वाचस्पत्यम्/अवधीर

विकिस्रोतः तः


पृष्ठ ०४२८

अवधीर अवज्ञायाम् अद० चुरा० उभय० सक० सेट् । अवधीर-

यति ते आववधीरत् त । अवेत्यस्योपसर्गत्वे अवादिधीरत्
त । अवधीरितः अवधीरी “रसैः कथा यस्य सुधावधीरिणी”
नै० अवेत्यस्योपसर्गत्वे “इतीव धारामरधीर्य्येति
नैषध० घात्वबयवरूपत्वे तु अवधीरयित्वेति भेदः ।

अवधीरणा स्त्री अवधीर--भावे युच् । १ अवज्ञायां २ तिरस्कारे

च “कृतवत्यसि नावधीरणामपराद्धेऽपि यदा चिरं
मयि” रघुः “अयं स यस्मात् प्रणयावधीरणामशङ्कनीयां
करभोरु! मन्थसे” शकु० । भावे ल्युट् । तत्रार्थे न० ।

अवधीरित त्रि० अवधीर--कर्मणिक्त । १ अवज्ञाते २ तिरस्कृते च

अवधूत त्रि० अव + धू--क्त । १ कम्पिते “पवनावधूतवसनान्तयै-

कया” माघः “विदधेऽबधूतसुरसद्मसम्पदम्” माघः ।
कृष्णयजुर्वेदान्तर्गते २ उपनिषद्भेदे । ३ अभिभूते, ४
निवर्त्तिते, “अवधूतं रक्षो अवधूता अरातयः” शत० ब्रा०
५ अनादृते च । “यो विलङ्घ्याश्रमान् वर्ण्णान् आत्मन्येव
स्थितः पुमान् । अतिवर्ण्णाश्रमी योगी अवधूतः स
उच्यते” इत्युक्तलक्षणे वर्ण्णाश्रमधर्मत्यागिनि ६ सन्न्यासिनि
पु० । “अक्षरत्वात् वरेण्यत्वात् धूतसंसारबन्धनात् ।
तत्त्वमस्यर्थसिद्धत्वादवधूतोऽभिधीयते । यथा रविः सर्वर-
सान् प्रभुङ्क्ते हुताशनश्चापि हि सर्व्वभक्षकः । तथैव
योगी विषयान् प्रभुङ्क्ते न लिप्यते पुण्यपापैश्च शुद्धः”
इति च तन्निरुक्तिलक्षणे एवमवधूतगीतशब्दे तल्लक्षणं दृश्यम् ।

अवधूतगीत न० ३ त० । भागवते ११ स्क० भगवदुद्धवसंवादे

यदुनृपं प्रति कस्यचिदवधूतस्य उपदेशभेदे । यथा “अत्रा-
प्युदाहरन्तीममितिहासं पुरातनम् । अवधूतस्य संवादं
यदोरमिततेजसः । अवधूतं द्विजं कञ्चिच्चरन्तमकुतोभयम् ।
कविं निरीक्ष्य तरुणं यदुः पप्रच्छ षर्मवत् । कुतो
बुद्धिरियं ब्रह्मन्नकर्त्तुः सुविशारदा । यामासाद्य भवाल्ल्ॐकं
विद्वांश्चरति बालवत् । प्रायोधर्मार्थकामेषु विवित्सायाञ्च
मानवाः । हेतुनैव समीहन्ते आयुषा यशसा श्रिया । त्वन्तु
कल्यः कविर्दक्षः सुभगोमितभाषणः । न कर्त्ता नेहसे कर्त्तुं
जड़ोन्मत्तपिशाचवत् । जनेषु दह्यमानेषु कामलोभद-
वाग्निना । न तप्यसेऽग्निना युक्तो गङ्गाम्भःस्थैव द्विपः ।
त्वं नः संपृच्छतां ब्रह्मन्! आत्मन्यानन्दकारणम् । ब्रूहि
स्पर्शविहीनस्य भवतः केवलात्मनः” इति यदुनृपेण
तल्लक्षणमुक्तम् । एवं यदुना प्रष्टःस यदाह तदेव अवधूतगीतम् ।
तेन च “सन्ति मे बहवोराजन्! गुरवोबुद्ध्युपाश्रिताः ।
यतो बुद्धिमुपादाय सुस्थोऽटामीह तान् शृणु । पृथिवी
वायुराकाशमापोऽग्निश्चन्द्रमा रविः । कपोतोऽजगरः सिन्धुः
पतगोमधुकृद्गजः । मधुहाहरिणो मीनः पिङ्गला
कुररोऽर्भकः । कमारी शरकृत् सर्प ऊर्ण्णनाभः सुपेशकृत् ।
ततो मे गुरवो राजन्! चतुर्विंशतिराश्रिताः । शिक्षावृत्ति
भिरेतेषामन्वशिक्षमनुक्रमात्” इत्युपक्रम्य क्षित्यादिभ्यश्चतु-
र्विंशतेर्यथा यत् शिक्षितं तद्वर्ण्णितम् तद्विस्तरस्तु ९
नवमाध्यायसमाप्तिपर्य्यन्ते तत्रैवानुसन्धेयः ।

अवधूनन न० अव + धू--णिच्--नुक् ल्युट् । १ चालने । (झाड़ा)

इति ख्याते व्यापारे “पादस्पर्शस्तु रक्षांसि दुर्ष्कृतीनव-
धूननम्” मनुः । २ चिकित्साभेदे च “तत्र तूर्ण्णं
गलापीड़ं कुर्य्याच्चाप्यवधूननम्” सुश्रु० ।

अवधूलन न० धलिं करोति अव + धूलि--कृत्यर्थे णिच्--भावे ल्युट् । अवचूर्णने ।

अवधृत त्रि० अव + धृ--अन्तर्भूतण्यर्थः कर्म्मणि क्त । १

अवधारिते निश्चिते “अनवधृताज्ञानसंशयविपर्यासस्तु यं कञ्चित्
पुरुषं प्रति प्रवर्त्तमानः” इति सा० कौ० । २ कृतनियमे
३ विषयविशेषे व्यवस्थापिते ४ स्थापिते च ।

अवधृष्य त्रि० अव + धृष--कर्म्मणि क्यप् । १ अवधृर्षणीये २

तिरस्कार्य्ये । ३ निश्चयेनावधार्य्ये “नियतं यत्ते रजसं मृत्योऽन-
वधृष्यम्” श्रुतिः “अनवधृष्योहि भवत्यनवधृष्यः” शत० ब्रा० ।
५ पराभवनीये च । अव + धृष--ल्यप् । ६ धर्षित्वेत्यर्थे अव्य० ।

अवधेय त्रि० अव + धा--यत् । १ निवेश्ये २ स्थापनीये यत्र

चित्ताभिनिवेशः क्रियते तस्मिन् ३ श्रद्धेये “प्रतिपित्सित
मर्थ प्रतिपादयन् प्रतिपादयिताऽवधेयवचनो भवति”
“अनवधेयवचनतया प्रेक्षावद्भिरुन्मत्तवदुपेक्ष्येत” इति च
सा० कौ० । ४ ज्ञेये च । भावे यत् । ५ अवधाने न० ।

अव(ब)ध्र त्रि० अव + धृ--मूलविभु० क बध--रक् न० त० वा ।

अहिंसके । “अव(ब)ध्र--ज्योतिरदितेरृतावृधः” ऋ०
७, ८२, १०, “अव(ब)ध्रमहिंसकम्” भा० ।

अवध्वंस पु० अव + ध्वन्स--घञ् । १ परित्यागे, २ चूर्णिते,

३ निन्दायाञ्च “अवध्वंसैवारुणः” अथ० ५, २२, ३ ।

अवध्वस्त त्रि० अव + ध्वन्स--क्त । १ नेष्टे २ निन्दिते ३

अवचूर्णिते ४ त्यक्ते च ।

अवन न० अव + ल्युट् । १ प्रीणने, २ रक्षणे, ३ प्रीतौ च “समनि-

न्दानवनाशंजनतालिकुलं यथैव दानवनाशम्” नलोद०

अवनत त्रि० अव + नम--क्त । १ अधोभूते २ आनते च ।

“अवनतशितिकण्ठकण्ठलक्ष्मीम्” माघः । “चतुरर्थ्यां कृशा-
श्वा० छण् आवनतीयः, अवनतसन्निकृष्टदेशादौ त्रि० ।

अवनति स्त्री अव + नम--क्तिन् । औद्धत्याभावे, १ विनये, २

अधोनमने च । “धनुषामवनतिः” कादम्बरी । ३ प्रणामे च ।

अवनद्ध त्रि० अव + नह--क्त । १ स्वचिते, २ रोपिते

३ वेष्टिते ४ बद्धे च “चर्म्मावनद्धं दुर्गन्धि पूर्ण्णं मूत्रपुरीषयोः”
मनुः । ५ मृदङ्गादिवाद्ये न० ।
पृष्ठ ०४२९

अवनम्र त्रि० अव + नम--र । अतिशयनम्रे “पर्य्याप्तपुष्पस्तवकावनम्रा” कुमा० ।

अवनय पु० अव + नी--भावे अच् । १ अधःपातने २ निपातने ।

अवनयन न० अव + नी--ल्युट् । अवस्थापने । “अवनयना-

वस्तरणे चावटवत्” कात्या० ८ । ५ । २४ । “गर्त्तेषु प्रोक्षण
शेषोदकसेचनम्” वेददी० तेन ३ तदर्थेऽपि ।

अवनाट त्रि० अवनता नासिका प्रा० स० नतार्थे नासिकाया-

नाटादेशः अर्श आद्यच् । (खांदा) अवनतनासिके जने ।

अवनाय पु० अव + नी “अवोदोर्नियः” पा० अधोबाधकः

घञ् । १ अधोनयने अधःप्रापणे ।

अवनाम पु० अव + नम--घञ् । अवनतौ अधोभूत्वा कृतायां नतौ ।

अवनि(नी) स्त्री अव--अनि । भूमौ । “सुसाधितायामवनौ”

इति सू० सि० । वा ङीप् अवनीत्यपि । “दींनदयालुतया-
ऽधनिपाल” “सुसमृद्धवनी वृथाऽवनी सुवनी संप्रवदत्-
पिकापि का इति च नैष० । करणे अनि । २ अङ्गुलीषु
व० ब० निरु० । अव प्रीणने कर्त्तरि अनि । ३ नद्यां
निरु० “सं यं स्तुभोऽवनयः न यन्ति समुद्रं स्रवतोरोध-
चक्रा” ऋ० १, १९०, ७ । दीर्घान्तः ४ त्रायमाणलतायां
राजनि० ।

अवनिक्त त्रि० अव + निज--क्त । १ क्षालिते २ शोधिते च ।

अवनि(नी)नाथ पु० ६ त० । नृषे भूपतौ अवनी(नि)

नायकादयोऽप्यत्र ।

अवनि(नी)पति ६ त० । नृपे अवनिस्वाम्यादयोप्यत्र । “पतिर-

वनीपतीनां तैश्चकास्ते चतुर्भिः” रघुः ।

अव(नि)नीपाल ६ त० । नृपे “इत्यममुं पिलपन्तममुञ्च-

द्दीनदयालुतयावनिपालः नैष० । “कतिचिदवनिपालः
शर्व्वरीः शर्वकल्पः” रघुः ।

अवनीश पु० ६ त० । भूपतौ भूमीश्वरे अवनीश्वरादयोऽप्यत्र ।

अवनेजन न० अव + निज--ल्युट् । १ प्रक्षाखने “न कुर्य्याद्गुरु

पुत्रस्य पादयोश्चावनेजनम्” मनुः । श्राद्धे पिण्डदानार्थ
मास्तृतकुशस्य जलेन सेकरूपे २ संस्कारभेदे च । “दक्षि-
णस्थितप्रागग्रकुशमूलमध्याग्रेषु मात्रादिभ्यस्तदुत्तरं मध्य-
स्थितप्रागग्रकुशमूलमध्याग्रेषु पित्रादिभ्यस्तदुत्तरं स्थित
प्रागग्रकुशमूलमध्याग्रेषु मातामहादिभ्यः प्राङ्मुखेना
वनेजनं कर्त्तव्यम्” कृत्यप्रदीप्रः । रघुनन्दनेन मातृप-
क्षोनादृत इति भेदः ।

अवन्ति पु० अव--झि । मालवदेशे । स च वृ० स०

कर्म्मचक्रविभागे “अथ दक्षिणेन लङ्केत्युपक्रम्य “आक-
रवणावन्तिकदशपुरनोनर्द्दा” इति उक्तः दक्षिणदेशस्थः ।
तत्र शिप्रा नदी महाकालनामा शिवमूर्त्तिविशेषः उज्ज-
यिनी राजधानी । तत्पुरीपरत्वे स्त्री वा ङीप् ।
“अवन्तिनाथोऽयमुदग्रबाहुरित्युपक्रम्य “असौ
महाकालनिकेतनस्य वसन्नदूरे किल चन्द्रमौलेः” ।
“अनेन यूना सह पार्थिवेन शिप्रातरङ्गानिलकम्पि-
तासु विहर्त्तुम्? च रघौ तथावर्ण्णितम् । ज्योतिर्वि०
विक्रमनृपवर्ण्णने “यद्राजधान्युज्जयिनी महापुरी
सदा महाकालमहेशयोगिनी । समाश्रिता प्राण्य-
पवर्गदायिनी श्रीविक्रमार्कोऽवनिपो जयत्यपि” तस्मिन्
सदा विक्रममेदिनीशे विराजमाने शमवन्तिकायाम् ।
सर्व्वप्रजामण्डलसौख्यसम्प्रद्बभूव सर्व्वत्र च वेदकर्म” ।
तथाच अवन्ती उज्जयिनी च नामान्तरं यथोक्तं सि० शि० ।
“यथोज्जयिन्याः कुचतुर्थभागे प्राच्यां दिशि स्याद्यम
कोटिरेव । ततश्च पश्चान्न भवेदवन्ती लङ्कैव तस्याः ककुभि
प्रतीच्याम्” । इयञ्च लङ्कास्थानात् मूवृत्तषोड़शांशे मेरु
पर्य्यन्तगतरेखायां समसूत्रस्थाने स्थिता यथोक्तं तत्रैव ।
“निरक्षदेशात् क्षितिषोड़शांशे भवेदवन्ती गणितेन
यस्मात् । तदन्तरं षोड़शसंगुणं स्याद्भूमानमस्मात्
बहु किं तदुक्त्या” । इंलण्डीयमानचित्रवेदिनस्तु सम
सूत्रस्थानात् किञ्चिदन्तरपश्चिमस्थेति वर्ण्णयन्ति ।
इयञ्च मोक्षपुरी “अयोध्या मथुरा माया काशी काञ्ची
अवन्तिका । पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः” ।
पुरा० । भा० उ० प० जम्बुखण्डविभागे जनपदगणनायाम्
“कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः” इति उक्तेरस्य
जनपदवाचितया इदन्तत्वाच्च ततो भवादौ ञ्य । आवन्त्यः
तद्भवादौ त्रि० । बहुषु च तद्राजनि ञ्यस्य लुक् ।
अवन्तयः तद्देशवासिषु ब० व० । तद्देशनृपे च । स्वार्थोकन्
अवन्तीनगर्य्याम् “काशीकाञ्ची अवन्तिका” पुरा० ।

अवन्तीपुर न० अवन्तिः पूः अच् समा० । अवन्तिनगरे

उज्जयिन्याम् ।

अव(न्ति)न्तीब्रह्म पु० अवन्तिषु ब्रह्मा अच् समा० । अवन्तिस्थे ब्राह्मणे ।

अव(न्ति)न्तीसोम पु० अवन्तिषु सोम इव । काञ्जिके ।

अवपन्न त्रि० अव + पद--क्त । १ ससृष्टे २ सहपक्वे च “केशकी-

टावपन्नञ्च पदा स्पृष्टञ्च कामतः” मनुः । “अवपन्नं
संसर्गदूषितम्” कुल्लू० । “केशकीटावपन्न च स्त्रीभिःस्पृष्टं
तथैव च” हारी० अवपन्न सहपक्वम् प्रा० त० रघ० ।

अवपाक पु० अव + अपकर्षे पच--घञ् । अपकृष्टपाके । कर्म्मणि

घञ् । २ अपकृष्टपक्वे । “त्वच उत्कर्त्तनमवपाकानां
संव्रश्चम्” शत० ब्रा० ।
पृष्ठ ०४३०

अवपात पु० अव + पत--भावे घञ् । अधःपतने ।

पतणिच्--भावे अच् । २ पातने “शस्त्रावपाते गर्भस्य पातने
“चोत्तमोदमः” या० स्मृ० । आधारे घञ् । ३ गर्त्ते “अवपा-
तस्तु हस्त्यर्थे गर्त्ते छन्ने तृणादिना” इति यादवोक्ते
गजघारणार्थे ४ गर्त्तभेदे च “रोधांसि निघ्नन्नवपातमग्नम्” रघुः

