसू-

यया दत्ते “स्फुरत्प्रभामण्डलसानुसूयं सा बिभ्रती
शाश्वतमङ्गरागम्” रघुः ।

आनुसृतिनेय त्रि० अनुसृतौ भवः शुभ्रा० ढक् कल्याण्या० इनङ् च । अनुसरणभवे ।

आनुसृष्टिनेय त्रि० अनुसृष्टौ भवः शुभ्रा० ढक् कल्या०

इनङ् च । अनुसर्जनभवे ।

आनुहारति त्रि० अनुहरति भवः बाह्रा० इञ् अनुशति०

द्विपदवृद्धिः । अनुहरणकुर्व्वति भवे ।

आनूप त्रि० अनूपदेशेभवः कच्छा० अण् । अनूपदेशभवे स्त्रियां

ङीप् । २ जलानुगतदेशभवे प्राणिवर्गे च तत्रत्यप्राणिन-
स्तन्मांसगुणाश्च सुश्रुते दर्शिता यथा “आनूपवर्गस्तु
पञ्चविधः । तद्यथा कूलचराः प्लवाः कोशस्थाः पादिनो
मत्स्याश्चेति । तत्र गजगवयमहिषरुरुचमरसृमररोहित
वराहखड़िगगोकर्ण्णकालपुच्छकोड्रन्यङ्क्वरण्यगवयप्रभृतयःकू-
लचराः प्रशवः । वातपित्तहरा वृष्या मधुरा
रसपाकयोः । शीतला बलिनः स्निग्धा मूत्रलाः
कफवर्द्धनाः । विरूक्षणो लेखनश्च वीर्य्योष्णः पित्तदूषणः ।
स्वाद्वम्लवणस्तेषां गजः श्लेष्मानिलापहः । गवयस्य तु
मांसं हि स्निग्धं मधुरकासजित् । विपाके मधुरं चापि
व्यवायस्य तु वर्द्धनम् । स्निग्धोष्णमधुरो वृष्यो महिषस्त-
र्पणी गुरुः । वातपित्तोपशमनं गुरु शुक्रप्रवर्द्धनम । तथा
चमरमांसन्तु स्निगधं मधुरकासजित् । विपाके भधुरं
चापि वातपित्तप्रणाशनम् । सृमरस्य तु मांसञ्च कषाया-
नुरसं स्मृतम् । वातपित्तोपशमनं गुरु शुक्रविवर्द्धनम् ।
स्वेदनं वृंहणं वृष्यं शीतलं तर्पणं गुरु । स्निग्धं श्रमा-
निलहरं वाराहं बलवर्द्धनम् । कफघ्नं खड़िगपिशितं
कषायमनिलापहम् । पित्र्यं पवित्रमायुष्यं बद्धमूत्रं
विरूक्षणम् । गोकर्णमांसं मधुरं स्निग्धं म कफा-
पृष्ठ ०७३२
वहम् । विपाके मधुरञ्चापि रक्तपित्तविनाशनम् ।
हंससारसक्रौञ्चचक्रवाककररकादम्बकारण्डवज्रीवञ्जीवकवक-
बलाकापुण्डरीकप्लवशरारीमुखनन्दीमुखमद्गूत्क्रोशकाचा-
क्षमल्लिकाक्षशुक्लाक्षपुष्करशायिकाकोनालकाम्बुकुक्कुटिकामे-
घरावश्वेतचरणप्रभृतयः प्लवाः सङ्घातचारिणः । रक्त-
पित्तहराः शीताः स्निघ्धा वृष्या मरुज्जितः ।
सृष्टमूत्रपुरीषाश्च मधुरा रसपाकयोः । गुरूष्णमधुरः
स्निख्धः स्वरवर्ण्णबलप्रदः । वृंहणः शुक्रलस्तेषां हंसो
मारुतनाशनः ।
शङ्खशङ्खनखशुक्तिशम्बूकभल्लूकप्रभृतयः कोशस्थाः । कूर्म्म-
कुम्भीरकर्कटककृष्णककटकशिशुमारप्रभृतयः पादिनः ।
शङ्खकूर्म्मादयः स्वादुरसपाका मरुन्नुदः । शीताः स्निग्धा
हिताः पित्ते वर्चस्याः श्लेष्मवर्द्धनाः । कृष्णकर्कटकस्तेषां
बल्यः कोष्णोऽनिलापहः । शुक्लः सन्धानकृत् सृष्टविमू-
त्रोऽनिलपित्तहा । मत्स्यास्त द्विविधा नादेयाः सामु-
द्राश्च । तत्र नादेयाः रोहितपाठीनपाटलाराजीवव-
र्म्मिगोमत्स्यकृष्णमत्स्यवागुञ्जारमुरलसहस्रदंष्ट्रप्रभृतयो
नादेयाः । नादेया मधुरा मत्स्या गुरवोमारुतापहाः ।
रक्तपिक्तकराश्चोष्णा वृष्याः स्त्रिग्धाल्पवर्चसः । कषायानु-
रसस्तेषां शष्पशैबालभोजनः । रोहितो मारुतहरो
नार्त्यथं पित्तकोपनः । पाठीनः श्लेष्मलो वृष्यो निद्रालुः
पिशिताशनः । दूषयेदम्लपित्तन्तु कुष्ठरोगं करोत्यसौ ।
मुरली वृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा । सरस्तडा-
गसम्भूताः स्निग्धाः स्वादुरसाः स्मृताः । महाह्रदेषु
बलिनः स्वल्पेऽम्भस्यबलाः स्मृताः । तिमिङ्गिलकलिश-
पाकमत्स्यनिरालकनन्दिवारलकमकरगर्गरकचन्द्रकमहामी-
नराजीवप्रभृतयः सामुद्राः । सामुद्रा गुरवः स्निग्धा
मधुरा नातिपित्तलाः । उष्णा वातहरा वृष्या वर्चस्याः
श्लेष्मवर्द्धनाः । बलावहा विशेषेण मांसाशित्वात्
समुद्रजाः । समुद्रजेभ्योनादेया वृंहणत्वादुगुणोत्तराः ।
तेषामप्यनिलघ्नर्त्वाच्चौण्ठ्यकौप्यौ गुणोत्तरौ । स्निग्धत्वात्
स्वादुपाकत्वात् तयोर्वाप्या गुणोत्तराः । नादेया
गुरवो मध्ये यस्मात्पुच्छास्यचारिणः । सरस्तडाग-
जानान्तु विशेषेण शिरो लघु । अदूरगोचरा यस्मात्त-
स्मादुत्सोदपानजाः । किञ्चिन्मुक्त्वा शिरोदेशमत्यर्थं गुरवस्तु
ते । अधस्ताद्वरवो ज्ञेया मत्स्याः सरसिजाः स्मृताः ।
उरोविचरणात्तेषां पूर्वमङ्गं लघु स्मृतम् । इत्यानूपो
महाभिस्यन्दिमांसवर्गो व्याख्यातः” “मनुष्यतत्स्ययोर्वुञ्”
पा० मनुष्ये तत्स्थेहसितादौ वाच्ये तुवुञ् । आनूपक इत्येय

आनृत त्रि० अनृतं शीलमस्य छत्रा० अण् । सततमिथ्यानु-

शीलमकर्त्तरि स्त्रियां ङीप् ।

आनृण्य न० अनृणस्य भावः कर्म्म वा ष्यञ् । ऋणशून्यत्वे

ऋणशोधने । “वक्तव्यं सर्वदा सद्भिरप्रियञ्चापि यद्धितम् ।
आनृण्यमेतत् स्नेहस्य सद्भिरेव कृतं पुरा” नरसिंहपु० ।

आनृशंसि पुं स्त्री० अनृशंसस्यापत्यम् इञ् । दयालोरपत्वे

गहा० भवादौ छ । आनृशंसीयः तद्भवादौ त्रि० ।

आनृशंस्य न० अनृशंसस्य भावः कर्म्म वा ष्यञ् । १

अनिष्ठुरतायां २ कारुण्ये “आरोढ़ुं सुमहाप्राज्ञ आनृशंस्या-
च्छुना विना” भा० आश्र० २ अ० । “आनृशंस्यात् ब्राह्म-
णस्य भुञ्जते हीतरे जनाः” मनुः । ३ अनुकम्पायाञ्च ।
“अर्हणं तत्कुमारीणामानृशंस्यं हि केवलम्” उद्वा० त०
स्मृतिः । “आनुशंस्यमनुकम्पा” रघु० । स्वार्थे ष्यञ्
३ कारुण्ययुक्ते त्रि० “एष धर्म्मपरोनित्यमानृशंस्यश्च
पाण्डवः” भा० व० प० ७१ अ० ।

आनेतृ त्रि० आ + नी--तृच् । आनयनकर्त्तरि स्त्रियां ङीप् ।

आनेय त्रि० आ + नी--कर्म्मणि यत् । देशाद्देशान्तरमाने-

तव्ये १ घटादौ वैश्यकुलात् विप्रतोभ्राष्ट्राद्वा आनेतुं योग्ये
२ दक्षिणाग्नौ पु० आनाय्यशब्दे विवृतिः “आनेयो घटादि
र्वैश्यकुलादेरानेयोदक्षिणाग्निश्च” सि० कौ० ।

आ(अ)नैपुण न० अनिपुणस्य भावः अण् उत्तरपदवृद्धिः

पूर्व्वपदस्य वा । अपाटवे नैपुण्याभावे ष्यञ् । पूर्ववत् वृद्धिः
आ(अ)नैपुण्यमप्यत्र ।

आ(अ)नैश्वर्य्य न० अनीश्वरस्य भावः ष्यञ् । उत्तरपदवृद्धिः

पूर्ब्बस्यपदस्यवा । १ ऐश्वर्य्याभावे २ ऐश्वर्य्यविरोधिनि सांख्या-
दिमतसिद्धे बुद्धेर्धर्मभेदे धर्म्माधर्म्मज्ञानाज्ञानवैराग्यावैराग्यै-
श्वर्य्यानैश्वर्य्यरूपा अष्टौ बुद्धेर्धर्मास्ते च भापरूपा एव तैरभा-
वानङ्गीकारात् तत्र ज्ञानभिन्नानां सप्तानां बन्धहेतुत्वम् ज्ञा-
नेन मोक्ष इति तेषां सिद्धान्तः यथाह सांका० कौमुद्योः”
“रूपैः सप्तभिरेव तु बध्नात्यात्मानमात्मना प्रकृतिः । सैव च
पुरुषार्थं प्रति विमोचयत्येकरूपेण” तत्त्वज्ञानवर्जं
बध्नाति धर्मादिभिः सप्तभिः रूपैरिति पुरुषाथं प्रति
भोगापवर्गौ प्रति आत्मनात्मानमेकरूपेण तत्त्वज्ञानेन विवे-
कख्यात्या विमोच्यति पुनर्भोगापवर्गौ न करोतीत्यर्थः” ।

आन्त त्रि० अम + क्त नि० वा इडभावः उपधादीर्घः । पीड़िते

इट्पक्षे अमितोऽप्यत्र ।

आन्तर त्रि० अन्तर्मध्ये भवः अण् । आभ्यन्तरे । “कश्चनान्तरोधर्म्मः सत्वम्” सा० द०

पृष्ठ ०७३३

आन्तरतम्य न० अन्तरतमस्य अत्यन्तसदृशस्य भावः ष्यञ् ।

सौसादृश्ये “बाह्यप्रयत्नाश्च यद्यपि सवर्ण्णसंज्ञायामनुपयुक्ता-
स्तथाप्यान्तरतम्यपरीक्षायामुपयोक्ष्यन्ते” सि० कौ० ।

आन्तरागारिक त्रि० अन्तरागारस्य धर्म्यम् ठक् । अन्तरा-

गारनियुक्तपुरुषस्य धर्म्ये अवरोधररक्षणादौ ।

आन्तरप्रपञ्च पु० कर्म्म० । आध्यात्मिके आभ्यन्तरे द्वैतविस्तारे

स चान्नमयादिकोषपञ्चकं शरीरत्रयम् जन्मस्थित्यादयः
षड्भावविकाराः त्वङ् मांसादिषाट्कौशिकस्थूलदेहः अशना-
यापिपासादि षडूर्म्मयः श्रोत्रादिज्ञानेन्द्रियपञ्चकं वागाभिक-
र्मेन्द्रियपञ्चकं प्राणादिवायुपञ्चकं मनआद्यन्तःकरणचतुष्टयं
सङ्कल्पाद्यन्तः करणवृत्तयः जागराद्यवस्थात्रयं तदमिमानि-
विश्वतैजसप्राज्ञाःसमाधिमूर्च्छादयः क्रोधाद्यरिषद्द्वर्गः
साधनचतुष्टयं सत्वादिगुणत्रयं सुखदुःखज्ञानाज्ञानादि
अविद्यादिक्लेशपञ्चकम् मैत्र्यादिभावनाचतुष्टयं यमाद्य-
ष्टाङ्गम् प्रत्यक्षादिप्रमाणवर्गः रोगारोग्यसमुदायोय-
थायोग्यं विविधनामरूपगुणधर्मादयः भोगापवर्गौ च ।
एवमन्यमतेऽप्यूह्यम् ।

आन्तराल त्रि० अन्तरालं मध्यस्थितिं वेत्ति अण् । देहाभ्य-

न्तर एवात्मनः स्थितिवेत्तरि जीवस्याणुत्ववादिनि पूर्ण्ण-
प्रज्ञे माध्वे स हि आत्मनोविभुत्वखण्डनेन देहाभ्य-
न्तरे एव स्थितिं मन्यमानस्तस्याणुत्वम् प्रतिपेदे
आत्मशब्दे तन्मतनुक्तप्रायम् अधिकं माध्वशब्दे वक्षते ।
“अणुं वदन्त्यान्तरालाः सूक्ष्मनाडीप्रचारतः । रोम्णः
सहस्रभागेन नाडीषु प्रचरत्ययमिति” तस्य सिद्धान्तः
“बालाग्रशतधारस्य शतधा कल्पितस्य च । भागो जीवः
स विज्ञेय इति” श्रुतिमनुसृत्य तथा तु वेनाङ्गीकृतम् ।
दुर्विज्ञेयत्वेन सूक्ष्मत्वमौपचारिकमिति तु वेदान्त्यादयः ।

आन्तरि(री)क्ष त्रि० अन्तरि(री)क्षे भवः अण् । आकाश-

भवे १ उत्पातादौ “उत्पातांस्त्रिविधान् प्राह नारदो
भगवान् प्रभो! दिव्यांश्चैवान्तरीक्षांश्च पार्थिवांश्च पिता-
मह!” ज्यो० । २ अन्तरीक्षमवे जले च । अम्बु शब्दे ३३०
पृष्ठेऽस्य विवृतिः ।

आन्तरीपक त्रि० अन्तरीपे भवः घूमा० वुञ् । अन्तरीप-

भवे धूमादिगणे द्वीपसाहचर्य्यात् देशवाचित्वाच्च अन्तरीप-
शब्दएव बोध्यः अन्तरीय इति पाठस्तु प्रामादिकः ।

आन्तर्गणिक त्रि० अन्तर्गणं भवः ठञ् । गणमध्यभवे स्त्रियां ङीप् ।

आन्तर्गेहिक त्रि० अन्तर्गेहं भवः ठञ् । गेहमध्यभबे

स्त्रियां ङीप् । अन्तर्वेशिकान्तर्वोश्मकादयोऽप्यत्र ।

आन्तर्य्य न० अन्तरस्य भावः ष्यञ् । अन्तवत्तित्वे ।

आन्तिका स्त्री अन्तिकेव अण् अजा० टाप् । ज्येष्ठायाम्

भगिन्याम् ।

आन्त्र न० अमत्यनेन अम--गतौ क्त्र उपधादीर्धः । १ वायु-

वाहकनाड़ीभेदे । अन्त्रस्येदम् अण् । २ अन्त्रसम्बन्धिनि
त्रि० स्त्रियां ङीप् ।

आन्दोल दोलने मुहुश्चालने अद० चुरा० उभयु० सक० सेट् ।

आन्दोलयति ते आन्दुदोलत् त । क्त आन्दोलितः ।

आन्दोलक पु० आन्दोलयति ण्वुल् । दोलनकर्त्तरि ।

आन्दोलन न० आन्दोल--भावे ल्युट् । १ पुनःपुनर्दोलने,

२ मुहुश्चालने “किन्त्वासामविन्दसुन्दरदृशां द्राक् चामरा-
न्दोलनात्” उद्भटः ३ अनुसन्धाने च ।

आन्धसिक त्रि० अन्धो भक्तं शिल्पमस्य ठक् । पाचके सूदे ।

आन्धीगव न० अन्धीगुना ऋषिभेदेन दृष्टं साम--अण् । तृती-

यसवने गेये आर्भवपवमानसूक्तगते सूक्तभेदे तच्च सूक्तम्
ऊहगाने १ प्र० ११ क० पठितम् तच्च साम० स० भा० दर्शितम्
यथा “श्यावश्वान्धीगवेऽनुष्टुवानेये ग्रथ्यतेऽथ वा । पुरेव
लिङ्गं जगती चतुर्विंशति--कीर्त्तनम् । इदमाम्नायते “पञ्च-
छन्दा आवापः आर्भवः पवमानः सप्तसामा, गायत्र-
संहिते गायत्र्ये तृचे भवतः, श्यावाश्वान्धीगवे आनुष्टुभे
तृचे भवतः, उष्णिहि शफम्, ककुभि पौष्कलम्,
कावमन्त्यं जगतीषु” इति । अयमर्थः अस्ति तृतीयसवने
पवमानः आर्भवसंज्ञकः, तस्मिन् पञ्च सूक्तानि, सप्त
सामानि, “स्वादिष्ठया नदिष्ठा” इत्येकं सूक्तम् (उ, ३ प्र,
१५), तस्मिन् गायत्र्यस्तिस्र ऋचः तासु “गायत्रम्”
“संहितम्” (उ, १ प्र, ८) चेति द्वे सामानी,
“पुरोजिती श्रो अन्धसः” इति सूक्तान्तरम् (उ, १ प्र, १८)
तत्रैकानुष्टुबुत्तरे द्वे गायत्र्यौ तासु “श्यावाश्वम्”
(ऊ, १ प्र, ११) “आन्धीगवम्” (उ, २ प्र, ११) चेति द्वे
सामनी, “इन्द्रमच्छ सुता” इत्यपरं सूक्तम् (ऊ, १ प्र, १८),
तस्मिनुष्णिहस्तिस्रः तासु “शफम्” साम, “पवस्व
मधुमत्तम” इति प्रगाथः (उ, १ प्र, १६), तस्मिन् पूर्व्वा
ककुप्, उत्तरा पङ्क्तिः । तत्र “पौष्कलम्” (ऊ, १ प्र, ९)
साम, “अभिप्रियाणि पवते च नोहित” इत्यन्त्यं सूक्तम्
(उ, १ प्र, १९), तत्र तिस्रोजगत्यः तासु “कावम्”
(ऊ, १ प्र, १३) साम” ।
पृष्ठ ०७३४

आन्ध्य न० अन्घस्य भावः ष्यञ् । दृष्टिशक्तिराहित्ये यत्र

प्रतिघाते तद्भवति तद्दर्शितंसुश्रु० । शिरानाड़ीरुपक्रम्य “भ्रूपु-
च्छान्तयोरधोऽक्ष्णोर्बाह्यतोऽपाङ्गौ नाम तत्रान्ध्यं दृष्ट्युप-
घातो वा इति” तत्कारणञ्चोक्तम् “शोणितमतिनिर्ह्रिय-
माणं कण्डूशोफरागदाहपाकवेदना जनयेत् । अत्युष्णा-
भिस्विन्नातिविद्धेष्वज्ञै र्विस्रावितमतिप्रवर्त्तते अतिप्रवृत्तं
शिरोऽभितापमान्ध्यमधिमन्थं तिमिरप्रादुर्भावमित्यादि चापा-
दयति” सुश्रु० । २ प्रकाशशून्यत्वे “जगदान्द्यप्रसङ्गः” वे० प्र०

आन्ध्र पु० आ + अन्ध--रन् । १ देशभेदे २ तद्देशवासिनि ३ तन्नृपे

च ब० व० । “आन्ध्राः शका पुलिन्दाश्च यवनाश्च नराधि-
पाः” भा० व० प० १८८ अ० । स च देशः वृ० स० कूर्म्मविभागे
आग्नेय्यां दिशि वर्ण्णितः यथा “आग्नेय्यां दिशि
कोशलकलिङ्गवङ्गोपवङ्गजठराङ्काः कौणिकविर्दभवत्सान्ध्रचे-
दिकाश्चोर्द्धकण्ठाश्च” ग्रहभक्तौ च तत्रैवोक्तम् “द्रविड-
विदेहान्ध्रम्लेच्छकभासापुरं कौङ्कणाः समान्ध्रीषकाः ।
कुन्तलकेरलदण्डक कान्तिपुरम्लेच्छसङ्करजाः । नासिक्यमोग-
वर्द्धनविराटविन्ध्याद्रिपार्श्वगादेशाः । ये च पिबन्ति सुतोयां
तापीं ये चापि गोमतीसलिलम्” । तेन विन्ध्याद्रि-
पार्श्वगः गीमतीतापीनद्योः सन्निकृष्टोऽयं देश इति गम्यते ।

आन्न त्रि० अन्नंलब्धा अन्न + ण । अन्नं लब्धरि ।

आन्यतरेय पुंस्त्री० अन्यतरस्यापत्यम् शुभ्रा० ढक् । अन्य-

तरस्यापत्ये स्त्रियां ङीप् ।

आन्यभाव्य न० अन्योभावोयस्य अन्यभावः तस्य भावः ब्राह्म०

ष्यञ् । अन्यरूपत्वे ।

आन्वयिक त्रि० अन्वये प्रगस्तकुले भवः ठञ् । प्रशस्तकुलजाते स्त्रियां ङीप्

आन्वष्टक्य न० अन्वष्टका + खार्थे ष्यञ् । अन्वष्टकाशब्दार्थे

“अपरेद्युरान्वष्टक्यम्” आश्व० गृ० ।

आन्वाहिक त्रि० अहनि अहनि अन्वहम तत्र भवः ठञ्

अनुश० द्विपदवृद्धिः । प्रतिदिनसाध्ये पाकादौ “वैवाहि-
केऽग्नौ कुर्व्वीत गृह्यं कर्म्म यथाविधि । पञ्चयज्ञविधा-
नञ्च पक्तिञ्चान्वाहिकीं गृही” मनुः ।

