सामग्री पर जाएँ

वाचस्पत्यम्/अश्मकेतु

विकिस्रोतः तः


पृष्ठ ०४९४

अश्मकेतु स्त्री अश्मेव केतुरस्य । क्षुद्रपाषाणभेदवृक्षे ।

अश्मगन्धा अश्मन इव गन्धो लेशोऽस्याः । पृशिनपर्ण्णीलक्ष-

णायामासन्धौ लतायाम् । “विशाखशावाश्मगन्धापृश्नि-
पर्ण्ण्यध्यण्डाश्च” कात्या० २०, ७, १७, “अश्मगन्धा
आसन्धिः पृश्निपर्ण्णीलक्षणेति” कर्क० । “न शरं नाश्मगन्धां
नाध्यण्डां न पृश्निपर्ण्णीं नाश्वत्थस्यान्तिके कुर्य्यात्”
शत० ब्रा० ।

अश्मगर्भ पु० अश्मेव कृतो गर्भोऽस्य । “पन्ना इति” ख्याते मरकतमणौ । राजनि० ।

अश्मगर्भज पु० अश्मगर्भाज्जायते जन--ड ५ त० । मरकत-

मणौ अश्मयोनिरप्यत्र” राजनि० २ प्रस्तरजे वह्नौ पु० ।

अश्मगुड पु० अश्मनिर्म्मितो गुडः गोलाकारः पदार्थः ।

प्रस्तरनिर्म्मिते (गुली) प्रसिद्धे युद्धसाधने अस्त्रभेदे स्त्रीत्व-
मपि “शूलान् भुशुण्ड्यश्मगुड़ाः स्थूलाः कार्ष्णायसी-
स्तथा” भा० द्रो० प० । भुशण्डीनिर्मुक्ता अश्मगुड़ास्तदर्थः ।

अश्मघ्न पु० अश्मानं हन्ति हन--ड । पाषाणभेदवृक्षे ।

अश्मज न० अश्मनो जायते जन--ड ५ त० । प्रस्तरजाते १ शिला-

जतुनि, । अश्मेव जायते जन--ड । २ लौहे च ।

अश्मजतु न० अश्मनो जायते जन--तुन् डिच्च । शिलाज-

तुनि स्वार्थे कन् अश्मजतुकं तत्रैव ।

अश्मजाति स्त्री अश्मनो जातिः सामान्यमस्य । “पान्ना” ख्याते

मरकतमणौ । अश्मन इव जातिरस्य । रत्नमात्ने अमरः
रत्नानि च । “वज्रं गारुत्मतं पुष्परागो माणिक्यमेव च ।
इन्द्रनीलश्च गोमेदस्तथा वैदूर्यमेव च । मौक्तिकं विद्रुमश्चेति
रत्नान्युक्तानि वै नव” भाव० प्र० । “मुक्ताफलं हीरकं च
वैदूर्य्यं पद्मरागकम् । पुष्परागं च गोमेदं नीलं गारु-
त्मतं तथा । प्रबालयुक्तान्येताति महारत्नानि वै नव”
विष्णु ध० । अत्र पुष्परागादीनां क्लीवताऽपि । अत्र चैषां
महारत्नतैतोक्तेः तद्भिन्नानामपि रत्नत्वमस्त्येव यथोक्तं गारुड़े
“तेषु रक्षोविषव्याधिव्यालघ्नान्यघहानि च । प्रादुर्भवन्ति
रत्नानि तथैव विगुणानि च । वज्रं मुक्ता मणयः
पद्मरागाः समरकताश्च प्रोक्ताः । अपि चेन्द्रनील-
मणयो वैदूर्य्याः पुष्परागाश्च । कर्केतनकुरुविल्वौ रुधि-
राक्षसमन्वित स्फटिकम् । विद्रुममणिश्च” ।

अश्मदारण पु० अश्मानं दारयति दृ--णिच्--ल्यु । पाषा-

णभेदके टङ्कनामास्त्रे ।

अश्मदिद्यु त्रि० अतिशयेन द्योतते यङ् लुक् बा० ड विद्यु

आयुधम् अश्म व्यापकं अश्ममयं वा दिद्यु यस्य । अश्मम-
यायुधयुक्ते । “विद्युन्महसो नरो अश्मदिद्यवः” ५, ५४ । ३ ।
अश्मदिद्युवो व्याप्तायुधाः अश्ममयायुधा वा” भा० ।

अश्मन् पु० अश्रुते व्याप्नोति, संहन्त्यनेन वा कर्त्तरि करणे वा

मनिन् । पाषाणे । “अथ यदश्रु संक्षरित मासीत् सोऽश्म
पृश्निरभवत्” शत० ब्रा० । “इयत्तकः कुषुम्भकस्तकं भिनद्म्य-
श्मना” ऋ० १ । १९१ । १५ । “अशिशकिभ्यां छन्दसि”
इत्युक्तेः वेदेअस्य भूरिप्रयोगः क्वचित् लोकेऽपि “नारा-
चक्षेपणीयाश्मनिष्पेषपतितानलम्” रघुः । दन्तोलूख-
किकः कालपक्वाशी वाश्मकुट्टकः” या० “अश्मानं दृषदं
मन्ये मन्ये काष्ठमुदूखलम् । अन्धायाश्च सुतं मन्ये यस्य
माता न पश्यति” जिनेन्द्रः । २ मेघे निरु० तस्याम्बर-
व्यापकात्वात्तथात्वम् ३ भूभिव्यापके पर्व्वते पु० । “अश्मानं
चिद्ये बिभिदुः” ऋ० ४, १६, ६ । “अश्मानं पर्व्वतं
मेघं वा” भा० । “अश्मानं चिच्छवसा दिद्युतः ऋ०
५ । ३०४ । “अश्मानं पर्व्वतम्” भा० । ४ व्यापके त्रि०
अश्मदिद्युशब्दे उदा० । त० स० उत्तरपदस्थः संज्ञायां
जातौ च टचं समासान्तं लभते । संज्ञायाम् पिण्डाश्मः
जातौ अमृताश्मः । नित्यसमा० । अश्मना क्षुण्णः
आश्मनः । ऋश्यादि० चतुरर्थ्यां क । अश्मकः ।
अश्मादि० चतुरर्थ्यां रः अश्मरः । उत्करा०
चतुरर्थ्यां छ । अश्मीयः । तदर्हतीत्यर्थे अश्व । दि०
ठण् । आश्मिकः । तत्र कुशल इत्यर्थे आकर्षादि० कन् ।
अश्मकः । अपत्येशुम्रा० ढक् । आश्मेयः । अश्वा० गोत्रा-
पत्ये फञ् । आश्मायनः । अश्मनोविकारः अण् टिलोपः
आश्मः मयट् च अश्ममयः स्त्रियां ङीप् । अवयवार्थे
तु न टिलोपः आश्मन इत्येव ।

अश्मन्त न० अश्मनोऽन्तोऽत्र शक० पररूपम् । १ अशुमे क्षेत्रे,

२ चुल्ल्याञ्च । असूनामन्तः । अस्वन्तोऽप्यत्र ।

अश्मन्तक पु० न० अश्मानमन्तयति अन्त--णिच् ण्वुल् शक० । १

चूल्ल्याम् २ दीपाधारे ३ छादने, (आउड़) ख्याते तृणविशेषे च ।
“मुञ्जालाभे तु कर्त्तव्याः कुशाश्मान्तकवल्वजैः” मनुः ।
४ अम्लोटकवृक्षे, ५ अम्लपत्रे ६ कोविदारकवृक्षे च पु० ।

अश्मन्मय त्रि० अश्मनोविकारः मयट् वेदे न नलोपः ।

पाषाणमये स्त्रियां ङीप् । “शतमश्मन्मयीनां पुरामिन्द्रो
व्यास्यत्” ऋ० ४ । ३० । २० । “लोके तु अशममयः ।
“अब्जमश्ममयञ्चैव” इति मनुः ।

अश्मपुष्प न० अश्मनः पुष्पमिव । शिलाजतुनि, शौलेये गन्धद्रव्ये ।

पृष्ठ ०४९५

अश्मभाल न० अश्मेव भाजयति चूर्णितं करोति । भज--णिच्

अण् पृषो० जस्य लत्वम् । द्रव्यचूर्णकारके (हामानदिस्ते)
इति ख्याते लौहपात्रभेदे शब्दचन्द्रिका ।

अश्मभिद् पु० अश्मानमुद्भिद्य जायते । पाषाणभेदके वृक्षे ।

क, अश्मभिदः । अण् अश्मभेदः । ण्वुल् । अश्म-
भेदकोऽप्यत्र पु० ।

अश्मयोनि पु० अश्मा योनिरस्य । मरकतमणौ ।

अश्मर त्रि० अश्म--चतुरर्थ्याम् र । प्रस्तरसंबन्धिनि ।

अश्मरथ पु० अश्मेव दुर्भेदो रथोऽस्य । ॠषिभेदे गर्गा०

यञ् । आश्मरथ्यः । “अभिव्यक्तेरित्याश्मरथ्यः” शा० सू०

अश्मरी स्त्री अश्मानं राति रा--क गौरा० ङीष् । मूत्रकृच्छ्र-

रोगे स हि मूत्रद्वारा प्रस्तरमिव कठिनमांसं रेचयति
इति तस्य तथात्वम् । तन्निदानादि सुश्रुते उक्तं यथा ।
“अथातोऽश्मरीणां निदानं व्याख्यास्यामः ॥ चतस्रोऽश्मर्य्यो
भवन्ति श्लेष्माधिष्ठानास्तद्यथा श्लेष्मणा वातेन पित्तेन
शुक्रेण चेति ॥ तत्रासंशोधनशीलस्यापथ्यकारिणः प्रकुपितः
श्लेष्मा मुत्रसम्पृक्तोऽनुप्रविश्यवस्तिम्, अश्मरीं जनयति तासां
पूर्ब्बरूपाणि वस्तिपीड़ारोचकौ मूत्रकृच्छ्रं वस्तिशिरोमुष्क-
शेफसां वेदना कृच्छ्रा ज्वरावसादौ वस्तगन्धित्वं मूत्रस्येति ॥
यथास्वं वेदनावर्णं दुष्टं सान्द्रमथाविलम् । पूर्व्वरूपेऽश्मनः
कृच्छ्रान्मूत्रं सृजति मानवः ॥ अथ जातासु नाभिवस्ति-
सेवनीमेहनेष्वन्यतमे मेहतोवेदना मूत्रधारासङ्गः
सरुधिरमूत्रता मूत्रविकिरणञ्च गोमेदं प्रकाशमनाविलं
ससिकतं विसृजति धावनलङ्घनप्लवनपृष्ठेयानाध्वगमनैश्चास्य
वेदना भवति ॥ तत्र श्लेष्माश्मरी श्लेष्मलमन्नमभ्यवहरतोऽ-
त्यर्थमुपलिप्याधः परिवृद्धिं प्राप्य वस्तिमुखमधिष्ठाय स्रोतो
निरुणद्धि तस्य मूत्रप्रतिघाताद्दाल्यते मिद्यते निस्तुद्यत इव
वस्तिर्गुरुः शीतश्व भवति । अश्मरी चात्र श्वेता स्निग्धा
महती कुक्कुटाण्डप्रतीकाशा मधूकपुष्पवर्ण्णा वा भवति तां
श्लैष्मिकीमिति विद्यात् ॥ पित्तयुक्तस्तु श्लेष्मा सङ्घातमुपगम्य
यथोक्तां परिवृद्धिं प्राप्य वस्तिमुखमधिष्ठाय स्रोतो निरु-
णद्धि तस्य मूत्रप्रतिघातादुष्यते चूष्यते दह्यते पच्यत इव
वस्तिरुष्णवातश्च भवति । अश्मरी चात्र सरक्ता पीतावभासा
कृष्णा भल्लातकास्थिप्रतिमा मधुवर्ण्णा वा भवति तां पैत्तिकी-
मिति विद्यात् ॥ वातयुक्तस्तु श्लेष्मा सङ्घातमुपगम्य यथोक्तां
परिवृद्धिं प्राप्य वस्तिमुखमधिष्ठाय स्रोतो निरुणद्धि तस्य
मूत्रप्रतिघातात्तीव्रा वेदना भवति तथात्यर्थं पीड्यमानो
दन्तान् खादति नाभिं पीड़यति मेढ्रं मृद्गाति पायुं स्पृश-
ति विशर्द्धते विदहति वातमूत्रपुरीषाणि कृच्छ्रेण वास्य
मेहतो निःसरन्ति । अश्मरी चात्र श्यामा परुषा विषमा
खरा कदम्बपुष्पवत्कण्टकाचिता भवति तां वातिकीमिति
विद्यात् । प्रायेणैतास्तिस्रो ऽश्मर्य्यो दिवास्वप्नसमशनाध्यशनशीत-
स्निग्धगुरुमधुराहारप्रियत्वाद्विशेषेण बालानां भवन्ति । तेषा-
मेवाल्पवस्तिकायत्वादनुपचितमांसत्वाच्च वस्तेः सुखग्रहणा
हरणा भवन्ति ॥ महतान्तु शुक्राश्मरी शुक्रनिमित्ता भवति ।
मैथुनाभिघातादतिमैथुनाद्वा शुक्रञ्चलितमनिर्गच्छद्विमार्गगम-
नादनिलोऽभितः संगृह्य मेढ्रवृषणयोरन्तरे संहरति संहृत्य-
चोपशोषयति सा मुत्रमार्गमावृणोति मूत्रकृच्छ्रं वस्तिवेदनां
वृषणयोश्च श्वयथुमापादयति पीड़ितमात्रे च तस्मिन्नेव प्रदे-
शे प्रविलयमापद्यते तां शुक्राश्मरीमिति विद्यात् ॥ भवन्ति
चात्र ॥ शर्करा सिकता मेहो भस्माख्योऽश्मरिवैकृतम् ॥
अश्मर्य्याः शर्करा ज्ञेया तुल्यव्यञ्जनवेदना ॥ पवनेऽनुगुणे
सा तु निरेत्यल्पा विशेषतः । सा भिन्नमूत्तिर्वातेन शर्करेत्य-
भिधींयते ॥ ह्वत्पीड़ासक्थिसदमं कुक्षिशूलः सवेपथुः ।
तृष्णोर्द्ध्वगोऽनिलः कार्ष्ण्यं दौर्ब्बल्यं पाण्डुगात्रता
॥ अरोचकाविपाकौ तु शर्करार्त्ते भवन्ति च । मुत्रमार्गप्रवृत्ता
सा सक्ता कुर्य्यादुप्रद्रवान् ॥ दौर्ब्बल्यं सदनं कार्श्यं कुक्षिशू-
लमरोचकम् । पाण्डुत्वमुष्णवातञ्च तृष्णां हृत्पीड़नं वमिम् ॥
नाभिपृष्ठकटीमुष्कगुदवङ्क्षणशेफसाम् । एकद्वारस्तनुत्वक्को मध्ये
वस्तिरधोमुखः ॥ अलाद्वा इव रूपेण सिरास्नायुपरिग्रहः ।
वस्तिर्व्वस्तिशिरश्चैव पौरुषं वृषणौ गुदम् ॥ एकसम्बन्धिनो
ह्येते गुदास्थिविवरस्थिताः । मूत्राशयो मलाधारः प्राणा-
यतनमुत्तमम् ॥ पक्काशयगतास्तत्र नाड्यो मूत्रवहास्तु याः ॥
तर्प्पयन्ति सदा मूत्रं सरितः सागरं यथा ॥ सूक्ष्मत्वा-
न्नोपलभ्यन्ते मुखान्यासां सहस्रशः । नाडीमिरुपनीतस्य
मूत्रस्यामाशयान्तरात् ॥ जाग्रतः स्वपतश्चैव स निःष्यन्देन
पूर्य्यते । आमुखात्सलिले न्यस्तः पार्श्वेभ्यः पूर्य्यते नवः ॥
घटो यथा तथा विद्धि वस्तिर्मूत्रेण पूर्य्यते । एवमेव प्रवे-
शेन वातः पित्तं कफोऽपि वा ॥ मूत्रयुक्त उपस्नेहात्
प्रविश्य कुरुतेऽश्मरीम् । अप्सु स्वच्छास्वपि यथा निषिक्तासु
नवे घटे ॥ कालान्तरेण पङ्कः स्यादश्मरीसम्भवस्तथा ।
संहन्त्यपो यथा दिव्या मारुतोऽग्निश्च वैद्युतः ॥ तद्वद्वलासं
वस्तिस्थमुष्मा संहन्ति सानिलः । मारुते प्रगुणे वस्तौ मूत्रं
सम्यक् प्रवर्त्तते ॥ विकारा विविधाश्चापि प्रतिलोमे भवन्ति
हि ॥ मूत्राघाताः प्रमेहाश्च शुक्रदोषास्तथैव च । मूत्रदोषाश्च
ये केचिद्वस्तावेव भवन्ति हि” सुश्व० “अश्मरीं क्षप-
पृष्ठ ०४९६
यत्याशु सिकताशर्करान्विताम्” सुश्रु० । अयञ्च
महापापजत्वान्महारोगः । “उन्मादस्त्वग्दोषो राजयक्ष्मा
श्वासोमधुमेहो भगन्दरः । उदरोऽश्मरीत्यष्टौ
महारोगाः” शु० त० नार० ।

अश्मरीघ्न पु० अश्मरीं मूत्रकृच्छ्रं हन्ति हन--ट । वरुणवृक्षे

अश्मरीहर पु० अश्मरीं हरति हृ--ट । (देधान) देवधान्ये ।

अश्मवत् त्रि० अश्माऽस्त्यत्र मतुप् । पाषाणभूयिष्ठे देशे स्त्रियां

ङीप् । तथाविधभूमेर्गुणाश्च । “तत्राश्मवती स्थिरा गुर्व्वी-
श्यामा कृष्णा वा स्थूलवृक्षशस्यप्राया गुणभूयिष्ठा ।
स्निग्धा शीतलासन्नोदका स्निग्धशस्यतृणकोमलवृक्षप्राया
शुक्लाम्बुगुणभूयिष्ठा नानावर्णा लध्वश्मवती प्रविरलाल्प
पाण्डुवृक्षप्ररोहाऽग्निगुणभूयिष्ठा इति” सुश्रुतः ।

अश्मसार पु० न० अश्मनः सार इव । लौहे । “फल्गुवृश्चिक-

दर्भाश्मसारचूर्ण्णकवारिणा” सुश्रु० । “प्राणाः स०
त्वरमश्मसारकठिना गच्छन्ति गच्छन्त्वमी” सा० द० ।
६ ब० । तत्तुल्यकठिने त्रि० ।

अश्महन्मन् न० हन्यतेऽनेन हन--मनिन् हन्म आयुधम्

अश्मनिर्म्मितं हन्म । लौहनिर्मिते आयुघे “अग्नि-
तस्तेभिर्युवमश्महन्मभिः” ऋ० ७, १०४, ५ ।

अश्मादि पु० ६ त० । चतुरर्थ्यां पाणिन्युक्तरप्रत्ययनिमित्ते

शब्दगणे स च गणः अश्मन्, यूथ, ऊष, मीन, नद, दर्भ,
वृन्द, गुद, खण्ड, नग, शिखा, कोट, पाम, कन्द, कान्द,
कुल, गह्व, गुड़, कुण्डल, पीन, गुह ।

अश्मार्म न० अश्मकारकमर्म्म । (पाथुरे) अश्मरीरोगे ।

अश्मीर पु० न० अश्मास्त्यस्य ईरन् । (पाथुरे) अश्मरीरोगे ।

अश्मोत्थ न० अश्मनः उत्तिष्ठति उद् + स्था--क ५ न० । शिला-

जतुनि राजनि० ।

अश्र न० अश्नुते नेत्रम् अश--रक् । नेत्रजले “सखीभिरश्रोत्तर-

मीक्षितामिमाम्” कुमा० “नेत्राध्यामश्रमुत्सृजन्”
रामा० । सुखा० अस्त्यर्थे इनि न मतुप् । अश्री अश्रु-
युक्ते त्रि० स्त्रियां ङीप् ।

अश्रद्धा स्त्री अभावे न० त० । १ श्रद्धाभावे विरोधे न० त० ।

श्रद्धाविरोधिनि २ चित्रवृत्तिभेदे । “कामः संकल्पोविचि-
कित्मा श्रद्धाऽश्रद्धा धृतिधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं
मनएव” श्रुतिः “अश्रद्धया च यद्दत्तं तत्तामसमुदाहृतम्”
गीता । न० ब० । ३ श्रद्धाशून्ये त्रि० ।

अश्रद्धेय त्रि० न० त० । श्रद्धानर्हे अविश्वसनीये । १ श्रमशून्ये त्रि० ।

अश्रम पु० अभावे न० त० । १ श्रमाभावे अनायासे न० ब० ।

अश्रवण न० अभावे न० त० । १ श्रवणाभावे न० ब० । २ श्रवण-

शून्ये त्रि० ३ श्रोत्रेन्द्रियशून्ये बधिरे त्रि० ४ सर्पे पु० ।

अश्राद्धभोजिन् त्रि० श्राद्धं न भुङ्क्ते भुज--णिनि असमर्थ

स० । सति भोजने श्राद्धमेव योभुङ्क्ते तस्मिन् । “अश्राद्ध-
भोजीत्यत्र सति भौजनेऽश्राद्धमेव भुङ्क्ते न श्राद्धमिंति न
नियमः तथात्वे व्रतलोपः स्यात्” दुर्गसिंहः प्रा० त० ।

अश्रान्त त्रि० श्रम--कर्त्तरि न० त० । श्रान्तभिन्ने १ श्रमशून्ये

२ अविरते ३ क्रियाविशेषणत्वे न० । “अश्रान्तश्रुतिपाठपूत-
रसनाविर्भूतभूरिस्तवेति नैष० । भावे क्त न० त० ।
४ अविश्रामे न० ।

अश्रि(श्री) स्त्री अश्यते संहन्यतेऽनया अश--वङ्क्र्या० क्रि ।

१ गृहादेः कोणे । आश्रीयते संघातार्थम् आ + श्री- “आङि
श्रीहनिभ्यां ह्रस्वश्च” उपा० इन् स च डित् । २ खड्गादेरग्रभागे
उभयत्र वा ङीप् । “वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रीव-
लक्ष्यते” कुमा० वाजपेययूपं प्रकृत्य । “स वा अष्टाश्रिर्भवति
तस्मादष्टाश्रिर्भवति” शत० ब्रा० । चतुःपूर्ब्बादस्मात्
अच्समा० चतुरश्रः । “कॢप्तोपचारां चतुरश्रवेदीम्” कुमा०
योगविभागात् अत्यस्माठप्यच । तेन त्र्यश्रं षड़श्रमित्यादि
“आयताश्चतुरश्राश्च त्र्याश्रा मण्डलिनस्तथा” शस्त्रलक्षणे
सुश्रुतः “वृत्तान्तस्त्र्यश्रपूर्ब्बाणां नावाश्राणां पृथक् पृथक्”
लीला० । समासान्तविधेरनित्यत्वात् क्वचिन्नाच् । “त्रिरश्रिं
हन्ति चतुरश्रिरुग्रः ऋ० १, २५२, २ ।

अश्री(क) नास्ति श्रीर्यस्य नदीत्वाभावात् न ह्रस्वः तेन वा कप् । शोभाशून्ये ।

अश्रीर त्रि० न श्रीः अश्रीः अस्त्यर्थ० र । १ कुत्सितश्रीके

“अश्रीर इव जामाता” ऋ० ८, २, २० । “अश्रीरः गुणै
र्हीनः कुत्सितः” भा० । २ अमङ्गले च । “कृशंचिदश्रीरम्”
ऋ० ६, २८, ६ । “अश्रीरममङ्गलम्” भा० ।

अश्रु न० अश्नुते व्याप्नोति नेत्रमदर्शनाय अश--क्रुन् । नेत्र-

जले “पपात भूमौ सह षैनिकाश्रुभिः” दूषयामास कैकेयी
शोकोष्णैः पार्थिवाश्रुभिः” “तमश्रु नेत्रावरणं प्रमृज्य”
इति च रघुः । “श्लेष्माश्रु दूषिका स्वेदः” मनुः ।

अश्रुत त्रि० न० त० । १ श्रुतभिन्ने श्रवणाविषयीभते “येनाश्रुतं

श्रुतं भवति येनामतं मतं भवति” वृ० उ० श्रूयते श्रुतं शास्त्रं
तज्ज्ञानं न० ब० । २ शास्त्रज्ञानशून्ये मूर्खे “भागं विद्या-
धनात्तस्मात् स लभेताश्रुतोऽपि सन्” दा० भा० स्मृतिः ।

अश्रुति स्त्री अभावे न० त० । १ श्रवणाभावे न० ब० । २ श्रवण-

शून्ये त्रि० “अश्रुतिमेव तदघं गमयति” शत० ब्रा ।

अश्रुपात पु० ६ त० । नेत्रजलपाते क्रन्दने । “न चाश्रुपातः

पिण्डो वा कार्य्यं श्राद्धादिकं शु० त० क्वचित्” ब्रह्मपुरा० ।
पृष्ठ ०४९७

अश्रुमुख त्रि० अश्रुपूर्ण्णं मुखं यस्य । नेत्रजलप्लुतमुखे स्त्रियां

ङीप् । “पतिघ्नानाश्रुमुखी कृधुकर्ण्णी च क्रोशतु
अथ० ११, ११, ७ ।

अश्रुशालिन् त्रि० अश्रुणा शलते शल--णिनि ३ त० । स्त्रियां ङीप् नेत्रजलयुक्ते ।

अश्रेयस् त्रि० न श्रेयान् । हीनतरे । “अश्रेयान् श्रेयसीं

जातिं गच्छत्या सप्तमाद्युगात्” मनुः । स्त्रियां ङीप् ।

अश्रौत त्रि० श्रुतौ विहितः विरोधे न० त० । श्रुतिविहित-

विरुद्धे निषिद्धे नास्तिकाचारादौ । २ वेदविहितभिन्ने
स्मृतिमात्रविहिते च ।

अशाघा स्त्री अभावे न० त० । विकत्थनाभावे १ आत्मगर्भाभावे

न० ब० । विकत्यनशून्ये गर्व्वशून्ये २ विनीते त्रि० ।

अश्लिष्ट त्रि० न० त० । १ असङ्गते २ असम्बन्धे ३ श्लेषशून्ये काव्ये च ।

अश्लीक त्रि० नास्ति श्रीर्यस्य कप् रस्य लः । श्रीप्रतिकूले

श्रीनाशके । “अश्लीकमेतत् साधूनां यत्र जुह्वत्यमी
हविः” मनुः ।

अश्लील न० श्रियं लाति गृह्णाति ला--क रस्य लः, श्री +

सिध्मादित्वात् ल वा न० त० । १ लज्जादिसम्पादके
वाक्ये २ ग्राम्यमाषायाम् । “भास्करालोकनाश्लील
परिवादांश्च वर्ज्जयेत्” या० स्मृ० ३ काव्यदोषभेदे न०
तच्च त्रिविधं यथा “दुःश्रवं त्रिविघाश्लीलानुचितार्था-
प्रयुक्तता” सा० द० अश्लीलत्वं व्रीड़ाजुगुप्सामङ्गलव्यञ्जक-
त्वात्त्रिधा यथा “दृप्तारिविजये राजन्! साधनं सुमहत्तव”
“प्रससार शनैर्वायुः” । “विनाशे तन्वि! ते सदा” ।
“अत्र साधनवायुविनाशशब्दा अश्लीलवाचकाः” सा० द० ।
तत्र साधनशब्दस्य शिश्नस्यापि वाचकतया व्रीडायाः,
वायुशब्दस्यापानवायुवाचकतया जुगुप्साया, विनाशशब्दस्य
मरणवाचकतयाऽमङ्गलस्य च द्योतकता । यथाक्रमं च प्रकृते
हेतुपवनविरहबोधकतायै प्रयुक्ता अपि ते अश्लीलव्यञ्जक-
त्वाद्दुष्टाः । ४ निन्दाव्यञ्जके वाक्ये च “यमश्रुत्याश्लीला वा
गृच्छतीति” ता० ब्रा० “अश्लीला निन्दारूपा वाक्” भा०
न श्रियं लाति ला--कं । ५ अश्रीके त्रि० । “यैवैनमसाव-
श्लीलं वाग् वदति” ता० ब्रा० “अश्लीलमश्रीकरम्” भा० ।

अश्लेषा स्त्री न श्लिष्यति यत्रोत्पन्न न शिशुना श्लिष--घञ् न०

त० । सप्तविंशतिधा विभक्तराशिचक्रस्य नवमे नक्षत्रे तन्नक्षत्र
जातस्य शिशोःपित्रादिभिराषण्मासं दर्शनाभावस्याश्लेषाशा-
न्तिशब्देवक्ष्यमाणस्य सूचकतया तस्या अश्लेषात्वम् । तत्स्वरू-
पादि निरूपणाय सर्व्वताराणां स्वरूपं, संख्यविशेषः, योग-
ताराश्च प्रसङ्गादत्राभिधीयन्ते यथाह श्रीपतिः । “१ तुरग-
मुखसमृद्धं २ योनिरूपं ३ क्षुराभं ४ शकटनिभमथैणस्यो-
त्तमाङ्गेन ५ तुल्यम् । ६ मणि ७ गृह ८ शर ९ चक्राभानि
१० शालोपमं च ११ शयनसदृशमन्यच्चात्र १२ पर्य्यङ्करूपम् ।
१३ हस्ताकारमजस्रमौक्तिकसमं १४ चान्यत् १५ प्रबालोप-
मम् धिष्ण्यं तोरणवत् १६ स्थितं १७ बलिनिभं स्यात्
कुण्डलाभं १८ परम् । क्रुध्यत्केशरिविक्रमेण सदृशं १९ शय्या
समानं २० परम् चान्यद्दन्तिविलासवत् २१ स्थितमतः (अभि-
जित्) शुङ्गाटकव्यक्ति च । २२ त्रिविक्रमाभञ्च २३ मृदङ्ग-
रूपं २४ वृत्तं ततोऽन्यद्यमलद्वयाभम् २५ । २६ पर्य्यङ्कतुल्यं
२७ मुरजानुकारमित्येवमश्व्यादिभचक्ररूपम्” अत्राङ्कानु-
सारेणाश्व्यादीनां रूपाणि ज्ञेयानि । “वह्नित्रि ऋत्विषुगुणेन्दु
कृताग्निभूतवाणाग्निनेत्रशरभूकुनगाग्निरामाः । रुद्राब्धि-
रामशुचिवेदशतद्वियुग्मदन्ता बुधैर्निगदिताः क्रमशोभताराः” ।
यथा त्रिताराश्विनो भरणी च । षट्ताराः कृत्तिका । पञ्च-
तारा रोहिणी । त्रितारा मृगशिरा । एकतारा आर्द्रा,
चतुस्तारा पुनर्वसुः त्रितारा पुष्या, पञ्चतारा अश्लेषा
मधा च त्रितारा पूर्ब्बफल्गुनी द्वितारा उत्तरफल्गुनी
पञ्चतारा हस्ता, एकतारा चित्रा, स्वातिश्च सप्ततारा
विशाखा, त्रितारा अनुराधा ज्येष्ठा च । एकादशतारा
मूला, चतुस्तारा पूर्व्वाषाढ़ा त्रितारा उत्तराषाढ़ा, श्रवणा
चतुस्तारा धनिष्ठा शततारा शतभिषा । द्वितारा
पूर्व्वभाद्रपदा उत्तरभाद्रपदा च द्वात्रिंशत्तारा रेवती” एषां
योगतारा सूर्य्यसि० । “फाल्गुन्योर्भाद्रपदयोस्तथैवाषाढ़-
योर्द्वयोः । विशाखाश्विनसौम्यानां योगतारोत्तरा” स्मृता
एषामुक्तनक्षत्राण्णां प्रत्येकं स्वतारासु मुख्या उत्तरा
उत्तरदिक्स्था तारा योगतारा । “पश्चिमोत्तर-
तारा या द्वितीया पश्चिमे स्थिता । हस्तस्य योगतारा
सा श्रविष्ठायाश्च पश्चिमा” सू० सि० । हस्तनक्षत्रं पञ्च-
तारात्मकं हस्तपञ्चाङ्गुलिसन्निवेशाकारं ततो नैरृत्यदिग-
वस्थिता पश्चिमावस्थितताराया उत्तरदिगाश्रितताराया
द्वितीया पूर्व्वोक्तातिरिक्ता पश्चिमे वायव्याश्रिते स्थिता
सा हस्तस्य योगतारा ज्ञेया, उत्तरतारासन्ना पश्चिमाश्रिता
तारा हस्तस्य योगतारा” धनिष्ठायास्तारासु या पश्चिम-
दिक्स्था सा तस्या योगतारा इति च रङ्गना० । “ज्येष्ठा
श्रवणमैत्राणां वार्हस्पत्यस्य मध्यमा । भरण्याग्नेयपित्याणां
रेवत्याश्चैव दक्षिणा” सू० सि० “ज्येष्ठाश्रवणानुराधानां
पुष्यस्य च प्रत्येकं तारात्रयात्मकत्वात् मध्यमतारा योग-
पृष्ठ ०४९८
तारा” रङ्गना० । “रोहिण्यादित्यमूलानां प्राची सार्पस्य
चैव हि । तथा प्रत्यवशेषाणां स्थूला स्यात् योगतारका”
सू० सि० रोहिणीपुनर्वसुभूलानामश्लेषायाश्च प्रत्येकं
स्वतारासु पूर्ब्धदिक्स्था तारा योगतारा । अवशिष्टानां
आर्द्राचित्रास्वात्यभिजिच्छतताराणां यथायोग्यं स्वतारासु
यात्यन्तं स्थूला सा योगतारा नक्षत्रप्रसङ्गात्
ब्रह्मादिनक्षत्राणामपि स्थितिस्थानमुक्तं तत्रैव । “पूर्ब्बस्यां
ब्रह्महृदयादंशकैः पञ्चभिः स्थितः । प्रजापतिर्वृषान्ते-
ऽसौ सौम्येऽष्टत्रिशदंशकैः” सू० सि० ब्रह्महृदयस्था-
नात् पूर्व्वभागे पञ्चभिरंशैः वृषान्तनिकटे एकराशिसप्तविं-
शत्यंशैः प्रजापतिस्तारात्मको ब्रह्मा क्रान्तिवृत्ते स्थितः ।
अस्य विक्षेपमाह असाविति । असौ ब्रह्मा सौम्ये उत्तरस्यां
अष्टत्रिंशैः स्थित इत्यर्थः रङ्गना० । “अपांवत्सश्च चित्रा-
याउत्तरेऽशैस्तु पञ्चभिः । वृहत् किञ्चिदतो भागैरापः
षड़्भिस्तथोत्तरे” सू० सि० । “तिष्यपुनर्वसूद्वन्द्वे पा० सू०
व्याख्यायां सरलायामस्माभिर्यत् पुनर्वसोर्द्वितारत्वमुक्तं
तन्मनोरमादिमूलतया प्रामादिकमेव । एतच्छास्त्रालोच-
नेन पुनर्वसुनक्षत्रस्य चतुस्तारात्मकत्वं पुष्यस्थ त्रितारात्म-
कत्वं तेन बहुत्वे प्राप्ते द्वित्वविधायकं सूत्रं सार्थकमिति
द्रष्टव्यम् । “पादः पुनर्व्वमोरन्त्यः पुष्यो ऽश्लेषा च कर्कट” ।
ज्योति० नक्षत्राधिपा उक्ताः वृहत्सं० । “अश्वियम-
दहनकमलजशशिशूलभृददितिजोवफणिपितरः । योन्य-
र्य्यमदिनकृत्त्वष्टृपवनशक्राग्निमित्राः । शक्रोनिरृति-
स्तोयं विश्वविरिञ्ची हरिर्वरुणः । अजपादोहिर्बुध्नः
पूषा चेतीश्वरा भानाम्” । “चित्राश्लेषास्वातिविशाखा
भरणीपित्र्येशकृत्तिकाः । नातिशस्ताः प्रयाणेषु” ज्यो० त०
अस्य क्लीवत्वमपि “अश्लेषवह्नियमपित्र्यविशाखयुक्त
पूर्ब्बात्रयं शतभिषा च नवाप्यूड़ूनि” एतान्यधोमुख-
गणानि कयितानि नित्यं विद्यार्थभूमिखननेषु च भूषि-
तानि” ज्यो० त० । तथा च नक्षत्रपरत्वे न० तारा-
परत्वे स्त्रीत्वम् । एवं मूलाश्रवणादीनामपि द्विलिङ्गत्वम् ।
इयं तीक्ष्णगणः “तीक्ष्णोऽहिरुद्रेन्दुयुक्” ज्यो० त० नास्ति
श्लेषो यस्य । २ असंबन्धे त्रि० । श्लेषः काव्ये नानार्थपरता
स नास्ति यत्र । ३ श्लेषशून्ये काव्ये न० ।