अवपात्र त्रि० अवरं भोजनायोग्यं पात्रं यस्य । यस्य भोजनेन

पात्रे दुष्टेऽन्यस्य भोजनायोग्यता भवति तादृशे
पतितम्लेच्छादौ जने ।

अवपात्रित त्रि० अवपात्र + कृत्यर्थे णिच्--क्त । भिन्नोदकीकृते अपपात्रितशब्दार्थे ।

अवपाद पु० अव + पद--घञ् । अधःपतने “देवावै आदित्याः

खर्गाल्लोकादवपादाद्बिभियुः” ता० ब्रा० ।

अवपाशित त्रि० अवपाशः समन्तात् पाशोजातोऽस्यतार० इतच् ।

पाशबद्धे “पश्याम्यैव हि कण्ठेत्वां कालपाशावपाशितम्” रा०

अवपीड़ त्रि० अवपीड़यति अव--पीड़--अच् । १ समन्तात् पीड़के

“चिकित्साविशेषे पु० २ वेगान्तेषु चावपीड़ं दद्यात्” सुश्रु०
“प्रतिमर्षोऽवपीड़श्च नस्यं प्रशमनं तथा । शिरोविरेचनं
चेति नस्तः कर्म्म च पञ्चधा” इति चक्रदत्तोक्ते ३ नासिका-
चिकित्साभेदे च । तल्लक्षणं तत्रैवोक्तं यथा “अवपीड्य
दीयते यस्यादवपीड़स्ततस्तु सः । शोघनः स्तम्भनश्च
स्यादवपीड़ो द्विधा मत” इति ।

अवपीडन न० अव + पीड़--णिच् ल्युट् । १ निष्पीड़ने ।

सुश्रुतोक्ते २ पीड़नदोषभेदे “अतिपीड़ितता शिथिलपीड़ि-
तताभूयोभूयोवपीड़नं कालातिक्रम इति चत्वारः पीड़न-
दोधाः” । युच् । अवपीड़ना निष्पीड़ने स्त्री “अङ्गा-
वपीड़नायाञ्च व्रणशीणितयोस्तथा” सुश्रु० ।

अवप्लुत त्रि० अव + प्लु--क्त । समन्तात् सिक्ते १ आर्द्रभूते २ अवतीर्ण्णे च ।

अवबन्ध पु० अवबध्यते आच्छाद्यते नेत्रवर्त्मानेन करणे घञ् ।

सुश्रुतोक्ते नेत्रवर्त्माश्रये । “पृथग्दोषाः समस्ताश्च यदा वर्त्म
व्यपाश्रयाः । शिरा व्याप्यावतिष्ठन्ते वर्त्मस्वधिकमूर्च्छिता”
इत्युक्रम्य “उत्सङ्गिन्यथ कुम्भीका पोथिक्यो वर्त्मशर्कराः ।
तथार्शवर्त्मशुष्कार्शस्तथैवाञ्जननामिका । वहलं वर्त्म
यच्चापि व्याधिर्वर्त्मावबन्धकः” इत्यादीन्युक्त्वा “न सप्तं
छादयेदक्षि भवेद्बन्धः स वर्त्मन” इति लक्षिते १ रोगभेदे
वर्त्मावबन्धं इत्येकं नामेत्युचितम् । भावे घञ् । समन्तात्
२ बन्धने च ।

अवबाधा स्त्री अव + बाध--अ । १ समन्तात् बाधायां २ प्रतिबन्धे च ।

अवबाहुक पु० अवबद्धो बाहुर्येन प्रा० च० । सुश्रुतोक्ते वायु-

रोगभेदे यथा “अंसदेशस्थितोवायुः शोषयित्वांसबन्धनम् ।
शिरास्त्वाकुञ्च्य तत्रस्थो जनयत्यवबाहुकम्” ।

अवबुद्ध त्रि० अव + बुध--कर्म्मणि क्त । १ ज्ञाते कर्त्तरि क्त । ज्ञातरि ।

अवबोध पु० अव + बुध--भावे घञ् । जागरणे । “यौ तु स्वप्राव

बोघौ तौ भूतानां प्रलयोदयौ” मनुः । २ ज्ञानमात्रे च
“स्वभर्त्तृनामग्रहणाद्बभूव सान्द्रे रजस्यात्मपरावबोधः”
रघु० “भावावबोधकलुषा दयितेव् रात्रौ” रघुः । प्रतिकूलेषु
तैक्ष्णस्यावबोधः क्रोध इष्यते” सा० द० ।

अवबोधक पु० अवबोधयति अव + बुध--णिच्--ण्वुल् । १ अर्के ।

नृपाणां निद्राभङ्गकारके २ स्तुतिपाठकादौ च ३ ज्ञापके त्रि० ।

अवबोधन न० अव + बुध--णिच्--ल्युट् । ज्ञापने । “स्वेतरार्था-

नच्छिन्नयत्स्वार्थस्यावबोधने” शब्दशक्ति० ।

अवभर्ज्जित त्रि० अव + भ्रस्ज--क्त भर्ज्जादेशः । १ भ्रष्टे २ दग्धे च ।

अवभाषण न० अव + भाष--ल्युट् । कथने “व्यापारान्तर-

सक्त्यन्यथावभाषणविलोकनादिकरी” सा० द० ।

अवभास पु० अव + भास--भावे घञ् । १ ज्ञाने २ प्रकाशे

अन्यस्य अन्यरूपेण प्रकाशरूपे ३ मिथ्याज्ञाने च ।

अवभासक त्रि० अवमासयति अव + भास--णिच् ण्वुल् ।

१ प्रकाशके सर्व्वावभासकेकूटस्थे चैतन्ये न० । “यस्य भासा
सर्व्वमिदं विभाति” श्रुतेः “यदादित्यगतं तेजो जगत्भासय
तेऽखिलम् । यच्चन्द्रमसि यच्चाग्रौ तत्तेजो विद्धि मामकम्”
गीतोक्तेश्च तस्य सर्व्वावभासकत्वम् ।

अवभासित त्रि० अव + भास + णिच्--कर्म्मणि क्त । प्रकाशिते ।

अवभृथ पु० अव + भृ--क्थन् । मुख्ययज्ञसमाप्तौ क्रियमाणे १ यथ

शेषकर्म्मणि, यज्ञाङ्गभूते यज्ञान्तेकार्य्ये २ स्नानें च । “नावभृ थं
सरस्वत्याम्” कात्या० २४, ६, २२, “सरस्वत्यां नावभृथं
कुर्य्यात्” कर्कः “परिपार्श्वेषूदकेषु” “असत्सूद्धृत्य ततः” कात्या०
२४, ६, २३, २४ “महति पात्रे कटाहादौ” कर्कः । अवभृथ-
स्नानविधिश्च तैत्तरीयब्राह्मणे २ अष्टके ६ अ० ६ अनु०
“यद्देवा देवहेड़नाम्” इत्यारभ्य “समिदसि जगत्त्रीणि
“चेत्यनुवाकपर्य्यन्ते उक्तः । “स्नातवत्यवभृथे ततस्त्वयि”
माघः “सर्वैनोऽभृथस्नातो हयमेधे विमुच्यते” । “तथा-
ऽश्वमेधावभथस्नानाद्वा शद्धिमाप्नुयात्” । या० स्मृ०
“भुवं कोष्णेन कुण्डोध्नी मेध्येनावभृथादपि” “प्रीत्या-
श्वमेधावभृथार्द्रमूर्त्तेः” “भ्रातराववभृथाप्लुतो मुनिः”
इति च रघुः ।

अवभ्रट त्रि० अवनता नासिका प्रा० स० नतार्थे नासिकाया-

भ्रटादेशः अस्त्यर्थे अच् । अवनतनासिके (खांदा) ।
पृष्ठ ०४३१

अवम त्रि० अव + अमच । १ रक्षके २ पितृगणभेदे पु०

“अवमैस्त ऊर्ब्बेः काव्यैस्ते पितृभिभक्षितस्य मधुमतोनाराशंसस्य”
ता० ब्रा० “त्रिविधाः पितरः अवभाः ऊर्व्वाः काव्याश्चेति
अनुसवनं नारांशंसदेवताः । हे सोम! अवमैः रक्षकैः
एतत्संज्ञकैः पितृभिः” भा० । अपादानेऽमच् । ३ पापे
४ तद्वति ५ कुत्सिते च त्रि० । अवोभवः अवस्ताद्भवः “अवोऽ-
धसोर्लोपश्चेति” मः अन्त्यलोपः । ६ अधमे त्रि० “अनल-
कानलकानमवमां पुरीम्” रघुः । “या त ऊक्तिरवमा या
परमा” ऋ० ६, २५, १, “उतावमस्य पुरुहूत बोधि” ऋ० ६,
२१, ५ “प्रकृतानां सावनानाञ्चान्द्राणाञ्चान्तरमवमानीच्यते
सावनदिनेभ्यश्चान्द्राहा यावद्भिरधिकास्ते दिनक्षस्याहा”
इति च प्रमिताक्षरोक्ते ७ दिनक्षये न० । तदानयनप्रकारश्च
सि० शि० “शशाङ्कमासोनितसाबनेन०, २८, १० त्रिंशद्धताः
लब्धदिनैस्तु चान्द्रेः । रुद्रांशकोनाब्धिरसैः ६३, ५४, ३३
क्षयाहः, स्यात् सावनोऽतश्च युगेऽनुपातात्” । युगे चान्द्राणां
सावनानां च यदन्तरं तान्यवमानि । तत्र एकस्मिन् मासे
चान्द्रसावनान्तरं कुदिनात्मकं गृहीतम् । तत्र दिवसः
शून्यम् अष्टाविंशतिर्घटिकाः दश पानीयपलानि
०, २८, १० इदमेकस्मिन् चान्द्रमासे त्रिंशत्तिथ्यात्मके
कुदिनात्मकमवसखण्डम् । यद्यनेन०, २८, १०, त्रिंश-
द्दिनानि चान्द्राणि लभ्यन्ते तदा सपूर्णैनैकेनावमेन
कियन्तीति त्रैराशिकेन लब्धैः रुद्रांशकोनाब्धिरसैः
६३, ५४, ३३ एकः क्षयाहो भवति स च सावनः एवं
कल्पेऽपि अनुपातात् । “सावनान्यवमानि स्युश्चान्द्रेभ्यः
साधितानि चेत् । सावनेभ्यस्तु चान्द्राणि तच्छेषं तद्वशा-
त्तथा” इति सि० शि० । कल्पेऽवमप्रमाणञ्च दर्शितं तत्रैव ।
“दिनक्षयास्तत्र सहस्रनिघ्नाः खवाणवाणाश्व्यहिखेषुदस्राः”
२५०८२५५०००० । अन्तरं तरणिचन्द्रचक्रजं यद्भवेत् स
विधुमाससंचयः । चन्द्रवक्रदिवसैक्यमूनितं चन्द्रमासभदिनै
र्दिनक्षयाः” “अथ चन्द्रचक्रदिनैक्ये चन्द्रमासभदिनैक्येन
वर्ज्जिते क्षयाहाः स्युः । अत्र वासना । चन्द्रभगणा
रविभगणैरूनाश्चान्द्रमासाः स्युः अतो विपर्य्ययाच्चान्द्रमासोना-
श्चन्द्रभगणा रविभगणा भवन्ति तैरूना भभ्रमाः सावना
दिवसा भवन्ति । चान्द्राहाः क्षयाहा भवन्ति” प्रमिता० ।
“तिथ्यन्तद्वयमेको दिनवारः स्पृशति यत्र तद्भवत्यमव-
दिनम्” ज्योति० त०

अवमत त्रि० अब + मन--क्त । १ अबज्ञाते २ तिरस्कृते च ।

अवमताङ्कुश पु० अवमतोङ्कुशस्तस्तदाघातोयेन । दुर्दान्ते गजे ।

अवमति स्त्री अव--मन भावे क्तिन् । १ अवज्ञायाम् २ अनादरे

२ तिरस्कारे च ।

अवमतिथि स्त्री कर्म्म० । “स्युस्तिस्रस्तिथयो

वारे एकस्मिन्न वमा तिथिः” ज्योतिषोक्ते दिनक्षये ।

अवमदिन न० कर्म्म० । “तिव्यन्तद्वयमेकोदिनवारी यत्र-

तद्भवत्यमवदिनम्” ज्योतिषोक्ते दिनक्षये ।

अवमन्तव्य त्रि० अव + मन--तव्य । १ अवज्ञेये २ अनादरणीये-

“बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः” मनुः ।

अवमन्तृ श्रि० अव + मन--तृच् स्त्रियां ङीप् । १ अवज्ञातरि-

२ तिरस्कर्त्तरि च ।

अवमन्थ पु० अवमथ्नाति अव + मन्थ--अच् । सुश्रुतोक्ते पालीस्थे

उपद्रवरूपे १ रोगभेदे “अतऊर्द्ध्वं नामलिङ्के वक्ष्ये पाल्यामु
पद्रवान् । उत्पाटकश्चोत्पुटकः श्यावः कण्डूयुतो
भृशम् । अवमन्थः सकण्डूको ग्रन्थिको जम्बुलस्तथेति” ।
“प्रलेपनमिदं दद्याद वसिच्या वमन्थके” सुश्रु० । तत्रोक्ते
शूकदीषनिमित्ते २ व्याधिभेदे च यथा “लिङ्गवृद्धिमिच्छतामक्रम
प्रवृत्तानां शूकदोषनिमित्ता दश चाष्टौ च व्याधयो जायन्ते
तद्यथा सर्पिका अष्ठीलिका ग्रथितं कुम्भीका अलजी
मृदितं सम्मृढ़पिडका अबमन्थ” इत्युपक्रम्य । “दीर्घा वह्व्यश्च
पिडका दीर्यन्ते मध्यतस्तु याः । सोऽवमन्थः कफासृग्भ्यां
वेदनारोमहर्षकृत्” तत्रैव लक्षितः । “अवमन्थे गते
पाकं भिन्ने तैलं विधीयते” सुश्रु० । ३ अवमन्थनकारके त्रि०

अवमर्द्द पु० अव + मृद--घञ् । १ पीडने । “सच त्वमासाद्य

रणावमर्द्दम” रामा० २ राज्याङ्गभेदे “अवमर्द्दः प्रतीघात
स्तथा चैव बलीयसाम्” इति भा० शा० राजधर्मे ।

अवमर्ष पु० अव + भृष--घञ् । १ आलोचनायाम्, “मुख प्रति-

मुखं गर्भोऽवमर्ष उपसंहृतिः । इति पञ्चास्य भेदाः स्युः”
इत्युपक्रम्य “यत्र मुख्यफलोपाय उद्भिन्नो गर्भतोऽधिकः ।
शापाद्यैः सान्तरायश्च सोऽवमर्ष” इति स्मृतः सा० द०
लक्षिते २ नाटकस्य सन्ध्यं शभेदे च । विमर्ष इति पाठान्तरम् ।

अवमान पु० अव + मन--भावे घञ् । १ अवज्ञायाम् २ अनादरे च

“अमृतस्येव चाकाङ्क्षेदवमानस्य सर्व्वदा” मनुः ।

अवमानना स्त्री अव + चुरा०--मन--यच् । अपमानकरणे “तत्त्व-

ज्ञानापदीर्षादेर्निर्वेदः स्वावमानना” सा० द० । भावे ल्युट् ।
अवमाननं तत्रैव न० निर्वेदः स्वावमाननम्” हेमच० ।

अवमानित त्रि० अव + चुरा० मन--क्त । १ कृतापमाने

२ कृतानादरे च विप्रलब्धा तु सा ज्ञोस्या नितान्तमवमा-
निता” सा० द० ।
पृष्ठ ०४३२

अवमानिन् त्रि० अव + मन--णिनि स्त्रियां ङीप् ।

अवज्ञातरि २ अनाद्रियमाणे च “धिङ्मामुपनतश्रेयोऽवमा-
निनम्” शकुन्तला ।

अवमाननीय त्रि० अव + चु०--मन--अनीयर् । १ अवज्ञेये २ अनादरणीये च ।

अवमान्य त्रि० अव + मन--ण्यत् । १ अवज्ञेये २ तिरस्कार्य्ये च

सानुज्ञाप्याधिवेत्तव्या नावमान्या च कर्हिचित्” मनुः
अव + चु० भन--ल्यप् । ३ अवज्ञायेत्यर्थे अव्य० ।

अवमार्जन न० अव + मृज--भावे ल्युट् । १ प्रक्षालने करणे

ल्युट् । २ तत्साधने जलादौ “इमा ते वाजिन्नवमार्ज्जना
नाम्” ऋ० १, १६३, ५, “अवमार्ज्जनानि अङ्गप्रक्षालन-
साधनान्युदकानि” भा० ।

अवमूर्द्धन् त्रि० अवनतो मूर्द्धाऽस्य । अवनतमस्तके ।

अवमूर्द्धशय पु० अवमूर्द्धा सन् शेते शी--अच् ।

अधोमुखतया शायिनि मनुष्ये । “उत्तानशयादेवा अवमूर्द्धशया
मनुष्याः” इत्युक्तेः गर्भादौ तथाशयनाद्वा नरस्य तथात्वम्
२ तथाभूततया शायिमात्रे त्रि० ।