आन्वीक्षिकी स्त्री श्रवणादनु ईक्षा पर्य्यालोचना

राप्रयोजनमस्याः ठञ् । तर्कविद्यायाम् गौतमप्रर्णाताया
मात्मविद्यायाम् । तत्प्रतिपादकग्रन्थश्च अक्षपादेन
पञ्चाध्यायी रचितः तत्रादिमं सूत्रं “प्रमाणप्रमेयसंशय
प्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्ण्णयवादजल्पवितण्डाहे-
त्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निश्रेय-
साधिगम” इति अन्तिमसूत्रञ्च “हेत्वाभासाश्च यथोक्ताः”
इति । तत्र प्रतिपाद्यविषयाश्च पदार्थतत्त्वज्ञानान्मुक्ति
फलं तत्र क्रमोक्तिः । प्रत्यक्षानुमानोपमानागमरूप-
प्रमाणचतुष्ठयम् तेषां लक्षणविभागादि । आत्मदेहेन्द्रिया-
र्थबुद्धिमनःप्रवृत्तिदोषप्रे त्थभावफलदुःखापवर्गरूपप्रमेयविभा-
गः । इच्छाद्वेषप्रयत्नसुखदुःखज्ञानानि आत्मलिङ्गानि ।
चेष्टावदन्त्यावयवित्वमिन्द्रियाश्रयत्वं वा देहलक्षणम् ।
घ्राणरसनचक्षुस्त्वक्श्रोत्ररूपेन्द्रियविभागः तेषां पृथि-
व्यादिभ्यः क्रमेणोत्पत्तिः । तत्कारणानि च क्रमेण पृथि-
व्यप्तेजोवाय्वाकाशात्मकानि पञ्च भूतानि । गन्धरस-
रूपस्पर्शरूपविषयपञ्चकं पृथिव्यादीनां विशेषगुणास्तेषां च
क्रमेण घ्राणादिभिर्ग्राह्यता । महत्तत्त्वापर्य्यायाया बुद्धे-
र्ज्ञानरूपत्वम् । मनसो लक्षणम् । प्रवृत्तिलक्षणम् रागद्वे-
षाभिनिवेशरूपदोषत्रयलक्षणम् । पुनरुत्पत्तिरूपप्रेत्यभाव-
लक्षणम् प्रवृत्तिजनितार्थरूपफललक्षणम् । बाधनारूपं दुःख-
लक्षणम् । दुःखात्यन्तनिवृत्तिरूपापपर्गलक्षणम् । एकस्मिन्
धर्म्मिणि भावाभावविरुद्धकोटिद्वयज्ञानत्वं संशयलक्षणम्
तत्र साधारणधर्म्मवद्धर्म्मिज्ञानमसाधार्णधर्म्मवद्धर्म्मिज्ञानं
विप्रतिपत्तिवाक्यजन्यकोटिद्वयोपस्थितिश्च कारणम् । प्रवृ-
त्तिहेत्विच्छाविषयत्वं प्रयोजनलक्षणम् । वादिप्र-
तिवादिनोः साध्यसाधनद्वयप्रकारकतदभावद्वयप्रकारकान्य-
तरनिश्चयविषयत्वं दृष्टान्तलक्षणम् प्रतिवादनिरसनेन
निःसन्धिग्धतया अर्थनिश्चयरूपत्वं सिद्धान्तलक्षणम् । सर्वतन्त्र-
सिद्धान्तः, प्रतितन्त्रसिद्धान्तः, अधिकरणसिद्धान्तः अभ्युगम-
सिद्धान्त इति सिद्धान्तचतुष्ठयविभागाः तल्लक्षणानि च ।
प्रतिज्ञाहेतूदाहरणोपनयनिगमरूपावयवविभागः । भाष्ये तु
जिज्ञासा, संशयः शक्यप्राप्तिः प्रयोजनं संशयव्युदासश्चेति
अधिकाः पञ्चावयवा उक्तास्तेन दशावयवा इति स्थितम् ।
तात्पपर्य्यटीकायां तद्व्याख्यातञ्च तत्र जिज्ञासाऽज्ञातादिबु-
द्धिसिद्धये प्रवर्त्तिका इच्छा जिज्ञासा । तज्जन्यश्च संशुयः
शक्यप्राप्तिः प्रमाणानां ज्ञानजननसामर्थ्यं संशयव्युदा-
सस्तर्कः इति । जिज्ञासा विप्रतिपत्तिरिति केचित् ।
एतेषां न्यायावयवत्वं नास्तीति वृत्तौ स्थितम् । साध्यविशि-
ष्टतया पक्षस्य निर्देशः प्रतिज्ञालक्षणम् व्याप्तिविशिष्टहेतु-
बोधकः शब्दो हेतुरूपावयः । व्याप्तिश्च अन्वयव्यतिरेक
भेदेन द्विविधा तथा च ज्ञातान्वय व्याप्तिककहेतुबोधकः
अज्ञातव्यतिरेकव्याप्तिकहेतुबोधकश्च । साधनवत्ताप्रयुक्त
साध्यवत्तानुभावकोऽवयवः साध्यसाधनव्याप्तिप्रदर्शकः
उदाहरणम् तत्र व्याप्तिश्च द्विबिधा अन्वयोव्यतिरेकश्च ।
प्रकृतोदाहरणोपदर्शितव्याप्तिमद्धेतुविशिष्टपक्षयोधक
उपनयावयवः व्याप्तिश्च अन्वयव्यतिरेकभेदेन द्विधा
पृष्ठ ०७३५
प्रविष्टा । व्याप्तिविशिष्टस्य हेतोः पक्षवृत्तिताकथन-
पूर्वकसाध्यविशिष्टपक्षबोधकवाक्यत्वं निगमनलक्षणम् ।
व्यापकाभाववत्त्वेन निर्ण्णीते धर्म्मिणि व्याप्यस्याहार्य्या
रोपात् व्यापकस्याहार्य्यारीपः तर्क इति तर्कलक्षणम्
यथा निर्वह्नित्वारोपान्निर्धूमत्वारोपः निर्वह्निःस्यान्निर्धू
मःस्यादित्वादि । सन्दिग्धपक्षस्य साधनयुक्त्या प्रतिपक्षस्य
बाधनयुक्त्या च अर्थावधारणं निर्णय इति तल्लक्षणम् ।
इत्येते १ मअ० १ म आह्निके पदार्था दर्शिताः । वादादिल-
क्षणानि । तत्र प्रमाणतर्कसाधनोपालम्भः सिद्धान्तावि-
रुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहोवादः इति
वादलक्षणं प्रमाणतर्काभ्यां स्वपक्षस्य साधनं विपक्षस्योपा-
लम्भो दूषणं चयत्र । पक्षप्रतिपक्षौ विप्रतिपत्तिकोटी तयोः
परिग्रहः तत्साधनोद्देश्यकोक्तिप्रत्युक्तिरूपवाक्यवि-
शेषो वाद इति तदर्थः । छलजातिनिग्रहस्थाना-
दिकं विपक्षे ससुद्भाव्य तस्य दूषणेन स्यपक्षस्थापन
वाक्यत्वं जल्पलक्षणम् । स्वपक्षस्थापनाराहित्येन परपक्ष-
निराकरणवाक्यत्वम् वितण्डालक्षणम् । सव्यभिचारविरुद्ध
प्रकरणसमसाध्यसमातीतकालरूपान् पञ्च हेत्वाभासान्
विभज्य तेषां लक्षणानि । वाद्युक्त वचनस्य अर्थान्तरपर-
त्वकल्पनेन युक्त्या तत्खण्डनं छलमिति छललक्षणम् ।
तच्चवाक्छलार्थच्छलोपचारच्छलभेदेन त्रिविधम् । व्याप्तिनिर-
पेक्षतया दूषणोक्तिर्जातिः तद्भेदाश्चतुर्विंशतिः ५ अ० वाच्याः ।
उद्देश्यानुगुणसम्यग्ज्ञानाभावलिङ्गत्वं निग्रहस्यानलक्षण
मिति १ अ० २ आह्निके एते पदार्था उक्ताः । संशयका-
रणादिनिरूपणम् प्रमाणात् प्रमेयसिद्धिः । प्रत्यक्षप्रमाण-
लक्षणे परिशिष्टविवेचनम् । मनसोऽणुत्वे ज्ञानायौगपद्यस्य
हेतुतयोक्तिः । प्रत्यक्षस्य क्वचिदन्मित्यात्मकताशङ्का-
यां तन्निराकरणम् । अवयवेभ्योऽवयविनोऽतिरिक्तता
साधनम् । अनुमानाप्रामाण्यशङ्कातन्निरासौ । वर्त्तमा-
नावस्थानिराकरणतत्स्थापने । उपमानाप्रामाण्यशङ्का
निराकरणे । अनुमाने उपमानस्य गतार्थत्वमाशङ्क्य
शाब्दवोधस्यानुमानेऽन्तर्भावमाशङ्क्यच तन्निवारणम् ।
सशक्तिकस्यैव शब्दस्य बोधकत्वव्यवस्थापनम् । दृष्टादृष्टार्थ-
कत्वेन शब्दद्वैविध्यम् । तत्रादृष्टार्यकस्य वेदशब्दस्य
अनृतव्याघातपुनरुक्तदोषेभ्यः अप्रामाण्यमाशङ्क्य युक्त्या
प्रामाण्यसमर्थनम् । विध्यर्थवादानुवादभेदात् ब्राह्मणरूप
वेदभागस्य त्रैविध्योक्तिः । विधिलक्षणम् । स्तुतिः
निन्दा परकृतिः पुराकल्प इति भेदादर्थवादचातुर्विध्योक्तिः
विधिविहितस्यानुकथनमनुवादैत्यनुवादलक्षणम् । वेदै-
कदेशविषहरमन्त्रादेः आरोग्यार्थौषधादिप्रतिपादका-
युर्वेदभागस्य संवादिफलकत्वेन तद्दृष्टान्तेन इतरवेद-
भागस्य प्रामाण्यव्यवस्थापनम् । २ अ० १ आह्निके एते
पदार्थाः । ऐतिद्यार्थापत्तिसम्भवाभावरूपाणामतिरिक्तप्र-
माणत्वमाशङ्क्य ऐतिह्यस्य शब्देऽन्तर्भावः अर्थापत्तिसम्भवाभा-
वानाञ्चानुमानेऽन्तर्भाव इति समर्थनम् । अभावस्य प्रमेयत्व-
व्यवस्थापनम् । शब्दस्यानित्यताव्यवस्थापनम् । शब्दस्य घण्टा-
द्याश्रयकत्वनिराकरणम् । व्याकरणविधौ वर्ण्णानां विकारपक्ष-
निराकरणेनादेशपक्षव्यवस्थापनम् । वर्ण्णानामविकारित्वे-
ऽपि गुणान्तरापत्त्युपमर्द्दह्रासवृद्धिलेशश्लेषैः विकारव्यवहार
इति व्यवस्थापनम् । तत्र उदात्तेऽनुदात्तत्वं गुणान्तरापत्तिः ।
उपमर्द्दो धर्म्मिनिवृत्तिः यथा अस्तेर्भूः । ह्रासःदीर्घस्य
ह्रस्वता, वृद्धिर्ह्रस्वस्य दीर्धता, लेश एकदेशविकृतिः यथा अस्ते-
रल्लोपः । श्लेषः आगभ इडादि । एतैर्विकारव्यवहारः ।
पदलक्षणम् । जात्यादीनां प्रत्येकं पदार्थत्वपक्षं निराकृत्य
जात्याकृतिव्यक्तीनां समुदितानां पदार्थत्वव्यवस्थापनम् ।
व्यक्त्याकृतिजातीनां लक्षणानि एते २ अ० २ आह्निक
गतार्थाः । इन्न्द्रियचैतन्यवादनिराकरणम् । भूतचैतन्य-
वादनिराकारणम् उभयगोलकेनेत्रैक्यव्यवस्थापनम् ।
आत्मन इन्द्रियभेदे युक्तिप्रदर्शनम् । मनस आत्मत्वनिराकरणम् ।
आत्मनित्यतासाधनम् । मनुष्यदेहस्य पार्थिवत्वसाधनम् ।
तस्य पार्थिवाप्यतैजसत्वमतोपन्यासः चातुर्भौतिकत्वमतो-
पन्यासः पाञ्चभौतिकत्वमतोपन्यासः । इन्दियाणां
गोलकातिरिक्तत्वस्य व्यवस्थापनम् । तेषामाहङ्कारिक्त्वनि-
राकरणेन भौतिकत्वव्यवस्थापनम् । इन्द्रियाणामप्रत्यक्षत्वे
ऽप्यनुमेयताव्यपस्थापनम् । चक्षुषः प्राप्यकारित्वसाधनम् ।
इन्द्रियैकत्वमाशङ्क्य तेषां पञ्चत्वसाधनम् । भूतानां विशेष-
गुणाः तेषाञ्चैकैकेन्द्रियग्राह्यतेति निरूपणम् । घ्राणादीना-
मनुद्भूतगन्धादिसाधनम् । ३ अ० १ म आह्निकगतार्थाः ।
सांख्यमतसिद्धबुद्धेर्नित्यत्वनिराकरणम् मनसोऽणुत्वेन-
ज्ञानानां क्रमिकत्वसाधनम् । मनसोविभुत्वेगत्यभावप्रसङ्गेन
सर्वेन्द्रियैः सर्वदासम्बन्धापत्त्या च सर्वविषयकज्ञानापत्तिदो-
षात् विभुत्वनिरासः । भावानां नियमेन क्षणिकत्वपक्षख-
ण्डनम् । परिणामवादखण्डनम् । इन्द्रियार्थयोरन्वयव्यतिरे-
कसत्त्वेऽपि ज्ञानस्य न तयोर्धर्म्मत्वं किन्तु आत्मधर्म्म-
त्वमिति समर्थनम् । ज्ञानाऽनित्यत्वसाधनम् स्मरणायौगपव्ये
कारणप्रदर्शनम् । ज्ञानवत् इच्छादीनामात्मधर्म्म-
पृष्ठ ०७३६
त्वव्यवस्थापनम् । इतरगुणत्वनिवारणेन ज्ञानादेरा-
त्मधर्म्मत्वव्यवस्थापनम् । स्मरणोपयोगिप्रणिधानादिका
रणानि । बुद्ध्यादेः आशुविनाशित्वव्यवस्थापनम् ।
रूपादेरिव यावद्द्रव्यभावित्वाभावेन ज्ञानादिविशेषगुणानां
देहधर्म्मत्वनिरासेनात्मधर्म्मत्वसमर्थनम् । केशनखादिषु
सुखाद्यनुलब्धेः त्वक्पर्य्यन्तस्यैव देहस्य सुखाद्यवच्छेदकत्व-
साधनम् । प्रतिदेहं मनसो नानात्वखण्डनम् । एकत्वेऽपि
मनसः शीघ्रसञ्चारः । ज्ञानयौगपद्यस्य भ्रमत्वसमर्थनेन
मनोऽणुत्वसाधनम् । देहस्य अदृष्टसापेक्षोत्पत्तिकत्व
साधनम् । अदृष्टसहकारेणैव मातापित्राहारस्य
तदारम्भकत्वसमर्थनम् । अदृष्टाभावे नित्यात्मनः संयोगे-
ऽपि न देहोत्पत्तिरिति निरूपणम् । आत्मनोवि-
भुत्वे सर्वशरीरैः संयोगे सत्यपि तददृष्टजन्यदेह एव
तस्यविशेषसंयीगः भोगसाधक इति नियमनम् । परमाणु-
गतादृष्टाङ्गीकर्त्तुरार्हतस्य मतनिराकरणम् अदृष्टस्य
मनोगुणत्वस्यामि तन्मतसिद्धस्य निराकरणम् । ३ अ० २ आ०
गतार्थाः । प्रवृत्तिसाधनरागद्वेषाभिनिवेशात्मकदीषत्रैविध्य-
कथनम् । तत्र मोहस्य सर्व्वानर्थमूलत्वेन पापीयस्त्वसमर्थनम् ।
आत्मनोनित्यत्व एव प्रेत्यभावसिद्धिः अनित्यत्वे न
तत्सिद्धिस्तथा च एकजातीयशरीरेणाद्यःसम्वन्ध उत्पादः तत्र
चरमसम्बन्धनाशोमरणं तयोरेकस्मिन् आत्मनि नित्ये एव
सम्भवः शरीरादेर्नष्टत्वात् न तदाश्रयत्वमिति समर्थनम्
उत्पत्तिप्रकारनिरूपणम् । वीजानामुपभर्द्देनाङ्कुरोत्पत्ति-
दर्शनात् अभावादेव भावोत्पत्तिरिति अभावोपादनत्वम-
तनिराकरणम् । कर्म्मनिरपेक्षस्यईश्वरस्यैव जगत्कारणत्वमत
खण्डनेन कर्मसापेक्षस्य तस्य जगत्कारणत्वव्यबस्थापनम् ।
परमाण्वादिवदीश्वरस्य नोपादानत्वमिति व्यवस्थापनम् ।
भाष्पे तु गुणविशिष्टमात्मान्तरमीश्वर इतीश्वरलक्षणमुक्तम् ।
तदर्थश्च “गुणैर्नित्यज्ञानेच्छाप्रयत्नरूपविशेषगुणैः सामान्य-
गुणैश्च संयोगादिभिर्विशिष्टम् आत्मान्तरं जीवेभ्यो भिन्न
आत्मा जगदाराध्यः सृष्ट्यादिकर्त्ता वेद्द्वारा हिताहितोप-
देशकोजगतः पितेति” वृत्तावुक्तः । कण्टकतैक्ष्ण्यवज्जगतामा-
कस्मिकत्वखण्डनम् । सर्वानित्यत्वखण्डनम् । सर्वनित्यत्वख-
ण्डनम् । घटादीनां परमाणुपुञ्जात्मकतावादखण्डनेन
एकावयविसाधनम् सर्वभूतानामभावरूपतानिराकरणम् । संख्यै-
कान्तवादनिराकरणम् । संख्यैकान्तवादाश्च भाष्ये बहवो
दर्शिताः । “सर्वमेकं सदविशेषात्, सर्वं द्वेधा नित्यानित्यभे-
दात्, सर्वं त्रेवा ज्ञाता ज्ञेयं ज्ञानमिति, सर्वं चतुर्द्धा
प्रमाता प्रमाणम् प्रमितिः प्रमेयमिति, एवमन्येऽपि” । तत्र
यथा नित्यत्वानित्यत्वाभ्यांद्वैधं तथा सत्त्वेनैक्यम् घटः सन्
पटः सन्नित्येकाकारसत्त्वप्रतीतेः । अन्ये तु एकमित्यद्वैतमाहु-
स्तथा च ब्रह्मैवैकं निर्विशेषं सत् सर्वमन्यन्मिथ्या । अन्येऽ-
पीति रूपसंज्ञासंस्कारवेदनानुभवाः पञ्चस्कन्धाः षट्पदार्थी
सप्तपदार्थीत्यादि मतभेदाः । तत्राद्वैतपक्षनिराकरणं यथा
ब्रह्माद्वैतस्वीकारे तत्साधकप्रमाणस्यासिद्धिः प्रमाणसत्त्वे
तु न सर्त्त्वैकत्वसिद्धिरित्थं दूषणेन सत्त्वैकत्ववादनिराकर-
णम् । यथा वृक्षमूलसेकात् तदीयावयवोपचयद्वारवशेन
फलोत्पत्तिस्तथा यागादेर्नाशेऽपि तज्जन्यादृष्टरूपद्वारसत्त्वात्
स्वर्गाद्युत्पत्तिरिति व्यवस्थापनम् । स्वर्गादेः स्वरूपेण
फलत्वसाधनम् । फलस्य उत्पत्तेः प्रागसत्त्वेन शशशृङ्गादेरिव
उत्पत्त्यसम्भवः सत्त्वे च उत्पत्त्ययोग्यतया कारणव्यापा-
रानर्थक्यं सदसत्त्वाङ्गीकारे च विरोध इत्याशङ्क्य फलस्य
उत्पत्तेः प्राक् असत्त्वव्यपस्थापनम् असत उत्पत्तौ इह
तन्तुषु पटो भविष्यतीति प्रागभावज्ञानस्यैव प्रवर्त्तक-
तयाऽनियमवारणम् । कर्म्मकर्त्तृदेहादेर्नाशेऽपि
अदृष्टस्यात्मन्येवोत्पत्तेः तेनैव चादृष्टेन जायमाने स्वर्ग्यादि-
देहे सुखभोगे सामानाधिरण्यसम्भवेनादृष्टजन्यस्वर्गा-
दिफलस्यात्मनिष्ठत्वव्यवस्थापनम् । सुखदुःखयोरेव सुख्य-
फलत्वं स्त्रीपुत्रादेस्तु तत्सावनत्वादौपचारिकफलत्व-
मिति नादृष्टसामानाधिकरणव्याघात इति समर्थनम् ।
देहसम्बन्धस्यैव विविधबाधनायोगहेतुत्वाद्दुःखरूपत्वकथनम्
विविधदुःखयुक्ततया शरीरस्य दुःखत्वेन भावनाकथनम्
दुःखमध्ये सुखस्यास्युत्पत्ते स्तत्प्रत्याख्यानानौचित्येऽपि
तदुपार्ज्जनादौ दुःखबाहुल्यात् देहसंबद्धं सर्व्वं
दुःखमित्येव भावनीयमिति निरूपणम् । प्रति-
षिद्धभोजनमैथुनादौ प्रवृत्तिनिवारणार्थमपि दुःखस्य
हेयोत्वोक्तिः । आर्षदैवपैत्रर्ण्णापाकरणानुबन्धेनापव-
र्गकालाभावमाशङ्क्य आयुषश्चतुर्थभागेऽपवर्गसाधनकाल-
त्वसाधनम् तथा कामनाशून्यस्य विरक्तस्य ततोऽर्वागपि
तत्सेवनव्यवस्थापनम् । तत्त्वज्ञानोत्पत्तौ प्रारब्धा-
तिरिक्तकर्म्मजन्यादृष्टमात्रनाशेन न खर्गफलकादृष्टेन
प्रतिबन्ध इति कथनम् । क्लेशानुबन्धकृतापवर्गाभावमाश-
ङ्क्य सुषुप्तस्य सर्व्वक्लेशाभाववदपवर्ग इति सुषुप्ति-
दृष्टान्तेन हेत्वभावेनाऽपवर्गे दु खाभावसाधनम् ।
रागशून्यस्यानुत्पत्तेः रागादीनां च मित्थाज्ञाननिमित्तकत्वेन
तत्त्वज्ञानेन च मिथ्याज्ञाननिवृत्तौ दुःखनिवृत्तिरिति
पृष्ठ ०७३७
क्रमकथनम् ४ अ० १ आ० गतार्थाः । देहात्मबुद्ध्वेर्दोष-
जन्यतया दोषस्य च मिथ्याज्ञानाधीनत्वेन तत्त्वज्ञानात्
आत्मनोदेहादिभ्यो भेदज्ञाननिवृत्तौ तदभेदज्ञाननिरा-
सेन मिथ्याज्ञाननिवृत्तिः तस्यां च सत्यां क्रमेण प्रवृत्तिनि-
वृत्त्या दुःखनिवृत्तिरूपापवर्गसिद्धिः अतोऽपवर्गसाधनं तत्त्व
ज्ञानमित्येवंप्रतिपादनम् । साधुतया भावितानां रूपादि-
विषयाणां दोषहेतुत्वकथनम् । सौन्दर्य्यं पश्यतो रागादिर्ब्र-
ह्मणोऽप्यसुकरपरिहार इत्याशङ्क्यतत्र सौन्दर्य्यबुद्धे रागा-
धीनतया तरुण्यादिदेहे सौन्दर्य्याभिमानस्य त्याज्यताकथनम् ।
भाष्ये तु “परिष्कारबुद्धिरनुरञ्जनसंज्ञा सा हेया
दोषदर्शनमशुभसंज्ञा सा भावनीया” इत्युक्तम् । तथा च “खेल-
त्खञ्जननयना परिणतविम्बधारा पृथुश्रोणी । कमलसु
कुलस्तनीयम् पूर्ण्णेन्दुमुखी सुखाय मे भवितेति” अनुरञ्जन-
संज्ञा । “चर्म्मनिर्म्मितपात्रीयं मांसासूक्पूयपूरिता । अस्यां
रज्यति यो मूढ़ः पिशाचः कस्ततोऽधिकः” अशुभसंज्ञा
एवं स्वदेहादावपि चिन्तनम् । परमाणुपुञ्जस्यैव घटादि-
रूपताऽतोनास्ति अतिरिक्तोऽवयवीति सौत्रान्तिकवैभाषिकयो-
र्मतस्य पूर्ब्बदूषितस्यापि स्वमतदार्ढ्याय पुनर्दूषणम् ।
परमाणोस्त्रुटिपरत्वव्यवस्थापनम् । आकाशस्य सर्व्वगतत्वं
सर्वमूत्तसंयोगित्वं तत्र संयोगस्याव्याप्यवृत्तितया तदवच्छेदक-
भेदं विनाऽनुपपत्त्या सावयेवत्वापत्तिमाशङ्क्य मूर्त्त पदार्थस्यै-
वावयवानां तदवच्छेदकत्वम् इत्युक्त्या तस्य निरयव-
त्वसमर्थनम् । सर्व्वत्र शब्दोत्पत्त्या तज्जनकसंयोगानु-
मानात् आकाशस्य सर्व्वमूर्त्तसंयोगित्वसमर्थनम् आकाशे
च प्रतिहतस्य परावर्त्तनरूपव्यूहस्य उत्तरदेशगतिप्र-
तिबन्धरूपविष्टम्भस्याभावात् विभुत्वव्यवस्थापनम् ।
परसाणोः संयोगवत्त्वान्यथानुपपत्त्या सावयवत्वापत्तिः संयोगस्य
अव्याप्यवृत्तितया अव्याप्यवृत्तेश्चावच्छेदकभेदं विना सत्त्वा-
सम्भवादित्याशङ्क्य तदवयवानामपि संयोगसिद्धये सावयवत्व
कल्पनायामनवस्थापत्तिरतो दिग्विभागानामेव संयोगाव-
च्छेदकत्वकल्पनेन परमाणोर्निरवयवत्वसमर्थनम् । ज्ञानाति-
रिक्तोबाह्यपदार्थो नास्तीत्यत्र यदि प्रमाणमस्ति तदा ज्ञा-
नातिरिक्तप्रमाणरूपबाह्यस्य सत्त्वान्न बाह्यामाबः अथ तत्र
प्रसाणं नास्ति तदा निष्प्रमाणकत्वान्न तत्सिद्धिरित्येवं
रूपेण बाह्यार्थाभावाङ्गीकर्त्तृमतनिराकरणम् । स्वप्नस्य
स्मृतिविशेषरूपत्वं व्यवस्थाप्य शुक्तिरजतविज्ञाने
रजतांशस्य ज्ञानलक्षणया उपनीतस्य संसर्गमात्र
बोध इति व्यवस्थापननेन स्वप्लदृष्टान्तेन ज्ञान-
मात्रस्यासद्विषयकत्ववादिमतनिराकरणम् । इत्येवंघाह्या-
र्यभङ्गनिराकरणम् । ज्ञानसामान्यात् तत्त्वज्ञानस्यापि
क्षणिकत्वात् तन्नाशे प्रतिबन्धकापाये पूर्ब्बवासनावशात्
मिथ्याज्ञानं पुनरुतपपद्येतेति तत्त्वज्ञानस्य न मिथ्याज्ञानो-
च्छेदकतेत्याशङ्कायां तन्निरासः । समाधिविशेषाभ्या-
सात् तत्त्वज्ञानस्य विवृद्धिः । तद्वृद्ध्या च मिय्याज्ञानवास-
नातिरोमावान्न तत् फलायालमिति समर्थनम् । ततश्च
तत्त्वज्ञानसंस्कारः अन्यसंस्कारप्रतिवन्धी भवतीति
व्यवस्थापनम् । तत्र प्रतिवन्धश्च कार्य्याक्षमत्वसम्पादनं
विनाशोवेति । स्वाभाविकविषयरागादिना प्रतिबन्धात्
समाध्यसम्भवमाशङ्क्य पूर्ब्बकृतेश्वराधनादिना अभ्यास-
पाटवे जनिते तत्संस्कारात् समाधिसिद्धिरिति समर्थनम् ।
तथा च पूर्व्वकृतेश्वरानुसन्धानादिसहकारेणैव तत्त्वज्ञाने
जननीये न रागादेः प्रतिबन्धकत्वम् । अरण्यगुहा-
पुलिनादिषु योगाभ्यासस्थानत्वकथनम् । अपवर्गे प्रारब्ध
कर्म्मानुसारेण देहादेः सत्त्वेन तदनुरूपार्थायभाससद्भा-
वकथनम् । प्रारब्धकर्म्मावसाने देहाभावे विदेहकैवल्यप्राप्ति
कथनम् । समाधिसिद्धये यमनियमाद्यष्टाङ्गयोगाभ्यास
स्यावश्यरुतोक्तिः । श्रवणमनननिदिध्यासनैरात्मसाक्षात्कारो-
त्पत्तिकथनम् । एतच्छास्त्राभिज्ञैः सह स्वनिश्चितार्थदार्ढ्याय
एतच्छास्त्रोदितार्थनिश्चयस्य संवादः कर्त्तव्य इति प्रति-
पादनम् । संवादश्च शिष्यगुरुसब्रह्मचारिश्रेयीर्थिभिः
जिगीषाहीनैः सह कार्य्य इति निरूपणम् । तत्त्वनिर्ण्णयार्थं
प्रतिकूलपक्षहीनतया संवादः करणीयः न जिगीषयेति
निरूपणम् । तत्त्वनिश्चयसंरक्षणार्थं वीजप्ररोहसंरक्षार्थ
कण्ठकवरणवत् त्रयीबाह्यैः सह जल्पवितण्डे आश्रय
णीये न वाद इत्येत्कथनम् तथा च यदि त्रयीबाह्यैः
स्वपक्षआक्षिप्यते तदा जल्पवितण्डाभ्यां तेषां
मतं खण्डनीयम् । एते अर्थाः ४ अ० २ आ० उक्ताः ।
साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्रा-
प्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेतुत्वर्थापत्त्यविशे-
षोपपत्त्युपलब्धिनित्यानित्यकार्य्यसमाश्चतुर्विशतिं जातो-
र्विभज्य तल्लक्षणान्युक्तानि । कथाभासप्रकरणम् । ५ अ०
१ मआ० गतार्थाः । प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञा
विरोधः प्रतिज्ञासंन्यासः हेत्वन्तरमर्थान्तरम् निरर्थक
मविज्ञातार्थमप्राप्तकालं न्यूनमधिकं पुनरुक्तमननुभा-
षणनज्ञानमप्रतिभा विक्षेपोमतानुज्ञा पर्य्यनुयोज्योपेक्षणं
निरनुयोज्यानुयोगोऽपसिद्धान्तोहेत्वाभासाश्च निग्रह-
पृष्ठ ०७३८
स्थानानि इति निग्रहस्थानानि विभज्य तेषां क्रमेण
लक्षणानि उक्तानि ५ अ० २ आ० गतार्थाः । यथा पदार्थ
तत्त्वज्ञानादपवर्गस्तथा तन्मतं सर्व्व० द० ममग्राहि । यथा
“ननु तत्त्वज्ञानान्निःश्रेयसम्भवतीत्युक्तं तत्र किं तत्त्वज्ञाना-
दनन्तरमेव निःश्रेयसं सम्पद्यते, नेत्युच्यते तत्त्वज्ञानाद्दुः-
खजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्त-
राभाव इति । तत्र मिथ्याज्ञानं नामानात्मनि देहादा-
वात्मबुद्धिः तदनुकूलेषु रागः तत्प्रतिकूलेषु च द्वेषः वस्तु-
तस्त्वात्मनः प्रतिकूलमनुकूलं वा न किञ्चित् समस्ति
परस्परानुबन्धत्वात्तु रागादीनां, मूढोर ज्यति रक्तो मुह्मति
मूढः कुप्यतिकुपितो मुह्यतीति ततस्तैर्दौषैः प्रेरितः प्राणी
प्रतिषिद्धानि शरीरेण हिंसास्तेयादीन्याचरति वाचा
अनृतादीनि, मनसा परद्रोहादीनि, सेयं पापरूपा प्रवृ-
त्तिरधर्ममावहतीति । शरीरेण प्रशस्तानि दानपरपरि-
त्राणादीनि, वाचा हितसत्यादीनि, मनसा अहिंसादीनि,
सेयं पुण्यरूपा प्रवृत्तिर्धर्मम् । सेयमुभयी प्रवृत्तिः ततः
स्वानुरूपं प्रशस्तं निन्दितं वा जन्म पुनः शरीरादेः प्रादु-
र्भावः तस्मिन् सति प्रतिकूलवेदनीयतया वासनात्मकं दुःखं
भवति त इमे मिथ्याज्ञानादयो दुःखान्ता अविच्छेदेन
प्रवर्त्तमानाः संसारशब्दार्थो घटीचक्रवन्निरवधिरनुवर्त्तते ।
यदा कश्चित् पुरुषधौरेयः पुराकृतसुकृतपरिपाकवशादा-
चार्य्योपदेशेन सर्व्वमिदं दुःखायतनं दुःखानुषक्तञ्च पश्यति
तदा तत्सर्ब्बं हेयत्वेन बुध्यते ततस्तन्निवर्त्तकमविद्यादि
निवर्त्तयितुमिच्छति तन्निवृत्त्युपायश्च तत्त्वज्ञानमिति कस्य-
चिच्चतमृभिर्विद्याभिर्विमक्तं भावयतः सम्यग्दर्शनपदवेदनीय-
तया तत्त्वज्ञानं जायते तत्त्वज्ञानान्मिथ्याज्ञानमपैति,
मिथ्याज्ञानापाये दोषाः अपयान्ति, दोषापाये प्रवृत्तिरपैति,
प्रवृत्त्यपाये जन्मापैति, जन्मापाये दुःखमत्यन्तं निवर्त्तते
सात्यन्तिकी निवृत्तिरपवर्गः । निवृत्तेरात्यन्तिकत्वं नाम
निवर्त्त्यसजातीयस्य पुनस्तत्रानुत्पाद इति तथा च पारम-
र्षसूत्रम् “दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये
तदनन्तराभावादपवर्ग” इति । ननु दुःखात्यन्तोच्छेदोऽपवर्ग
इत्येतदद्यापि कफोणिगुड़ायितं वर्त्तते तत्कथं सिद्धवत्-
कृत्वा व्यवह्रियत इति चेन्मैवं सर्व्वेषां मोक्षवादिनामपव-
र्गदशायामात्यन्तिकी दुःखनिवृत्तिरस्तीत्यस्यार्थस्य सर्व्व-
तन्त्रसिद्धान्तसिद्धतया घण्टापथत्वात् नह्यप्रवृत्तस्य दुःखं
प्रत्यापद्यते इति कश्चित् प्रपद्यते तथा हि आत्मोच्छेदो
मोक्ष इति माध्यमिकमते दुःखोच्छेदोऽस्तीत्येतावत्तावदवि-
वादम् । अथ मन्येथाः शरीरादिवदात्मापि दुःखहेतुत्वा-
दुच्छेद्य इति तन्न सङ्गच्छते विकल्पानुपपत्तेः किमात्मा
ज्ञानसन्तानो विवक्षितः तदरिक्तो वा । प्रथमे न विप्रति-
पत्तिः कः खल्वनुकूलमाचरति प्रतिकूलमाचरेत् । द्वितीये-
तस्य नित्यत्वे निवृत्तिरशक्यविधानैव प्रवृत्त्यनुपपत्तिश्चा-
धिकं दूषणं न खलुकश्चित् प्रेक्षावान् “आत्मनस्तु कामाय
सर्वं प्रियं भवतीति” सर्व्वतः प्रियतमस्यात्मनः समुच्छेदाय
प्रयतते सर्वोहि प्राणी मुक्त इति व्यवहरति । ननु
धर्मिनिवृत्तौ निर्मलज्ञानोदयो महोदय इति विज्ञानवा-
दिवादे सामग्र्यभावः सामानाधिकरण्यानुपपत्तिश्च भावना-
चतुष्टयं हि तस्य कारणमभीष्टं तच्च क्षणभङ्गपक्षे स्थिरै-
काधारासम्भवात् लङ्घनाभ्यासादिवदनासादितप्रकर्षं न स्फु-
टमभिज्ञानमभिजनयितुं प्रभवतिसोपप्लवस्य ज्ञानसन्तानस्य
बद्धत्वे निरुपप्लवस्य च मुक्तत्वे यो बद्धः स एव मुक्त इति
सामानाधिकरण्यं न सङ्गच्छते । आवरणमुक्तिर्मुक्तिरिति
जैनजनाभिमतोऽपि मार्गो न निर्गतो निरर्गलः । अङ्गभवान्
पृष्टो व्याचष्टां किमावरणम्? धर्म्माधर्मभ्रान्तय इति चेत्
इष्टमेव । अथ देहमेवावरणं तथा च तन्निवृत्तौ पञ्जरान्मु-
क्तस्य शुकस्येवात्मनः सततोर्द्ध्वगमनं मुक्तिरिति चेत्तदा
वक्तव्यं किमयमात्मा मूर्त्तोऽमूर्त्तो वा । प्रथमे निरवयवः
सावयवो वा निरवयवत्वे निरवयवो मूर्त्तः परमाणुरिति
परमाणुलक्षणापत्त्या परमाणुधर्मवदात्मधर्माणामतीन्द्रियत्वं
प्रसजेत् । सावयवत्वे यत् सावयवं तदनित्यमिति प्रतिबन्धवले-
नानित्यत्वापत्तौ कृतप्रणाशाकृताभ्यागमौ निष्प्रतिबन्धौ प्रस-
ज्येयाताम् । अमूर्त्तत्वे गमनमनुपपन्नमेव चलनात्मिकायाः
क्रियायाः मूर्त्तप्रतिवन्धात् । पारतन्त्र्यं बन्धः स्वातन्त्र्यं
मोक्ष इति चार्वाकपक्षेऽपि स्वातन्त्र्यं दुःखनिवृत्तिश्चेदवि-
वादम् । ऐश्वर्य्यं चेत् सातिशयतया सदृक्षतया च प्रेक्षावतां
नाभिमतम् । प्रकृतिपुरुषान्यत्वख्यातौ प्रकृत्युपरमे पुरुषस्य
स्वरूपेणावस्थानं मुक्तिरिति साङ्ख्यख्यातेऽपि पक्षे दुःखो-
च्छेदोऽभ्युपेयते विवेकज्ञानं पुरुषाश्रयं प्रकृत्याश्रयं वेति एताव-
दवशिष्यते तत्र पुरुषाश्रयमिति न श्लिष्यते पुरुषस्य कौटस्थ्यात्
स्थाननिरोधापातान्नापि प्रकृत्याश्रयः अचेतनत्वात् तस्याः ।
किञ्च प्रकृतिः प्रवृत्तिस्वभावा वा निवृत्तिस्वभावा वा आद्ये
अनिर्मोक्षः स्वाभावस्यानपायात् द्वितोये सम्प्रति संसारोऽ-
स्तमियात् । नित्यनिरतिशयसुखाभिव्यक्तिमुक्तिरिति भट्ट-
सर्ब्बज्ञाद्यभिमतेऽपि दुःखनिवृत्तिरभिमतैव परन्तु नित्य-
सुखं न प्रमाणपद्धतिमध्यास्ते । श्रुतिस्तत्र प्रमाणमिति
पृष्ठ ०७३९
चेन्न योग्यानुपलब्धिबाधिते तदनवकाशादवकाशे वा ग्रा-
वप्लावेऽपि तथाभावप्रसङ्गात् । ननु सुखाभिव्यक्तिर्मुक्ति-
रिति पक्षं परित्यज्य दुःखनिवृत्तिरेव मुक्तिरिति स्वीकारः
क्षीरं विहायारोचकग्रस्तस्य सौवीररुचिमनुहरतीति चेत्त-
देत न्नाटकपक्षपतितत्वद्वच इत्युपेक्ष्यते । सुखस्य साति-
शयत्वेन प्रत्यक्षतया बहुप्रत्यनीकाक्रान्ततया साधनप्रार्थना-
परिक्लिष्टतया च दुःखाविनाभूतत्वेन विषानुषक्तमधुवत्
दुःखपक्षनिक्षेपात् । नन्वेकमनुसन्धित्सतोऽपरं प्रच्यवते
इति न्यायेन दुःखवत् सुखमप्युच्छिद्यत इति अकाम्यो-
ऽयं पक्ष इति चेन्मैवं मंस्थाः सुखसम्पादने दुःखसा-
धनबाहुल्यानुषङ्गनियमेन तप्तायःपिण्डे तपनीयबुद्ध्या
प्रवर्त्तमानेन साम्यापातात् तथा हि न्यायोपार्ज्जितेषु
विषयेषु कियन्तः सुखखद्योताः कियन्ति दुःखदुर्दि
नानि, अन्यायोपार्ज्जितेषु तु यद्भविष्यति तन्मनसापि
चिन्तयितुंन शक्यमित्येतत् स्वानुभवमप्रच्छादयन्तः सन्तोविदां-
कुर्व्वन्तु विदांवरा भवन्तः । तस्मात् परिशेषात् परमेश्वरा-
नुग्रहवशाच्छ्रवणादिक्रमेणात्मतत्त्वसाक्षात्कारवतः पुरुषधौ-
रेयस्य दुःखनिवृत्तिरात्यन्तिकी निःश्रेयसमिति निरवद्यम् ।
नन्वीश्वरसद्भावे किं प्रमाणं प्रत्यक्षमनुमानमागमो वा न
तावदत्र प्रत्यक्षं क्रमते रूपादिरहितत्वेनातीन्द्रियत्वात्
नाप्यनुमानं तद्व्याप्तिलिङ्गाभावात् नागमः विकल्पासहत्वात्
किं नित्योऽवगमयत्यनित्यो वा । आद्ये अपसिद्धान्तापातः
द्वितीये परस्पराश्रयापातः । उपमानादिकम शक्यशङ्कमनि-
यतविषयत्वात् । तस्मादीश्वरः शशविषाणायते इति चेत्त-
देतन्न चतुरचेतसां चेतसि चमत्कारमाविष्करोति । विवा-
दास्पदं नगसागरादिकं सकर्तृकं कार्य्यत्वात् कुम्भवत् ।
न चायमसिद्धो हेतुः सावयवत्वेन तस्य सुसाधत्वात् ।
ननु किमिदं सावयवत्वम् अवयवसंयोगित्वम् अवयवसमवा-
यित्वं वा नाद्यः गगनादौ व्यभिचारात् न द्वितीयः तन्त्वा-
दावनैकान्त्यात् । तस्मादनुपपन्नमिति चेन्मैवं वादीः
समवेतद्रव्यत्वंसावयवत्वमिति निरुक्तेर्वक्तुं शक्यत्वात् ।
अवान्तरमहत्त्ववत्त्वेन वा कार्य्यत्वानुमानस्य सुकरत्वात् । नापि
विरुद्धो हेतुः साध्यविपर्य्य यव्याप्तेरभावात्, नाप्यनैकान्तिकः,
पक्षादन्यत्र वृत्तेरदर्शनात् । नापि कालात्ययोपदिष्टः,
बाधकानुपलम्भात् । नापि सत्प्रतिपक्षः, प्रतिभटादर्शनात् । ननु
नगादिकमकर्तृकं शरीराजन्यत्वात् गगनवदिति चेन्नैतत्
परीक्षाक्षममीक्ष्यते नहि कठोरकण्टीरवस्य कुरङ्गशावः
प्रतिभटो भवति अजन्यत्वस्यैव समर्थतया शरीरविशेषणवैय-
र्य्यात् । तर्ह्यजन्यत्वमेव साधनमिति चेन्नासिद्धेः नापि
सोपाधिकत्वशङ्काकलङ्काङ्कुरः सम्भवी अनुकूलतर्कसम्भवात्
यद्ययमकर्तृकः स्यात् कार्य्योऽपि न स्यादिह जगति नास्त्येव
तत्कार्य्यं नाम यत्कारकचक्रमवधीर्य्यात्मानमासादयेदित्ये-
तदविवादम् । तच्चर्सवं कर्तृविशेषोपहितमर्य्यादं कर्तृत्वं
चेतरकारकाप्रयोज्यत्वे सति सकलकारकप्रयोक्तृत्वलक्षणं
ज्ञानचिकीर्षाप्रयत्नाधारत्वम् । एवञ्च कर्तृव्यावृत्तेस्तदुप-
हितसमस्तकारकव्यावृत्तावकारणककार्य्योत्पादप्रसङ्ग इति
स्थूलः प्रमादः । तथा निरटङ्कि शङ्करकिङ्करेण । “अनुकूलेन
तर्केण सनाथे सति साधने । साध्यव्यापकताभङ्गात् पक्षे
नोपाधिसम्भव” इति । यदीश्वरः कर्त्ता स्यात्तर्हि शरीरी
स्यादित्यादिप्रतिकूलंतर्कजातं जागर्त्तीति चेदीश्वरसिद्ध्य-
सिद्धिभ्यां व्याघातात् तदुदितमुदयनेन! “आगमादेः
प्रमाणत्वे बाघनादनिषेधनभ् । आभासत्वे तु सैव
स्यादाश्रयासिद्धिरुद्धटा” इति । न च विशेषविरोधः
शक्यशङ्कः ज्ञातत्वांज्ञातत्वविकल्पपराहतत्वात् । तदेतत्
परमेश्वरस्य जगन्निर्म्माणे प्रवृत्तिः किमर्था स्वार्था
परार्था वा आद्येऽपीष्टप्राप्त्यर्था अनिष्टपरिहारार्था वा
नाद्यः अवाप्तसकलकामस्य तदनुपपत्तेः अतएव न
द्वितीयः । द्वितीये प्रवृत्त्यनुपपत्तिः कः खलु परार्थं
प्रवर्त्तमानं प्रेक्षावानित्याचक्षीत । अथ करुणया प्रवृत्त्यु-
पपत्तिरित्याचक्षीत कश्चित् तं प्रत्याचक्षीत तर्हि सर्व्वान्
प्राणिनः सुखिन एव सृजेदीश्वरः न दुःखशवलान्
करुणाविरोधात् । स्वार्थमनपेक्ष्य परदुःखप्रहरणेच्छा हि
कारुण्यं तस्मादीश्वरस्य जगत्सर्जनं न युज्यते । तदुक्तं
भट्टाचार्य्यैः । “प्रयोजनमनुद्दिश्य न मन्दो हि प्रवर्त्तते ।
जगच्च सृजतस्तस्य किं नाम न कृतं भवेदिति” । नास्ति-
कशिरोमणे! तावदीर्ष्याकषायिते चक्षुषी निमील्य
परिभावयतु भवान् करुणया प्रवृत्तिरस्त्येव न च निसर्गतः
सुखश्नयसर्गप्रसङ्गः, सृज्यप्राणिकृतसुकृतदुष्कृतपरिपाकविशे-
षाद्वैचित्र्योपपत्तेः न च सातन्त्र्यभङ्गः शङ्कनीयः स्वाङ्गं
स्वव्यवधायकं न भवतीति न्यायेन प्रत्युत तन्निर्वाहात् एक
एव रुद्रो नद्वितीयोऽवतस्थे” इत्यादिरागमस्तत्र प्रमाणम् ।
यद्येवं तर्हि परस्पराश्रयबाधव्याधिं समाधत्स्वेति चेत्
तस्यानुत्थानात् किमुत्पत्तौ परस्पराश्रयः शङ्क्यते ज्ञप्तौ
वा । नाद्यः आगमस्येश्वराधीनोत्पत्तिकत्वेऽपि परमेश्वरस्य
नित्यत्वेनोत्पत्तेरनुपपत्तेः नापि ज्ञप्तौ परमेश्वरस्य आगमा-
धीनज्ञप्तिकत्वेऽपि तस्यान्यतोऽवगमात् नापि तदनित्यत्व
पृष्ठ ०७४०
ज्ञप्तौ आगमानित्यत्वस्य तीव्रादिधर्म्मोपेतत्वादिना सुगम-
त्वात् । तस्मान्निवर्त्तकधर्म्मानुष्ठानवशादीश्वरप्रसादसिद्धा-
वभिमतेष्टसिद्धिरिति सर्व्वमवदातम्” । अस्याश्चात्मतत्त्व-
ज्ञानहेतुत्वादात्मविद्यात्वम् । “त्रयी चान्वीक्षिकी चैव वार्त्ता
च भरतर्षभ! दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः”
शा० प० ५९ अध्या० । “त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिञ्च
शाश्वतीम् । “आन्वीक्षिकीञ्चात्मविद्यां वार्त्तारम्भांश्च लोकतः”
मनुः “तत्रौपनिषदं तात परिशेषन्तु पार्थिव । मथ्नामि
मनसा तत्त्वं दृष्ट्वा चान्वीक्षिकीं पराम्” भा० शा० प० ।
“आन्वीक्षिकी कोशलानामिति” गीता । “सेयसान्वीक्षिकी
विद्या प्रमाणादिभिः पदार्थैः प्रविभज्यमाना । प्रदीपः
सर्वविद्यानामुपायः सर्वकर्मणाम् । आश्रयः सर्वधर्माणां
विद्योद्देशे परीक्षिता” पक्षिलस्वामी । अन्वीक्षा
शीलमस्याः तस्यै हितं वा ठक् । २ दुर्गायाञ्च “आत्मवेदनशी
लत्वादन्वीक्षणपराऽथ वा । अन्वीक्षाकारणत्वाद्वा तस्मा-
दान्वीक्षिकी स्मृता” देवीपु० तंन्निरुक्तिः ।

आन्वीपिक त्रि० अन्वीप वर्त्तते ठक् । अनुकूले ।

आप प्राप्तौ वा चुरा० उभ० पक्षे स्वादि० प० सक० अनिट् ।

आपयति ते आपिपत् त । पक्षे आप्नोति आप्नुतः
आप्नुवन्ति आप्नुयात् आप्नोतु आप्नोत् आप्नुवम् । आपत्
आप आपथुः आपुः आपिथ । आप्ता आप्यात् आप्स्यति
आप्स्यत् । आप्तव्यः आप्यम् आपनीयम् आप्ता
आप्तः आप्तिः आत्वा अवाप्य । क्विप् ह्रखः आपः अपः
अद्भिः । असुन् आपः । शतृ आप्नुवन् ताच्छील्ये चानश्
आप्नुवानः । “अयशोमहदाप्नोति” “इहाग्र्यां कीर्त्ति-
माप्नोति” मनुः । “नत्वेवाधौ सोपकारे कौषीदीं वृद्धिमा-
प्नुयात्” या० स्मृतिः “पुत्रमेवंगुणोपेतं चक्रवर्त्तिन-
माप्नुहि” शकु० “येन श्रेयोहऽमाप्नुयाम्” गीता “स दुष्पा-
पयशाः प्रापत्” रघुः । “शतं क्रतूनामपविघ्नमाप सः”
रघुः । “यदिदं सर्वं मृलुनाप्तम्” श्रुतिः “नानवाप्तमवाप्तव्यं
वर्त्त एव च कर्म्मणि” गीता । कर्म्मणि आप्यते आपि ।
प्रेरणे णिच् । आपयति ते आपिपत् त । सन् ईप्सति
ईप्सितः ।
  • प्र--प्रकर्षेणाप्तौ प्राप्नोति प्राप्तः प्राप्तिः
“अप्राप्तस्य च याप्राप्तिःसंयोगः स उदाहृतः” भाषा० ।
  • सम् + संपूर्ण्णतायां समाप्तः समाप्तिः समापनम् ।
  • अव + प्राप्तौ, “अनवाप्तमवाप्तव्यम्” गीता “तपः किलेदं तदवाप्ति साधनं” कुमा० ।
  • परि + प्रचुरत्वे समर्थत्वे समुदितत्वे पर्य्याप्तः पर्य्याप्तिः ।
“सहि धर्मः सुपर्य्याप्तः सर्वस्य पदवेदने” गीताभा० ।
“अपर्य्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्य्याप्त
त्विदमेतेषां बलं भीमाभिरक्षितम्” गीता ।
  • अनु + प्रा--पश्चात्प्राप्तौ “नदीं गङ्गामनुप्राप्ताः” भा० आ० प० ।
  • वि + विशेषेण आप्तौ व्याप्तिः व्याप्तः, व्याम्यः व्यापकः व्याप-
नम् “व्याप्तस्य पक्षधर्मत्वधीःपरामर्श उच्यते” । “व्याप्तिः
साध्यवदन्यस्तिन्नसम्बन्ध उदाहृतः” भाषा० । “अस्यात्मनेप-
दित्वमपि स्वाराज्यं प्राप्स्यते भवान्” इति दुर्गादासः ।