अश्लेषाज पु० अश्लेषानक्षत्रे जायते जन--ड ६ त० । केतु

ग्रहे तस्याश्लेषाजातत्वात्तथात्वं अश्लेषाजातादयीऽप्यत्र ।

अश्लेषाशान्ति स्त्री अश्लेषाजनननिमित्ता शान्तिः शाक० त० ।

अश्लेषाजनननिमित्तशान्तौ । तत्र अश्लेषाजनने दोष-
माह” ज्यो० त० । “अश्विनीमघमूलानां गण्डाआद्यास्त्रि
नाड़िकाः । अन्त्याः पौष्णोरगेन्द्राणां पञ्चैव यवनाः जगुः”
मूलेन्द्रयोर्दिवा गण्डोनिशा च पितृसर्पयोः । सन्ध्याद्वये
तथा ज्ञेये रेवतीतुरगर्क्षयोः” सन्ध्यारात्रिदिवाभागे
गण्डयोगोद्भवः शिशुः । आत्मानं मातरं तातं
वित्तं हन्ति यथाक्रमम् । सर्वेषां गण्डजातानां परित्यागी
विधीयते । तातेनादर्शनं वापि यावत् षाण्मासिको
भवेत्” ज्यो० त० । त्यागासामर्थ्ये षण्मासपर्य्यन्तं मुखं न
पश्येत् शान्त्या सर्वत्र शुभम् । त्रिपञ्चादिघटिकेत्युक्ति
र्दोषबाहुल्यार्था वस्तुतः सर्वचरणेष्वेव दोषविशेषः
यथाह नारदः । “आद्ये पिता नाशमुपैति मूलपादे
द्वितीये जननी तृतीये । धनं चतुर्थेऽस्य शुभोऽस्य शान्त्या
सर्वत्र तत्स्यादहिभे विलोमम्” । सन्ध्यादिविशेषोक्ति-
रधिकदोषार्था । यथाह ज्योतिर्निबन्धः । “मूलाश्विपित्र्य
चरणे प्रथमे च नूनं पौष्णोन्द्रयोश्च फणिनश्च तुरीयपादे ।
मातुः पितुः स्ववपुषोश्च करोति नाशं जातो यदा निशि-
दिनेऽप्यथ सन्ध्ययोर्वा” । कन्यायां विशेषः विधानपारि-
जाते । “न बाला हन्ति मूलर्क्षे पितरं मातरं तथा ।
मूलजा श्वशुरं हन्ति व्यालजा च तदङ्गनाम् । महेन्द्र-
जाऽग्रजं हन्ति देवरन्तु द्विदेवजा । शान्तिर्वा पुष्कला-
स्याच्चेत्तर्हि दोषो न कश्चन” । द्विदेवजा अश्विनीजाता
तस्याः अश्विनीसुतदेवताकत्वेन तयोश्च द्वित्वात् तथात्वम् ।
तच्छान्तिश्च “अश्लेषायान्तु जातानां शान्तिं वक्ष्याम्यतः परम्
जातस्य द्वादशाहे च शान्तिहोमं समाचरेत् । विभवे पञ्च
कुम्भांस्तु द्वयं वा तदश क्तितः” इत्यादिना मानवसंहितोक्ता ।
सा च विधानपारिजाते अश्लेषाशान्तिविधानप्रकरणे
दृश्या । तत्फलं च मन्त्रलिङ्गात् ज्ञेयम् मन्त्रो यथा ।
“अश्लेषाऋक्षजातस्य मातापित्रोर्धनस्य च । भ्रातृज्ञाति-
कूलस्थानां दोषं सर्वं व्यपोहतु । योऽसौ वागीश्वरो देवो
ह्यधिदेवो वृहस्पतिः । मात्रापित्रोः शिशोश्चैव गण्डदोषं
व्यपोहतु । पितरं सर्वभूतानां रक्षन्तु पितरः सदा ।
सर्पनक्षत्रजातस्य वित्तं ज्ञातिं च बान्धवान्” वि० पा०
पुरा० ।

अश्व पु० अशनुते व्याप्नोति भार्गम् अश--क्वन् । घोटके “गच्छन्त

मुच्चलितचामरचारुमश्वम्” माघः । “जितसिंहभयानागा
यत्राश्वा विलयोनयः” कुमा० । “अमृताद्वाष्पतोवह्ने
र्वेदेभ्योऽण्डाच्च गर्भतः । साम्नो हयानामुत्पत्तिः सप्तघा
परिकीर्त्तिताः इत्युक्तेस्तेषाममृताद्युत्पत्तिस्थानम् ।
पृष्ठ ०४९९
हयोत्पत्तिस्थानसंख्यासाम्याच्च २ सप्तसंख्यायाम् “काष्ठतुल्यवपु-
र्धृष्यो मिथ्याचारश्व निर्भयः । द्वादशाङ्गुलमेढ्रश्च दरिद्रस्तु
हयो मत” इत्युक्तलक्षणपुरुषभेदे “पद्मिनी शशके तुष्टा
हये तुष्टा च हस्तिनीति” रस० । अत्र प्रसङ्गात् अश्वाना-
मङ्गविभागविशेषसंज्ञालक्षणादिकमुच्यते जयदत्तकृतादश्व
शास्त्रात् सारांशः “अतिप्रसिद्धा जिह्वा तु तस्याः शूना
भवेदधः । ऊर्द्धं तालु भवेत्तस्यास्ततोऽग्रे दन्तपी-
ठकम् । ततोदन्ताः समुद्दिष्टा ऊर्द्धंदन्ता भवन्त्यधः ।
चिवुकं चाघरे भागे तेषां प्रोक्तं विचक्षणैः । चिवुकस्यो-
परिष्टात्तु अधरोष्ठः प्रकीर्त्तितः । चिवुकात्पार्श्वभागे
तु हनुर्नामाभिधीयते । सृक्वद्वयं विजानीयात् वक्त्रपा-
र्श्वगतं बुधः । उत्तरोष्ठं प्रयाणाख्यं तदूर्द्धं प्रोथ उच्यते
नासाच्छिद्रेतथा पार्श्वेप्रोथस्यैव व्यवस्थिते । नासाच्छिद्राक्षि-
मध्ये तु घोणाख्या समुदाहृता । घोणापार्श्वगतौ गण्डौ-
क्षीरिके च ततःपरम् । नेत्रयोरुत्तरे भागे अश्रुपात उदाहृ-
तः । कर्णान्ते चैव नेत्रान्तमपाङ्गं ब्रुवते बुधाः ।
कनीनिकाख्यो विज्ञेयो यश्च नासासमीपगः । सितासितौ च
तन्मध्ये नेत्रयोर्मण्डलं हि तत् । प्रच्छादनं भवेद्वर्त्म
चाक्षिकूटमतःपरम् । तस्मादूर्द्धं भ्रुवोर्लेखा ललाटं च
तदुत्तरम् । ऊर्द्धं ललाटदेशात्तु केशान्तं च ततः श्रवः ।
ततः शिरो विजानीयात् श्रवादूर्द्धगतं बुधः । शिरः-
पार्श्वगतौ कर्णौ तयोर्मूलं सकुन्तलम् । अपाङ्गाद्द्व्यङ्गुले
चैव शङ्खं विद्याद्विचक्षणः । शङ्क्षकर्णान्तरे चैव कटाक्षं
समुदाहृतम् । विदोमर्म्मविदुश्चैव कर्णस्याधः षड़ङ्गुले ।
घण्टाबन्धसमीपस्थो निगालः परिकीर्त्तितः । अधस्तले
निगालस्य गलमाहुर्मनीषिणः । ततः कण्ठं विजानी-
यादधोभागे नतं बुधः । ग्रीवा लोकप्रसिद्धा तु
तस्याश्चोपरि केशरः । ग्रीवास्कन्धान्तरे चैव वाहं प्राहुर्म-
नीषिणः । वाहस्योपरि यस्तु स्याल्काकसं ककुदं च तत् ।
ततः पृष्ठं विजानीयादासनं पृष्ठमध्यगम् । अंसके ककुदश्चैव
निबन्धः परिकीर्त्तितः । स्यातामंसादधोबाहू तयोर्बाह्ये-
षड़ङ्गुले । मन्दिरः पश्चिमोमागः कलापी जानुनोऽग्रिमः ।
जानुनश्चाधरे भागे जङ्घां विद्याद्विचक्षणः । जङ्घापार्श्वे
कलां विद्यात् सन्ध्यं चैषिकसंज्ञकम् । अग्रतः पालिहस्तः
स्यात् पश्चात्कूर्च उदाहृतः । किणस्तत्रैव मध्यस्थोह्यधोभागे
च कुष्टकी । खुरसन्धिं ततोविद्यादधोभागे ततः खुरम ।
खुरस्य पार्श्वे पार्ष्णिः स्यादग्रभागे नखो भवेत् । खुरस्या-
धस्तलं चैव मण्डुकी तलमध्यगा । खुरमांसं विजानीयात्
क्षीरकाख्यं विचक्षणः । हृदयात्परतः कुक्षी पार्श्वतश्च
विभागतः । जठरं पार्श्वमध्यस्थं तस्य नाभिश्च मध्यतः ।
रोमराजीं ततो विद्यान्मूत्रकोशमतःपरम् । आ कट्याः
पश्चिमे भागे पुटौ स्फिचौ च कीर्त्तितौ । पुच्छमूलं च
वाहानां भाषते पुच्छमूलतः । तस्याधः कीर्त्तितः पायुः
सीवनी च ततः परम् । मुष्कौ च कटिसन्धिं च
ततोविद्यात्परं बुधः । अधस्तात्कटिसन्धेस्तु ऊरुसन्धि-
रुदाहृतः । सक्थिनी फलसन्धेस्तु ऊरू पादाभिधायके ।
ततः स्थूरं विजानीयात्तस्याधोमन्दिरं भवेत् । किणं
चैव ततो विद्यान्मन्दिराख्ये सुसंस्थितम् । ततः परं
विजानीयात् कालकूर्चं च कुष्टिकम् । खुरान्तसंज्ञं
मण्डूकं ततो विद्याद्विचक्षणः । अग्रे जङ्घाद्वयं चैव वक्षो
ग्रीवाशिरोमुखम् । पूर्वकायःसमद्दिष्टः पृष्ठदेशस्तु मध्यमः ।
आ कटेः पश्चिमे भागे खुरान्तश्चापरं स्मृतम्” ।
तेषां लक्षणाणि “अशुभैर्लक्षणैर्युक्ता हया न ग्रहणो-
चिताः । अतो लक्षणमेवादौ तेषां वक्ष्यामि देहजम् ।
ओष्ठयोः सृक्वणोश्चैव जिह्वायां दशनेषु च । वक्त्रे तालुनि
नासायां गण्डयोर्नेत्रयोस्तथा । ललाटे मस्तके चैव केशे
कर्णपुटे तथा । ग्रीवायां केशरे चापि स्कन्धे वक्षसि बाहुके ।
ऊङ्घायां जानुनोश्चाधः कूर्चे पादे तथैव च । पार्श्वयोः
पृष्ठभागे च कुक्षौ कट्यां सवालधौ । मेहने मुष्कयोश्चापि
तथा चैवोरुकद्वये । आवर्त्ते च खुरे पुच्छे गतौ वर्णे स्वरे
तथा । महादोषे त्यजेत्प्राज्ञश्छायायां गन्धसत्वयोः ।
प्रमाणस्यैव वाहानां लक्षणं यत्प्रतिष्ठितम् । शुभा-
शुभविवेकाय तद्विद्याद्वुद्धिमान्भिषक् । शालिहोत्रादि-
भिःसम्यक् त्रिकालज्ञानकोविदैः । आताम्रौ पूजिता-
वोष्ठौ बलिहीनौ मृदुत्वचौ । सुप्रोथोत्तरसंस्थं च
विपरीतं विवर्जयेत् । सृक्वणोर्मृदुता शस्ता जिह्वायां
रक्तता तथा । अतश्चान्यद्धि दोषाय न त्वदीर्घा च सा शुभा ।
घना स्निग्धा सुबद्वा च समा दन्ताः सुशोभनाः । षट्संख्ये
बन्धरे वृत्ते तेषु व्यञ्जनसंभवः । आयतं तुङ्गघोणं च निर्मांसं
प्रियदर्शनम् । सुबन्धं पूजितं वक्त्रं विपरीतं विगर्हितम् । तालु-
रक्तं प्रशस्तं च सुपुटे चैव नासिके । नातितनू समौ गण्डौ
वाहानां कीर्त्तितौ शुभौ । अत्यन्तनिर्गते चैव सुबद्धे नैव
चाविले । प्रशस्ते वाजिनां नेत्रे मद्याभे मलतारके ।
स्रिग्धायते विशाले च श्रेष्टे मधुनिभाक्षिणी ।
कनकप्रतिसंकाशे शस्ते वाहस्य लोचने । सावर्त्तं च विशालं च
अनिम्नं चैव वाजिनः । ललाटं पूजितं प्राहुर्मुनयः शास्त्र
पृष्ठ ०५००
कोविदाः । शिरः समं तथा वृत्तमावर्त्तद्वयभूषितम् । केशाश्च
मृदवश्चैव बहवश्चैव पूजिताः । ऋजुता कर्णयोश्चैव तीक्ष्णता
तनुता तथा । अदीर्घरोमता चैव प्रशस्ता विप्रकीर्त्तिता ।
सुवृत्ताङ्कुञ्चिताञ्चैव धन्यां ग्रीवां बिदुर्बुधाः । केशरश्च
जटाहीनो मृदुश्चैव प्रशस्यते । सुबद्धश्च दृढ़श्चैव स्कन्धो-
वाहस्य पूजितः । वक्षः प्रशस्त विपुलं निर्गतं विशरं च
तत् । ऋजुवृक्षसमौ बाहूगूढ़ं जानु प्रशस्यते । अवक्रा
मांसहीना च वाजिजङ्घा प्रशस्यते । शुभं स्मृतं सुवृत्तं च
समं चैव नतोन्नतम् । कूर्चमेवंविधं विद्याद्ग्रन्थिव्रणविव-
र्जितम् । दृढ़मण्डकिकायुक्तो वर्त्तुलः श्लिष्टसन्धिकः ।
खुरः खरखुराकारः प्रशस्तः ससुदाहृतः । पार्श्वे चैव समे
वृत्ते ऊर्द्ध्वमांसोपशीभिते । अविलम्बि सुवृत्तं च उदरं
चातिपूजितम् । नातिदीर्घं समं पृष्ठं किञ्चिच्च विनतं
शुभम् । सुवृत्ता चैव पीना च कटिर्धन्या प्रकीर्त्ति ता ।
मृदुस्निग्धायतैर्युक्तं बालैः प्रच्छं प्रशस्यते । वृषणौ च समौ
वृत्तौ ईषल्लम्बावलोमशौ । कृष्णवर्णविहीनं तु ह्रस्वं मेहन-
मिष्यते । अनुपूर्वं परं चैव शोभनं चोरुकद्वयम् । पूर्व-
जङ्घे च जङ्घादि खुरान्तं चापि पश्चिमम् । शालिहो-
त्रादिभिः प्रीक्तं मुनिभिः पूर्ववेदिभिः” ।
आवर्त्तलक्षणम् “विंशतिस्तु शुभाः प्रोक्ताः षट्सप्तत्यशुभाः”
स्मृताः । उत्तरोष्ठप्रपाणस्थास्तत्रावर्त्ताः शुभावहाः । सृक्वणोश्च
था प्रोक्ताः सर्वकामफलप्रदाः । त्रयश्चैवाथ चत्वारो वाजिनो-
र्यस्य रोमजाः । द्वौ वा ललाटजौ यस्य स तु धन्यतमः स्मृतः ।
आनुपूर्ब्ब्या स्थिताश्चोर्द्ध्वं ललाटे रोमजास्त्रंयः । निःश्रेणी
नाम सा ख्याता भर्त्तुः सर्वार्थसाधिनी । शिरःकेशान्त-
योर्म्मध्ये श्रवोनामाभिधीयते । तत्रावर्त्तः स्थितोऽश्वस्य
भर्त्तुर्ज्जयविवर्द्धनः । घण्टाबन्धसमीपस्थो निगालः
कीर्त्तितों बुधैः । तस्मिन्देवसणिर्नाम रोमजः शुभकृत्
स्मृतः । कर्णमूले तथा बाह्वोः केशान्ते मस्तके तथा ।
आवत्तोः पूजिता नित्प विशेषेण तु मस्तके ।
आवर्त्ता यस्य चत्वारो वाजिनो वक्षसि स्थिताः । एका
कण्ठे भवेत् स्पष्टं स धन्यः सर्वकामदः । रन्ध्रे चैव सदा
भर्त्तुः शंसितार्थप्रदोमतः । उपरन्ध्रोद्भवश्चैव रोमजश्चाति
पूजितः । शङ्खचक्रगदापद्मशुक्तिवज्रोपमाश्च ये । विशेषेण
शुभाः प्रोक्ता रोमजाः शुभदेशजाः । अत ऊर्द्ध्वं प्रव-
क्ष्यामि रोमजानशुभाय यान् । भर्त्तुः क्लेशवहान् सर्बा-
न्धनप्राणापहारकान् । नासिकापुटयोर्मध्ये प्रदेशः
प्रोथ उच्यते । तत्र भर्त्तुर्विनाशाय रोमजोऽश्वस्थ
कीर्त्तितः । ऊर्द्ध्वस्थो नासिकाच्छिद्रात् स्वामिनः क्लेश-
दायकः । गण्डजश्चैव भर्त्तारं हन्त्यावर्त्तो दुरासदः ।
अश्रुपातः समुद्दिष्टः प्रदेशश्चक्षुषोरधः । तत्रावर्त्तीभवेद्धीनः
स्वामिनः कुलनाशनः । अपाङ्गाद्द्व्यङ्गुले चैव प्रदेशः
शङ्ख उच्यते । तत्र भर्त्तुर्विनाशाय भवेद्वाहस्य रोमजः ।
भ्रुवो देशे समुद्भूत आवर्त्तो नैव पूजितः । सुहृद्वियोगकृत्स-
स्याद्भर्त्तुरर्थावसादकः । सव्यां ग्रीवां शिरां विद्यात्तत्रावर्त्तस्तु
कुत्सितः । कक्षयोश्चापि संग्रामे स्वामिनं चाशु घातयेत् ।
चिवुकस्य समीपस्थो वामदक्षिणभागतः । प्रदेशस्तु हनुर्नाम
तत्रावर्त्तो हि दारुणः । अधरोष्ठस्य चाधस्तु चिवुको हि
प्रसिद्धकः । तस्मिन् पापो भवेद्भर्त्तुः कर्णयोश्चापि रोमजः ।
कण्ठस्याथ निगालस्य मध्ये वालक उच्यते । तत्रावर्त्तः
स्थितः पापः स्कन्धसन्धिगतश्च यः । अधस्ताज्ज्वङ्घयो-
श्चैव ग्रन्थिः कूर्च इति स्मृतः । तत्रावर्त्तः स्मृतो भर्त्तुः
संग्रामे जीवितान्तकृत् । कूर्चादष्टाङ्गुलं चोर्ध्वं पार्श्वयोः
ककता स्मृता । तत्र भर्त्तुः शराघातै र्जीवितान्ताय रोमज ।
ककुदं वृषभस्येव सुव्यक्तमुपलक्ष्यते । वाजिनो यस्य तत्रस्थ
आवर्त्तस्तु विनाशकृत् । ककुदस्य पुरोभागे समीपे वाह
उच्यते । भर्त्तुः सुतसमेतस्य तस्मिन् नाशाय रोमजाः ।
काकसे तु हयस्य स्यादावर्त्तों यस्य दारुणः । रणे हतः समं
भर्त्त्रा कृव्यादैः स विलुप्यते । क्रोडे चैवासने चापि हृदये
र्चव वाजिनः । आवर्त्ताः स्वामिघाताय भवन्त्ये ते न
संशयः । पार्श्वयोरोमजो यस्य स चाश्वोनयति क्षयम् । सपक्षं
चाशु भर्त्तारं नीहाराम्बु यथाम्बुजम् । कूर्चस्याधःप्रदेशस्तु
कुष्टिश्च परिकीर्त्तितः । अधन्यस्तत्र वाहस्य जघन्यो जानु-
जश्च यः । नाभिजोमुष्कजश्चैव त्रिकजश्च विशेषतः ।
पुच्छमूलस्थितश्चापि नैव धन्यः प्रकीर्त्तितः । कुक्षौ
व्याधिः, क्षयायेव रोमजाः कुक्षिसंभवाः । पायुत्रि-
बलिमध्यस्था नैव धन्या प्रकीर्त्तिताः । स्फिचिजः खुरजश्चैव
यस्यावर्त्तो हि वाजिनः । लञ्जावर्त्तः स विख्यातो भर्त्तुः
सर्वार्थनाशकः । शतपादीति विख्यातस्तथा वै मुकुलोऽपरः ।
आवर्त्तश्चैव संघातः पादुकश्चार्द्धपादुक्रः । शुक्तिश्चैवावली-
ढ़श्च आवर्त्तः कीर्त्तितोऽष्टधा । वाजिदेहगतः सम्यक्
शुभाशुभनिवेदकः । शतपादीसमाकारः शतपादीति
कीर्त्तितः । जातीमुकुलसंकाशो मुकुलः समुदाहृतः । आवर्त्तो
भ्रमितो बालैः संघातो रोमपुञ्जकः । शुक्तिश्च शुक्तिसंस्थानै-
रोमभिर्व्यक्तलक्षणैः । एतेषामेव लीढ़स्तु अवलीढ़ः प्रकी
र्त्तितः । पादुकः पादुकाकारस्तथाचैवार्द्धपादुकः । बालै-
पृष्ठ ०५०१
र्विशेषसंस्थानैर्निर्द्दिशेन्मतिमान्भिषक् । शास्त्रमार्गा-
नुसारेण यथा प्रोक्तं तपोधनैः एतेषामेव सर्वेषामावर्त्तानां
विचक्षणैः । रोम्णां तिलकृता संज्ञा वाजिलक्षणवे-
दिभिः । शुभाशुभौ तु यत्र द्वौ तत्रैको न फलप्रदः ।
एवं हेम्ना दहेत्पापं तेन दोषो न दुष्यति । अथ वा
वाजिनो मुख्याः ये चाङ्गादिगुणाधिकाः । दत्त्वा
ग्राह्याः क्रयेणैव दुरावर्त्तस्तु काकूदी । श्रीवृक्षो रोमज-
श्चैव रोचमानस्तथैव च । अङ्गादी पेषली नाम
राजरत्नप्रदाः सदा । प्रयाणे मारुतं विद्याल्ललाटे च हुताशनम् ।
उरसि चाश्विनौ देवौ चन्द्रासूर्य्यौ च मूर्द्धनि । रन्ध्रे स्कन्द-
विशाखौ च उपरन्ध्रे हरीहरौ । इत्येवं पूजिताह्ये ते
दशबन्धास्तु वाजिनः । अप्येकेन विहीना ये भवेयुर-
शुभास्तदा” ।
अथ पुण्ड्रलक्षणम् अत ऊर्द्ध्वं प्रवक्ष्यामि पुण्ड्राणां
लक्षणम् शुभम् । शुक्तिशङ्खगदापद्मखड्गचक्राङ्गुशोपमाः ।
शिरोललाटं वदनं यः पुण्ड्रो व्याप्य तिष्ठति । स धन्यः
पूजितोनित्यं मृदुकश्चैव योभवेत् । पर्वतेन्दुपताकाभा ये च
स्रग्दामसन्निभाः । ते सर्वे पूजिताः पुण्ड्रा धनधान्यफल-
प्रदाः । इति पुण्ड्राः समाख्याताः पूर्व्वशास्त्रानुसारतः ।
अशुभांश्चैव वक्ष्यामि--यथायीगं समासतः । काककङ्कक-
बन्धाहिगृघ्रगोमायुसन्निभाः । असिताः पीतका रक्ताः
पुण्ड्रका न च पूजिताः । तिर्य्यगगाश्चैव विच्छिन्नाः शृङ्ल-
लापाशशोभिताः । जिह्वाकृष्णाक्षिरूक्षाणि भस्मवर्ण्ण-
निभानि च । शूलाग्रा वामदेहस्थाः पुण्ड्रका न शुभप्रदाः ।
पुण्ड्रकाणि विनश्यन्यि भिन्नवर्ण्णानि वाजिनः” ।
अथ पुष्पलक्षणम् । “आगतं वत्सरन्तस्य ये भवन्त्यन्यव-
र्ण्णकाः । विन्दवः पुष्पसंज्ञा वा हिताहितत्वकारकाः । तेषां
प्रदेशभेदे च लक्षणं यद्व्यवस्थितम् । तत्तथैव समासेन विस्पष्टं
कीर्त्त्यतेऽधुना । प्रपाणे च ललाटे च कचे मूर्द्धनि कर्णयोः ।
निगाले चैव केशान्ते पुष्पं धन्यतमं स्मृतम् । स्कन्धे वक्षसि
कक्षे च मुष्कयोर्बाहुके मुखे । हनौ पृष्ठे च वाहानां पुष्पं
स्वामिहितप्रदम् । नाभौ केशे तथा कण्ठे दन्ते चैव हि
वाजिनाम् । पुष्पं धन्यतमं प्रोक्तं भर्त्तुः सर्वार्थसाधकम् ।
अप्रशस्तानि दृष्टानि मुनिभिर्यानि शास्त्रतः । तानि सम्यक्
प्रवक्ष्यामि पुष्पाण्यन्यानि दर्शनात् । अधरोष्ठे करे प्रोथे
उत्तरोष्ठे तथैव च । घोणायां गण्डयोश्चैव शङ्खयोश्च तथा
भ्रुवोः । ग्रीवायां चैव वाहे च सृक्कणोःस्थूरके
स्थिचि । पायौ क्रोड़े च पुष्पाणि निन्दितानीति निश्चयः ।
रक्तं पीतं तथा कृष्णं पुष्पं सर्वत्र नेष्यते । शुभप्रदेशे
सञ्जातं भवेत्साधारणं ततः । पुत्रलाभधनप्राप्तिमारोग्यं
विजयं तथा । विद्यात्पुष्पैः शुभैर्भर्त्तुरशुभैश्च विपर्य्ययम् ।
सर्वाङ्गपुष्पितो वाहो परित्याज्यो न संशयः” ।
अथ गतिशुभादिलक्षणम् “दूरमुत्क्षिप्य यः पार्दा-
स्तप्तांगारान् स्पृशन्निव । पुलं याति शुभं हृष्टो वाजी भद्र-
गतिस्तुसः । पूजिता वृषमातङ्गसि हशार्दूलगामिनः ।
अतोऽन्यगतयो नेष्टाः मर्वशुद्धतुरङ्कमाः । संकीर्णा एकतोभ्रष्टा
चङ्क्रमौध विवर्जिताः । अत्यूर्द्धा चैव वक्रा च वाजिनां निन्दिता
गतिः । षोडशाछोटिकाभिस्तु करवेष्टितजानुभिः । शतं द्विगु-
णितं गत्वा हस्तानां पुनरेति यः । स शीघ्रगतिरित्युक्तो वाजी
धन्यस्तपोधनैः । दशहीना भवन्त्येते मध्यमाधमगा हयाः ।
अथ वर्ण्णभेदेन नामभेदः “श्वेतः कोकाह इत्युक्तः कृष्णः
खुग ह उच्यते । पीतको हरितः प्रोक्तः कषायो रक्तकः स्मृ-
तः । पक्कतालनिभो वाजी कयाहः परिकीर्त्तितः । पीयूषव-
र्णः सेराहो गर्दभाभः सुरूहकः । नीलो नीलक एवाश्वः
त्रिपूहः कपिलः स्मृतः । शिलहः कपिशो वाजी
पाण्डुकेशः सुबालधिः । हलाहश्चित्रकश्चत्रिपुलाहः
श्वेतपीतकः । ईषत्पीतः कुलाहस्तु यो भवेत् कृष्णजा-
नुकः । कृष्णा चास्ये भवेद्रेखा पृष्ठवंशानुगामिनी । उराहः
कृष्णजानुस्तु मनाक्पाण्डुस्तु यो भवेत् । वेरुहाणः स्मृतो
वाजी पाटलो यः प्रकीर्त्तितः । रक्तपीतकषायोत्थो वर्णजो
यस्य दृश्यते । दुकुलाहःस विख्यातो वर्णो वाहस्य देहजः ।
पूंर्वोक्तानां च वर्ण्णानां मुखपुण्ड्रेण वाजिनाम् । ये भवन्ति
परे भेदास्तान् ब्रवीम्यनुपुर्वगः । कोकाहः पुण्ड्रिको
नाखः कोकुराहः प्रकीर्त्तितः । खुराहखरगाहौ च
हरिकोहरिराहिकः । कलाहश्चैव वोल्लाहः सिराहः
सिहुराहकः । कुलाहः कुलुराहस्तु सराहः शुभरा-
हकः । चारुराहो जयेदश्वो वोरुराहो न यः स्मृतः ।
कुलीही दुरुणाहस्तु युद्धके नैव कोर्त्तितः । त्रिपुहस्त्रि-
पुक्षाहश्च युद्धके नैवकीर्त्तितः । त्रिपुहस्त्रिपुलाहश्च चित्र-
लाङ्गश्च यो भवेत्” ।
अथ रोमवर्ण्णभेदेन शुभाश्रुभलक्षणम् । “यस्य गौराणि
पीतानि गात्ररोमाणि वाजिनः । स भर्त्तुः श्रिव-
माधत्ते यस्य शुक्लासितानि च । यस्य पादाः सिताः
सर्वे पुच्छं वक्षो मुखं तथा । ऊर्द्ध्वजङ्घा सिता यस्य त विद्या-
दष्टमङ्गलम् । प्रभूतासितताराश्च प्रशस्ता मुनिभिः स्मृताः ।
यस्तु पीतासितैस्तारैः स घन्यः कीर्त्तितो हयः । प्रशस्तः
पृष्ठ ०५०२
कृष्णतारस्तु मल्लिकाक्षः प्रकीर्त्तितः । श्वेतजावेष्टितं कृष्ण
रेखया तारकं च यत् । मल्लिकाक्षः सविज्ञेयः स्वामिनः
सुखवर्द्धनः । सिततयाऽप्रशस्तश्च स्वामिनः क्लेशवर्द्धनः ।
सर्वश्वेतश्च कृष्णश्च रक्तपीतस्तथैव च । एते सांग्रामिकाः
प्रोक्तास्तुरगा मुनिसत्तमैः । हरिताः किल जायन्ते
वाजिनः पुण्यदर्शनाः । यतो हिता नरेन्द्राणामायुरारो
ग्यश्रीप्रदाः । रक्तास्यमेहनः शस्तः श्यामकर्ण्णस्तु यः
सितः । कपोतेन च वर्णेन योहयः शुक्लकेशरः । शुक्लपा-
दमुखो वाजी प्रशस्तः परिकीर्त्तितः । चतुर्णां चैव
पादानां शुक्लता यस्य वाजिनः । मुखं सिततरं चैव पञ्च-
भद्रः स उच्यते । श्वेतमण्डलचित्रश्च भर्त्तुः सर्वार्थ-
साधकः । पाण्डुरा यस्य रेखा स्यात् पृष्ठवंशानुगामिनी
श्वेतकृष्णशिरा यश्च नैव धन्यः प्रकीर्त्तितः । अन्यवर्णं
शिरो यस्य पुच्छ वा यस्य वाजिनः । पुच्छेन शिरसा
वापि नानावर्णेन निन्दितः । अव्यक्तवर्णो योवाहस्तथा
तित्तिरिसन्निभः । कुत्सितो वानराक्षश्च यीवा व्याघ्रावलीढ़कः”
तथाङ्गविकृतितोऽशुभलक्षणम् । “काकुदी कृष्णजिह्वश्च
कृष्णसेफाण्डतालुकः कराली हीनदन्तश्च शृङ्गी वाधिक-
दन्तकः । एकाण्डश्चैव जाताण्डः कञ्चुकी त्रिसरी
तथा । मार्ज्जारपादो व्याघ्राभस्त्रिकंर्णी द्विखुरी स्तनी ।
यमयो वामनश्चैव काकतित्तिरसंनिभः । वानराक्षो
विड़ालाक्षो मुशली चेन्द्रवृद्धिकः । येषां पृष्ठे हतो भर्त्ताऽ
जातदन्तस्तथैव च । एते दोषान्विता वाहास्त्याज्या वै
भूतिमिच्छता । धनप्राणहराह्येते बन्धुविग्रहकारकाः । एषां
चिह्नं प्रवक्ष्यामि येन जानन्ति सादिनः । पूर्ब्बशास्त्रानुसारेण
मुनीनां वचनं यथा । आवर्त्ता यत्र ककुदे काकुदी स
उदाहृतः । करालैर्वाधरे दन्तैर्ज्जायते यस्य चोत्तरम् चतुर्भिः
पञ्चभिश्चैव हीनदन्तः प्रकीर्त्तित्लः । सप्तमिश्चाष्टभिर्दन्तै
र्ज्जातश्चाधिकदन्तकः । अङ्गुष्ठपर्वसंकाशं छागशृङ्गोपमन्तथा ।
जम्बूवदररूपं च तथा चामलकोपमम् । आम्रास्थिसदृशं
चापि हरीतक्याः फलोपमम् । दग्धचर्म्मनिभं चापि बालं
संस्थानमेव च । कालङ्कर्णान्तरे यस्य केशान्ते चापि दृश्यते ।
धोरेयः सर्वपापानां वाहः शृङ्गी स कीर्त्तितः । एवंविधेन
शृङ्गेण शृङ्गी राष्ट्रे न वासयेत् । एकतोलप्रमाणेन
मुष्केणैकाण्डसंज्ञकः । अत्यन्तरोमशाभ्यां तु ताभ्यां जाताण्ड
उच्यते । स्कन्धे वक्षसि बाह्वोश्च अंसदेशे तथैव च । अन्य
वर्णो भवेद्वाजी कञ्चुकी स प्रकीर्त्तितः । यस्यान्यवर्णा
रेखा स्यात्पादे कूर्च्चे च वाजिनः । मार्ज्जारपादः प्रोक्तो-
ऽसौ सोऽधन्यः कुलनाशनः । अन्यवर्णस्य वाहस्य शिरः
कृष्णं यदा भवेत् । त्रिसरी नाम स प्रोक्तो भर्त्तुः
कुलविनाशनः । द्विखुरं गोखुराकारखुरैर्विद्याद्विचक्षणः ।
अथ वा त्रिबलियुक्तै र्निम्नमध्यैश्च निर्दिशेत् । वृषणाभ्यां
सुजाताभ्यां स्तनाभ्यां विहिता स्तनी । त्रिभिः कर्णैस्त्रि-
कर्णी च व्याघ्राभो व्याघ्रवर्णकः । एकेनाङ्गेन हीनेन
निम्नेन च विशेषतः । यमयं वाजिनं विद्याद्वामनं
वामनाकृतिम् । वर्णादेकेन पादेन अन्यवर्णेन यी हयः ।
मुसलीति स विख्यातो भर्त्तुः कुलविनाशनः । विरोधं नैव
यो याति दृष्ट्वाश्वान् मुष्कवर्जितः । इन्द्रवृद्धिः स विख्यातो
भर्त्तुः कुलविनाशनः । अथ चेद्बड़वां दृष्ट्वा विरोध-
मधिगच्छति । निगूढ़ वृषणाख्यस्तु स धन्यः सर्वकामदः ।
द्विवर्षं तु समारभ्य यावद्वा पञ्चवार्षिकः । दन्तानां मुषक-
योश्चैव सम्भवो वाजिनः स्मृतः । अत ऊर्द्ध्वं न जायन्ते
मुष्कौ दन्ताश्च वाजिनः । अशुभं तु फलं वाच्यमभावे न
ततस्तथा” ।
अथाश्वाङ्गचेष्टादिशुभाशुभम् । अतःपरं प्रवक्ष्यामि
तुरगाणां विभागतः ज्वलितेन यथाङ्गेन फलं वाच्यं शुभा-
शुभम् । यदा ज्वलति वाहानां सर्व्वगात्रे हुताशनः । तदा
विद्यादनावृष्टिमव्दमेकं न संशयः । अन्तःपुरविनाशस्तु
मेहनेज्वलिते भवेत् । उदरे वित्तनाशस्तु पायौ पुच्छे
पराजयः । उत्तमाङ्गे च वक्त्रे च स्कन्धे चैवासने
तथा । भर्त्तुर्जयाय वाहानां ज्वलनं यत्र नेत्रके ।
धूमं ललाटे बाह्वोश्च तथा वक्षसि निन्दितम् । तत्रैव
ज्वलनं शस्तं तथा नासासमुद्भवः । यदा व्याधिं विना
वाजी ग्रासं त्यजति दुर्म्मनाः । अश्रुपातं च कुरुते तदा
भर्त्तुरशोभनम् । स्वयमेव यदा वक्त्रं हृष्टो लोकयते हयः ।
रवङ्कायप्रदाने तु तदा विद्याज्जयं प्रभोः । सर्वैदेव शिरो-
घ्नस्तु सर्वेषां नैव पूजितः । वामपादाभिघातस्तु प्रभीर्या-
त्रानिषेधकः । स्वामिनारूढ़मात्रेण दक्षिणं पार्श्वमात्मनः ।
तुरङ्गमो यदा न्यस्येत्तदा भर्त्तुर्जयो भवेत् । पुच्छं
वाहं यदा वाहो वामतो विकिरेद्यदा । तदा भर्त्तुः प्रवासः
स्यात् दक्षिणे विजयस्तया । प्रकिरन्ति यदात्यर्थं सर्व पुच्छ्वं
तुरङ्गमाः । अकस्मादेव जाता च तेषां भीतिः प्रभोःस्मृता” ।
अथाश्वमानम् “हस्तोऽङ्गुलानां विंशत्या चतुरुत्तरया स्मृतः ।
चतुर्हस्तस्तु विख्यातः शास्त्रोक्तेनोत्तमो हयः । अर्द्धहस्तेन
हीनस्तु भवेन्मध्यस्तुरङ्गमः । मुष्टिन्यूनेन हस्तेन हीनश्चाप्य-
धमः स्मृतः । ऊर्द्ध्वमानप्रमाणं तु परिणाहं विनिर्दिशेत् ।
पृष्ठ ०५०३
उत्तमानाञ्च मध्यानां होनानां चैव वाजिनाम् । अर्द्धसप्त-
महस्तं तु श्रेष्ठं दैर्व्येण निर्दिशेत् । षड्भिश्च मुष्टिभिहीर्नं
मध्यमं च विचक्षणः । पञ्चहस्तप्रमाणस्तु जघन्यः समुदाहृतः ।
द्वात्रिंशदङ्गुलं वक्त्रमुत्तमाश्वस्य कीर्त्तितम् । पृष्ठं वक्षः कटीं
चैव मुखतुल्यं समादिशेत् । अङ्गुलीद्वयहीनं तु मुखादि मध्य-
माधमम् । निर्दिशेन्मतिमान्वैद्यः वाजिशास्त्रविशारदः ।
सप्ताङ्गुलं खुरं चैव उत्तमाश्वस्य कीर्त्तितम् । षड़ङ्गुलं
भवेन्मध्येजघन्ये चतुरङ्गुलम् । षोड़शाङ्गुलदीर्घा तु जङ्घा चैवो-
त्तमे हये । चतुर्दशाङ्गुला मध्ये हीने च द्वादशाङ्गुला ।
एवंविधं प्रमाणं तु निर्दिष्टं शास्त्रशालिभिः । अपाङ्गात्
पुच्छमूलं तु दैर्व्येणाश्वं प्रमाणयेत् । खुरान्तात् ककुदं
यावदूर्द्धमानेन बुद्धिमान् । वक्षोभागे तु सर्बेभ्यो रज्ज्वा
वा सूत्रकेण च । परिणाहं तुरङ्गस्य मापयेन्मतिमान्भिषक् ।
एवं प्रमाणभागेन विभक्ताङ्गश्च पूजितः । अतो हीनाधिका-
ङ्गाश्च हरयो नैव पूजिताः” ।
आवर्त्तादिकं विशेषयति हेमा० प० ख० ज्योति० पराशर-
संहिता । “आवर्त्तो बहिर्मुखवृत्तमण्डलरोमा, दीर्घवृत्तार्द्ध-
रोमा शुक्तिः । कनकमन्तर्मुखवृत्तरोमसंघातं, प्रफुल्लविकच-
रोम पुष्परमिति” । पुष्पं विशेषयति तत्रैव । “श्वेतं स्निग्ध-
मन्यवर्ण्णस्थ प्रशस्तंश्वेतस्य कृष्णं पीतं रूक्षंरक्तं वा । यस्या-
न्यवर्णं ललाटे श्वेतं बालेन्दुतारकसंस्थानं वा पुष्पम्” ।
अयाश्वायुर्लक्षणम् “आयुर्लक्षणमश्वानामतऊर्द्ध्वं प्रव-
क्ष्यते । शालिहोत्रादिनिर्दिष्टं यथा पूर्ब्बं तपोधनैः ।
सुसंहताश्च ये वाहा ह्रस्वकर्णास्तथैव च । स्वरनेत्रस्व-
भावेषु न दीनाश्चिरजीविनः । महाघोणा महाका-
याये चाश्वाः पृथुवक्षसः । तेषां दीर्घं भवेदायुः स्निग्धा-
ङ्गाश्चैव ये सदा । कर्णाग्रे पीड़िते येषां सिन्दूराभस्य
दर्शनम् । शोणितस्य भवेत् क्षिप्रं ते मताश्चिरजीविनः ।
न विष्किरन्ति ये बालं खपासाय तुरङ्गमाः । न वा
जिघ्रन्ति ये चापि तेऽपि दीर्घायुषो मताः । कुष्टिकानां
किणा येषां दृश्यन्ते वाजिनां स्फुटाः । प्रतिस्रोतः पिब
न्त्यम्भो ये च ते दीर्घजीविनः । पद्मपत्रदलाकारं जिह्वाग्रं
यदि वाजिनः । दन्ताश्च मौक्तिकाकारा लिङ्गं येषां च
निर्मलम् । सीत्कारं च भवेद्येषां लाङ्गूले चालनं पुनः ।
प्रस्वेदः शुभगन्धस्तु नखा वा दर्पणोपमाः । येषां च दृढ़-
रोमाणि ते सर्वे चिरजीविनः । स्निग्धा गम्भीरदीर्घाश्च
प्रोथगा यस्य वाजिनः । भवन्ति विपुला रेखास्तं विद्या-
द्दीर्घजीविनम् । छत्रचामरशृङ्गारखड़्गशङ्खाङ्गुशानिभाः ।
शुक्तिवज्रगदाकारा ध्वजपद्मसमोपमाः । श्रीवृक्षस्वस्ति-
काभासाः प्रोथरेखाश्चिरायुषाम् । ऊर्द्ध्वं प्रोथोत्थिता
रेखा यस्यवामेन चानता । ह्रस्वा वा यस्य वाहस्य न
चिरं तस्य जीवितम् । ऊर्द्ध्वं प्रोथसमा रेखा दृश्यते यस्य
वाजिनः । तस्य मृत्युः समुद्दिष्टो दशमं प्राप्य वत्सरम् ।
त्र्यङ्गुला चेद् दश द्वे च वर्षाणां तस्य जीवितम् । त्रयो-
दशाव्दं स जीवेद्यस्यास्ये चतुरङ्गुले । तिर्यग्गे चोर्द्धगे
स्यातां द्वे रेखे चैव वाजिनः । प्रोथगे वाथ वाहस्य तस्य
विद्याच्चतुर्द्दश । दक्षिणेन च पार्श्वेन यः शेते सर्वदा
हयः । बहुमूत्रोऽल्पमूत्रश्च चिरं जीवति नो हयः ।
विनतः पूर्ब्बकायेन स्थूलजानुश्च योहयः । शूनाक्षिकूटस्त-
ब्धाक्षः स्वल्पायुः स प्रकीर्त्तितः । जातन्दन्तद्वयं बाल्ये
पतत्यव्दे तृतीयके । चतुरो दशनान् विद्याच्चतुर्थे पतितो-
त्थितान् । पञ्चमे पतितोद्भूतान् षट् च दन्तान् मनीषिणः ।
षष्ठाव्देषु च वर्षेषु कालिकादिसमुद्भवः । कालिका हरिणी
शुक्ला कृष्णा काचा समक्षिका । शङ्खा चैव क्रमेणाश्व-
वयसः परिसूचिकाः । वक्त्रान्ते कालिका रेखा कृष्णा
दन्ताग्रसंस्थिता । षष्ठे च सप्तमे वर्षे चाष्टमे च भवेत्
क्रमात् । आपीता हरिणी ज्ञेया कालिका स्थानमाश्रिता ।
नवमे दशमे वर्षे भवेदेकादशे तथा । कृष्णा चैव भवेच्छुक्ता
दन्ते मूर्द्ध्नि समुद्भवा । द्वादशाव्दं समारभ्य भवेद्याव-
च्चतुर्द्दशम् । सिता सिद्धार्थकाकारा काचेति परिकीर्त्तिता ।
पञ्चदशाव्दमारभ्य यावत्सप्तदशादितः । मक्षिका मक्षि-
कांकारा भवेदष्टादशादिषु । विंशत्यन्तेषु वर्षेषु वाजिनां
दशनोद्भवा । त्रयोविंशावसानेषु एकविंशादिषु त्रिषु ।
शङ्खाकारा भवेच्छङ्खा प्रयुक्तस्थानमाश्रिता । छिद्रं
च चलनं चैव तथा पातश्च षष्टितः” । “अतिबद्धाः
कषायाश्च तनवश्चेति तत्त्रयः । ते भवन्ति द्विवर्षस्य युक्ताश्चैव
द्विजन्मना । ईषच्च शिरसः सूक्ष्मा भवेच्च पतितोत्थिता ।
खल्लाग्रा विपुला दन्ता भवन्ति पतितोत्थिताः । खल्लभागे
विनापूर्णे व्यञ्जनानां न सम्भवः । पूर्णेषु खल्लभागेषु
जायन्ते कालिकादयः । निम्नं कृष्णं च दन्ताग्रं खल्लमित्यभि
धीयते । पूर्णतां चास्य जानीयात् षष्ठप्रभृतिवत्सरे ।
खल्लेषु कालिकाऽऽयाति नैव कार्य्या विचारणा । नियता
कालिका रेखा सुपूर्णे दन्तमस्तके । द्वयोर्भवति षष्ठे द्वे
चतुर्णां सप्तमे तथा । खल्लमष्टसु वर्षेषु दन्तानां कालिका
क्रमात् । कालिकानुक्रमेणैव हरिण्यादिषु बुद्धिमान् । द्वौ
द्वौ वर्षेण जानीयाद्वाजिनां व्यञ्जनं प्रति” ।
पृष्ठ ०५०४
देशभेदजाश्वलक्ष्म “अश्वानां जन्मदेशांस्तु प्रवक्ष्याम्यनुपू-
र्व्वशः । उत्तमानां च मध्यानां हीनानां चैव संमतान् ।
उत्तमास्त्वधिकाः प्रोक्तास्तथापारसिकाश्च ये । कोङ्कणा-
श्चैव ये वाहा पृष्ठजा ये च कीर्त्तिताः । उरौजाताश्च
कीराश्च तुरुष्का माण्डवाश्च ये । पार्ब्बताः सैन्धवा मध्या
स्तथा सारस्वता हयाः । संभलाश्चाष्टलाश्चैव
जटादेशोद्भवाश्च ये । अधमाष्टङ्कणैः सार्द्धंये च प्राग्दक्षिणो-
द्भवाः । वृत्तदीर्घाञ्चितग्रीवाह्रस्वकर्णा महाहयाः ।
महाकाया महोरस्का निस्त्रासास्तेऽधिका मताः । अत्यन्तं
विनतं येषां निर्म्मासं च मुखं भवेत् । पीनेन कटिदेशेन
मुखराश्च भवन्ति ते । अध्वन्याश्च महासाराः संग्रामे चैव
पूजिताः । अपि शस्त्रहताङ्गश्च नैव मुञ्चति सादिनम् ।
पारसीकोऽधिकस्तस्मात् कोङ्कणाः किञ्चिदूनकाः । स्थूलाः
स्थूलशारीराश्च प्रस्थाने दीर्घपृष्ठकाः । कोङ्कणदेशजातानां
मध्यमानां च वाजिनाम् । नाधिकैः सदृशं वक्त्रं
बाहुल्येन विनिर्देशेत् । सुवृत्तदेहतीक्ष्णश्च स्वप्रमाणेन
मध्यमः । उरुजातः समुद्दिष्टः किञ्चित्स्थूलो मनाग्जवः ।
अतिस्थूलोऽतितीक्ष्णश्च ह्रस्वग्रीवोरुकस्तथा । तुरुष्कः
कीर्त्तितो वाजी स्थूलवक्रमुखश्च यः । कोङ्कणाकारदेहस्तु
भवेन्माण्डविको हयः । शान्त्या चैव प्रसाणेन केवलं
नैव तत्समः । सिब्धुदेशोद्भवो वाजी पृष्ठजश्चारुकोरुकः ।
आननं चापि दीर्घं च तस्य पृष्ठं प्रकीर्त्तितम् । शान्त्या चैव
जवेनापि रणशूरस्त्वयंमतः । सादिभक्त्येच्छया याति-
ताजिकादधिकस्तथा । परिमण्डलदेहास्तु तीक्ष्णकर्ण्णमुखा
हयाः । पृष्ठदेशोद्भवा दृष्टास्तथा सारस्वताश्च ये । लम्बकर्ण
जटश्चैव आष्टलः परिकीर्त्तितः । सम्भलः श्लिष्टजानुश्च
पदा पश्चाद्बलोपमः । वर्त्तुलाश्चापि ह्रस्वाश्च टङ्कणाः
परिकीर्त्तिताः । दाक्षिणात्यो भवेत्कुण्ठो योऽधन्यः सर्ववाजि-
नाम् । जवहीना महादुष्टा पूर्ब्बदेशसमुद्भवाः । वाजिवद्देश
जानांच वेशं विद्याद्विचक्षणः” ।
अथाश्वानां विप्रादिजातिः “साम्येन जायते जाति
र्ज्जातिरूपेण वाहयेत् । साम प्रदानं दण्डं च त्रिविधं
विनियोजयेत् । त्रासी लुब्धोदयालुश्च विप्रः स परिकी-
र्त्तितः । शूरश्च दृढ़मन्युश्च क्षत्रियस्तुरगः स्मृतः ।
पापिनः कल्परूपाश्च दुष्टाः वैश्याः प्रकीर्न्तिताः । विरूपा
विषमाश्चैव शूद्राश्चण्डा उदाहृताः । ब्राह्मणान् शक्तिदानेन
साम्ना चैव तु क्षत्रियान् । वैश्यान् दण्डेन शब्देन शूद्रान्
दण्डेन वाहयेत्” ।