अवमोचन न० अव + मुच--भावे ल्युट् । बन्धनराहित्ये उन्मोचने ।

अवमोटन न० अव + मुट्--णिच्--ल्युट् । (मोचड़ान)

परिवर्त्तनेनान्यथापादनरूपे परिमोटने ।

अवयजन न० अव + यज--गतौ करणे ल्युट् । अपगमसाधने

“देवकृतस्यैनसोऽवयजनमसि पितृकृतस्यैनसोऽवयजनमसि
मनुष्यकृतस्यैनसोऽवयजनमस्यस्मत्कृतस्यैनसोऽवयजनमसि
यद्दिवा च नक्त चैनश्चकृम तस्यावयजनमसि यत् स्वपतश्च
जाग्रतश्चैनश्चकृम तस्यावंयजनमसि यद्विद्वांसश्चाविद्वांसश्चै-
नश्चकृम तस्यावयजनमस्यैनसएनसोऽवयजनमसि” ताण्ड्यब्रा०
“अवयजनम् अपगमनसाधनम्” भा० ।

अवयव पु० अवयूयते कार्य्यद्रव्येण संबध्यते अव + यु--कर्मणि

अप । १ द्रव्यारम्भकेद्रव्ये “यथा परमाणुः द्व्यणुकं द्व्यणु-
कस्त्रसरेणुमारभते इत्यादिक्रमेण अन्त्यावयविपर्य्यन्तानि
सर्व्वाणि द्रव्याष्णि स्वाश्रिततया अवयविद्रव्यान्तरमारभन्ते
“द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम्” वै० सू०
उक्तेः । अन्त्यावयविविभुद्रव्याणि विहाय द्रव्याणां सजाती-
यद्रव्यान्तरारम्भकत्वं तदर्थः अन्त्यावयवी नित्यद्रव्य च न
कस्यचिदारम्भकम् । आरम्भकद्रव्ये च द्रव्यान्तरस्य समवाये-
नाऽवस्थित्याऽवयरत्वम् । आरम्भकद्रव्यञ्च उपादा-
नकारणतया समवायिकारणतया च व्यवह्रियते
अधिकमवयविशब्दे बक्ष्यते “अनित्या च तदन्या स्यात्
सैवावयवयोगिनी” भाषा० । अवच्छिन्नपरिमाणवत्त्वम् अव-
यवत्वमिति केचित् प्रतिपेदिरे तन्न सम्यक, घटादौ अवच्छिन्न
परिमाणवत्त्वेन तत्रातिव्याप्तेः किन्तु द्रव्यारम्भकद्रव्यत्व-
मेवावयवत्वम् । यु अमिश्रणे अप् । २ देहे तस्यान्त्यावयवि-
तया द्रव्यान्तरानारम्भकत्वेन इतरद्रव्यसमवायशून्यत्वात्
तथात्वम् ३ हस्तादिषु देहावयवत्वात्तेषान्तथात्वम् । ते च
प्राधान्येन पञ्च सुश्रुते दर्शिताः ७२ पृष्ठे अङ्गशब्दे
उक्ताः । अङ्गप्रत्यङ्गानि च सूक्ष्मरूपेण गर्भे एव उत्पद्यन्ते
क्रमशो विवर्द्धमानानि दृश्यन्ते यथोक्तं सुश्रुते “सर्व्वाङ्गप्रत्य-
ङ्गानि युगवत् सम्भवन्तीत्याह धन्वन्तरिः गर्भस्य सूक्ष्म-
त्वान्नोपलभ्यन्ते वशाङ्कुरवच्चूतफलवच्च तद्यथा चूतफले
परिपक्वे केशरमासांस्थिमज्जानः प्रत्यक् दृश्यन्ते कालप्रक-
र्षात्, तान्येव तरुणे नोपलभ्यन्ते सूक्ष्मत्वात् । तेषां
सूक्ष्माणां केशरादीनां कालः प्रव्यक्ततां करोति एतेनैव
वंशाङ्कुरोऽपि व्याख्यातः एवं गर्भस्य तारुण्ये सर्व्वेष्व-
ङ्गेषु सत्स्वपि सौक्ष्म्यात्तदनुपलब्धिः । तान्येव काल
प्रकर्षात् प्रव्यक्तानि भवन्ति” । अधिकं गर्भशब्दे वक्ष्यते ।
“तृतीये तु मास्यङ्गैरिन्द्रियैश्च संयुक्तो भवतीत्याद्दुक्तिस्तु
व्यक्ताङ्गतापरा । ४ समुदायस्य एकदेशे “पदे न वर्ण्णाविद्यन्ते
वर्ण्णेष्ववयवा न च” भर्त्तृहरिः “क्तेनाहोरात्रावयवाः” पा० ।
“क्रियाहि नामेयमत्यन्तापरिदृष्टा पूर्व्वापरीभूतावयवा न
शक्यते पिण्डीभूता निदर्शयितुम्” फ० भा० “गुणभूतैरव-
यवैः समूहः क्रमजन्मनाम् । बुद्ध्या प्रकल्पिताभेदः क्रियेति
व्यवदिश्यते” वाक्यप० । एकदेशाभिप्रायेणैव नास्तिका-
दीनां मते परमाण्वादौ अवयवव्यवहारः तैः परमाणु
पुञ्जस्यैव घटादिरूपतास्वीकारात् । न्यायादिमतसिद्धपरा
र्थानुमानसाधनेषु ५ वाक्येषु च । ते चायववाः पञ्च
इति बहवः त्रय इत्यन्ये । यथा प्रतिज्ञाहेतूदाहरणोप-
नयनिगमरूपाः पञ्च, प्रतिज्ञाहेतूदाहरणरूपाः हेतूदाहरणो
पनयरूपा वा मतभेदेन त्रयः । यथा पर्ब्बतो वह्निमात्, धूमात्,
योयोधूमवान् स वह्निमान् यथा महानसम्, वह्निव्याप्योधूमो
धूमवांश्चायम् तस्माद्वह्निमान् । प्रतिज्ञादीनां लक्षणानि च
तत्तच्छब्देवक्ष्यन्ते उपचारात् तत्प्रतिप्रतिपादके चिन्तामणि-
कृते अनुमानखण्डान्तर्गते ६ ग्रग्थे । ७ उपकरणमात्रे च ।