आप पु० आप्यते आप--कर्मणि घञ् । अष्टसु वसुषु

मध्ये ४ र्थे बसौ, “धरो ध्रुवः सोमनामा तथापोऽप्यनिलो-
ऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिताः”
विष्णु ध० । “सव्यदक्षौ वसोर्यस्य चोर्द्धौ हस्तौ सशक्तिकौ ।
सीराङ्कुशान्वितौ चाधः स भवेदापसंज्ञकः” इति तद्ध्यानम्
“आपश्चैवानिलश्चैव ववर्षतुररिन्दमौ” हरिवं० २४५ अ०
देवासुरयुद्धे । “आपस्य दुहिता भार्य्या सहस्य परमा
प्रिया! भूपतिर्भुवभर्त्ता चाजनयत् पावकं परम्” भा०
व० २२१ अ० । भा० आ० प० ६६ अ० तु “धरोध्रुवश्च
सोमश्च अहश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टा-
विति स्मृताः । धूम्रायास्तु धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा ।
चन्द्रमास्तु मनस्विन्याः श्वासायाः श्वसनस्तथा । वाता-
याश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः । प्रत्यूषश्च
प्रभासश्च प्रभातायाः सुतौ स्मृतौ” इति आपस्थाने अह
इति नामान्तरत्वेन कीर्त्तितम् कल्पभेदादविरुद्धम् ।
प्रभासस्यैव द्युनामता अष्टमस्य वसोः आपगेयशब्दे दर्शयि-
ष्यमाणे भा० ९९ अध्याये द्युनामतोक्तेः अपां समूहः
अण् । २ जलसमूहे न० । ३ आकाशे निरुक्त० । तस्य
सर्वर्मूत्तसंयोगित्वात्तथात्वम् ।

आपक त्रि० आप--ण्वुल् । प्राप्तरि । गौरा० स्त्रियां ङीप्

आपकर त्रि० अपकरे भवः अण् अञ्च । अपकर-

जाते स्त्रियां ङीप् ।

आपक्व न० ईषत् पक्वम् आ + पच--क्त । १ ईषत्पक्वे

कलायादौ भर्ज्जिते हरितयवादौ (हडापोडा) २ ईषत्पक्व-
वस्तुमात्रे त्रि० ।

आपक्षिति पु० अपक्षितस्यापत्यम् इञ् ।

अपक्षयापन्नस्यापत्ये स्त्रियां क्रौड्या० ष्यञ् । आपक्षित्या ।

आपगा स्त्री आपेन जलसमूहेन गच्छति वहति डं । नद्याम् ।

“फेनायमानं पतिमापगानाम्” “सम्भूयाम्भोधि-
मभ्येति महानद्या नगापगा” मावः । “शिखरिणामिव
सागरमापगाः” रघुः ।
पृष्ठ ०७४१

आपगेय पु० आपगायां गङ्गायां भवः ढक् । गाङ्गेये भीष्मे तस्म

तत उत्पत्तिकथा भा० आ० ९८ अ० शान्तनुप्रार्थने गङ्गा-
वाक्यं यथा । “एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च ।
वसूनां समयं स्मृत्वाऽथाभ्यगच्छदनिन्दिता । उवाच चैव राज्ञः
सा ह्लादयन्ती मनो गिरा । भविष्यामि महीपाल! महिषी
ते वशानुगा । यत्तु कुर्य्यामहं राजन्! शुभं वा यदि वा
शुभम् । न तद्वारयितव्याऽस्मि न वक्तव्या तथाऽप्रियम् ।
एवं हि वर्त्तमानेऽहं त्वयि वत्स्यामि पार्थिव! । वारिता
विप्रियं चोक्ता त्यज्येयं त्वामसंशयम्” । वैश० उक्तिः
“तथेति राज्ञा सा तूक्ता तदा भरतसत्तम । प्रहर्ष-
मतुलं लेभे प्राप्य तं पार्थिवोत्तमम् । आसाद्य शान्त-
नुस्ताञ्च बुभुजे कामतो वशा । न प्रष्टव्येति मन्वानो न
स तां किञ्चिदूचिवान् । स तस्याः शीलवृत्तेन
रूपौदार्य्यगुणेन च । उपचारेण च रहस्तुतोष
जगतीपतिः । दिव्यरूपा हि सा देवी गङ्गा त्रिपथगा-
मिनी । मानुषं विग्रहं कृत्वा श्रीमन्तं वरवर्णिनी ।
भाग्योपनंतकामस्य भार्य्या चोपनताऽभवत् । शान्तनोर्न्नृ-
पसिंहस्य देवराजसमद्युतेः । सम्भोगस्नेहचातुर्य्यैर्हावलास्य
मनोहरैः । राजानं रमयामास यथा रेमे तथैव सः ।
स राजा रतिसक्तत्वादुत्तमस्त्रीगुणैर्हृतः । संवत्सरानृतू-
न्मासान् बुबुधे न बहून् गतान् । रममाणस्तया सार्द्धं
यथाकामं नरेश्वरः । अष्टावजनयत्पुत्त्रांस्तस्याममरसन्नि-
भान् । जातं जातञ्च सा पुत्त्रं क्षिपत्यम्भसि भारत ।
प्रीणाम्यहं त्वामित्युक्त्वा गङ्गास्रोतस्यमज्जयत् । तस्य तन्न-
प्रियं राज्ञः शान्तनोरभवत्तदा । न च तां किञ्चनोवाच
त्यागाद्भीतो महीपतिः । अथैनामष्टमे पुत्त्रे जाते प्रह-
सतीमिव । उवाच राजा दुःखार्त्तः परीप्सन् पुत्त्रमात्मनः ।
मा बधीः कस्य काऽसीति किं हिनस्ति सुतानिति ।
पुत्त्रघ्नि! सुमहत्पापं सम्प्राप्तं ते सुगर्हितम्” । स्त्र्युवाच ।
“पुत्त्रकाम! न ते हन्मि पुत्त्रं पुत्त्रवतां वर! । जीर्णोऽस्तु
मम वासोऽयं यथा स समयः कृतः । अहं गङ्गा जह्नुसुता
महर्षिगणसेविता । देवकार्य्यार्थसिद्ध्यर्थमुषिताऽहं त्वया
सह । इमेऽष्टौ वसवो देवा महाभागा महौजसः ।
वशिष्ठशापदोषेण मानुषत्वमुपागताः । तेषां जनयिता
नान्यस्त्वट्टते भुवि विद्यते । मद्विधा मानुषी धात्री लोके
नास्तीह काचन । तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता ।
जनयित्वा वसूनष्टौ जिता लोकास्त्वयाऽक्षयाः । देवानां
समयस्त्वेष वसूनां संश्रुतो मया । जातं जातं मोक्षयिष्ये
जन्मतो मानुषादिति । तत्ते शापाद्विनिर्मुक्ता आपवस्य
महात्मनः । स्वस्ति तेऽस्तु गमिष्यामि पुत्त्रं पाहि
भहाव्रतम् । एष पर्य्यायवासो मे वसूनां सन्निधौ कृतः । मत्प्र-
सूतं विजानीहि गङ्गादत्तमिमम् सुतम्” । हृत
निजधेनुकान् वसून् प्रति गङ्गया वशिष्ठशापस्तत्रैवोस्यः
९९ अ० । “अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः ।
नचापश्यत्स गां तत्र सवत्सां काननोत्तमे । ततः
स मृगयामास वने तस्मिंस्तपोधनः । नाध्यागमच्च
मृगयंस्तां गां मुनिरुदारधीः । ज्ञात्वा तथाऽपनीतां
तां वसुभिर्दिव्यदर्शनः । ययौ क्रोधवशं सद्यः
शशाप च वसूंस्तदा । यस्मान्मे वसवो जह्रुर्गां वै
दोग्ध्रीं सुबालधिम् । तस्मात्सर्व्वे जनिष्यन्ति मानुषेषु
न संशयः । एवं शशाप भगवान् वसूंस्तान् भरतर्षभ! ।
वशं क्रोधस्य सम्प्राप्त आपवो मुनिसत्तमः । शत्वा च
तान्महाभागस्तपस्येव मनो दघे । एवं स शप्तवान् राजन्!
वसूनष्टौ तपोधनः । महाप्रभावो ब्रह्मर्षिर्देवान् क्रोध
समन्वितः । अथोश्रमपदं प्राप्तास्ते वै भूयी महात्मनः ।
शप्ताःस्म इति जानन्त ऋषिं तमुपचक्रमुः । प्रसादयन्त-
स्तमृषिं वसवः पार्थिवर्षभ! । लेभिरे नच तस्मात्ते प्रसा-
दमृषिसत्तमात् । आपवात्पुरुषव्याघ्र! सर्वधर्म्मविशारदात् ।
उवाच च स धर्म्मात्मा शप्ता यूयं धरादयः । अनुसं
वत्सरात्सर्वे शापमोक्षमवाप्स्यथ । अयन्तु यत्कृते यूयं
मया शप्ताः स वत्स्यति । द्यौस्मदा मानुषे लोके दीर्घ-
कालं स्वकर्म्मणा । नानृतं तच्चिकीर्षामि क्रुद्धो युष्मान्
यदब्रवम् । न प्रजास्यति चाप्येष मानुषेषु महामनाः ।
भविष्यति च धर्म्मात्मा सर्वशास्त्रविशारदः । पितुः प्रिय-
हिते युक्तः स्त्रीभोगान् वर्जयिष्यति । एवमुक्ता वसून् सर्वान्
स जगाम महानृषिः । ततो मामुपजग्मुस्ते समेता
वसवस्तदा । अयाचन्त च मां राजन्! वरं तच्च मया कृतम् ।
जातान् जातान् प्रक्षिपास्मान् स्वयं गङ्गे! त्वमम्भसि ।
एवं तेषामहं सम्यक् शप्तानां राजसत्तम! । मोक्षार्थं
मानुषाल्लोकाद्यथावत्कृतवत्यहम् । अयं शापादृषेस्तस्य एक
एव नृपोत्तम । द्यौराजन्! मानुषे लोके चिरं वत्स्यति
भारत! । वैशाम्पायन उवाच । एतदाख्याय सा देवी
तत्रैवान्तरधीयत । आदाय च कुमारं तं जगामाथ यथे
प्सितम् । स तु देवव्रतो नाम गाङ्गेय इति चाभवत् । द्यु-
नामा शान्तनोः पुत्त्रः शान्तनोरधिको गुणैः” ।
“अथापगेयं भीष्मं तं रामेणेच्छामि धीमता । रणे विनि-
र्ज्जितं द्रष्टुं कुर्य्यात्तदपि भार्गवः” “यदि त्वामापगेयो वै
न नयेद्गजसाह्वयम्” इति च भा० उ० प० ७७ अ० ।
पृष्ठ ०७४२

आपच्चिक त्रि० आपदं चिक्कति कृन्तति चिक्क--अण् पृ०

कलोपः । आपत्कत्तेके । गौरा० स्त्रियां ङीष् ।

आपटव न० न सन्ति पटवोऽस्य तस्य भावः अण् । पटुशू-

न्यत्वे । न पटुरपटुरिति तत्पुरुषात्तु ष्यञि उत्तर-
पदस्यैव वृद्धिः । अपाटवम् । “अपाटवाद्यशैचाद्यैर्यदि
विघ्नं प्रजायते” स्मृतिः ।

आपण पु० आपणायन्ते विक्रीणन्त्यत्र आ + पण--नि० आधारे घ ।

१ हट्टे २ क्रयविक्रेयद्रव्यशालायाञ्च । “शकटापणवेशाश्च
बणिजोवन्दिनस्तथा । नराश्च मृगयाशीलाः शतशोऽथ
सहस्रणः” भा० व० प० २३८ । “भक्ष्यमाल्यापणानाञ्च
ददृशुः श्रियमुत्तमाम्” भा० स० प० ४ अ० । “अस्वामिना तु
यद्भुक्तं गृहक्षेत्रापणादिकम् । सुहृद्बन्धुसकुल्यस्य न तद्भो-
गेन हीयते” दा० त० वृ० “आपणः पण्यवीथिका” रघु०
व्य० त० “आपणो विक्रयस्थानम्” तेनैवोक्तम् । “पूर्ण्णा-
पणाविपणिनो विपणीर्विभेजुः” माषः । भावे घञ्
आपाणः । क्रयविक्रयव्यवहारे पु० ।

आपणिक त्रि० आपणादायस्थानादागतः ठक् । १ हट्टस्थानादा

गते राजकरादौ । आपणस्य धर्म्म्यम् ठक् । २ हट्ट-
स्थबणिग्धर्म्म्ये । आपणस्यावक्रयः राज्यग्राह्यः ठक् ।
३ हट्टस्य राजग्राह्ये द्रव्ये (तोलां) आ + पण--इकन् ।
४ बणिग्जने उज्जपलदत्त ।

आपतन न० आ + पत--भावे ल्युट् । १ आगमने २ प्राप्तौ ३ ज्ञाने

“क्वचित् प्राकरणिकादर्थादप्राकरणिकार्थास्यापतनम्” सा०
द० दैववशात् ४ पतने च ।

आपति पु० आपतति आ + पत--इन् । सततगामिनि वायौ

“आपतये त्वा परिपतये गृह्णामि” य० ५, ५, आपतिः
सततगतिर्वायुः” वेददी० ।

आपतिक पु० आपतति शीघ्रम् आ + पत--इकन् । १ श्येने २ दैवायत्ते त्रि० उज्ज्वलदत्तः ।

आपतित त्रि० आ + पत--क्त । १ इठादागते २ दैवायत्तपतने च

आपत्कल्प पु० आपद्यु चितः कल्पोविधिः शा० त० । आपत्-

कालिकविधौ स च विधिर्गौतमेनोक्तः यथा
“आपत्कल्पोब्राह्मणस्याब्राह्मणाद्विद्योपयोगोऽनुगमनं शुश्रूषा-
ऽऽसमाप्तेर्ब्राह्मणोगुरुः याजनाध्यापनप्रतिग्रहाः सर्व्वेषां
पूर्ब्बः पूर्ब्बोगुरुस्तदलाभे क्षत्रवृत्तिस्तदलाभे वैश्यवृत्तिः
तस्यापण्यं गन्धरसकृतान्नतिलशाणक्षौमाजिनानि रक्त-
निर्णिक्ते वाससी क्षीरञ्च सविकारं मूलफलपुष्पौष-
धमधुमांसतृणोदकापथ्यानि पशवश्च हिंसासंयोगे पुरुष-
वशाकुमारीवेहतश्च नित्यं भूमिव्रीहित्यवाजाव्यश्च
ऋषभधेन्वनडूहश्चैके । विनिमयस्तु रसानां रसैः
पशूनाञ्च न लवणकृतान्नयोः, तिलानाञ्च समेनामेन तु
पक्वस्य संप्रत्यर्थे सर्व्वधातुवृत्तिरशक्तावशूद्रेण तदप्येके
प्राणसंशये, तद्वर्णसङ्करोऽभक्ष्यनियमस्तु प्राणसंशये ब्राह्म-
णोऽपि शस्त्रमाददीत राजन्यवैश्यकर्म्म, राजन्योवैश्यकर्म्म”

आपत्काल पु० आपद्युक्तः कालः शा० त० । आपद्युक्ते

समये “अब्राह्मणादध्ययनमापत्काले विधीयते” मनुः
“आपत्काले तु विप्रेण भुक्तं शूद्रगृहे यदि ।
मनस्तापेन शुध्येत्तु द्रुपदां वा शतं जपेत्” प्रा० त० स्मृ० ।

आपत्कालिक त्रि० आपत्काले भवः काश्या० ष्ठञ् ञिठ् घा ।

आपत्कालभवे ष्ठञि स्त्रियां ङीष् ञिठि तु टाबिति भेदः ।

आपत्ति स्त्री आ + पद--क्तिन् । आपदि आपच्च रोगाद्यभि-

भूततावस्था सम्यग्वर्त्तनोपायानुपलम्भश्च । आपदि
धर्माचरणञ्च या० स्मृ० दर्शितम् यथा
“क्षात्रेण कर्म्मणा जीयेद्विशां वाप्यापदि द्विजः । निस्तीर्य्य
तामथात्मानं पावयित्वा न्यसेत् पथि । फलोपलक्षौमसोम-
मनुष्यापूपवीरुधः । तिलौदनरसक्षारान् दधि क्षीरं घृतं
जलम् । शस्त्रासवमधूच्छिष्टमधुलाक्षाश्च वर्हिषः ।
मृच्चर्म्मपुष्पकुतपकेशतक्रविषक्षितीः । कौशेयनीललवणमां-
सैकशफसीसकान् । शाकार्द्रौषधिपिण्याकपशुगन्धांस्त-
थैव च । वैश्यवृत्त्यापि जीवन्नो विक्रीणीत कदाचन ।
धर्म्मार्थं विक्रयं नेयास्तिला धान्येन तत्समाः । लाक्षाल-
बणमांसानि पतनीयानि विक्रये । पयोदधि च मद्यञ्च
हीनवर्णकराणि च । आषद्गतः सम्प्रगृह्णन् भुञ्जानो का
यतस्ततः । न लिप्येतैनसा विप्रोज्वलनार्कसमो हि सः ।
कृषिः शिल्पं भृतिर्विद्या कुसीदं शकटं गिरिः । सेवाऽ-
नूपं नृपोभैक्षमापत्तौ जीवनानि तु । बुभुक्षितस्त्र्यहं
स्थित्वा धान्यमब्राह्मणाद्धरेत् । प्रतिगृह्य तदाख्येयम-
भियुक्तेन धर्मतः । तस्य वृत्तं कुलं शीलं श्रुतमध्ययनं
तपः । ज्ञात्वा राजा कुटुम्बञ्च धर्म्म्यां वृत्तिं प्रकल्पयेत्” ।
विस्तरस्तु भा० शा० प० आपद्धर्म्म पर्व्वणि दृश्यः । २ प्राप्तौ ।
“स्थानापत्तेर्द्रव्येषु धर्मलाभः” कात्या० ४, ३, १९
“इतरेतरभावापत्तिः” शा० भा० व्यतिरेकव्याप्त्या ३ अर्थादेः
सिद्धौ । अर्थापत्तिः ४ अनिष्टप्रसङ्गे स च व्याप्यस्याहार्य्या-
रोपात् व्यापकस्याहार्य्यरोपः । यदि निर्वह्निः स्यात्
निर्धूमः स्यादित्येवं रूपः ।

आपत्य पु० अपत्याधिवारे विहितः अण् । पाणिन्यादिभिः

तस्यापत्यमित्यधिकारे विहिते प्रत्थये । “आपत्यस्य च
तद्धितेऽनाति” पा० ।
पृष्ठ ०७४३

आपथि पु० अभिमुखः पन्थाः यस्य वेदे नि० इत् समा० ।

अभिखमार्गसम्बन्धिनि “आपथयोविपथयोऽन्तस्पथा
अनुपथाः” ऋ० ५, ५२१० । आपथयः अभिमुखा मार्गा
येषां तादृशाः” भा० स्त्रियां वा ङीप् “हिरण्ययेभिः
पविभिः पयोवृधः उज्जिघ्रन्त आपथ्यो न पर्व्वतान्”
ऋ० १, १६४ १२ ।

आपद् स्त्री आ + पद--सम्पदा० क्विप् । विपत्तौ आपत्तिशब्दे

विवृतिः” दैवीनां मानुषीणाञ्च प्रतिहर्त्ता त्वमापदाम्”
रघुः । “सम्पदो मे निरापदः” रघुः “अविवेकः परमापदां
पदम्” किरा० “मन्त्रशक्तिविनिवारितापदः” माघः ।
“आपत्कल्पः आपत्कालः । आपत्प्राप्तः । आपद्गतः । आपद्-
ग्रस्तः । आपद्धर्मः” हलन्तत्वाद्वा टाप् । आपदाप्यत्र ।
आपत्काले न्यूनादपि विद्याधिगन्तव्या यथा वृ० उ०
“वाचा स्मृ वै पूर्ब्ब उपयन्ति सहोपायनकीर्त्त्योवास”
अत्र भाष्यम् “वाचा स्म किल पूर्ब्बे ब्राह्मणाः
विद्यार्थिनः सन्तः क्षत्रियान् वैश्यान् वा क्षत्रिया
वैश्यानुपयन्ति शिष्यवृत्त्या उपगच्छन्ति नोपायनशु-
श्रूषाभिः अतः स गौतम उपायनकीर्त्त्या
उपगमनकीर्त्तनमात्रेणैव उवास ऊषिवान् नीपायनंचकार” ।
“आपदि समादधिकाद्वा विद्याप्राप्त्यसम्भवावस्थायाम्
उपायनमुपगमनं पादोपसर्पणम्” आन० ।

आपदकाल पु० आपदा कृतोऽकालः । आपदा कृते दुष्टे काले

“पीड़ा चापदकालश्च पत्तिज्ञानञ्च पाण्डव!” भा०
शा० प० ५९ अ० ।

आपदेव पु० आपस्य जलसमूहस्य देवः । वरुणे ।

आपद्धर्म पु० आपदि कर्त्तव्यो धर्म्मः । १ आपद्यनुष्ठेये धर्म्मे

आपद्धम्ममधिकृत्य कृतोग्रथः अण् । भारतान्तर्गत-
शान्तिपर्वमध्यगते व्यासकृते २ अवान्तरपर्वभेदे न० तच्च
भा० शा० प० १३१ अध्यावधि १७३ अध्यायपर्य्यन्तम् ।

आपन न० आप + भावे ल्युट् । १ प्राप्तौ । कर्मणि ल्युट् ।

२ मरीचे शब्दच० ।

आपनिक त्रि० आ + पन--स्तुतौ कमणि इकन् । १ इन्द्रनीले मणौ २ किराते च उज्ज्वलदत्तः ।

आपनेय त्रि० आ + अप + नी--कर्मणि यत् । समन्तादपनेये

दूरोकार्य्ये “नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञा-
नाय प्रेष्ठ!” कठोप० । “येयमागमप्रतिपाद्यात्मनि मतिः
सैषा तर्केण स्वबुद्ध्यभ्यूहमात्रेण नापनेया नापनेतव्या
न हन्तव्या । तार्किकोह्यनागमज्ञः स्वबुद्धिपरिकल्पितं
यत्किञ्चिदेव कथयति अतएवच सेयमागमप्रसूता मतिः
तार्किकादन्येनैवागमाभिज्ञेनाचार्य्येणैव प्रोक्ता
सतीसुज्ञानाय भवति” भा० ।

आपन्न आ + पद--क्त । २ आपद्ग्रस्ते “आपन्नः संसृतिं घोरां-

यन्नाम विवशोगृणेत् । ततः सद्योविमुच्येत यद्विभेति
स्वयं भयम्” भाग० “आपन्नाभयसत्रेषु दीक्षिताः खलु
पौरवाः” शकु० “आत्मापराधादापन्नस्तत् किं भीमं
जिघांससि” भा० स्त्री० प० १३ अ० १ प्राप्ते मेदि० आपन्नसत्वा

आपन्नसत्वा स्त्री आपन्नं प्राप्तं गर्भरूपेण सत्वं प्राणी यया ।

गर्भिण्यां स्त्रियाम् “सममापन्नसत्वास्ता रेजुरापाण्डुर-
त्विषः” रघुः ।

आपमित्यक त्रि० अपमित्य परिवर्त्त्य निर्वृत्तम् कक् । विनिमयं दत्त्वा क्रीते ।

आपया स्त्री आपेन जलपूरेण याति या + क । १ जलपूरवाहि

नदीभेदे “दृषद्वत्यां मानुष आपयायां सरस्वत्यां रेवदग्ने
दिदीहि” ऋ० ३, २३, ४, । “आपया नाम काचित् नदी”
भा० २ आपगारूपनदीमात्रे च ।

आपयितृ त्रि० आप + णिच्--तृच् । प्रापयितरि

“आपयिता ह वै कामानां भवति यएवं विद्वानक्षरमुद्गीथ-
मुपास्ते” छा० उ० । “आपयिता ह वै कामानां
यजमानस्य भवति” भा० । स्त्रियां ङीप् ।

आपराधय्य न० अप + राध--णिच् बा० श तस्य भावः ब्राह्म०

ष्यञ् । अपराधकर्तृत्वे ।

आपराह्णिक त्रि० अपराह्णे भवः ठञ् । १ अपराहण-

भवे २ तद्व्यापके च स्त्रियां ङीप् । “पित्रर्थे चापराह्णि-
की” स्मृतिः ।

आपर्त्तुक पु० ऋतुमधिकृत्य अध्यायः तत्र विहितः

कल्पः । ऋतावध्यायबोधके छान्दसे कल्पग्रन्थभेदे ।
“ऋतावध्यायश्छान्दसः कल्प आपर्त्तकः” कौशीतकिसूत्रम् ।

आपव पु० आपुनाति स्पर्शमात्रेण आपु जलं तदधिष्ठाता

वरुणोऽपि आपूः तस्यापत्यम् । कल्पभेदे वरुणस्यापत्ये
१ वशिष्ठे मुनौ तस्य तत उत्पत्तिकथा यथा भा० आ० प०
९९ अ० “यं लेभे वरुणः पुत्रं पुरा भरतसत्तम!
वशिष्ठनामा स मुनिःख्यात आपव इत्युत” “तत्ते शापा-
द्विविर्मुक्ता आपवस्य महात्मनः” इति च आपगेयशब्दे
विवृतिः । आपं जलपूरं वाति प्राप्नोति आश्रयत्वेन वा--क ।
२ नारायणे परमपुरुषे । “आपोनारा इति प्रोक्ताः
आपोवे नरसूनवः । अयनं तस्य ताः पूर्ब्बं तेन नारा-
पृष्ठ ०७४४
यणः स्मृत” इत्युपक्रम्य । “उच्चावचानि भूतानि गात्रे-
म्यस्तस्य जज्ञिरे । आपवस्य प्रजासर्गं सृजतो हि प्रजा-
पतेः” स सृष्ट्वा तु प्रजास्त्वेवमापवो वै प्रजापतिः”
इति च हरिवं० १, २ अ० ।

आपस् न० आप--असुन् । जले । “आपोभिर्मार्ज्जनं

कृत्वा” स्मृतिः । “अन्नमयं लि सौम्य! मन आपोमयः
प्राणस्तेजोमयी वाक्” छा० उप० “सर्वमापोमयं जगत्”
देवीमा० । “ब्रुवते कतमेऽपि नपुंसकमाप” इति
वृत्तिधृतकोषात् क्लीवत्वम् । तुडभावे ह्रस्वः अप
इत्येव । तुट् पक्षे अप्त इत्यपि । कर्मणि ।

आपस्तम्ब पु० ऋषिभेदे स च कल्पसूत्रकारः धर्म्मशास्त्र

कर्त्ता च “यमापस्तम्बसंवर्त्ताः कात्यायनवृहस्पती” इत्याद्य-
भिधाय “धर्म्मशास्त्रप्रयोजकाः” या० स्मृ० । तदीय
संहिता च दशाध्यायी तस्यां प्रायश्चित्तविधानमात्रसु-
क्तम् । तस्यापत्यम् विदा० अञ् आपस्तवः तदपत्ये पुंस्त्री
स्त्रियां ङीप् । आपस्तम्बस्येदम् छ । आपस्तम्बीयः ।
तत्सम्बन्धिनि त्रि० आपस्तवेन प्रोक्तमधीयते अण् तस्य
लुक् । आपस्तम्बप्रोक्तशाखाध्येतृषु ब० व० । आपस्तम्ब्यां भवः
ढक् । आपस्तम्वेयः । आपस्तम्वापत्यस्त्रीभवे त्रि० ।

आपस्तम्भिनी पु० आपः स्तम्नानि स्तन्भ--णिनि । लिङ्गिन्यां

लतायाम् ।

आपाक पु० समन्तात् परिवेष्ट्य पच्यतेऽत्र आ + पच--आधारे

घञ् । १ कुम्भकारस्य मृण्मयपात्रपचनस्थाने (पोयान) ।
भावे घञ् । २ ईषत्पाके ३ सम्यक्पाके ४ पुटपाके च ।

आपाङ्ग्य न० अपाङ्गे देयम् ञ्य । अपाङ्गे देये अञ्जने ।

“शलाकया दक्षिणेन क्षिपेत्कानीनमञ्जनम् । आपाङ्ग्यं
वा यथायोग्यं कुर्य्याच्चात्र गतागतम्” सुश्रु० ।

आपात पु० हठात् अविवेकात् कारणान्तरसाचिव्याभावे

ऽपि आगत्य पातः । अविविच्यावगतौ “आपाततोयदर्थस्य
पौनरुक्त्यावभासनम्” सा० द० २ अतर्कितागमने । “गरुड़ा-
पातविश्लिष्टमेघनादास्त्रबन्धनः” रघुः । “तदापातभयात्
पथि” कुमा० आपतत्यत्राधारे घञ् । ३ तत्काले वर्त्तमान-
काले “आपातरम्या विषयाः पर्य्यन्तपरितापिनः” किरा०
“आपातरम्पास्तत्कालरमणीयाः” मल्लि० । ४ उपक्रमे च
“मध्वापातोविषास्वादः स धर्मप्रतिरूपकः” मनुः ।
“मध्वापातो मधुरोपक्रमः” कुल्लू० ।

आपातलिका स्त्री वृत्तर० उक्ते मात्राभेदे “कथितेयं भात्

गुरुकावथ पूर्व्वमन्यत्” तल्लक्षणं अन्यत् वैतालीयगतम्
तच्च “षड़्विषमेऽष्टौ समे कलास्तास्तु समे स्युर्नोनिर-
न्तराः । न समात्र पराश्रिता कला” इत्येव प्रथमं निवे-
श्यान्ते जगणंदत्त्वा गुरुद्वयं चतुर्षु चरणेषु देयमित्यर्थः ।

आपाततस् अव्य० आपात + तसिल् । १ कारणं विनेत्यर्थे

२ अकस्मादित्यर्थे ३ अनयधार्य्येत्यर्थे च । “एतच्चापाततः”
जगदी० “आपाततो यदर्थस्येति” सा० द० ।

आपात्य त्रि० आपतति स्वयमाक्रमितुमागच्छति । “भव्यगे-

येत्यादि” पा० नि० कर्तरि ण्यत् । १ स्वयमाक्रमितु-
मागामिनि । “आपात्यसैनिकनिराकरणाकूलेन” माघः ।
भावे ण्यत् । २ कर्तव्यापतने ३ कर्मणि ण्यत् । आपात्ये
देशादौ त्रि० आ + पत--णिच् ल्यप् । ४ समन्तात्पातयित्वे-
त्यर्थे अव्य० ।

आपाद पु० आ + पद--घञ् । फललाभे “ध्यानापादांशा

इव” वृ० उ० “ध्यानस्यापादनमापादः ध्यानफललाभः”
इति भा० २ आगतौ च पादपर्य्यन्तम् अव्ययी० ।
३ पादपर्य्यन्ते अव्य० ।

आपादन न० न० आ + पद--णिच्--ल्युट् । १ आपत्तिविषयी-

करणे आपादकज्ञानेन आपद्यनिश्चये” पद--भावे
णिच्--ल्युट् । २ सम्पादने “द्रव्यस्य संख्यान्तरापादने”
सि० कौ० ।

आपान न० आपीयते सम्भूय सुरा पीयतेऽत्र आधारे ल्युट् ।

सुरापानाय सम्भूयोपवेशनस्थाने । पानार्थसभायाम्
(चक्र) “गन्धर्वापस्परसोभद्रे! मामापानगतं सदा”
भा० व० प० २८० अ० । “आपाने पानकलिता दैवे-
नाभिप्रणीदिताः” ददर्श यदुवीराणामापाने वैशसं महत्”
इति च भा० आ० प० २ अ० । भावे ल्युट् । २ सम्भूय
सुरापाणे । “ताम्बूलीनां दलैस्तत्र रचितापानभूमयः”
रघुः । “यत्र स्फटिकहर्म्मेषु नक्तमापानभूमिषु” कुमा० ।
स्वार्थे कन् । आपानकममपि पानगोष्ठ्याम् । मुरापाणे
च “आपानकमुत्सवः!” काद० ।

आपायिन् त्रि० आपिबति आ + पा--णिनि । सुरापाण कर्त्तरि स्त्रियां ङीप् ।

आपालि पु० आ + पा--क्विप् तदर्थमलति अल--इन् ।

केशकीटे (उकुन्) सहि शीर्षस्थरुधिरापानप्रसक्तः

आपि पु० आप + णिच्--इन् । १ धनादिप्रापके । “हये देवा

यूयमिदापयः” ऋ० २, २९, ४ । “आपयः धनस्य प्रापयि-
तारः” भा० । आप्यते कर्म्मणि इन् । २ आप्ते बन्धौ
तस्य भावः आपित्वं बन्धुत्वे “आपित्वे नः प्रपित्वे”
ऋ०८, ७, ३ । “आपित्वे बन्धुत्वे” भा० ।
पृष्ठ ०७४५

आपिञ्जर न० ईषत्पिञ्जरं प्रा० स० । १ स्वर्ण्णेराजनि० ।

२ ईषत्पिञ्जरवर्ण्णे पु० ३ तद्वति त्रि० “आपिञ्जराबद्धरजः-
कणत्वात्” रघुः ।

आपिशलि पु० अपिशलस्य मुनेरपत्यम् इञ ।

आदिशाव्दिके मुनिभेदे । “इन्द्रश्चन्द्रः काशकृत्स्नापिशली
शाकटायनः । पाणिन्यमरजैनेन्द्राजयन्त्यटादिशाव्दिकाः” कवि
क० “वा सुप्यापिशलेः” पाणिनिनीक्तेस्ततोऽप्यस्यादित्वम्
स्त्रियां क्रोड्या० ष्यञ् । आपिशल्या तस्यस्त्र्यपत्ये स्त्री ।
आपिशिलिना प्रोक्तम् अण् । आपिशलम् । तदीये शास्त्रेन० ।

आपी त्रि० आ + प्याय--क्विप् पीभावः । १ आपीने वृद्धिमति ।

आपीड पु० आ + पीड--अच् । १ शिखामाल्ये, २ शिरोभूषणे,

“तस्मिन् कुलापीडनिभे विपीड़ितम्” रघुः । “विचित्र-
मुकुटापीड़ा विचित्रकवचध्वजाः” भा० व० प० १७३
अ० “बद्धापीड़ांश्चारुरूपांश्च यूनो व्यूढोरस्कांस्तालमात्रान्
ददर्श” भा० आ० प० १९७ अ० ! २ गृहवहिर्निःसृतकाष्ठे
च । ३ आपीडकमात्रे त्रि० ।

आपीडा स्त्री आ + पीड--अ । सम्यक्पीड़ते “तत्र तूर्णं

गलापीड़ं कुर्य्याच्चाप्यधूननम्” सुश्रु० गलस्यापीडा
मर्द्दनं यत्रेति तदर्थः ।

आपीडित त्रि० आ + पीड--क्त । १ निष्पीडिते २ निर्मृष्टे ।

आपीत न० ईषत् पीतम् प्रा० त० । माक्षिके धातौ ।

२ ईषत्पीतवर्ण्णे पु० ३ तद्वति त्रि० । ईषत् पानं कृतं
यस्य तादृशे ४ जलादौ त्रि० ।

आपीन न० आ + प्याय--क्त पीभावः तस्य नत्वम् । (मेड़)