अथ भद्रजात्यादि हेमा० प० ख० । “युद्धेऽध्वनि तथाग्तौ च
समः पीड़ां नियच्छति । योवा व्रजति शीघ्रंच येन केनचिदा-
सितः । धृतिं गच्छति सर्वत्र भद्रजातिस्तुरङ्गभः । मङ्गल्यो
लक्षणैर्युक्तः किञ्चित्त्वेव विगर्हितः । शीघ्रं गृह्णाति
शिक्षां च क्षिप्रं च प्रतिमुञ्चति १ । रात्रौ स्वपिति न
तथाह्न्युपविष्टस्तुरङ्गमः । तुरङ्गमाणां क्रोधीव कामी चेर्षालुरेव
च । आदौ शूरस्ततः पश्चाद्भीतत्वमुपगच्छति । न केनापि
प्रकारेण चिरं पालयते तु यः । एवविवस्तु विज्ञेयो
मन्दजातिस्तुरङ्गमः २ । ईर्ष्यी भीतस्तथा त्रासी तथा सर्वत्र
शङ्कितः । प्रसार्य्य गात्रं सकलं दिवा वा यदि वा निशि ।
सततं जातनिद्रोऽन्यान् वाधते च तुरङ्गमान् । न च
वेत्ति प्रकरांश्च म्नानिं शीघ्रं च गच्छति । न च तुष्टिं
समाप्नोति मृगजातिस्तुरङ्गमः ३ । मिश्रैर्गुणैः स्यान्मि-
श्राख्यस्तथैव बड़वा गुणैः ४ । भद्रः श्रेष्ठोहयोज्ञेयो जातिरे-
षातु वाजिनाम् । मिश्रोमिश्राधिकोज्ञेयोगुणदोषैः
समासतः” । वर्णभेदेन अन्या अपि संज्ञाः शालिहोत्रे दर्शिता
विस्तरभयान्नोक्तास्ततएवावसेयाः ।
वृहत्संहितायां लक्षणादि समासेनोक्तम् “दीर्घग्रीवा-
क्षिकूटस्त्रिकहृदयपृथुस्ताम्रताल्वोष्ठजिह्वः सूक्ष्मत्वक्केश-
बालः सुशफगतिमुखो ह्रस्वकर्णोष्ठपुच्छः । जङ्घा-
जानूरुवृत्तः समसितदशनश्चारुसंस्थानरूपो वाजी
स र्वाङ्गशुद्धो भवति नरपतेः शत्रुनाशाय नित्यम् ।
अश्रुपातहनुगण्डहृद्गलप्रोथशङ्खकटिवस्तिजानुनि । मुष्क-
नाभिककुदे तथा गुदे सव्यकुक्षिचरणेषु चाशुभाः । ये प्रपा-
णगलकर्णसंस्थिताः पृष्ठमध्यनयनोपरि स्थिताः । ओष्ठ-
सक्थिभुजकुक्षिपार्श्वगास्ते ललाटसहिताः सुशोभनाः । तेषां
प्रपाण एको ललाटकेशेषु च ध्रुवावर्त्तः । रन्ध्रोपरन्ध्र-
मूर्धनि वक्षसि चेति स्मृतौ द्वौ द्वौ । षड्भिर्दन्तैः सिता-
भैर्भवति हयशिशुस्तैः कषायैर्द्विवर्षः सन्दंशैर्मध्यमान्त्यैः
पतितसमुदितैस्त्र्य व्दपञ्चाव्दिकोऽश्वः । सन्दंशानुक्रमेण
त्रिकपरिगणिताः कालिका पीतशुक्लाः काचा माक्षीकशङ्खा-
अथ चलनमतो दन्तपातं च विद्धि” । अश्नाति सर्वम्
अशक्रन् । ३ अग्निविशेषे । अश्नुते व्याप्नोति । ४ व्यापके त्रि०
अश्वपर्ण्णशब्दे उदाहरणम् । “विष्णोरश्वस्य वाजिनम्”
ता० ब्रा० । ५ यदुवंश्यचित्रकस्य पुत्रभेदेऽश्वबाहुशब्दे
विवृतिः । गोत्रापत्ये अश्वा० फञ् । आश्वायनः
तद्गोत्रापत्ये पुंस्त्री० । चतुरर्थ्यां कुमुदा०
ठक् । आश्विकः वाजिसन्निकृष्टदेशादौ त्रि० । अश्वेन
पृष्ठ ०५०५
चरति पर्पा० ष्ठन् अश्विकः अश्वेन चारिणि त्रि०
स्त्रियां ङीप् । कस्यायमश्वः अज्ञाते क । अज्ञात-
स्वामिके अश्वे । कुत्सितोऽश्वः क । अश्वकः । कुत्सितेऽश्वे
अश्व इव संज्ञायां कन् अश्वसदृशसंज्ञावति पु० । अश्व
इव प्रकृतिकृतौ कन् । अश्वप्रतिकृतौ । अश्वानां समूहः
छ यच्च अश्वीयम् अश्व्यञ्च घोटकसमूहे न० ।
एतदन्तस्य पादस्य बहुव्रीहौ हस्त्यादि० नान्त्यलोपः अश्वस्य
पादाइव पादावस्य अश्वपाद इत्येव । जातित्वेऽपि अजा०
स्त्रियां टाप् । अश्वा अश्वजातिस्त्रियाम् “अश्वे इव
विषिते हासमाने” ऋ० ३, ३३, १, ।

अश्वकन्दा स्त्री अश्वस्य मेढ्रमिव कन्दोमूलमस्याः । अश्व-

गन्धाख्यवृक्षे । वा कप् अश्वकन्दिकाप्यत्र ।

अश्वकर्ण्ण पु० अश्वस्य कर्णैव पत्रमस्य । १ स्वनामख्याते साल

वृक्षे । “पूतिकाश्वकर्ण्णागुरुणि कालेयकल्के, सुश्रु० स्वार्थे
कन् । अश्वकर्णकोऽप्यत्र । ६ त० । २ अश्वस्य कर्ण्णे ।

अश्वखरज पु० अश्वश्च खरी च, अश्वा च खरश्च वा ताभ्यां

जायते पुंवद्भावः । खचरे घोटकभेदे । खराश्वजोऽप्यत्र ।

अश्वखुर पु० अश्वस्य खुरमिवाकृतिरस्य । (नखीति) ख्याते

१ गन्धद्रव्ये । २ अपराजितायाम् स्त्री ।

अश्वकिनी स्त्री अश्वस्य कं मुखं तत् सदृशाकारोऽस्त्यस्य इनि

ङीप् । अश्विनीनक्षत्रे तस्याः श्रीपत्युक्त्या तुरगशीर्षा
कारतायाः अश्लेषाशब्दे ४८० पृष्ठे उक्तत्वात्तथात्वम् ।

अश्वक्रन्द पु० देवसेनापतिभेदे “अश्वक्रन्देन वीरेण रेणुकेन च

पक्षिराट्” भा० आ० प० अमृताहरणे देवगरुड़युद्धवर्णने ।

अश्वगन्धा स्त्री अश्वस्य गन्ध एकदेशोमेढ्रमिव मूलमस्याः ।

वराहकर्णतुल्यपत्रे स्वनामख्याते क्षुद्रवृक्षभेदे । “गन्धान्तो
वाजिनामादिरश्वगन्धा हयाह्वया । वराहकर्ण्णी वरदाऽवरो-
हा कुष्ठघातिनी । अश्वगन्धानिलश्लेष्मपित्तशोथक्षयापहा ।
वल्या रसायनी तिक्ता कषायोष्णातिपिच्छला” भा० प्र०
उक्तेः हयादिकगन्धान्तनामिका हयनामिका च “यवा-
श्वगन्धायष्ट्याह्वैस्तिलैश्चोद्वर्त्तनम् हितम्” । “शतावर्य्यश्व-
गन्धाभ्यां वायस्येरण्डजीवनैः” इति च सुश्रु० ।

अश्वगन्धातैल न० चक्रदत्तोक्ते तैलभेदे यथा “भल्लातकवृहती-

फलदाड़िमफलकल्कसाधितं कुरुते । लिङ्गं मर्दनविधिना-
कटुतैलं वाजिलिङ्गाभम् ॥ कनकरसमसृणवर्त्तितहयगन्धा-
मूलविश्वपर्य्युषितम् । माहिषमिह नवनीतं गतवीजे
कनकफलमध्ये ॥ गोमयगाढ़ोद्वर्त्तितं पूर्ब्बं पश्चादनेन
संलिप्तम् । भवति हयलिङ्गसदृशं लिङ्गं कठिनादयि-
तम् । अश्वगन्धावरीकुष्ठमांसीसिंहीफलान्वितम् ।
चतुर्गुणेन दुग्धेन तिलतैलं विपाचयेत् । स्तनलिङ्गकर्ण-
पालिवर्द्धनंम्रक्षणादिदम्” ।

अश्वगोयुग न० अश्व + द्वित्वे गोयुगच् । अश्वयुग्मे ।

अश्वगोष्ठ न० अश्वानां स्थानं पशुनामत्वात् स्थानार्थे गोष्ठच् ।

अश्यस्थाने वाजिशालायाम् विवरणमश्वशालाशब्दे ।

अश्वग्रीव पु० अश्वस्य ग्रीवेव ग्रीवाऽस्य । दानवभेदे “चत्वारिंश-

द्दनोः पुत्रा” इत्युपक्रम्य । “अश्वग्रीवश्च सूक्ष्मश्च तुहण्डश्च
महाबलः” भा० आ० प० । स एवांशावतारे रोचमान
नृपतिरमूत् यथोक्तं तत्रैव । “अश्वग्रीव इति ख्यातः
सत्ववान् यो महासुरः । रोचमान इति ख्यातः पृथिव्यां
सोऽभवन्नृपः” । २ विष्णोरवतारभेदे हयग्रीवे अश्वशिरः-
शब्दे विवृतिः । यदुवंश्यवित्रकस्य पुत्रभेदे अश्वबाहु-
शब्दे विवृतिः ।

अश्वघ्न पु० अश्वं हन्ति अमनुष्यकर्त्तृकत्वात् हन--टक् उप०

स० । करवीरे तस्य अश्वनाशकतया तथात्वम् ।

अश्वचक्र न० ६ त० । १ अश्वसमूहे २ अश्वाकारे नरपतिजय

चर्य्योक्ते चक्रभेदे विवरणम् चक्रशब्दे । जाम्बवतीतनयेन
कृष्णात्मजेन हते ३ शम्बरदैत्यसेनापतिभेदे पु० “वृत्तोरुरत्या-
यतपीनवाहुरेतेन संख्ये निहतोऽश्वचक्रः । को नाम
शाम्बस्य महारथस्य रणे समक्षं रथमभ्युदीयात्” भा० व० प० ।

अश्वचिकित्सक पु० अश्वानां चिकित्सकः । अश्वानां

रोगनिवारकेऽश्व वैद्ये चिकित्साविधिश्च जयदत्तकृतेऽश्व-
शास्त्रे दृश्यः ।

अश्वचिकित्सा स्त्री ६ त० अश्वरोगनिवारणोपाये सा च जयदत्तकृतेऽश्वशास्त्रे दृश्या ।

अश्वचेष्टित न० ६ त० १ वाजिचेष्टिते २ शुभाशुभसूचके शकुनभेदे

च तद्विवृतिः वृ० स० यथा” उत्सर्गान्न शुभदमासनोपरिस्थं
वामे च ज्वलनमतोऽपरं प्रशस्तम् । सर्वाङ्गज्वलनमवृष्टिटं
हयानां द्वे वर्षे, दहनकणाश्च धूपनं वा । अन्तःपुरं
नाशमुपैति मेढ्रे कोशः क्षयं यात्युदरे प्रदीप्ते । पायौ च पुच्छे
च पराजयः स्याद् वक्त्रोत्तमाङ्गज्वलने जयश्च । स्कन्धास
नांसज्वलनं जयाय बन्धाय पादज्वलनं प्रदिष्टम् । ललाट-
वक्षोऽक्षिभुजेषु धूमः पराभवाय ज्वलनं जयाय । नासापुट-
प्रोथशिरोऽश्रुपातनेत्रेषु रात्रौ ज्वलनं जयाय । पालाश-
ताम्रासितकर्बुराणां नित्यं शुकाभस्य सितस्य चेष्टम् ।
प्रद्वेषो यवसाम्भसां प्रपतनं स्वेदो निमित्ताद्विना कम्पो
वा वदनाच्च रक्तपतनं धूमस्य वा सम्भवः । अस्वप्नश्च विरो-
धिता निशि दिवा निद्रालसध्यानता सादोऽधोमुखता
पृष्ठ ०५०६
विचेष्टितमिदं नेष्टं स्मृतं वाजिनाम् । आरोहणम-
न्यवाजिनां पर्य्याणादियुतस्य वाजिनः । उपवाह्यतुरङ्गमस्य
वा ऽविकलस्यैव विपन्न शोभना । क्रौञ्चवद्रिपुबधाय
हेषितं ग्रीवया त्वचलया च सोन्मुखम् । स्निग्धमुच्चमनु-
नादि हृष्टवद् ग्रासरुद्धवदनैश्च वाजिभिः । पूर्णपात्रदधि-
विप्रदेवता गन्धपुष्पफलकाञ्चनादि वा । द्रव्यमिष्टमथ वापरं
भवेद्धेषतां यदि समीपतो जयः । भक्ष्यपानसलिलाभि-
नन्दिनः पत्युरौपयिकनन्दिनोऽथवा । सव्यपार्श्वगतदृष्टयो
ऽथवा वाञ्छितार्थफलदास्तुरङ्गमाः । वामैश्च पादैरभि-
ताड़यन्तो महीं प्रवासाय भवन्ति भर्तुः । सन्ध्यासु
दीप्तामवलोकयन्तो हेषन्ति चेद्बन्धपराजयाय ।
अतीव हेषन्ति किरन्ति बालान् निद्रारताश्च प्रवदन्ति
यात्राम् । रोमत्यजो दीनखरस्वराश्च पांशून् ग्रसन्तश्च
भयाय दृष्टाः । समुद्गवद्दक्षिणपार्श्वशायिनः पदं समुत्-
क्षिप्य च दक्षिणं स्थिताः । जयाय शेषेष्वपि वाहनेष्विदं
फलं यथासम्भवमादिशेद्बुधः । आरोहति क्षितिपतौ
विनयोपपन्नो यात्रानुगोऽन्यतुरगं प्रति हेषते च । वक्त्रेण
वा स्पृशति दक्षिणमात्मपार्श्वं योऽश्वः स भर्त्तुरचिरात्-
प्रचिनोति लक्ष्मीम् । मुहुर्मुहुर्मूत्रशकृत् करोति न
ताड्यमानोऽप्यनुलोमयायी । अकार्य्यभीतोऽश्रुविलोचनश्च
शुभं न भर्त्तुस्तुरगोऽभिधत्ते” ।