अवयविन् त्रि० अवयवः कारणत्वेनास्त्यस्य इनि । अवयवजन्ये

द्रव्ये । अवयवित्वंच कार्य्यद्रव्यत्वम् । तच्च नैयाकिदिभिरवयवा-
द्भिन्नतया उत्पद्यते इत्युरीकृतम् । तत्र मुक्ता० प्रमाणमप्युपन्य-
स्तम् “ननु अवयविनि किं मानं? परमाणुपुञ्जैरैवोपपत्तेः न
च परमाणूनामतोन्द्रियत्वात् घटादेः प्रत्यक्ष न स्यादिति वा-
पृष्ठ ०४३३
च्यम् एकस्थ परमाणोरप्रत्यक्षत्वेऽपि तत्समूहस्य प्रत्यक्ष-
त्वात् यथा एकस्य केशस्य दूरेऽप्रत्यक्षत्वे तत्समूहस्य प्रत्यक्ष-
त्वम् । न च एकः स्थूलो महान् घट इति बुद्धेरनुपप-
त्तिरिति वाच्यम् एको महान् धान्यराशिरितिवदुपपत्तेः,
सैवं परमाणोरतोन्द्रियत्वेन तत्समूहस्यापि प्रत्यक्षायो-
ग्यत्वात दूरस्यकेशस्तु नातीन्द्रियः सन्निधाने तस्यैव प्रत्यक्ष-
त्वात् । न च तदानीम् अदृश्यपरमाणुपुञ्जात् दृश्यपरमाणुपु-
ञ्जस्योत्पन्नत्वात् न प्रत्यक्षत्वे विरोध इति वाच्यम् अदृश्यस्य
दृश्यानुपादानत्वात् अन्यथा चक्षुरूष्मादिसन्ततौ कदाचिद्
दृश्यत्वप्रसङ्गात् । न चातितप्ततैलादौ कथमदृश्यदहनस-
न्ततेः दृश्यदहनोत्पत्तिरिति वाच्यं तत्र तदन्तःपातिभिः
दृश्यदहनावयवैः स्थूलदहनोत्पत्तेरुपगमात् । न च
अदृश्यद्व्यणुकेन कथं त्रसरेणोरुत्पत्तिरिति? वाच्यम् ।
यतो न वयं दृश्यत्वमदृश्यत्वं वा कस्यचित् स्वभावादाचक्ष्महे
परन्तु महत्त्वोद्भूतरूपादिकारणसमुदायवशात् दृश्यत्वं
तथा च त्रसरेणोर्म्महत्त्वात् प्रत्यक्षं न तु द्व्यणुकादेःतद-
भावात् न हि तन्मतेऽपीदं सम्भवति परमाणौ महत्त्वा-
भावात् इत्थं चावयविसिद्धौ तेषामुत्पादविनाशयोः प्रत्यक्ष-
त्वादनित्यत्वं तेषां चावयवावयविधाराया अनन्तत्वे मेरुसर्ष-
पयोरपि साम्यप्रसङ्गः । अतः क्वचिद्विश्रामो वाच्यः
यत्र च विश्रामस्तस्यानित्यत्वे त्वसमवेतकार्य्योत्पत्तिप्रसङ्गः
स्यात् अतस्तस्य नित्यत्वं महत्परिमाणतारतस्यस्य गगनादौ
विश्रान्तत्वमिवाणुपरिमाणतारतम्यस्यापि क्वचिद्विश्रान्तत्व-
मस्ति इति तस्य परमाणुत्वसिद्धिः न च त्रसरेणावेव
विश्रामोऽस्त्विति वाच्यं त्रसरेणुः सावयवः चाक्षुषद्रव्यत्वात्
घटवदित्यनुमानेन त दवयवसिद्धौ त्रसरेणोरवयवाः सावयवाः
महदवयवत्त्वात् कपालवदित्यनुमानेन तदवयवसिद्धेः न
चेदमप्रथोजकम् अपकृष्टमहत्त्वं प्रति अनेकद्रव्यवत्त्वस्य
प्रयोजकत्वात् नचैवं क्रमेण तदवयवधारापि सिध्ये-
दिति वाच्यम् अनवस्थाभवेन तदसिद्धेः” । व्यख्यातञ्चै तत्
दिनकर्य्याम् । “बौद्धः शङ्कते नन्विति नन्वयं घटैत्यादि
प्रतीतिरेव तत्र प्रमाणं भविष्यतीत्यत आह परमाणुपुञ्जै
रेवेति विलक्षणसंस्थानविशिष्टैः परमाणुभिरेवेत्यर्थः
उपपत्तेरिति अयं घट इत्यादिप्रतीतेरुपपत्तेरित्यर्थः । तत् समूहस्य
परमाणुसमूहस्य । तत्र दृष्टान्तमाह यथेति । तत्समूहस्य
केशसमूहस्य । अनुपपत्तिरिति परमाणुविषयत्वादिति शेषः
उपपर्त्तरिति तत्र यथा धान्यसमूहस्येकत्वादेक इति
प्रतीतिरेवं संयोगविशेषस्यैव महत्त्वात्मकतया महानिति
प्रतीतिस्तथा परमाणुपुञ्जेष्वपीति भावः । प्रत्यक्षायो-
ग्यत्वादिति तथाच स्वभावतोऽयोग्यानां परमाणूनां
परस्परसंयोगमात्रेण योग्यत्वं न भम्भवतीति भावः ।
दूरस्थकेशस्तु स्वमावतो नातीन्द्रिय इति त्वदुक्तदृष्टान्तस्य
वैषम्यमित्याह दूरस्थकेशस्त्विति तस्य दूरस्थ केशस्य । तस्यै-
वेति एवकारश्च प्राक्तनसन्निधानपदेनान्वेति तथाच सन्नि-
धान एव तस्य प्रत्यक्षत्वादित्यर्थः तथाच दूरत्वस्य प्रति
बन्धकत्वात्तद्दशायाम् अप्रत्यक्षत्वमात्रं तस्य, न तु स्वाभाविका
प्रत्यक्षत्वमिति भावः । उत्पन्नत्वादिति क्षणभङ्गवादिनां
मते परमाणूनामुत्पत्तिस्वीकारादिति भावः । अन्यथा
अदृश्यस्य दृश्योत्पादकत्वे । तत्र तादृशदहनोत्पत्तिस्थले) ।
तदन्तःपातिभिः अतितप्ततैलान्तःपातिभिः । स्वभावात्
कारणनैरपेक्ष्यात् उद्भूतरूपादीति आदिनालोकादि-
परिग्रहः । तदभावे महत्त्वोद्भूतरूपाद्यभावे महत्त्वाभा-
वादित्यर्थः । अत्र नास्तिकमतानुयायिनः परस्पर
विभक्तपरमाणूनां महत्त्वाभावादप्रत्यक्षत्वेऽपि परस्पर
संयुक्तानां पुञ्जात्मनान्तेषां प्रत्यक्षे बाधकाभावः नच महत्त्वा
भावएव बाधकः परस्परविलक्षणसंयोगस्यैव महत्त्वरूपस्य
प्रत्यक्षजनकत्वात् नच परमाणूनां नित्यत्वाद्घटादावुत्पत्ति
नाशयोः प्रतीत्यनुपपत्तिरिति वाच्यम् तन्मते पदार्थमात्रस्यैव
क्षणिकत्वात् परमाणूनामुपत्पत्तिनाशयोः स्वीकारात् नच
परमाणुपुञ्जेषु घटत्वाङ्गीकारे कपालाद्घट इति प्रतीतेर
नुपपत्तिः परमाणृनां कपालजन्यत्वाभावादिति वाच्य
तन्मते कपालस्यापि परमाणुपुञ्जरूपतया घटरूपपुञ्जेषु
कपालरूपपुञ्जजन्यत्वस्वीकारात् पुञ्जात् पुञ्जोत्पत्तिरिति
तेषां सिद्धान्तादित्याहुः, तन्न घट इत्यादिप्रतीतिविषय-
ताया अनेकपरमाणुषु कल्पने गौरवात् अवयवातिरिक्ता-
वयविसिद्धिरिति दिक् । मेरुसर्षपयोरपीति अपिशब्दः
साम्यप्रसङ्ग इत्युत्तरं सम्बध्यते तेन च द्व्यणुकस्य सावय-
वारब्ध्रत्वे महत्त्वापत्तिः समुच्चीयते साम्यं परिमाणता-
रतम्याभावः परिमाणकारणीभूताया अवयवसंख्याया
उभयत्र साम्यादिति भावः । नच मेर्ववयवानां न
सर्षमतुल्यपरिमाणवत्त्वं, सर्षपावयवानां च न मेर्ववयव
तुल्यपरिमाणवत्त्वमित्यवयवपरिमाणविशेषाद्विशेष इति
वाच्यम् मेर्बवयवसर्षपावयवयोरप्यनन्तावयवत्वेन तत्परि-
माणतारतम्याभावस्याप्यापादनीयत्वाम् नच मेरुसर्षपयो
रवयवगतप्रचयाख्यसंयोगविशेष इति वाच्यम् प्रचयविशेष-
स्यापि संख्याविशेषनियम्यत्वेन संख्याविशेषाभावे तद्वि-
पृष्ठ ०४३४
शेषानुपपत्तेरिति । ननु तथापि विश्रामाश्रयस्य नित्यत्वे
मानाभाव इत्यत आह यत्र त्विति । असमवेतकार्य्योत्पत्ति
प्रसङ्ग इति असमवेतभावकार्य्योत्पत्ति प्रसङ्ग इत्यर्थः ।
ननु तस्य नित्यत्वसिद्धावपि अणुत्वे किं मानमित्यत आह
महत्परिमाणेति । चाक्षुषद्रव्यत्वादिति अत्रात्मनि व्यभि-
चारवाराय चाक्षुषंपदं घटाभावे व्यभिचारवारणाय
द्रव्यपदम् तदवयवसिद्धाविति त्रसरेण्ववयसिद्धावित्यर्थः । तद
सिद्धेरिति अवयवधाराया असिद्धेरित्यर्थः । अत्र नव्याः
त्रसरेणोरवयवाः सावयवा इत्याद्यनुमानयोरुक्तयोरप्र-
योजकत्वेन त्रुटावेव विश्रामः नच चाक्षुषं प्रति महत्त्वं
कारणं तथाच त्रुटौ महत्त्वमावश्यकं तच्चावयवसंख्याजन्य-
मिति अवयवं विना नोत्पद्यते इत्यनुकूलतर्कसत्त्वान्नाप्रयो-
जकत्वं द्व्यणुकसाधकानुमानस्येति बाच्यम् त्रसरेणुमहत्त्वस्य
नित्यत्वस्वीकारेणोक्ततर्कानवतारात् नचाणुव्यवहारस्याणु-
परिमाणनिबन्धनतया तदाश्रयद्रव्यसिद्धिराश्यकीति
वाच्यम् तस्यापकृष्टपरिमाणनिबन्धनत्वात् महत्यपि
महत्तमादणुव्यवहारात् न चैवं त्रसरेणुपुञ्जएवास्त्ववय-
वीति वाच्यम् विशकलितेष्वपि तेषु घट इत्यादिप्रत्यय
प्रसङ्गात् नच तत्संयोगवृत्त्येव घटत्वं घटोद्रव्यमित्यादि
प्रतीतौ च परम्परया तद्भानमिति वाच्यं सम्भवति साक्षात्
सम्बन्धविषयत्वे परम्परासम्बन्धविषयकत्वकल्पने गौरवादि-
त्याहुः । ननु परमाणुत्रयेण कुतो न द्रव्यान्तरोत्पत्तिः
परमाणुद्वयेन द्व्यणुकवत् द्व्यणुकद्वयेन द्रव्यान्तरोत्पत्त्या-
पत्तिस्त्रिभिर्द्व्यणुकैस्त्र्यणुकवदिति चेन्न प्रमाणाभावेन
तादृशद्रव्यासिद्धौ परमाणुत्रये द्व्यणुकद्वये च द्रव्यारम्भ-
कसंयोगाऽकल्पनात् । अत्रेदं चिन्त्यं त्रिभिः परमाणुभिरेव
त्र्यणुकमस्तु परमाणुभ्यामारिम्भे सिद्धान्तिनां द्व्यणु-
काभ्यामनारम्भ इव मानाभावात् फलबलेन त्रयाणामेव
युगपद्द्रव्यारम्भसंयोगकल्पनात् वस्तुतो गवाक्षरन्ध्रे दृश्य-
मानानां द्व्यणुकत्वमेव युक्तमणुद्वयारब्धत्वे लाघवादिति” ।
अयमबयवी कारणात् भिन्नएव कार्य्यकारणयोरैक्याभावात्
नियतपूर्व्ववर्त्तिन एव कारणतया कारणस्य प्राक्सत्त्व-
नियमेन कार्य्यस्य च तदाऽसत्त्वेन तयोर्भेदात् । अतएव
“द्रव्याणि द्रव्यान्तरभारभन्ते” इति वै० सूत्रे अन्तरपद-
मुपात्तम् इति वैशेषिकादयः स्वीचक्रुः । सांख्यावेदान्ति-
नश्च कार्य्यस्य कारणैक्यमेव स्वीचक्रुः तथाहि “तदनन्य-
त्वमारम्भणशब्दादिभ्यः” “युक्तेश्च शब्दान्तराच्च” शा० सू०
तद्भाष्ये चोक्तम् । “युक्तेश्च प्रागुत्पत्तेः कार्य्यस्य सत्त्व
मनन्यत्वञ्च कारणादवगम्यते शब्दान्तराच्च । युक्तिस्तावद्व-
र्ण्यते दधिघटरुचकाद्यर्थिभिः प्रतिनियतानि कारणानि
क्षीरसुवर्ण्णमृत्तिकादीन्युपादीयमानानि लोके दृश्यन्ते न
हि दध्यर्थिभिर्मृत्तिकोपादीयते न घटार्थिभिः क्षीरम् ।
तच्चासत्कार्य्यवादे नोपपद्यते । अविशिष्टे हि प्रागुत्पत्तेः
सर्वत्र सर्व्वस्यासत्त्वे कस्मात् क्षीरादेरेव दध्युत्पद्यते न
मृत्तिकायाः, मृत्तिकाया एव घट उत्पद्यते न क्षीरात् ।
अथाविशिष्टेऽपि प्रागसत्त्वे क्षीरएव दध्नः कश्चिदतिशयो
न मृत्तिकायां, मृत्तिकायामेव घटस्य कश्चिदतिशयो न क्षीरे-
इत्युच्येत तर्ह्यंतिशयवत्त्वात् प्रागवस्थाया असत्कार्य्यवाद-
हानिः सत्कार्य्यवादसिद्धिश्च । शक्तिश्च कारणस्य कार्य्य-
नियमार्था कल्प्यमाना नान्याऽसतो वा कार्य्यं नियच्छेत्
असत्त्वाविशेषादन्यत्वाविशेषाच्च । तस्मात् कारणस्यात्म-
भूता शक्तिः शक्तेश्चात्मभूतं कार्य्यम् । अपिच कार्य्यकारण-
योर्द्रव्यगुणादीनां चाश्वमहिषवद्भेदबुद्ध्यभावात्तादात्म्य-
मभ्युपगन्तव्यम् । समवायकल्पनायामपि समवायस्य
समवायिभिः सम्बन्धेऽभ्युपगम्यमाने तस्य तस्वान्योऽन्यः
सम्बन्धः कल्पयितव्यः इत्यनवस्थाप्रसङ्गः अनायुपगम्य-
मानेऽत्र विच्छेदप्रसङ्गः । अथ समवायः स्वयं सम्बन्धरूपत्वा
दनपेक्ष्यैवापरं सम्बन्धं सम्बध्यते, संयोगोऽपि तर्हि स्वयं
सम्बन्धरूपत्वादनपेक्ष्यैव समवायं सम्बध्येत । तादात्म्यप्रतीतेश्च
द्रव्यगुणादीनां सभवायकल्पनानर्थक्यम् । कथञ्च कार्य्यमव-
यविद्रव्यं कारणेष्ववयवेषु वर्त्त मानं वर्त्तते किं समस्तेष्व-
वयवेषु वर्त्ततौत प्रत्यवयवम् । यदि तावत् समस्तेषु वर्त्तेत
ततोऽवयव्यनुपलब्धिः प्रसज्येत, समस्तावयवसन्निकर्षस्या-
शक्यत्वात् नहि बहुत्वं समस्तेष्वाश्रयेषु वर्त्तमानं व्यस्ता
श्रयग्रहणेन गृह्यते । अथावयवशः समस्तेषु वर्त्तेत
तदास्यारम्भकावयवव्यतिरेकेणावयविनोऽवयवाः कल्प्येरन्
यैरवयवैरारम्भकेष्ववयवशवयवी वर्त्तेत । कोशावयवव्यति-
रिक्तैर्ह्यवयवैरसिः कोशं व्याप्नोति । अनवस्था चैवं प्रस-
ज्येत तेषु तेष्ववयवेषु वर्त्तयितुमन्येषामन्येषा मवयवानां
कल्पनीयत्वात् । अथ प्रत्यवयवं वर्त्तेत तर्ह्येकत्र व्यापारेऽन्या-
त्राव्यापारः स्यात् न हि देवदत्तः स्रुघ्ने सन्निधीयमान
स्तदहरेव पाटलिपुत्रे सन्निधीयते युगपदनेकत्र वृत्तावनेकत्व
प्रसङ्गात् देवदत्तयज्ञदत्तयोरिव स्रुघ्नपाटलिपुत्रनिवासिनोः ।
गोत्वादिवत् प्रत्येकं परिसमाप्तेरदोष इति चेन्न तथा
प्रतीत्यभावात् । यदि गोत्वादिवत् प्रत्येकं परिसमाप्तोऽवय-
वी स्यात् यथा गोत्वं प्रतिव्यक्ति प्रत्यक्षं गृह्यते एवमवय-
पृष्ठ ०४३५
व्यपि प्रत्यवयवं प्रत्यक्षेण गृह्येत नचैचेवं नियतं गृह्यते ।
प्रत्येकं परिसमाप्तौ चावयविनः कार्य्येणाधिकारात्तस्य
चैकत्वात् शृङ्गेणापि स्तनकार्य्यं कुर्य्यात् उरसा च पृष्ठकार्य्यं, न
चैवं दृश्यते । प्रागुत्पत्तेश्च कार्य्यस्यासत्त्वे उत्पत्तिरकर्त्तृका
निरात्मिका च स्यात् । उत्पत्तिश्च नाम क्रिया सा सकर्त्तकैव
मवितुमर्हति गत्यादिवत् । क्रिया च नाम स्यादकर्त्तृका
चेति विप्रतिषिद्ध्येत । घटस्य चोत्पत्तिरुच्यमाना न
घटकर्त्तृका किन्तर्ह्यन्यकर्त्तृकेति कल्प्या स्यात् तथा कपाला-
दीनामप्युत्पत्तिरुच्यमानान्यकर्त्तृकैव कल्प्येत तथाच सति
घटौत्पद्यते इत्युक्ते कुलालादीनि कारणान्युत्पद्यन्त इत्युक्तं
स्यात् न च लोके घटौत्पद्यत इत्युक्ते कुलालादय
उत्पद्यमानाः प्रतीयन्ते उत्पन्नताप्रतीतेश्च । अथ स्वकारण
सत्ता सम्बन्ध एवोत्पत्तिरात्मलाभश्च कार्य्यस्येति चेत्
कथमलब्धात्मकं सम्भध्येतेति वक्तव्यं, सतोर्हि द्वयोः सम्बन्धः
सम्भवति न सददसतीरसतो र्वा । अभावस्य च निरुपाख्य-
त्वात् प्रागुत्पत्तेरिति मर्य्यादाकरणमनुपपन्नम् । सतां हि
लोके क्षेत्रगृहादीनां मर्य्यादा दृष्टा नाभावस्य । न हि
बन्ध्यापुत्रो राजा बभूव प्राक्पूर्ण्णवर्मण्णोऽभिषेकादित्येवं
जातीयकेन मर्य्यादाकरणेन निरुपाख्यो बन्ध्यापुत्रो राजा
बभूव भवति भविष्यतोति वा विशेष्यते । यदि च बन्ध्या-
पुत्रः कारकव्यापारादूर्द्ध्वमभविष्यत्तत इदमप्युपापत्स्यत
कार्य्याभावोऽपि कारकव्यापारादूर्द्ध्वं भविष्यतीति । वयन्तु
पश्यामो बन्ध्यापुत्रस्य कार्य्याभावस्य चाभावत्वाविशेषात्
यथा बन्ध्यायुत्रः कारकव्यापारादूर्द्ध्वं न भविष्यति एवं
कार्य्याभावीऽपि कारकव्यापारादूर्द्ध्वं न भविष्यतीति ।
तन्वेवं सति कारकव्यापारोऽनर्थकः प्रसज्येत, यथैव हि प्राक्-
सिद्धत्वात् कारणस्य स्वरूपसिद्धये न कश्चिद्व्याप्रियते
एवं प्राक्सिद्धत्वात् तदनन्यत्वाच्च कार्य्यस्वरूपसिद्धयेऽपि न
कश्चिद्व्याप्रियेत व्याप्रियते च, अतः कारकव्यापारार्थ-
वत्त्वाय मन्यामहे प्रागुप्पत्तेरभावः कार्य्यस्येति । नैष दोषः
यतः कार्य्याकारेण कारणं व्यवस्थापयतः कारकव्यापार-
स्यार्थवत्त्वमुपपद्यते । कार्य्याकारोऽपि कारणस्यात्मभूत एव
अनात्मभूतस्यानारभ्यत्वादित्यभाणि । न च विशेषदर्शन्
मात्रेण वस्त्वन्यत्वं भवति न हि देवदत्तः सङ्कोचितहस्त-
पादश्च विशेषेण दृश्यमानोऽपि वस्त्वन्यत्वं गच्छति, स एवेति
प्रत्यभिज्ञानात् । यथा प्रतिदिनमनेकसंस्थानानामपि
पित्रादीनां न वस्त्वन्यत्वं भवति, मम पिता मम माता मम
भ्रातेति प्रत्यभिज्ञानात । जन्मोच्छेदानन्तरित्वात्तत्र
तत्र युक्तं नान्यतेति चेन्न क्षीरादीनामपि दध्याद्याकार
संस्थानस्य प्रत्यक्षत्वात् । अदृश्यमानानामपि वटधाना-
दीनां समानजातीयावयवान्तरोपचितानामङ्कुरादिभावेन
दर्शनगोचरतापत्तौ जन्मसंज्ञा तेषामेवावयवानामपचय-
वशाददर्शनापत्तावुच्छेदसंज्ञा । तत्रेदृग्जन्मोच्छेदान्त-
रितत्वेन चेदसतः सत्त्वापत्तिः सतश्चासत्त्वापत्तिः तथा
सति गर्भवासिन उत्तानशायिनश्च भेदप्रसङ्गः । तथा
बाल्ययौवनस्थाविरेष्वपि भेदप्रसङ्गः पित्रादिव्यवहार
लोपप्रसङ्गश्च । एतेन क्षणभङ्गवादः प्रतिवदितव्यः ।
यस्य पुनः प्रागुत्पत्तेरसत् कार्य्यं तस्य निर्व्विषयः कारक-
व्यापारः स्यात् अभावस्य विषयत्वानुपपत्तेः आकाशस्याह-
ननप्रयोजनखड़्गाद्यनेकायुधप्रसक्तिवत् । समवायिकारणे व्या-
पारःकारकव्यापारःस्यादितिचेन्न अन्यविषयेण कारकव्यापारे
णान्यनिष्पत्तेरतिप्रसङ्गात् । समवायिकारणस्यैवात्मातिशयः
कार्य्यमितिचेन्न अतस्तर्हि सत्कार्य्यापत्तिः । तस्मात् क्षीरा-