१ गवादेः ऊधसि “आपीनभारोद्वहनप्रयत्नात्”
रघुः २ कूपे पु० । “आपीनमूधः आपीनोऽन्धुः”
मुग्ध० । अन्योपसर्गपूर्ब्बकत्वे तु संप्यानैत्येव आङ्
पूर्बकस्यापि अन्धूधसो रेवार्थयोःपीभावो नान्यत्र ।

आपूपिक त्रि० अपूपः शिल्पमस्य ठक् । १ अपूपपाचके

अपूपे अपूपभक्षणे साधु गुड़ा० ठक् । २ अपूपभक्षणसाधने
गुड़ादौ । अपूपो भक्तिरस्य अचित्तत्वात् ठक् ।
३ अपूपभक्षणासेवके । अपूपःपण्यमस्य ठक् । ४ अपूपविक्रे-
तरि । अपूपस्तद्भक्षणंशीलमस्य ठक् । ५ अपूपभक्ष-
शीले । अपूपस्तद्भक्षणं हितमस्य ठक् । ६ हितत्वेन
अपूपभक्षणकर्त्तरि । अपूपानां समूहः अचित्तत्वात् ठक् ।
७ अपूपसमूहे न० ।

आपूप्य पु० अपूपाय साधुः वा ञ्य । अपूपसाधने चूर्णे त्रि०

आपूर पु० आपूर्य्यतेऽनेन आ + पूर--घञ् । जलादि

प्रवाहे “स्वेदापूरोयुवतिसरितां व्याप गण्डस्थलानि”
माघः भावे घञ् । २ सम्यक्पूरणे ३ईषत्पूरणे ४
अभिव्याप्तौ च ।

आपूरण न० आ + पूर--भावे ल्युट् । १ “समन्तात्पूरणे

आपूरयति ल्यु । २ सम्यकपूरणकर्त्तरि त्रि० ३ नागभेदे पु०
“कालिको मणिनागश्च नागश्चापूरणस्तथा” भा० आ० प०
३५ अ० ।

आपूरित त्रि० आ + पूर--क्त । यस्यापूरणं कृतं १ तस्मिन् २ अभिव्याप्ते च ।

आपूर्य्यमाण त्रि० आ + पूर--कर्म्मणि शानच् । सम्यक्

पूर्य्यमाणे २ समन्तात्प्रसृते “आपूर्थ्यमाणमचलप्रतिष्ठं
समुद्रमापः प्रविशन्ति यद्वत्” गीता । आधारे शानच् ।
सूर्य्यकिरणैः पूर्य्यमाणचन्द्रस्याधारे पक्षे । “उदग-
यने आपूर्य्यमाणे पक्षे कल्याणे नक्षत्रे चूड़ोपनयनगोदान
विवाहाः” आश्व० गृह्य० । “अर्च्चिषोऽहरह्न अपूर्य्य-
माणं पक्षम्” छा० उप० ।

आपूष आ + पूष--वृद्धौ करणे घञ् । रङ्गे (राङ्) धातु-

भेदे, तस्य पुष्टिसाधनत्वादिकमुक्तं भा० प्र० “रङ्गं
वङ्गं त्रपु प्रोक्तं तथा पिच्चटमित्यपि । खुरकं मिश्रकं
चापि द्विविधं रङ्गमुच्यते । उत्तमं खुरकं प्रोक्तं मिश्रकं
गर्हितं भवेत् । रङ्गं लघु सरं रूक्षमुष्णमेहकृमी-
नपि । निहन्ति पाण्डुं सश्वासं चक्षुष्यं पित्तलं
मनाक् । सिंहो यथा हस्तिगणं निहन्ति तथैव वङ्गो
ऽखिलमेहवर्गम् । देहस्य सौख्यम् प्रबलेन्द्रियत्वं
नरस्य पुष्टिं विदधाति नूनम्” ।

आपृच् त्रि० आ + पृच--क्विप् । संसर्गयुक्तेः । “मित्रक्रुवोयच्छ-

सान न गावः पृथिव्या आपृगमुया स यत्ने” ऋ० १०,
८९, १४ ।

आपृच्छा स्त्री आ + प्रच्छ--अङ् । १ आलापे, २ जिज्ञासायाम्

३ आभाषणे गतागतकाले ४ शुभप्रश्ने ५ आनन्दने च ।

आपृच्छ्य त्रि० आ + प्रच्छ--वेदे नि० क्यप् । जिज्ञास्ये ।

“आपृच्छ्यं वरुणं वाज्यर्षति” सि० कौ० धृता श्रुतिः । आ +
प्रच्छ--ल्यप् । २ जिज्ञासित्वेत्यर्थे अव्य० ।

आपेक्षिक त्रि० अपेक्षात आगतः ठक् । अपेक्षया प्राप्ते

“किन्तु मध्यत्वमापेक्षिकम्” सि० कौ० “अमृतमश्नुते
इत्यापेक्षिकममृतत्वम्” छा० उ० भा० । स्त्रियां ङीप् ।

आपोक्लिम न० ज्योतिषोक्ते जन्मलग्नावधितृतीयषष्ठ-

नवमद्वादशस्थानेषु । “तृतीयं षष्ठनवममन्त्यञ्चापोक्लिमं
विदुः” ज्यो० त० । “आपोक्लिमे यदि खगाः स किले-
न्धुवारोन स्याच्छुमं क्वचन ताजिकशास्त्रगीतम्” नी० ता० ।
पृष्ठ ०७४६

आपोमय त्रि० आपस् + विकारे प्राचुर्य्ये वा मयट् । १ जलविकारे

“आपोमयः प्राणस्तेजोमयी वाक्” छा० उ० । “आपो-
मयाः सर्व्वरसाः सर्वमापोमयं जगत्” भा० आ०
१८० अध्या० “मूमेर्गन्धगुणान् भुङ्क्षे पिबस्वापोमयान्
रसान्” भा० आश्व० २८ अ० । “मन्युजोऽग्निर्दहन्नापो
लोकाह्यापोमयाः स्मृताः” भा० आ० १८० । जलप्लाविते
२ जलप्रचुरे “विलोक्य ताभ्यां गदितः सर्व्वमापोमयं जगत् ।
आवां जहि न यत्रोर्व्वीसलिलेन परिप्लुता” देवीमा० ।

आपोमूर्त्ति पु० स्वारोचिषस्य मनोः १ पुत्रभेदे । “हविध्रः

सूकृतिर्ज्योतिरापोभूर्त्तिरयसमयः । प्रथितश्च नभस्यश्च नभ
ऊर्ज्जस्तथैव च । स्वारोचिषस्य पुत्रास्ते मनोस्तात ।
महात्मनः” हरिवं० ६ अ० । दशमे मन्वन्तरे आत्रेये
सप्तर्षिमध्ये २ ऋषिभेदे च “दशमे त्वथ पर्य्याये द्वितीयस्यान्तरे
मनोः । हविष्मान् पौलहश्चैव सुकृतिश्चैव भार्गवः ।
आपोमूर्त्तिस्तयात्रेयो वाशिष्ठश्चाष्टकः स्मृतः” इति हरिवं० ७ अ०

आपोऽशान न० आपसा जलेन अशानं अश--व्याप्तौ

भावे बा० आनच् । जलेन उपरिष्टादधस्ताच्चास्तरण-
रूपे अन्नाच्छादनार्थे कर्मणि । “आपोऽशानेनोप-
रिष्टादधस्तादश्नता तथा । अनग्नममृतञ्चैव कार्य्यमन्नं
द्विजत्मना” या० स्मृ० । “भुज्ञानेन द्विजन्मना
उपरिष्टादधस्ताच्च आपोऽशानाख्येन कर्मणा अन्न-
मनग्नमृमृतं च कार्य्यम्” मिता० । “आपोऽशानक्रिया
पूर्व्वं सत्कृतान्नमकुत्सयन्” या० स्मृ० । “आपोऽशानक्रिया
पूर्व्वम् अमृतोपस्तरणमसि स्वाहेत्यादिकं कृत्वा” मिता०
“आपोऽशानं कर्म्म कुरु” भवदेवः ।

आप्त त्रि० आप--क्त । १ प्राप्ते २ प्रत्ययिते विश्वस्ते । ३ यथार्थ-

ज्ञानयुक्ते ४ युक्तियुक्ते च “आप्तश्रुतिरःप्तवचनं तु”
सां० का० । “आप्ता प्राप्ता युक्तेति यावत् आप्ता चासौ
श्रुतिश्चेति आप्तश्रुतिः श्रुतिर्वाख्यजनितं वाक्यार्थज्ञानं
तच्च स्वतःप्रमाणम् अपौरुषेयवाक्यजनितत्वेन सकल
दोषाशङ्कानिर्मुक्तत्वेन युक्तं भवति एवं वेदमूलकस्मृती-
तिहासपुराणजनितज्ञानमपि युक्तम् । कपिलस्य कल्पादौ
कल्पान्तराधीतश्रुतिस्मरणसम्भवः सुप्तबुद्धस्येव पूर्व्वे-
द्युरवगतार्थानामपरेद्युः । आप्तग्रहणेन चायुक्ताः शाक्य-
भिक्षुनिर्ग्रन्थिकसंसारमोचकादीनामागमाभासा निराकृता
भवन्ति अयुक्तत्वञ्चैतेषां विगानात् छिन्नमूलत्वात् प्रमाण-
विरुद्धाभिधानात् कैश्चिदेव म्लेच्छादिभिः पुरुषापसदैः
पशुप्रायैः परिग्राहाद्बोध्यम्” सा० त० कौ० “तस्मादपि
चासिद्धं परोक्षमाप्तागमात् सिद्धम्” सां० का० । यथार्थ-
ज्ञानविशिष्टरूपाप्तेनोक्तत्वनिश्चयस्य शाब्दबोधहेतुर्त्वमिति
मीमांसकाः नैयायिकास्तन्न मन्यन्ते यथोक्तं शब्दश० प्र०
“साकाङ्क्षत्वादिधीरिव वाक्यार्थगोचरज्ञानवदुक्तत्वरूपस्या-
प्तोक्तत्वस्यापि निश्चयः शाब्दधीहेतुरतोनैकपदार्थधर्म्मि-
कोऽपरपदार्थस्यान्वयबोधोऽनुमितिः सिद्धिसत्त्वे विना-
नुमित्सां तदसम्भवात् परन्त्वनुमितेरन्यएव किन्त्वसौ
गृहीतग्राहित्वान्न प्रमा यज्जातीयविशिष्टज्ञानत्वावच्छेदेन
समानकारनिश्चयोत्तरत्वं तज्जातीयान्ययथार्थज्ञानस्यैवा-
गृहीतग्राहित्वेन प्रमात्वात् अतएव धारावाहिकप्रत्यक्ष-
व्यक्तीनां समानाकारग्रहोत्तरवर्त्तित्वेऽपि न तासां प्रमा-
त्वहानिः हानिस्तु समानाकारानुभवसमुत्थानां स्मृती-
नामिति जरन्मीमांसकानां समाधानं निरस्यति । नाप्तो-
क्तता तु वाक्यार्थगर्भा ज्ञातोपयुज्यते । वाक्यार्थाना-
मपूर्व्वत्वात् संशयेऽप्यन्वयोदयात् । यद्येकपदार्थवदपरपदा-
र्थपर्य्यवसन्नस्य वाक्यार्थस्य ज्ञानवदुक्तत्वरूपाया आप्तोक्त-
ताया निश्चयः शाब्दमतेः कारणं स्यात् स्यादपि तेनैव
रूपेण साध्यनिश्चयेन प्रतिबन्धादेकपदार्थपक्षिकाया
अपरपदार्थानुमितेरनुत्पादो नचैवं, शाब्दधियः पूर्ब्बं वाक्या-
र्थस्योपस्थित्यनियमेन तद्गर्भस्याप्तोक्तत्वस्यापि मतेरनावश्य-
कत्वात् अन्यथा वेदस्याप्यनुवादकतापत्तेः एकपदार्थेऽप-
रपदार्थस्थ शब्दे वाक्यार्थज्ञानवदुक्तत्वस्य संशयेऽपि
शाब्दमतेरुत्पादाच्च । अतएवाप्तोक्तत्वस्य संशये व्यतिरेक
निश्चये वान्वयबुद्धेरनुत्पादादवश्यन्तन्निश्चयस्तत्र हेतुरित्यपि
प्रत्युक्तम् असिद्धेः” । ५ कुशले “प्राजकश्चेद्भवेदाप्तः” मनुः ।
“आप्तः कुशलः” कुल्लू० । ६ सम्पूर्ण्णे “यजेत राजा क्रतुभि-
र्विविधैराप्तदक्षिणैः” मनुः ७ बब्धौ “निग्रहात् स्वसुरा-
प्तानां बधाच्च धनदानुजः” रघुः ८ जटायां स्त्री हारा०
९ सम्बद्धे १० लब्धे च त्रि० हेम० ।

आप्तकाम त्रि० आप्तः प्राप्तःकामोयेन । १ ब्रह्मात्मैक्यावग-

न्तरि यथा चास्याप्तकामत्वं तथोक्तं पृ० उप० भाष्ययोः ।
“तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माऽभयं रूपम् ।
तद्यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किञ्चन वेद
नान्तरमेवायं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं
किञ्चन वेद नान्तरम् । तद्वा अस्यैतदाप्तकाममकामं रूपं
शोकान्तरम् । अत्र पिताऽपिता भवति माताऽमाता
लोका अलोका देवा अदेवा वेदा अवेदाः । अत्र स्तेनो-
पृष्ठ ०७४७
ऽस्तेनो भवति भ्रूणहाऽभ्रूणहा चाण्डालोऽचाण्डालः
पौल्कसोऽपौल्कसः श्रमणोऽश्रमणस्तापसोऽतापसोऽनन्वागतं
पापेन तीर्णो हि तदा सर्ब्बाञ्छोकान् हृदयस्य भवति” वृ० उ०
“इदानीं योऽसौ सर्वात्मभावो मोक्षो विद्याफलं क्रिया-
कारकफलशून्यं स प्रत्यक्षतो निर्द्दिश्यते । यत्राविद्या-
कामकर्म्माणि न सन्ति तदेतत्प्रस्तुतं “यत्र सुप्तो न
कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यतीति” । तद्वा
अस्य रूपम् । यः सर्वात्मभावः सोऽस्य परमो लोक
इत्युक्तस्तदतिच्छन्दा अतिच्छन्दमित्यर्थः रूपपरत्वात् । छन्दः
कामोऽतिगतः छन्दोऽमिन् रूपे तदतिच्छन्दं रूपम् ।
अन्योऽसौ असन्तः छन्दःशब्दो गायत्र्यादिच्छन्दोवाची ।
अयन्तु कामवचनोऽतः खरान्त एव । तथाप्यतिच्छन्दा
इति पाठः स्वाध्यायधर्म्मो द्रष्टव्यः । अस्ति च लोके
कामवचनप्रयुक्तः छन्दशब्दः स्वच्छन्दः परच्छन्दैत्यादौ ।
अतोऽतिच्छन्दमित्येवमुचितं कामवर्ज्जितमेतद्रूपमित्यस्मिन्नर्थे ।
तथाऽपहतपाप्मा पाप्मशब्देन धर्माधर्मवुच्यते ।
“पापमभिः संसृज्यते” “पाप्मनी विजहाति” इत्युक्तत्वात् ।
अपहतपाप्म धर्म्माधर्म्मवर्जितमित्येतत् । किञ्चाभयम् भयं
हि नमाविद्याकार्य्यम् “अविद्यया भयं मन्यत” इति
ह्युक्तम् । तत्कार्य्यद्वारेण कारणप्रतिषेधोऽयम् अभयं
रूपमित्यविद्यावर्जितमित्येतत् । यदेतद्विद्वाफलं सर्वात्मभा-
वस्तदेतदतिच्छन्दापहतपाप्माभयं रूपं सर्ब्बसंसारधर्म्म-
वर्ज्जितमतोऽभयं रूपमेतत् । इदञ्च पूर्व्वमेवोपन्यस्तमती-
तानन्तरब्राह्मणसमाप्तौ । “अभयं वै जनक प्राप्तोऽसि”
इत्यागमतः । इह तु तर्कतः प्रपञ्चितम् दर्शितागमार्थप्र-
त्ययदार्ढ्याय । अयमात्मा स्वयंचैतन्यज्योतिःखभावः सर्ब्ब
स्वेन चैतन्यज्योतिषावभासयति । “स यत्तत्र किञ्चि-
त्पश्यति रमते चरति जानाति च” इत्युक्तम् । अतः स्थित-
ञ्चैतन्न्यायतो नित्यस्वरूपं चैतन्यज्योतिष्ट्वमात्मनः । स
यद्यात्मात्राविनष्टः स्वेनैव रूपेण वर्त्तते कस्मादयमहम-
स्मीत्यात्मानं वा बहिर्वेमानि भूतानीति जाग्रत्स्वप्नयोरिव
न जानातीत्यत्रोच्यते । शृण्वत्राज्ञानहेतुम् एकत्वमेवा-
ज्ञानहेतुस्तत्कथम्? इत्युच्यते । दृष्टान्तेन हि प्रत्यक्षीभवति
विवक्षितोऽर्थ इत्याह । तत् तत्र यथा लोके प्रिययेष्टया
स्त्रिया सम्परिष्वक्तः सम्यक् परिष्वक्तः कामयन्त्या कामुकः
सन्न बाह्यमात्मनः किञ्चन किञ्चिदपि न वेद मत्तोऽन्यद्व-
स्त्विति । न चान्तरमयमहमस्मि सुखी दुःखी चेति
अपरिष्वक्तस्तु तया प्रविभक्तो जानाति । सर्व्वमेव बाह्य-
माभ्यन्तरञ्च । परिष्वङ्गोत्तरकालन्त्वेकत्वापत्तेर्न जानाति ।
एवमेव यथादृष्टान्तोऽयं पुरुषः क्षेत्रज्ञो भूतमात्रासंसर्गतः
सैन्धवखिल्यवत् प्रविभक्तो जलादौ चन्द्रादिप्रतिविम्बवत्का-
र्य्यकरण इह प्रविष्टः सोऽयं पुरुषः प्राज्ञेन परमार्थेन
स्वाभाविकेन स्वेनात्मना परेण ज्योतिषा सम्परिष्वक्तः
सम्यक् परिष्वक्त एकीभूतो निरन्तरः सर्वात्मा न बाह्यं
किञ्चन वस्त्वन्तरं नाप्यान्तरमात्मन्ययमहमस्मि सुखी
दुःखी वेति वेद तत्र चैतन्यज्योतिःस्वाभावत्वे कस्मादिह
न जानातीति यदप्राक्षीस्तत्रायं हेतुर्मयोक्तः । एकत्वं
यथा स्त्रीपुंसयोः सम्परिष्वक्तयोः । तत्रार्थान्नानात्वं
विशेषविज्ञानहेतुरित्युक्तं भवति । नानात्वे च कारणमात्मनो-
वस्त्वन्तरस्य प्रत्युपस्थापिकाविद्येत्युक्तं तत्र चाविद्याया यदा
प्रविविक्तो भवति तदा सर्वेणैकत्वमेवास्य भवति । ततश्च ज्ञा
नज्ञेयादिकारकविभागेऽसति कुतो विशेषविज्ञानप्रादुर्भावः
कामो बा सम्भवति स्वाभाविके स्वरूपस्थ आत्मज्योतिषि ।
यस्मादेवं सर्व्वैकत्वमेवास्य रूपमतस्तद्वै अस्यात्मनः स्वयं
ज्योतिः स्वभावस्यैतद्रूपमाप्तकामं यस्मात्समस्तमेतत्तस्मा-
दाप्ताः कामा अस्मिन्रूपे तदिदमाप्तकामं यस्य ह्यन्य-
त्वेन प्रयिभक्तः कामस्तदनाप्तकामं भवति । यथा जागरि-
तावस्थायां देवदत्तादिरूपम् । न त्विदं तथा कुतश्चित्प्र-
विभज्यतेऽतस्तदाप्तकामं भवति । किमन्यस्माद्वस्त्वन्तरान्न
प्रविभज्यते आहोस्विदात्मैव तद्वस्त्वन्तरमत आह ।
नान्यदस्त्यात्मनः । कथम्? यतः आत्मकाममात्मैव कामा यस्मि-
न्रूपे येऽत्र प्रविभक्ता इवान्यत्वेन काम्यमाना यथा जाग्र-
त्स्वप्नयोस्तेऽस्यात्मैवान्यत्वप्रत्युपस्थापकहेतोरविद्याया
अभावादात्मकाममत एवाकाममेतद्रूपं काम्यविषयाभावाच्छो-
कान्तरं शोकच्छिद्रं शोकशून्यमित्येतच्छोकमध्यमिति
वा सर्वथाप्यशोकमेतद्रूपं शोकवर्ज्जितमित्यर्थः । प्रकृतः
स्वयंज्योतिरात्मा अविद्याकामकर्म्मविनिर्म्मुक्त इत्युक्तम् ।
असङ्गत्वादात्मन आगन्तुकत्वाच्च तेषां, तत्रैवाशङ्का
जायते चैतन्यस्वभावत्वे सत्यप्येकीभावान्न जानाति स्त्रीपुं-
सयोरिव सम्परिष्वक्तयारित्युक्तम् । तत्र प्रासङ्गिकमेत-
दुक्तं कामकर्मादवत् स्वयं ज्योतिष्ट्वमप्यास्यात्मनो न
स्वभावः । यस्मात् सम्प्रसादेनोपलभ्यत इत्याशङ्कायां
प्राप्तायां तन्निराकरणाय स्त्रीपुंसयोर्दृष्टान्तोपादानेन
विद्यमानस्यैव स्वयंज्योतिष्ट्वस्य सुषुप्तेऽग्रहणमेकीभावा-
द्धेतोर्न तु कामकर्मादिवदागन्तुकम् । इत्येतत्प्रासङ्गिकम-
भिधाय यत्प्रकृतं तदेवानुप्रवर्त्तयति । अत्र चैतत्प्रकृत-
पृष्ठ ०७४८
मविद्याकामकर्मविनिर्मुक्तमेव तद्रूपम् । यत्सुषुप्त
आत्मनो गृह्यते प्रत्यक्षत इति तदेतद्यथाभूतमेवाभिहितं
सर्वसम्बन्धाधीनमेतद्रूपमिति । तस्मादत्रैतस्मिन् सुषुप्तस्था-
नेऽतिच्छन्दापहतपाप्माभयमेतद्रूपं तस्मादत्र पिता जनकः
तस्य च जनयितृत्वाद्यत्पितृत्वं पुत्रं प्रति तत्कर्मनिमित्तं
तेन च कर्भणाऽयमम्बद्धोऽस्मिन् काले, तस्मात्पिता पुत्र-
सम्बन्धनिमित्तस्य कर्मणो विनिर्मुक्तत्वात् पितप्यपि-
ता भवति । तथा पुत्रोऽपि पितुरपुत्रो भवतीति
सामर्थ्याद्गम्यते उभयोर्हि सम्बन्धनिमित्तं कर्म । तदयम-
तिक्रान्तो वर्त्ततेऽपहतपाप्मेति ह्युक्तम् । तथा माता-
ऽमाता । लोकाः कर्मणा जेतव्या जिताश्च तत्कर्म-
सम्बन्धाभावाल्लोका अलोकाः । तथा देवाः कर्माङ्गभूतास्त-
त्कर्मसम्बन्धात्ययादेवादेवाः । तथा वेदाः साध्यसा-
धनसम्बन्धविधायकाः ब्राह्मणलक्षणा मन्त्रलक्षणाश्चाभि-
धायकत्वेन कर्माङ्गभूता अधीता अध्येतव्याश्च कर्म-
निमित्तमेव सम्बध्यन्ते पुरुषेण । तत्कर्मातिक्रमणादे-
तस्मिन् काले वेदा अप्यवेदाः सम्पद्यन्ते । न केबलं
शुभकर्मसम्बन्धातीतः । किन्तर्हि अशुभैरप्यत्यन्तघोरैः कर्म-
भिरसम्बद्ध एवायं वर्त्तत इत्येतमर्थमाह अत्र स्तेनो ब्राह्मण-
सुवर्णहर्त्ता भ्रूणहासहपाठादवगम्यते । स तेन बोरेण
कर्म्मणैतस्मिन् काले विनिर्मुक्तो भवति । येनायं कर्मणा
महापातकी स्तेन उच्यते तथा भ्रूणहाऽभ्रूणहा तथा
चाण्डालो न केवव्यं प्रत्युत्पन्नेनैव कर्मणा विनिर्मुक्तः ।
किं तर्हि सहजेनाप्यत्यन्तनिकृष्टजातिप्रापकेणापि विनि-
र्मुक्त एवायम् । चण्डांलो नाम शूद्रेण ब्राह्मण्यासु-
त्पन्नः चण्डाल एव चाण्डालः स जातिनिमित्तेन
कर्मणाऽसम्बद्धत्वादचाण्डालो भचति । पौल्कसः पुल्-
कस एव पौलकसः शूद्रेणैव क्षत्रियायामुत्पन्नः । तथा
सोऽप्यपौल्कसो भवति । तथा शुभलक्षणैश्च कर्मभिरस-
म्बद्धो भवतीत्युच्यते । श्रमणः परिव्राट् यत्कर्मनिमित्तो
भवति स तेन विनिर्मुक्तत्वादश्रमणः । तथा तापसो
वानप्रस्थोऽतापसः । सर्व्वेषां वर्णाश्रमादीनामुपलक्षणा-
र्थमुभयोर्ग्रहणं किं बहुना । अनन्वागतं न अन्वागतमन-
न्वागतमसम्बद्धमित्येतत् पुण्येन शास्त्रविहितेन कर्म्मणा ।
तथा पापेन विहिताकरणप्रतिषिद्धक्रियालक्षणेन रुपपर-
त्वान्नपुंसकलिङ्गम् । अभयं रूपमिति ह्यनुवर्त्तते । किं
पुनरसम्बद्धत्वे कारणमिति तद्धेतुरुच्यते । तीर्णोऽति-
क्रान्तो हि यस्मादेवंरूपस्तदा तस्मिन् काले सर्वाञ्छो-
कान् शोकाः कामा इष्टविषयप्रार्थनाः ते हि तद्विषय-
वियोगे शोकत्वमापद्यन्ते । इष्टं हि विषयमप्राप्तं वियुक्तं
चोद्दिश्य चिन्तयानस्तद्गुणान् सन्तप्यते पुरुषोऽतः शोको
रतिः काम इति पर्य्यायाः । यस्मात् सर्वकामातीतो
ह्यत्रायं भवति । न कञ्चन कामं कामयते अतिछन्दा
इति ह्युक्तं तत्प्रक्रियापतितोऽयं शोकशब्दः कामवचन
एव भवितुमर्हति । कामश्च कर्महेतुर्वक्ष्यति हि । “स
यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुत”
इति अतः सर्वकामातितीर्ण्णत्वाद्युक्तमुक्तमनन्वागतं पुण्ये-
नेत्यादि । हृदयस्य हृदयमिति पुण्डरीकाकारो मांस-
पिण्डस्तत्स्थमन्तःकरणं बुद्धिर्हृदयमित्युच्यते तात्स्थ्या-
न्मञ्चाक्रोशनवत् । हृदयस्यबुद्धेर्ये शोकाबुद्धिसंश्रया हि ते ।
“कामः संकल्पो विचिकित्सेत्यादि” “सर्वं मन एव” इत्युक्तत्वात्
वक्ष्यति च “कामा येऽत्र हृदि श्रिताः” आत्मसंश्रयभ्रान्त्य-
पनोदाय हीदं वचनम् । “हृदि श्रिता हृदयकोशा”
इति च । हृदयकारणसम्बन्धातीतश्चायमस्भिन् कालेऽति-
क्रामति मृत्योरूपाणीति ह्युक्तम् । हृदयसम्बन्धातीत-
त्वात्तत्संश्रयकामसम्बन्धातीतो भवतीति युक्ततरं वचनम् ।
ये तु वादिनः हृदि श्रिताः कामा वासनाश्च हृदयसम्ब-
न्धिनमात्मानमुपसर्प्योपश्लिष्यन्ते । हृदयवियोगेऽपि
चात्मन्यवतिष्ठन्ते पुटतैलस्थैव पुष्पादिगन्ध, इत्याच-
क्षते । तेषां “कामः संकल्पः” “हृदये ह्येव रूपाणि”
हृदयस्य शोका “इत्यादीनां वचनानामानथेक्यमेव । हृदयक-
रणोत्पाद्यत्वादिति चेत् न हृदि श्रिता इति विशेष-
णात् । न हि हृदयस्य करणमात्रत्वे हृदि श्रिता इति
वचनं समञ्जसम् । हृदये ह्येव रूपाणि प्रतिष्ठितानीति
च । आत्मविशुद्धेश्च विवक्षितत्वाद्धृच्छ्रयणवचनं यथार्थमेव
युक्तम् । “ध्यायतीव लेलायतीवेति च” श्रुतेरन्यार्थासम्भ-
वात् । “कामा येऽस्य ह्णदि श्रिता” इति विशेषणादात्मा-
श्रया अपि सन्तीति चेत् न अनाश्रितापेक्षत्वत् न
चाश्रयान्तरमपेक्ष्यते हृदीति विशेषणं किन्तर्हि? ये हृद्य-
नाश्रिताः कामास्तानपेक्ष्य विशेषणम् । ये त्वप्ररूढा
भविष्या भूताः स्वप्रतिपक्षतो निवृत्तास्ते नैव हृदि श्रिताः,
सम्भावन्ते च ते । अतो युक्तं तानपेक्ष्य विशेषणम् । ये
प्ररूढा वर्त्तमानादिविषये ते सर्वे प्रमुच्यन्ते इति ।
तथापि विशेषणानर्थक्यमिचि चेत् न तेषु यत्नाधिक्या-
द्धेयार्थत्वात् । इतरथाऽश्रुतमनिष्टञ्च कल्पितं स्यादात्मा-
श्रयत्वञ्च कामानाम् । “न कञ्चन कामं कामयत” इति
पृष्ठ ०७४९
प्राप्तप्रतिषेधादात्माश्रयत्वं कामानां श्रुतमेवेति चेत्
न “सुधीः स्वप्नोभूत्वेति” परनिमित्तत्वात् कामाश्रयत्वप्राप्तेः
असङ्गवचनाच्च । न हि कामाश्रयत्वेऽसङ्गवचनमुपपद्यते ।
सङ्गश्च काम इत्यवोचाम । आत्मकाम इति श्रुतेरात्मविषयेऽस्य
कामी भवतीति चेत् न व्यतिरिक्तकामनाभावार्थत्वात्तस्याः,
वैशेषिकादितन्त्रन्यायोपपन्नमात्मनः कामाद्याश्रयत्वमिति
चेत् न हृदि श्रिता इत्यादिविशेषश्रुतिविरोधादनपे-
क्ष्यास्तावैशेषिकादितन्त्रोपपत्तयः श्रुतिविरोधे न्यायाभास-
त्वोपगमात् स्वयंज्योतिष्ट्वबाधनाच्च । कामादीनाञ्च स्वप्ने
केवलदृशिमात्रविषयत्वात् स्वयंज्योतिष्ट्वं सिद्धम् स्थितञ्च
बाध्येतात्मसमवायित्वे । दृश्यत्वानुपपत्तेश्चक्षुर्गतविशेष-
वत् । द्रष्टुर्हि दृश्यमर्थान्तरभूतमिति द्रष्टुः स्वयंज्योतिष्ट्वं
सिद्धम् तद्बाधितं स्याद्यदि कामाद्याश्रयत्वं परिकल्प्येत ।
सर्वशास्त्रप्रतिषेधाच्च । परस्यैकदेशकल्पनायां कामाद्या-
श्रयत्वे च सर्व्वशास्त्रार्थजातं कुप्येत । एतच्च विस्तरेण
चतुर्थेऽवोचाम । महता हि प्रयत्नेन कामाद्याश्रयत्वकल्पनाः
प्रतिषेद्धव्याः । आत्मनः परेणैकत्वशास्त्रार्थसिद्धेः ।
तत्कल्पनायां पुनः क्रियमाणायां शास्त्रार्थ एव बाधितः
स्यात् । यथेच्छादीनामात्मधमेत्वं कल्पयन्तो वैशेषिका
नैयायिकाश्चोपनिषच्छास्त्रार्थेन न सङ्गच्छन्ते तथेयमपि
कल्पनोपनिषच्छास्त्रार्थबाधनान्नादरणीया” ।
“काममय एवायं पुरुग इति यथाकामो भवति
तत्क्रतुर्भवति यत्क्रतुर्भवति तत् कर्म्म कुरुते यत् कर्म
कुरुते तदभिसम्पद्यते” इत्युपक्रम्य “तदेव सक्तः सह कर्म-
णैति लिङ्गं मनोयत्र निषक्तमस्य । प्राप्यान्तं कर्मणस्तस्य
यत् किञ्चेह करोत्ययम् । तस्माल्लोकात् पुनरेत्यन्मै लोकाय
कर्मणे” इति श्लोकमुदाहृत्य “इति नु कामयमान” इत्युक्त्या
कामयमानस्यैव जन्मादिहेतुत्वमुक्त्वा
“अथाकामयमानोयोऽकामोनिषकाम आप्तकाम आत्म-
कामोन तस्य प्राणाह्युत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येति
वृ० उप० । “इति नु एवं नु कामयमानः संसरति यस्मात्
कामयमान एवैवं संसरत्यथ तस्मादकाययमनो न
क्वचित् संसरति फलासक्तस्य हि गतिरुक्ता । अकामस्य
हि क्रियानुपपत्तेः अकामयमानो मुच्यते । एवं
कथंपुनरकामयमानोभवति? । योऽकामो भवत्यसावकामय-
मानः । कथमकामता? इत्युच्यते । यो निःकामो यस्मान्नि-
र्गताः कामाःसोऽयं निष्काम । कथं कामा निर्गच्छन्ति? ।
य आप्तकामोभवति । आप्ताः कामा येन स आप्तकामः ।
कथमाप्यन्ते कामाः? आत्मकामत्वेन यस्यात्मैव नान्यः
कामयितव्यो वस्त्वन्तरभूतः पदार्थो भवति । आत्मैवा-
न्तरो बाह्यः कृत्स्नः प्रज्ञानघन एकरसो नोर्द्धं न
तिर्य्यग्नाधः । आत्मनोऽन्यत्कामयितुम् “यस्य सर्वमात्मैवा-
भूत् तत् केन कं पश्येत् शृणुयान्मन्वीत विजानीयाद्वा”
एवं विजानन् किङ्कामयेत्? । ज्ञायमानो ह्यन्यत्वेन
पदार्थः कामयितव्यो भवति । न चासावन्यो ब्रह्मविद
आप्तकामस्यास्ति । य एवात्मकामतयाऽऽप्तकामः स मिष्-
कामोऽकामोऽकामयमानश्चेति मुच्यते । न हि यस्यात्मैव
सर्ब्बं भवति तस्यानात्मा कामयितव्योऽस्ति । अनात्मा-
चान्यः कामयितव्यः । सर्वञ्चात्मैवाभूदिति प्रतिषिद्धम्
सर्वात्मदर्शिनः कामयितव्याभावात् कामानुपपत्तिः । ये
तु प्रत्यवायपरिहारार्थं कर्म कल्पयन्ति ब्रह्मविदोऽपि तेषां
नात्मैव सर्वं भवति । प्रत्यवायस्य जिहासितव्यस्यात्मनोऽ-
न्यस्याभिप्रेतत्वात् । येन चाशनायाद्यतीतो नित्यं प्रत्य-
वायासम्बद्धो विदित आत्मा तं वयं ब्रह्मविदं ब्रूमः ।
यश्च नित्यमेवाशनायाद्यतीतमात्मानं पश्यति । यस्माच्च
जिहासितव्यमन्यमुपादेयं वा यो न पश्यति तस्य कर्म्म न
शक्यत एव सम्बद्धुम् । यस्त्वब्रह्मवित्तस्य भवत्येव प्रत्यवा-
यपरिहारार्थं कर्मेति न बिरोधः । अतः कामाभावाद-
कामयमानो न जायते मुच्यत एव । तस्यैवमकामयमा-
नस्य कर्माभावे गमनकारणाभावात् प्राणा वागादयो
नोत्क्रामन्ति नोर्द्धं क्रामन्ति देहात् । स च विद्वानाप्त-
काम आत्मकामतया इहैव ब्रह्मभूतः । सर्वात्मनो हि
ब्रह्मणो दृष्टान्तत्वेन प्रदर्शितमेतद्रूपम् । “तद्वा अस्यैत-
दाप्तकाममात्मकाममकामं रूपमिति” । तस्य हि दार्ष्टान्ति-
कभूतोऽयमर्थ उपसंह्रियते । अथाकामयमान इत्या-
दिना । स कथमेवम्भूतो मुच्यते? इत्युच्यते । यो हि
सुषुप्तावस्थमिव निर्विशेषमद्वैतमलुप्तचिद्रूपज्योतिःस्वभाव-
मात्मानं पश्यति तस्यैवाकामयमानस्य कर्माभावे
गमनकारणाभावात् प्राणवागादयो नोत्क्रामन्ति । किन्तु विद्वान्
स इहैव ब्रह्म भवति यद्यपि देहवानिव लक्ष्यते । स
ब्रह्मैव सन् ब्रह्माप्येति । यस्मान्नहि तस्याब्रह्मत्वपरिच्छद-
हेतवः कामाः सन्ति । तस्मादिहैव ब्रह्मैव सन् ब्रह्मा-
प्येति न शरीरपातोत्तरकालम् । न हि विदुषो मृतस्य
भावान्तरापत्तिर्जीवतोऽन्यी भावः देहान्तरप्रतिसन्धानाभा-
वमात्रेणैव तु ब्रह्माप्येतीत्युच्यते । भावान्तरापत्तौ हि
मोज्ञस्य सर्वोपनिषद्विवक्षितोऽर्थ आत्मैकताख्यः स बाधितो
पृष्ठ ०७५०
भवेत् । कर्महेतुकश्च मोक्षःप्राप्नोति न ज्ञाननिमित्त इति ।
स चानिष्टःअनित्यत्वञ्च मोक्षस्य प्राप्नीति । न हि क्रिया-
निर्वृत्तोऽर्थो नित्यो दृष्टः । नित्यश्च मोक्षोऽभ्युपगम्यते ।
“एष नित्यो भहिमेति” मन्त्रवर्णात्” वृ० उ० भा० ।
२ परमात्मनि तस्य सर्व्वेषामात्मत्वेनान्यकामयितव्याभावात्
आप्तकामत्वम्” आप्तः युक्तः उचितः कामः इच्छा यस्य
इति विग्रहे तु । नैयायिकमतसिद्धे ३ ईश्वरे च सद्विषय-
केच्छाश्रयत्वादीश्वरस्य तथात्वम् ।