अश्वतर पु० तनुरश्वः अश्व + तनुत्वे ष्टरच् । अश्वायामश्वेनोत्प-

न्नत्वेऽश्वत्वं तस्य तनुत्वञ्चान्यपितृकत्वे । १ गर्द्दभेनाश्वायामु
त्पन्ने १ खचरेऽश्वविशेषे” २ सर्पभेदे च । जातित्वेन स्त्रिया-
मुभयत्र ङीप् । “जानश्रुतिः पौत्रायणः षट् शतानि गवां
निष्कमश्वतरीरथः” इति छा० उ० । दण्डेनोपपनतं
शत्रुमनुगृह्णाति योनरः । स मृत्युमुपगृह्णीयाद्गर्भमश्वतरी
यथा” मनुः । “बहुत्वान्नामधेयानि पन्नगानां तपोधन!
न कीर्त्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु । शेषः प्रथमतो-
जातो वासुकिस्तदनन्तरम्” इत्युपक्रम्य “कम्बलाश्वतरौ चापि
नागःकालीयकस्तथा” भा० आ० प० । अयञ्च वरुणलोके-
स्थितः” भा० स० प० वरुणसभावर्णने “कम्बलाश्वतरौ
नागौधृतराष्ट्रवलाहकौ” ३ गन्धर्वभेदे । “तद्यथैवादोधाव-
यतोऽश्वो वा अश्वतरो वा गदायेत” शत० ब्रा० ।

अश्वत्थ पु० न श्वश्चिरं शाल्मलिवृक्षादिवत् तिष्ठति स्था--क

पृ० नि० । १ स्वनामख्याते वृक्षे, “बोधिद्रुः पिप्पलोऽश्वत्थश्चल
पत्रोगजाशनः । पिप्पलो दुर्जरःशीतः पित्तश्लेष्मव्रणास्र-
जित् । गुरुस्तुवरकीरूक्षोबल्योयोनिविशोधनः” भा० प्र० ।
“अश्वत्थः सर्ववृक्षाणाम् गीता” तस्य विष्णुरूपित्वेन
सर्व्वामङ्गलनाशकत्वम् अश्वत्थोत्पत्तिः “पार्वतीशिवयो-
र्देवैः सुरतं कुर्वतोः किल । अग्निं ब्राह्मणवेशेन
प्रेष्य विघ्नं कृतं पुरा । शशाप पार्वती क्रुद्धा सर्वा-
नेव दिवौकसः” इस्युपक्रम्य “तस्मान्मम सुखभ्रंशात् यूयं
वृक्षत्वमाप्स्यथ” पार्वतीशापमुक्त्वा “तस्माद्वृक्षत्वमापन्ना
ब्रह्मविष्णुमहेश्वराः । तस्मादिमौ विष्णुमहेश्वरावुभौ
बभूवतुर्बोधिवटौ मुनीश्वराः!” । बोधिस्त्वयं चार्किदिनं
विनैव त्वस्पृश्यतामापदलक्ष्यीयोगात्” पद्मपु० क्रिया०
१६० अध्या० उक्ता । “तस्य शनिवारमात्रे स्पृश्यता-
कारणमप्युक्तं तत्रैव १६१ अध्या० । लक्ष्म्या ज्येष्ठ-
भगिन्या अलक्ष्म्या सह उद्दालकस्य विवाहमुक्त्वा पत्या
“यावदागमनं मम तावत् अश्वत्थमूले त्वं निषीद” इत्युक्तया
अलक्ष्म्या तत्रैव स्थितया बहुतिथे काले गतेऽपि पत्यु-
रागमनमनालोक्य क्रन्दितं, तच्श्रुत्वा च लक्ष्म्या कनिष्ठ-
भगिन्या नोदितो विष्णुस्तत्रागत्य तामुवाच यथा ।
“लक्ष्म्या सह ततो विष्णुस्तत्रागात् कृपयान्वितः ।
आश्वासयन्नलक्ष्मों तामिदं वाक्यमथाब्रवीत् । अश्वत्थ-
वृक्षमासाद्य सदाऽलक्ष्मीः स्थिरा भव । ममांशसम्भवोह्येष
आवासस्ते मया कृतः । मन्दवारे सदा ह्येनं लक्षमीरत्रा
गमिष्यति । अस्पृश्योऽसौ भवेत्तस्मान्मन्दवारं विना किल”
एवञ्च अलक्ष्म्याः सर्वदावासादन्यदिने तस्यास्पृश्यत्वं
मन्दवारे लक्ष्मीसमागमाच्च स्पृश्यत्वमिति मर्य्यादा कृता ।
“अश्वथरूपो भगवान् विष्णुरेव न संशयः । रुद्ररूपो
वटस्तद्वत् पलाशो ब्रह्मरूपधृक् । दर्शनस्पर्शनादेव ते वै
पापहराः स्मृताः” तत्रैवोक्तम् अश्वत्थस्पर्शस्तु शनिवारे
एव प्रागुक्तवचनात् । तस्य वैशाखे सेचनफलं पद्मपु०
क्रिया० ११ अव्या० । यथा “वैशाखे सेचयेन्नित्यं विष्णु-
मश्वत्थरूपिणम् । चतुर्वर्गफलावाप्तिहेतवे वैष्णवोजनः ।
गण्डूषमात्रतोयेन कुर्य्याद्योऽश्वत्थसेचनम् । सोऽपि
याति परं स्थानं विमुक्तः पापकोटिभिः” तन्मूलबन्धफलम्
तत्रैव “अश्वत्थमूलं विप्रर्षे! यो बध्नाति शिलादिभिः ।
अश्वत्थरूपी भगवान् किं तस्मै न हि यच्छति” । तत्
प्रणामफलं तत्रैव । “अश्वत्थद्रुममालोक्य प्रणामं कुरुते
तु यः । आयुर्वृद्धिर्भवेत्तस्य वर्द्धन्ते सर्वसम्पपदः” ।
अतएव दुःस्वप्नदर्शनादौ “अश्वत्थरूपी भगवान् दुःखप्नं शमया-
शु मे” इति मन्त्रेण प्रणामोविहितः । “तन्मूले धर्म्मकर्मा
चरणप्रशंसा तत्रैव । “यदाश्वत्थतले विप्र! धर्मकर्म विधी-
पृष्ठ ०५०७
यते । न्यूनातिरिक्तता न स्यात्तस्मिन् कर्मणि जैमिने! ।
तत्र तीर्थानि सर्व्वाणि तिस्रोतादीनि सन्ति वै!” ।
तत्पूजनफलं तत्रैव । “अश्वत्थपूजकोयस्तु सएव हरिपूजकः ।
अश्वत्थरूपी भगवान् स्वयमेव यतो हरिः” ॥ तस्य तच्छा-
खायाश्च छेदने निषेधः तत्रैव । “तरुज्ञानात् द्विजश्रेष्ठ!
योऽश्वत्थं हन्ति मुढधीः । संसारे नास्ति तत् कर्म यत् कृत्वा
स च शुध्यति । अश्वत्थोवृक्षराजोऽयं हरिमूर्त्तिः प्रकी-
र्त्तितः । तस्मादश्वत्थहन्तॄणां त्राता कोऽपि न विद्यते ।
अश्वत्थशाखामेकां च स्वल्पामपि छिनत्ति यः । स कोटि
ब्रह्महत्यानां फलं प्राप्नोति मानवः” इति च । अन्यान्यपि
तच्छेदने पापानि तत्रैवोक्तानि दृश्यानि । तच्छाखा-
च्छेदनमयज्ञार्थमेव निषिद्धं यज्ञार्थच्छेदने तु न दोषः
पशुहिंशावत्तस्यापि विहितत्वात् “अर्कः पलाशखदिरः
अपामार्गोऽथा पिप्पल” इत्यादिना जीवहोमे तस्यैव समिधो
विधानात् । २ नन्दीवृक्षरूपे अश्वत्यभेदे च “नन्दीवृक्षोऽश्वत्थभे-
दः प्ररीही गजपादपः । स्थालीवृक्षःक्षयतरुः क्षीरी च स्याद्व-
नस्पतिः । नन्दीवृक्षो लघुः स्वादुस्तिक्तस्तुवरौष्णकः ।
कटुपाकरसग्राहीविषपित्तकफास्रनुत्” भा० प्र० । ३ गर्द्दभाण्ड
वृक्षे (वेलियापिप्पल) तद्गुणादि गर्द्दभाण्डशब्दे दृश्यम् ।
४ संसारकृक्षे तस्य चिरस्थायित्वाभावत् तथात्वम् । “ऊर्द्ध्व-
मूलमधःशाखमश्वत्थं प्राहुरव्ययम्” गीता तद्विवरणमधः-
शाखशब्दे । अश्व इव तिष्ठति स्था--क पृ० । ५ अश्विनीनक्षत्रे
तस्याश्वशीर्षाकारस्याश्लेषाशब्दे उक्तत्वात्तथात्वम् । अश्वत्थ-
नक्षत्रेण युक्तः कालः इत्यण् तस्य संज्ञायां लुप् ।
“अश्वत्थो मूहूर्त्तः” सि० कौ० । असंज्ञायान्तु आश्वत्थ-
महः आश्वत्थी रात्री । चतुरर्थ्यां काशा० इल ।
अश्वत्थिलः उत्क० छ अश्वत्थीयः तत्सन्निकृष्टदेशादौ
त्रि० । अश्वत्थेन युक्ता पौर्ण्णमासी अण् । तस्य पौर्ण्ण-
मास्यामपि “अग्रहायण्यश्वत्थाट्ठक्” पा० निर्द्देशात्
नि० लुप् अश्वत्थयुक्तायां पौर्ण्णमास्याम् । लुपि व्यक्ति
वचनोक्तेः पुस्त्वम् । तत्र भवः ठक् । आश्वत्थिकः ।
चान्द्राश्विनमासे ।

अश्वत्थक पु० अश्वत्थस्तत्फलम् तद्युक्तः कालोऽप्य-

श्वत्थस्तत्र देयमृणम् वुन् । अश्वत्थफलकाले वैशाखादौ
१ देये ऋणे । स्वार्थे, कन् । २ अश्वत्थवृक्षे ।

अश्वत्थकुण पु० अश्वत्थस्य पाकः पील्वा० कुणच् । अश्वत्थ-

पाके फलादौ ।

अश्वत्थभेद पु० अश्वत्थस्य भेदोविशेषो यत्र । नन्दीवृक्षे अश्वत्थशब्दे विवृतिः ।

अश्वत्थामन् पु० अश्वस्येव स्थाम बलमस्य अश्वैव तिष्ठति युद्धे

स्थिरत्वात् स्था--क वा पृषो० । भारतप्रसिद्धे १ द्रोणाचार्य्यकृ-
पीसुते वीरे । “गोतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः ।
अश्वत्थाम्नस्तु जननी कृपश्चैव महाबलः । अश्वत्थामा
ततोजज्ञे द्रोणादेव महाबलः” भा० आ० प० । तस्य
नामनिरुक्तिरपि दर्शिता भा० आ० १३० अध्या० । यथा
“शारद्वतीं ततोभार्य्यां कृपीं द्रोणोऽन्वविन्दत । अग्निहोत्रे
च धर्मे च दमे च सततं रताम् । अलभद्गौतमी पुत्र-
मश्वत्थामानमेव च । स जातमात्रो व्यनदद्यथैवोच्चैः-
श्रवाहयः । तच्छ्रुत्वान्तर्हितं भूतमन्तरीक्षस्थमब्रवीत् ।
अश्वस्येवास्य यत् स्थाम नदतः प्रदिशो गतम् । अश्वत्था-
मैव बालोऽयं तस्मान्नाम्ना भविष्यति” “अश्वस्य स्था-
म्नोऽकारः वार्ति० अकारः । अश्वत्थामः । भवार्थे तु तस्य
लुप् अश्वत्थामा तद्भवे । २ भारतप्रसिद्धे पाण्डवसैन्यस्थे
मालवेशेन्द्रवर्म्मणः २ गजभेदे तत्कथा च “मतिमान् श्रेयसे
युक्तः केशवोऽर्ज्जुनमब्रवीत् । नैष युद्धेन संग्रामे जेतुं शक्यः
कथञ्चन । सधनुर्धन्विनां श्रेष्ठो देवैरपि सवासवैः ।
न्यस्तशस्त्रस्तु संग्रामे शक्यो हन्तुं भवेन्नृभिः । आस्थी-
यतां जये योगो धर्ममुत्सृज्य पाण्डवाः! । यथा नः
संयुगे सर्व्वान्न हन्याद्रुक्मवाहनः । अश्वत्थाम्नि हते
नैष युध्येदिति मतिर्मम । तं हतं संयुगे कश्चिदस्मै शंसतु
मानवः । एतन्नारोचयद्राजन्! कुन्तीपुत्रो धनञ्जयः ।
अन्ये त्वरोचयन् सर्वे कृच्छ्रेण तु युधिष्ठिरः । ततो भीमो
महाबाहुरनीके स्वे महागजम् । जघान गदया
राजन्नश्वत्थामानमित्युत । परप्रमथनं घोरं मालवस्येन्द्रवर्म्मणः ।
भीमसेनस्तु सव्रीड उपेत्य द्रोणमाहवे । अश्वत्थामा हत
इति शब्दमुच्चैश्चकार सः । अश्वत्थामेति हि गजः ख्यातो
नामाहतोऽभवत् । कृत्वा मनसि तं भीमो मिथ्या व्या-
हृतवांस्तदा । भीमसेनवचः श्रुत्वा द्रोणस्तत्परमप्रियम् ।
मनसा सन्नगात्रोऽभूत् यथा सैकतमम्भसि । शङ्कमानः स
तन्मिथ्या वीर्य्यज्ञः स्वसुतस्य वै । हतः स इति च श्रुत्वा
नैव धैर्य्यादकम्पत” । “सन्दह्यमानो व्यथितः कुन्तीपुत्रं
युधिष्ठिरम् । अहतं वा हतं वेति पप्रच्छ सुतमात्मनः ।
स्थिरा बुद्धिर्हि द्रोणस्य न पार्थो वक्ष्यते ऽनृतम् । त्रया-
णामपि लोकानामैश्वर्य्यार्थे कथञ्चन । तस्मात्तं परिपप्रच्छ
नान्यं कञ्चिद्द्विजर्षभः । तस्मिंस्तस्य हि सत्याशा
बाल्यात्प्रभृति पाण्डवे । ततो निष्पाण्डवामुर्व्वीं
करिष्यन्तं युधाम्पतिम् । द्रोणं ज्ञात्वा धर्मराजं गोविन्दो
पृष्ठ ०५०८
व्यथितोऽब्रवीत् । यद्यर्द्धदिवसं द्रोणो युध्यते मन्युमा-
स्थितः । सत्यं ब्रवीमि ते सेना विनाशं समुपैष्यति ।
स भवांस्त्रातु नो द्रोणात् सत्याज्ज्यायोऽनृतं पुनः ।
अनृतं जीवितस्यार्थे वदन्न स्पृश्यतेऽनृतैः । कामिनीषु
विवाहेषु गवां भक्ते तथैव च । ब्राह्मणाभ्युपपत्तौ च
अनृते नास्ति पातकम् । तयोः संवदतोरेवं भीमसेनो-
ऽब्रवीदिदम् । श्रुत्वैवं ते महाराज बधोपायं महात्मनः ।
गाहमानस्य मे सेनां मालवस्येन्द्रवर्म्मणः । अश्वत्थामेति
विक्रान्तो गजः शक्रगजोपमः । निहतो युधि विक्रम्य
ततोऽहं द्रोणमब्रुवम् । अश्वत्थामा हतो ब्रह्मन्निवर्त्त-
स्वाहवादिति । नूनं नात्र मृषावाक्यमेवं मे पुरुषर्षभ ।
स त्वं गोविन्दवाक्यानि मानयस्व जयैषिणः । द्रोणाय
निहतं शंस राजन्! शारद्वतीसुतम् । त्वयोक्तो नैष युध्येत
जातु राजन् द्विजर्षभः । सत्यवान् हि त्रिलोकेऽस्मिन्
भवान् ख्यातो जनाधिप! । तस्य तद्वचनं श्रुत्वा कृष्ण-
वाक्यप्रचोदितः । भावित्वाच्च महाराज! वक्तुं समुपचक्रमे ।
तमतथ्यभये मग्नो जये सक्तो युधिष्ठिरः । अव्यक्तमब्रवी-
द्वाक्यं हतः कुञ्जर इत्युत । तस्य पूर्ब्बं रथः पृथ्य्वां
चतुरङ्गुलमुन्नतः । बभूवैवन्तु तेनोक्ते तस्य वाहोऽस्पृश-
न्महीम्” । “अश्वत्थामा हत इति पृथासूनुना स्पष्टमुक्त्वा
स्वैरं शेषे गज इति किल व्याहृतं सत्यवाचा” इति
वेणीसं० ।

अश्वत्थिक त्रि० अश्वत्थेन चरति पर्पा० ष्ठन् । अश्वत्थफलक चारिणि स्त्रियां ङीप् ।

अश्वत्थी स्त्री० क्षुद्रोऽश्वत्थः अल्पार्थे ङीप् । क्षुद्रपिप्पले

ह्रस्वपत्रे वनजाते अश्वत्थाकारे क्षुद्रवृक्षभेदे स्वार्थे कन्
अश्वत्थिकाऽप्यत्र ।

अश्वदंष्ट्रा स्त्री अश्वस्य दंष्ट्रेवाकारेण । गोक्षरवृक्षे ।

अश्वनाय पु० अश्वं नयति अण्--उप० स० । अश्वपालके ।

अश्वन्त पु० अश्वस्य व्यापकस्य धर्मस्यान्तो यत्र शक० ।

१ अशुभे २ क्षेत्रे ३ मृते ४ चुल्ल्यां च हेम० प्राणिहिंसास्था
नत्वात्तस्यास्तथात्वम् ।

अश्वप पु० अश्वं पाति पा--क । हयपालके ।

अश्वपति पु० ६ त० । वाजिपालके रामायणप्रसिद्धे कैकेयेनृपभेदे च ।

अश्वपत्यादि पु० प्राग्दीवतीयेऽर्थे अण्प्रत्ययनिमित्ते पाणिन्यु-

क्ते शब्दसमूहे सच गणः अश्वपति ज्ञानपति शतपति धनपति
गणपति स्थानपति यज्ञपति वादपति, कुलपति गृहपति
धान्यपति धन्यपति बन्धुपति, घर्म्मपति सभापति प्राण-
पति क्षेत्रपति, । आश्वपतम् पत्यन्तत्वेऽप्यवाद्रात् न ण्यः ।

अश्वपर्ण्ण त्रि० अश्वानां पर्ण्णं गमनं यत्र । अश्वगमनयुक्ते

१ रथे अश्वं व्यापि पर्ण्णं पतनं यस्य । २ व्यापिगमने
मेघे च । “आविद्युन्मद्भिर्मरुतः स्वर्गे रथेभिर्यात्र ऋष्टि-
मद्भिरश्वपर्ण्णैः” ऋ० १, ८८, वृ । यथा व्युत्पत्तिर्दर्शिता
तथैव भाष्ये उक्ता ।

अश्वपाद त्रि० अश्वस्य पाद इव पादोऽस्य हस्त्या० नान्त्य लोपः । हयपादतुल्यचरणे ।

अश्वपाल पु० अश्वान् पालयति पा + णिच्--लन् अण् ।

घोटकरक्षके । ण्वुल् । अश्वपालकोऽप्यत्रार्थे ।

अश्वपुच्छी स्त्री अश्वस्य पुच्छमिव केशरीऽस्य । माषपर्णीवृक्षे ।

अश्वपेज पु० ऋषिभेदे । तेन प्रोक्तमधीयते शौनकादि०

णिनि । आश्वपेजिनः तत्प्रोक्ताध्यायिषु ब० व० ।

अश्वपेशस् त्रि० अश्वेन पेशोरूपंरूपणीयं निरु० यस्य । अश्वेन

रूपणीये । “गोअग्रामश्वपेशसम्” ऋ० २, ऽ, १६ ।
“अश्वपेशसमश्वेन निरूपणीयां रातिम्” भा० ।

अश्वबडव पु० अश्वश्च बड़वा च । अश्ववड़वरूपसमासार्थे

न परवल्लिङ्गम् ।

अश्वबाल पु० अश्वस्य बालः केशर इव तदाकारपुष्पत्वात् ।

(क्याशा) इति ख्याते १ काशे । ६ त० अश्वस्य २ केशे च ।

अश्वबाहु पु० यदुवंश्यचित्रकस्य पुत्रभेदे । “क्रोष्टोस्तु शृणु

राजेन्द्र! वंशमुत्तमपौरुषम् । यदोर्वंशधरस्याथ”
इत्युपक्रम्य । “गान्धारी चैव माद्री च क्रोष्टोर्भार्य्ये
बभूवतुः” इत्युक्त्वा “माद्र्याः पुत्रौ च जज्ञाते स्मृतौ-
वृष्ण्यन्धकाबुभौ । जज्ञाते तनयौ वृष्णेः शफल्क-
श्चित्रकस्तथा” इत्युक्त्वा शफल्कवंशमुक्त्वा च । चित्रकस्या-
भवन् पुत्राः पृथुर्विपथुरेव च । अश्वग्रीवोऽश्वबाहुश्च
सुपार्श्वकगवेषणौ । अरिष्टनेमिरश्वश्च सुधर्म्मा धर्म्मवि-
त्तथा । सुबाहुर्वहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ” हरि०
३४, ३५, अध्या० ।

अश्वमहिषिका अश्वमहिषयोवैरम् वुन् । अश्वमहिषयोर्वैरे ।

अश्वमार पु० अश्वं मारयति मृ--णिच् अण् । करवीरे

ण्वुल् । अश्वमारकोप्यत्र ।

अश्वमुख पु० अश्वस्य मुखमिव सुखमस्य । अश्वाकारमुखे

पुरुषाकारान्याङ्गे किन्नरे । जातित्वात् स्त्रियां ङीप् “भिन्द-
न्ति मन्दां गतिमश्वसुख्यः” कुमा० अश्ववदनादयोऽप्यत्र ।