दीन्येव दध्यादिद्रव्यादिभावेनावतिष्ठमानानि कार्य्याख्यां
लभन्त इति न कारणादन्यत्कार्य्यं वर्षशतेनापि शक्यं
कल्पयितुम् । तथा च मूलकारणमेवान्त्यात्कार्य्यात् तेन तेन
कार्य्याकारेण नटवत् सर्व्वव्यवहारास्पदत्वं प्रतिपद्यते ।
एवं युक्तेः कार्य्यस्य प्रागुत्पत्तेः सत्त्वंमनन्यत्वञ्च कारणा-
दवगम्यते । शब्दान्तराच्चैतदवगम्यते । पूर्ब्बसूत्रे असद्व्यपदेशि-
नः शब्दस्योदाहृतत्वात्ततोन्यः सद्व्यपदेशी शब्द शब्दाचरः
“सदेव मौम्येदग्रआसीदेकमेवाद्वितीयमित्यादि । “तद्ध्येक
आहुरसदेवेदमग्रआसीदिति” चासत् पक्षमुपक्षिप्य “कथमसतः
सज्जायेत?” इत्याक्षिप्य “सदेवसोम्येदमग्रआसीत्” इत्यवधार-
यति । तत्रेदंशब्दवाच्यस्यकार्य्यस्य प्रागुत्पत्तेःसच्छब्दवाच्येन
कारणेन सामानाधिकरण्यस्य श्रूयमाणत्वात् सत्त्वानन्यत्वे
प्रसिद्ध्यतः यदि नु प्र । गुत्पत्तेरसत्कार्य्यं स्यात् पश्चाच्चोत्-
पद्यमानं कारणे समवेयात् तदन्यत्कारणात् स्यात् तत्र
“येना श्रुतं श्रुतं भवतीयं प्रतिज्ञा पीड्येत सत्त्वानन्यत्वावग-
तेस्त्वियं प्रतिज्ञा समर्थ्यते” भा० । “पटवच्च” शा० सू० ।
“यथा च संवेष्टितः पटो न व्यक्तं गृह्यते कि
मयं पटः किञ्चान्यद्द्रव्यमिति स एव प्रसारितो
यत् संवेष्टितं द्रव्यंस पट एवेति प्रसारणेनाभि-
व्यक्तो गृह्यते यथा च संवेष्टनसमये पट इति गृह्यमा-
णोऽपि न विशिष्टायामविस्तारोगृह्यते स एव प्रसारण-
समयेऽपि विशिष्टायामविस्तारो गृह्यते न संवेष्टितरूपा-
दयं भिन्नःपटः इति । एवं तन्त्वादिकारणावस्थं प्रटादि
पृष्ठ ०४३६
कार्य्यमस्पष्टं सत् तुरीवेमकुविन्दादिकारकव्यापाराभि-
व्यक्तं स्पष्टं गृह्यते । ततः संवेष्टितपटप्रसारि-
तपटन्यायेनानन्यत् कारणात् कार्य्यमित्यर्थः” भा० । सां० कौ०
कारणात् कार्य्यस्वानन्यता दर्शिता यथा “कार्य्यस्य
कारणाभेदसाधकानि च प्रमाणानि । न पटस्तन्तुम्योभि-
द्यते तद्धर्मत्वात् इह यद्यतोभिद्यते तत्तस्य धर्म्मो न
भवति यथा गौरश्वस्य । धर्मश्च पटस्तन्तूनां तस्मान्नार्थान्तरम् ।
उपादानोपादेयभावाच्च नार्थान्तरत्वम् । नाथयोरुपादानोपा-
देयभावः यथा घटपटयोः उपादानोपादेयभावश्च तन्तुप-
टयोः । तस्मान्नार्थान्तरत्वमिति । इतश्च नार्थान्तरत्वं तन्तु-
पटयोः संयोगाप्राप्ताभावात् । पदार्थान्तरत्वे हि संयोगो-
दृष्टो यथा कुण्डबदरयोः अप्राप्तिर्वा यथा हिमवद्वि-
न्ध्ययोः” नचेह संयोगाप्राप्ती तस्मान्नार्थान्तरत्वमिति ।
इतश्च पटस्तन्तुभ्यो न भिद्यते गुरुत्वान्तरकार्य्याग्रहणात् ।
इह यद्यस्माद्भिन्नं तस्मात्तस्य गुरुत्वान्तरकार्य्यं गृह्यते
यथैकपलिकस्य स्वस्तिकस्य यो गुरुत्वकार्य्योऽवनतिविशेषोऽ
धिकः न च तथा तन्तुगुरुत्वकार्य्यात् पटगुरुत्वस्य
कार्य्यान्तरं दृश्यते तस्मादभिन्नस्तन्तुभ्यः पटैति । तान्ये
तान्यवीतान्यभेदसाधनानि । तदेवमभेदे सिद्धे तन्तव-
एव तेन तेन संस्थानभेदेन परिणताः पटः, न तन्तु-
भ्योऽर्थान्तरं पटः । स्वात्मनि क्रियानिरोधबुद्धिव्यपदेशार्थ-
क्रियाक्रियाव्यवस्थाभेदाश्च नैकान्तिकं भेदं साधयितुमर्हन्ति-
एकस्मिन्नपि तत्तद्विशेषाविर्भावतिरोभावाभ्यामेतेषामविरो-
धात् । यथाहि कूर्मस्याङ्गानि कूर्मशरीरे निविशमानानि
तिरोभवन्ति निःसरन्ति चाविर्भवन्ति न तु कूर्मतस्तदङ्गान्यु-
त्पद्यन्ते प्रध्वंसन्ते वा एवमेकस्या मृदः सुवर्णस्य वा
घटमुकुटादयोविशेषा निःसरन्त आविर्भवन्त उत्पद्यन्त इत्युच्यन्ते
न पुनरसतामुत्पादः सतां वा निरोधः । यथाह भगवान्
कृष्णद्वैपायनः “नासतोविद्यते भावो नाभावो विद्यते सतः”
इति यया कूर्मः स्वावयवेभ्यः सङ्कोचिविकाशिभ्योन भिन्नः
एवं घटमुकुटादयोऽपि मृत्सुवर्णादिभ्यो न भिन्नाः ।
एवञ्चेत् तन्तषु पटैति व्यपदेशो यथेह वने तिलका इत्यु-
पपन्नः । न चार्थक्रियाभेदोऽपि भेदमापादयति एकस्यापि
नानार्थक्रियादर्शनात् यथैक एव वह्निर्दाहकः प्रकाशकः
पाचकश्चेति । नाप्यर्थक्रियाव्यवस्था वस्तुभेदे हेतुः तेषा-
मेव समस्तव्यस्तानामर्थक्रियाव्यवस्थादर्शनात् यथा प्रत्येकं
विष्टयो वर्त्मदर्शनलक्षणामर्थक्रियां कुर्व्वन्ति न तु शिवि-
कावहनं मिलितास्तु शिविकां वहन्ति एवं तन्तवः प्रत्येकं
प्रावरणमकुर्व्वाणा अपि मिलिताः आविर्भूतपटभावाः
प्रावरिष्यन्ति । स्यादेतत् आविर्भावः पटस्य कारण-
व्यापारात् प्राक् सन्नसन्वा असंश्चेत् प्राप्तं तर्ह्यसत
उत्पादनम् । अथ सनु कृतं तर्हि कारणव्यापारेण ।
न हि सति कार्य्ये कारणव्यापारप्रयोजनं पश्यामः ।
आविर्भावे चाविर्भावान्तरकल्पनेऽनवस्थाप्रसङ्गः । तस्मा-
दाविर्भूतपटभावास्तन्तवः क्रियन्ते इति रिक्तं तचः ।
अथासदुत्पद्यत इत्यत्रापि मते केयमसदुत्पत्तिः सती
असती वा, सती चेत् कृतं तर्हि कारणैः, असती चेत्तस्या
अप्युत्पत्त्यन्तरमित्यनवस्था । अथोत्पत्तिः पटान्ना-
र्थान्तरम् अपि तु पटएवासौ तथापि यावदुक्तं भवति
पटैति तावदुक्तं भवत्युत्पद्यतैति न वाच्यं पौनरुक्त्यात्
विनश्यतीत्यपि न वाच्यं उत्पत्तिविनाशयोर्युगपदेकत्र
विरोधात् । तस्मादियं पटोत्पत्तिः स्वकारणसमवायो वा
स्वकारणसत्तासमवायोवा उभयथापि नोत्पद्यते अथ च
तदर्थानि कारणानि व्यापार्य्यन्ते एवं सत एव पटादे-
राविर्भावाय कारणापेक्षेत्युपपन्नम् । न च पटरूपेण
कारणानां सम्बन्धः, तद्रूपस्याक्रियात्वात् क्रियासम्बन्धि-
त्वाच्च कारकाणाम् अन्यथा कारणत्वाभावात्” व्याख्या-
तञ्चैतदस्माभिस्तट्टीकायां यथा “तद्धर्मत्वात् तेषां
तन्तूनां धर्मत्वात् अवस्थाविशेषात्मकत्वात् स्वसत्त्वनियतसत्ता
कत्वाद्वा । तत्सत्त्वनियतसत्त्वाकत्वरूपहेतुमध्ये एव ऽन्वय-
व्याप्तेः प्रवेशात् व्यतिरेकव्याप्तिं दर्शयति यत् यतोभिद्यते
इत्यादि तथा च व्यापकस्य धर्मत्वाभावस्य निवृत्त्या व्याप्यस्य
भेदस्य निवृत्तेरभेदसिद्धिरिति भावः । पक्षे धर्भत्वरूप-
हेतुसत्त्वप्रदर्शनाय उपनयरूपन्यायाङ्गमाह धर्मश्चेत्यादि ।
धर्मत्वं च प्रागुक्तम् । निगमयति तस्मान्नार्थान्तरमिति ।
अन्योऽर्थः पदार्थः अर्थान्तरं मयूरव्यंसकादित्वात् समासे
क्लीवता । पटः तन्तुभ्यो न भिन्नः पदार्थः किन्तु अभिन्न
एवेत्यर्थः । उपादीयते कार्य्यजननाय विशेषरूपेण गृह्यते
इत्युपादानम् कार्य्यस्यानागतावस्थाविशेषाश्रयरूपं कारणं
तदाश्रितसूक्षमावस्थापन्नं कार्य्यन्तूपादेयं तद्भावात् कार्य्य-
कारणविशेषरूपत्वादित्यर्थः तथा च कार्य्य स्यानागतावस्था
श्रयत्वभेवोपादानंकारणत्वम्, तच्च अनागतावस्थापन्नकार्य्य-
रूपमेव अन्यस्य दुर्वचत्वात् अन्यथा सर्व एव सर्वकार्य्यजन-
नाय उपादीयेरन् न च तथा उपादीयन्ते । उपादीयन्ते च
पटादिजननाय तन्तवः न तु मृदादयः । न च प्रागभाव
एव तस्य नियामकः, तस्य अभावत्वेन स्वतोविशेषकत्वाभावात्
पृष्ठ ०४३७
प्रतियोग्युपरक्तस्य तस्य तथात्वकल्पनन्तु प्रतियोग्यसत्त्वकाले
ऽसम्भवात् उत्पत्तेः प्राक् प्रतियोगिनोऽसत्त्वेन तेन सह
प्रागभावस्य संबन्धस्यानौचित्यात् इत्यनागतावस्थापन्नका-
र्य्यात्मकत्वमुपादानस्य युक्तम् तस्मात् पटः न तन्तुभ्यो भिन्न
इत्युपेयमिति भावः । संयोगाप्राप्त्यमावादिति । संयोगश्च
अप्राप्तिः विभागश्च तयोरभावात् । तथाच संयोगाभावः
विमागाभावश्च पृथक् अभेदसाधकः यथा पटस्तन्तुप्यो न
भिठ्यते तत्संयोगानाश्रयत्वात् यद्यतो भिद्यते तयोः
संयोगोदृष्टः यथा घटपटयोः । न च गुणेषु व्यभिचारः
स्वमते तत्र तन्त्वभेदस्येष्टत्वात् द्रव्यत्वे सतीति हेतोर्विशेषणे
च व्यभिचाराभावाच्च । अप्राप्तिर्वेति विभागश्चेत्यर्थः तथा च
संयोगानाश्रयत्वस्येव विभागानश्रयत्वस्यापि अभेदसाधकत्व-
मिति भावः । गुरुत्वान्तरकार्य्याग्रहणादिति । अयमाश-
यः । अवयवतन्तुपरिमाणेनेव तद्गुरुत्वेन स्वापेक्षयाधिकं
महत्परिमाणमिव गुरुत्वम् जन्यते, गुरुत्वञ्च स्वपतन इव
स्वाश्रिततुलादण्डादेरवनतिविशेषे हेतुरिति नैयायिका-
दिभिरम्युपगम्यते । तत्र यदि पटस्तन्तुभ्योभिद्येत तदा
तदाश्रितगुरुत्वविशेषेण स्वाश्रिततुलादण्डादेरवनतिविशेषो
ऽत्र गृह्येत यथा एकपलिकस्वर्णापेक्षया द्विपलिक-
स्वर्ण्णस्य, तथा च पटस्तन्तुभ्यो न मिद्यते गुरुत्वा-
न्तरप्रयुक्तस्वाश्रिततुलादण्डाद्यवनतिविशेषग्रहणायोग्यत्वात्
गुरुत्वान्तरयुक्तस्वर्णादिवत् तुल्यगुरुत्वयुक्तपदार्थे व्यभिचार-
वारणाय ग्रहणायोग्यत्वादित्युक्तं तस्य च पृथक् तुला-
दण्डारोपणेऽवनत्यन्तरस्य ग्रहणसम्भवात् तन्तुपष्टयोश्च न
तथासम्भव इति अभिन्नत्वमित्यन्यत्र विस्तरः । तन्तुगुरुत्वस्य
कार्य्यं स्वाश्रिततुलादण्डादेरवनतिविशेषस्तस्मात् कार्य्या-
न्तरम् अवनत्यन्तरं न दृश्यते न गृह्यते इत्यर्थः ।
अवीतानि व्यतिरेकव्याप्तियुक्तानि यथा च तत्र तत्र व्यति-
रेकव्याप्तिस्तथानुपदं तत्रतत्र दर्शितं प्राक् । पटैति
बुद्धिविषयाः व्यपदेशभाजश्चेति शेषः । फलितमाह न
तन्तुभ्योऽर्थान्तरमिति । अभेदसाधकहेतोः सत्प्रतिपक्षित-
त्वमाशङ्कते स्वात्मनीत्यादि । क्रिया उत्पादनक्रिया,
निरोधः प्रध्वंसस्तयोर्बुद्धिः तथा च कार्य्यकारणयोरभेदे
कार्य्यस्य कारणात्मकत्वेन स्वतः स्वस्योत्पत्तिविनाशबुद्ध्य
सम्भव इत्यर्थः । व्यपदेशः व्यवहारः अर्थक्रिया प्रयोजनो-
त्पादनं क्रियाव्यवस्था प्रावरणादिकार्य्यनियमः तेषां भेदः
पश्चात्पुनर्द्वन्द्वः । तथा च कार्य्यकारणयोरभेदे तन्तुषु
पट इति कथं भेदव्यपदेशः? कथं वा प्रयोजनान्तरजन-
कता,? प्रयोजनान्तरनियमश्च स्यादित्यर्थः । इत्थञ्चात्र
प्रयोगः पटस्तन्तुभ्यो भिद्यते तत्कार्य्यत्वेन, तत्र नष्टत्वेन
वा प्रतीयमानत्वात्, तन्तुषु पट इति व्यपदेशप्रयोजक-
संज्ञाभेदात्, विभिन्नार्थसाधकत्वात्, कार्य्यभेदवत्त्वाच्च ।
इति पञ्चभिर्हेतुभिः सत्प्रतिपक्षितोऽभेदसाधकहेतुर्नाभेद-
साधनायालमित्याशङ्कार्थः । समाधत्ते नैकान्तिकमिति ।
ऐकान्तिकं वास्तवमित्यर्थः तथा च तत्र तत्रावास्तवएव
भेदव्यवहारो न वास्तवाभेदप्रतिद्वन्द्वीति मावः । एवञ्च
वुद्धिमात्रस्य, व्यवहारमात्रस्य वा वास्तविकत्वप्रयोजकत्वे
इदं रजतमितिबोधात् व्यवहाराच्च शुक्तिरजतस्यापि
वास्तवत्वापत्तिः । तथा अर्थक्रियाक्रियाव्यवस्थाभेदयोश्च न
भेदसाधकत्वम् एकस्यैव वह्न्यादेः प्रकाशनपाचनादिरूपना-
नाकार्य्याणां, विष्टीनां व्यस्तानां मार्गदर्शनादिकार्य्यस्य
समस्तानां तु शिविकावाहनादिविभिन्नकार्य्यस्य च सम्पा-
दनस्य दृष्टत्वात् तत्र तत्र हेतोर्व्यभिचारान्न तयोर्भेदसाधक-
तेति न सत्प्रतिक्षितत्वमभेदसाधकहेतोरिति भावः । तदेव
क्रमश उपपादयति एकस्मिन्नपीति । प्रध्वंसन्ते नश्यन्ति ।
कूर्म्मत इत्यनुषङ्गः अस्मिन् पक्षे च कूर्म्मे इत्यर्थः सार्व्व-
विभक्तिकः सप्तम्यास्तसिल् । यथाहेति भगवद्गीता-
यामितिशेषः । असतोऽसत्त्वाश्रयस्य, भावः सत्त्वम्, सतः
सत्त्वाश्रयस्य न अभावः असत्त्वम्, सदसतोरेकत्र समावेशा
भावादिति शेषः । आपादयति व्यतिरेकव्याप्त्या साधयति
तथा च प्रावरणादिक्रियाभेदः कारणभेदं विना
अनुपपन्न इति व्यापकः प्रावरणादिप्रयोजनभेदाभावः
निवर्त्तमानः व्याप्यं कारणभेदाभावं निवर्त्तयन् कार्य्यस्य
कारणाद्भेदम् साधयतीत्यर्थः । इति यन्मतं तदनूद्य
नञा दूषयित्वा तत्र हेतुप्रदर्शनाय व्यभिचारं दर्श-
यति एकस्यापीति तथा च कार्य्यभेदाभावः न
कारणभेदाभावव्यापकः एकस्मिन् वह्न्यादौ नानाकार्य्य-
दर्शनात् तथा च भेदसाधकहेतुर्व्यभिचारीति भावः ।
एवम् भेदसाधकहेतुषु दूषितेषु इदानीं आविर्भावादेः
सदसत्त्वे विकल्पेन दूषयितुं शङ्कते स्यादेतदित्यादि ।
कृतमित्यव्ययम् अलमर्थकं कारणव्यापारेणेतितृतीयान्ते-
नान्वयि तथा च कारणव्यापारसाध्यं नास्ति तस्य
स्वतएव सिद्धत्वादित्यर्थः । क्रियन्ते उत्पाद्यन्ते
पटरूपेण व्यवह्रियन्ते इत्यपि बोध्यम् । यद्धि
उभयवादिनोस्तुल्यदोषत्वं न तद्दूष्यमित्याशयेन प्रतिवन्दि-
रूपदूषणदानायाह अथासदुपद्यत इत्यादि । उत्पत्तिः
पृष्ठ ०४३८
आद्यक्षणसंबन्धः स च स्वरूपसंबन्धविशैषः न तु संयो-
गमात्रः गुणक्रिययोस्तदसम्भवात् तयोश्च उत्पत्ति-
व्यवहारस्य सर्व्वसिद्धत्वात् । प्रकृते स्वरूपसंबन्धविशेषश्च
अनुयोगिस्वरूपएव एवञ्च उत्पत्तिः पटरूप एव नार्था-
न्तरमिति पटस्य उत्पत्तेः प्राक् असत्त्वात् तत्र कारण-
व्यापारापेक्षा भविष्यतीति शङ्कते अथोत्पत्तिरित्यादि ।
दूषयति तथापीति । पटादिशब्देन पटत्वविशिष्टस्येव
उत्पत्तिमतोऽप्युक्तत्वात् उत्पद्यते इति न प्रयोक्तव्यम्
तद्वाच्यार्थस्योक्तत्वात् तदुक्तौ च पौनरुक्त्यात् घटो घट
इतिवत् न तत्र शाब्दबोध इति भावः । पटादिशब्दस्य
उत्पत्त्यर्थकत्वे दूषणान्तरमप्याह विनश्यतीत्यादि न वाच्यं
प्रयोक्तुं न शक्यम् अयोग्यत्वादिति शेषः । पटशब्देन
पटत्वविशिष्टस्येव उत्पत्तिमतोऽप्यभिधानात् उत्पत्तिमति
चैकदा विनाशप्रतियोगित्वासम्भवेनायोग्यत्वादित्यर्थः ।
अयोग्यत्वे हेतुमाह उत्पत्त्यादीति एकत्र एकस्मिन्
धर्म्मिणि युगपदेकदा विरोधात् सहानवस्थानात् । काला-
न्तरे भवितुमर्हतीति द्योतनाय युगपदिति । विनश्यतीति
वर्त्तमानताप्रतोतेर्न विभिन्नकालता तयोरिति भावः ।
एवमुत्पत्तेः पटस्वरूपत्वाभावासम्भवमुक्त्वा अन्यरूपतास्वीका-
रेऽपि उत्पत्तेरुत्पत्त्यसम्भव एवेत्याह तस्मादियं पटीत्-
पत्तिरित्यादि । स्वकारणसमवायः स्वस्य कारणेषु तन्तुषु
समवायः तत्संबन्धविशेषरूपा पटोत्पत्तिः । समवायस्य च
सर्वदा विद्यमानत्वात न तस्या उत्पत्तिः । समवायस्य
नित्यत्वात् पटस्य कादाचित्कोत्पत्तिः कथं स्यादित्यतः
पक्षान्तरमाह स्वसत्तासमवाय इति । स्वसत्तया स्वकारणे
विद्यमानतया यः कारणे समवायस्तथा च स्वसत्ता-
कालिकत्वविशिष्टसमवायस्य पूर्ब्बमसत्त्वान्न न कादा-
चित्कत्वव्याघात इति भावः । उभयथापि उत्पत्तेरुभय-
रूपमध्येऽन्यतरूपत्वेऽपीत्यर्थः न उत्पद्यते उत्पत्तिरिति
शेषः । सिद्धस्वरूपत्वेऽपि सर्वजनानुभवसिद्धायाः कारण-
व्यापारापेक्षाया अनौचित्यस्य उभयमतेऽपि तुल्यत्वात्
प्रतिवन्दिसमबधानमिति भावः । उत्पत्तेः कार्य्यस्य रूपेण
सम्बन्धरूपतां शङ्कते न चेति । पटरूपस्य तन्तुरूपजन्यत्वात्
तेन सह कारणानां संबन्धएव कार्य्यस्य उतपत्तिस्तथा
च तस्य जन्यत्वात् कारणव्यापारापेक्षेति न समानं
दूषणमिति भावः । दूषयति रूपस्येति । रूपस्य
भवन्मते गुणत्वेन क्रियारूपत्वाभावात् उत्पत्तेश्च क्रियारूप-
तायाः सर्वैरिष्यमाणत्वात् कारणानां च क्रियानुबन्धित्वे-
नैव कारकत्वाभ्युपगमात् । तन्तुभ्यः पटौत्पद्यते इत्यादिषु
च तन्त्वादीनामुत्पत्तिकारकत्वप्रतीतेश्च नोत्पत्तेः
पटरूपसंबन्धरूपतेति” भावः ।