आप्तकारिन् त्रि० आप्तं युक्तं करोति कृ--णिनि ६ त० ।

१ युक्तकारके आप्तश्चासौ कारो । २ प्रत्ययिते आज्ञा-
कारके भृत्यादौ । “अरक्षिता गृहे रुद्द्धाः पुरुषैश्चाप्तका-
रिभिः” मनुः । “भीष्मादीनाञ्च सर्वेषां सुहृदामाप्त
कारिणाम्” “अन्विष्य दाहयामास पुरुषैराप्तकारिभिः”
भा० । भा० आश्र० प० ११ अ० ।

आप्तगर्भा स्त्री आप्तोगर्भो यया । गर्भिण्याम् स्त्रियाम् ।

आप्तवाच् स्त्री आप्ता युक्ता प्रमादादिदोषशून्या वाक् ।

१ वेदे तन्मूले २ स्मृतीहासपुराणादौ च “आप्तवागनुपा-
नानाभ्यां साध्यं त्वां प्रति का कथा” रघुः आप्तवचनाप्तवा-
क्यादयोऽप्यत्र न० । आप्ता युक्ता वाग् यस्य । प्रमादशून्यवाक्ये
महर्षिप्रभृतौ त्रि० । आप्तवचनांप्तवाक्यादयोऽप्यत्र त्रि०

आप्तश्रुति स्त्री कर्म्म० । १ वेदे २ स्मृत्यादौ च आप्तशब्दे उदा० ।

आप्ति स्त्री आप--क्तिन् । १ संयोगे, २ संप्राप्तौ ३ स्त्रीसंयोगे”

मेदि० ४ संबन्धे, ५ लाभे हेम० ६ समाप्तौ “काम-
स्याप्तिं जगतः प्रतिष्ठाम्” कठोप० । कामस्याप्तिं
समाप्तिम् तत्र हि सर्व्वे परिकामाःसमाप्ताः” भा०
७ सम्पदि च “सैवास्याप्तिर्या सम्पत्” शत० ब्रा० । तत्र संबन्धे
“मृत्योराप्तिमतिमुच्यते” शत० ब्रा० । लाभे “सर्वावाप्त्यै सर्व-
स्यावरुद्ध्यै” शत० ब्रा० “तपः किलेदं तदवाप्ति-
साधनम्” कुमा० “दीक्षां विवेश धर्मात्मा वाजिमेधाप्तयेततः”
भा० आश्व० १८ अ० । ८ उत्तरकाले आयतौ च त्रिकाण्ड० ।

आप्त्य त्रि० आप--तव्य वेदे नि० । १ आप्तव्ये “पनित आप्त्यो

यजतः” ऋ०५, ४१, ९ । “आप्त्यः आप्तव्यः” भा० लोके तु
आप्तव्य इत्येव । आप्तिमर्हति यत् । २ आप्तियोग्ये त्रि० ।

आप्नवान पु० अप्नवानएव स्वार्थे अण् । अप्नवानशब्दार्थे

वत्सगोत्र प्रवरे ऋषिभेदे ।

आप्य त्रि० अपामिदम् अण् चातु स्वार्थे ष्यञ् । १ जलसम्ब

न्धिनि अपां विकारे तु अस्मयमित्येव” सि० कौ०
आपयत् । २ प्राप्ये त्रि० “योनोनेदिष्ठमाप्यम्” ऋ० ७, १५२,
३ चाक्षुषमन्वन्तरीये देवभेदे च । “चाक्षुषस्यान्तरे तात!
मनोर्देवानिमान् शृणु । आप्याः प्रभूता ऋभवः पृथुकाश्च
दिवौकसः । लेखानाम महाराज पञ्च देवाः प्रकीर्त्तिता”
हरिवं १७ अ० । “मानुषा आशापाला अथैते देवाश्चाप्याः
साध्याः अन्वाध्या मरुतः” इति शत० ब्रा० कर्म्मभिराप्य-
त्वात्तेषामाप्यत्वम् द्रष्टव्यम् । ४ (कुड)वृक्षे पु० रायमुकुटः ।

आप्यान न० आ + प्याय--भावे क्त । १ प्रीतौ २ वृद्धौ च । कर्त्तरि

क्त । ३ प्रीते ४ वृद्धे च त्रि० ।

आप्यायन न० आ + प्याय--ल्युट् । १ वृद्धौ, २ प्रीतौ च । णिच्

ल्युट् । ३ तर्पणे प्रीणने ४ वर्द्धने च “अग्नेः सोमयमाभ्यां
च कृत्वाप्यायनमादितः” मनुः । ल्यु । ५ प्रीणनकर्त्तरि त्रि० ।
“पितृप्रसादमिच्छेयं तप आप्यायनं पुनः” भा० व० प०
८३ अ० । “दैवं हि पितृकार्य्यस्य पूर्व्वमाप्यायनं स्मृतम्”
मनुः तन्त्रोक्ते ६ दीक्षणीयमन्त्रसंस्कारभेदे “मन्त्राणां
दशकथ्यन्ते संस्काराः सिद्धदायिनः । जननं जीवनं पश्चा-
त्ताड़नं बोधनं तथा । अथाभिषेको विमलीकरणाप्यायने
तथा । तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंक्रियाः” इति
विभज्य । “कुशीदकेन मन्त्रेण प्रत्यर्ण्णं प्रोक्षणं मनोः । तेन
मन्त्रेण विधिवदेतदाप्यायनं मतम्” शा० ति० उक्तम् ।

आप्यायित त्रि० आ + प्याय--णिच्--क्त । १ प्रीणिते २ पूरिते ३ वर्द्धिते

च । “एषा सूर्य्यस्य वीर्य्येण सोमस्याप्यायिता तनुः ।
पौर्ण्णमास्यां स दृश्येत संपूर्ण्णो दिवसक्रमात्” कू० पु० ।
४ आनन्दिते च ।

आप्र त्रि० आ + पृ मूल० क । १ पूरके । “स्वर्जेषे भर आप्रस्य

वक्मनिः” ऋ० १, १३२, २ “चक्षुर्मित्रस्य वरुणस्याग्नेराप्रा
द्यावा” सूर्य्योपस्थानमन्त्रः ।

आप्रच्छन न० आ + प्रच्छ--ल्युट् । गमनागमनसमये

१ वेन्धूनानायोन्यकुशलजिज्ञासायाम् २ आनन्दसम्पादने च ।

आप्रच्छन्न त्रि० आ + प्र--च्छद--क्त । १ अत्यन्तगुप्ते २ ईषद्गुप्ते

च अस्याप्रच्छनार्थत्वोक्तिः शब्दकल्पद्रुमे प्रामादिकी हेमचन्द्रे
आप्रच्छनमित्येव पाठः द्वित्वनकारयुक्तपाठस्तु प्रमादिकः ।

आप्रपद अव्य० प्रपदं पदाग्रं तत्पर्य्यन्तम् अव्ययी० । पादाग्रपर्य्यन्ते

आप्रपदीन त्रि० आप्रपदं पादाग्रान्तं व्याप्नोति ख । पादा-

ग्रान्तं लम्बमाने वस्त्रादौ ।

आप्रवण त्रि० ईषत् प्रबणः । ईषन्नम्रे आ + प्रु--ल्युट् । ईषद्द्रवणे ।

आप्री स्त्री आप्रीणात्यनया आ--प्री--ड गौरा० ङीष् । प्रया-

जयाज्यायाम् “प्रैषेभिः प्रैषेणाप्नोत्याप्रीभिराप्रीर्य-
ज्ञस्य” यजु० १९, १९ । “आप्रीभिः प्रयाजयाज्याभिः”
पृष्ठ ०७५१
वेददी० ताश्च याज्याः सूक्तविशेषात्मका गोत्रभेदेन
भिन्नरूपाः “एकादश प्रयाजाः तेषां पैषाः प्रथमं प्रैषसूक्त-
मुक्तं द्वितीये । अध्वर्युप्रेषितोमैत्रावरुणः प्रेष्यति प्रेषै-
र्होतारम् । होता यजत्याप्रीभिः प्रैषलिङ्गाभिः” इत्यु-
पक्रम्य “समिद्धो अग्निरिति” शुनकानां “जुषस्व नः
समिधमिति वशिष्ठानां, “समिद्धो अद्येति” सर्व्वेषाम्
यथाऋषि वा” इति आश्व० श्रौ० गोत्रभेदेन सूक्तभेदस्योक्तेः ।
अत्र नारायणवृत्तिः । “यो यस्य ऋषिस्तदानुगुण्यं
यथर्षिशब्देनोच्यते तथा वाऽऽप्रीसूक्तं ग्रहीतव्यम् । स्वयं
वा ऋषिनामधेयस्यानुगुणा आप्र्यः कर्त्तव्या इत्यर्थः ।
तत्र भगवता शौनकेन यथाऋषिपक्षे आप्रीविवेकार्थमेव
श्लोक उक्तः । “कण्वाङ्गिरोऽगस्त्यशुनका विश्वामित्रोऽत्रिरेव
च । वशिष्ठः कश्यपो वाध्र्यश्वो जमदग्निरथोत्तमः” । तत्र
दशानां सूक्तानां प्रथमं कण्वानाम् “सुमिद्धो न आवह”
इति । द्वितीयं तद्वर्जितानामङ्गिरसाम्, “समिद्धो अग्न
आवह” इति । तृतीयमगस्त्यानाम्, “समिद्धो अद्यराजसि”
इति । चतुर्थं शुनकानाम्, “समिद्धो अग्निर्निहितः”
इति । पञ्चमं विश्वामित्राणाम्, “समित्समित्सुमनाः”
इति । षष्ठमत्रीणाम्, “ये समिद्धाय शोचिषे” इति ।
सप्तमं वशिष्ठानाम्, “जुषस्व नः समिध” इति । अष्टमं
कश्यपानाम् “समिद्धो विश्वतस्पतिः” इति । नवमं वाध्र्य-
श्वानाम्, “इमां मे अग्ने समिधं जुषखेड” इति । शुनक-
वाध्र्यश्वानाम् भृगूणां दशमं, “समिद्धो अद्य मनुषो
दुरोणः” इति यथर्षिपक्षे विवेकोऽयम्” ।

आप्रीत त्रि० आ + प्री--क्त । १ सम्यक्प्रीते ३ ईषत्प्रीते च ।

भावे क्त । सम्यक्प्रीतौ न० ।

आप्रीतप पु० आप्रीतं पाति पा--क । विष्णौ “अथ यद्या-

प्याय्यमानः किञ्चिदाप्रद्येत विष्णवआप्रीतपाय स्वाहेति
जुहुयात् विष्णुर्हि स तर्ह्याप्रीतपा भवत्यपपाप्मानं हत
उपैनं यज्ञोनमति” शत० ब्रा० । क्विप् । आप्रीतपा अप्यत्र ।

आप्लव पु० आ + प्लु--घञभावपक्षे अप् । १ स्नाने, जलानां

सर्व्वतः समुच्छलने । ल्युट् आप्लवनम् तत्रैव न० ।

आप्लवव्रतिन् पु० आप्लवः समावर्त्तनस्नानमेव व्रतमस्त्यस्य

इनि । स्नातके गृहस्थभेदे यस्तु वेदानघीत्य दार
परिग्रहार्थं कृतसमावर्त्तनस्नानः दारलाभात् प्राक् स्मार्त्तं
बतविशेषमाचरति तादृशे द्विजे “अलाभे चैव कन्यायाः
स्नातकव्रतमाचरेत्” स्मृत्युक्तं व्रतं च दर्शितं विधानपा०
यथा “स्नात्वैवं विधिना काले मासमात्रमपि द्विजः ।
अनाश्रमी न तिष्ठेत्तु सुखस्थस्तु प्रयत्नवान् । निःस्वोरोगा-
र्दितोभीत आपन्नोऽन्यैश्च कारणैः । स्नातकः प्रयतो
वह्रिं न त्यजेदिति वै श्रुतिः । नित्यदा ब्रह्मचारी स्यात्
पञ्चयज्ञपराथणः । जपतीर्थरतोवा स्यात् स्नातकोलौल्य
वर्ज्जितः । श्राद्धे निमन्त्रितो गच्छेत् कुर्य्यात् षट्कर्म्म
च द्विजः । येन केनाप्युपायेन व्रतचर्य्यां न लोपयेत् ।
शकलान् जुहुयात् प्रातः” स्मृतिः अत्र प्रातरितिविशेषणात्
न सायम् । तेन प्रातः सन्ध्यामुपास्याग्निकार्य्यं कृत्वा
शकलहोमः कार्य्यः तन्मन्त्राश्च तैत्तिरीयारण्ये पठिताः
“दैवकृतस्यैनसोऽवयजनमसि स्वाहेत्यादिकाः । तदीय
होमद्रव्यविशेषोबौधायनेनोक्तः “सएष उपनयनप्रभृति
व्याहुतिभिः षड़िभरेव समिद्भिः आ समावर्त्तनात् ।
समावर्त्तनप्रभृति आज्येनैव आ पाणिग्रहणात् ।
पाणिग्रहणप्रभृति व्रीहिभिर्यवैर्वा व्यस्तेनेकेन पञ्चाहुती
र्जुहुयात्” “वैश्वदेवं गृहस्थस्य प्रत्यहारम्भणं भवेत् ।
स्नातकेनापि तत्कार्य्यं पृथक्पाको गृहे यदि” शौनकः ।
“यज्ञोपवीतद्वितयं सोदकं च कमुण्डलुम् । छत्रञ्चोष्णीष-
माले च पादुके चाप्युपानहौ । रौक्मे च कुण्डले वेणुं
कृत्तकेशनखः शुचिः । स्याध्याये नित्ययुक्तः स्यात् बहिर्मा-
ल्यञ्च धारयेत् । शुक्लाम्बरधरोनित्यं सुगन्धः प्रियदर्शनः ।
न जीर्ण्णमलवद्वासा भवेच्च विभवे सति । न रक्तमुल्वणं
चान्यधृतं वासो न कन्थिकाम्” कूर्म्मपु० । “उपानहौ च
वासश्च धृतमन्यैर्न धारयेत् । उपवीतमलङ्कारं स्रजं
कनकमेव च” मनुः । “स्नातः समुद्वहेत् कन्यां प्रव्रजेत्तद-
निच्छुकः । वनस्थो वा भवेद्विप्रः सुखस्थो विधिना शुचिः ।
अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः । आश्रमेण
विना तिष्ठन् प्रायत्तीयते हि सः” इति विधा पा० धृता
स्मृतिः । तस्य कन्यालाभार्थं काम्यजप उक्त ऋग्विधाने
“सुषुमं प्रजपेत् सूक्तमथ सम्यक् शिवालये । अयुतं तु
जपेत् कन्यां षण्मासात् लभते नर” इति ।
अत्रानाश्रमदोषविषये किञ्चिदुच्यते स्नातको हि
गृहस्थभेदोद्विजातिमात्रः समावर्त्तनस्नानस्य तेषामेव सम्भ-
वात् । अतस्तद्विषयकमेवानाश्रमादिदोषोत्कीर्त्तनम् ।
तथा हि विधानपारिजातधृतयोः स्मृत्योः “स्नात्वैव
विधिना काले” इत्यादौ स्नातः समुद्वहेत् कन्यामित्यादौ
चोपक्रमे द्विजातिविषयकत्वावगमेन उपसंहारे
अनाश्रमदोषकीर्त्तनं तद्विषयकमेव उपक्रमोपसंहारयोरेक-
विषयकत्वौचित्यात् । एतेन “स्वीकरोति यदा वेदं चरेद्वेद-
पृष्ठ ०७५२
व्रतानि च । ब्रह्मचारी भवेदूर्द्ध्वं ततः स्नातो भवेद्गृही ।
द्विविधो ब्रह्मचारी तु स्मृतः शास्त्रे मनीषिभिः ।
उपकुर्व्वाणकस्त्वाद्यो द्वितीयो नैष्ठिकः स्मृतः । योगृहाश्रम
मस्थाय ब्रह्मचारी भवेत् पुनः । न यतिर्न वनस्थश्च सर्वा-
श्रमविवर्ज्जितः । अनाश्रमी न तिष्ठेत्तु दिनमेकमपि
द्विजः । आश्रमेण विना तिष्ठन् प्रायश्चित्तीयते हि सः ।
जपे होमे तथा दाने स्वाध्याये च रतस्तु यः । नासौ
तत्फलमाप्नोति कुर्व्वाणोऽप्याश्रमाच्च्युतः । त्रयाणामा
नुलोम्यं हि प्रातिलोम्यं न विद्यते । प्रातिलोम्येन
योयाति न तस्मात् पापकृत्तमः” दक्षवचनमपि वेदाध्य-
यनोत्तरस्नातकानामेवोपक्रमे कीर्त्तनात् अन्ते च त्रयाणा-
माश्रमाणामानुलोम्यविधानाच्च द्विजमात्रविषयकम् यत्तु
तद्वाक्यैकदेशमादाय रघुनन्देन अनाश्रमी न तिष्ठेत्त्वित्यादि
वाक्यं शूद्रोपलक्षणपरमुक्तं न तद्युक्तमुपक्रमोपसंहाराभ्यां
द्विजमात्रविषयकत्वनिश्चयात् । किञ्च त्रयाणामानु-
लोम्योक्तेरपि न शूद्रविषयकत्वं तत्प्रदर्शितवामन
पुराणवचने शूद्रस्यैकमात्राश्रमावगतेः तथा च येषामेव
आश्रमचतुष्टयं तत्त्रयं तद्द्वयं वा सम्मवति तेषामेवानुलोम्य
प्रातिलोम्यसम्भव एकमात्राश्रमस्य शूद्रस्यः कथन्तरामानु-
लोम्म्यप्रातिलोम्यसम्भवः । एतेन “व्रतेषु लोपकोयश्च
आश्रमाद्विच्युतश्च यः । संदंशयातनामध्ये पततस्ताबुभावपि”
इति भविष्यपुराणवचनेन दक्षस्मृतेः सङ्कोचनमपि परास्तम्
“श्रुतिस्मृतिपुराणानां विरोधो यत्र दृश्यते । तत्र श्रौतं
प्रमाणं तु तयोर्द्वैधे स्मृतिर्वरेति” विधान पा० धृतव्यास-
वाक्येन पुराणापेक्षया स्मृतेर्वरत्वकीर्त्तनेन पुराणेन स्मृते-
र्बाधस्यायोग्यत्वात् “विरोधे त्वनपेक्षमसति ह्यनुमानमिति”
जैमिनिसूत्रेण श्रुतिस्मृत्योर्बिरोधे स्मृतेराप्रमाण्यस्येव
स्मृतिपुराणयोर्विरोधेऽपि पुराणस्याप्रमाण्यस्यैवोचितत्वात्
वस्तुतः नात्र विरोधः “स्पष्टस्य तु विधेर्नान्यैरुपसंहार
इष्यते” इतिन्यायेनार्थक स्मृतौ द्विजपदस्य स्पष्टतया
अन्योपसंहारकत्वासम्भवेन पौराणिकयच्छब्दस्यास्पष्टार्थकतया
तत्परत्वकल्पनेनैवोपपत्तौ विरोधाभावात् तथा च
भविष्यपुराणवचनमेव द्विजातिविषयकं न शूद्रविषय-
कमित्येव कल्पनीयमिति । अत्रेदं विवेक्तव्यं किं पौरा-
णिकास्पष्टार्थकयच्छब्दस्य यावद्वर्ण्णविषयकत्वमुत स्पष्टा-
र्थकस्मृत्येकवाक्यतया त्रैवर्णिकमात्रविषयकत्वं तत्र पुरा-
णेन स्मृतेर्बाधायोगेन पौराणिकयच्छब्दस्यैव स्मृत्यु क्तत्रि-
वर्ण्णपरत्वकल्पनं युक्तमित्य त्पश्यामः । यदपि “चत्वार आश्र-
माश्चैव ब्राह्मणस्य प्रकीर्त्तिताः । ब्रह्मचर्य्यञ्च गार्हस्थ्यं
वानप्रस्थञ्च भिक्षुकम् । क्षत्रियस्यापि कथिता आश्रमास्त्रय
एव हि । ब्रह्मचर्य्यञ्च गार्हस्थ्यमाश्रमद्वितयं विशः ।
गार्हस्थ्यमुचितं त्वेकं शूद्रस्य क्षणमाचरेत्” वाम० पु०
वाक्यं तत् शूद्रस्य गार्हस्थ्यमात्राधिकारबोधकम् ।
न तु तदकरणे पापजनकताबोधकमपि उचितमिति
पदस्वारस्यात् उचितपदस्य योग्यार्थकत्वात् तेनैव उद्वा०
त० क्षणमुत्सवमिति व्याख्यानेन तदीयगृहस्थाश्रमस्योत्
सवार्थकत्वोक्त्या काम्यत्वसूचनात् “चत्वारिंशद्वत्सराणां
साष्टानाञ्च परे यदि । स्त्रिया वियुज्यते कश्रित्
स तु रण्डाश्रमी मतः । अष्टाचत्वारिंशदब्दं वयोयावन्न
पूर्य्यते । भार्य्यापुत्रवियुक्तस्य नास्ति यज्ञेऽधिका-
रितेति” भविष्यपुराणवचनमपि यज्ञेऽधिकारिताप्रति-
षेधात् द्विजविषयकमेव शूद्रस्य यज्ञेऽनधिकारात् ।
द्विजातीनामेव यज्ञीयाज्यावेक्षणादेः पत्रीसाध्यतया
पत्न्यभावे कथमाज्यावेक्षणाद्यङ्गसिद्धिरिति युक्तः तेषामन-
धिकारः” यज्ञाधिकारे शूद्रस्य पर्य्युदस्तया तदधिकारा-
भावकथनमनर्थकं स्यात् । अतो येषामेव यज्ञाधिकारस्तेषा-
मेव भार्य्याराहित्ये अनधिकारिताप्रतिपादने वचनं सार्थ-
कम् । तेन तद्द्विजविषयकमेव । एवं प्रागुक्तदक्षवचने
जपेहोमे तथा दाने स्वाध्याये निष्फलत्वकथनमपि
उपक्रमोपसंहाराभ्यां होमस्वाध्याययोर्द्विजातीनामेव सम्भ-
वाच्च द्विजातिविषयकमेव । अतः शूद्राणांविवाहस्य
उत्सवार्थतया काम्यत्वेनाकरणे न पत्यवाय इति सुस्थितम् ।
एतेन बहुविवाहवादे मया दक्षवचनस्थ द्विजपदस्योपल-
क्षणार्थकत्वं यत् खण्डितं तत् सुस्थितमेवेति द्रष्टव्यम् ।

आप्लाव पु० आ + प्लु--पक्षे घञ् । आप्लवशब्दार्थे ।

आप्लाबित त्रि० आ + प्लु--णिच्--क्त । जलादिप्रवाहेनाभिव्याप्तो ।

आप्लाव्य त्रि० आ--प्लु--नि० कर्त्तरि ण्यत् । १ आप्लवनका-

रके । भावे ण्यत् । २ कर्त्तव्याप्लवने न० । कर्मणि ण्यत् ।
जलादिना ३ अभिव्याप्ये त्रि० ।

आप्लुत त्रि० आ + प्लु--क्त । १ स्नाते २ आर्द्रीभूते च ३ स्नातके

गृहस्थभेदे पु० । भावे क्त । ४ स्नाने न० ।

आप्लुतव्रतिन् पु० आप्लुतस्य स्नातस्य व्रतमस्त्यस्य इनि ।

स्नातके गृहस्थभेदे । आप्लवव्रतिशब्दे विवृतिः ।

आप्लुत्य अ० आ + प्लु--ल्यप् । स्नात्वेत्यर्थे, २ उत्प्लुत्य

उल्लम्फ्येत्यर्थे च ।

आप्लुष्ट त्रि० आ + प्लुष--क्त । १ ईषद्दग्धे २ सम्यग्दग्धे च ।

पृष्ठ ०७५३

आप्व पु० आप--वन् । वायौ सि० कौ० कण्ठस्थाने उज्ज्वल०

वन्प्रत्ययाधिकारे उणादौ निपा० अदन्तएवायम् ।
शब्दकल्पद्रुमे नान्तत्वकल्पनं चिन्त्यम् ।

आफूक न० ईषत् फूत्कारैव फेनोऽत्र पृ० तलोपः । अफेनेवैद्यकम् ।

आबद्ध न० सम्यक् आबद्धम् + वन्ध--भावे क्त । दृढबन्धने ।

१ आधारे क्त । २ प्रेम्णि । कर्मणिक्त । ३ बद्धे ४ आप्ते ५ प्रति-
रुद्धे च त्रि० । “पयोधिमाबद्धचलज्जलाबिलम्” माघः
“आबद्धभीमभ्रुकुटीकरालम्” भट्टिः । “स्यन्दनाबद्धदृ-
ष्टिषु” रघुः । ६ भूषणे च । बा० करणे क्त । ७ योक्त्रे ।

आबन्ध पु० आ + बन्ध--घञ् । १ दृढबन्धे, करणे घञ् । २ योक्त्रे

आधारे घञ् । ३ प्रेम्णि च । ल्युट् आबन्धनप्यत्र न० ।

आबर्ह पु० आ + बर्ह--हिंसायां घञ् । १ उत्पाटने २ हिं

सने च ल्युट् । आबर्हणमप्यत्र न० ।

आबर्हिन् त्रि० आबर्होस्त्यस्य इनि । उतपाटनयुक्ते

“मूलमस्याबर्हिं” पा० आबर्ह आबर्हणं तदस्यास्ति
आबर्हिसि० कौ० ।

आबाध पु० आ + बाध--घञ् । पीड़ायां “आबाधे” पा०

“आबाधे पीड़ायाम्” सि० कौ० “यथासुखमुखः
कुर्य्यात् प्राणाबाधबाधभयेषु च” “न चैनंपादत कुर्य्यान्न प्राणा-
बाधमाचरेत्” मनुः “तत्र मनःशरीराबाधकराणि
शल्यानि” सुश्रु० नास्ति बाधा यस्य । ३ पीड़ाशून्ये त्रि० ।

आबाधा स्त्री आ + बाध--भावे अ । १ पीड़ायाम् २ तापत्रये

क्लेशे च । “आबाधामरणभयार्चिषा चिराय” किरा०
लीलावत्युक्ते ३ अबाधाशब्दार्थे २३९ पृष्ठे विवृतिः ।

आबिल त्रि० आ + बिल--भेदने क । १ अस्वच्छे कालुष्ययुक्ते

अस्वच्छस्य हि जलादेः सम्यग्द ष्टिप्रसारभेदनात्तथात्वम् ।
“पयोधिमाबद्धचलज्जलाबिलम्” माघः । २ भेदके त्रि०

आबिलकन्द पु० आबिलोभूमेराभेदकः कन्दो मूलमस्य ।

मालाकन्दे क्षुपभेदे तस्य मालाकारकन्दतया भूमेः
सम्यग्भेदनात्तथात्वम् ।

आबुत्त पु० आपनमाप् क्विप् आपे प्राप्त्यै उत्ताम्यति उद् +

तम--दृ । नाट्योक्तौ भगिनीपतौ । बहुप्राप्तो सन्तोषा
भावेन दु खित्वात्तस्य तथात्वम् ।

आब्द त्रि० अब्दे मेघे भवः तस्येदम् इति वा अण् । १ मेघभवे २ मेघसम्बन्धिनि च ।

आभग पु० सम्यक् भगं माहात्म्यं यस्य । आभाग्येदेवे “सोमो-

मूत्यावपानेष्ठा भगोदेवोदेवेष्वाभगः” ऋ० १, ३६, ४

आभण्डन न० आ + भण्ड--ल्युट् । निरूपणे शब्दचि० ।

आभयजात्य पुं स्त्री अभयजातस्यापत्यं गर्गा० यञ् ।

अभयजातस्यापत्ये स्त्रियां ङीप् यलोपः । ततः कण्वा०
अण् यलोपः । आभयजातः तदपत्ये पुं स्त्री स्त्रियां ङीप्

आभरण न० आ + भृ--कर्मणि ल्युट् । भूषणे । “किमित्यपा-

स्याभरणानि यौवने” कुमा० “वेषाभरणसंशुद्धाः स्पृशेयुः
सुसमाहिता” “वाहनानि च सर्वाणि शस्त्राण्याभरणानि
च” मनुः “पाण्डवानां सभामध्येऽदुर्य्योऽधन उपागत ।
तस्मै गाञ्च हिरण्यञ्च सर्वाण्याभरणानि च” विदग्धसु०
भावे ल्युट् । २ सम्यक्पोषणे न० ।

आभरित त्रि० आभर आभरणं जातोऽस्य इतच् आ +

भृबा० इतच् इट् च १ पूरिते २ अलङ्कृते । “हस्ताभरणपूर्णेन
केयूराभरितेन च” हरिवं० १६ अ० ।

आभर्म्मन् न० आ + भृ + मनिन् । १ सम्यग्भरणे गर्भादेः २ पोषणे

आभा स्त्री आ + भा--अङ् । १ दीप्तौ, २ शोभायाम् कान्तौ, ३

उपमाने, आभा “ववूलपर्य्यायः कथितः कोविदैरिह” भा० प्र०
उक्ते ४ ववूले च । “आभाफलत्रिकैर्व्योर्षैः सर्वैरेभिः समीकृतैः
तुल्यगुग्गुलुरायोज्योभग्नसन्धिप्रसाधकः” चक्रद० ।

आभाति स्त्री आभाति त्युल्परूपतया आ + भा--क्तिच् ।

प्रतिविम्बे राजनि० । तस्य विम्बतुल्यतया द्रीप्तेस्तथात्वम् ।

आभाषण न० आ + भाष--ल्युट् । परस्परकथने २ आलापे

“सम्बन्धमाभाषणपूर्य्यमाहुः” रघुः । ३ सम्बोधने च ।

आभाष्य त्रि० आ + भाष--ण्यत् । आमन्त्रणीये १ संबोध्ये

३ आलाप्ये च “जनमाभाष्यमिमं न मन्यसे” रघुः । आ +
भाष--ल्यप् । ५ संबोध्येत्यर्थे अव्य० ।

आभास पु० आभासते आ + भास अच् । उपाधितुल्यतया

भासमाने १ प्रतिविम्बे “आभासोरूपसूर्य्यकवत्” शा० सू०
“बुद्धिवृत्तिचिदाभासौ द्वावेतौ व्याप्नुतो घटम् । तत्रा-
ज्ञानं धिया नश्येदाभासात्तु घटः स्फुरेत्” वेदा० का० ।
२ दुष्टे हेत्वादौ “हेत्वाभासाश्च पञ्चधा” भाषा० ।
“सव्यभिचारविरुद्धप्रकरणमसाध्यसमातीतकाला हेत्वा-
भासाः” गौ० सू० । पक्षसत्त्वसपक्षसत्त्वविपक्षा-
सत्त्वाबाधितत्वासत्प्रतिपक्षितत्वोपपन्नोहेतुर्गमकः स
इवाभासत इति हेत्वाभासस्तेन तद्भिन्नत्वे सति तद्धर्म्म-
वत्त्वम् पञ्चरूपोपपन्नत्वाभावे सति तद्रूपेणाभासमानत्वं
हेत्वाभासत्वमिति फलितार्थः “हेत्वाभासाश्च यथोक्ताः”
गौ० सू० । एवं प्रमाणाभासः युक्त्याभासः
आगमाभासैत्यादावपि प्रामाण्याद्यभाववत्त्वे सति प्रमा-
णादिरूपेणाभासमानत्वमर्थः । “एवं बहवो विप्रतिप-
न्नायुक्तिवाक्यतदाभाससमाश्रयाः सन्तः” शा० भा० ।
पृष्ठ ०७५४
तथा च यद्वाचकपदोत्तरमाभासशब्दः प्रयुज्यते तस्य
दुष्टत्वंतेन गम्यते । रसाभासादावपि तिर्य्य ग्योन्यादिगत-
त्वेन परनायकगतत्वेन च दुष्टत्वाद्रसाभासत्वम् । पुनरुक्त-
वदाभासादौ च न दुष्टत्वम् किन्तु पुनरुक्तभिन्नत्वेनाभास-
मानत्वात् वस्तुतोऽपुनरुक्त्वमेव गम्यते इत्येव तत्र
विशेषः । “रस्यत इति रस इति व्युत्पत्तिदर्शनात्
भायतदाभासादयोऽपि गृह्यन्ते” सा० द० तत्र रसाभासः
“मधु द्विरेफः कुसुमैकपात्रे” इत्यादि । “अत्र हि सम्भोग
शृङ्गारस्य तिर्य्यग्विषयत्वाद्रसाभासत्वम्” सा० द० । “आपा-
ततोयदर्थस्य पुनरुक्तावभासनम् । पुनरुक्तवदाभासः” सा०
द० । भावे घञ् । ३ तुल्यप्रकाशे ।
आभास्यतेऽनेन आ + भास--णिच्--करणे अच् । ग्रन्थावतार-
णार्थं ४ ग्रन्थाभिप्रायवर्ण्णने व्याख्यानांशभेदे च ।

आभासुर त्रि० आ + भास--घुरच् । सम्यग्दोप्तिशीले ।

आभास्वर त्रि० आ + भास--वरच् । १ सम्यग्दीप्तिशोले चतुः

बष्टिमिते २ गणदेवभेदे “आत्मा ज्ञाता दमोदान्तः शान्ति-
र्ज्ञामं शमस्तपः । कामः क्रोधोमदोमोहो द्वादशाभास्वरा-
इमे” इत्युक्ते ३द्वादशमिते गणभेदे च पु० ।
एषाञ्च स्वस्ववृत्त्याभास्वरत्वात्तथात्वम् ।

आभिचरणिक त्रि० अभिचरणं प्रयोजनमस्य ठञ् ।

अथर्व्ववेदादिप्रोक्ते शत्रुप्रभृतेर्मारणोच्चाटनवशीकरणा-
दिरूपाभिचारसाधने १ मन्त्रादौ तत्साधने २ विधानभेदे
च । “रौद्रं राक्षससासुरमाभिचरणिकं मन्त्रमुक्त्वा
पित्र्यमात्मानं चालभ्योपंस्पृशेदपः” कात्या० १, १०, १४,
“अभिचरणम् अभिचारः प्रयोजनमस्यासावाभिचारणिकः
प्रयोजनमित्यर्थे ठञ् । “बधान देव! सवितः परमस्यां
पृथिव्यां शतेन पाशै र्योऽस्मान् द्वेष्टियं च वयं द्विष्म
स्तमतोमा मौक्” यजु० १, २५, “द्विषतो बधोऽसि य० १२८
इत्यादि तत्र शत्रुनामादिसंयुक्तः अभिचारार्थमेव प्रयुज्य-
मान आभिचरणिक इत्युच्यते तेमाभिचरणबुद्ध्यभावे मन्त्र-
स्याभिचरणप्रयोजनाभावान्नाभिचरणिकत्वम् अतस्तदुच्चारणे
उदकस्पर्शाभाव” कर्कः । एवमन्येऽपि मन्त्रा अथर्ववे-
दोक्ता ज्ञेयाः । तद्विधानञ्च अथववेदान्तर्गते आङ्गिर-
सकल्पे विस्तृतम् । एवं तन्त्रोक्ताभिचारविधानम् तन्त्र-
सारादौ विस्तृतम् । अभिचार + प्रयोजनार्थे ठञ् ।
आभिचारिकोऽप्यत्र । स्त्रियामुभयत्र ङीप् ।