अश्वमेध पु० अश्वः प्रधानतया मेध्यते हिंस्यतेऽत्र मेध--हिंसने

घञ् । यज्ञभेदे स च शत० ब्रा० १३ काण्डे पञ्चभिर-
ध्यायैरुक्तः । यजु० २४ अ० तदीययूपशुविशेषा विहिता
यथा । तत्राद्यमन्त्रोपोद्घाते यजु० वे० दी० उक्तम् अ-
पृष्ठ ०५०९
श्वमेधे एकविंशतिर्यूपा सन्ति तत्र मध्यमोयूपोऽग्नि-
ष्ठसंज्ञः तत्र सप्तदश पशवोनियोजनीयाः अश्वः १
तुपरः २ (शृङ्गोत्पत्तिकालेऽतीतेऽपि शृङ्गहोनः छागः)
गोमृगः गवयः ३ । द्वौ चाग्नेयौ ४ एकादशावयवयुक्तौ ।
अग्निममन्त्रे वक्ष्यमाणा रोहितादयः द्वादश गाव इति
सप्तदश पशवोमध्यमयूपे बन्धनीयाः । द्वयोरेकादशावयवाश्च
मध्ये कृष्णग्रीवः, अश्वस्य रराटे पुरस्तात् ललाटे हन्वोरध-
स्तात् मेषी, अधोभागे शुक्लौ छागौ, बाह्वोरश्वस्य पूर्ब्बपादयो
रेकैकः । अश्वस्य नाभ्यां श्यामश्वेतकृष्णरोमाऽजः श्वेतः
छागः दक्षिणपार्श्वे, वामे कृष्णः । बहुरोमपुष्पकौ
छागौ पश्चात् पादयोरेकैकः । अश्वस्य पुच्छे श्वेतः, वेहत्
गर्भघातिनी, वामनः खर्व्वः पशुः पुच्छे एवम्
एकादशानामश्वावयवतया कल्पयित्वा तथाविधौ एकादशि
नौ द्वौ मध्ययूपे बन्धनीयौ अन्येषु एकेक इति भेदः
पृषतीत्यादीनां श्वेताः सौर्य्या इत्यन्तानां शतत्रयसख्यकानां
पशूनां मध्ये पञ्चदश पशवः एकैकस्मिन् अश्वादयस्त्रयः
एते द्वादश च इत्येते पर्य्यङ्ग उच्यन्ते । अत्राश्वस्य शरीरं
तुम्बीफलवत् रज्ज्वा गुस्फनीयम् । ततः कृष्णग्रीव
इत्यादयः अश्वस्य शरीरे यथोक्तस्थाने संबद्ध्वा रज्ज्वा
बन्धनीयाः ततो रोहितादयः वक्ष्यमाणा द्वादश नियोज्याः
इतरेषु विंशतौ यूपेषु पञ्चदश पञ्चदश पशवः प्रत्येकमेका-
दशिनः इतिषोड़श इति भेदः” ।
अश्वादिपशुभेदाः देवसहिताः यजु अ० २४ उक्ता यथा
“अश्वस्तूपरो गोमृगस्ते प्राजापत्याः कृष्णग्रीव आग्नेयो
रराटे । पुरस्तात्सारस्वती मेष्यधस्ताद्धन्वोराश्विनावधोरा-
मौबाह्वोः सौमापौष्णः, श्यामोनाभ्यां, सौर्य्ययामौ श्रेतश्च
कृष्णश्च, पार्श्वयोस्त्वाष्ट्रौ लोमशसक्थौ, सक्थ्योर्वायव्यः
श्वेतः, पुच्छैन्द्राय स्वपस्याय, वेहद्वैष्णवोवामनः १ । रोहि-
तोधूम्ररोहितः कर्कन्धुरोहितस्ते सोम्या, बभ्रुररुणबभ्रुः
शुकबभ्रुस्ते वारुणाः, शितिरन्ध्रोऽन्यतः शितिरन्ध्रः समन्त
शितिरन्ध्रस्ते सावित्राः, शितिबाहुरन्यतःशितिबाहुः
समन्तशितिबाहुस्ते वार्हस्पत्याः, पृषती क्षुद्रपृषती स्थूल
पृषती ता मैत्रावरुण्यः २ । शुद्धबालः सर्वशुद्धबालो
मणिबालस्तआश्विनाः, श्येतः श्येताक्षोऽरुणस्ते रूद्राय
पशुपतये, कर्णायामा अवलिप्ता रौद्रानभोरूपाः पार्ज-
न्याः ३ । पृश्निस्तिरश्चीनपृश्निरूर्ध्वपृश्निस्ते मारुताः,
फल्गूर्लोहितोर्ण्णी पलक्षीताः सारस्वत्यः, प्लीहाकर्णः शुण्ठा
कर्णोऽद्ध्यालोहकर्णस्ते त्वाष्ट्राः, कृष्णग्रीवः शितिकक्षोऽ-
ञ्जिसक्थस्तऐन्द्राग्नाः” कृष्णाञ्जिरल्पाञ्जिर्महाञ्जिस्तौ-
षस्याः ४ । शिल्पा वैश्वदेव्यो, रोहिण्यस्त्र्यवयो वाचे,
ऽविज्ञाता अदित्यै, सरूपा धात्रे, वत्सतर्यो देवानां पत्नीभ्यः । ५ ।
कृष्णग्रीवा आग्नेयाः, शितिभ्रवो वसूनां, रोहिता रुद्राणां,
श्वेता अवरोकिण आदित्यानां, नभोरूप्राः पार्जन्याः । ६ ।
उन्नत ऋषभो वामनस्त ऐन्द्रवैष्णवाः, उन्नतः शितिवाहुः
शितिपृष्ठस्त ऐन्द्राबार्हस्पत्याः, शुकरूपा वाजिनाः,
कल्माषा आग्निमारुताः, श्यामाः पौष्णाः । ७ । एता ऐन्द्रा-
ग्ना, द्विरूपा अग्नीषोमीया, वामना अनड्वाह आग्ना-
वैष्णवा, वशा मैत्रावरुण्यो, ऽन्यत एन्यी मैत्र्यः । ८ । कृष्ण-
ग्रीवा आग्नेया, बभ्रवः सौम्याः, श्वेता वायव्या, अविज्ञाता
अदित्यै, सरूपा धात्रे, वत्सतर्यो देवानां पत्नीभ्यः । ९ । कृष्णा
भौमाः, धूम्रा आन्तरिक्षा, वृहन्तो दिव्याः, शवला, वैद्युताः
सिध्मास्तारकाः १० । धूम्रान् वसन्तायालभते, श्वेतान् ग्रीष्माय,
कृष्णान् वर्षाभ्यो, ऽरुणाञ्छरदे, पृषतो हेमन्ताय, पिशङ्गाञ्छि
शिराय ११ । त्र्यवयो गायत्र्यै, पञ्चावयस्त्रिष्टुभे, दित्यवाहो
जगत्यै, त्रिवत्सा अनुष्टुभे, तुर्यवाह उष्णिहे १२ । पृष्ठवाहो
विराजे, उक्षाणोवृहत्या, ऋषभाः, ककुभे, ऽनड्वाहः पङ्क्त्यै,
धेनवोऽतिच्छन्दसे १३ । कृष्णग्रीवा आग्नेया, बभ्रवः सौम्या,
उपध्वस्ताः सावित्रा, वत्सतर्य्यः सारस्वत्याः, श्यामाः
पौष्णाः, पृश्नयो भारुता, बहुरूपा वैश्वदेवा, वशा द्यावा-
पृथिवीयाः १४ । उक्ताः संचरा एता ऐन्द्राग्नाः, कृष्णा
वारुणाः, पृश्नयो मारुताः, कायास्तूपराः १५ । अग्नयेऽनी-
कवते प्रथमजानालभते, मरुद्भ्यः सान्तपनेभ्यः सवात्यान्,
मरुद्भ्यो गृहमेधिभ्यो वष्किहान्, मरुद्भ्यः क्रीडिभ्यः संसृ-
ष्टान्, मरुद्भ्यः स्वतवद्भ्योऽनुसृष्टान् १६ । उक्ताः संचरा एता
ऐन्द्राग्नाः, प्राशृङ्गा माहेन्द्रा, बहुरूपा वैश्वकर्म्मणाः १७ ।
धूम्रा बभ्रुनीकाशाः पितृणां सोमवतां, बभ्रवो धूम्रनीकाशाः
पितॄणां बर्हिषदां, कृष्णा बभ्रुनीकाशाः पितॄणामग्निष्वा-
त्तानां, कृष्णाः पृषन्त स्त्रैयम्बकाः १८ । उक्ताः संचराः
एता शूनासीरीयाः, श्वेता वावव्याः, श्वेताः सौर्य्याः १९ ।
एवं समाप्ना यूपाः इत्यश्वाद्याः सौर्य्यान्ताः सप्तविंशत्यधिक-
शतत्रयमिताः ग्राम्याः पशवः सर्वे उक्ताः । आरण्यानाह ।
“वसन्ताय कपिञ्जलानालभते, ग्रीष्माय कलविङ्कान्, वर्षा
भ्यस्तित्तिरा, ञ्छरदे वर्त्तिका, हेमन्ताय ककरा, ञ्छिशिराय
विककरान् २० । समुद्राय शिशुमारानालभते, पर्जन्याय
मण्डूका, नद्भ्योमत्स्या, न्मित्राय कुलीपयान्, वरुणाय
नाक्रान् २१ । सोमाय हंसानालभते, वायवे बलाका
पृष्ठ ०५१०
इन्द्राग्निभ्यां क्रुञ्चान्, मित्राय मद्गून्, वरुणाय चक्र-
वाकान् २२ । अग्नये कुटरूनालभते, वनस्पतिभ्य
उलूका, नाग्नीषोमाभ्यां चाषान्, अश्विभ्यां मयूरान्,
मित्रावरुणाभ्यां कपोतान् २३ । सोमाय लबानालभते, त्वष्ट्रे
कौलीकान्, गोषादीर्देवानां पत्नीभ्यः, कुलीका देवजामि भ्यो,
ऽग्नये गृहपतये पारुष्णान् २४ । अह्ने पारावतानाल भते,
रात्र्यै सीचापू, रहोरात्रयोः संधिभ्योः जतू, र्मासेभ्यो
दात्यौहान्, संवत्सराय महतः सुपर्णान् २५ । भूम्या आखूना
लभते, ऽन्तरिक्षाय पाङ्क्त्रान्, दिवे कशान्, दिग्भ्यो नकुलान्,
बभ्रुकानवान्तरदिशाभ्यः २६ । वसुभ्य ऋश्यानालभते,
रुद्रेभ्योरुरून्, आदित्येभ्योन्यङ्कून्, विश्वेभ्यो देवेभ्यः
पृषतान्, साध्येभ्यः कुलुङ्गान् २७ । ईशानाय परस्वत आलभते,
मित्राय गौरान्, वरुणाय महिषान्, वृहस्पतये गवयां, स्त्वष्ट्र-
उष्ट्रान् २८ । प्रजापतये पुरुषान् हस्तिन आलभते, वाचे
प्लुँषी, श्चक्षुषे मशका, ञ्छोत्राय भृङ्गाः, २९ । प्रजापतये
च वायवे च गोमृगो, वरुणायारण्योमेषो, यमाय
कृष्णो, मनुष्यराजाय मर्कटः, शार्दूलाय रोहिद्, ऋषभाय
गवयी, क्षिप्रश्येनाय वर्तिका, नीलङ्गोः कृमिः, समुद्राय
शिशुमारी, हिमवते हस्ती ३० । मयुः प्राजापत्य, उलो
हलिक्ष्णो वृषदंशस्ते धात्रे, दिशां कङ्को, धुङ्क्षाग्नेयी
कलविङ्को लोहिताहिः पुष्करसादस्ते त्वाष्ट्रा, वाचे
क्रुञ्चः ३१ । सोमाय कुलुङ्ग, आरण्योऽजो नकुलः शका ते
पौष्णाः, क्रोष्टा मायो, रिन्द्रस्य गौरमृगः, पिद्वोन्यङ्कुःकक्कटः,
स्तेऽनुमत्यै, प्रतिश्रुत्कायै चक्रवाकः ३२ । सौरी बलाका,
शार्गः सृजयः शयाण्डकस्ते मैत्राः, सरस्वत्यै, शारिः पुरुष
वाक्, श्वाविद्भौमी, शार्दूलो वृकः पृदाकुस्ते मन्यवे, सरस्वते
शुकः पुरुषवाक् ३३ । सुपर्णः पार्जन्य, आतिर्वाहसो
दर्विदा ते वायवे, वृहस्पतये वाचस्पतये, पैङ्गराजो, ऽलज
आन्तरिक्षः, प्लवोमद्गुर्मत्स्यस्ते नदीपतये, द्यावापृथिवीयः
कूर्मः ३४ । पुरुषमृगश्चन्द्रमसो, गोधा कालका दार्वाघाटस्ते
वनस्पतीनां, कृकवाकुः सावित्रो, हंसो वातस्य, नाक्रो मकरः
कुलीपयस्तेऽकूपारस्य, ह्रियै शल्लकः ३५ । एण्यह्नो, मण्डूको
मूषिका तित्तिरिस्ते सर्पाणां, लोपाश आश्विनः । कृष्णो
रात्र्या, ऋक्षो जतूः मुषिलीका तैतरजनानां, जहका
वैष्णवी ३६ । अन्यवापोऽर्धमासानामृश्यो मयूरः सुर्पणस्ते
गन्धर्वाणा, सपामुद्रो मासां, कश्यपो रोहित् कुण्डृणाची
गोलत्तिका तेऽप्सरसां, मृत्यवेऽसितः २ । ७ । वर्षाहू रृतू-
ना, माखुः कशो मान्थालस्ते पितॄणां, बलायाजगरो,
वसूनां कपिञ्जलः, कपोत उलूकः शशस्ते निरृत्यै,
वरुणायारण्यो मेषः ३८ । श्वित्र आदित्याना, मुष्ट्रो
घृणीवान् वार्ध्रीनसस्ते मत्या, अरण्याय सृमरो, रुरू रौद्रः,
क्वयिः कुटरुर्दात्यौहस्ते वाजिनां, कामाय पिकः ३९ ।
खड्गो वैश्वदेवः, श्वा कृष्णः कर्णो गर्दभस्तरक्षुस्ते
रक्षसा, मिन्द्राय सूकरः । सिंहो मारुतः, कृकलासः
पिप्पका शकुनिस्तेशरव्यायै विश्वेषां देवानां पृषतः । ४० ।
एवं षष्ट्यधिकं शतद्वयमारुण्याः पशव उक्ताः ।
मध्यमयूपे द्वौ एकादशिनौ अन्येषु एकैके एकादशिनः
इति एकविंशतियूपेषु द्वाविंशतिरेकादशिनः । अतः सप्तविं-
शत्यधिकशतत्रयम् अश्वादि सौर्य्यान्तं द्वाविंशत्या सह मिलि-
ताम् सत् ऊनपञ्चाशदधिकं शतत्रयम्! ताः ग्राम्यापशवः
आरण्यास्तु २६० मिलिताः ६०९ पशवोऽश्वमेधे र्विहिताः
तदुक्तं श्लोके । “षट् शतानि नियुज्यन्ते पशूनां मध्यमे-
ऽहनि । अश्वमेधस्य यज्ञस्य नवमिश्चाधिकानि च” । तेषु
ग्राम्या आलभ्या आरण्या बन्धनान्मोच्या न तु हिंस्या
इति । एवञ्चात्राश्वस्य प्रधान्यात् अश्वमेधत्वम् । अश्वलक्ष-
णं तु” कालाम्भोधरसङ्काशः स्वर्णवर्णमुखोबली । यस्य
पार्श्वावुभावर्द्धचन्द्राकारौ सुशोभनौ । पुच्छं विद्युत्प्रती-
काशमुदरं कुन्दसन्निभम् । पादाश्चैव हरिद्वर्णाः कर्णौ
सिन्दूरसन्निभौ । ज्वलदग्निनिभा जिह्वा चक्षुषी
भास्करोपमे, विराजितो रोमराज्या सानुलोमविलोमया ।
विचित्रैर्विविधैर्वर्णैश्चित्रोरजतविन्दुभिः । यो वेगे वायु
तुल्यः स्यादुच्चैरुच्चैःश्रवायथा । यस्य गात्रोद्भवोगन्धो
गन्धर्व्वमपि मोहयेत् । एवं लक्षणसंयुक्तो यज्ञियः पशुरु-
च्यते” वाशि० रा० । “गोक्षीरसमवर्णञ्च कुन्देन्दुहिमसन्निभ-
म् । पीतपुच्छं श्यामकर्णं सर्वतोगतिमत्तमम् । श्यामं वापि
महीपाल । यज्ञेऽस्मिंस्तुरगं विदुरिति” पुरा० । शत० ब्राह्मणे
तु “द्विरूपएवैषोऽश्वः स्यात् कृष्णसारङ्गः प्रजापतेर्वाएषो-
ऽक्ष्णः सममवत् द्विरूपं वा इदं चक्षुः शुक्लं चैव कृष्णंच तदेनं
स्वेन रूपेण समर्धयतीति । अथ होवाच सात्ययज्ञिः
त्रिरूप एवैषोऽश्वः स्यात्तस्य कृष्णः पूर्वार्धः शुक्लोऽपरार्धः
कृत्तिकाञ्जिः पुरस्तात्तद्यत् कृष्णः पूर्वार्धो भवति यदेवेदं
कृष्णमक्ष्णस्तदस्य तदथ यच्छुक्लोऽपरार्धो भवति यदेवेदं शुक्ल-
मक्ष्ण स्तदस्य तदथ यत्कृत्तिकाञ्जिः पुरस्तात्सा कनीनिका
स एवं रूपसमृद्ध्वोऽती यतमोऽस्योपकल्पेत बहुरूपो वा
द्विरूपो वा त्रिरूपो वा कृत्तिकाञ्जिस्तमालभेत जवेन त्वेव
समृद्धः स्यात्” । “कृत्तिकाकारं कृत्तिकान्तिकरोहिणीशकटा
पृष्ठ ०५११
कारमञ्जिं पुण्म्रं ललाठे यस्य भा० । ललामम्” । का
त्या० २० । १ । ३३ । “नीलपौण्ड्रकयुक्तमिति” कर्क० ।
तस्योत्सर्ज्जनं चोत्तरपूर्व्वदिशि । “पशुवदुत्सर्ज्जनं निरष्टे
ऽश्वशते” कात्या० २० । २ । १ । “पशुवदित्युत्तरपूर्व्वा दिग्
लक्ष्यते निरष्टे निरमणे वृद्धतया । अध्वर्युयजमानौ
अश्वशते शतानामप्यश्वानां मध्ये पशुवदुत्सर्ज्जनं कुरुतः
कीदृशे निरष्टे अश्वस्य वयोव्यञ्जनानि एकैकं त्रीणि
त्रीणि वर्षाणि अनुवर्त्तन्ते तानि निर्गतान्यस्मादिति
निरष्टम् अतीतचतुर्विंशतिवर्षमित्यर्थः” कर्कः । तेन वृद्धतया
स्कन्दनसामर्थ्यराहित्यं सूचितम् तथा हि तस्याश्वस्य
“बडवाभ्यो वारणम्” “प्रस्नेयाच्चोदकात्” कात्या० २० । २ । १ ।
२ । ३ । वाक्येन वड़वाभ्यो निवारणं, प्रस्नेयात् यथेच्छस्ना-
नार्हादुदकाच्च मिवारणम् विहितम् । अतएव “प्रजाते
वायव्यम्” कात्या० २० । ३ । २० । बड़वायां रेतःस्कन्दने
प्रजातैत्युच्यते तस्मिन् वायव्यपयोनिर्वापोविहितः ।
तस्य रक्षकाश्च यथारूपाः कर्त्तव्यास्तथाह शत० ब्रा० ।
“तस्यैते पुरस्ताद्रक्षितार उपकॢप्ता भवन्ति । राजपुत्राः
कवचिनः शतं राजन्या निषङ्गिणः शतं सूतग्रामण्याः
पुत्त्रा इषुपर्षिणः शतं क्षात्रसंगृहीतॄणां पुत्त्रा दण्डिनः
शतमश्वशतं निरष्टं निरमणं यस्मिन्नेनमपिसृज्य रक्षन्ति”
अवधिकालमाह “तस्मात् पारिप्लवं षट्त्रिंशतं दशाहा
नाचष्टे” इति शत० ब्रा० सावनगणनया संवत्सरे गते
दीक्षा । “अश्वापदीज्या चरुभिः सावित्रम्” इत्यादिना
“मृतेचादर्शने च” इत्यन्तेन कात्या० २०, ३, २० । प्रायत्तवि-
शेषानुक्त्वा “अन्यस्य रशनादानादि करोत्यश्वयुक्तम्” मृते
अश्वस्यादर्शने च” का० २०, ४, १ । अपुनरागमसम्भवे
च अन्यस्याश्वस्य रशनादानादि अश्वयुक्तमश्वसंबन्धि अश्वोपकारकं
सर्व्वं कर्म्म पुनः करोति” कर्कः । अश्वमेधारम्भकालश्च ।
“अष्टम्यां नवम्यां चा फाल्गुनीशुक्लस्य” कात्या० २०, १, २,
फाल्गुनशुक्लपक्षेऽष्टम्यां नवम्यां वा प्रारम्भः । “याऽसौ
फाल्गुनी पौर्ण्णमासी भवतीति” प्रकृत्य “तस्यै पुरस्तात्
षड़हे वा सप्ताहे वा ऋत्विज उपसमायन्तीति” शत०
ब्रा० ग्रीष्मेत्वेके” कात्या० २०, १, ३, “ज्यैष्ठाषाड़-
योः शुक्लाष्टम्यां नवम्यां वेत्येके” कर्कः । एकविंशतिपूपसन्नि-
वेशमानादि यथा “एकविंशतिर्यूपाः सर्व्व एकविंशत्य
रत्नयोराज्जुद्दालोऽग्निष्ठो भवति पैततुदारवावभितः,
षड्बैल्वास्त्रय इत्थात्त्रय इत्थात्, षट् खादिरास्त्रय
एवेत्थात्त्रय इत्थात्, षट् पालाशास्त्रय एवेत्थात्त्रय इत्थात्,
शत० ब्रा० । एतेषां नामनिर्व्वचनं तत्रैव दृश्यम् ।
अश्वमेधस्य यौगिकानि द्वादश नामानि दर्शितानि
शत० ब्रा० १३ काण्डे । “एष वै प्रभूर्नाम यज्ञः १ । यत्रैतेन
यज्ञेन यजन्ते सर्व्वमेव प्रभूतं भवति । एष वै विभूर्नाम
यज्ञः २ । यत्रैतेन यज्ञेन यजन्ते सर्व्व मेव विभूतं मवति ।
एष वै व्यष्टिर्नाम यज्ञः ३ । यत्रैतेन यज्ञेन यजन्ते सर्व्व-
मेव व्यष्टं भवति । एष वै विधृतिर्नाम यज्ञः ४ । यत्रै-
तेन यज्ञेन यजन्ते सर्व्वमेव विधृतं भवति । एष र्व व्यावृ-
त्तिर्नाम यज्ञः ५ । यत्रैतेन यज्ञेन यजन्ते सर्वमेव व्यावृत्तं
भवति । एष वा ऊर्जस्वन्नाम यज्ञः ६ । यत्रैतेन यज्ञेन यजन्ते
सर्व्वमेवोर्जस्वद्भवति । एष वै पयस्वान्नाम यज्ञः ६ । यत्रैते
न यज्ञेन यजन्ते सर्व्वमेव पयस्वद्भवति । एष वै ब्रह्म
वर्चसी नाम यज्ञः ८ । यत्रैतेन यज्ञेन यजन्त आब्राह्मणो
वर्चसी जायते । एष वाअतिव्याघिर्नाम यज्ञः ९ । यत्रैतेन
यज्ञेन यजन्त आराजन्योऽतिव्याधिर्जायते । एष वै
दीर्घो नाम यज्ञः १० । यत्रैतेन यज्ञेन यजन्तऽआदीर्घा-
रण्यं जायते । एष वै कॢप्तिर्नाम यज्ञः ११ । यत्रैतेन
यज्ञेन यजन्ते सर्व्वमेव कॢप्तं भवति । एष वै प्रतिष्ठा नाम
यज्ञः १२ । यत्रैतेन यज्ञेन यजन्ते सर्व्वमेव प्रतिष्ठितं
भवति” । “तरति ब्रह्महत्यां योऽश्वमेधेन यजते” शत० ब्रा०
“अश्वमेधे न शुध्यन्ति महापातकिनस्त्विमे” भा० अश्व० प० ।

अश्वमेध पु० अश्वमेधोऽस्त्यस्य अर्श० अच् । राजर्षिभेदे ।

“यो मैति प्रवोचत्यश्वमेधाय सूरये” ऋ० ५, २७, ४ ।
अश्वमेधाय राजर्षये” भा० ।

अश्वमेधिक न० अश्वमेधमधिकृत्य कृतः ग्रन्थः ठक् ठन् वा ।

महाभारान्तर्गते चतुर्द्दशे पर्व्वलि । “ततोऽश्वमेधिकं पर्व
सर्वपापप्रणाशनम्” “ततोऽश्वमेधिकं पर्व प्रोक्तंतच्च ततुर्द्द-
शम्” इति च भा० आ० प० ।

अश्वमेधीय पु० अश्वमेधाय हितः “अश्वमेधाच्छ च” पा० छ ।

अश्वमेधयोग्ये पशौ तल्लक्षणम् अश्वमेधशब्दे उक्तम् । चात्
ठन् । अश्वमेधिकोऽप्युक्तार्थे ।

अश्वया स्त्री अश्वमिच्छति अश्व--क्यच् “न छन्दस्यपुत्रश्चेति”

पा० नेत्त्वदीर्घौ भावे अ । हयेच्छ्रायाम् “अपुराश्वयोत
रथया” ऋ० ८, ४६, १० । “अश्वया अश्वेच्छया” भा० ।

अश्वयु त्रि० अश्वोऽस्त्यस्य युच् । १ अश्वयुक्ते “गव्युरश्वयुरी-

यते” ऋ० ३१, १५ । अश्वमिच्छति क्यच् वेदे नि० नेत्त्व
दीर्घौ उन् । २ अश्वेच्छ्वावति । अश्वयुर्गव्यूरथयुः” ऋ०
१, २१, १४ । “अश्वयुरश्वानिच्छन्” भा० ।
पृष्ठ ०५१२

अश्वयुज् स्त्री अश्वेन हयमुखाकारेण युज्यते युज--क्विप् ।

१ अश्विनीनक्षत्रे तस्य तथाकारत्वमश्लेषाशब्दे उक्तम् ।
अश्वयुजि जातः अण् तस्य वा लुक् । अश्वयुक् २ तन्न-
ज्ञत्रजाते त्रि० लुगभावे आश्वयुजः स्त्रियां ङीप् । अश्वेन
हयाकारवता नक्षत्रेण युज्यते पौर्ण्णमास्यस्मिन् मासे
आधारे क्विप् । ३ चान्द्राश्विनमासे “अश्वयुक्कृष्णपक्षस्य
श्राद्धं कुर्य्याद्दिनेदिने” स्मृतिः । अश्वेन नक्षत्रेणयुक् पौर्ण्ण-
मासी अस्त्यस्य अर्श० अच् । अश्वयुजोऽप्यत्र रत्नमाला०
अश्वयुजा युक्ता पौर्ण्णमास्यस्मिन् प्रज्ञा० अण् आश्वयुजोऽ-
प्यत्र । कर्म्मणि क्विप् । अश्वेन युक्ते ४ रथादौ । अश्वेन
युनक्ति रथम् कर्त्तरि क्विप् । रथादौ ५ अश्वयोजके त्रि० ।
“वयोवृघो अश्वयुजः परिज्रयः” ऋ० भा० ५, ५४, २ ।

अश्वरक्षक पु० अश्वं रक्षति रक्ष--ण्वुल् । घोटकपालके ।

अश्वरत्न न० अश्वोरत्नमिव उपमि० स० । उच्चैःश्रवसि

तस्य हयश्रेष्ठत्वात्तथात्वम् “मथ्यमानेऽमृते जातमश्वरत्नम-
नुत्तमन्” भा० आ० प० १७ अ० । हयरत्नादयोऽप्यत्र
“हयरत्नमहारि च” कुमा० ।

अश्वरथ पु० अश्वयुक्तोरथः । १ अश्वयुक्ते रथे । गन्धमादन-

सन्निकृष्टायाम् २ नद्यां स्त्री । “पञ्चवर्ण्णानि पुष्पाणि
पात्यन्ते भरतर्षभ! । प्रत्यक्षं सर्वभूतानां नदीमश्वरथां
प्रति” भा० व० प० १६० अ० ।

अश्वराज पु० अश्वानां राजा श्रेष्ठत्वात् टच् । उच्चैःश्रवसि

“यत्र जज्ञे महावीर्य्यः सोऽश्वराजो महाद्युति” भा०
आ० प० १७ अ० । भगवद्विभूतित्वादपि तस्य श्रेष्ठत्वम्
“उच्चैःश्रवसमश्वानां विद्धि याममृतोद्भवम्” गीता ।

अश्वरोधक पु० अश्वं रुणद्धि रुध--ण्वुल् । करवीरे वृक्षे ।

अश्वरोह पु० अश्वं रोहति रुह--अण् उप० स० । अश्वा-

रोहे सादिनि ।

अश्वल त्रि० अश्वं लाति ला--क ६ त० । १ हयग्राहके ऋषिभे-

दे “अथ ह जनकस्य वैदेहस्य होताश्वलो बभूव” वृ० उ० ।
तदृषेः याज्ञवल्क्यं प्रति प्रश्नप्रतिवचनरूपाख्यायिकाप्रति-
पादके २ ब्राह्मणे च तच्च “अथ हजनकस्येत्यारभ्य ततोहो
ताश्वलोविररामेत्यन्तम्” वृ० उ० । गोत्रापत्ये नडा० फक् ।
आश्वलायनः । तद्गोत्रापत्ये येन श्रौतसूत्रंगृह्यसृत्र-
ञ्च कृतम् तस्मिन् ।

अश्वलक्षण न० अश्वानां शुभाशुभज्ञापकत्वं लक्ष्यतेऽनेन

लक्ष--करणे ल्युट् ६ त० । अशूस्य श्रुभाशुभसूचक
चिह्नभेदे अश्वशब्दे तच्चोक्तम् ।

अश्वललित न० वृत्तरत्नाकरोक्ते त्रयोविंशत्यक्षरपादके

वर्ण्णवृत्तभेदे “यदि ह नजौ भजौभ्जभलगास्तदाश्व
ललितं हरार्कयतिमत्” । इदमद्रितनयेति छन्दोम० ।

अश्वलाला स्त्री अश्वस्य लालेवाकृत्या । ब्रह्मसर्पे हलाहल-

सर्पे जटाध० । अश्वलोमेति पाठान्तरम् । अश्वस्य लोमे
वाकृतिरस्य” तत्र विग्रहः ।

अश्ववक्त्र पु० अश्वस्य वक्त्रमिव वक्त्रमस्य । १ किम्पुरुषे

देवयोनिभेदे अश्ववदनहयमुखादयोऽप्यत्र । २ हयग्रीवे विष्णु
मूर्त्तिभेदे अश्वशिरःशब्दे विवृतिः । तद्ध्यानेन च तन्मूर्त्ति-
रुक्ता तन्त्रसा० । “शरच्छशाङ्कप्रभमश्व वक्त्रं मुक्तामयैराभरणैः
प्रदीप्तम् । रथाङ्गशङ्खाञ्चितबाहुयुग्मं जानुद्वयन्यस्तकरं
भजामः” ।

अश्ववत् त्रि० अश्वोऽस्त्यस्य मतुप् मस्य वः । १ अश्वयुक्ते ।

“दधानो गोमदश्ववत् सुवीर्य्यम्” ऋ० ८, ४६, ५ । मन्त्रे
क्वचित् दीर्घः अश्वावान् । “भोजनमश्वावन्तं गोमन्तमा-
पशुं नरः” ऋ० १, ८३, ४ । अश्वे इव अश्वस्येव वा वति ।
२ हयसदृशे अव्य० । अश्वेन तुल्यं क्रिया वति । ३ हयकृत
क्रियातुल्यक्रियायाम् अव्य० । अश्वमर्हति वति । ४
हयार्हे अव्य० ।

अश्ववह पु० अश्वेन उह्यते वह--कर्म्मणि बा अच् । हयेनोह्ये सादिनि ।

अश्ववार पु० अशं वारयति चु० वृ--अण् उप० स० ।

हयनिवारके सादिनि “दुःखेन निश्चक्रमुरश्ववाराः”
माघः । ण्वुल् । अश्ववारकः तत्रैव । ल्यु अश्ववारणोऽप्यत्र ।
अश्ववारलक्षणादिकमुक्तमश्वशास्त्रे यथा “ब्राह्मणान्
शक्तिदानेन साम्ना चैव तु क्षत्रियान् । वैश्यं दण्डेन शब्देन
शूद्रं दण्डेन वाहयेत् । प्रत्यूषे वाहयेद्विप्रं क्षत्रियं प्रहरे
गते । वैश्यं संन्ध्यागते काले शूद्रं रात्रौ च वाहयेत् ।
सत्वं च त्रिविधं प्रोक्तमुत्तमाधममध्यमम् । उत्तमं चोपशा-
मेन साम्ना दण्डेन मध्यमम् । शब्दाङ्गेन च दण्डेन वाहये
दधमम्बुधः । सहजे निर्मले वाहे तैलदुग्धस्य रूपवान् ।
शालिश्च द्विविधा प्रोक्ता बलदौर्वल्पसम्भवा । बलिष्ठो दुर्बल-
त्वेन दुर्बलोऽपि बलेन वा । छलेनोपाधिकायांश्च सत्वं
ज्ञात्वा च वाहयेत् । सार्द्रां सुकठिनां चैव पाषाणीदक-
संयुताम् । तृणकाष्टसमायुक्तां रङ्गभूमि तु वर्ज्जयेत् । समां
च विपुलां चैव किञ्चित्पांशुसमन्विताम् । एकान्ते विजने
रम्ये रङ्गभूभिं तु कारयेत् । स्थूलः क्रोधी च मूर्खश्च
चित्तोत्सुकश्चलासनः । अस्थाने दण्डपाती योवाजी तस्य
न सिध्यति । प्रचलति यस्य कटिरूर्द्ध्वबाहुर्दण्डपातः । न
पृष्ठ ०५१३
तस्य वाहनं वाजी दुर्लक्ष्यं वाजिवाहितम् । दृढासनोऽथ
तत्त्वज्ञो जितसुष्टिर्निरालसः । अविरागी स्थिरश्चापि षडेते
वाजिवाहकाः । चित्तं यो नैव जानाति तुरगस्य
समासतः । न वहन्ति हयास्तस्य दण्डपातेन ताड़िताः । ह्रेषिते
वलिते भीते तथा चोन्मार्गगामिनि । कुपितोद्भ्रान्तचित्ते
वा षट्सु दण्डं निपातयेत् । ह्रेषिते ताड़येन्मूर्द्धि जानुभ्यां
वलिते तथा । क्रुद्धे उरसि हन्तव्यो भ्रान्तचित्ते तथोदरे ।
भीतं च ताड़येत्पश्चान्मुखे चोन्मार्गगामिनम् । ज्ञात्वा दोषं
च रूपं च स्थानेष्वेतेषु ताड़येत् । अस्थानताड़ितोवाजी
यावज्जीवं न सिध्यति । नो जहाति च तद्दोषं यावज्जीव-
त्यसौ हयः । धाराः पञ्च प्रवक्ष्यामि मुनिभिर्य्याः प्रकीर्त्तिताः ।
प्रथमा विक्रमा धारा द्वितीया पुलका स्मृता । तृतीया पूर्ण-
कण्ठी तु चतुर्थी त्वरिता स्मृता । पञ्चमी चैव या धारा
निरालम्बा प्रकीर्त्तिता । षष्ठी चैव तु या धारा श्रूयते
न तु दृश्यते । विक्रमा गतिधारा च चतुष्का पुलका मता ।
मुखपादसमायुक्ता पूर्णकण्ठी तु सा भवेत् । स्वेच्छया
त्वरिता धारा ताड़िता चैव पञ्चमी । षष्ठी चैव तु या धारा
स्वर्गलोकेषु गीयते । वल्गाश्च संप्रवक्ष्यामि मुनिभिः
परिकीर्त्तिताः । पुष्पवन्ती च गोकर्णी तूलोत्तुला तुला वृथा ।
नागखण्डी पुष्पधारी दुमुष्टी च रुतस्तनी । द्विहस्ती
चैकहस्ती च शुभगा शोभना मता । इत्येता द्वादश वल्गा
मुनिभिः परिकीर्त्तिताः” “आरूढकर्णमध्ये तु मनो
लक्षति वाजिनः” शनैस्तु वाहयेत्पूर्ब्बं पशुतुल्यं समादि-
शेत् । न वक्रो न तथोत्तानो न कुब्जो नाप्ययोमुखः ।
न भवेत्स्तब्धगात्रस्तु स भवेदश्ववाहकः । स्थिरोरुः
स्थिरपादश्च त्रिकोन्नतस्थिरासनः । दक्षिणादितुरङ्गस्य
चासने तु दृढः सदा । अश्ववाराः समाख्याताः शेषास्तु
भयदायकाः । ग्रीष्मादिषु न वर्त्तव्यमृतुषु त्रिषु
वाहनम् । हेमन्तादिषु वर्त्तव्यं सादिभिः शास्त्रवेदिभिः ।
प्रतिपत्सु त्रयोदश्यां पञ्चम्यां वा सिते दले । धृतिसिद्धा-
तियोगेषु वासरे चन्द्रसूर्य्ययोः । मूलरोहिणीहस्तेषु पुष्पे
चैवोत्तरासु च । एवंविधे दिने सादी वाहान् संवाहयेत्
शुभे । रङ्गभूमौ च रेवन्तं स्थापयेत् पूजयेत्ततः । पुष्पैर्धूर्पः
प्रदीपैस्तु चन्दनैः पायसैस्यथा । पक्कानैः पज्ञ्चशब्दैश्च
प्रातःशुचिसुवाससा । रक्ताम्बरधरोभूत्वा रक्तपुष्पधरस्तथा” ।
“एकविंशतिवारांश्च ततः पर्य्याणयेद्धयम् । क्रोशमेकं तमारुह्य
नयेच्छिक्षां शनैःशनैः । वल्गाग्रहश्च कर्त्तव्यः सव्यापसव्यमेव
च । विक्रमा पुलका पूर्णकण्ठी च त्वरिता तथा ।
खलीनादौ प्रयोक्तव्या सादिना वाजिनां क्रमात् ।
नातिस्थूलं नातिकृशं न स्तब्धं नातिकर्कशम् । सप्ताङ्गुल-
प्रमाणन्तु खलीनं कारयेद्बुधः । खलीनादिवु लोहेषु
धारयेद्विक्रमादिषु । क्रमेणैव तुरङ्गाणां कटानि संप्रयो-
जयेत् । खलीनादौ तु धारासु यदा सुशिक्षितो हयः ।
तदा कटेषु तं सादी भ्रामयेद्विक्रमादिभिः ।
शतहस्तादिकां भूमिं सप्तहस्तावसानिकाम् । भ्रामयेद्वाजिनं
सादी सव्यं चैवापसव्यकम् । मण्डलं चतुरस्रं च गोमूत्रं चार्द्ध-
चन्द्रकम् । नागपाशं क्रमेणैव भ्रामयेत्कटपञ्चचकम् ।
एवमन्येषु लोहेषु त्रिष्वेव म्रामयेत्कटे । यएवं वाहयेद्-
वाहं तस्य कष्टं न जायते । दद्याद्भयमभीतस्य भीतस्यापि
हरेद्भयम् । रहस्यं सादिनामेतद्वाहनेऽस्मिन्निवेदितम् ।
पूर्वोक्तेषु च देशेषु षट्सु दोषेषु ताड़येत् । न जातु
सादिनान्यस्मिन् काले दोषशतैरपि । दम्यमानस्य
अश्वश्य यो दोषः सादिदोषतः । जायते ऽसौ निरा-
कर्त्तुं सादिना नैव शक्यते । एवं शास्त्रविधानेन यः
सादी वाहयेद्धयान् । हरयस्तस्य सिव्यन्ति भवन्ति
फलदायकाः । वाहनं यच्च दुष्टं च धूपलेपनमन्त्रकैः । तदहं
संप्रवक्ष्यामि मुनिभिः कीर्त्तितं यथा । अस्थिभिर्दशनैश्चैव
वृकाणां च यथा बुधैः । विषमक्षिकादंष्ट्राभिः धूमसंबद्ध
सर्पिषा । एलागुरुमदोसीरनागकेसरचन्दनैः । सर्ज्जिका-
तैलसंयुक्तो धूपयेद्दुष्टवाजिनम् । विषलोहगदैलाभिस्तैला-
ज्यदधिचन्दनैः । निःशेषदोषनाशाय धूप उक्तो हि वाजि-
नाम् । विलिप्य गोमयैः प्रातर्न्निशीथे सर्वसन्धिषु । अष्टम्यां
च विशेमेण दुष्टाः सिध्यन्ति घूपिताः । काशीशं चन्दत्रं
कौतीसिद्धार्थमरिचानि च । सैन्धवं बड़वामूत्रं गोमूत्रं
कर्णजं मलम् । सुनिगुप्तानि पिष्टानि कणायाः
सवचानि च । अञ्जनं सर्वदुष्टानां देयं पर्वणि पर्वणि ।
अनेनाभ्यञ्जितो वाजी निर्वाणमधिगच्छति । कोपमोहं
भयं त्यक्त्वा वश्यः स्यात्सादिनोभृशम्” ।

अश्ववाह पु० अश्वं वाहयति चालयति वह--णिच्--अण् ।

अश्वचालके सादिनि । ण्वुल् । अश्ववाहकोऽप्यत्र । ल्यु
अश्ववाहनोऽप्यत्र पु० ।

अश्वविक्रयिन् त्रि० अश्वं विक्रेतुं शीलमस्य वि + क्री-

शीलार्थे इनि ६ त० । हयविक्रयाजीविकायुक्ते त्रिका० ।

अश्वविद् पु० अश्वं हयहृदयं वेत्ति विद--क्विप् ६ त० । १

नलनृपतौ तस्याश्वहृदयज्ञता वर्ण्णिता” भा० व० प० ७२ अध्या० ।
यथा “ऋतुपर्ण प्रति बाहुकरूपस्य नलस्योक्तिः” बाहुकस्तमु-
पृष्ठ ०५१४
वाचाथ देहि विद्यामिमां मम । मत्तोऽपि चाश्वहृदयं
गृहाण पुरुषर्षभ! । ऋतुपर्णस्ततोराजा बाहुकं कार्य्य-
गौरवात् । हयज्ञानस्य लोभाच्च तं तथेत्यब्रवीद्वचः ।
यथोक्तं त्वं गृहाणेदमक्षाणां हृदयं परम् । निक्षेपोमे-
ऽश्वहृदयं त्वयि तिष्ठतु बाहुक”! । अश्वं विन्दते विद--क्विप् ।
२ अश्वलब्धरि त्रि० “परिणोद् अश्वमश्वविदो गोमदि” ऋ०
९, ६१, ३ । “अश्वविदे अश्वस्य लब्धरि” भा० ।