अवयाज् पु० अव + यज--ण्वि । अपकृष्टयाजके संवुद्धौ अवयाः

अवयातृ त्रि० अव + या--तृच् । पृथक् कर्त्तरि । “अदितिर्भ-

वास्यवयाता हरस्य दैव्यस्य” ऋ० ८, ४८, २ । “अवयाता
पृथक्कर्त्ता” भा० ।

अवयान न० अव + या--ल्युंट् । अपगतौ “इयं धीर्भूया

अवयानमेषाम्” ऋ० १, १८५, ८, “एषां पापानामवया-
नमपगमम्” भा० ।

अवयुन त्रि० वयुनं प्रज्ञा निरु० न० ब० । प्रज्ञाशून्ये ।

“सैत्तमोऽवयुनम्” ऋ० ३, २१, ३,

अवर पूजयां कण्ड्वा० प० सक० सेट । अवर्य्यति पूजतयीत्यर्थः ।

अवर त्रि० वृ--षा० अप् न० त० । १ चरमे, २ अधमे,

३ कार्य्ये च । पश्चाद्वर्त्तिनि ५ देशे ६ काले पु० ७ दिशि स्त्री
८ तद्वर्त्तिनि त्रि० । हस्तिजङ्घायाः ९ पश्चाद्देशे न० । “दूरेण
ह्यवरं कर्म्मं बुद्धियोगाद्धनञ्जय” गी० अस्य व्यवस्थावाचित्वे
सर्व्वनामकार्य्यम् ङसिङ्येस्तु वा । “श्रद्धधानः परां
विद्यामाददीतावरादपि” मनुः अवरस्मादिति च । व्यवस्था च
देशकृता कालकृता वुद्धिकल्पिता च तत्र देशकृता
यदवरं कौशाम्ब्याः । कालकृता यदवरमाग्रहायण्याः ।
वुद्धिकल्पिता अवरादपीतिमानवे । मासेनावरः मासावरः
इत्यादौ समासे विग्रहवाक्ये च न सर्व्वनामकार्य्यं मासा-
वराय इत्यादि । च “इषुमात्रावरंस्थण्डिलमुपलिप्य” गृ०
सू० । ५ त० । अत्यन्तश्रेष्ठे त्रि० ।

अवरज पु० अवरस्मिन् काले जायते जन--ड । १ कनिष्ठसोदरे

भ्रातरि, २ शूद्रे च । मनुष्येषु प्रथमोत्पत्तौ तस्वजघन्यजत्वात्
तथात्वम् ३ कनिष्ठसोदरभगिन्यां, ४ शूद्रायाञ्च स्त्री टाप् ।
“अस्य चावरजं विद्धि भ्रातरं मां त लक्ष्मणम्” रामा०
“यदि स्त्री यद्यवरजः श्रेयःकिञ्चित् समाचरेत् “मनुः
“विदर्भराजावरजा तयैवम” । “रावणावरजा तत्र राघवं
मदनातुरा” इति च रघुः ५ पश्चाज्जातमात्रे त्रि० । आत्मभूर
वरजाखिलप्रजः स्वर्पतेरवरजत्वभाययौ” माघः ।

अवरत त्रि० अव + रम--क्त । विश्रान्ते अनवरतं सततम ।

अवरतस् अव्य० अवर + तसिल् । अवरः अवरस्मिन् अवरस्मा-

दित्यर्थे । अवरतः रमणीयम् आगतः, वसति वा ।

अवरति स्त्री अव + रम--क्तिन् । १ विरामे, २ निवृत्तौ च ।

अवरवर्ण पु० कर्म्म० । शूद्रे ।

पृष्ठ ०४३९

अवरवर्णज पु० अवरवर्ण्णः सन् जायते जन--ड । शूद्रे

“श्वा तु दृष्टिनिपातेन स्पर्शेनावरवर्ण्णजः” “ब्राह्मणान्
वाधमानन्तु कामादवरवर्ण्णजम्” इति च मनुः ।

अवरव्रत पु० अवरं अत्यन्तश्रेष्ठं व्रतमस्य । १ सूर्य्ये

२ अर्कवृक्षे च । अवरम् अघमं व्रतमस्य । ३ हीनब्रते त्रि० ।

अवरशैल पु० अवरः पश्चाद्वर्त्ती शैलः । अस्ताचले ।

अवरस्तात् अव्य० अवर + प्रथमाद्यर्थे अस्ताति । प्रथमा

प्रञ्चमीसप्तमीवृत्तेरवर्शब्दस्यार्थे । अवरस्तात् रमणीयम्,
आगतः वसति वा ।

अवरहस न० अवततं रहः अच् समा० । अवतते रहसि अत्यन्तनिर्जने ।

अवरार्द्ध न० कर्म्म० । अपरभागे “सकृत्कर्म्म पितॄणाम-

परार्द्धं देवानाम्” इति । “अपरार्द्धतश्च परार्द्धतश्च
परिगृह्य” शत० ब्रा० २ देहस्य पश्चाद्भागे च ।

अवरार्द्ध्य त्रि० अवरार्द्धे भवः यत् । शेषभागभवे । न

वरत्वेन अर्ध्यते ऋध--णिच्--कर्मणि यत् । न्यूने ।
“नावरार्द्ध्यं ततः कुर्य्यात् पूर्ण्णपात्रमिति स्थितिः” छन्दो०
परि० । “अवरार्द्ध्यं न्यूनम्” स० त० रघ० “दशगवावरार्द्ध्या
दक्षिणा” आ० गृ० ।

अवरीण त्रि० अव + रिङ--क्त । तिरस्कृते ।

अवरीयस् त्रि० न वरीयान् न० त० स्त्रियां ङीप् । अत्यन्ताल्पे ।

अवरुग्ण त्रि० अव + रुज--क्त । १ भुग्ने २ रोगान्विते च ।

अवरुद्ध त्रि० अव + रुध--क्त । १ प्रतिरुद्धे अन्यैरसंलक्षिते २ गुप्ते

च “अस्ति कश्चिद्राजसूनुरवरुद्धश्चरन्” दशकु० इतर
गमननिषेधेन रक्षितायां ३ स्त्रियां स्त्री । (राखनी) ।

अवरुद्धि स्त्री अव + रुध भावे क्तिन् । १ अवरोधने २ प्रतिरोधे

“इन्द्रियाणां वीर्य्याणाञ्चावरुद्धौ” श्रुतिः ।

अवरूढ़ त्रि० अव + रुह--क्त । १ कृतावरोहणे उच्चस्थानात्

निर्म्नगते । २ उत्पाटिते वृक्षादौ च ।

अवरोचक अवरोचयति रुचिहीनं करोति अव + रुच--णिच्--

ण्वुल् । अवरोचके रोगभेदे “स्नेहगन्धिमुखं तत्र
कामश्वासावरोचकः” सुश्रु० ।

अवरोध पु० अव + रुध--भावे घञ् । १ निरोधे “फेनाय-

मानं स्रोतोऽवरोधः” सुश्रु० बलादि० मदुप् वा ठनो
बाधक इनि अवरोधवान् अवरोधी अवरोधयुक्ते त्रि० ।
कर्म्मणि घञ् । राजान्तःपुरस्थायां २ योषिति, ३ राज
दारेषु च । “तत्र हूणावरोधानां भर्त्तषु व्यक्तविक्रमम् ।
“कलत्रवन्तमात्मनमवरोधे महत्यपि” रघुः आधारे घञ् ।
४ राजान्तःपुरे । “पश्यावरोधे शतशोमदीयै” इति रघुः ।
“निन्ये विनीतैरवरोधदर्क्षैः” कुमा० । “विस्रस्तवस्त्रमवरा-
धबधूःपपात” माघः । ल्युट् । अवरोधनं निरोधे न० ।

अवरोधक त्रि० अव + रुघ--ण्वुल् । १ प्रतिरोधके २ आवरके

च । “सुधन्वा वीर्य्यवान्नाजा मिथिलामवरोघकः” रामा०
आर्षत्वात् कर्म्मणि न षष्ठी ।

अवरोधायन न० ६ त० । अन्तःपुरे ।

अवरोधिक पु० अवरोधे तद्रक्षणादौ नियुक्तः ठन् । राजा-

न्तःपुररक्षणार्थं नियुक्ते १ वामनादौ । अवरोधः स्थानं
निवासत्वेनास्त्यस्य ठन् । “नृपान्तःपुरस्थायां स्त्रियां स्त्री ।
“ययुस्तुरङ्गाधिरुहोऽवरोधिका” माघः ।