आभिजन त्रि० अभिजनादागतः अभिजनस्येदं वा अण् ।

अभिजनाद्वं शादागते “तां पार्वतीत्याभिजनेन नाम्ना”
कुमा० । २ वंशसम्बन्धिनि च ।

आभिजात्य न० अभिजातस्य भावः ष्यञ् । १ कौलीन्ये २ पाण्डित्ये ३ सौन्दर्य्ये च ।

आभिजित त्रि० अभिजिति नक्षत्रे जातः अण् ।

अभिजिन्नक्षत्रे जाते तस्य वा लुक् । अभिजिदपि तत्रैवार्थे ।
अभिजित इदम् अण् । गवामयनान्तर्गताभिजिन्नामकदिन
सम्वन्धिनि सामादौ त्रि० ।

आभिजित्य त्रि० अभिजिति भवः अण् ततः स्वार्थे यञ । अभिजिद्भवे ।

आभिधा स्त्री अभिधैव स्वार्थेऽण् । अभिधाशब्दार्थे १ शब्द-

वृत्तिभेदे २ कथने च

आभिधातक न० आभिधां तकति सहते अच् । शब्दे

आभिधानीयक न० अभिधानीयस्य भावः योपधगुरूपोत्त-

मत्वात् वुञ् । कथनीयत्वे

आभिप्लविक त्रि० अभिप्लवे विहितः ठक् । अभिप्लवविहित

सूक्तसामादौ । अभिप्लवशब्दार्थश्च अभिप्लवशब्दे दृश्यः । तच्च
साम “ज्योतिर्गौरायुर्गौरायुर्ह्योतिरित्यादि” सूक्ते गेयम् ।
अभिप्लवाय हितः ठक् । गवामयनान्तर्गतषड़हभेदे पु० ।

आभिमानिक त्रि० अभिमानेन निर्वृत्तः ठक् । सांख्य-

मतसिद्धे अभिमानोत्पादिते उभयेन्द्रिये शब्दादि-
पञ्चन्मात्रे च । यथैषाभिमाभिककत्वं तथीक्तं सां० प्र० भा०
“तन्मात्रेन्द्रियाण्यभिमानवद्द्रव्योपादानकान्यभिमानकार्य्य-
द्रव्यत्वात् यन्नैवं तन्नैवम् यथा पुरुषादिरिति ।
नन्वभिमानवद्द्रव्यमेवासिद्धमिति चेत् अहं गौर इत्यादि
वृत्त्युपादानतया चक्षुरादिवत् तत्सिद्धेः । अनेन चानु-
मानेन मन आद्यतिरेकिमात्रस्य तत्कारणतया प्रसाध्य-
त्वात् । अत्र चायमनुकुलस्तर्कः “बहु स्यां प्रजायेयेत्यादि”
श्रुतिस्मृतिभ्यस्तावद्भूतादिसृष्टेरभिमानपूर्ब्बकत्वाद् बुद्धि
पूर्ब्बकसृष्टौ कारणतयाभिमानः सिद्धः । तत्र चैकार्थ
समवायप्रत्यासत्त्यैवाभिमानस्य सृष्टिहेतुत्वं लाघवात्”

आभिमुख्य न० अभिमुखस्यभावः ष्यञ् । अभिमुखत्वे

आनुकूल्यार्थसम्मुखीभवने “प्राप्ताभिमुख्यः पुरुषः क्रिया-
सु विनियुज्यते” वाक्यप० । “अनुकूलत्वे २ विशेषादाभि-
मुख्येन चरन्तोव्यभिचारिणः । स्थायिन्यु न्मग्ननिर्ग्नास्त्रय
स्त्रिंशच्च तद्भिदाः” सा० द० । तत्र यात्रादौ राहोराभिमुख्य
निषेधः ज्यो० त० “पश्चादर्के विधौ वह्नौ सौम्यां ज्ञे वायवे
कुजे । रक्षोऽधीशे भृगौ याम्यां गुरावीशे शनौ दिने ।
राहुर्भ्रमति यामार्द्धादश्वगत्या च वामतः । प्रतीच्यां वह्नि
कोणे तु ततः सौम्यामतोऽसृपे । ततः प्राच्यामतोवायौ
तस्माद्याम्यां ततः शिवे । रवावेवमन्यवारेषूह्यमेवं क्रमेण हि
पृष्ठ ०७५५
द्यूते युद्धे विवादे च यात्रायां सम्मुखस्थितम् ।
राहुं विवर्ज्जयेत् यत्नाद्यदीच्छेत् कर्मणः फलम्” । एवं
योगिन्याभिमुख्येऽपि गमनं न शस्तम् यथा “प्रतिपन्नवमी
पूर्वे रामा रुद्राश्च पावके । शरस्त्रयोदशी याम्ये वेदा मासाश्च
नैरृते । षष्ठी चतुर्द्दशी पश्चात् वायव्यां मुनिपूर्ण्णिमे ।
द्वितीया दशमी यक्षे ऐशान्यामष्टमी कुहूः । योगिनी
नवदण्डाश्च शेषा वर्ज्या विशेषतः । दक्षसम्मुख-
योगिन्यां गमनं नैव कारयेदिति” ज्यो० त० । पीयूष-
धारायान्तु “पृष्ठतोदक्षिणे वापि योगिनीगमने
हिता । वामसम्मुखयोर्नैव वायुमेवं चिन्तयेत्” जयकल्पलता
वाक्ये तन्मूलके मुहूर्त्त० चि० वाक्ये च “नवभूम्यः शिवव-
ह्नयोऽक्षविश्वेऽर्ककृताः शक्रस्तुरङ्गतिथ्यः । द्विदशामावसवश्च
पूर्व्वतः स्युस्तिथयः सम्मुखवामगा न शस्ताः” वामगाया
अशुभत्वमुक्तम् । अन्योर्व्यवस्था देशभेदेन । कालपाशयो-
राभिमुख्येन यानमपि न शस्तम् “कौवेरीतो वैपतीत्येन
कालो वारेऽर्काद्ये सन्मुखे तस्य पाशः । यात्रायुद्धेसम्मुखे
वर्ज्जनीयावेतो रात्रौ व्यस्तसंज्ञौ विचिन्त्यौ” मुहू० । स्पष्टं
रत्नसारे “रवावुत्तरतः कालः सोम्ये वायव्यभागके । भौमे तु
पश्चिमे भागे बुधे नैरृतकोणके । जीवे च याम्य
दिग्भागे भृगौ चाग्नेयकोणके । शनौ तु पूर्व्व-
दिग्भागे कालचक्रं प्रकीर्त्तितम् । पाशस्तत्सम्मु-
खदिशि” कालापेक्षया पञ्चमदिशि पाश इत्यर्थः यथा
रवौ दक्षिणस्यां, सोमे आग्नेय्यां, भौमे पूर्य्यस्यां,
बुधे ऐशान्यां, गुरावुत्तरस्यां, शुक्रे वायव्यां, शनौ पश्चि-
मायाम् । कालपाशयोराभिमुख्यं यात्रादौ निषिद्धं
वामदक्षिणयोस्तु शुभाशुमफलकत्वं यथाह स्वरो० “दक्षि-
णस्तु शुभः कालः पाशोवामदिगाश्रयः । यात्राया समरे
श्रेष्ठस्ततोऽन्यत्र न शोभनः” “अन्यत्र सम्मुखपृष्ठभाग-
योः” पी० धा० । रात्रौ तु कालपाशयोर्विपर्य्यासेन
स्थितेस्तदनुसारेणैव फलम् । पूर्ब्बादिदिगभिमुखानि नक्ष-
त्राणि । “पूर्व्वादिषु चतुर्द्दिक्षु सप्त सप्तानलर्क्षतः” मुहू०
तेन कृत्तिकादीनि सप्त पूर्व्वदिग्मुखानि । मघादीनि सप्त
दक्षिणाभिमुखानि । अनुराधादीनि साभिजित्कानि
सप्त पश्चिसाभिमुखानि । धनिष्ठादीनि भरण्यन्तादीनि सप्त
उत्तराभिमुखानि । तैस्तैर्नक्षत्रैस्तत्तद्दिगभिमुखगृहकरणं तत्प्र-
वेशश्च शुभाय । “यद्दिग्द्वारं मन्दिरं तद्दिगृक्षैरुक्तर्क्षैः स्यात्
सन्निवेशो न सर्व्वैः” वशि० । पूर्व्वादिदिगभिमुखा
राशयो यथा । “पूर्ब्बादिदिक्षुमेषाद्याःक्रमाद्दिग्द्वारराशयः ।
दिग्द्वारराशयः सर्व्वे तद्दिग्यातुः शुभप्रदाः ।
तद्वर्गाश्च तदंशाश्च तद्दिग्यातुस्तथाविधाः” वशिष्ठः ।
“दिग्द्वारभे लग्नगते प्रशस्ता यात्रार्र्थदास्त्री जयकारिणी च ।
हानिं विनाशं रिपुतोभयञ्च कुर्य्यात् तथा दिक् प्रति-
लोमलग्ने” इति मूहू० । शुक्राभिमुख्यं त्रिविधम्
“उदयति दिशि यस्यां, याति गोलभ्रमाद्वा, विचरति च भचक्र
यत्र दिग्द्वारभेषु । त्रिविधमिह सितस्य प्रोच्यते सम्मुखत्वं
मुनिभिरुदयएव त्यज्यते तत्र यत्नात्” श्रीपतिः । “उदेति
यस्यां दिशि यत्र याति गोलभ्रमाद्वाथ ककुब्भचक्रे ।
त्रिधोच्यते सम्मुखएव शुक्रो यत्रोदितस्तां तु दिशं न
यायात्” मुहू० । “शुक्रः यस्यां दिशि प्राच्यां प्रतीच्यां
वा कालवशेनोदयं करोति तत्र गन्तुः पुंसः शुक्रः
सम्मुखः अयमेकः प्रकारः । अथ गोलभ्रमातुत्तर
दक्षिणगोलभ्रमणवशेन यस्यां दिशि उत्तरस्यां दक्षिणस्यां
वा याति तत्र गन्तुः शुक्रः समुखः स्यादिति
द्वितीयः प्रकारः । प्राच्यादिदिग्द्वारकृत्तिकादिगतिवशेन
यद्दिङ्नक्षत्रे शुक्रश्चरति तत्र दिशि गन्तुः शुक्रः
सम्मुखःस्यादिति तृतीयःप्रकारः । तत्रोदयशुक्रे दोषा-
धिक्यमिति” पी० धा० । अतएव वशिष्ठः “पश्चादभ्यु-
दिते शुक्रे प्रतीर्ची दक्षिणां दिशम्” इति
उदयदिग्गतस्यैव शुक्रस्याभिख्येयात्रादि न्यषेधत् । अत्रापवादः
“वुधोऽनुकूलो यदि तत्र संचलन् रिपून जयेन्नैव जयः
प्रतीन्दुजे” मुहू० । शुक्राभिमुख्यादिदोषमुक्त्वा । “एवं विधे-
ऽप्यास्फुजिते च यायाद्बु धोयदि स्यादनुकूलवर्त्ती” श्नीपतिः ।
अनुकूलः पृष्ठदिक्संस्थं” इति पी० धा० । अपवादा
न्तरम् “नोचगोऽरिगृहस्थो वा वक्रगोवा पराजितः ।
यातुर्भगप्रदः शुक्रः स्वोच्छस्थश्चेद्धनप्रदः” इति नारदः ।
प्रतिशुक्रादेदोषोनृणां प्रथमयात्रायां राज्ञां च विजय
यात्रायामेव यथाह रैभ्यः । “प्रतिशुक्रादिदोषोऽय नूतने
गमने नृणाम् । राज्ञां विजययात्रायां नान्यदा
दोषमावहेत्” चन्द्रस्य नक्षत्रविशेषस्थितौ तदपवादः ।
“यावच्चन्द्रः पूषभात् कृत्तिकाद्ये पादे शुक्रोऽन्धो न दुष्टोऽ
ग्रहदक्षे” मुहू० । “पौष्णादिवह्निभाद्याङ्घ्रिं
यावत्तिष्ठति चन्द्रमाः । तावच्छुक्रो भवेदन्धः सम्मुखे गमनं
हितम्” पराशरः । राज्ञां विजययात्रायां विशेषः ।
मध्येमार्गं भार्गवास्तेऽपि राजा तावत्तिष्ठेत् सम्मुखत्वे-
ऽपि तस्य” मुहू० । अत्यन्तापदि शान्तिं कृत्वा यावात् ।
शान्तिश्च पी० धा० यात्राप्रकरणे दर्शिता ततएव ज्ञेया ।
पृष्ठ ०७५६
नृपविजययात्रायां वुधकुजशुक्राभिसुख्यमपि निषिद्धम् ।
“प्रतिशुक्रं प्रतिबुघं प्रतिभौमं गतोनृपः । बलेन शक्रक्रतु-
ल्योऽपि हतसैन्योनिवर्त्तते” इति वशिष्ठः ।
एतदभिप्रायोणैव कुमा० वर्ण्णितम् । “दृष्टिप्रपातं परिहृ-
त्य तस्य कामः पुरःशुक्रमिव प्रयाणे” इति । दिगीशाभि-
मुख्येगमनंशस्तं प्रातिमुख्येऽशस्तम् । तत्रदिगीशाः “सूर्य्यः
शुक्रः क्षमापुत्रःसैंहिकेयः शनिः शशी । सौम्यस्त्रिदशमन्त्री
च पूर्ब्बादीनां दिगीश्वराः । दिगीशाहे शुभा यात्रा
पृष्ठाहे मरणं ध्रुवम्” ज्यो० त० ।
नववध्वागमनेऽपि शुक्राभिमुख्यनिषेधः सप्रतिसवः ज्यो०
त० दर्शितो यथा ।
दीपिकायां “स्त्रीशुद्ध्यालिघटाजसंगतरवौ काले विशुद्धे
भृगुं संत्यज्य प्रतिलोमगं शुभदिने यात्रा प्रवेशोचिते ।
त्यक्त्वाहस्तु निरंशकं नववधूयात्राप्रवेशौ पतिः कुर्य्यादेक-
पुरादिषु प्रतिभृगोर्नेच्छन्तिदोषं बुधाः” । पैत्रागारे
कुचकुसुमयोः सम्भवो वा यदि स्यात् कालः शुद्धोन भवति
यदा संमुखोवापि शुक्रः । मेषे कुम्भेऽलिनि च न भवेत्
भास्करश्चेत्तथापि स्वामी भद्रेऽहनि नववधूं वेशयेन्मन्दिरं
स्वम् । भर्त्तुर्गोचरशोभने दिनपतौ नास्तं गते भार्गवे
सूर्य्ये कीटघटाजगे शुभदिने पक्षे च कृष्णेतरे । हित्वा
च प्रतिलोमगौ बुधसितौ जीवस्य शुद्धौ तथा चानीता
गुणशालिनी नववधूर्नित्योत्सवा मोदते । एकग्रामे
चतुःशाले दुर्भिक्षे राष्ट्रविप्लवे । पतिना नीयमानायाः
पुरः शुक्रोन दुष्यति” । तथा “काश्यपेषु वशिष्ठेषु भृग्व-
त्र्याङ्गिरसेषु च । भारद्वाजेषु वात्स्येसु प्रतिशुक्रोन
दोषकृत्” शम्भोराभिमुख्यं पूजने निषिद्धं यथा “न प्राची-
मग्रतः शम्भोर्नोदोचीं शक्तिसंस्थिताम् । न प्रतीचीं
यतःपृष्ठमतोदक्षंसमाश्रयेत्” रुद्रया० । “यजमानः शम्भोः
प्राचीमवस्थितये न समाश्रयेत् । शम्भोर्जगत्संहा-
रकस्याग्रतः सांमुख्यात् पञ्चवक्त्रपक्षे प्रधानं वक्त्रं प्राच्य-
वस्थितम् एकवक्त्रपक्षे सुतरां तथा” ति० त० रघु० ।

आभिरूपक न० अभिरूपस्य भावः मनो० वुञ् । सौन्दर्य्ये

आभिरूप्य न० अभिरूपस्य भावः ष्यञ् । सौन्दर्य्ये “आभि-

रूप्याच्च विम्बानां देवः सन्निध्यदृच्छति” हय० रा० ।

आभिषिक्त त्रि० अभिषिक्तमभिषेकः तेन निर्वृत्तः

सङ्का० अञ् । अमिषेकनिर्वृत्ते ।

आभिषेचनिक त्रि० अभिषेचनं राज्याभिषेकः प्रयोजनमस्य ठञ्

राजाभिषेकसाधने द्रव्यभेदे “आभिषेचनिकं यत्ते
रामार्थमुपकल्पितम् । भरतस्तदवाप्नोतु” भा० व० २७५ अ० ।
तत्रत्यद्रव्यदिविधानानि” भा० शा० प० ४० अ० पुराकल्पव्या-
जेनोक्तानि यथा “ततः प्रकृतयः सर्वाः पुरस्कृत्य पुरोहितम् ।
ददृशुर्धर्मराजानमादाय बहुमङ्गलम् । पृथिवीञ्च सुवर्णञ्च
रत्नानि विविधानि च । आभिषेचनिकं भाण्डं सर्वसम्भा-
रसम्भृतम् । काञ्चमौदुम्बरास्तत्र राजताः पृथिवीमयाः ।
पूर्णाः कुम्भाः सुमनसोलाजा वर्हींषि गोरसम् ।
शमीपिप्पलपालाशसमिधो मधुसर्पिषी । स्रुव औदुम्बरः शङ्ख-
स्तथा हेमविभूषितः । दाशार्हेणाभ्यनुज्ञातस्तत्र धौम्य
पुरोहितः । प्रागुदक्प्लवने वेदीं लक्षणेनोपलिख्य च ।
व्याघ्रचर्म्मोत्तरे शुक्ले सर्वतोभद्र आसने । दृढपादप्रतिष्ठाने
हुताशनसमत्विषि । उपवेश्य महात्मानं कृष्णाञ्च द्रुप-
दात्मजाम् । जुहाव पावकं धीमान् विधिमन्त्रपुरस्कृतम् ।
ततौत्थाय दाशार्हः शङ्खमादाय पूजितम् । अभ्यषिञ्च-
त्पतिं पृथ्व्याः कून्तीपुत्रं युधिष्ठिरम् ।
धृतराष्ट्रश्च राजर्षिः सर्व्वाः प्रकृतयस्तथा । अनुज्ञाती-
ऽथ कृष्णेन भ्रातृभिः सह पाण्डवः । पाञ्चजन्याभि-
षिक्तश्च राजाऽमृतमुखोऽभवत् । ततोऽनु वादयामासुः
पणवानकदुन्दुभीन् । धर्म्मराजोऽपि तत्सर्वं प्रतिजग्राह
धर्म्मतः । पूजयामास तांश्चापि विधिवद्भूरिदक्षिणः । ततो
निष्कसहस्रेण ब्राह्मणान् स्वस्ति वाचयन् । वेदाध्ययन-
सम्पन्नान् धृतिशीलसमन्वितान्” । एतानि द्रव्यादीनि
राजाभिषेचनिकानि ज्ञेयानि अधिकं राजाभिषेकशब्दे
वक्ष्यते स्त्रियां ङीप् । अभिषेचनमधिकृत्य कृतो-
ग्रन्थः ठक् । अभिषेकाधिकारेण कृते २ भारतान्तर्गते
अवान्तरपर्वभेदे “आभिषेचनिकं पर्व्वधर्म्मराजस्य धीमतः”
भा० आ० १ अ० । अभिषेचनं स्नानं प्रयोजनमस्य ठञ् ।
३ स्नानार्थे विधाने तत्रत्ये ४ द्रव्यमन्त्रादौ च स्मानविभाग
पूर्वकं तत्रत्यद्रव्यविधान मन्त्रा उच्यन्ते । तत्र स्नानं तावत्
सप्तविधम्” मान्त्रंभौमं तथाग्नेयं वायव्यं दिव्यमेव च ।
वारुणं मानसं चैव सप्त स्नानान्यनुक्रमात् । “आपोहिष्ठा-
दिभिर्मान्त्रम् मृदालम्भश्च पाथिवम् । आग्नेयं भस्मना
स्नानं वायव्यं रजसा कृतम् । अद्भिरातववर्षाभिः स्नानं
तद्दिव्यमुच्यते । वारुणञ्चावगाहश्च मानसं विष्णुचि-
न्तनम्” योगिया० तत्र विशेषस्तनैवोक्तः” “शन्न
आपस्तु द्रुपदा आपोहिष्ठाघमर्षणम् । एतैस्तु पञ्च
भिर्मन्त्रैर्मन्त्रस्नानं तदुच्यते” मन्त्राणां समुच्चयोविकल्पोवा
शक्त्यपेक्षया । तत्र वारुणं स्नानं मुख्यमसामर्थ्ये अन्यानि
पृष्ठ ०७५७
स्नानानि “स्नानं तु द्विविधं प्रोक्तं गौणमुख्यप्रमेदतः ।
तयोस्तु वारुणं मुख्यं तत्पुनः षड्विघं स्मृतम् । नित्यं
नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणम् । क्रियास्नानं
तथा ष्ठं षोढा स्नानं प्रकीर्त्तितम्” व्यासोक्तेः
तत्र नित्यादीन्यनुपदं वक्ष्यन्ते । “असामर्थ्याच्छरीरस्य देश
कालाद्यपेक्षया । मन्त्रस्नानादितः सप्त केचिदिच्छन्ति
सूरयः जा० स्मृ० । “गृहेऽपि च द्विजातीनां मन्त्रवत्
स्नानमिष्यते । विधिलोपं न ते कुर्य्युः सामर्थ्ये सति कर्म्मसु”
जैमि० स्मृ० “अल्पत्वाद्धोमकालस्य बहुत्वात् स्नानकर्म्मणः
प्रातर्न तनुयात् स्नानं होमलोपोविगर्हितः” कात्या० स्मृ० ।
“प्रातः संक्षेपतः स्नानं शौचार्थं तु तदिष्यते । मन्त्रै स्तु
विधिनिष्पाद्यं मध्याह्ने तु सविस्तरम्” वशि० । अत्यन्ता-
शक्तौ । “अशिरस्यं भवेत्स्नानं स्नानाशक्तौ तु
कर्म्मिणाम् । आर्द्रेण वाससा वापि मार्जनं कापिलं
विदुः । कृताभिमन्त्रितैस्तोयैः प्रोक्षयेन्मूर्द्ध्नि सर्व्वतः ।
अनुकल्पमिदं स्नानं सर्व्वपापहरं नृणाम्” जावा० स्मृ० ।
एकवाससाऽपि स्नानं कर्त्तृं शक्यते “एकेन वाससा
स्नायाद्द्वाभ्यामनियमः स्मृतः । बहुवासोनिषेधश्च स्नाने
फलमभीप्सतः” विष्णूक्तेः नैकवासाः क्रियां कुर्य्यात् स्नानं
कर्म्म विना क्वचित्” तदुक्तेश्च “अस्पृश्यस्पर्शने चैव वार्त्तायां
पुत्रजन्मनि । एतद्द्विवाससा कार्य्यमन्यत्रैकेन वाससा” वसि०
“न नग्नोनान्यदीयेन नार्द्रेण नसूच्याग्रथितेन न विकृतेन
च स्नायात्” इत्याचारतिलकः । तत्र नित्यं प्रातःस्नानम्,
“प्रातः समाचरेत् स्नानं तच्च नित्यमिति स्मृतम्” मार्क० पु० ।
चन्द्रसूर्य्योपरागे अशौचादौ अस्पृश्यस्पर्शने च स्नानं
नैमित्तिकम् । “पुष्येऽर्के जन्मनक्षत्रे व्यतीपाते च
वैधृतौ । अमायाञ्च नदीस्नानं पुनात्या सप्तमात् कुलम्”
इत्याद्युक्त स्नानं काम्यम् । धर्म्म्कर्म्म कर्त्तुं यत्
पूर्ब्बस्नानं तत्क्रियाङ्गम् । “मलापकर्षणं नाम स्नानम-
भ्यङ्गपूर्ब्बकम् । मलापकर्षणायैव तत्प्रवृत्तिस्तु नान्यथा ।”
तत्र स्नानविधिश्च आश्व० गृ० परि० उक्तः यथा ।
“अथ स्नानविधिस्तत्प्रातर्सध्याह्ने च गृहस्थः कुर्यादेकतरत्र
वा प्रातरेव, ब्रह्मचारी यतिस्त्रिषु सवनेषु द्विः त्रिर्वा
वानप्रस्थः । तत् प्रातः सहगोमयेन कुर्यान् मृदा मध्यन्दिने
साय” शुद्धाभिरद्भिः । न प्रातःस्नानात् प्राक्सन्ध्यामुपा-
सीत प्रातरुत्सृष्टं गोमयमन्तरिक्षस्थं सङ्गृह्य भूनिष्ठं
वोपर्यधश्च संत्यक्तं तीर्थमेत्य धौतपादपाणिमुख आचम्य
सन्ध्योक्तवदात्माभ्युक्षणादि च कृत्वा द्विराचम्य दर्भपाणिः
संयतप्राणः कर्म सङ्कल्प्य गोमयं वीक्षितमादाय सव्ये
पाणौ कृत्वा व्याहृतिभिस्त्रेधा विभज्य दक्षिणं भागं
प्रणवेन दिक्षु विक्षिप्योत्तरं तीर्थे क्षित्वा मध्यमं “मान-
स्तोक” इत्यृचाभिमन्त्य्र “गन्धद्वाराम्” इत्यनया मूर्द्धादि-
सर्वाङ्गमालिप्य प्राञ्जलिः “वरुणं हिरण्यशृङ्गमिति” द्वाभ्याम्
“अव ते हेड” इति द्दाभ्यां “प्रसम्राजे वृहदु चेति” सूक्तेन
प्रार्थ्य “हिरण्यशृङ्गं वरुणं पप्रद्ये तीर्थं मे देहि याचितः ।
यन्मया भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः । यन्मे मनसा
वाचा कर्मणा वा दुष्कृतं कृतम् । तन्न इन्द्रो वरुणो
वृहस्पतिः सविता च पुनन्तु पुनः पुनः” इत्यथ “याः प्रवतो
निवत उद्वत” इत्येतया तीर्थमभिमृश्यावगाह्य स्नातो
द्विराचम्य मार्जयेत् अम्बयोयन्त्यध्वभिः” इत्यष्टाभिः “आपो-
हिष्ठेति” च नवभिरथ तीर्थमङ्गुष्ठेन” “इमं मे गङ्ग” इत्यृचा
त्रिः प्रदक्षिणमालोड्य प्रकाशपृष्ठमग्नौ अघमर्षणसूक्तं त्रि-
राबर्त्य निमज्योन्मज्यादित्यमालोक्य द्वादशकृत्व आप्लुत्य
पाणिभ्यां शङ्खमुद्रया योनिमुद्रया वोदकमादाय मूर्ध्नि मुखे
बाह्वोरुरसि चात्मानङ्गायत्र्याभिषिच्य “त्वन्नो अग्ने
वरुणस्य विद्वानिति” द्वाभ्यात् “तरत्समन्दीधातीति” च सूक्तेन
पुनः स्नायान्मूर्ध्नि चाभिषिञ्चेत् “तद्विष्णोः परमम्पदम्
“अग्नेरक्षाणो अंहसो यत्किञ्चेदं वरुणदेव्ये जने” इत्येता
जपेत्, स्रोतोऽभिमुखः सरित्सु स्नायादन्यत्रादित्याभिमुखोऽथ
साक्षताभिरद्भिः प्राङ्मुख उपवीती दैवतीर्थेन व्याहृति-
भिर्व्यस्तसमस्ताभिर्ब्रह्मादीन्देवान् सकृत्सकृत्तर्पयित्वाथो-
दङ्मुखः निवीती सयवाभिरद्भिः प्राजापत्येन तीर्थेन
कृष्णद्वैपायनादीन् ऋषींस्ताभिर्व्याहृतिभिर्व्यस्ताभिस्तर्पयित्वाथ
दक्षिणाभिमुखः प्राचीनावोती पितृतीर्थेन सतिलमद्भि-
र्व्याहृतिभिरेव सोमः पितृमान् यमो अङ्गिरस्वानग्नि-
स्वत्ताः कव्यवाहन इत्यादीं स्त्रींस्त्रींस्तर्पयेदेतत्स्नानाङ्गत-
र्पणमथ तीरमेत्य दक्षिणाभिमुखः प्राचीनावीती “ये के
चास्मत्कुले जाता अपुत्रागोत्रिणो मृताः । ते गृह्णन्तु
मया दत्तं वस्त्रनिष्पीडनोदकमिति वस्त्रं निष्पीड्य यज्ञो-
पवीत्यप उपस्पृश्य परिधानीयमभ्युक्ष्य परिधाय द्विती-
यञ्चोत्तरीयं पर्युक्षितं प्रावृत्य द्विराचामेदथोक्तसन्ध्या-
मुपासीतेदं प्रातः स्नानविधानम् ।
अथ मध्यन्दिने तीर्यमेत्य धौतपाणिपादमुखो द्विराचम्या-
यतप्राणः स्नानं सङ्कल्प्य दर्भपवित्रपाणिः शुचौ देशे
खनित्रेण भूमिङ्गायत्र्यस्त्रेण खात्वोपरिमृदञ्चतुरङ्गुलमुद्वाय
तखास्ताम्मुदं तथा खात्वा गायत्र्यादाय गर्तमुद्वासितया
पृष्ठ ०७५८
मृदा परिपूर्य मृदमुपात्तां शुचौ देशे तोरे निधाय गायत्र्या
प्रोक्ष्य तच्छिरसा त्रेधा विभज्यैकेन मूर्ध्न आनाभेरपरेण
चाधस्तादङ्गमनुलिप्याप्स्वाप्लुत्य क्षालयित्वादित्यन्निरीक्ष्य तं
ध्यायन् स्नायादेतन्मलस्नानमाहुरथ तीरे द्विराचम्य तृती-
यमस्त्रेणादाय सव्ये पाणौ कृत्वा व्याहृतिभिस्त्रेधा विभज्य
दक्षिणभागमस्त्रेण दिक्षु दशसु विनिक्षिप्योत्तरन्तीर्थे क्षित्या
तृतीयङ्गायत्र्याभिमन्त्रितमादित्याय दर्शयित्वा तेन मूर्ध्न
आपादात् गायत्र्या प्रणवेन वा सर्वाङ्गमनुलिप्य “सुमि-
त्रियान आप ओषधयः सन्त्विति” सकृदद्भिरात्मानमभिषिच्य
“दुर्मित्र्यास्तस्मै सन्तु योऽस्मान्द्वेष्टि यञ्च वयन्द्विष्म” इति
मृच्छेषमद्भिः क्षालयेदथ वरुणप्रार्थना तर्पणान्तेनोक्तेन
विधिना स्नायात् । नास्मिन् प्राक् ब्रह्मयज्ञतर्पणद्वस्त्रं
निष्पीड़येदपुत्रादयो ह्य्न्ते तर्प्या इत्येष स्नानविधिस्तदेतद-
सम्भवेऽद्भिरेव कुर्याद्भौमदिनादिषु च न गृहे मृदा स्ना-
यान्न च शीतोदकेन शीतोष्णोदकेन गृहे स्नायान्मन्त्र-
विधिं वर्जयेद्बहिर्वा शुचौ देशे सर्वं पश्चात्कुर्यादिति ।
अथाशक्तस्य मन्त्रस्नानं शुचौ देशे शुचिराचान्तः प्राणा-
नायम्य दर्पाणिः सव्ये पाणावपः कृत्वा तिसृभिरापो
हिष्ठीयाभिः पछः प्रणवपूर्वं दर्भोदकैर्मार्जयेत् । पादयो
र्मूर्ध्नि हृदये मूर्ध्नि हृदये पादयोर्हृदये पादयोः मूघ्नि
चाथार्धर्चशो मूर्ध्नि हृदये पादयोर्हृदये पादयोर्मूर्ध्नि
चाथ ऋक्शो हृदये पादयोर्मूर्ध्नि चाथ तृचेन मूर्ध्नीति
मार्जयित्वा गायत्र्या दशधाभिमन्त्रिता अपः प्रणवेन
पीत्वा द्विराचामेदेतन्मन्त्रस्नानम्” । शाखिभेदेनान्थविधवि-
धानं तत्तत्सूत्रेषु दृश्यम् । ततश्च स्मृत्याद्युक्तद्रव्याणां तत्रत्य
मन्त्राणां तद्विधानानाञ्चाभिषेचनिकत्वं बोध्यम् कर्म्मान्ते
५ यजमानाभिषेकार्थे मन्त्रे च । ते च मन्त्राः वैदिकाः
पौराणिकाश्च । तत्र मन्त्रास्तु मत्कृततुलादानादिपद्धतौ
२०६ पृष्ठादौ दृश्याः । पौराणिकतान्त्रिकतत्तत्कर्म्मस्व-
धिकारसिद्ध्यर्थस्याभिषेकस्य साधने ६ मन्त्राद । ७ तद्द्रव्यभेदे
८ तद्विधाने च तत्र पौराणिकाभिषेकद्रव्यविधानादि
“शिबमन्त्राभिषेकं यः कुर्य्याच्छिष्यादिकश्रिये” इत्यारभ्य
“अस्त्ररक्षाभिषेक” इत्यन्तेन अग्निपुराणे दर्शितम् । शाक्ता-
भिषेकद्रव्यविधानानि च तन्त्रे ज्ञेयानि । ९ रुद्राभिषेक
द्रव्ये १० तद्विधाने च तद्द्यव्यविधानादि च विधानपारिजाते
रुद्रकल्पपद्धतौ च दृश्यम् ११ देवाभिषेकादिसाधनद्रव्यादौ

आभिहारिक त्रि० अभिमुख्येन हारः अभिहारः

प्रयोजनमस्य तत्र साधुर्वा ठञ् । अभिहारसाधने
उपढौकनीये (भेटी) इति जगतीप्रसिद्धे द्रव्ये ।

आभीक न० अभीकेन दृष्टं साम अण् । अभीकर्षिदृष्टे

साममेदे “आभीकमभिनिधनमाभीशवानि चैके कात्या० २५, १४,
१५ । एके आचार्य्या आभीकाद्यान्यपि सामान्याव-
पन्ति” कर्क० ।

आभीक्ष्ण्य न० अभीक्ष्णस्य भावः ष्यञ् । सातत्ये पौनःसुन्ये

आभीक्ष्ण्यञ्च अविच्छेदेनैकरूपक्रियोत्पादनम् । “नित्य-
वीप्सयोः” पा० सूत्रे “आभीक्ष्ण्ये वीप्सायाञ्च द्योत्ये”
सि० कौ० । “वहुलमाभीक्ष्ण्ये” पा० “आभीक्ष्ण्ये-
णमुल्” पा० । “जहिकर्मणा बहुलमाभीक्ष्ण्ये कर्त्तारं
चाभिदधाति” पा० ग० सू० ।

आभीर पु० समन्तात् भियं राति रा--क । गोपे सङ्कीर्ण्ण

जातिभेदे स हि अल्पभोतिहेतोरप्यधिकं बिभेतीतितस्य
तथात्वम् “आभीरवाममयनाहृतमानसाय दत्तं मनोयदुपते!
तदिदं गृहाण” उद्भटः स च सङ्कीर्ण्णवर्ण्णः । “ब्राह्मणा
दुग्रकन्यामावृतोनाम जायते । आभोरोऽम्बष्टकन्यायामा-
योगव्यान्तु धिग्वणः” इति मनूक्तः । “श्रीकोङ्कणादधो-
भागे तापीतः पश्चिमे तटे । आभीरदेशोदेविशि! विन्ध्य
शैले व्यवस्थित” इति शङ्क्तिसङ्गम० उक्ते २ देशभेदे ३ तद्देश-
वासिनि ४ तद्देशराजे च ब० व० । “एकादशकलधारि
कविकुलमानसहारि । इदमाभीरमवेहि जगणमन्त्र्यम-
नुधेहि” इत्युक्तलक्षणे ५ मात्रावृत्तभेदे न० ।

आभीरपल्लि(ल्ली) स्त्री ६ त० वा ङीप् । गोपप्रधाने ग्रामे

घोषे (गोयालपाड़ा) ।

आभीरी स्त्री आभीरस्य पत्नी आभीरजातिर्वा स्त्री ङीप् ।

१ आभीरभार्य्यायाम् २ गोपजातिस्त्रियां महाशूद्र्याम् ।

आभील न० समन्तात् भयं लाति ददाति ला--क ।

१ कष्टे २ दुःखे ३ भयानके तदस्यास्ति अच् । ४ तद्वति त्रि०
“आभीलानि प्राणिनः प्रत्यवश्यन्” माघः । “रात्रौ
निशाशे साभीले गतेऽर्द्धसमयै नृप” इति भा० व० प० ११ अ० ।