अश्ववैद्य पु० ६३० । घोटकचित्सके तच्चिकित्साप्रकारः ।

जयदत्तकृतेऽश्वशास्त्रेऽवसेयः ।

अश्वशङ्कु पु० ६ त० । १ अश्वबन्धनार्थे कीले । अश्वस्य शङ्कु-

रिव । २ दनुपुत्रभेदे “चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र
भारत”! इत्युपक्रम्य “अयःशिरा अश्वशिरा अश्वशङ्कुश्च
वीर्य्यवान्” भा० आ० प० ६० अध्या० ।

अश्वशाला स्त्री ६ त० । हयस्थावे मन्दुरायां वाजिशाला-

याम् तत्करणविधिश्चाश्वशास्त्रे । यथा “प्रागुदक्प्रवणे
देशे वालुकाकाष्ठवर्जिते । चिताचैत्यविहीने च शालां
कुर्वीत पण्डितः । सुशुष्का सा च कर्त्तव्या दुष्ट-
कीटाद्यसंयुता । शिशिरे स्थापयेद्देवं रेवन्तं पूजयेत्-
सदा । कार्य्या त्रिहस्तविस्तीर्ण्णा तालाख्या पिण्डि-
का शुभा । शालाप्रमाणदीर्घा च तस्यां वासं प्रकल्प-
येत् । द्वौ हस्तावुच्छ्रये तस्या मानं चैवं प्रकीर्त्तितम् ।
कर्कन्धूकाष्ठदण्डं च प्रान्तेऽस्याः स्थापयेद्बहिः” वालूका
पूरितं कार्य्यं संस्कृतं चत्वरं तथा । लुण्ठनाय च वाहा-
नां भवेच्चङ्क्रमणाय च” “जय० अश्व० शा० “दहति ते
गृहं कोषागारमायुधागारमश्वशालां हस्तिशालाञ्च क्रुद्धः”
भा० व० प० १९७ अ० ।

अश्वशास्त्र न० अश्वलक्षणादिज्ञापकं शास्त्रम् । शालिहोत्रकृते

हयलक्षणादिज्ञापके १ शास्त्रे तन्मूलके जयदत्तकृते २ शास्त्रे च ।

अश्वशिरस् न० ६ त० १ वाजिमस्तके । अश्वस्य शिरैव शिरोऽस्य ॥

२ दानवभेदे अश्वशङ्कुशब्दे विवृतिः । “अयःशिरा अश्वशिरा
अश्वःशङ्कुश्च वीर्य्यवान् । तथागगनसूर्य्यश्च वेगवांश्चात्र
पञ्चमः । पञ्चैते जजिंरे राजन्! वीर्य्यवन्तोमहासुराः ।
कैकयेषु महात्मानः पार्थिवर्षभसत्तमाः” भा० आ० प०
६६ अध्या० । ३ हयशिरसि विष्णुमूर्त्तिभेदे, तादृङमूर्त्तिधारण-
मुक्तम्” भा० शा० प० ३४२ अध्या० “तेऽनुशिष्टा भगवता देवाः
सर्षिगणास्तथा । नमस्कृत्त्य भगवते जग्मुर्देशान् यथे
प्सितान् । गतेषु त्रिदिवौकस्मु ब्रह्मैकः पर्य्यवस्थितः ।
दिदृक्षुर्भगवन्तमनिरुद्धतनौ स्थितम् । तं देवो दर्शयामास
कृत्वा हयशिरोमहत् । साङ्गानावर्त्तयन् वेदान् कण्डलु-
त्रिदण्डधृक् । व्यास उवाच । ततोऽश्वशिरसं दृष्ट्वा तं
देवममितौजसम् । लोककर्त्ता प्रभुर्ब्रह्मा लोकानां
हितकाम्यया । मूर्द्ध्ना प्रणम्य वरदं तस्थौ प्राञ्जलिरग्रतः ।
स परिष्वज्य देवेन वचनं श्रावितस्तदा । श्रीभगवानुवाच ।
लोककार्य्यगतीः सर्वास्त्वं चिन्तय यथाविधि । धाता
त्वं सर्व्वभूतानां त्वं प्रभुर्जगतो गुरुः । त्वय्यावेशितभारो-
ऽहं धृतिं प्राप्स्याम्यथाञ्जसा । यदा च सुरकार्य्यन्ते
अविषह्यं भविष्यति । प्रादुर्भावं गमिष्यामि तदात्म-
ज्ञानदैशिकम् । एवमुक्त्वा हयशिरास्तत्रैवान्तरधीयत” ।
“कपर्द्दिने वराहाय एकशृङ्गाय धीमते । विवस्वतेऽश्वशिरसे-
चतुर्मूर्त्तिधृते सदा” इति च तत्रैव ।

अश्वशृगालिका स्त्रो अश्वशृगालयोर्वैरं द्वन्द्वात् वैरे वुन् ।

हयशृगालयोर्वैरे शब्दरत्ना० ।

अश्वश्चन्द्रा त्रि० अश्वैश्चन्द्रयति आह्लादयति चदि--णिच् रक्

३ त० वेदे पृ० सुट् । हयेनाह्लादिकायां स्त्रियां “गोमघा
जरित्रे अश्वश्चन्द्राः” ऋ० ६, ३५, ४ । “अश्वश्चन्द्राः
अश्वैराह्लादयन्त्यः” मा० ।

अश्वषड्गव न० अश्व + षट्के षड़्गवच् । हयषट्के ।

अश्वसनि त्रि० अश्वं सनुते ददाति--सन--इन् ६ त० ।

हयदायके । “यस्तेऽश्वसनिर्भक्षः” । यजु० ८, १२ ।
अनुसवनादि० ।

अश्वसा त्रि० सन--विट--ङा ६ त० । हयदातरि । “गोषांणं

धियमश्वसां वाजसामुत” ऋ० ६, ५३, १० ।

अश्वसाद पु० अश्वं सादयति गमयति सद--गतौ णिप्-

अण् उप० स० । सादिनि ।

अश्वसादिन् पु० अश्वे सीदति सद--णिनि ७ त० । सादिनि

(घोड़सओयार) “प्रतिप्रहाराक्षममश्वसादी” रघुः ।

अश्वसेन पु० १ जिनपितृभेदे २ नृपभेदे यस्य पुत्रः सनत्कुमारः

कुरुक्षेत्रस्थेक्षुमतीनदीसमीपवासिनि तक्षकसुते ३ नागभेदे
च । “तक्षकश्चाश्वसेनश्च नित्यं सानुचरावुभौ । कुरुक्षेत्रे च
वसतां नदीमिक्षुमतीमनु” भा० आ० प० ३ अध्या० । “अश्व-
सेनोऽभवत्तत्र तक्षकस्य सुतो बली । स तीक्ष्णमकरोद्यत्नं
मोक्षार्थे जातवेदसः” । भा० आ० प० २२६ अध्या०

अश्वसेननृपनन्दन पु० ७ त० । सनत्कुमारे ।

अश्वस्तन त्रि० श्वोभवः श्वस् + ठ्यु--तुट्च श्वस्तनः न० त० ।

परदिनास्थायिनि वर्त्तमानदिनमात्रभवे । “अश्वस्तनविधा-
नेन हर्त्तव्यं मनुरब्रवीत्” मनुः स्त्रियां ङीप् ।
पृष्ठ ०५१५

अश्वस्तनिक त्रि० श्वस्तनमस्त्यस्य मत्वर्थे ठन् न० त० ।

परदिनास्थायिधने वर्त्तमानदिनपर्य्याप्तधनसञ्चयकारिणि
गृहस्थभेदे “कुशूलधान्यकोवा स्यात् कुम्भीघान्यक एव
वा । त्र्यहैहिकोवापि भवेदश्वस्तनिक एव वा” मनुः ।

अश्वस्तोमीय न० अश्वस्य स्तोमं स्तुतिरस्त्यस्य मत्वर्थे छ ।

हयस्तुतियुक्ते सूक्तभेदे तच्च सूक्तम्” ऋ० १, १६२ ।
मानोमित इत्यादि द्वाविंशत्यृचम् । २ तत्साध्ये होमजाते
च । “अश्वस्य वाऽआलब्धस्य मेध उदक्रामत्तदश्वस्तोमीय
मभवद्यदश्वस्तोमीयं जुहोत्यश्वमेव मेधसा समर्धयति ।
आज्येन जुहोति । मेधोवा आज्यं मेधोऽश्वस्तोमीयं
मेघमेवास्मिंस्तन्मेधो दधात्याज्येन जुहोत्येतद्वै देवानां
प्रियं धाम यदाज्यं प्रियेणैवैनान्धाम्ना समर्धयति ।
अश्वस्तोमीयं हुत्वा द्विपदा जुहीति । अश्वोवाऽ अश्व-
स्तोमीयं पुरुषो द्विपदा, द्विपाद्वै पुरुषो द्विप्रतिष्ठस्तदेनं
प्रतिष्ठया समर्धयति तदाहुः अश्वस्तोमीयं पूर्व्वं
होतव्यां द्विपदा इति पशवो वा अश्वस्तोमीयं पुरुषो
द्विपदा यदश्वस्तोमीयं हुत्वा द्विपदा जुहोति तस्मात्
पुरुष उपरिष्टात् पशूनधितिष्ठति षोड़शाश्वस्तोमीया
जुहोति” शत० ब्रा० ।

अश्वस्थान न० ६ त० । वाजिशालायाम् “अश्वस्थानात्

गजस्थानात् सङ्गमात् वल्मीकात् ह्रदात्” विष्णुध० पुरा० ।

अश्वहनु पु० अश्वस्य हनुरिव हनुरस्य । “दानवभेदे हरिश्चाश्व

हनुश्चैव वीरौ तावथ सृञ्जिमौ” हरिवं० ३६ अध्या० ।

अश्वहन्तृ पु० अश्वं हन्ति हन--तृच् ६ त० । १ करवीरे “वीजं

विड़ङ्गाश्वहन्त्रोर्हरिद्रे वृहतीद्वयम्” सुश्रुतः । २ हय
नाशके त्रि० ।

अश्वहय पु० अश्वेन हिनोति गच्छति हि--कर्त्तरि अच् ।

अश्वेन गतिमति “प्रत्यर्द्धिर्यज्ञानामश्वहयो व रुंथानाम्”
ऋ० १०, २६, ५ । अश्वेन हीयते व्याप्यते कर्म्मणि
अच् । अश्वव्याप्ये । “मृजन्त्यश्वहयैरनिशितं नमोभिः
ऋ० ९, ९६” २ ।

अश्वहृदय न० अश्वस्य हृदयं मनोगतभावादि । हयाभिलाषे

२ तदावेदकविद्याभेदे च अश्वविच्छब्दे उदा० ।

अश्वाक्ष पु० अश्वस्याक्षोव अच् समा० । देवसर्षपवृक्षे ।

अश्वादि पु० पाणिन्युक्ते शुभाशुभसूचकनिमित्ते संयोगरूपेऽर्थे

ठञ्प्रत्ययनिमित्ते १ शब्दसमूहे सच गणः अश्व, अश्मन् गण,
ऊर्णा उमा गङ्गावर्षावसु । गोत्रापत्ये २ फञ्प्रत्ययनिमित्ते
शब्दसमूहे च स च गणः अश्व, अश्मन् शङ्ख, शूद्रक, विद,
पुट, रोहिण, खर्जूर, खञ्जार, वस्त, पिजूल भड़िल,
भण्डिल, भड़ित, भण्डित, प्रकृत, रामोद, क्षान्त, काश,
तीक्ष्ण, गोलाङ्क अर्क, स्वर, स्फुट, चक्र, श्रविष्ट, पविन्द,
पवित्र, गोमिन्, श्याम, धूम, धूम्र, वाग्मिन्, विश्वानर
कुट, शप (आत्रेये) । जन, जड़, खड़, ग्रीष्म, अर्ह,
कित, विशम्प, विशाल, गिरि, चपल, चुप, दासक, वैल्व
प्राच्य, धर्म्म, आनडुह्य, (पुंसि) जात, अर्जुन, प्रहृत,
सुमनस्’ दुर्मनस्, मनस्, प्रान्त, ध्वन, आत्रेय (भरद्वाजे)
भरद्वाज, (आत्रेये) उत्स, आतव, कितव, वद, धन्य, पाद,
शिव, खदिर अश्वादि ।

अश्वामघ त्रि० अषोमघं धनमस्य वेदे दीर्घः । “अश्वरूपधन

स्वामिनि “अश्वामघा गोमघा वा हुवेम” ऋ० ७, ०७१, १

अश्वायुर्वेद पु० अश्वस्यायुर्वेद्यतेऽनेन विद--णिच् घञ् ।

हयायुर्ज्ञापके शास्त्रे तच्च शालिहोत्रेण सुश्रुतना-
मानं स्वसुतं प्रत्युपदिष्टम् तन्मूलञ्च जयदत्तकृतञ्च अश्व-
शब्दे विवृतिः ।

अश्वारि पु० अश्वस्यारिः ६ त० । महिषे ।

अश्वारूढ़ पु० अश्वआरूढ़ोऽनेन । सादिनि अश्वारोहिणि ।

अश्वारोह पु० अश्वमारोहति आ + रुह--अण् उप० स । हयवा-

हके, हयारोहणेन २ युद्धकर्त्तरि च । अश्वस्तन्मेढ्रमिवारो-
होमूलमस्य । ३ अश्वगन्धायां स्त्री ।

अश्वावतान पु० अश्वस्येवावतानोऽस्य । ऋषिभेदे । विदा०

अपत्ये अञ् । आश्वावतानः तद्गोत्रापत्ये बहुषु
गोपवना० न लुक् । आश्वावतानाः ।

अश्वावरोहक पु० अश्वस्तन्मेढ्रमिवावरोहति ण्वुल् । अश्वगन्धावृक्षे ॥

अश्विन् पु० द्विव० अश्वाः सन्ति ययोः इनि,

अश्विन्यां नक्षत्रे भवौ “सन्धिवेलाद्युतृनक्षत्रेभ्यः पा०
अण् “नक्षत्रेभ्योबहुलम्” पा० वा लुक् लुकि स्त्रीप्रत्ययस्य
लुक्, अश्वा उत्पत्तिः स्थातत्वेनास्त्यस्य इनि वा ।
१ स्वर्गवैद्ययोः । “किमश्विनौ सोमरसं पिपासू” भट्टिः
“वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः” मनुः । “त्वाष्ट्री
तु सवितुर्भार्य्या बडवारूपधारिणी । असूयत महाभागा
सान्तरीक्षेऽश्विनाबुभौ” भा० आ० प० । “या वां कशा
मधुमत्यश्विना सुनृतावती” यजु० ७, २ । अश्वस्तच्चिह्नावर्त्तः
अस्त्यर्थे इनि । “कपोलयोस्तथावर्त्तौ विद्येते वाजि-
नोर्यदि । तावाश्विनाविति प्रोक्तौ राज्यवृद्धिकरौ परौ”
इत्युक्तलक्षणयोः २ हययोश्च द्वि० व० । ३ हययुक्ते त्रि० ।
स्त्रियां ङीप् । “गोमा अग्नेऽविमाँ अश्वी” ऋ० ४, २, ५ ।
पृष्ठ ०५१६

अश्विनी स्त्री अश्वस्तदुत्तमाङ्गाकारोऽस्त्यस्य इनि ङीप् ।

सप्तविंशतिधाविभक्तराशिचक्रस्य प्रथमे भागे । अस्या-
स्तथाकारत्वमश्लेषाशब्दे उक्तम् । “अश्निनीमघमूलानां
गण्डा आद्यास्त्रिनाड़िकाः” ज्यो० नक्षत्रपरत्वे न० ।
“पुष्याश्विहस्ता लघुः” ज्यो० अश्वाया आकारोऽस्त्यस्याः इनि
ङीप् । हयरूपधारिण्यां त्वष्टृसुतायां ३ सवितुर्भा-
र्य्यायामरुणात्मजशब्दे २६९ पृ० विवृतिः ।

अश्विनीकुमार पु० द्वि० व० । सूर्य्येण त्वष्टृसुतायां संज्ञायां

बड़वारूपायामुत्पादितयोः स्वर्वैद्ययोः तदुत्पत्तिकथा भा०
आ० प० ६६ अध्याये अश्विनीतनयपुत्रसुतादयोऽप्यत्र ।
अरुणात्मजशब्दे २६९ पृ० विवरणम् ।

अश्वीय न० अश्वानांसमूहः छ । १ हयसमूहे । अश्वस्य हितम्

अपूपा० छ । २ हयहिते । पक्षे यत् । अश्व्योऽप्युक्तार्थे ।

अश्वोरस न० अश्वानामुर इव मुख्यम् अच्समा० । मुख्येहये ।

अष दीप्तौ अक० गतौ, ग्रहणे च सक० भ्वा० उभ० सेट् ।

अषति ते आषीत् आषिष्ट ।

अषडक्षीण त्रि० प सन्ति षड़क्षीणि श्रोत्रेन्द्रियाणि ग्राहकाणि

यत्र ख । तृतीयजनकर्णाश्रुते द्वाभ्यामेव कृते मन्त्रादौ ।

अषाढ (शाड़) पु० अषाढ(शाड़)या युक्ता पौर्णमासी आषाढी

(शाड़ी)सा यत्र मासे अण् वा ह्रस्वः । वैशाखादितस्तृतीये
चान्द्राषाढ(ड)मासे । आषाढी पूर्णिमा प्रयोजनमस्य प्रयो-
जनार्थे अण् । २ ब्रह्मचारिधार्य्ये दण्डे, तस्य हि आषाढ-
पौर्णमास्यां विहितकर्म्मोप्रयोगित्वात् तथात्वम् पृ० ह्रस्वः ।
अषाढोऽप्युभयत्र । स्वार्थे कन् तत्रैव । सह क्त वेदे-
ओत्त्वाभावः षत्वञ्च नं० त० । असोढ़े त्रि० “अषाढ़ं
युत्सु पृतनासु पप्रिम्” यजु० ३४, २० । “अषाढाय
सहमानाय वेधसे” ऋ० २, २१, २ ।

अषाढा(ड़ा) स्त्री पाढिः साहनं सह--णिच् + क्तिन् ढत्वम् अर्श

आद्यच् न० त० पृषो० वा शत्वं डत्वञ्च । अश्विन्यवधिके
पूर्ब्बादिके विंशे, उत्तरादिके एकविंशे च नक्षत्रे ।

अष्टक न० अष्टौअ अध्यायाः परिणाममस्य अष्टन् + कन् ।

१ पाणिनेरष्टाध्यायीसूत्रे, प्रत्येकमष्टाध्यायात्मके २ ऋग्वे-
दांशभेदे च ३ अष्टसंख्यापरिमिते त्रि० “पैशुन्यं साहसं
द्रोहईर्ष्या सूयार्थदूषणम् । वाग्दण्डजञ्च पारुष्यं क्रोध-
जोऽपि गणोऽष्टकः” मनुः । “संख्यायाः संज्ञासङ्घसूत्रा
ध्ययनेषु” पा० उक्तेः ३ अष्टावृत्ताध्ययनेऽपि । अष्टकं
विदचि अधीयते वा “सूत्राच्च कोपधात्” पा० अध्येतृवेदि-
तृप्रलयस्य बाहुल्ये लुक् । अष्टकाः पाणिनेः ४ सूत्रा-
याध्यायिषु ब० व० । ५ अष्टसंख्यायाम् “ताराष्टकमिदं
पुण्यं भक्तिमान् यः पठेन्नरः” तन्त्रम् । गङ्गाष्टकं पठति
यः प्रयतः प्रभाते” वाल्मी० ।

अष्टकर्ण पु० अष्टौ कर्ण्णाअस्य । चतुर्मुखे ब्रह्मणि प्रतिमुखं द्विकर्ण्णत्वात्तथात्वम् ।

अष्टकर्म्मन् अष्टौ कर्म्माण्यस्य । “आदाने च विसर्गे च

तथा प्रैषनिषेधयोः । पञ्चमे चार्थवचने व्यवहारस्य
चेक्षणे । दण्डशुद्ध्योः सदा रक्तस्तेनाष्टगतिकोनृपः”
उशनसोक्त्राष्टविधकर्म्मयुक्ते नृपतौ “अष्टकर्म्मा दिवं याति
राजा शक्राभिपूजितः” उश० । अष्टगतिकोऽप्यत्र “तत्रा-
दानं करादीनाम् । विसर्गो भृत्यादिभ्यो धनदानम्
प्रैषोऽमात्यादीनां दृष्टादृष्टानुष्ठानेषु । निषेधो दृष्टा-
दृष्टविरुद्धक्रियासु । अर्थवचनं कार्यसन्देहेन राजा-
ज्ञयैव तत्र नियमनम् । व्यबहारेक्षणं प्रजानामृ-
णादिविप्रतिपत्तौ । दण्डः पराजितानां शास्त्रोक्त
धनग्रहणम् । शुद्धिः पापे कर्मणि जाते तत्र प्राय-
श्चित्तसम्पादनमिति” कुल्लूकभट्टः । मेधातिथिस्तु ।
अकृतारम्भः । कृतानुष्ठानम् । अनुष्ठितविशेषणम् ।
कर्म्मफलसंग्रहः । तथा सामदानभेददण्डाः ।
एतदष्टविधं कर्मेत्याह । अथवा “कृषिः बणिक्पथः ।
उदकसेतुबन्धनम् । दुर्गकरणम् कृतस्य संस्कारः
निर्णयः । हस्तिबन्धनम् । खनिखननम् । सैन्यनिवेश-
नम् । दारुणवनच्छेदनञ्चेत्यप्याह” । तन्मूलन्तु अष्टवर्ग-
शब्दे वक्ष्यते ।

अष्टका स्त्री अश्नन्ति पितरोऽस्यां तिथौ अश--तकन् ।

“अष्टका पितृदैवत्ये” इत्यजादिपाठात् न इत्त्वम् ।
“अष्टका तु समाख्याता सप्तम्यादिदिनत्रयम्” इत्युक्त-
लक्षणे १ सप्तम्यादिदिनत्रये, २ दिनत्रयसाध्ये कर्मधेदे च तच्चा-
श्वलायन गृ० दर्शितम् तदपि पौषमाघफाल्गुनानां कृष्ण
सप्तम्यादिषु कर्त्तव्यं तत्र प्रधानमष्टमी, सप्तम्यामारम्भः अष्टम्यां
कृत्यं नवम्यामन्यष्टकेति भेदः । “अमावास्या चतुर्द्दश्योः
पौर्णमास्यष्टकासु च” “अष्टकासु त्वहोरात्रमृत्वन्तासु च
रात्रिषु” इति च मनुः तच्च न पितृमात्रदैवत्यम् अन्यदैवत्य-
मपि यथाह “पित्र्यदानाय मूले स्युरष्टकास्तिस्र एव च ।
कृष्णपक्षे वरिष्ठाहि पूर्व्वा चैन्द्री हि भाष्यते । प्राजापत्था
द्वितीया स्यात् तृतीया वैश्वदेविकी । आद्या पूपैः
सदा कार्य्या मांसैरन्या भवेत्तथा । शाकैः कार्य्या
तृतीया स्यादेष द्रव्यगतो विधिः वायु० पुरा० । मूले
प्रधानस्थाने अमावस्या हि श्राद्धस्य प्रधानं कालः तद्वदिति
पृष्ठ ०५१७
यावत् रघु० । पश्वभावे स्थालीपाकेन कार्य्यं “अपि वा
स्थालीपाकं कुर्व्वीतेति” गोभिलः । एतद्विधानन्तु
“स्थालीपाकं पशुस्थाने कुर्य्यात् यद्यानुकल्पिकम् ।
श्रपयेत्तं सवत्सायास्तरुण्या गोः पयस्यनु” छन्दोग-
परिशि० । अन्विति ओदनचरोः पश्चात् ।
अतएव । “पितरः स्पृहयन्त्यन्नमष्टकासु मघासु च । तस्मा-
द्दद्यात् सदोद्युक्तो विद्वत्सु ब्राह्मणेषु च” शाता० ।
तस्मादन्नं प्रधानं पूपादिकन्तूपकरणत्वेन शक्तानामावश्यकं,
सदेति श्रवणात् । “अमावस्याष्टका वृद्धिः कृष्णपक्षेऽ-
यनद्वयम्” । “पौषमासस्य रोहिण्यामष्टकायामथापि
बा” या० स्मृ० । अत्रायं भेदः हेमन्तशिशिरयोश्चतुर्ण्णामपर-
पक्षाणामष्टमीष्वष्टका एकस्यां वा” आश्व० सू० उक्तेः
समर्थासमर्थभेदेन चतुर्षु मासेषु कृष्णाष्टमीषु एकस्यां वा
अष्टका कार्य्येति । आग्रहायण्या ऊर्द्ध्वं तिसृष्वष्टकासु” स्मृत-
न्तरात्तथात्वम् । अन्वष्टकाशब्दे विवृतमेतत् । अष्टपरिमा-
णमस्याः कन् । अजादिपाठा० टाप् पितृदैवत्ये इति
अस्य प्रायिकत्वात् क्षिपका० नेत्त्वम् । ४ अष्टमीतिथिमात्रे
“अमावास्या गुरुंहन्ति शिष्यं हन्ति चतुर्द्दशी । ब्रह्माष्टका
पौर्णमास्यौ तस्मात्ताः परिवर्ज्जयेत्” मनुः एतद्भिन्नाया
स्त्रियामष्टिका अत इत्वम् ।

अष्टकाङ्ग पु० अष्टकमङ्गं यस्य । नयपीठे त्रिका० तानि

चाङ्गानि स्वाम्यमात्यसुहृत्कोषराष्ट्रदुर्गबलानि च । राज्या-
ङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि चेत्युक्तानि अङ्गानि

अष्टकिक त्रि० अष्टकाऽस्त्यस्य ब्रीह्या० ठन् । अष्टकायुक्ते

अत्र वा इनि अष्टकी । अत्रैवार्थे त्रि० स्त्रियां ङीप् ।

अष्टकृत्वस् अव्य० अष्टन् + क्रियाभ्यावृत्तौ कृत्वसुच् । अष्टधा-

भ्यावृत्तक्रियायाम् ।

अष्टकोण त्रि० अष्टौकोणा अस्य । १ अष्टकोणयुक्तक्षेत्रे

तन्त्रोक्ते २ यन्त्रभेदेच “विन्दुत्रिकोणवसुकोणदशारयुग्म-
मिति” तन्त्रम् “२ कुण्डभेदे अष्टकोणमथैशान्यामत्यन्तं च
भयप्रदम्” हेमा० व्र० ख० कुण्डप्र० ।

अष्टक्य त्रि० अष्टकेन क्रीतः गवा० यत् । अष्टसंख्यान्वितेन क्रीते ।

अष्टगव न० अष्टानां गवां समाहारः यीगवि० अच् । गवाष्टके

तद्युक्ते शकटे तु अष्टागवमित्येव । “अष्टागवं धर्म्म
हलमिति” स्मृतिः ।

अष्टगुण त्रि० अष्टभिर्गुण्यते गुण--अभ्यासे कर्म्मणि क । अष्ट-

भिर्गुणिते अष्टावृत्ते । “मिथ्यावादी च संख्याने दाप्यीऽष्टगु-
णमत्ययम्” मनुः । “ददावष्टगुणैश्वर्य्यं तेषां तुष्टस्तु केशवः”
भा० व० प्र० ८२ अध्या० “ततश्चाष्टगुणं पार्थ! प्राप्स्यसे
धर्म्ममुत्तमम्” ८५ अध्या० । अष्टौ गुणा यस्य अष्टविध-
गुणयुक्ते ३ ब्राह्मणे ते च गुणा गौतमेनोक्ताः यथा
अथाष्टावत्मगुणा दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासो-
मङ्गलमकार्पण्यमस्पृहेति । यस्यैते न चत्वारिंशत् संस्काराः
न वाष्टावात्मगुणाः न स ब्राह्मणः” । अष्टावृत्तो गुणोऽस्य
वृत्तौ अष्टशब्दस्य तदावृत्तपरता । ४ अष्टावृत्तगुणके पदार्थे
“अन्नादष्टगुणं चूर्ण्णं चूर्ण्णादष्टगुणं पयः । पयसोऽष्टगुणं
मांसं मांसांदष्टगुणं घृतम् । घृतादष्टगुणं तैलं मर्द्दयेन्न
तु खादयेद्” वैद्यकम् ।

अष्टगृहीत त्रि० अष्टकृत्वो गृहीतः वृत्तौ सुजर्थोलुप्तः ।

अष्टवारगृहीते “रसमाज्यं मांसं पायसमिति संयूयाष्ट-
गृहीतं गृहीत्वा जुहूयात्” गोभि० अष्टगृहीतं केवलमेक्ष-
णेनाष्टवारान् गृहीतम्” स० त० रघुनन्दनः ।

अष्ट(ष्टा)चत्वारिंशत् स्त्री अष्टाधिका चत्वारिंशत् शा० त०

आत्वम् । (आटचल्लिश) १ संख्यायां २ तत्संख्येये च ।
“अष्टचत्वारिंशत्संस्कारैः संस्कृत” इति मिताक्ष० गौत० ।
तत्र गौतमेन चत्वारिंशदेव संस्काराः अष्टौ गुणाश्च ब्राह्मण्य-
हेतुवो दर्शिताः चत्वारिंशत् संस्काराः गुणसहिता
अष्टचत्वारिंशदित्येके । ते च “गर्भाधानपुंसवनसीमन्तो-
न्नयनजातकर्मनामकरणान्नप्राशनचौड़ोपनयनम् । चत्वारि
वेदव्रतानि स्नानं सहधर्मचारिणीसंयोगः पञ्चानां यज्ञाना-
मनुष्ठानं देवपितृमनुष्यभूतब्रह्मणामेतेषाञ्चाष्टकान्वकापा-
र्व्वंणश्राद्ध्वश्रावण्याग्रहायणीचैत्र्याश्वयुजीति सप्त पाकयज्ञ-
संस्था, अग्न्याधेयमग्निहोत्रदर्शपौर्णमासावग्रयणं चातुर्मा-
स्यनिरूढ़पशुबन्धसौत्रामणीति सप्त हविर्यज्ञसंस्था अग्निष्टो-
मोऽत्यग्निष्टोम उक्थः षोड़शी वाजपेयोऽतिरात्रोऽप्तो-
र्य्याम इति सप्त सोमसंस्था इत्येते चत्वारिंशत् संस्काराः ।
अथाष्टावात्मगुणा दया सर्वभूतेषु क्षान्तिरनसूया शौचम-
नायासोमङ्गलमकार्पण्यमस्पृहेति यस्यैते न चत्वारिंशत्
संस्कारा नवाष्टावात्मगुणा न स ब्राह्मणः सायुज्यं सालो-
क्यञ्च गच्छति । यस्य तु खलु संस्काराणामेकदेशोऽप्य-
ष्टावात्मगुणा अथ स ब्राह्मणः सायुज्यं सालोक्यञ्च गच्छति
अधिकं संस्कारशब्दे वक्ष्यते” गौ० संहितायां तु चत्वा-
रिंशत्संस्कारैः संस्कृत इत्येव पाठः । मिताक्षराकृद्धृत
पाठस्तु उक्तरीत्या समर्थितः ।

अष्टतय त्रि० अष्टाववयवा अस्य अष्टन् + तयप् । अष्टावयवे ।

“टिड्ढाणञिति” पा० सूत्रे तयपोग्रहणात् स्त्रियां ङीप् ।
अष्टतयी । अवयवमात्रे तयप् । २ अष्टसंख्यायां न० ।
पृष्ठ ०५१८

अष्टतारिणी स्त्री ब० व० कर्म० संज्ञात्वान्न द्विगुः ।

“तारा चोग्रा महोग्रा च वज्रा काली सरस्वती । कामे-
श्वरी च चामुण्डा इत्यष्टौ तारिण्योमता” इत्युक्तासु तारा-
दिषु अष्टषु तारिणीरूपदेवीमूर्त्तिषु ।

अष्टत्रिक न० अष्टावृत्तं त्रिकम् । १ चतुर्विंशतिसंख्यायां

तत्२ संख्याते च “वैश्यस्याष्टत्रिकादव्दात् सावित्रीपतनं भवेत्”
मार्कण्डेय पु० । “अष्टत्रिकाच्चतुर्विंशतेः” म० त० रघु० ।

अष्टत्व न० अष्टनां भावः त्व । अष्टसंख्यायाम् ।

अष्टदंष्ट्र पु० ६ ब० दानवभेदे “अष्टदंष्ट्रश्चतुर्दंष्ट्रो मेघनादी

जलन्धमः” हरि० २२९ अ० ।

अष्टदल न० अष्टौ दलानि यस्य । अष्टपत्रककमले “लिखे-

दंष्टदलं पद्मं भूवृत्तत्रिकभूषितम्” तन्त्रम् ।

अष्टदिश् स्त्री ब० व० । कर्म० संज्ञत्वात्र द्विगुः । पूर्ब्बाग्नेय-

दक्षिणनैरृतपश्चिमवायव्योत्तरैशानीरूपासु अष्टसु दिक्षु ।
“इन्द्रादीन् लोकपालाँश्च अष्टदिक्षु च पूजयेत्” तन्त्रम् ।