अवरोधिन् त्रि० अवरुणद्धि अव + रुघ--णिनि स्त्रियां ङीप् ।

१ रोधके २ आवरके च ।

अवरोपण न० अव + रुह--णिच्--पः ल्युट् । उत्पाटने ।

अवरोपित त्रि० अव + रुह--णिच् पः क्त । उत्पाटिते ।

अवरोह पु० अव + रुह--घञ् । १ अवतरणे, (नामा) ऊर्द्ध्व-

देशान्निम्नदेशगमने । कर्त्तरि संज्ञायां घ । तरोर्मूला-
दग्रपर्य्यन्तमारूढ़ायां २ गुडूच्यादिलतायाम् । ३ अपादाने
घञ् । चन्द्रादिलोके स्वर्गे, तत्रो हि भोगावसाने
सर्ब्बेऽवतरन्ति । तत्र देहिनां चन्द्रलोकादवरोह-
प्रकारस्तावदुक्तः शा० सूत्रे तद्भाष्ये च यथा “कृतात्यये-
ऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवञ्च” शा० सू० ।
“इष्टादिकारिणां धूमादिवर्त्मना चन्द्रमण्डलमारूढ़ानां
ततः प्रत्यवरोह आम्नायते “तस्मिन् यावत्सम्पातमुषित्वा-
ऽथैतमेवाध्वानं पुनर्निवर्त्तन्ते यथेत” मित्यारभ्य यावत्
“रमणीयचरणाब्राह्मणादियोनिभावमापद्यन्तेकपूयचरणाः श्वा-
दियोनिमिति” । तत्रेदं विचार्य्यते किं निरनुशया भुक्तकृत्स्न
कर्म्माणोऽवरोहन्ति? आहोस्वित् सानुशयाः? इति । किं तावत्
प्राप्तं निरनुशया इति । कुतः? यावत्सम्पातमितिविशेष-
णात् । सम्पातशब्देनात्र कर्म्माशय उच्यते सम्पतत्यनेना-
स्माल्लोकादमुं लोकं फलभोगायेति । यावत्सम्पातमुषि-
त्वेति च कृत्स्नस्य तस्य तत्रैव भुक्ततां दर्शयति । “तेषां यदा
तत्पर्य्यवैतोति” च श्रुत्यन्तरेणैष एवाथेः प्रदर्श्यते । स्यादे-
तत् यावदमुष्मिंल्लोक उपभोक्तव्यं कर्म्म तावदुपभुङ्क इति
कल्पयिष्यामीति नैवं कल्पयितुं शक्यते यत् किञ्चेत्यन्यत्व
परामर्शात् । “प्राप्यान्तं कर्म्मणस्तस्य यत् किञ्चेह करोत्य-
यम् । तस्माल्लोकात् पुनरत्यस्मै लोकाय कर्म्मणे” इति
ह्यपरा श्रुतिर्यत्किञ्चेत्यविशेषपरामर्शेन कृत्स्नस्यैवेह कृतस्य
कर्म्मणस्तत्र क्षयितां दर्शयति । अपि च प्रायणमनारब्ध-
पृष्ठ ०४४०
फलस्य कर्म्मणोऽभिव्यञ्जकंप्राक् प्रायणादारब्धफलेन कर्म्मणा
प्रतिबद्वस्य अभिव्यक्त्यनुपपत्तेः । तच्चाविशेषेण यद्यावत्
किञ्चिदनारब्धफलं तस्य सर्व्वस्याभिव्यञ्जकं न हि साधा-
रणे निमित्ते नैमित्तिकमसाधारणं भवितुमर्हति नह्य
विशिष्टे प्रदीपसन्निधौ घटोऽभिव्यज्यते, न पटैत्युपपद्यते ।
तस्मान्निरनुशया अवरोहन्तीत्येवं प्राप्ते ब्रूमः “कृतात्यये
अनुशयवानिति” । येन कर्म्मवृन्देन चन्द्रमसमारूढ़ाः
फलोपभोगाय तस्मिन्नुपभोगेन क्षयिते तेषां यदम्मयं शरीरं
चन्द्रमस्युपभोगायारब्धं तदुपभोगक्षयदर्शनशोकाग्निसंप-
र्कात् प्रलीयते सवितृकिरणसंपर्काद्धिमकरकाइंव हुतभ्यु-
गर्च्चिःसंपर्कादिव च घृतकाठिन्यम् । ततः कृतात्यये
कृतस्येष्टादेः कर्म्मणः फलोपभोगेनोपक्षयेसति सानुशया एवेममव
रोहन्ति । केन हेतुना? दृष्टस्मृतिभ्यामित्याह । तथाहि
प्रत्यक्षा श्रुतिः सानुशयानामवररोहं दर्शयति “तद्य
इह रमणीयवरणा अभ्यासो ह यत्ते रमणीयां योनिमा-
षद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं
वा अथ य इह कपूयचरणा अभ्यासो हयत्ते कपूयां योनि-
मापद्येरन् श्वयोनिं वा शूकरयोनिं वा चाण्डालयोनिं
वेति” । चरणशब्देनानेनानुशयः सूच्यत इति वर्ण्णयिष्यति ।
दृष्टश्चायं जन्मनैव प्रतिप्राण्युच्चावचरूपौपभोगः प्रविभज्य-
मानः आकस्मिकत्वासम्भवात् अनुशयसद्भावं सूचयति
अभ्युदयप्रत्यवाययोः सुकृतदुःकृतयोः हेतुत्वस्य सामान्यतः
शास्त्रेणावगमितत्वात् । स्मृतिरपि वर्ण्णा आश्रमाश्च
स्वकर्म्मनिष्ठाः प्रेत्य कम्म फलमनुभूय ततः शेषेण विशिष्टदेश-
जातिकुलरूपायुःश्रुतवृत्तवित्तसुखमेधायै जन्म प्रतिपद्यन्त
इति सानुशयानामेवावरोह दर्शयति । कः पुनरनुशयी
नामेति केचित्तावदाहुः स्वर्गार्थस्य कर्म्मणो भुक्तफलस्याव-
शेषः कश्चिदनुशयो नाम भाण्डानुसारिस्नेहवत् यथाहि
स्नेहभाण्डं विरिच्यमानं न सर्व्वात्मना विरिच्यते भाण्डानु-
सार्य्येव कश्चित् स्नेहशेषोऽवति ते तथानुशयोऽपीति ।
ननुकार्य्यविरोधित्वाददृष्टस्य न भुक्तफलस्यावशेषेणाव-
स्थानं न्थाप्यम् । नायं दोषः न हि सर्व्वात्मना
भुक्तफलत्वं कर्म्मणः प्रतीजानीमहे । ननु निरवशेष-
कर्म्मफलभोगाय चन्द्रमण्डलमारूढः । वाढ़ं तथापि
स्वल्पकर्म्मावशेषमात्रेण तत्रावस्थातुं न शक्यते यथा
किल कश्चित् सेवकः सकलैः सेवोपकरणैः राजकुल-
मुपसप्तः चिरप्रवासात् परिक्षीणबहूपकरणः छत्रपादु-
कादिमात्रावशेषो न राजकुलेऽवस्थातुं शक्नोति, एव-
मनुशयलेशमात्रपरिग्रहो न चन्द्रमण्डलेऽवस्थातुं शक्नो-
तीति । न चैतद्युक्तमिव न हि स्वर्गार्थस्य कर्म्मणो
भुक्तफलस्यावशेषानुवृत्तिरुपपद्यते कार्य्यविरोधित्वादित्युक्तम् ।
नन्वेतदप्युक्तं न स्वर्गफलस्य कर्मणोनिखिलस्य भुक्तफलत्वं
भविष्यतीति । तदेतदपेशलं स्वगांर्थं किल कर्म स्वर्गस्थस्यैव
स्वर्गफलं निखिलं जनयति स्वर्गच्युतस्यापि कञ्चित् फललेशं
जनयतीति” न शब्दप्रमाणकानामीदृशी कल्पनावकल्पते ।
स्नेहभाण्डे तु स्नेहलेशानुवृत्तिर्दृष्टत्वादुपपद्यते । तथा
सेवकस्योपकरणलेशानुवृत्तिर्दृश्यते न त्विह तथा स्वर्ग-
फलस्य कर्म्मणोलेशानुवृत्तिर्दृश्यते नापि कल्पयितुं
शक्यते स्वर्गफलत्वशास्त्रषिरोधात् । अवश्यञ्चैतदेवं विज्ञेयं
न स्वर्गफलस्येष्टादेः कर्मणो भाण्डानुसारिस्नेहवदेक-
देशोऽनुवर्त्तमानोऽनुशय इति यदि हि येन सुकृतेन कर्म-
णेष्टादिना स्वर्गमन्वभूवन् तस्यैव कश्चिदेकदेशोऽनुशयः
कल्प्येत ततो रमणीयएवैकोऽनुशयः स्यान्न विपरीतः ।
तत्रेयमनुशयविभागश्रुतिरुपरुध्येत “तद्य इह रमणीय-
चरणाः अथ य इह कपूयचरणा इति” । तस्मादामुद्मिक
फले कर्मजाते उपभुक्तेऽवशिष्टमैहिकफलं कर्मान्तरजात
मनुशयः तद्वन्तोऽवरोहन्ति । यदप्युक्तं यत्किञ्चित्यवि-
शेषेण परामर्शात् सर्वस्येहकृतस्य कर्मणः फलोपभोगेनान्तं
प्राप्य निरनुशया अवरोहन्तीति । नैतदेवम् अनुशयसद्भा-
वस्यावगमितत्वात् । यत्किश्चिदिहकृतमामुष्मिकफलं कर्मा-
रब्धभोगं तत् सर्वं फलोपभोगेन क्षपयित्वेति गम्यते ।
यदप्युक्तं प्रायणमविशिष्टत्वादनारब्धफलं कृत्स्नमेव कर्माभि
व्यनक्ति तत्र केनचित् कर्मणामुष्मिल्ल्ॐके फलमारभ्यते
केनचिदस्मिन्नित्ययं विभागो न सम्भवतीति । तदप्यनु-
शयसद्भावप्रतिपादनेनैव प्रत्युक्तम् । अपि च केन
हेतुना प्रायणमनारब्धफलस्य कर्मणोऽभिव्यञ्जकं “प्रतिज्ञायत
इति वक्तव्यम् आरब्धफलेन कर्म्मणा प्रतिबद्धस्येतरस्य
वृत्त्युद्भवानुपपत्तेस्तष्टुपशमात् प्रायणकाले वृत्त्युद्भवो
भवतीति यद्युच्येत” ततोवक्तव्यं यथैव हि प्राक्प्रायणादारब्ध-
फलेन कर्म्मणा प्रतिबद्धस्येतरस्य वृत्त्युद्भवानुपपत्तिरेवं
प्रायणकालेऽपि विरुद्धफलस्यानेकस्य कर्म्मणः युगपत्फला-
रम्भामम्भावाद्वलवता प्रतिवृद्धस्य दुर्बलस्य वृत्त्युद्भवानुपप-
त्तिरिति । नह्यनारब्ध्वफलत्वसामान्ये जात्यन्तरोपभोग्य
फलमप्यनेककर्म्मैकस्मिन् प्रायणे युगपदभिव्यक्तं सदेकां जाति-
मारभतैति शक्यं वक्तु प्रतिनियतफलत्वविरोधात् । नापि-
कस्यचित् कर्म्मणः प्रायणे अभिव्यक्तिः कस्यचिदुच्छेद इति
पृष्ठ ०४४१
शक्यं वक्तुम् ऐकान्तिकफलत्वविरोधात् । नहि प्राय-
श्चित्तादिभिर्हेतुभिर्विना कर्म्मणोऽनुच्छेदः सम्भाव्यते ।
स्मृतिरपि विरुद्धफलेन कर्म्मणा प्रतिबद्धस्य कर्मान्तरस्य-
चिरमप्यवस्थानं दर्शयति । “कदाचित् सुकृतं कर्म्म
कूटस्थमिह तिष्ठति । पच्यमानस्य संसारे यावद्दुःखाद्विमु-
च्यते” इत्येवंजातीयका । यदि च कृत्स्नमनारब्धफलं
कर्म्मैकस्मिन् प्रायणेऽभिव्यक्तं सदेकां जातिमारभेत ततः
सर्गनरकतिर्य्यग्योनिष्वधिकारानवगमात् धर्म्माधर्म्मानुत्-
पत्तौ निमित्ताभावान्नोत्तरा जातिरुपपद्येत ब्रह्महत्या-
दीनां चैकैकस्य कर्म्मणोऽनेकजन्मनिमित्तत्वं स्मर्य्यमाण-
मुपरुध्येत । नच धम्माधर्म्मयोः स्वस्वरूपफलसाधनतादि
समधिगमे शास्त्रादतिरिक्तं कारणं शक्यं सम्भावयितुम् ।
नच दृष्टफलस्य कर्म्मणः कारीर्य्यादेः प्रयाणमभिव्यञ्जकं
सम्भवतीत्यव्यापिकापीयं प्रायणस्याभिव्यञ्जकत्वकल्पना ।
प्रदीपोपन्यासोऽपि कर्म्मबलाबलप्रदर्शनेनैव प्रतिनीतः ।
स्थूलसूक्ष्मरूपाभिव्यक्तिवच्चेदं द्रष्टव्यं यथा हि प्रदीपः
समानेऽपि सन्निधाने स्थूलरूपमभिव्यनक्ति न सूक्ष्मम्, एवं
प्रायणं समानेऽप्यनारब्धफलस्यकर्म्मजातस्य प्राप्तावसरत्वे
बलवतः कर्म्मणोवृत्तिमुद्भावयति न दुर्बलस्येति ।
तस्मात् श्रुतिस्मृतिन्यायविरोधादश्लिष्टोयमशेषकर्म्माभिव्यक्ते-
रभ्युपगमः । शेषकर्म्मसद्भावेऽनिर्मोक्ष प्रसङ्ग इत्ययमप्य
स्थाने संभ्रमः सम्यग्दर्शनादशेषकर्मक्षयश्रुतेः । तस्मात्
स्थितमेतदनुशयवन्तोऽवरोहन्तीति । ते चावरहन्तो यथेत-
मनेवञ्चावरोहन्तीति । यथेतमिति यथागतमित्यर्थः ।
अनेवमिति तद्विपर्य्ययणेत्यर्थः । धूमाकाशयीः पितृयाने-
ऽध्वन्युपात्तयोरवरोहे सङ्कीर्त्तनात् यथेतंशब्दाच्च यथागत-
मिति प्रतीयते । रात्र्याद्यसंकीर्त्तनादभ्रादिसंख्यानाच्च
विपर्प्ययोऽपि प्रतीयते” भा० । अनतिदूरे च तत्रैव
“स्वाभाव्यापत्तिरुपपत्तेः” शा० सू० । “इष्टादिकारिण-
श्चन्द्रमसमारुह्य तस्मिन् यावत्संम्पातमुषित्वा ततः सानु-
शया अवरोहन्तीत्युक्तम् अथावरोहप्रकारः परीक्ष्यते
तत्रेयमवरोहश्रुतिर्भवति “अथैतमेवाध्वानं पुनर्निवर्त्तन्ते
यथेतमाकाशमाशाद्वायुं वायुर्भूत्वा धूमोभवति धूमोभूत्वा
ऽभ्रं भवति अभ्रं भूत्वा प्रवर्षतीति” । तत्र संशयः किमा-
काशादिस्वरूपमेवावरोहन्तः? प्रतिपद्यन्तेकिं वाऽकाशादि-
साम्यमिति? तत्र प्राप्तन्तावदाकाशादिस्वरूपमेव प्रतिपद्यन्ते
इति कुतः? एवं हि श्रुतिर्भवति इतरथा लक्षणा स्यात्
श्रुतिलक्षणाविषये च श्रुतिर्न्याय्या न लक्षणा, तथा च वायु-
र्भूत्वा धूमो भवतीत्येवमादीन्यक्षराणि तत् स्वरूपोपपत्तावेव-
कल्पन्ते तस्मादाकाशादिस्वरूपप्रतिपत्तिरित्येवं प्राप्ते ब्रूमः
आकाशादिसाम्यं प्रतिपद्यन्त इति । चन्द्रमण्डले यदन्मयं
शरीरमुपभीगार्थमारब्धं तदुपभोगक्षये सति प्रलीयमानं
सूक्ष्ममाकाशसमं भवति ततोवायोर्वशमेति ततो धूमा-
दिभिः संसृज्यत इति तदेतदुच्यते यथेतमाकाशाद्वायुमित्या-
दिना । कुतः एतत्? उपपत्तेः एवं ह्युपपद्यते । नह्य-
न्यस्यान्यभावोमुख्य उपपद्यते । आकाशस्वरूपप्रतिपत्तौ
च वाष्वादिक्रमेणावरोहोनोपपद्यते । विभुत्वाच्चाकाशे-
न नित्यसंबन्धान्न तत्सादृश्यापत्तेरन्यस्तत्संबन्धो घटेत ।
श्रुत्यसम्भवे च लक्षणाश्रयणं न्याय्यमेव अत आकाशादि-
तुल्यत्वापत्तिरेवात्राकाशादि भाव इत्युपचर्य्यते” भा० । नाति-
चिरेण विशेषात्” शा० सू० “तत्राकाशादिप्रतिपत्तौ प्राग्-
व्रीह्यादिप्रतिपत्तेर्भवति विशयः किं दीर्घं कालं पूर्ब्ब-
पूर्ब्बसादृश्येनावस्थायोत्तरोत्तरसादृश्यंगच्छन्ति? उताल्पमल्प-
मिति? । तत्रानियमः, नियमकारिणः शास्त्रस्याभावादित्येवं
प्राप्ते इदमाह नातिचिरेणेति । अल्पमल्पकालमाकाशादि
भावेनावस्थाय वर्षधाराभिः सहेमां भुवमापतन्ति । कुत
एतत्? विशेषदर्शनात् । तथा हि व्रीह्यादिभावापत्तेरनन्तरं
विशिनष्टि “अतो वै खलु दुर्न्निष्प्रपतरमिति” । तकार एकः
छान्दस्यां प्रक्रियायां लुप्तोमन्तव्यः दुर्निप्रपततरं दुर्निः
क्रमतरं दुःर्खतरमस्माद्व्रीह्यादिभावान्निःसरणम्भवती-
त्यर्थः । तदत्र दुःखनिःप्रपतनं प्रदर्शयन् पूर्व्वेषु सुख
निःप्रपतनं दर्शयति । सुखदुःखताविशेषश्चायं
निःप्रपतनस्य कालाल्पत्वदीर्घत्वनिमित्तः तस्मिन्नवधौ
शरीरानिष्पत्तेरुपतापासम्भवात् । तस्माद्व्रीह्यादिभावा-
पत्तेः प्रागल्पेनैव कालेनावरोहः स्यादिति” भा० । “अन्या-
धिष्ठिते पूर्व्ववदभिलापात्” सू० “तस्मिन्नेवावरोहे प्रवर्ष-
णानन्तरं पठ्यते “इह व्रीहियवाओषधिवनस्पतयस्तिलमाषा
जायन्त” इति । तत्र संशयः किमस्मिन्नवधौ स्थावरजात्या-
पन्नाः स्थावरसुखदुःखभाजोऽनुशयिनी भवन्ति? आहोस्वित्
क्षेत्नज्ञान्तराधिष्ठितेषु संश्लेषमात्रंगच्छन्तीति? किं तावत्
प्राप्तं स्थावरजात्यापन्नास्तत्सुखदुःखभाजोऽनुशयिनो भव
न्तीति । कुतः एतत्? जनेर्मुख्यार्थत्वोपपत्तेः स्थावर-
भावस्य च श्रुतिस्मृत्योरुपभोगस्थानत्वप्रसिद्धेः पशुहिंसादि
योगाच्चेष्टादेः कर्मजातस्यानिष्टफलत्वोपपत्तेः । तस्मान्-
मुख्यमेवेदमनुशयिनां व्रीह्यादिजन्म श्वादि जन्मवत् ।
यथा श्वयोनिं वा शूकरयोतिं वा चाण्डालयोनिं वेति
पृष्ठ ०४४२
मुख्यमेवानु शयिनां श्वादिजन्म सुखदुःखान्वित म्भवति
एवं व्रीह्यादिजन्मापीत्येवं प्राप्ते ब्रूमः । अन्यैर्जी वैरधि-
ष्ठितेषु ब्रीह्यादिषु संसर्गमात्रमनुशयिनः प्रतिपद्यन्ते न
तत्मुखदुःखभाजो भवन्ति पूर्ब्धवत् । यथा वायुधूमादिभावोऽ-
नुशयिनान्तत्संप्लेषमात्नमेवं व्रीह्यादिभावोऽपि स्थावरैः
संश्लेषमात्रम् । कुत एतत्? तद्वदेवेहास्याभिलापात्
कोऽभिलापस्यतद्वद्भावः! कर्तव्यापारमन्तरेण संकीर्त्तनं यथाऽ-
काशादिषु न कञ्चित् कर्मव्यापारं परामृशति एवं
व्रीह्यादिजन्मन्यपि । तस्मान्नास्त्यत्र सुखभाक्त्वमनुशयिनाम्
यत्र तु सुखदुःखभाक्त्वमभिप्रति, परामृशति तत्र कर्मव्या-
पारं “रमणीय चरणाः कपूयचरणा” इति च । अपि च
मुख्येऽनुशयिनां व्रीह्यादिजन्मनि व्रीह्यादिषु लूयमानेषु
भज्यमानेषु पच्यमानेषु भक्ष्यमाणेषु च तदभिमानि-
नोऽनुशयिनः प्रवसेयुः यो हि जीवोयच्छरीरमभि-
मन्यते स तस्मिन् पीड्यमाने प्रवसतीति प्रसिद्धम् ।
तत्र व्रीह्यादिभावाद्रेतःसिग्भावोऽनुशयिनां नाभिलप्येत,
अतः संसर्गमात्रमनुशयिनामन्याघिष्ठितेषु ब्रीह्यादिषु
भवति । एतेन जनेर्मुख्यार्थत्वं प्रतिब्रूयात् उपभोगस्थान
त्वञ्च स्थावरभावस्य । न च वयमुपभोगस्थानत्वं स्थावरभा-
वस्यावजानीमहे । भवत्वन्येषां जन्तूनामपुण्यसामर्थ्येन
स्थावरभावमुपगतानामेतदुपभोगस्थानं, चन्द्रमसं त्ववरो-
हन्तोऽनुशयिनो न स्थावरभावमुपभुञ्जत इत्याचक्ष्महे” भा० ।
“अशुद्धमिति चेन्न शब्दात्” सू० । “यत् पुनरुक्तं
पशुहिंसादियोगादशुद्धमाध्वरिकं कर्म तस्यानिष्टमपि
फलमवकल्पत इत्यतो मुख्यमेवानुशयिनो व्रीह्यादिजन्मास्तु
तत्र गौणी कल्पनाऽनर्थिकेति तत् । परिह्रियते ।
न शास्त्रहेतुत्वाद्धर्माधर्मविज्ञानस्य अयं धर्मः अयमधर्म
इति शास्त्रमेव विज्ञाने कारणम् अतीन्द्रियत्वात्तयोर-
नियतदेशकालनिमित्तत्वाच्च । यस्मिन्देशे काले निमित्ते
च योधर्मोऽनुष्ठीयते स एव देशकालनिमित्तान्तरेषु
अघर्मो भवति तेन न शास्त्रादृते धर्मावर्मविषयंज्ञानं
कस्यचिदस्ति । शास्त्राच्च हिंसानुग्रहाद्यात्मकोज्योतिष्टो-
मोधर्म्म इत्यवधारितं स कथमशुद्ध इति शक्यते वक्तुम् ।
ननु “मा हिंस्यात् सर्व्वाभूतानीति” शास्त्रमेव भूतविषयां
हिंसामधर्म इत्यवगमयति” । वाढं उत्सर्गस्तु सः ।
अपवादः “अग्नीषोमीयं पशुमालभेतेति” उत्सर्गापवादयोश्च
व्यवस्थितविषयत्वम् तस्माद्विशुद्धं वैदिकं कर्म शिष्टैरनु-
ष्ठीयमानत्वादनिन्द्यमानत्वाच्च । तेन न तस्य प्रतिरूपं
फलं जातिस्थावरत्वम् । नच श्वादिजन्मवदपि ब्रीह्यादि-
जन्म भवितुमर्हति तद्धि कपूयचरणानधिकृत्योच्यते नैवमिह
वैशेषिकः कश्चिदधिकारोऽस्ति । अतश्चन्द्रस्थलात् स्खलिता-
नामनुशयिनां व्रीह्यादिसंश्लेषमात्रं तद्भाव इत्युपचर्य्यते”
भा० “रेतःसिग्योगोऽथ” सू० । “इतश्च व्रीह्यादि
संश्लेषमात्रं तद्भावः यत्कारणं ब्रीह्यादिभावस्या-
नन्तरमनुशयिनां रेतःसिगभाव आम्नायते । “योयोह्य-
न्नमत्ति योरेतः सिञ्चति तद्भूय एव भवतीति” । न चात्र
मुख्योरेतःसिग्भावः सम्भवति चिरजातो हि प्राप्तयौवनो-
रेतःसिग्भवतीति कथमिवानुपचरिततद्भावमद्यमानान्नानु-
गतोऽनुशयी प्रतिपद्येत तत्रावश्यं रेतःसिग्योग एव
रेतःसिग्भावोऽभ्युपगन्तव्यः । तद्वद्व्रीह्यादिभावोऽपि
व्रीह्यादियोग एवेत्यविरोधः” भा० ॥ “योनेःशरीरम्”
सू० ॥ “अथ रेतःसिग्भावस्यानन्तरं योनौ सिक्ते रेतसि
योनेरधिशरीरमनुशयिनामनुशयफलोपभोगायतनम् इत्या
ह शास्त्रम् “तद्य इह रमणोयचरणा” इत्यादि ।
तस्मादप्यवगम्यते नावरोहे ब्रीह्यादिभावावसरे तच्छरीरमेव
सुखदुःखान्वितं मवतीति । तस्माद्व्रीह्यादिसंश्लेषमात्र-
मनुशयिनां तज्जन्मेति सिद्धम्” भा० । संज्ञायां कर्त्तरि घञ्
“वटादितरोः शाखातो मूलावघि अवतारकेऽंशभेदे च ।
“अवरोहगताकीर्ण्णं वटमासाद्य तस्थतुः” रामा० ।
ज्योतिषोक्ते दशाभेदे स्त्री अवरोहिशब्दे उदा० ।