आभीशव अभीशुना दृष्टं साम--अण् । सामभेदे “आभीकम-

भिनिधनमाभीशवानि चैके” कात्या० २५, १४, १५ ।
“आभीकाद्यानि सामान्यावपन्ति” कर्कः ।

आभु त्रि० समन्तात् भवतिआ + भू--डु । विभौ व्यापके

“तुच्छेनाभ्वपिहितं यदासीत्” ऋ० १०१२९, ३ । “आभु-
व्यापकम्” भा० क्विप् आभूरप्यत्र “आमूभिरिन्द्रः
श्नथयन्ननाभुवः” ऋ० १, ५१, ९ ।

आभुग्न त्रि० आ + भुज कर्म्मकर्त्तरि क्त तस्य नः । १ आकुञ्चिते २ ईषद्वक्रे ।

पृष्ठ ०७५९

आभूति स्त्री आ + भू--क्तिन् । व्याप्तौ “आभूतिरेषा भूतिः” ऐ० उ०

आभेरी स्त्री रागिणीभेदे हलायुधः ।

आभोग पु० आ + भुज--आधारे घञ् । परिपूर्णतायां,

यस्य यावदपेक्षितं रूपं तत्पूर्णत्वे हि आभोगा-
धारतेति तस्य तथात्वम् । “अकथितोऽपि ज्ञायत एव
यथायमाभोगस्तपोवनस्येति” शकु० “पर्व्वताभोगवर्ष्माण-
मतिकायं महाबलम्” भा० व० १७८ अ० “कृदभि-
हितो भावो द्रव्यवत् प्रकाशते” इति भाष्योक्तेः आभोग-
वत्पर्वततुल्यदेहमित्यर्थः । “यत्रैव कविनाम स्यात् स
आभोग इतीरितः” इति सङ्गीतदामोदरोक्ते गानसमाप्तौ
(भणिता) ख्याते २ कविनामख्यापने । आभुज्यतेऽनेन करणे
घञ् । ३ यत्ने यत्नादिनैव हि भोगः सम्यग् सम्पद्यते इति
यत्नस्य तथात्वम् । “ना सुखोऽयं नवाभोगोधरणिस्थीहि
राजसः” किरा० “नवाभोगः अभिनवोत्साहः” मल्लि०
सम्यक् भोगः प्रा० स० । ४ सम्यक्सुखाद्यनुभवे “विषया-
भोगेषु नैवादरः” शान्तिलक्ष्म । ५ वरुणस्य छत्रे च मेदि० ।

आभोगय त्रि० आभोगं याति या--क । आपूर्ण्णे “आभोगयं

प्रयदिच्छन्त ऐतनापाकाः प्राञ्चो मम केचिदापयः”
ऋ० १, ११०, २ ।

आभोगि त्रि० आभोगं करोति आभोग + णिच्--इन् । विषया-

भोगकारके “जिह्मश्ये चरितवे मघोन्याभोगय इष्टये”
ऋ० १, ११३, ५ ।

आभोगिन् त्रि० आभोगोऽस्त्यस्य इनि । परिपूर्ण्णे स्त्रियां ङीप्

आभ्यन्तर त्रि० अभ्यन्तरे भवः अण् । मध्यवर्त्तिनि “कच्चि-

दाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशाम्पते!” भा० स० प० ५ अ० ।
“वर्ण्णोच्चारणे, प्रयत्नो द्विधा आभ्यन्तरोबाह्यश्च आद्यश्चतुर्द्धा
स्पृष्टेषत्स्पृष्टविवृतसंवृतभेदात् । तत्र स्पृष्टं प्रयतनं
स्पर्शानाम् । ईषत्स्पृष्टमन्तःस्थानाम् विवृतमूष्मणां स्वराणाञ्च
ह्रस्वस्यावर्णस्य प्रयोगे संवृतं प्रक्रियादशायान्तु विवृतमेव”
सि० को० । “एतेषाञ्चाभ्यन्तरत्वं वर्णोत्पत्तेः प्राग्भावित्वात्
“तथा हि नाभिप्रदेशात् प्रयत्नविशेषप्रेरितः प्राणवायुः
ऊर्द्ध्वमाक्रामन्नुरः प्रभृतीनि स्थानान्याहन्ति ततो वर्णस्य
तद्गभिव्यञ्जकध्वनेर्वोत्पत्तिः तत्रोत्पत्तेः प्राक् जिह्वाग्रो-
पाग्रमध्यमूलानि वर्णोत्पत्तिस्थानं ताल्वादि यदा सन्यक्
स्पृशन्ति तदा स्पृष्टता, ईषत्स्पर्शे ईषत्स्पृष्टता,
समीपावस्थाने संवृतता, दूरावस्थाने विवृतता । अतएव
इचुयशानां तालव्यत्वाविशेषेऽपि चवर्गे उच्चारयितव्ये जिह्वा-
ग्रस्य तालुस्थानेन सम्यक्स्पर्शः, यकारे ईषत्स्पर्शः, शकारे,
समीपेऽवस्थानम् इवर्णे तु दूरेऽवस्थानम्” मत्कृतसरला ।

आभ्यवहारिक त्रि० अभ्यवहाराय हितं ठक् । भोजनयोग्ये

अन्नादौ ।

आभ्यागारिक त्रि० अभ्यागारे तत्स्थकुटुम्बाभरणे व्यापृथः ठक् । कुटुम्बभरणव्यापृते हेम० ।

आभ्यादायिक न० आभिमुख्येनादानमभ्यादानं तत्र नियुक्तः

ठक् । पितृमातृकुलादिप्राप्ते स्त्रीधनभेदे ।

आभ्यासिक त्रि० अभ्यासे निकटे भवः ठक् । १ निकटस्थिते

“अल्पैश्चाभ्यासिकैर्यु क्तं शुशुभे योधरक्षितम्” भा० आ० २७६
अ० । अभ्यासात् पौनःपुन्यात् आगतः ठक् । २ अभ्यास-
प्राप्ते दृढ़संस्कारादौ ।

आभ्युदयिक न० अभ्युदयः प्रयोजनमस्य ठक् । २ वृद्धिनिमित्ते

श्राद्धभेदे तत्र छन्दोगानामाभ्युयिकश्राद्धविधिर्गोभिल-
सूत्रछन्दोगपरिशिष्टयोरुक्तः यथा ।
गोभिलः । “अथाभ्युदयिके श्राद्धे युग्भानाशयेत् ।
प्रदक्षिणमुपचारः ऋजवो दर्भाः यवैस्तिलार्थः सम्पन्न-
मिति तृप्तिप्रश्नः दधिबदराक्षतमिश्राः पिण्डाः नान्दी-
मुखाः पितरः प्रीयन्तामिति दैवे वाचयित्वा नान्दी-
मखेभ्यः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो माता-
महेभ्यः प्रमातामहेभ्यो वृद्धप्रमातामहेभ्यश्च प्रीयन्तां, न
खधाञ्च प्रयुञ्जीत” इति । “आध्युदयिके अभ्युदयनिमि-
त्तके अभ्युदय इष्टलाभः विवाहादिः तदर्थं श्राद्धं
आभ्युदयिकम् । तच्च भूतभविष्यद्भेदेन द्विविधं तत्र भूतं
पुत्रजन्मादि भविष्यद्विवाहादि एवञ्च श्राद्धविवेकादो श्रा-
द्धभेदगणने वृद्धिश्राद्धत्वेन कर्म्माङ्गत्वेन च यदुभयत्व-
मुक्तं तदुभयमेवाभ्युदयिकत्वेनोपपन्नं तेनाभिलापे
आभ्युदयिकश्राद्धमिति प्रयोज्यम् । तत्र यवैस्तिलार्थैत्यनेन
पार्वणश्राद्धप्राप्ततिलस्थाने यवविधानादाभ्युदयिकस्यापि
पार्व्वणप्रकृतिकत्वं प्रतीयते । अन्यथा तिलार्थैत्युपा-
दानं व्यर्थं स्यात् । ततश्च पार्वण्णप्रकृतिकत्वेन पितृपक्षेऽ-
युग्मब्राह्मणप्राप्तौ तन्निरासाय पितृपक्षे ब्राह्मणयुग्मत्वो-
पदेशः । दैवे युग्मत्वस्य पार्व्वणत्वेन प्राप्तत्वान्न तदर्थोपदेशः
“अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणम्” इति याज्ञ-
वल्क्यवचनेन देवकर्म्मानन्तरं पितृकर्म्मकरणे प्राप्तवामो-
पचारनिरासाय प्रदक्षिणमुपचारस्तेन दैवपितृकर्म्मकर-
णाय दक्षिणावर्त्तेन गन्तव्यम् । द्विगुणभुग्नत्वनिरासाय
ऋजवोदर्भा इति ऋजुत्वोपदेशः । तृप्ताः स्थ इत्यनेन
तृप्तिप्रश्ने सम्पन्नमिति प्रष्टव्यं योग्यत्वात् सम्पन्नमिति
प्राप्ते वक्ष्यमाणच्छन्दोगपरिशिष्टवचनाच्च सुसम्प्रन्नमित्यु-
पृष्ठ ०७६०
त्तरम् । एतद्दर्भमयब्राह्मपक्षेऽप्यबावितत्वाद्वाच्यम् ।
दधिबदराक्षतमिश्राइत्यनेन दध्यादिमिश्रणमावश्यकम् । अक्षतो-
यवः “अक्षताश्च यवाः प्रोक्ता भृष्टा धाना भवन्ति ते” इति
भट्टनारायणधृतकोषात् अतएव वक्ष्यमाणच्छन्दोगपरिशिष्ट-
वचनेऽक्षतमनुक्त्वा “संयोज्य यवकर्कन्धूदधिभिरिति”
निःसन्दिग्धमुक्तम् । स्वधावाचनप्रश्ननिवृत्तये नान्दीमुखाः
पितरः प्रीयन्तामित्युपदेशः । तत्र स्वधां वाचयिष्य इति
पितृपक्षएवप्रश्नः । अतएवतन्निवृत्तये दैव इति । देवपक्षे
नान्दीमुखाः पितरः प्रीयन्तामिति प्रश्नः । उत्तरञ्च
प्रीयन्तामिति । ततः पितृपक्षे स्वधावाचनस्थानीयत्वेन
वृद्धप्रमातामहे यश्चेति चकारनिर्द्देशेन च स्वधोच्यतामि-
तिवत् प्रत्येकमेव प्रीयन्तामिति पृच्छेत् । प्रत्युत्तरञ्च
अस्तु स्वधेति वत् तन्तेणैव प्रीयन्तामिति । अत्र नान्दी-
मुखाः पितरैत्यादि नान्दीमुखेभ्यः पितृभ्यः इति
निर्देशेन च “नान्दीमुखं पितृगणमिति” विष्णुपुराणेन च
“मातामहेभ्यश्च तथा नान्दीमुखेभ्य एव चेति” ब्रह्मपुराणे
च नान्दीमुखपदश्रुतेस्तद्विशेषणविशिष्टस्यैवाभ्युदयिके
देवत्वात्वं ततश्चात्रापि प्रीयन्तामितिवन्नान्दीमुखेभ्यः प्रपिता-
महेभ्य इत्यादि वाच्यम्” श्रा० त० रघु० । छन्दोग० “कर्मा-
दिषु तु सर्वेषु मातरः सगणाधिपाः । पूजनीयाः प्रयत्नेन
पूजिताः पूजयन्ति ताः । प्रतिमासु च शुभ्रासु लिखिता
वा पटादिषु । अपि वाक्षतपुञ्जेषु नैवेद्यैश्च पृथग्विधैः ।
कुड्यलग्नां वसोर्धारां सप्त वारान् घृतेन तु । कारयत्
पञ्च वारान् वा नातिनीचां नचोच्छ्रितम । आयुष्मा-
निति शान्त्यर्थं जत्वा तत्र समाहितः । षड्भ्यः पितृ-
भ्यस्तदनु श्राद्धदानमुपक्रमेत् । वशिष्ठोक्तकिधिः कृत्स्नो-
द्रष्टव्योऽत्र निरामिषः । अतःपरं प्रवक्ष्यामि विशेष
इह यो भवेत् । प्रातरामन्त्यितान् विप्रान् युग्मानुभय-
तस्तथा । उपवेश्य कुशान्दद्यात् ऋजूनेव हि पाणिना”
तथा “निपातोन हि सव्यस्य जानुनो विद्यते क्वचित् ।
सदा परिचरेद्भक्त्या पितृनप्यत्र दैववत् । पितृभ्य इति
दत्तेषु उपवेश्य कुशेषु तान् । गोत्रनामभिरामन्त्र्य पितॄ-
नर्घ्यं प्रदापयेत् । नात्रापसव्यकरणं न पित्र्यं तीर्थमि-
ष्यते । पात्राणां पूरणादीनि दैवेनैव तु कारयेत् ।
ज्येष्ठोत्तरकरान् युग्मान् कराग्राग्रप्रवित्रकान् । कृत्वार्घ्यं
सम्प्रदातव्यं नैकैकस्यात्र दीयते । मधुमध्विति यस्तत्र
त्रिर्जपोऽशितुमिच्छनाम् । गायत्र्यनन्तरं सोऽत्र मधुमन्त्र-
विवर्ज्जितः । नचाश्नत्सु जपेदत्र कदाचित् पितृसंहि-
ताम् । अन्यएव जपः कार्य्यः सोमसामादिकः शुभः ।
प्रकारोऽन्नस्य यस्तत्र तिलवद्यववत्तथा । उच्छिष्टसन्निधौ
सोऽत्र तृप्तेषु विपरीतकः । सम्पन्नमिति तृप्ताः स्मः
प्रश्नस्यानु विधीयते । सुसम्पन्नमितिप्रोक्ते शेवमन्नं निवे-
दयेत् । प्रागग्रेष्वथ दर्भेषु आद्यमामन्त्र्य पूर्ववत् । अपः
क्षिपेन्मूलदेशेऽवनेनिक्ष्वेति निस्तिलाः । द्वितोयञ्च तृती-
यञ्च मध्यदेशाग्रदेशयोः । मातामहप्रभृतींस्तु एतेषामेव
वामतः । सर्वस्मादन्नमुद्धृत्य व्यञ्जनैरुपसिच्य च । संयोज्य
यवकर्कन्धूदधिभिः प्राङ्मुस्वस्थितः । अवनेजनवत् पिण्डान्
दत्त्वा विल्वप्रमाणकान् । तत्पात्रक्षालनेनाथ पुनरप्यव-
नेजयेत् । उत्तरोत्तरदानेन पिण्डानामुत्तरोत्तरम् ।
भवेदधश्चाधरणामधोऽधः श्राद्धकर्म्मसु । तस्मात् श्राद्धेषु सर्वेषु
वृद्धिमत्स्वितरेषु च । मूलमध्याग्रदेशेषु ईषत्सक्तांश्च
निर्वपेत् । गन्धादीन्निः क्षिपेत् तूष्णीं तत आचामयेत् द्विजान् ।
अन्यत्राप्येषएव स्यात् यवादिरहितो विधिः । दक्षिणा-
प्लवने देशे दक्षिणाभिमुखस्य तु । दक्षिणाग्रेषु दर्भेषु
एषोऽन्यत्र विधिः स्मृतः । अथाग्रभूमिमासिञ्चेत् सुसुप्रोक्षि-
तमस्त्विति । शिवा आपः सन्त्विति च युग्मानेवोदकेन च ।
सौमनस्यमस्त्विति च पुष्पदानमनन्तरम् । अक्षतञ्चा-
रिष्टञ्चास्त्वित्यक्षतानपि दापयेत् । अक्षय्योदकदानन्तु
अर्घ्यदानवदिष्यते । षष्ठ्यैव नित्यं तत् कुर्य्यान्न चतुर्थ्या
कदाचन । प्रार्थनासु प्रतिप्रोक्ते सर्वास्वेव द्विजोत्तमैः ।
पवित्रान्तर्हितान् पिण्डान् सिञ्चेदुत्तानपात्रकृत् । युग्मा-
नेव स्वस्तिवाच्यानङ्गुष्ठग्रहणं सदा । कृत्वा धूर्य्यस्य
विप्रस्य प्रणम्यानुव्रजेत्ततः” ।
अत्र षड्भ्य इति कीर्त्तनं छन्दोगानां मातृपक्षनिरासार्थम्
अन्यवेदिनां तु मातृपक्षाधिक्यमत्रास्ति “मातृश्राद्धं
तु पूर्ब्बं स्यात् पितॄणां तदनन्तरम् । ततो मातामहानाञ्च
वृद्धौ वृद्धौ भवेत् तथा” श्रा० त० शातातपोक्तेः
कुत्र कुत्राभ्युदयिकं कर्त्तव्यं तद्दर्शितं नि० सि०
ब्राह्मे “जन्मन्यथोपनयने विवाहे पुत्रकस्य च । पितॄ-
न्नान्दीमुखान्नाम तर्पयेद्विधिपूर्ब्बकम् । वेदव्रतेषु चाधान
यज्ञपुंसवनेषु च । नबान्नभोजने स्नाने ऊढायाः प्रथमार्तवे ।
देवारामतडागादिप्रतिष्ठासूत्सवेषुच । राजाभिषेके बाला-
न्नभोजने वृद्धिसंज्ञकान् । वनस्थाद्याश्रमं गच्छन् पूर्ब्बेद्युःस्व-
धया पितृन् । पूर्बोक्तविधिना सम्यक् तर्पयेत् कर्मसिद्धये” ।
विष्णुपुराणे “यज्ञोद्वाहप्रतिष्ठासु मेखलाबन्धमोक्षयोः ।
पुत्रजन्मवृषोत्सर्गे वृद्धिश्राद्धं समाचरेत्” बह्वृचकारिका-
पृष्ठ ०७६१
याम् “स्यादाभ्युदयिकं श्राद्धं वृद्धियुक्तेषु कर्मसु । पुंसवन-
सीमन्तचौलोपनयनेष्विह । विवाहे चानलाधेयप्रभृतिश्रौत-
कर्मणि । इदं श्राद्धं प्रकुर्वन्ति द्विजा वृद्धिनिमित्तकम् ।
अन्यैः षोड़शसंस्कारसरण्यादिष्वपीष्यते । वाप्याद्यु द्याप-
नादौ तु कुर्युः पूर्त्तनिमित्तकम्” वोपदेवकालादर्शौ “सोम-
न्तव्रतचौलनामकरणान्नप्राशनोपायनस्नानाथानविवाहयज्ञ-
तनयोत्पत्तिप्रतिष्ठासु च । पुंसूत्यावसथप्रवेशनसुताद्यास्या-
वलोकाश्रमस्वीकारक्षितिपाभिषेकदयिताद्यर्त्तौ च नान्दी-
मुखम्” श्राद्धकौमुद्यां निर्णयामृते च मात्स्ये “अन्नप्राशे
च सोमन्ते पुत्रोत्पत्तिनिमित्तके । पुं सवे च निषेके च
नववेश्मप्रवेशने । देववृक्षजलादीनां प्रतिष्ठायां विशेषतः ।
तीर्थयात्रावृषोत्सर्गे वृद्धिश्राद्धं प्रकीर्त्तितम् । तत्र गर्भाधाने
आभ्युदयिकं छन्दोगेतरपरं यथोक्तं श्राद्धतत्त्वे
छन्दो० प० । वृषोत्सर्गे वृद्धिश्राद्धं काम्य विषयम् ।
अशौचान्तद्वितीयदिनादिविहिते न वृद्धिश्राद्धमिति
भेदः । “असकृद्यानि कर्म्माणि क्रियेरन् कर्म्मका-
रिणा । प्रतिप्रयीगं नैव स्युर्म्मातरः श्राद्धमेव च । आधाने
होमयज्ञे च वैश्वदेवे तथैवच । बलिकर्म्मणि दर्शे च पौर्ण-
मासे तथैव च । नवयज्ञे च यज्ञज्ञा वदन्त्येवं मनीषिणः ।
एकमेव भवेत् श्राद्धमेतेषु न पृथक् पृथक् । नाष्टकासु
भवेत् श्राद्धं न श्राद्धे श्राद्धमिष्पते । न सोष्यन्तीजात-
कर्म्म प्रोषितागतकर्म्मसु । विवाहादिः कर्म्मगणो य उक्तो
गर्भाधानं शुश्रम यस्य चान्ते । विवाहादावेकमेवात्र
कुर्य्यात् श्राद्धं नादौ कर्म्मणः कर्म्मणः स्यात् । तथागणशः
क्रियसाणेषु मातृभ्यः पूजनं सकृत् । सकृदेव भवेत् श्राद्ध-
मादौ न पृथगादिषु । यत्र यत्र भवेत् श्राद्धं तत्र तत्रैव
मातरः” । इदं चावश्यकम् । “वृद्धौ न तर्पिताये वै
पितरो गृहमेधिभिः । तद्धीनमफलं ज्ञेयमासुरोविधिरेव
स” इति शातातपोक्तेः । “अष्टकामास्याभ्युदयास्तीर्थ
पात्रोपपत्तयः । पितॄणामतिरेकोऽयं मासिकान्नात्ध्रुवः
स्मृत इति देवी० पु० उक्तेश्च ध्रुव आवश्यक इति श्रा० त०
रधु० । अत्र श्राद्धत्रयमाह शाता० । “मातृश्राद्धं तु पूर्ब्बं
स्यात् पितॄणां तदनन्तरम् ततो मातामहानाञ्च वृद्धौ श्राद्ध-
त्रयं स्मृतम्” तत्कालमाह पृथ्वीचन्द्रोदये गार्ग्यः “मातृ-
श्राद्धं तु पूर्वेद्युः कर्माहनि तु पैतृकम् । मातामहं
चोत्तरेद्युर्वृद्धौ श्राद्धत्रयं स्मृतम्” । अत्राप्यशक्तौ स एव
“पृथक्दिनेष्वशक्तश्चेदेकस्मिन् पूर्ववासरे । श्राद्धत्रय
प्रकुर्व्वीत वैश्वदेवं तु तान्त्रिकमिति” वृद्धमनुरपि “अला-
भेऽभिन्नकालानां नान्दीश्राद्ध्वत्रयं बुधः पूर्वेद्युर्वै प्रकु
र्व्वीत पूर्वाह्णे मातृपूर्वकम्” अत्र “महत्सु पूर्वेद्युस्तद-
हरल्पेष्विति” गृह्यपरिशिष्टव्यवस्था ज्ञेया । कर्म्मदिवस एवेति
गौडाचारः । तच्च प्रातरेव । “पार्वणञ्चापरह्णे तु
प्रातर्वृद्धिनिमित्तकमिति” निर्ण्ण० सि० शातातपोक्तेः ।
अत्र प्रातःशब्दः सार्द्ध्यहरपरः “प्रहरोऽप्यर्धसंयुक्तः
प्रातरित्यभिधीत इति” गार्ग्योक्तेरिति पृथ्वीचन्द्रोदयः ।
“आवर्त्तनसमीपे वेवा, इक्तेः मध्याह्नावधिरिति” गौडाः ।
इदं च पुत्रजन्मातिरिक्तविषयम् तदाहात्रिः “पूर्व्वाह्णे
वैश्ववद्वृद्धिर्विना जन्मनिमित्तकम् । पुत्रजन्मनि कुर्वीतश्राद्धं
तात्कालिकं बुध इति” एतदनियतनिमित्तपरम् “निय-
तेषु निमित्तेषु प्रातर्वृद्धिनिमित्तकम् । तेषामनियतत्वे
तु तदानन्तर्यमिष्यत” इति लोगाक्षिस्मृतेः । आधानाङ्गं
नान्दीश्राद्धं त्वपराह्णे एव “आमश्राद्धं तु पूर्व्वाह्णे
सिद्धान्नेन तु मध्यतः । पार्वणं चापराह्णे तु वृद्धिश्राद्धं
तथाग्निकमिति” निर्णयामृते गालवोक्तेः “नान्दीमुखा-
दयः प्रातराग्निकं त्वपराह्णत” इति विष्णूक्तेश्च ।
इदं च मातृपितृमातामहादिक्रमेण छन्दोगेतरैः
नवदैवत्यं कार्य्यम् तत्र मातामहादयस्तु सपत्नीकाः
“मातामहप्रमातामहवृद्धप्रमातामहानां सपत्नीकानामिति”
पृथ्वीचन्द्रोदये गद्यरूपेण गारुड़वाक्यात् । हेमाद्रौ शङ्खः
“नान्दीमुखे सत्यवसू संकीर्त्यौ वैश्वदेविके” । वृद्धपराशरः
“नान्दीखेभ्योदेवेम्यः प्रदक्षिणकुशासनम् । पितृभ्यस्त-
न्मुखेभ्यश्च प्रदक्षिणमिति स्मृतिः” । श्राद्धे मालादान
निषेधेऽपि वृद्धौ मालाविशेषदानं विहितम् । “मालत्याः
शतपत्राया मल्लिकाकुब्जयोरपि । केतक्याः पाठलाया वा
देया माला न लोहिता” कू० पु० उक्तेः । “कुशस्थाने च
दूर्वाःस्युर्मङ्गलस्याभिवृद्धय” इति हेमा० ब्रह्मा० पु०
“ऋजवोदर्भा इति प्रागुक्तं वाक्यं तु छन्दोगविषयम् ।
अत्राधिकारी निरूप्यते । “जातस्य जातकर्माणि क्रिया-
काण्डमशेषतः । पिता पुत्रस्य कुर्व्वीत श्राद्धं चाभ्युदया-
त्मकम्” विष्णु० पु० । “स्वपितृभ्यः पिता दद्यात् सुतसं-
स्कारकर्मसु । पिण्डानोद्वहनात् तेषां तदभावेऽपि
तत्क्रमात्” छन्दोग० । “जीवत्पितृकस्याप्यत्राधिकारः ।
अनग्निकोऽपि कुव्वींत जन्मादौ वृद्धिकर्मणि । येभ्य एव
पिता दद्यात् तानेवोद्दिश्य तर्पयेदिति” हारीतोक्तेः “उद्वाहे
पुत्रजनने पुत्रेष्ट्यां सौमिके मखे । तीर्थे ब्राह्मण आयाते
षडेते जीवतः पितुः । मैत्रायणपरिशिष्टम् “जीवतः जीवन्तं
पृष्ठ ०७६२
पितरममादृत्य उल्लङ्घ्येत्यर्थः । प्रथमविवाहे एव पितुरधि-
कारः द्वितीये तु स्वस्यैवेति भेदः । “नान्दीश्राद्धं पिता कुर्य्यात्
आद्ये पाणिग्रहे बुध! । अत ऊर्द्धं प्रकुर्व्वीत स्वयमेव तु
नान्दिकम्” नि० सि० धृतस्मृतेः । छन्दोग० वाक्ये तदभावे
तस्य पितुरभावे तत्क्रमात् “असंस्कृतास्तु संस्कार्य्या भ्रातृभिः
पूर्व्वसंस्कृतैरिति” या० यः कर्त्तृक्रमः तेन क्रमेण ज्येष्ठभ्राता-
दद्यात् इति पृथ्वीचन्द्रोदयः । हेमाद्रिस्तु पितुरभावे यः
पितृव्यमातुलादिः संस्कुर्य्यात् स तत्क्रमात् संस्कार्य्य
पितृक्रमात् न तु स्वपितृभ्य इति व्याचख्यौ । तेन
अमुकस्येति संस्कार्य्यनामाभिधाय पितुरिति प्रयोज्यमेव
मेव रघुनन्दनादयः । “वृद्धौ तीर्थे च संन्यस्ते ताते च
पतिते सति । येभ्य एव पिता दद्यात् तेभ्यो दद्यात् स्वयं
सुतः । कात्या० स्मृतेः जीवत्पितृकस्य तीर्थादौ विशेषः
पितरि संन्यस्ते प्रोषिते पतिते वा यदाऽन्यस्तत्पुत्रं धर्म्म-
बुद्ध्या संस्कुर्य्यात् तदा संस्कार्य्यपितुः पित्रादिभ्यो दद्यात्
न संस्कार्य्यपित्रादिभ्यः निर्ण्ण० सि० । एवं जीवन्मा-
तृकेणापि मातरमतिक्रम्य पितामह्यादीनां तिसृणाम्
श्राद्धं छन्दोगेतरेण करणीयमिति “योयो जीवति
तमति दद्यादिति” स्मृतौ पुंस्त्वस्याविवक्षितत्वात् ।
पित्रादित्रिकस्य जीवने तु तद्वर्गश्राद्धनिवृत्तिः किन्तु
जीवद्भिरेव तैः तच्छाद्धं भोज्यं “पितामहो वा तत्श्राद्धं स्वयं
भुञ्जीतेति” मनुवचनात् । एवं सात्रादित्रयेऽपि बोध्यम् तेन
जीवद्वर्गपरित्यागेनेतरवर्गश्राद्धं करणीयम् “यदि जीवति
वर्गस्तु तं वगं तु परित्यजेत्” नि० सि० वचनात् ।

आभ्रिक त्रि० अभ्र्या खनतिं ठक् । काष्ठकुद्दालेन खनके ।

आभ्र्य त्रि० अभ्रे आकाशे भवः कुर्व्वा० ण्य । आकाशभवे ।

आम् अव्य० अम--गत्यादिषु णिच्--वा अह्रस्वः क्विप् ।

१ अङ्गीकारे २ निश्चये ज्ञाने ३ स्मृतौ ४ प्रतिवचने च ।

आम पु० । आम्यतेईषत्पच्यते आ + अम--कर्म्मणि घञ् । १

ईषत्पक्वे असिद्धे २ पाकरहिते । अम--करणेघञ् । २ रोगमात्रे ।
वैद्यकोक्तेषट्विधे अजीर्णे ३ रोगभेदे च आमाटोपा-
पचीश्लेप्मगुल्मकृमिविकारिणाम्” सुश्रु० । तल्लक्षणादि
यथा निदा० “आहारस्य रसः सारः योन पक्वोऽग्नि-
लाघवात् । आमसंज्ञां स लभते बहुव्याधिसमा-
श्रयः । आममन्नरसं केचित् केचित्तु मलसञ्चयम् । प्रथम
दोषदुष्टिं वा वदन्ति बहुपिच्छिलाम् । सादनं
सर्व्वगात्राणामाममित्यभिशब्दितम्” “तेनामेन सदा
युक्ता दोषा दुष्याश्च तादृशाः । तदुद्भवा आमयाश्च
सामा इति बुधैः स्मृताः” तेनास्य क्लीवत्वपपि ।
आमस्य निदानस्वरूपभेदादि निदाने उक्तम् “आमं
विदग्धं विष्टब्धं तथा पित्तानिलैस्त्रिभिः । अजीर्ण्णं केचि-
दिच्छन्ति चतुर्थं रसशेषतः । अजीर्ण्णं पञ्चमं केचिन्नि-
र्द्दोषं दिनपाकि च । वदन्ति षष्ठं चाजीर्ण्णं प्राकृतं
प्रतिवासरम् । तत्रामे गुरुतोत्क्लेदः शोथो गण्डाक्षिकूटकः ।
उद्गारश्च यथाभुक्तमविदग्धं प्रवर्त्तते” । तस्य चामना-
मत्वे कारणमप्युक्तम् तत्रैव । “भुक्तमन्नावशेषं यत् रसभूतन्त्व
पाचितम् । गतमामाशये यस्मात्तस्मादामं प्रचक्षते इति ।”
अधिकमामाशयशब्दे वक्ष्यते ।
अपाकरूपामात् तृष्णाधिक्यं जायते तदुक्तम् सुश्रु० ।
“तिस्रः स्मृतास्ताः क्षतजा चतुर्थीं क्षयात्तथान्याम-
समुद्भवा” च इत्यादिना सप्तविधास्तृष्णाविभज्य “त्रिदो-
षलिङ्गामसमुद्रवा च हृच्छूलनिष्ठोवनसादयुक्ताः । स्निग्धं
तथाम्लं लवणञ्च भुक्तं गुर्वन्नमेवातितृषी-
करोति” आमस्यातिसाररोगादिहेतुत्वं सुश्रुते उक्तम्
आमाजीर्ण्णैः प्रद्रुताः क्षोभयन्तः कोष्ठं दोषाः
संप्रदुष्टाः सभक्तम् । नानावर्ण्णं नैकशः सारयन्ति
कृच्छ्राज्जन्तोः षष्ठमेनं वदन्ति । संसृष्टमेभिर्दोषैस्तु
मलमप्स्ववसीदति । पुरीषं भृशदुर्गन्धं पिच्छिलं चामसंज्ञि-
तम्” इति आमातिसारंलक्षयित्वा । अतः सर्वातिसारास्तु
ज्ञेयाः पक्वामलक्षणैः तत्र लङ्घनमेवादौ पूर्व्वरूपेषु
देहिनाम्ः” । तत्र लङ्घनस्य कर्त्तव्यतामुक्त्वा अनेन विधिना
चामं यस्य नैवोपशाम्यति । हरिद्रादिं वचादिं वा
पिबेत् प्रातः स मानवः । आमातिसारिणां कार्य्यं नादौ
संग्रहणं नृणा” मित्यनेन विशेष उक्तः तेन ४ अतिसारभेदे
“शस्यं क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते । आमं वितुं
षमित्युक्तम् स्विन्नमन्नमुदाहृतमिति” स्मृतिपरिभाषिते
अपक्वे ५ सतुषेऽन्ने च । “आमं शूद्रस्य पक्वान्नं पक्वमुच्छिष्ट-
मुच्यते” स्मृतिः । आपद्यनग्नौ तीर्थे च चन्द्रसूर्य्यग्रहे
तथा “आमश्राद्धं द्विजैः कार्य्यं शूद्रेण तु स दैव तु”
प्रचे० पाकश्च अग्निसंयोगात् कालवशात् वा वस्तुपरि-
णामविशेषः तत्रान्नादीनामामत्वमग्निविशेषसंयोगाभावात् ।
यथा आमान्नघटादेः । यद्यत् फलादि यद्यत्काले पच्यते
तत्कालात् प्राक् तस्य पाकाभावे आमत्वम् यथाम्रादेः ।
तथा व्रणादेरपि परिपाकाभावे आमत्वम् कालिकम् । यथा
“आमं विपच्यमानं च सम्यक् पक्वं च योभिषक्” व्रणपा-
काभावे” सुश्रुतः ।
पृष्ठ ०७६३

आमगन्धि त्रि० आमस्यापक्वस्य गन्धैव गन्धो यत्र इत्

समा० । अपक्वमांसादितुल्यगन्धाढ्ये । क्लीवमित्येके ।

आमज्वर पु० आमोऽपक्वः ज्वरः । अपक्वज्वरे नवज्वरे

“स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति” माघः ।

आमनस्य न० अप्रशस्तं मनो यस्य तस्य भावः ष्यञ् । दुःखे ।

आमन्त्र पु० आमादजीर्ण्णात् त्रायते स्वफलतैलेन मलनिस्सा-

रणात् त्रै--क पृषो० । १ एरण्डवृक्षे राजनि० आमण्ड इति
वा पाठः । तत्फलतैलपाने हि अजीर्ण्णमलनिस्मारणा-
त्तथात्वम् आ + मन्त्र--अच् । २ आमन्त्रणशब्दार्थे च ।

आमन्त्रण न० आ + मन्त्र--ल्युट् । १ अभिनन्दने, २ संबोधने,

३ कामचारानुज्ञारूपे क्रियाभेदेषु प्रवर्त्तनव्यापारे च ।
“विधिनिमन्त्रणामन्त्रणेत्यादि” पा० । अवश्यकर्त्तव्ये
नियोगो निमन्त्रणं यथा श्राद्धादिभोजने । यस्याकरणे प्रत्य-
वायोनास्ति तादृशव्यापारे, नियोजनमामन्त्रणम् यथा स्थल-
विशेषे शयनायामन्त्रणम् । नवपत्रिकाप्रवेशपूर्व्व दिवसे सायं
विल्वतरोःसंबोधनरूपे ४ व्यापारे च युच् आमन्त्रणाप्यत्र स्त्री

आमन्त्रित त्रि० आ + मन्त्र--क्त । १ अनावश्यके कर्मणि

नियोजिते २ व्याकरणपरिभाषितायां सम्बोधनार्थकप्रथमा-
विभक्तौ न० “सामन्त्रितम्” पा० “सम्वोधने या प्रथमा
सामन्त्रितसंज्ञा स्यात्” सि० कौ । “आमन्त्रितं पूर्ब्बमविद्य-
मानवत्” नामन्त्रिते समानाधिकरणे सामान्यवचनम्” पा० ।
३ निमन्त्रिते त्रि० “प्रातरामन्त्रितान् विप्रान्” छन्दोग० ।