अष्टदिक्करिणी स्त्री ब० व० अष्टदिक्षुस्थाः करिण्यः । “करिण्यो-

ऽभ्रमुकपिलापिङ्गलानुपमाः क्रमात् । ताम्रकर्ण्णी शुभ्रदन्ती
चाङ्गना चाञ्जनावतीत्युक्तासु ऐरावतादीनां प्रियासु अष्टसु
हस्तिनीषु इत्यमरः ।

अष्टदिक्पाल पु० अष्टौ दिशःपालयन्ति पा--णिच्--अण्

उप० स० । “इन्द्राग्नियमनिरृतिवरुणवायुसोमेशानरूपेषु
अष्टसु दिक्पालेषु ।

अष्टदिग्गज पु० ब० व० अष्टदिक्षुस्था गजाः । “ऐरावतः

पुण्डरीको वामनः कुमुदोऽञ्जनः । युष्पदन्तः सार्व्वभौमः
सुप्रतीकश्च दिग्गजा” इत्युक्तेषु अष्टषु दिक्स्थे ऐरावतादिषु
गजेषु एतत्संख्यामाम्याद्गजशब्दस्याष्टसं ख्यार्थकत्वम् ।

अष्टद्रव्य न० ब० व० कर्मधा० संज्ञात्वान्न द्विगुः । “अश्वत्थो-

डुम्बरप्लक्षन्यग्रोधसमिधस्तिलाः । सिद्धार्थपायसाज्यानि
द्रव्याण्यष्टौ विदुर्बुधा” इत्युक्तेषु होमसाधनेषु अष्टसु द्रव्येषु ।
“त्रिस्वादुयुक्तैर्जुहुयाच्चाष्टद्रव्यैर्दशांशतः” तन्त्रसा० ।

अष्टधा अव्य० अष्टन् + प्रकारे धाच् । अष्टप्रकारे “भिन्न-

प्रकृतिरष्टधा” गीता । “सुरद्विपानामिव सासयोनि
र्भिन्नोऽष्टधा विप्रससार वंशः” रघुः ।

अष्टधातु पु० ब० व० अष्टौ धातवः कर्म्म० संज्ञात्वान्न द्विगुः ।

“स्वर्णं रूप्यञ्च ताम्रञ्च रङ्गं यशदमेव च । शीसं लौहं
रमयेतिधातवोऽष्टौ प्रकीर्त्तिता” इत्युक्तेषु अष्टसु स्वर्ण्णादिषु
सुश्रुते तु रसवर्ज्जिताः सप्तैप धातवोऽभिहिताः किन्तु रस-
निरूपणे “ततो रस इति प्रोक्तः स च धातुरपि स्मृतः”
इत्युक्तेरष्टधातुताऽपि तस्याभियता “अष्टधातुमयप्रतिमा
निर्माणे तु रसं विहाय पित्तलस्य ग्रहणम् “आरकूटं
तथैव चेति” हेमा० भविष्योक्तेरिति भेदः ।

अष्टन् त्रि० ब० व० अश--व्याप्तौ कनिन् तुट् च । (आट) १ “संख्या-

भेदे द्व्येकयोर्द्विवचनैकवचने” पा० निर्द्देशेन संख्यावाचक-
मात्रस्य संख्यापरत्वनिर्ण्णयात् । २ तत्संख्यान्विते च । “अष्टौ
तान्यव्रतघ्नानि आपोमूलं फलं पयः । हविर्ब्राह्मणकाम्या च
गुरोर्वचनमौषधम्” स्कृतिः “निन्द्यास्वष्टासु चान्यासु
स्त्रियोरात्रिषु वर्जयेत्” मनुः “अष्टानां लोकपालानां
वपुर्धारयते नृपः” । “अष्टाविमान् समासेन स्त्रीविवाहान्
निबोधत” इति च मनुः । दशविंशतिशब्दयोः परतः
समासे आदन्तादेश अष्टादशः । अष्टाविंशतिः त्रिंशदादौ
वा अष्टत्रिंशत् अष्टात्रिंशत् अष्ट(ष्टा) चत्वारिंशत् अष्ट(ष्टा)
पञ्चाशत् अष्ट(ष्टा)षष्ठिः अष्ट(ष्टा)सप्ततिः अष्टाशीतिः
अष्ट(ष्टा)नवतिः संख्याव्ययपूर्ब्बकात् ततः बहुव्रीहौ डच् ।
“निरष्टे अश्वशते” शत० ब्रा० सप्ताष्टानि अहानि ।

अष्टपाद्(द) पु० अष्टौ पादा अस्य वा अन्त्यलोपः ।

१ शरभे तच्छब्दे तल्लक्षणम् २ लूतायाञ्च हेम० ।

अष्टपदिका स्त्री अष्टसु दिक्षु पादा अस्याः अन्त्यलोपः ङीपि

पद्भावे संज्ञायां कन् ह्रस्वः । (हापरमालि) लतायाम् ।
कनभावे । अष्टपदीत्यप्यत्र स्त्री ।

अष्टपल न० अष्टौ पलानि परमाणमस्य अण् द्विगोर्लुगनपत्ये”

पा० तस्य लुक् “ऊषणत्रिफलाकल्के वज्रमात्रे गुड़ात्
पले” । सर्पिषोऽष्टपलं पक्त्वा मात्रां मन्दानलः पिबेत्”
चक्रदत्तोक्ते घृतभेदे” ।

अष्टपुष्पी स्त्री अष्टनां पुष्पाणां समाहारः । अनिर्ण्णीत

संज्ञकत्वात् द्विगुः । पुष्पाष्टके । “कदाचिर्दुन्यस्ताष्टपुष्पिकापा-
तोत्पादितक्रोधेन” काद० अज्ञाताऽष्टपुष्पीति कन् । तत्रैव ।

अष्टभुजा स्त्री अष्टौभुजा अस्याः । देवी माहात्म्यस्य तृतीय-

चरितदेवतायां महासरस्वत्यां तन्मूर्त्तेर्ध्यानशब्दे विवृतिः ।

अष्टम त्रि० अष्टानां पूरणः डट् मट्च । येन अष्टसंख्या पूर्य्यते

तस्मिन् । “पैशाचश्नाष्टमोऽधमः” “अष्टमं चायुषः स्थानमष्ट-
मादष्टमं च यत् । तयोरपि व्ययस्थानं मारकस्थानमुच्यते”
ज्योतिः परा० “गर्भाष्टमेऽव्दे कुर्व्वीत ब्राह्मणस्योपनायनम्”
मनुः स्त्रियां ङीप् । “सौविष्टकृत्यष्टमी” आश्व० सिष्टिकृत
संबन्धिनी अष्टमी आहुतिः” कर्क० । सा च चन्द्रस्याष्टम-
कलाक्रियाकूटाधाररूपे तिथिभेदे” । “चतुर्द्दश्यष्टमी चैव
पृष्ठ ०५१९
अमावस्या च पूर्ण्णिमा पर्व्वाण्येतानि राजेन्द्र!
रावसंक्रान्तिरेव च” “अष्टम्यां वलिदानेन पुत्रनाशो भवेद्”
ध्रुवम् पुरा० । “अष्टम्याः शेषदण्डे च नवम्या आद्य एव
च । अत्र या क्रियते पूजा विज्ञेया सा महाफला”
ति० त० पुरा० । “अपरपक्षाणामष्टमीष्वष्टकाः” आश्व० ।

अष्टमकालिक त्रि० अष्टमः कालः भोजनेऽस्त्यस्य ठन् ।

सार्द्धदिनत्रयोपवासानन्तरं चतुर्थदिवसे रात्रौ भोक्तरि-
वानप्रस्थभेदे “नक्तं चान्नं समश्नीयाद्दिवा वाहृत्य शक्तितः ।
चतुर्थकालिको वा स्यात् स्याद्वाप्यष्टमकालिकः” मनुः ।
“मुनिभिर्द्विरशनं प्रोक्तं विप्राणां मर्त्यवासिनां नित्यम्” इत्युक्त्या
दिवसे वारद्वयभोजनस्य विधानात् सार्द्धत्रिदिने सप्ताहार-
मतीत्य चतुर्थदिवसे रात्रौ भोजने हि तथात्वं भवति ।

अष्टमङ्गल न० अष्टगुणितं मङ्गलम् शा० त० । “मृगराजो

वृषो नागः कलशो व्यजनं तथा । वैजयन्ती तथा भेरी दीप
इत्यष्टमङ्गलम्” इत्युक्तेषु “लोकेऽस्मिन्मङ्गलान्यष्टौ ब्राह्मणो
गोर्हुताशनः । हिरण्यं सर्पिरादित्य आपोराजा तथाष्टम”
इत्युक्तेषु च अष्टसु द्रव्येष ब० व० । अत्र कर्म्म० संज्ञा-
त्वान्न द्विगुरिति भेदः ।

अष्टमङ्गलघृत न० अष्टभिर्द्रव्यैर्मङ्गलार्थं घृतम् । चक्रोदत्तोक्ते

घृतभेदे “वचा कुष्ठं तथा ब्रह्मी सिद्धार्थकमथापि च ।
शारिवा सैन्धवञ्चैव पिप्पलीघृतमष्टमम् । मेध्यं घृतमिदं
सिद्धं पातव्यञ्च दिने दिने । दृढ़स्मृतिः क्षिप्रमेधः कुमारी
बुद्धिमान् भवेत् । न पिशाचा न रक्षांसि न भूता न च
मातरः । प्रभवन्ति कुमाराणां पिबतामष्टमङ्गलम्” ।

अष्टमभाव पु० अष्टमोभावः । ज्योतिषोक्ते जन्मलग्नावधिके

१ अष्टमस्थाने तन्वादिद्वादशभावमध्ये २ अष्टमे भावे च भावश्च
इष्टकालेऽंशकलाविकलादिना स्पटीकृतलग्नादिः ।
तदानयनं यथा “पूर्व्वं न तं स्याद्दिनरात्रिखण्डं दिवानिशो-
रिष्टघटीविहीनम् । दिवानिशोरिष्टघटीषु शुद्धं द्युरात्रि
खण्डं त्वपरं नतं स्यात् । तत्काले सायनार्कस्थ भुक्त-
भोग्यांशसंगुणात् । स्वोदयात् स्वाग्निलब्धं यत् भुक्तं भोग्यं
रवेस्त्वजेत् । इष्टनाड़ीपलोयश्च गतगम्यान्निजोदयात् । शेषं
खत्र्याहतं भक्तमशुद्धेन लवादिकम् । अशुद्धशुद्धभे हीनयुक्
तनुर्व्ययनांशकम् । एवं लङ्कोदयैर्भुक्तं भोग्यं शोध्यं
पलीकृतात् । पूर्ब्बपश्चान्नतादन्यत् प्राग्वत्तद्दशमं भवेत् ।
सषड्भे लग्नभे जाया, तुर्य्यो, लग्नोनतुर्य्यतः । षष्ठां-
शयुक् तनोःसन्धिरग्रे षष्ठांशयोजनात् । त्रयः
ससन्धयोभावाः षष्ठांशेनैकयुक् सुखात् । अग्रे त्रयः
षडेवं ते भार्द्ध युक्ताः परेऽपि षट्” । नील० ता० । स्वस्वदेशो-
दयमानं देशान्तरयोगादिना आनेयम् लङ्कोदयमानानि तु
मेषस्य २७८, वृषस्य २९९, मिथुनस्य ३२३, कर्कटस्य ३२३
सिंहस्य २९९, कन्यायाः २७८, तुलायाः २७८, वृश्चि-
कस्य २९९, धनुषः ३२३ मृगस्य ३२३, कुम्भस्य २९९,
मीनस्य २७८, पलानि । एतदनुसारेण दशमराशेः
उदयमानं गृहीत्वा दशमभावानयनम् “खेटे भावसमे पूर्ण्णं
फलं सन्धिसमे तु खम् । हीनेऽधिके द्विसन्धिभ्यां भावे पूर्ब्बा-
परे फलम्” नील० ता० । “भुक्तं भोग्यं स्वेष्टकालान्न श्रुध्येत्
त्रिंशन्निघ्ना स्योदयाप्तं लवाठ्यम् । हीनं युक्तं भास्करे तत्तनुः
स्यात् रात्रौ लग्नं भार्द्धयुक्ताद्रवेस्तु । खेटे सन्धिद्वयान्तःस्थे
फलं तद्भावजं भवेत्” । नील० ता० । “अष्टमस्थाने च
चिन्त्यान्याह दीपिकायाम्” “रन्ध्रायुर्मृतयोऽष्टमे” इति ।
ताजके तु अन्यान्यपि चिन्त्यान्याह । “मृत्यौ चिरन्तमं
द्रव्यं भृतिंर्वित्तं रणे रिपुः । दुर्गस्थानं मृतिर्नाशः
परीवादो मनोव्यथा” एतानि साधारणानि चिन्त्यानि
विशेषतस्तत्र ग्रहयोगाद्रिष्टाद्युक्तं जातके यथा । “आयुः
स्यानाधीश्वरः पापयुक्तः षष्ठान्त्यस्थः स्वल्पमायुस्तनोति ।
लग्नेशाढ्यश्चेदतिस्वल्पमेव दीर्घायुष्यं चाष्टमस्थः करोति ।
निघनतनुखभेगाः केन्द्रकोणत्रिलाभे १, ३, ४, ५, ७, ९,
१०, ११, दघति हि विपुलायुर्भानुजोऽत्र प्रशस्तः ।
पनफरचतुरस्रेमध्यमं त्वायुरेते विदधति खलु नेष्टाः प्रान्त्य-
षष्ठे बलिष्ठाः । कमलकुमुदबन्धू मृत्युरन्ध्रान्तिमाख्ये विपदमथ
धराजो द्विद्विवर्षेऽष्टमस्थः । धनलयमथ यच्छेच्छक्रतुल्येबुधो-
ऽव्दे क्षितिगुणदशसंख्ये रोगभोगापचारौ । अरिष्टोच्छ्वास
निर्याणोच्छ्वासयोरत्र चिन्तनम् । दैवविद्भिः सदा कार्य्यमष्टमे
भावचिन्तने” जातकप० वर्षप्रवेशकाले तु अन्यथा
योगविशेषात् फलमुक्तम् यथा “भौमेऽव्दपे क्रूरहते पत्या धातेऽव-
लोकिते । अग्निभीरग्निभेक्रूरनष्टद्विपदभे मृतिः । विपत्ति-
र्नरपालोत्था रिपुतस्करतोभयम् । तुर्य्ये मातुः पितृव्या
द्वा मातुलार्त्तिस्ततोगुरुः । लग्नेन्थिहापतिसमापतयो
मृतीशाश्चेदित्थशालिन इमे निधनप्रदाः स्युः । चेत्
पाकरिष्टसमये मृतिरेव तत्र सार्के कुजे नृपभयं दिवसेऽव्दशेवे ।
सूर्य्ये मूशरिफे सितेन जनने वर्षेऽधिकारी तथा केन्द्रे राज
गदाद्भयं च रुगसृक्स्थानेऽधिकारीन्दुजे । सौम्ये क्रूरदृशा
कुजस्य रुगसृग्दोषादि नाशस्थिते दग्धेबन्धमृती विदे-
शतैति प्राहुर्बुधे तादृशे । भौमस्थानेऽधिकारीन्दौ गुप्तं
नृपभयं रुजः । मन्देऽधिकारी खे चोपहते पीड़ाकरः
पृष्ठ ०५२०
स्मृतः । भौमस्थानेऽधिकृद्वह्नौ प्रहारो वा नृपाद्भयम् ।
आरे खस्थे चतुष्पाद्भ्यः पातोदुःखरुजोऽसृजः । वित्ताष्ट
गेज्यो धनहा यद्यव्देशः शुभेक्षितः । मन्दे द्यूने दुर्वचनाप-
वादकलिभर्त्सनम् । पतिते ज्ञे क्रूरदृशाऽऽरेत्थशाले मृतिं
वदेत् । कुजहद्दास्थिते नाशः सौम्यदृष्ट्या शुभं वदेत् ।
यत्रर्क्षे जन्मनि कुजः सोऽब्दलग्नपगोयदा । नग्नाधिपोनष्ट-
दग्धोयोषिद्वादाः शुभान्विते । जन्मन्यष्टमगे जीवे साधि-
व्याधिकलिः पृथुः । जयः शुक्रेक्षणादुक्तप्रत्युत्तरवशेन
तु । भौमेऽन्त्यगे धने सूर्य्ये वादक्लेशं विनिर्द्दिशेत् । रिपु-
र्गोत्रकलिर्भीतिः संख्ये कुजहतेऽब्दपे । दग्धोजन्माङ्गपो-
वर्षेऽष्टमोरोगकली दिशेत् । सूत्यव्दयोरघिकृतो
भौमस्थाने गुरुर्हतः । पापैर्वादः स्फुटोऽप्येवं तादृशीन्दौ शनेः
पदे । सूत्यव्दयोरधिकृते चन्द्रे बुधपदे हते । क्रूरैर्विदेश-
गमनं वादः स्याद्विमनस्कता । मेषे सिंहे धनुःस्मारेऽब्दपे-
रन्ध्रे सिते भयम् । मृतौ मृतीशलग्नेशौ मृत्युदौ
पापदृग्युतौ । यत्रर्क्षे जन्मनि कुजः सोऽब्दलग्नपगोयदा ।
वुधोवर्षपतिर्नष्टबलस्तत्र न शोभनम् । सार्के शनौ भौमयुते-
खाष्टस्थे वाहनाद्भयम् । सार्के भौमेऽष्टमस्थे तु पतनं
वाहनाद्वदेत् । सारेऽव्दपे मृगे मृत्युश्चन्द्रेऽन्त्यारिमृतौ मृतिः ।
उदिते मृतिसद्मेशे निर्बले जीविते मृतिः । पुण्यसद्मेश्वरः
पुण्यसहमादष्टमोपगः । मृत्यष्टमेशपुण्येशोमृतिदः
पापदृग्युतः । सूत्यष्टमगतो राशिः पुण्यसद्मनि नाथयुक् । अब्द-
लग्नाष्टमर्क्षं तच्चेदित्थं म्यात्तदा मृतिः । पुण्यभं चाशुभाक्रा-
न्तं मृतीशोऽन्त्यारिरन्ध्रगः । मुथहेशोऽब्दपोवापि मृत्युं तत्र
विनिर्द्दिशेत् । सक्रूरे जन्मपे मृत्यौ मृतिश्चेदिन्धिहार्कि
युक् । भौमक्षुतेक्षणे तत्र मृत्युः स्यादात्मघाततः । मन्दो-
ऽष्टमोमृतीशेत्थशालान्मृत्युकरः स्मृतः । शुभेत्थशालात्
सर्वेऽपि योगाः स्युः शुभदायकाः । सूतिरन्ध्रपतिर्मन्दोऽष्टमो-
ऽव्दलग्नपेन चेत् । इत्थ शाली क्रूरदृशा तत्कालं मृत्युदा-
यकः, नील० ता० ।

अष्टमान न० अष्टौ मुष्टयः परिमाणमस्य । कुड़वरूपे अष्टमुष्टिमिते परिमाणभेदे ।

अष्टमिका स्त्री वैद्यकोक्ते चतुस्तोलकपरिमाणे ।

अष्टमी स्त्री अष्टानां पूरणी । षोड़शकलात्मकचन्द्रस्य अष्टम-

कलाक्रियारूपायां स्वनामख्यातायां तिथौ २ अष्टसंख्या-
पूरण्याञ्च अष्टमशब्दे उदा० । अशू + क्त अष्टं संघातं
व्याप्तिं वा भाति मा--क गौरा० ङीष् । कोटालतायाम् ।

अष्टमुष्टि पु० अष्टौमुष्टयः परिमाणमस्य अण् “द्विगोर्लुगिति”

लुक् । कुञ्चिपरिमाणे “अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयोऽष्टौ
च पुष्कल” इति हेमाद्रिदानखण्डे परिभाषायां पुरा० ।

अष्टमूर्त्ति पु० अष्टौ भूम्यादयो मूर्त्तयोऽस्य । “क्षितिर्जलं

तथा तेजो वायुराकाशमेव च । यष्टार्कश्च तथा चन्द्रः
मूर्त्तयोऽष्टौ पिनाकिनः” इत्युक्ताष्टमुर्त्तिधारिणि १ शिवे ।
“महेश्वरेण यो राजन्नजीर्ण्णो ह्यष्टमूर्त्तिना । कस्तमुत्सहते
वीरोयुद्धे जरयितुं पुमान् । भा० व० अ० ४९ “अवेहि मां
किङ्करमष्टमूर्त्तेः” रघुः । “स्वमेव मूर्त्त्यन्तरमष्टमूर्त्तिः”
“जग्राह ताम्राङ्गुलिमष्टमूर्त्तिः” इति च कुमा० ।
क्षित्यादिमूर्त्तिभेदेन तस्य नामभेदः यथा सर्व्वः क्षिति-
मूर्त्तिः एवं भवोजलमूर्त्तिः रुद्रोऽग्निमूर्त्तिः । उग्रोवायु-
मूर्त्तिः भीम आकाशमूर्त्तिः पशुपतिर्यजमानमूर्त्तिः ।
महादेवः” सोममुर्त्तिः ईशान सूर्य्यमूर्त्तिः । एताएव
तस्याष्टौ मूर्त्तयः शाकुन्तले वर्ण्णिताः “या स्रष्टुः सृष्टि
राद्या वहति विधिहुतं या हविर्या च होत्री ये द्वेकालं
विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्यविश्वम् । यामाहुः
सर्व्ववीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः प्रत्यक्षाभिः
प्रसन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः” । अष्टतन्वादयोऽ-
ष्यत्र । कर्म्म० संज्ञात्वान्न द्विगुः । शिवस्य क्षित्यादिषु
अष्टसु २ मूर्त्तिषु स्त्री ब० व० ।

अष्टमूर्त्तिधर पु० धृ--अच् धरः अष्टानां मूर्त्तीनां धरः ।

शिवे “अष्टमूर्त्तिधरमूर्त्तिरष्टमी” माघः “तद्व्याख्याने
अष्टानां मूर्त्तीनां समाहारः इति वदन् मल्लिनाथः
“दिक्संख्ये संज्ञायामिति” सूत्रास्मरणेन भ्रान्तएव
मूर्त्तीनां प्रकृते क्षित्यादिविशेष संज्ञावाचित्वात्
कम्मधारयस्यैव तत्र प्रसक्तेः त्रिलोकनाथैत्यादिवत्
उत्तरदद्विगुनैवोपपत्तौ तत्सूत्रसङ्कोचानुपपत्तेः इत्यलम्

अष्टरत्नि त्रि० अष्टौ रत्नयः ऊर्द्ध्वमानमस्य । बद्धमुष्ट्यष्टहस्तो-

न्माने “अष्टरत्निर्महाबाहुर्व्यूढ़ोरस्कः सुदुर्जयः” भा०
क० प० ७२ अध्या० ।

अष्टलोहक न० ब० व० कर्म्म० संज्ञात्वान्न द्विगुः । “सुवर्णं रजतं

ताम्रं सीसकं कान्तिकं तथा । वङ्गं लौहं तीक्ष्णलौहं
लौहान्यष्टौ इमानि तु” इत्युक्तेषु अष्टसु धातुषु ।

अष्टवर्ग पु० अष्टानामराहुरव्यादीना वर्गो यत्र । ज्योतिषोक्ते

रेखाविशेषेण शुभाशुभसूचके चक्रभेदे यथा । “जन्मकाल-
गृहस्थित्या फलं वक्ष्ये शुभाशुभम् । “स्वाद्दिनकृत् शुभदः
क्षितिपक्षससुद्रनगादिकपञ्चगतो १, २, ४, ७, ८, ९, १०, ११,
ऽथ विभावरिभर्त्तुस्त्र्यङ्गदशेशगतो ३, ६, १०, ११, ऽथ
कुजाद्रविवत्, १, २, ४, ७, ८, ९, १०, ११, अथ सोमसुतात्त्रिश-
पृष्ठ ०५२१
रर्त्तुनवादिषु यातः, ३, ५, ६, ९, १०, ११, १२, देवगुरोर्विष-
यर्त्तुनवेशगतो, ५, ६, ९, ११, ऽथ सुरारिगुरोः समयाचल-
भास्करयातः, ६, ७, १२, तीक्ष्णमरीचिसुतादपि भास्करवत्,
१, २, ४, ७, ८, ९, १०, ११, अथ लग्नगृहात्त्रिकृताङ्गदशा-
दिषु यातः, ३, ४, ६, १०, ११, १२ । रविरेखाः । ४८ । “चन्द्रः
शुभोऽर्कात्त्रिकालाद्रिदन्तावलाशाशिवस्थः, ३, ६, ७, ८, १०,
११, ततः स्वात्कुरामर्तुगवाशाशिवस्थः, १, ३, ६, ७, १०, ११,
क्षमाजादक्षिवह्नीषुषड़्गीदिगीशेष्व, २, ३, ५, ६, ९, १०, ११,
थ ज्ञात् कुरामाब्धिवाणागदन्तावलाशाशिवस्थः, १, ३, ४, ५,
७, ८, १०, ११, जीवात् कुदृग्वे दशैलेभकाष्ठाशिवस्थो, १, २, ४,
७, ८, १०, ११, ऽथ शुक्रात्त्रिवेदेषुशैलग्रहाशाशिवस्थः,
३, ४, ५, ७, ९, १०, ११, तीक्ष्णांशुदेहोद्भवाद्रामवाणर्त्तुशम्भु-
स्थित, ३, ५, ६, ११, उदयाद्धव्यवाहर्त्तुकाष्ठाशिवस्थः”, ३, ६,
१०, ११, चन्द्ररेखाः । ४९ । “कूजोऽर्काच्छुभो वह्निवा-
णर्त्तुदिक्शम्भुगो, ३, ५, ६, १०, ११, ऽथेन्दुतोरामकालेशग,
३, ६, ११, स्ततः स्वात् कुदृग्वेदमुन्यष्टदिक्शम्मुगः, १, २, ४,
७, ८, १०, ११, स्यान्निशानाथपुत्राद्गुणेष्वङ्गरुद्रोपयातः ।
३, ५, ६, ११, ततोजीवतः कालकाष्ठाशिवार्कोपयातो, ६,
१०, ११, १२, ऽथ देवारिपूज्यादनेहोगजेशार्कसंस्थः, ६, ८,
११, १२, ततः सूर्य्यपुत्रात् कुवेदागनागग्रहाशाशिवस्थो,
१, ४, ७, ८, ९, १०, ११, ऽथ लग्नात् कुरामाङ्गदिक् शम्भु-
यातः । १, ३, ६, १०, ११, कुजरेखाः ३९ । बुधोःऽर्कतः
शरर्त्तुगोशिवार्कगो, ५, ६, ९, ११, १२, ऽथ चन्द्रतोद्विवे-
दकालमागदिङ्महेश्वरोपगः । २, ४, ६, ८, १०, ११, भूमि-
जात्कुदृक्कृतागनागगोदशेशग, १, २, ४, ७, ८, ९, १०, ११,
स्ततः स्वतः कुवह्निपञ्चषड्नवादिकेषुगः, १, ३, ५, ६, ९, १०,
११, १२, वाक्पतेरसाष्ठशम्भुसूर्य्यगो, ६, ८, ११, १२, ऽथ
शुक्रतः कुवाहुवह्निवेदपञ्चनागगोशिवेषुगः १, २, ३, ४, ५, ८, ९,
११, पङ्गुतःकुदृक्कृतागनागादिपञ्चकस्थितोऽथ, १, २, ४, ७,
८, ९, १०, ११, १२, लग्नतः क्षितिद्विवेदकालनागदिक्शिवे-
षुगः” । १, २, ४, ६, ८, १०, ११, बुधरेखाः । ५५ । “सुरराजगुरुः
शुभदोरवितः कुयमानलवेदनगादिकपञ्चगतो १, २, ३, ४, ७,
८, ९, १०, ११, ऽथ विधोर्द्विशराचलगोशिवगो, २, ५, ७, ९,
११, वसुधातनयात् कुयमाब्धिनगाष्टदशेशगतो, १, २, ४,
७, ८, १०, ११, ऽथ बुधात् क्षितियुग्मकृतेषुरसग्रहदिग्गि-
रिशोपग । १, २, ४, ५, ६, ८, १०, ११, स्तदनु स्वएकयमानल-
वारिधिपर्व्वतनागदशेशगतो, १, २, ३, ४, ७, ८, १०,
११, ऽथ सिताद्यमपञ्चरसग्रहदिक्शिवगो २, ५, ६, ९,
१० ११, रविनन्दनतोदहनेषुरसार्कगत, ३, ५, ६, १२,
स्त्वथ लग्नगृहात् कुयमाव्धिशरर्त्तुनगग्रहदिग्गिरिशोप-
गतः” । १, २, ४, ५, ६, ७९, १०, ११, गुरुरेखाः,
५६, “भृगुः शुभोरवेर्गजेशसूर्य्यगो ८, ११, १२, ऽथ चन्द्र-
तः, क्ष्मादिपञ्चकाष्टगोशिवार्कगः, १, २, ३, ४, ५, ८,
९’ ११, १२, कुजात्त्रिवेदकालगोशिवार्कगो, ३, ४, ६,
९, ११, १२, ऽथ बुधात्त्रिकालरन्ध्ररुद्रसंस्थितः, ३,
६, ९, ११, गुरोः शराष्टरन्ध्रदिङ्महेशग, स्ततः ५,
८९, १०, ११, स्वतः कुपञ्चकाष्टरन्ध्रदिक्शिवोपगः । १,
२, ३, ४, ५८, ९, १०, ११, शनेर्गुणाब्धिपञ्चनाग-
गोदशेशगो, ३, ४, ५, ८९, १०, ११, ऽथ लग्नतः
कुपञ्चकाष्टगोशिवस्थितः शुभः । १, २, ३, ४, ५, ८, ९, ११,
शुक्ररेस्वाः, ५१, “शुभः पङ्गुरर्कात् यमाम्भोधिशैलाष्ट-
दिक्शम्भुग, १, २ ४, ७, ८, १०, ११, इन्दुतोरामका-
लेशगतः, ३, ६, १२, क्ष्मासुताद्वह्निवाणर्त्तुकाष्ठाशिवार्को-
पगो, ३, ५, ६, १०, ११, १२, ऽथ ज्ञतः कालदन्ताव-
लादिस्थितः ६, ८, ९, १०, ११, १२, जीवतोवाणकाले-
शमार्त्तण्डयात, ५, ६, ११, २२, स्ततोदैत्यपूज्यादनेहः-
शिवार्कोपयातः । ६, ११, १२, स्ततोवीतिहोत्रेषुकालेशया-
त, ३, ५, ६, ११, स्ततोलग्नतः क्ष्मागुणाम्भोधिषड़्दि-
ङ्महेशस्थितः । १, ३, ४, ६ १०, ११, शनिरेखाः,
३९, । “राहुःशुभोऽर्काद्भुजवह्निवेदर्त्तुरन्ध्रगो, २, ३, ४,
६, ९, ऽथ चन्द्रात् कुरामवेदाङ्गग १, ३, ४, ६, स्ततः
कुजाद्वह्निवाणाङ्गरन्ध्रगतो, ३, ५, ६, ९, ऽथ बुधाच्छ-
शिपक्षवह्निवाणरन्ध्रग, १, २, ३, ५, ९, स्ततोजीवाद्धव्य-
वाहवेदाङ्गरन्ध्रग, ३, ४, ६, ९, स्ततः शुक्रात् पक्षवह्नि-
वाणरन्ध्रगत, २, ३, ५, ९, स्ततः सौरात् पक्षवाणर्त्तुग,
२, ५, ६, स्ततः स्वतः शशिवेदवाणरिपुरन्ध्रगो, १, ४, ५, ६, ९,
ऽथ लग्नाद्वेदरन्ध्रदिग्रुद्रसूर्य्यगतः, ४, ९, १०, ११, १२ ।
राहुरेखाः, ३९ । सूर्य्यादेकद्विचतुःसप्ताष्टदशैकादशेषु, १,
२, ४, ७, ८, १० ११, सोमात्त्रिषड्दशैक्वादशेषु, ३,
६, १०, ११, भौमात्त्रिपञ्चषड़ेकादशेषु, ३, ५, ६,
११, बुधात् षड़ष्टनवदशैकादशेषु, ६, ८, ९, १०, ११, गुरोः
पञ्चषड़ेकादशद्वादशेषु, ५, ६, ११, १२, शुक्रात्षड़ेकादश-
द्वादशेषु, ६, ११, १२, शनेस्त्रिपञ्चाष्टदशैकादशेषु ३, ५, ८, १०,
११, लग्नादेकत्रिचतुःषड़दशैकादशेषु, १, ३, ४, ६, १०,
११, लग्नरेखाः ३८ । इति निगदितमिष्टं नेष्टमन्यद्विशे-
षादधिकफलविपाकं जन्मना तत्र दद्युः । उपचयगृह-
पृष्ठ ०५२२
मित्रस्वोच्चगाः पुष्टमिष्टं त्वपचयगृहनीचारातिभे नेष्टसम्पत् ।
यावती यावती रेखा ग्रहाणामष्टवर्गके । तावतीं द्विगुणी-
कृत्य अष्टाभिः परिशोधयेत् । अष्टोपरि भवेद्रेखा अष्टा-
भ्यन्तरविन्द्रवः । अष्टाभिस्तु समं यत्र तत्समं परिकीर्त्ति-
तम् । रेखा ग्रहाच्छुभे देया विन्दवस्त्वितरत्रतु । रेखाविन्दु
समानौ चेत् समस्तत्र निगद्यते । रेखाधिक्ये शुभं ज्ञेयं
तद्वद्विन्दोरथाशुभम् । श्रीरानन्दस्तथा श्रेयोभोगो राज्यं
भवेत्तथा । मलिनोऽथ विपच्चैव हानिर्मृत्युर्भवेत्तथा ।
द्व्यादिरेखा द्व्यादिविद्वोः फलान्येतान्यनुक्रमात् । रेखायां
वत्सरोज्ञेयः सार्द्धसप्तदिनं समे । अष्टवर्गदशायुः स्यात्
दिनं चतुर्षु विन्दुषु” । इत्यष्टवर्गः । “अष्टवर्ग-
शुभैः श्रीमान् कर्म्म कुर्य्यान्नभश्चरैः । गोचरस्थैस्तद-
प्राप्तौ तदप्राप्तौ च वेधगैः । व्रतारम्भे विवाहे च यात्रायां
क्षुरकर्म्मणि । अविशुद्ध्याष्टबर्गस्य समस्ता निष्फलाः क्रियाः ।
सततं दिशति नराणां राशौ मध्येऽष्टवर्गफलं निखिलम् ।
भावफलं प्रथमार्द्धे दृष्टिफलान्यर्द्धभुक्तेषु” ज्यो० त० ।
अष्टानामकचटतपयशानां वर्गः । ज्योतिषादौ शुभाशुभ-
ज्ञापनाय विशेषरूपेण अष्टधा विभक्तेषु २ वर्ण्णसमूहभेदेषु
यथा स्वरवर्ण्णाः १६ । अवर्गः, कादयोमावसानाः पञ्चपञ्चा-
त्मकाः कवर्गादयः ५ । यरलवाः ४ यवर्गः । शषसहा ४ शवर्गः
इत्येवमष्टौ कल्पिताः । तेषां विभागक्रमेण संख्याभेदः ।
“वर्गवर्णप्रमाणञ्च सस्वरैस्ताड़ितं मिथः । पिण्डसंख्या
भवेत्तस्य गथा भागैस्तु कल्पना” केरलम् । “स्वं वर्गं द्विगुणं विधाय
परवर्गेणान्वितं सप्ततट्” इति ज्योति० । तन्त्रोक्ते
मन्त्रस्य शुभाशुभज्ञानार्थं अवर्गाद्यनुसारेण ३ पक्षिमार्ज्जा-
राद्यष्टवर्गे च । यथा आगमकल्पद्रुमे “इदानीं वर्ग-
चक्रस्य विधानममिधीयते । मन्त्रग्रामविशोधार्थं नामा-
द्यक्षरपूर्ब्बकम् । अष्टौ कोष्ठान् समालिख्य वर्गानष्टौ
लिखेत्ततः । पक्षिमार्ज्जारपञ्चास्यश्वानः सर्पाखुदन्तिनः ।
मेषः क्रमादकारादि वसुवर्गाश्रिता इमे । साध्यसाधकयोः
प्रीतिर्ज्ञातव्या जातितः सदा” । वृहच्छ्रीक्रमे “वर्णशुद्धिं
समासाद्य मन्त्रं दद्याद्गुरूत्तमः । अवर्गः पक्षिणोज्ञोयो
मार्ज्जारश्च कवर्गकः । चवर्गश्च तथा सिंहष्टवर्गश्चैव कुक्कुरः ।
तवर्गो नाग इत्युक्तो मूषिकश्च पवर्गकः । यवर्गश्च गजोज्ञेयः
शवर्गश्चैव मेषकः । पक्षिभुजगयोर्व्वैरं तथा च
गजसिंहयोः । मार्ज्जारमूषिकयोश्चैव तथा कक्कुरमेषयोः ।
भुजङ्गसिंहयो र्मैत्री मेषमूषिकयोस्तथा । लोकादन्यच्च विज्ञेयं
त्यवहारप्रयोगतः” इति तन्त्रसा० । “जीवकर्षभकौ मेदे
काकल्यावृद्धिवृद्धिके । अष्टवर्गोऽष्टभिर्द्रव्यैरिति” वैद्यकोक्ते
४ जीविका द्यष्टद्रव्ये । “राज्ञामप्यष्टर्गस्तु यतोऽयमतिदुर्ल्लभः ।
तस्मादस्य प्रतिनिधिं गृहणीयान्तद्गुणं भिषक् । मेदाजीव-
ककाकोलीवृद्धिद्वन्द्वेऽपि चासति । वरीविदार्य्यश्वगन्धा
वारणीश्च क्रमात् क्षिपेत्” वैद्य० । नीतिवेदिनां वर्द्धनीये
५ वर्गभेदे च । “कृषिर्बणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनम् ।
खन्याकरवलादानं सैन्यानाञ्च निवेशनम् । अष्टवर्गमिमं
साधु ऋद्धये परिवर्द्धयेत्” नीतिः ।