आमन्त्र्य अव्य० आ + मन्त्र--ल्यप् । १ सम्बोध्येत्यर्थे ।

“आद्यमामन्त्र्य पूर्ब्बवत्” छन्दोग० आ + मन्त्र--कर्म्मणि
यत् । २ संबोधनीये आवश्यककार्य्ये ३ नियोज्येच त्रि० ।

आमन्द पु० आमं रोगं द्यति दो--ड बा० मुम् । वासुदेवे ।

आमन्दा स्त्री आमन्दमीषन्मन्दं करोति आमन्द + णिच्--अच् ।

खद्वाभेदे (नेआरेरखाट) शब्दचि० ।

आमन्द्र पु० ईषन्मन्द्रः प्रा० स० । १ ईषद्गम्भीरशब्दे

“आमन्द्रमन्थध्वनिदत्ततालम्” भट्टिः । २ तंद्युक्ते त्रि० ।

आमपाक पु० आमस्य अजीर्ण्ण विशेषस्य पाकः । वैद्यकोक्ते

शोफरोगाद्यङ्गे आमस्य पाकभेदे । तद्विरणमुक्तं सुश्रुते यथा
“स यदा बाह्याभ्यन्तरैः क्रियाविशेषैर्न सम्भावितः प्रशम-
यितुं क्रियाविपर्य्ययाद्बहुत्वाद्वा दोषाणां, तदा पाकाभि-
सुखो भवति । तस्यामस्य पच्यमानस्य पक्वस्य च लक्षण-
मुच्यमानमवधारय । तत्र मन्दोष्मता त्वक्सवर्ण्णता
शीतशोफता स्थैर्य्यं मन्दवेगताल्पशोफता चामलक्षणमुद्दिष्टम् ।
सूचिभिरिव निस्तुद्यते, दश्यत इव पिपीलिकाभिः, ताभिश्च
संसृप्यत इव, छिद्यतैव शस्त्रेण, भिद्यत इव शक्तिभिः,
ताड्यत इव दण्डेन, पीड्यत इव पाणिना, घट्ट्यत इव चाङ्गुल्या,
दह्यत इव पच्यत इव चाग्निक्षाराभ्यामोषचोषपरीदाहाश्च
भवन्ति वृश्चिकविद्ध इव च स्थानासनशयनेषु न शान्तिमु-
पैति आध्मातवस्तिरिव । अतश्च शोफो भवति त्वग्वैवर्ण्यं
शोफाभिवृद्धिर्ज्वरदाहपिपासा भक्तारुचिश्च पच्यमानलि-
ङ्गम् । वेदनोपशान्तिः पाण्डुताल्पशोफता बलीप्रादु-
र्भावस्त्वक्परिपुटनं निम्नदर्शनमङ्गुल्यावपीड़िते प्रत्युन्नमनं
वस्ताविवोदकसञ्चरणं पूयस्य प्रपीडयत्ये कमन्तमन्ते
चावपीड़िते मुहुर्मुहुस्तोदः कण्डूरनुन्नतता च व्याधेरु-
पद्रवशान्तिर्भक्ताभिकाङ्क्षा च पक्वलिङ्गम् । कफजेषु तु
रोगेषु गम्भीरगतित्वादभिघातजेषु वा केषुचिदसमस्तं
पक्वलक्षणं दृष्ट्वा पक्वमपक्वमिति मन्यमानो भिषग्मोह-
मुपैति यत्र हि त्वक्सवर्णता शीतशोफता स्थौल्यमल्प-
रुजताश्मवद्घनता न तत्र मोहमुपेयादिति । भवन्ति
चात्र । आमं विपच्यमानञ्च सम्यक् पक्वञ्च यो भिषक् ।
जानीयात् स भवेद्वैद्यः शेषास्तस्करवृत्तयः । वातादृते
नास्ति रुजा, न पाकः पित्तादृते, नास्ति कफाच्च पूयः, ।
तस्मात्समस्ताः परिपाककाले पचन्ति शोफांस्त्रय एव
दोषाः” ।

आमपात्र न० कर्म्म० । अपक्वे पात्रे (काँचा) मृण्मयपात्रे

“विनाशं व्रजति क्षिप्रमामपात्रमिवाम्भसि” मनुः ।

आमय पु० आमं रोगं यात्यनेन या--करणे घञर्थे क आ + मीञ्

हिंसायां करणे अच् वा । रोगे आमशब्दे तन्निरुक्ति-
र्दृश्या “आमयस्त्वति रागसम्भवः” रघुः “तद्युक्तं विविधैर्योगै-
र्निहन्यादामयान् बहून्” सुश्रुतः । अनामयः निरामयः ।
“समौ हि शिष्टैराम्नातौ वत्र्स्यन्तावामयः स च” मावः ।

आमयाविन् आमयोऽस्त्यस्य विनि दीर्घश्च । रोगयुक्ते ।

“क्षय्यामयाव्यपस्मारिश्वित्रिकुष्ठिकुलानि च” “अन्नहर्त्ताऽऽ
मयावित्वम्” इति च मनुः ।

आमरक्त न० आममपक्वं रक्तम् । रोगभेदे रक्तातिसारे आमशब्दे विवृतिः ।

आमरणान्तिक त्रि० आमरणान्तं मरणरूपसीमापर्य्यन्तं

व्याप्नोति ठञ् । मरणकालपर्य्यन्तव्यापके “अन्योन्य-
स्याव्यभिचारो मवेदामरणान्तिकः” मनुः ।

आमर्द पु० आ + मृद--घञ् । वलात् निष्पीड़ने । “आमर्द-

काले राजेन्द्र! व्यपसर्पेत्ततः परम्” भा० आश्र० प० १ अ० ।
“अर्द्धपीतस्तनं मातुरामर्द्दक्लिष्टकेशरम्” शकु० भावे ल्युट् ।
आमर्द्दनमप्यत्र न० ।
पृष्ठ ०७६४

आमर्द्दिन् त्रि० आ + मृद--णिनि । बलान्निष्पीड़के ।

आमर्श पु० आ + मृश--स्पर्शे घञ् । सम्यक्स्पर्शे । ल्युट् ।

आमर्शनमप्यत्र न० ।

आमर्ष पु० न + मृष--घञ् “अन्येषामपि” पा० दीर्घः ।

१ कोपे असहने । “निरुद्योगं निरामर्षं निर्वीर्य्यमरि-
नन्दनम्” नोतिसा० आ + मृष--घञ् । २ सम्यग्विवेके च ।

आमलक त्रि० आ + मल--क्कुन् स्त्रीत्वे गौरा० ङीष् ।

(आमला) १ धात्रीवृक्षे । “त्रिष्वामलकमाख्यातं धात्री तिष्यफ
लाऽमृता । रक्तपित्तप्रमेहघ्नं पथ्यं वृष्यं रसायनम् । हन्ति
वातं तदम्लत्वात् पित्तं माधुर्य्यशैत्यतः । कफं रूक्षकषायत्वात्
फलं धात्र्यास्त्रिदोषजित् । यस्य यस्य फलस्येह वीर्य्यं
भवति यादृशम् । तस्य तस्यैव वीर्य्येण मज्जानमपि
निर्दिशेत्” भावप्रका० अस्य स्त्रीत्वपक्षेऽपि तस्याः इदम्
फलमण् फले लुकि क्लीवत्वमेवेति भेदः । “यः सदाम-
लकैः स्नानं करोति स विनिश्चितम् । बलीपलितनिर्मुक्तोः
जीवेद्वर्षशतं नरः” वैद्य० “श्रीकामः सर्व्वदा स्नानं कुर्व्वीताम
लकैर्नरः” गरुड़ पु० । गौरादिगणे आमलशब्दपाठात्
आमलशब्दोऽप्यत्र स्त्रीत्वे गौरा० ङीष् आमली । वृहद्ध०
पुराणे तु अमलात् कात् नेत्रजलादागतम् अण् ङीप् ।
इत्यभिप्रायेण निरुक्यन्तरम् दर्शितं यथा “सजये!
विजये! देवि! नावेव स्मृतयोस्तदा । नयनेषु च जातानि
अमलाश्रुजलानि च । तानि नौ नयनेभ्यश्च निपेतु-
र्भुवि हे सखि! । ततो जाताद्रुमाः पृथ्व्यां चत्वारोविम-
लप्रभाः । ख्याता आमलकी नाम्ना जाता कादम
लाद्यतः । श्यामलच्छदवृन्दास्ते कर्व्वूर--स्कन्धमू-
लकाः । शिराग्रथितपत्रालीमालाकलितपत्रकाः” “माघे-
मासि सितायां तामेकादश्यां समुद्भवाम् दृष्ट्वाह्यागत्य देवोऽत्र-
दधारानन्दयुक्तनुम् । तेन धात्रीति नाम्नापि राजत्या-
मलकी पुनः” इति च “सर्वदामलकी ग्राह्या परित्यज्य-
रवेर्दिनम्” । “पयोधरैरामलकीवनाश्रिताः” माघः ।
“विल्यपत्रं चमाघ्यञ्च तमालामलकीदलम् । कह्लारं
तुलसी चैव पद्मञ्च मुनिपुष्पकम् । एतत् पर्य्युषितं न स्यात्
यच्चान्यत् कलिकात्मकम्” योगि० त० । “न धात्रीकाननं
यत्र विष्णोस्तु तुलसीवनम् । तंस्लेच्छदेशं जानीयात्
यत्र नो याति वैष्णवः । यत्र मातृपरा मर्त्त्या यत्र
द्वादशीकृन्नरः । तुलसीकाननं धात्री तत्र विष्णुः
श्रिया सह । दूर्व्वा हरति पापानि धात्री हरति
पातकम्” आह्नि० त० स्कन्द पु० ।

आमवात पु० आमोऽपकहेतुः वातः । भा० प्र० उक्ते वात

व्याधिभेदे तल्लक्षणाद्युक्तं तत्रैव “युगपत्कुपितावेतौ त्रिक
सन्धिप्रवेशकौ । स्तब्धञ्च कुरुतो गात्रमामवातः स उच्यते”
(एतौ वातश्लेष्माणौ) तस्य लक्षणमुक्त निदा० । “अङ्गमर्द्दोऽ-
रुचिस्तृष्णा ऽस्वातन्त्र्यं गोरवं ज्वरः । अपचीशूलजङ्गा-
लमामवातः स उच्यते” । तत्र निदानादि यथा “विरुद्धा-
हारवेष्टस्य मन्दाग्नेर्निश्चलस्य च । स्निग्धं भुक्तवतोऽह्यन्नं
व्यायामं कुर्वतस्तथा । वायुना प्रेरितोह्यामः श्लेष्मस्थानं
प्रधावति । तेनात्यर्थमपक्वोऽसौ धमनीभिः प्रपद्यते ।
वातपित्तकफैर्भूयो दूषितः सोऽन्नजोरसः । स्रोत्रांस्यभिष्य-
न्दयति नानाब्रर्णोऽतिपिच्छलः । जनयत्यग्निदौर्बल्यमि-
न्द्रियस्य च गौरवम् । व्याधीनामाश्रयोह्येष आमसंज्ञोऽनि-
लोह्ययम्” (श्लेष्मस्थानमामाशयसन्ध्यादि) । तेन
श्लेष्मस्थानगमने पाकाभावात् दूषकता पित्तस्थानगमने
तु तेन पाकसम्भवान्नं दोषजनकतेति । अतिवृद्धस्य लक्षण-
मुक्तं तत्रैव “स कष्टः सर्वरोगाणाम् यदा प्रकुपितो भवेत् ।
हस्तपादशिरोमुल्मत्रिकजानूरुसन्धिषु । करोति सरुजं
शोफं यत्र दोषः प्रपद्यते । स देशो रुज्यतेऽत्यर्यं व्याविद्ध
इव वृश्चिकैः । जनयेत् सोऽग्निदौर्बल्यम् प्रसेकारुचिगौर-
वम् । उत्साहहानिं वैरस्यं दाहनं बहुमूत्रताम् ।
कुक्षौ शूलं कठिनतां तथा निद्राविपर्य्ययम् । तृट्छर्द्दि-
भृशमूर्च्छाश्च हृद्ग्रन्थिविड्विबद्धताम् । जाड्यान्द्रकूज
नानाहकुष्ठांश्चान्यानुपपद्रवान्” । तत्र दोषभेदे लक्षणानि
“पित्ताद्दाहं सकासञ्च सशूलं पवनात्मकम् । स्तिमितं
गुरु कण्डूकं कफजुष्टं तमादिशेत् । एकदोषानुगः
साध्योद्विदोषोयाप्य उच्यते । सर्वदोषगतः शोफः स कष्टः
सान्निपातिकः” इति सुश्रु० ।

आमश्राद्ध न० आमेन अपक्वेनान्नेन श्राद्धम् । “आमन्तु वितुषं

प्रोक्तमित्युक्तेण वितुषेणापक्वेनान्नेन कर्त्तव्ये श्राद्धे
“आपद्यनग्नौ तीर्थें च चन्द्रसूर्य्यग्रहे तथा । आमश्राद्धं द्विजैः
कार्य्यं शूद्रेण च सदैव तु” प्रचे० अत्र विशेषः “निरग्ने-
रामश्राद्धे तु अन्नं न क्षालयेत् क्वचित् । वृद्धौ च क्षालयेदन्नं
संक्रमे ग्रहणेषु च, ति० त० पु० ।

आमहीय त्रि० आमहाय आगमनाय हितम् । छ । आगमन-

साधने मन्त्रभेदे “अपाम सोमम्” इत्यस्यामृचि स्त्री “उद्वय
मित्युन्नेत्रोन्नीता आमहीयां जपन्तोगच्छन्त्यपाम सोसम-
मृता अभूभागन्म ज्योतिरविदाम देवान् किं नूनमस्मान्
कृणदरातिः किमु धूर्त्तिरमृतंमर्त्थस्येति” का० १०, ९, ७,
पृष्ठ ०७६५
“वासःपरिधानानन्तरम् उद्वयमित्यनेन मन्त्रेणोन्नेत्रोन्नीता
जलमध्यात् वहिर्निष्काशिताः सन्तऋत्विजः सयजमानाः
आमहीयामित्येवंसंज्ञकाम् अपामेत्येतामृचं जपन्तः सर्वे
देवयजनं प्रति गच्छन्ति” कर्कः ।

आमहीयव न० अमहीयुना ऋषिभेदेन दृष्टं साम अण् ।

सामभेदे तस्ययत्रपाठ्यता तत् सा० सं० भा० दर्शितम् यथा
“तृतीयसवने सप्त सूक्तानि तेषु नव सामानि गेयानि तत्र
प्रथमे सूक्ते गायत्रमामहीयवं चेति द्वेसामनी” आम
हीयवञ्च साम ऊहगाने ऊहगानारम्भे प्रथमं साम ।

आमाति(ती)सार पु० आमकृतोऽति(ती)सारः । आमकृते

षष्ठे अतिसाररोगभेदे अतिसारशब्दे तस्य विवृतिः । अस्य
निदानादि उक्तं सुश्रुते यथा । “अन्नाजीर्ण्णात् प्रद्रुताः
क्षोभयन्तः कोष्ठं दोषा धातुसंघान् मलांश्च । नाना-
वर्ण्णान्नैकशः सारयन्ति शूलोपेतं षष्ठमेनं वदन्ति”
आमातिसारे नो कार्य्यमादौ संग्रहणं नृणाम्” सुश्रु० ।

आमात्य पु० आमात्त्यएव स्वार्थे अण् । अमात्ये ।

आमानस्य न० अप्रशस्तं मानसमस्य अमानसः तस्य भावः

ष्यञ् । दुःखे शब्दरत्ना० ।

आमावास्य त्रि० अमावास्यायां भवः सन्धिवेलादि० अण् ।

अमावास्याभवे “आमावास्येन हरिषेष्ट्वा पौर्ण्णमासेन वा”
श० ब्रा० । वा वुन् अमावास्यक इत्यपि तत्रैव त्रि० ।

आमाशय पु० आमस्यापक्वान्नस्याशयः । देहमध्यस्थे

नाभेरुर्द्धस्थाने भुक्तापक्वान्नादिस्थाने । आशयाहि देहस्थाः
सप्त सुश्रुते दर्शिता यथा “आशयस्तु वाताशयः पित्ताशयः
श्लेष्माशयो रक्ताशय आमाशयः पक्वाशयः मूत्राशयः
स्त्रीणां गर्भाशयोऽष्टम इति आमाशयस्थानएव दोषरूप
श्लेष्मस्थानं यथोक्तं सुश्रु० । “दोषस्थानान्यत ऊर्द्धं वक्ष्यामः
तत्र समासेन वातःश्रोणिगुदसंश्रयः । श्रोणिगुदयोरुपर्य्या-
नाभि पक्वाशयः पक्वाशयमध्यं पित्तस्य । आमाशयः
श्लेष्मणः । तच्च स्थानं निर्ण्णीतं भावप्र० यथा “अग्निवेग-
वहः प्राणोगुदान्त्रे प्रतिहन्यते । स ऊर्द्ध्वमागम्य पुनः
समुत्क्षिपति पावकम् । पक्वाशयस्त्वधोनाभ्यामूर्द्धमामाशयः
स्थितः । नाभिमध्ये शरीरस्य प्राणाः नित्यं प्रतिष्ठिताः”
चरके तु “नाभिस्थानोत्तरं जन्तोराहुरामाशयं बुधाः”
इति अत्र विशेषमाह “उरोरक्ताशयस्तस्मादधःश्लेष्माशयः
स्मृतः । आमाशयस्तु तदधस्तदधोऽन्नाशयोमतः” इति
अपक्वाशय प्रसङ्गात् आहारपाकप्रकारस्तावदुच्यते
भावप्रकाशे सुश्रुतः “यो वायुः प्राणनामासौ मुखं
गच्छति देहधृक् सोऽन्तःप्रवेश्य गच्छेत्तं प्राणश्चाथावल-
म्बते” इति तमाहारमामाशयस्थः क्लेदननामा कफः क्लेद-
यति क्लेदनात् संहतिं भिनत्ति च उक्तं च सुश्रुते “स
आहारःषड्रसोऽप्यामाशये माधुर्य्यं लभते आमाशयस्थस्य
मधुरस्य कफस्य योगात् उक्तं च श्लेष्मस्वरूपं “श्लेष्मा श्वेतो-
गुरुःस्निग्धः पिच्छिलः शीतलस्तथा । तमोगुणाधिकः स्वा-
दुर्विदग्धोलवणो भवेत् । फेनभावं च लभते जठरानल-
तेजसा” । अत आह वाग्भटः “संधुक्षितः समानेन
पचत्यामाशयस्थितम् । औदर्य्योऽग्निर्थथा बाह्यः स्थालीस्थं
तोयतण्डुलमिति” प्राणवायुना प्रेरितस्ततः किञ्चिच्चलितः
पाचकाख्यपित्तोष्मणेषत्पक्वो भवति उक्तं च “अथ पाचकपि-
त्तेन विदग्धश्चाम्लतां व्रजेदिति” पाचकपित्तेन पाचकपित्त
स्योष्मणा ततः एवाहारोनामिमण्डलाधिष्ठानेन समाननाम्ना
वायुना प्रेरितोग्रहणीं प्रति याति उक्तं च । “ततःसमानम-
रुता ग्रहणीमभिधावति” । ग्रहणीलक्षणमाह “षष्ठी पित्त-
धरा नाम या कला परिकीर्त्तिता । आमपक्वाशयान्तःस्था
ग्रहणी साभिधीयते” पित्तधरा पाचकाख्यं पित्तं यदग्न्य-
धिष्ठानं तद्धारयति तत्र ग्रहण्यामामाशयपक्वाशय
मध्यवर्त्तिपाचकाख्यपित्ताधिष्ठानेनाग्निनाहारः पच्यते
स कटुश्च भवति तथा च “ग्रहण्यां पच्यते कोष्ठवह्निना
जायते कटुरिति” । अयमर्थः आहारोग्रहण्यां कोष्ठवह्नि-
ना ग्रहणीस्थितपाचकपित्तस्थे न च वह्निना पच्यते
पच्यमानः स ग्रहणीस्थितस्य कटुरसस्य पित्तयोगात्कटुर्भवति
एतदाहारपाके विशेपमाह शरीरं पाञ्चभौतिकं तत्र
पञ्चसु भूतेषु पञ्चाग्नयस्तिष्ठन्ति उक्तं च चरके “भौमाप्या-
ग्नेयवायव्याः पञ्चोप्माणः । सनाभसाः पञ्चाहारगुणान् स्वान्
स्वान् पार्थिवादीन् पचन्त्यतः” । अत्रोष्मपदेनाग्निरुच्यते
आहारोऽपि पाञ्चभौतिकः तत्र पाचकपित्तस्थेनाग्निनोत्ते-
जितेन शरीरवर्त्तिभूभागः पच्यते पक्वोभूभागः स्वकीयान्
गुणानभिबर्द्धयति एवं जलादिभागा अपि पच्यन्ते तथा च
सुश्रुते “पञ्चभूतात्मको देह आहारः पाञ्चभौतिकः । विपक्वं
पञ्चधा सम्यग्गुणान्स्वानभिबर्द्धयेदिति” गुणशब्देनात्र गुणिनः
पृथिव्यादय उच्यन्ते तेन गुणान् शरीरवर्त्तिनः पार्थिवादीन्
भागानभिवर्द्धयेदिति एवमहोरात्रेण पक्व आहारोमिष्टः
कटुश्च मधुरो भवति अम्लोऽम्लो भपति कटुतिक्तःकषायश्च
कटुर्भवति उक्तं च “मिष्टः कटुश्च मधुरोऽथाम्लोऽम्लः पच्यते
रसः । कटुतिक्तकषायाणां विपाको जायते कटुरिति” एवं
विपक्वस्याहारस्य सारो रसशेषोग्रहणिस्थो मल इव
पृष्ठ ०७६६
मलः । अस्य जलभागः शिणभिर्वस्तिन्नीतोमूत्रं भवति उक्तं
च “आहारस्य रसः सारःसारहीनोमलद्रवः । शिराभि-
स्तज्जलं नीतं वस्तिंमूत्रत्वमाप्नुयात् । शेषं कीट्टं
भवेत्तस्य तत् पुरीषं निगद्यते । समानवायुना नीतं तत्तिष्ठति
मलाशये” तत्र मलाशयालयेनापानवायुना प्रेरितं मूत्रं
मेढ्रभगमार्गेण, पुरीषं गुदमार्गेण, शरीराद्बहिर्याति । उक्तं
च “मूत्रन्तूपस्थमार्गेण, पुरीषं गुदमार्गतः । अपानवायुना
क्षिप्तं बहिर्याति शरीरतः” । उपस्थः शिश्नोभगश्च । रसस्तु
समानवायुना प्रेरितोधमनीमार्गेण शरोरारम्भकस्य रसस्य
स्थानं हृदयं गत्वा तेन सहमिश्रितो भवति उक्तं च “रसस्तु
हृदयं याति समानमरुतेरितः । स तुं व्यानेन विक्षिप्तः
सर्वान् धातून्विवर्द्धयेत् । केदारेषु यथा कुल्या पुष्णाति
विविधौषधीः । तथा कलेवरे धातून् सर्वान् बर्द्धयते रसः” ।
रसस्तु तत्र तत्र त्रिधा भिद्यते उक्तं च चरके “स्थूलसूक्ष्म
मलैर्भेदैस्तत्रस्तत्र त्रिधा रसः” । अधिकआहारपाक-
शब्दे वक्ष्यते ।

आमिक्षा स्त्री आमिष्यते सिच्यते मिष--सक् । तप्ते पक्वे दुग्धे

दधियोगाज्जाते (छाना) पदार्थे । “तप्ते पयसि दध्या-
नयति सा वैश्वदेव्यामिक्षा भवति वाजिभ्योवाजिनम्” श्रुतिः
“आमिक्षापदसान्निध्यात् तस्यैव विषयार्पणम्” भट्ट का० ।

आमिक्षीय न० आमिक्षायै हितं छ । आमिक्षोपकरणे दध्नि

“आमिक्षीयं दधि क्षीरं पुरोडाश्यं तथौषधम्” भट्टिः ।
ख आमिक्षीणमप्यत्र न० । यत् आमिक्ष्यमप्यत्र न० ।

आमितौजि पुंस्त्री अमितौजसोऽपत्यम् बाह्वा० इञ्

सलोपश्च । अमितौजसोऽपत्ये स्त्रियां ङीप् ।

आमित्रि पुंस्त्री अमित्रस्यापत्यं इञ् । अमित्रापत्ये तत्र

भवादि गहा० छ । आमित्रीयः तद्भवादौ त्रि० युवापत्ये
तु नडा० फक् । आमित्रायणः अमित्रयुवापत्ये आमित्रे-
रपत्यम् तिका० फिञ् । आमित्रायणिः तदपत्ये ।
अमित्रस्येदम् अण् । आमित्रः शत्रोःसम्बन्धिनि त्रि०
“नासामामित्रो व्यथिरादधर्षति” ऋ० ६, २८, ३ ।

आमिश्र त्रि० आ + मिश्र--घञ् । मिलिते संश्लिष्टे । “चेतो-

जन्मशरप्रसूनमधुभिर्व्यामिश्रतामाश्रयत्” नैष० । वेदे
क्वचित् रस्य लः । आमिश्लः । “स सोम आमिश्लतमः”
ऋ० ६, २९, ४ ।

आमिष् न० आमिषति सिञ्चति स्नेहम् आ + मिष--क्विप् ।

मांसे “आयेवयो नवर्वृतत्यामिषिः” ऋ० ६, ४६, १४
“आमिषि मांमे” भा० ।

आमिष न० आमिषति स्नेहम् आ + मिष--सेचने क

अमटिषच् दीर्घश्च, वा । १ मांसे स्नेहातिरेकात्तस्य तथात्वम्
२ भोग्यवस्तुमात्रे ३ उत्कोचे ४ सुन्दररूपादौ ५ लोभे
६ लोभनीये विषये च । तत्रमांसे “उपानयत् पिण्ड-
मिवामिषस्य” रघुः “आमिषं कलहं हिंसां--वर्षवृद्धौ
विवर्ज्जयेत्” स्मृतिः “भुङ्क्ते यश्च निरामिषं स हि
भवेज्जन्मान्तरे पण्डितः” ज्योति० । “जन्मान्तरे पाण्डित्यकामो
जन्मतिथावामिषं न भुञ्जीतेति” गदाधरः । “कालशाकं
महाशाकं खड्गलोहामिषं मधु” दश मासांस्तु तृप्यन्ति
वराहमहिषामिषैः” मनुः “सात्विकी जपयज्ञैश्च नैवेद्यैश्च
निरामिषैः” दुर्गो० त० पु० नाधीयीतामिषं जग्ध्वा”
“तच्चामिषेण कर्त्तव्यम्” इति च मनुः । लोभनीये “रन्ध्रा-
न्वेषणदक्षाणां द्विषामामिषतां ययौ” “आकृष्य सद्गुण-
जुषा सुरसामिषेण” आनन्दवृन्दा० । “प्राणानेवात्तु-
मिच्छन्ति नवान्नामिषगर्द्धिनः” मनुः । “पत्राणामामिषं
पर्ण्णं जम्बीरञ्च फलेप्वपीति” स्मृतौ निरामिषव्रते आमिष-
तुल्यतया बर्ज्जनोये ७ पर्ण्णे ८ जम्बीरफले च ।

आमिषप्रिय पु० ६ त० । १ कङ्कपक्षिणि । २ मांसाभिला-

षिणि त्रि० ।

आमिषाशिन् त्रि० आमिषमश्नाति अश--णिनि ६ त० ।

मांसभक्षके “दिनोपवासी तु निशामिषाशी” हास्या०
स्त्रियां ङीप् । आमिषभुगादयोऽप्यत्र ।

आमिषी स्त्री आमिषं तदाकारोऽस्त्यस्य जटायाम् अर्श० अच्

गौरा० ङीष् । जटासांस्याम् । ततः चतुरर्थ्याम् भध्वा०
यत् । आमिष्यः आमिषीसन्निकृष्टदेशादौ त्रि० ।

आमुक्त त्रि० आ + मुच--क्त । परिहिते “आमुक्तमुक्ता-

लतमस्य वक्षः” माघः ।

आमुक्ति स्त्री आ--मुच--क्तिन् । १ परिधाने, मर्य्यादायाम्

वा अव्ययी० । २ मुक्तिपर्य्यन्ते अव्य० “आमुक्ति
श्रियमन्विच्छेत्” । समासाभावे आ मुक्ते रित्येव ।

आमुख न० आमुखयति अभिमुखीकरोति दर्शनार्थं

परिषदोऽनेन आमुख + णिच्--करणे अच् । नाटकाङ्गभेदे “तल्ल-
क्षणभेदोदाहरणानि” सा० द० यथा “नटी विदूषकोवापि
पारिपार्श्विक एव वा । सूत्रधारेण सहिताः संलापं
यत्र कुर्वते । चित्रैर्वाक्यैः स्वकार्य्योत्थैः प्रस्तुताक्षेपि-
भिर्म्मिथः । आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनापि
सा । सूत्रधारसदृशत्वात् स्थापकोऽपि सूत्रधारौच्यते ।
तस्यानुचरः पारिपार्श्विकः । तस्मात् किञ्चिदूनोनटः” ।
पृष्ठ ०७६७
तस्य भेदाः पञ्च यथाह तत्रैव “उद्घात्यकः कथोद्घातः
प्रयोगातिशयस्तथा । प्रवर्त्तकापलगिते पञ्च प्रस्तावना
भिदाः । तत्र । पदान्यन्यगतार्थानि तदर्थगतये नराः ।
योजयन्ति पदैरन्यैः स उद्घात्यक उच्यते १ । यथा मुद्रा-
राक्षसे सुत्र० । “क्रूरग्रहः सकेतुश्चन्द्रमसंपूर्णमण्डलमिदा-
नीम् । अभिभवितुमिच्छति बलात्” । अनन्तरंनेपथ्ये आःक
एष मयि जीवति सति चन्द्रगुप्तमभिभवितुमिच्छति ।
अत्रान्यार्थवन्त्यपि पदानि हृदिस्थार्थावगत्या अर्थान्तरे
संगमय्य पात्रप्रवेशः । सूत्रधारस्य वाक्यं वा समादायार्थ-
मस्य वा । भवेत् पात्रप्रवेशश्चेत् कथोद्घातः स उच्यते २ ।
वाक्यं यथा रत्नावल्याम् । “द्वीपादन्यस्मादपि
घटयति विधिरभिमुखीभूतः” इत्यादि । सूत्रधारेण पठिते
नेपथ्ये एवमेतत् कः सन्देहः द्वीपादन्यस्मादपीत्यादि
पठित्वा यौगन्धरायणस्य प्रवेशः । वाक्यार्थं यथा वेण्याम् ।
“निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डु-
तनयाः संह माधवेन । रक्तप्रसाधितभुवः क्षतविग्रहाश्च
स्वस्था भवन्तु कुरुराजसुताः सभृत्याः” इति सूत्र-
धारेण पठितस्य वाक्यस्यार्थं गृहीत्वा नेपथ्ये । आः
दुरात्मन्! वृथामङ्गलपाठक! कथं “स्वस्था भवन्तु मयि
जीजीवति धार्त्तराष्ट्राः । ततः सूत्रधारोनिष्क्रान्तः भीमसेनस्य
प्रवेशः । यदि प्रयोगएकस्मिन् प्रयोगोऽन्यः प्रयुज्यते ।
तेन पात्रप्रवेशश्चेत् प्रयोगातिशयस्तदा ३ । यथा कुन्दमा-
लायाम् । नेपथ्ये “इतैतोऽवतरत्वार्य्या” सूत्र० कोऽयं
स्वलु आर्य्याह्वानेन साहायकं मे सम्पादयति विलोक्य
कष्टमतिकरुणं वर्त्तते । “लङ्केश्वरस्य भवने सुचिरं स्थितेति
रामेण लोकपरिवादभयाकुलेन । निर्वासितां जनपदा-
दपि गर्भगुर्ब्बीं सीतां वनाय परिकर्षति लक्षणोऽयम्” ।
अत्र नृत्यप्रयोगार्थं स्वभार्य्याह्वानमिच्छता सुत्रधारेण “सीतां
वनाय परिकर्षति लक्ष्मणोऽयमिति” सीतालक्ष्मणयोः प्रवेशं
सूचयित्वा निष्क्रान्तेन स्वप्रयोगमतिशयानएव प्रयोगः
प्रयोजितः । कालं प्रवृत्तमाश्रित्य सूत्रधृक् यत्र वर्ण-
येत् । तदाश्रयश्च पात्रस्य प्रवेशस्तत्प्रवर्त्तकम् ४ । यथा
“आसादितप्रकटनिर्मलचन्द्रहासः प्राप्तःशरत्समय एष
विशुद्धकान्तः । उत्खाय गाढतमसं घनकालमुग्रं रामोदशा-
स्यमिव सम्भृतबन्धुजीवः” । ततः प्रविशतियथा निर्द्दिष्टोरामः ।
यत्रैकत्र समावेशात् कार्य्यमन्यत्प्रसाध्यते । प्रयोगे स्वलु
तज्ज्ञेयं नाम्नावलगितं बुधैः ५ । यथा शाकुन्तले । सूत्र०
नटींप्रति “तवास्मि गीतिरागेण हारिणा प्रसभं हृतः । एष
राजेव दुष्मन्तः शारङ्गेणातिरंहसा” । ततोराज्ञः प्रवेशः ।
योज्यान्यत्र यथालाभं वीथ्यङ्गानीतराण्यपि । अत्र
आमुखे उद्घात्यकालगितयोरितराणि वीथ्यङ्गानि वक्ष्यमा-
णानि । नखकुट्टस्तु “नेपथ्योक्तं श्रुतं यत्र त्वाकाशवचनं
तथा । समाश्रित्यापि कर्त्तव्यमामुखं नाटकादिषु” ।
एषामामुखभेदानामेकं कञ्चित्प्रयोजयेत् । तेनार्थमथ-
पात्रं वा समाक्षिप्यैव सूत्रधृक् । प्रस्तावनान्ते निर्गच्छे-
त्ततोवस्तु प्रयोजयेत् । तत्र पूर्व्वं पूर्ब्बरङ्गः सभार्चन
मतः परम् । कयनं कविसंज्ञादेर्नार्टकस्याभिधा ततः ।
रङ्गं प्रसाद्य मषुरैः श्लोकैः काव्यार्थसूचकैः । रूपकस्य
कवेराख्यां गोत्राद्यपि च कीर्त्तयेत् । ऋतुञ्च कञ्चित्प्रायेण
भारतीं वृत्तिमाश्रितः । तस्याः प्ररोचना वीथी” ।

आमुप पु० आमे पीड़ायै उप्यते वप--घञर्थे क । (वेडवास

वंशभेदे ।

आमुर् त्रि० आ + मुर्व्व--क्विप् । हिंसके । “राधोवरन्त आमुरः” ऋ० ४, ३१, ९ ।

आमुष्मिक त्रि० अमुष्मिन् परलोके भवः ठक् सप्तम्याः अलुक्

टिलोपः । परलोकभवे “कुर्य्यादामुष्मिकं श्रेयः” मनुः ।
स्त्रियां ङीप् । “नैवालोच्य गरीयसीरपि चिरादामुष्मि-
कीर्य्योतनाः” सा० द० ।

आमुष्यकुलक न० अमुष्यकुलस्य भावः मनोज्ञा० वुञ् अलुक् ।

प्रशस्यकुलत्वे “आमुष्यायणामुष्यपुत्रिकामुष्यकुलिका” इति
वार्त्तिकोक्तेः अस्य स्त्रीत्वमपि ।

आमुष्यकुलीन त्रि० अमुष्यकुले साधुः प्रतिमु० खञ्

तद्गणपाठात् षष्ठ्या अलुक् । अमुष्यकुले साधौ ।

आमुष्यपुत्रिका स्त्री अमुष्य पुत्रस्य भावः मनोज्ञा० वुञ्

अलुक् । अमुष्यपुत्रस्य भावे । आमुष्यकुलकशब्दे
प्रदर्शितवार्त्तिकात् स्त्रीत्वम् ।

आमुष्यायण न० अमुष्य ख्यातस्यापत्यम् नड़ा० फक् अलुक् ।

प्रख्यातवंशोद्भवे “आमुष्यायणोवै त्वमसि” श्रुतिः ।

आमृष्ट त्रि० आ + मृष--क्त । १ आधर्षिते २ मर्दिते च “आमृ-

ष्टास्तिलकरुचः स्रजोनिरस्ताः” माघः । आ + मृज--क्त ।
३ परिमार्जिते ४ विशोधिते च । आ + मृश--क्त ५ संस्पृष्टे च

आमोक पु० आ + मुच--घञ् । परिधाने । ल्युट् ।

आमोचनमप्यत्र न० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/आनीत&oldid=315194" इत्यस्माद् प्रतिप्राप्तम्