अष्टविध न० अष्ट विधाः प्रकारा अस्य । राज्याङ्गाष्टप्रकारे

कर्मणि तच्च अष्टकर्मशब्दे दर्शितम् । “कृत्स्नं चाष्टविधं
कर्म्म पञ्चवर्गञ्च तत्त्वतः” मनुः ।
सुश्रुतोक्ते विषयविशेषविषये छेद्यादौ अष्टप्रकारे शल्यकर्म्मणि
तानि च यथा “छेद्यभेद्यलेख्यवेध्यैष्याहार्य्यस्राव्यसीव्य-
रूपाणि । तेषां विषयविशेषा अपि तत्रैव दर्शिता यथा ।
“च्छेद्या भगन्दरग्रन्थिः श्लैष्मिकस्तिलकालकः । ब्रणवर्त्मार्वुदा-
न्यर्शश्चर्म्मकीलोऽस्थि मांसगम् ॥ शल्यं जतुमणिर्म्मांससंघातो
गलशुण्डिका । स्नायुमांससिराकोथो वल्मीकं शतपोनकः ॥
अध्रुषश्चोपदंशाश्च मांसकन्द्यधिमांसकः । भेद्या विद्रधयोऽ-
न्यत्र सर्वजादग्रन्थयस्त्रयः ॥ आदितो ये विसर्पाश्च वृद्धयः
सविदारिकाः । प्रमेहपिड़काशोफस्तनरोगावमन्थकाः ।
कुम्भीकानुशयीनाड्यो वृन्दौ पुष्करिकालजी । प्रायशः
क्षुद्ररोगाश्च पुप्पुटौ तालुदन्तजौ ॥ तुण्डिकेरी गिलायुश्च
पूर्व्वं ये च प्रपाकिणः । वस्तिस्तथाश्मरोहेतोर्म्मेदोका ये
च केचन ॥ लेख्याश्चतस्रो रोहिण्यः किलासमुपजिह्वि-
का । मेदोजो दन्तवैदर्भो ग्रन्थिवर्त्माधिजिह्निका
॥ अर्शांसि मण्डलं मांसकन्दी मांसोन्नतिस्तथा । वेध्याः सिरा
बहुविधा मूत्रवृद्धिर्द्दकोदरम् ॥ एष्या नाड्यः सशल्याश्च
ब्रणा उन्मार्गिणश्च ये । आहार्य्याः शर्करास्तिस्त्रो० दन्तक-
र्णमलाश्मरी ॥ शल्यानि मूढगर्भाश्च वर्चश्च निचितं गुदे ।
स्राव्या विद्रधयः पञ्च भवेयुः पर्वजादृते ॥ कुष्ठार्व
वायुं सरुजः शोफो यश्चैकदेशजः । पाल्यामयाः श्ली-
पदानि विषजुष्टञ्च शोणितम् ॥ अर्व्वुदानि विसर्पाश्च
ग्रन्थयश्चादितस्तु ये । त्रयस्त्रयश्चोपदंशाः स्तनरोगा
विदारिका ॥ शौषिरो गलशालूकम् कण्ठकाः कृमिदन्तकः ।
दन्तवेष्टः सोपकुशः शीतादोदन्तपुप्पुटः ॥ पित्तासृक्कफ-
जाश्चौष्ठ्याः क्षुद्ररोगाश्च भूरिशः । सीव्या मेदःसमुत्थाश्च
मिन्नाः सुलिखिता गदाः ॥ सद्योव्रणाश्च ये चैव
चलसन्धिव्यपाश्रयाः । न क्षाराग्निविषैर्जुष्टा न वा मारुतवा-
पृष्ठ ०५२३
हिनः ॥ नान्तर्लोहितशल्याश्च तेषु सम्यग्विशोधनम् ॥
पांशुरोमनखादीनि चलमस्थि भवेच्च यत् । अहृतानि
यतोऽमूनि पाचयेयुर्भृशं व्रणम् । रुजश्च विविधाः कुर्य्यु-
स्तस्मादेतान्विशोधयेत् । ततोव्रणं समुन्नम्य स्थापयित्वा
यथास्यितम् ॥ सीव्येत् सूक्ष्मेण सूत्रेण वल्केनाश्मन्तकस्य
वा । शणजक्षौमसूत्राभ्यां स्नाय्वा बालेन वा पुनः ।
मूर्व्वागुडूचीतानैर्व्वा सीव्येद्वेल्लितकं शनैः ॥ सीव्येद्गोफणिकां
वापि सीव्येद्वा तुन्नसेवनीम् । ऋजुग्रन्थिमथो वापि यथायो
गमथापि वा ॥ देशेऽल्पमांसे सन्धौ च सूची वृत्ताङ्गुलद्वयम् ।
आयता त्र्यङ्गुला त्र्यस्रा मांसले वापि पूजिता ॥
धनुर्वक्रा हिता मर्मफलकोशोदरोपरि । इत्येतास्त्रिविधाः
सूचोस्तोक्ष्णाग्राः सुसमाहिताः । कारयेन्मालतीपुष्प-
वृन्ताग्रपरिमण्डलाः । नातिदूरे निकृष्टे वा सूचीं
कर्म्मणि पातयेत् । दूराद्रुजो व्रणौष्ठस्य सन्निकृष्टेऽव-
लुञ्चनम् । अथ क्षौमपिचुच्छन्नं सुस्यूतं प्रतिसारयेत् ।
प्रियङ्ग्वञ्जनयष्ट्याह्वलोध्रचूर्णैः समन्ततः । शल्वकीफल
चूर्ण्णैर्व्वा क्षौमध्यामेन वा पुनः । ततो व्रणं यथायोगं
बद्धाचारिकमादिशेत् । एतदष्टविधं कर्म समासेन
प्रकीर्त्तितम्” ।

अष्टश्रवण पु० अष्टौ श्रवणान्यस्य । चतुर्मुखे ब्रह्मणि

चतुर्मुखस्य प्रतिमुखं द्विकर्णत्वाच्च तथात्वम् अष्टश्रवआ-
दयोऽप्यत्र ।

अष्टाकपाल त्रि० अष्टासु कपालेषु संस्कृतः अण् तस्य लुक् ।

“अष्टनः कपाले हविषि” वार्त्ति० आत् । अष्टसु कपालेषु
संस्कृते पुराडाशादौ “आग्नेयोऽष्टाकपालः पुराडाशो
भवति” । “अष्टाकपालाः मध्ये पुरोडाशा भवन्ति”
इति च शत० ब्रा० ।

अष्टाक्षर त्रि० अष्टावक्षराणि यत्र पादे । १ अष्टाक्षरयुक्तपादके

अनुष्टुब्जातिके वर्णवृत्तभेदे । “अष्टाक्षरा वै गायत्री” श्रुतिः
गायत्र्याःषडक्षरचतुष्पादत्वेऽपि अष्टाक्षरत्रिपादरूपत्वं
सर्वत्र प्रसिद्धम् । २ वक्त्रनामके मात्रावृत्तविशेषे विषम-
वृत्ते । “पञ्चम लघु सर्व्वत्र सप्तमं द्विचतुर्थयोः ।
गुरु षष्ठञ्च पादानां शेषेष्वनियमोमतः । प्रयोगे प्रायिकं
प्राहुः केऽप्येतद्वक्त्रलक्षणम् । लोकेऽनुष्टुबिति ख्यातम्
तस्याष्टाक्षरता कृता” छन्दोम० ।

अष्टाङ्ग पु० अष्टावङ्गानि यस्य । यमनियमासनप्राणायामप्र-

त्याहारधारणाध्यानसमाधिरूपे योगशास्त्रोक्ते १ योग
विशेषे “यमनियमासनप्राणायासप्रत्याहारधारणाध्यान-
समाधयोऽष्टावङ्गानीति पात० सू०” । यमोनियम-
श्चासनञ्च प्रजाणायामस्ततःपरम् । प्रत्याहारोधारणा
च ध्यानं सार्द्धं समाधिना । अष्टाङ्गन्याहुरेतानि
योगिनां योगसिद्धये इति” पुरा० । एतेषां लक्ष्म
अष्टाङ्गयोगशब्दे वक्ष्यते । “जानुभ्याञ्च तथा पद्भ्यां
पाणिभ्यामुरसा धिया । शिरसा वचसा दृष्ट्या प्रणामो-
ऽष्टाङ्गईरित” इत्युक्तलक्षणे २ प्रणामे “आपः क्षोरं
कुशाग्रं च दधि सर्पिः सतण्डुलम् । यवः सिद्धा-
र्थकश्चैव अष्टाङ्गोऽर्घः प्रकीर्त्तितः” इत्यष्टद्रव्यघटिते ३ पूजोप-
करणेऽर्घे, “आपः क्षीरं कुशाग्राणि घृतं मधु तथा दधि ।
रक्तानि करवीराणि तथा वै रक्तचन्दनम् अष्टाङ्ग
एष वा अर्घो भानवे परिकोर्त्तितः” काशीख० उक्ते ४ अष्ट-
द्रव्यात्मके सूर्य्यार्घे ५ शारीफलके च तस्य प्रत्येकपङ्क्तौ
अष्टपदरूपाङ्गकत्वात्तथात्त्वम् । “६ शल्याद्यष्टाङ्गके
आयुर्वेदे यथा “तद्यथा शल्यं शालाक्यं कायचिकित्सा
भूतविद्या कौमारभृत्यमगदतन्त्रं रसायनतन्त्रं वाजीकरण-
तन्त्रमिति । अथास्य प्रत्यङ्गलक्षणसमासः । तत्र १ शल्यं
नाम विविधतृणकाष्ठपाषाणपांशुलोहलोष्टास्थिबालनख-
पूयास्रावान्तर्गर्भशल्यीद्धरणार्थं यन्त्रशस्त्रक्षाराग्निप्रणिधान
ब्रणविनिश्चयार्थञ्च ॥ २ शालाक्यंनाम ऊर्द्ध्वजत्रुगतानां
रोगाणां श्रवणनयनवदनघ्राणादिसंश्रितानां व्याधीनामुप-
शमनार्थम् ॥ ३ कायचिकित्सा नाम सर्व्वाङ्गसंसृतानां
व्याधीनां ज्वरातीसाररक्तपित्तशोथोन्मादापस्मारकुष्ठमेहा-
दीनामुपशमनार्थम् ॥ ४ भूतविद्या नाम देवासुरगन्धर्व्वय-
क्षरक्षःपितृपिशाचनागग्रहाद्युपसृष्टचेतसां शान्तिकर्म्मब-
लिहरणादिग्रहोपशमनार्थम् ॥ ५ कौमारभृत्यं नाम
कुमारभरणधात्रीक्षीरदोषसंशोधनार्थं दुष्टस्तन्यग्रहसमुत्था-
नाञ्च व्याधीनामुपशमनार्थम् ॥ ६ अगदतन्त्रं नाम
सर्पकीटलूतावृश्चिकमूषिकादिदष्टविषव्यञ्जनार्थ विविधविष
संयोगविषोपहतोपशमनार्थभ् ॥ ७ रसायनतन्त्रं नाम
वयःस्थापनमायुर्मेधाबलकरं रोगप्रहरणसमर्थञ्च ॥ ८
वाजीकरणतन्त्रं नाम अल्पदुष्टविशुष्कक्षीणरेतसामाप्यायनं
प्रसादोपचयजनननिमित्तं प्रहर्षजननार्थञ्च ॥ एवमसावायु-
र्वेदोऽष्टाङ्ग उपदिश्यते” सुश्रुतः ॥ कर्म० संज्ञात्वान्न
द्विगुः । अष्टसु तत्तदङ्गेषु न० ब० व० ।

अष्टाङ्गधूप पु० कर्म्म० “पलङ्कषा निम्बपत्रं वचा कुष्ठं

हरीतकी । सर्षपाः सयवाः सर्पिर्धूपनं ज्वरनाशनम्” इति
चक्रदत्तोक्ते ज्वरनाशने धूपभेदे ।
पृष्ठ ०५२४

अष्टाङ्गमैथुन न० कर्म्म० । “स्मरणं कीर्त्तनं कैलिः प्रेक्षणम्

गुह्यभाषणम् । संकल्पोऽध्यवसायश्च क्रियानिष्पत्तिरेव
व । एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः” दक्षोक्ते
स्त्रीणां स्मरणादिषु अष्टसु । यदभावो ब्रह्मचर्य्यम् ।

अष्टाङ्गयोग पु० अष्टावङ्गान्यस्य कर्म० । यमनियमाद्य-

ष्टाङ्गे योगे स च अङ्गसहितोदर्शितः तन्त्रसारे ।
“ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः । तव स्नेहात्
समाख्याता योगविघ्नकरास्तु ये । कामक्रोघलोभमोह-
मदमात्सर्य्यसंज्ञकाः । योगाङ्गैरेतान्निर्ज्जित्य योगिनो-
योगमाप्नुयुः । यमनियमावासनं प्राणायामस्ततःपरम् ।
प्रत्याहारो धारणाख्यं ध्यानं सार्द्धं समाधिना । योगा-
ङ्गान्याहुरेतानि योगिनो योगसाधने । यमादयस्तु
“अहिंसा सत्यमस्तेयं ब्रह्मचर्य्यं दयार्ज्जवम् । क्षमा धृति-
र्मिताहारः शौचञ्चेति यमा दश । तपःसन्तोष आस्तिक्यं
दानं देवस्य पूजनम् । सिद्धान्तश्रवणज्ञ्चैव ह्रीर्मतिश्च
जपोहुतम् । दशैते नियमाः प्रोक्तायोगशास्त्रविशारदैः ।
आसनानि आसनशब्दे वक्ष्यन्ते । “इड़याकर्षयेद्वायुं बाह्यं
षोड़शमात्रया । धारयेत् पूरितं योगी चतु षष्ठ्या तु
मात्रया । सुषुम्णा मध्यगं, सत्यग्द्वात्रिंशन्मात्रया शनैः ।
नाड्या पिङ्गलया चैव रेचयेद्योगवित्तमः । प्राणायाममिमं
प्राहुर्योगशास्त्रविशारदाः । भूयोभूयः क्रमात्तस्य व्यत्यासेन
समाचरेत् । मात्रावृत्तिक्रमेणैव सम्यग्द्वादश षोड़श ।
जपध्यानादिभिर्युक्तं सगर्भं तं विदुर्बुधाः । तदपेतं
निगर्भञ्च प्राणायामं परं विदुः । क्रमादभ्यस्यतः पुंसोदेह
स्वेदोद्गमोऽधमः । मध्यमः कम्यसंयुक्तो भूमित्यागः
परोमतः । उत्तमस्य गुणावाप्तिर्य्यावच्छीलनमिष्यते” इन्द्रि-
याणां विचरतां विवयेषु निरर्गलम् । बलादाहरणं
तेभ्यः प्रत्याहारोऽभिधीयते । अङ्गुष्ठगुल्फजानूरुसीमनी
लिङ्गनाभिषु । हृद्ग्रीवाकण्ठदेशे तु लम्बिकायां तथा
नसि । भ्रुमध्ये मस्तके मुर्द्ध्नि द्वादशान्ते यथाविधि । धारणं
प्राणमरुतोधारणेति निगद्यते । समाहितेन मनसा
चैतन्यान्तरवर्त्तिना । आत्मन्यभीष्टदेवानां ध्यानं ध्यान-
मिहोच्यते । समत्वभावनां नित्यं जीवात्षपरमात्मनोः ।
समाधिमाहुर्मुनयः प्रोक्तमष्टाङ्गलक्षणम् । इत्यादि कथितं
देवि कामादिरिपुनाशनम्” । पात० सू० तु अत्यथोक्तम् ।

अष्टाङ्गावलेहिका स्त्री कर्म्म० “कट्कलं पौष्करं शृङ्गी व्यीसं

मासश्च कारवी । श्लक्ष्णचूर्ण्णकृतञ्चैतन्मधुना सह लेहयेत् ।
एषावलेहिका हन्ति सन्निपातं सुदारुणम् । हिक्वाश्वासं
च कासञ्च कण्ठरोगं नियच्छति । ऊर्द्ध्वगश्लेष्महरणे उष्णे
स्वेदादिकर्म्मणि । विरोध्यु ष्णे मधु त्यक्त्वा कार्य्या स्यादार्द्र
जैरसैः” । चक्रदत्तोक्तेऽवलेहभेदे ।

अष्टादश त्रि० अष्टादशानां पूरणः डट् स्त्रियां ङीप् अष्टा-

दशसंख्यापूरणे । अष्टौ च दश च अष्टाधिका दश वा
अष्टादशन् । १ (आटारो) संख्यायाम् २ तत्संख्याते च
त्रि० । “विद्या ह्यष्टादशैव तु” विष्णुपु० “अगाहताष्टा-
दशतां जिगीषया नवद्वयद्वीपपृथग्जयश्रियाम्” नैष०
“अष्टादश पुराणानि कृत्वा सत्यवतीसुतः” भा० आ० प० ।

अष्टादशधान्य न० ब० व० कर्म० संज्ञात्वान्न द्विगुः । अष्टादशविधेषु

धान्येषु । तानि च यथा । “यवगोधूमधान्यानि तिलाः कङ्गु-
कुलोत्थकाः । माषा मुद्गामसूराश्च निष्पावाः श्यामसर्षपाः ।
गवेधुकाश्च नीवारा आढ़क्योऽथ सतीनकाः । चणकाश्चीन-
काश्चैव धान्यान्यष्टादशैव तु हेमा० दा० ख० स्क० पु० ।
धान्यानि, व्रीहयः, गवेधुकाः, कसेरकाः । नीवाराः
आरण्यव्रीहयः सतीनका, बर्त्तुलकलायाः । चीनकाः
षष्टिकविशेषाः । निष्पावाः शिम्बीभेदाः । हेमा० ।

अष्टादशपरिशिष्टा स्त्री ब० व० कर्म० संज्ञात्वान्न द्विगुः ।

यूपादिलक्षणादिषु अष्टादशसु परिशिष्टविद्यासु “परिशिष्टाश्च
संख्याता अष्टादश शृणुष्व ताः । यूपलक्षणं छागलक्षणं
प्रतिष्ठानुवाकसंख्याचरणव्यूहश्राद्धकल्पसूक्तानि परिषद-
मृग्यजुषमिष्टकापूरणं प्रवराध्यायोञ्छशास्त्रं क्रतुसंख्या-
निगमा यज्ञपार्श्व होतृकम् । व्रतञ्च प्रसवोत्थाश्च कूर्म्म-
लक्षणसंयुतम् । कथिताः परिशिष्टास्तु द्व्यूनविंशति
संख्यया” हेमा० दा० ख० देवीपु० ।

अष्टादशपुराण न० ब० व० कर्म्मं० संज्ञात्वात् न द्विगुः । ब्राह्मादिषु

अष्टादशसु पुराणेषु “ब्राह्मं पाद्मं वैष्णवञ्च शैवं भागवतंतथा
तथान्यन्नारदीयञ्च मार्कण्डेयञ्च सप्तमम् । आग्नेयमष्टमं
प्रोक्तं भबिष्पन्नवमन्तथा । दशमं ब्रह्मवैवर्त्तं लिङ्गमेकादशं
तधा । वाराहं द्वादशं प्रोक्तं स्कान्दञ्चात्र त्रयोदशम् ।
चतुर्दशं वामनञ्च कौर्म्मम्पञ्चदशं तथा । मात्स्यञ्च गारु-
ड़ञ्चैव ब्रह्माण्डमष्टादशं तथा” हेमा० दा० ख० वरा० पु० ।

अष्टादशभुजा स्त्री अष्टादश भुजायस्याः । देवीमाहात्म्यस्य द्वि-

तीयचरितदेवतायां महालक्ष्म्यां तन्मूर्त्तिर्ध्यानशब्दे वक्ष्यते

अष्टादशविद्या स्त्री ब० व० कर्म्म० संज्ञात्वान्न द्विगुः । वेदा-

दिषु अष्टादशसु विद्यासु । “अङ्गानि वेदाश्चत्वारो मीमां-
सान्यायविस्तरः । धर्मशास्त्रं पुराणञ्च विद्याह्येताश्चतु-
र्द्दश । आयुर्वेदो धनुर्वेदो गान्धर्व्वश्चेति ते त्रयः ।
पृष्ठ ०५२५
अर्थशास्त्रं चतुर्थं तु विद्याह्यष्टादशैव तु” हेमा० व्र० ख०
विष्णुपुरा० । अङ्गानि अङ्गशब्दे उक्तानि शिक्षादीनिषट्
इति अष्टादशसंख्यापूर्त्तिः ।

अष्टादशविवादपद न० ब० व० कर्म्म० संज्ञात्वान्न द्विगुः ।

ऋणादानादिषु अष्टादशसु विवादस्थानेषु “तानि च मनुनोक्तानि
यथा “तेषामाद्यमृणादनं निःक्षेपोऽस्वामिविक्रयः । सम्भूय
च समुत्थानं दत्तस्यानपकर्म च । वेतनस्यैव चादानं संविदश्च
व्यातक्रमः । क्रयविक्रयानुशयो विवादः स्वामिपालयोः ।
सोमाविवादधर्मश्च पारुष्ये दण्डवाचिके । स्तेयञ्च साहस-
ञ्चैव स्त्रीसंग्रहणमेव च । स्त्रीपुंधर्म्मो विभागश्च द्यूत-
माह्वय एव च । पदान्यष्टादशैतानि व्यवहारस्थिताविह” ।

अष्टादशस्मृतिकारिन् पु० ब० व० कर्म्म० संज्ञात्वान्न द्विगुः । बिष्णु

प्रभृतिषु अष्टादशसु स्मृतिकारकेषु “विष्णुः पराशरो दक्षः
संवर्त्तव्यासहारिताः । शातातपोवशिष्ठश्च यमापस्तम्ब
गौतमाः । देवलः शङ्खलिखितौ भरद्वाजोशनोऽत्रयः ।
शौनको याज्ञवल्क्यश्च दशाष्टौ स्मृतिकारिणः । हेमा०
दा० ख० वृहन्मनुः ।

अष्टादशाङ्ग पुंन० अष्टादश अङ्गानि यत्र । वैद्यक-

प्रसिद्धे पाचनभेदे तच्च वातादिभेदेन भिन्नभिन्नप्रकारं दर्शितं
चक्रदत्तेन । “दशमूली शटी शृङ्गी पौष्करं सदुरा-
लभम् । भार्गी कुटजवीजञ्च पटोलं कटुरोहिणी । अष्टा-
दशाङ्ग इत्येष सन्निपातज्वरापहः । कासहृद्ग्रहपार्श्वा-
र्त्तिश्वासहिक्कावमीहरः १ । भूनिम्बदारुदशमूलमहौषधाट्य-
तिक्तेन्द्रवीजधनिकेभकणाकषायः । तन्द्रीप्रलापकसनारु-
चिदाहमोहश्वासादियुक्तमखिलं ज्व रमाशु हन्ति २ ॥ मुस्त-
पर्प्पटकोशीरदेवदारुमहौषधम् । त्रिफलाधन्वयासश्च
नीलीकम्पिल्लकं त्रिवृत् । किराततिक्तकं पाठाबलाकटुक-
रोहिणी । मधूकं पिप्पलीमूलं मुस्ताद्यो गण उच्यते ।
अष्टादशाङ्गमुदितमेतद्वा सन्निपातनुत् । पित्तोत्तरे सन्नि-
पाते हितञ्चोक्तं मनीषिभिः । मन्यास्तम्भे उरोघाते
उरःपार्श्वशिरोग्रहे” ३ । अत्यविधमप्यन्यत्रोक्तं विस्तरान्न तदुक्तम् ।

अष्टादशोपचार पु० ब० व० कर्म० संज्ञात्वान्न द्विगुः । तन्त्रो-

क्तेषु आसनादिषु आष्टदशसूपचारेषु यथा “आसनं
स्वागतं पाद्यमर्व्यमाचमनीयकम् । स्नानं वस्त्रोपवीतञ्च
भूषणानि च सर्वशः । गन्धपुष्पे तथा धूपदीपावन्नञ्च
तर्पणम् । माल्यानुलेपनञ्चैव नमस्कारविसर्जने । अष्टा-
दशोपचारैस्तु मन्त्री पूजां समाचरेत्” तन्त्रसारः ।

अष्टादशोपपुराण न० ब० व० कर्म्म० संज्ञात्वान्न द्विगुः ।

सनत्कुमारादिषु अष्टादशसु उपपुराणेषु “अन्यान्युप
पुराणानि मुनिभिः कथितानि तु । आद्यं सनत्कुमारोक्तं
नारसिंहमतः परम् । तृतीयं नारदं प्रोक्तं कुमारेण तु
भाषितम् । चतुर्थं शिवधर्म्माख्यं साक्षान्नन्दीशभाषितम् ।
दुर्व्वाससीक्तमाश्चर्य्यं नारदोक्तमतः परम् । कापिलं मानवं
चैव तथैवोशनसेरितम् । ब्रह्माण्डं वारुणं चाथ कालि-
काह्वयमेव च । माहेश्वरं तथा शाम्बं सौरं सर्व्वार्थस-
ञ्चयम् । पराशरोक्तं प्रवरं तथा भागवतद्वयम् । इदमष्टा-
दशं प्रोक्तं पुराणं कौर्म्मसंज्ञितम् । चतुर्द्धा संस्थितं
पुण्यं संहितानां प्रभेदतः । हेमा० दा० ख० कूर्म्मपु० ।

अष्टादिशाब्दिक पु० कर्म्म० संज्ञात्वान्न द्विगुः । “इन्द्रश्चन्द्रः

काशकृत्स्नापिशिली शाकटायनः । पाणिन्यमरजैनेन्द्रा
जयन्त्यष्टादिशाब्दिकाः” इत्युक्तेषु अष्टसु प्रथमशब्दशास्त्र
प्रवर्त्तकेषु इन्द्रादिषु ।

अष्टापद पुंन० ब० व० अष्टौ अष्टौ पदानि पङ्क्तावस्य वृत्तौ

संख्या शब्दस्य वीप्सार्थत्वाङ्गीकारः आत्त्वम् अर्द्धर्च्चादिः ।
१ शारीफलके । अष्टसु धातुषु पदं प्रतिष्ठा यस्य । २ स्वर्णे ।
आवर्ज्जिताष्टापदकुम्भतोयैः” कुमा० । “अचेष्टाताष्टापदभूमिरेणुः”
माघः । उपचारात् स्वर्णमयेऽपि “अष्टापदेन बलवान् राजा
वज्र धरोपमः” इति हरिवंशः ३ शरभे ४ लूतायाञ्च पु० ।
तयोरष्टपदत्वात् । अष्टं यथा स्यात्तथा पद्यते । ५ कृमौ ।
अष्टसु दिक्षु आपद्यते ६ कीलके । अष्टाभिः सिद्धिभिरापद्यते ।
आ + पद--अप् ३ त० । अणिमाद्यष्टसिद्धियुक्तक्ते ७ कैलासे पु० ।

अष्टापाद्य त्रि० अष्टभिरापद्यते गुण्यते आ + पद--कर्मणि

ण्यत् । अष्टभिर्गुणनीये “अष्टापाद्यम् शूद्रस्य स्तेये भवति
किल्विषम्” मनुः ।

अष्टाविंशति स्त्री अष्टाधिका विंशतिः शा० त० आदन्ता-

देशः । (आटाइस) १ संख्याभेदे २ तत्संख्यान्विते च । विंश-
च्छब्देन समासे तत्रैव “अष्टाविंशद्दिनम्” भृगुः ज्यो० ।
पूरणे डट् । अष्टाविंशः । तत्संख्यापूरणे त्रि० स्त्रियां
ङीप् । पूरणे तमप् अष्टाविंशतितमः । तत्रैवार्थे त्रि० ।

अष्टाविंशतितत्त्व न० अष्टविंशतौस्थानेषु तत्त्वंतत्त्वज्ञानं यतः ।

रघुनन्दनभट्टाचार्य्यकृते मलमासादिषु अष्टाविंशतिस्था-
नेषु तत्त्वज्ञापके स्मृतिनिबन्धे । तानि च स्थानानि तेन
प्रतिज्ञायां दर्शितानि यथा “मलिम्लुचे दायभागे संस्कारे
शुद्धिनिर्णये । प्रायश्चित्ते विवाहे च तिथौ जन्माष्टमीव्रते
दुर्गोत्सवे व्यवहृतावेकादश्यादिनिर्णये । तड़ाभगवनोत्-
सर्गे वृषोत्सर्गत्रये व्रते । प्रतिष्ठायां परीक्षायां ज्योतिषे
वास्तुयज्ञके । दीक्षायामाह्निके कृत्ये क्षेत्रे श्रीपुरुषोत्तमे ।
सामश्राद्धे यजुःश्राद्धे शूद्रकृत्यविचारणे । इत्यष्टाविंशति-
स्थाने तत्त्वं वक्ष्यामि यत्नतः” ।