अवरोहण न० अव + रुह मावे ल्युट् । अवतरणे (नामा)

“एवमारोहणावरोहणमतः” । कात्या० १८ । ३ । ९ ।

अवरोहशाखिन् पु० अवरोहति छिन्नोऽपि पुनः प्ररोहति

अव + रुह--अच् कर्म्म०, अवरोहति अधोगच्छति मूलमस्याः
तादृर्शा शाखा कर्म्म० ततः बाहुल्पे मत्वर्थीय इनिर्वा ।
वटवृक्षे, तस्यछेदनेऽपि पुनः प्ररोहः तस्य च शाखातोऽपि
बहूनि मूलान्यवतरन्तीति तस्य तथात्वम् । ब० । अवरो-
हिशाखोऽप्यत्र ।

अवरोहिका स्त्री अवरोहति अत्यन्तमधोगच्छति अव +

रुहण्वुल् टाप् कापि अतैत्त्वम् । अश्वगन्धालतायाम् ।

अवरोहित पु० अवरोरोहितो वर्ण्णः । अल्परक्तवर्ण्णे मध्वा-

दि० अचोबाधकः मतुप् । अवरोहितवान् अल्परक्तवर्ण्णयुक्ते
त्रि० स्त्रियां ङीप् ।

अवरोहिन् त्रि० अव + रुह--णिनि । १ वटवृक्ष । २ अवतरण-

कर्त्तृमात्रे त्रि० स्त्रियां ङीप् । सा च ज्योतिषोक्ते ३ दशाभेदे
तथा हि दशाशब्देवक्ष्यमाणस्य “आचं कुराजीशबुकेशुपूर्वा”
पृष्ठ ०४४३
इत्यादिक्रमस्यानुसारेण जन्मनक्षत्रावधितत्तदशाधिपानामनु-
क्रमेण या दशा सा आरोहिणी तेषु चन्द्रादिपर्य्यन्तानां क्रमेण
यथासम्भवं तेषामेव भोगेन पुनरवरोहेण सूर्य्यादीनां या
दशा सावरोहिणी । तथाहि “आग्नेयादि त्रिरावृत्त्या तानि
विंशोत्तरीयके” इत्युक्तदिशा जन्मनक्षत्रानुसारेण दशाधिषे
आनीते तदुत्तरं तदुत्तरोत्तरपठितानां ग्रहाणां दशा ।
तत्र यस्य सूर्य्यदशायां जन्म तस्य आरोहिण्येव दशा यस्य
तु चन्द्रादिदशायां जन्म तस्य तदुत्तरारोहक्रसेण कुजादि-
दशा आरोहिणी एवं शुक्रान्तदशाः परिसमाप्य सूर्य्या-
दीनां या दशा सैव अवरोहिणीति व्यपदिश्यते
इति सम्प्रदायविदः । अन्ये तु स्वस्वभोग्य कालस्यार्द्धे प्रथममा
रोहिणी दशा शेषार्द्धे अवरोहिणीत्याहुः । साच ग्रहविशेषे
विशेषफलदा । यथोक्तम् “उच्चाङ्गपञ्चभस्थस्य दशा स्याद-
वरोहिणी । तस्यामल्पमवाप्नोति फलं क्लेशाच्छुभं नरः ।
मित्रोच्चांशगतस्यैषा नूनं मध्यफला भवेत् । सैवानिष्ट-
फलानर्था नीचार्य्यंशगतस्य च । नीचाङ्गपञ्चभस्थस्य
दशावरोहिणी मता । तस्यां शुभफलं श्रेष्ठमक्लेशादेव
जायते । शत्रुनीचांशगस्यैषा किञ्चित्कष्टफलाऽधमा ।
मित्रोच्चांशगतस्यास्य सैव सम्पूर्णदा मता” । इति सामा-
न्यतोऽभिधाय” “दशाऽवरोहा दिननायकस्य कृषिक्रिया-
वित्तगृहेष्टनाशम् । चौराग्निपीड़ां कलहं विरोधं नरेश-
कोपं कुरुते विदेशम्” सू० । “निशाकरस्याप्यवरोहकाले
स्त्रीपुत्रमित्राम्बरसौख्यहानिम् । मनोविकारं स्वजनैर्विरोधं
चौराग्निभूतैर्लयमेति कष्टम्” । च० “धरासुतस्यावप्यरीहकाले
स्थानार्थनाशं कलिकोपदुःखम् । विदेशवासं स्वजनैर्विरोधं
चौराग्निभूपैः सततं करोति” । म० । “शशाङ्कसूनोस्त्ववरोहिणी
या दशा महत् कष्टतरं तु दत्ते । विज्ञानहीनं पदरारसङ्गं
नृपाग्निचौरेर्भयमत्र कष्टम्” । बु० । “देवेन्द्रपूज्यस्य दशाऽ-
वरोहा करोति सौख्यं सकृदेव नाशम् । सकृद्यशःकान्ति-
विशेषजालं नरेश्वरत्वं सकृदेव याति” । वृ० । “भृगोः
सुतस्याप्यवरोहकाले प्रचण्डवेश्यागमनं धनाप्तिम् । स्त्रीपुत्त्र-
बन्ध्वार्त्तिमनोविकारम् भ्रूमूलरोगं मदनार्त्तिमेति” शु० ।
“दिनेशसूनोस्त्ववरोहकाले राज्यच्युतिं दारसुतार्थनाशम् ।
भाग्यक्षयं भूपतिकोपयुक्तं प्रेष्यत्वमायाति गुदाक्षिरोगम्”
सर्वार्थचि० राहुकेत्वोस्त्वारोहावरोहयोर्विशेषो नास्ति

अवर्ग पु० अकारसजातीयस्वराणां वर्गः अकार + प्रातिशा

ख्योक्तः वर्ग वा १ स्वरवर्ण्णमात्रे, “अकचटतपयशाः वर्गा”
इतिकेरलम् । वर्गः समूहः न० ब० । २ वर्गशून्ये त्रि० ।

अवर्ण पु० अकारैकस्थानिको वर्णः शा० त० । ह्रस्वदीर्घप्लुतो-

दात्तानुदात्तस्वरितानुनासिकाननुनासिकभेदेन अष्टादश-
संज्ञकेषु (अ)वर्ण्णेषु” “ऐत्यष्टादशाना संज्ञा” सि० कौ० ।
वर्ण्यतेऽनेन वर्ण्णः प्रशंसा विरोधे न० त० । प्रशंसाविरो-
धिनि २ अपवादे । “सोढुं न तत्पूर्व्वमवर्ण्णमीशे “न
चावदद्भर्त्तुरवर्ण्ण मार्य्या” इति च रघुः ।

अवर्त्तन न० वृत--ल्युट् अभावे न० त० । १ वर्त्तनाभावे

२ अस्थितौ । वर्त्ततेऽनेन करणे ल्युट् वर्त्तनं जीविका
न० ब० । ३ जीविकाशून्ये त्रि० ।

अवर्त्तमान त्रि० न० त० । १ अस्थिते २ भूते ३ भविष्यति च पदार्थे ।

अवर्द्धमान त्रि० न वर्द्धमानः विरोधे न० त० । वृद्धिशून्ये

क्षयिष्णौ ।

अवर्षण न० अभावे न० त० । १ वर्षणाभावे न० ब० । २ वर्षणशून्ये त्रि० ।

अवलक्ष पु० अवलक्ष्यते अव + लक्ष--घञ् । १ श्वेतवर्णे अर्श०

आद्यच् । २ तद्वति त्रि० । अतोलोपे वलक्षोप्युभयत्र ।

अवलग्न पु० अव + लग--क्त नि० इडभावः लस्ज--क्त वा ।

(माजा) १ देहमध्यभागे । २ सम्बद्धमात्रे त्रि० । “विपुल-
तरोन्मुखलोचनावलग्नम्” माघः ।

अवलत्तिका स्त्री अव + लत--तिकन् । गोधायाम् उज्व० ।

अवलम्ब पु० अव + लबि--आधारे घञ् । १ आश्रये । भावे घञ् ।

२ द्रव्यान्तराश्रयणे । “साबलम्बगमना मृदुस्वना” रघुः ।
करणे घञ् । २ अवलम्बसाधने दण्डादौ ।

अवलम्बन न० अव + लबि--भावे ल्युट् । आलम्बने पतना-

दिनिवारणाय द्रव्यान्तराश्रयणे “अवलम्बनाय दिनभर्तुरभून्न
पतिष्यतः करसहस्रमपि” माघः । “सहिष्यते तत्प्रथमावल-
म्बनम्” कुमा० । “प्रस्थानविक्लवगतेरवलम्बनाय” शकु० ।
आधारे ल्युट् । २ आश्रये । करणे ल्युट् । आलम्ब-
साधने ३ दण्डादौ ।

अवलम्बित त्रि० अव + लबि--कर्मणि क्त । १ आश्रिते २

आलम्बिते “अबलम्बितकर्णशष्कुलीकलसीकं रचयन्नवोचत”-
नैषध० । ३ शीघ्रे न० ४ तद्वति त्रि० जटा० । अव + लम्ब--
कर्त्तरि क्त । ५ अवतीर्णे ।

अवलम्बिन् त्रि० अव + लबि--णिनि । १ आलम्बनकर्त्तरि “यस्या

भवानपरधूर्य्यपदावलम्बी” रघुः “स गोपतिं नन्दिभुजालम्बी”
कुमा० “अथ धूमाभिताम्राक्षं वृक्षशाखावलम्बिनम्” रघुः ।
२ अवतारके उच्चस्थानात् अधःपातिनि । “भगवति
मरीचिमालिनि अस्ताचलचूड़ावलम्बिनि” काद० ।

अवलिप्त त्रि० अव + लिप--क्त । १ गर्विते “न मूर्खैर्नावलिप्तैश्च

नान्त्यैर्नान्त्यावसायिभिः” मनुः । २ कृतलेपने ३ समन्तात् लिप्तेच
पृष्ठ ०४४४

अवलीढ त्रि० अव + लिह--क्त । १ भक्षिते २ कृतावलेहे ३ जिह्वा-

ग्रेणास्वादिते ४ व्याप्ते च “अस्त्रज्वालावलीढप्रतिवलजल-
धेरन्तरौर्वायमाणः” वेणी० । “पतत्त्रिणावलीढञ्च शुना
संस्पृष्टमेव च” मनुः ।

अवलीला स्त्री अवरा लीला । १ अनायासे २ अनादरे च ।

अवलुञ्चन न० अव + लुन्च--ल्युट् । १ छेदने २ उत्पाटने

३ केशादेरबन्धने ४ अपनयने “दूराद्रुजो ब्रणौष्ठस्य
सन्निकृष्टेऽवलुञ्चनम्” च । सुश्रु० ।

अवलुञ्चित त्रि० अव + लुन्च + क्त । उत्पाटिते अपनीते अकृतबन्धने च ।

अवलुण्ठन न० अव + लुठि--भावे ल्युट् । भूमौ पतित्वा

परिवर्तने (लोटा) ।

अवलेख पु० अव + लिख भेदने भावे घञ् । अवभेदने “वंशा

बलेखसंयुक्ते मूत्रे चाजाविके भिषक्” सुश्रु० ।

अवलेप पु० अव + लिप् भावे घञ् । १ गर्व्वे “प्रियसङ्गमेष्वन-

वलेपमदा” माघः बलाबलेपादधुनापि पूर्ववत्” माघः ।
“ऐरावतमदावलेपलूनापारिजातशाखा” काद० । २ लेपने
३ भूषणे ४ सम्बन्धे च ।

अवलेपन न० अव + लिप--भावे ल्युट् । १ विलेपे, २ म्रक्षणे,

३ सम्बन्धे ४ गर्वे च । करणे ल्युट् । ५ चन्दनादौ ।

अवलेह पु० अव + लिह--घञ् । १ जिह्वाग्रेणास्वादने । कर्म्मणि

घञ् । २ तदास्वाद्ये औषधादौ च । “अतोऽवलेहान्वक्ष्यामः
खदिरासननिम्बराजवृक्षशालसारक्वाथे तत्सारपिण्डान्
श्लक्ष्णपिष्टान् प्रक्षिप्य विपचेत् ततो नातिद्रवं नातिसान्द्र
मवतार्य्य तस्य पाणितलपूर्णमप्रातराशोमधुमिश्रं लिह्या
देवं सालसारादौ न्यग्रोधारग्वधादौ च लेहान्धारयेत्”
इति सुश्रु० ।

अवलेह्य त्रि० अव + लिह--कर्मणि ण्यत् । जिह्वाग्रेण आस्याद्ये मधुप्रभृतौ द्रव्ये ।

अवलोक पु० अव + लुक--लोक--वा घञ् । दर्शने चाक्षुषज्ञापे

“जृम्भाङ्गभङ्गनयनमीलनाङ्गावलोककृत्” सा० द० ।

अवलोकन न० अव + लुक--लोक--वा ल्युट् । १ दर्शने, २

अनुसन्धाने च । “न बभुवुरवलोकनक्षमाः” रघुः । करणे
ल्युट् । ३ आलोके, ४ नेत्रे च । योगनिद्रान्तविषदैः
पावनैरवलोकनैः” रघुः ।

अवलोकित त्रि० अव + लोक--अर्म्मणि क्त । १ दृष्टे । भावे क्त ।

२ दर्शने न० । ततोऽस्त्यर्थेऽच् ३ बुद्धभेदे पु० ।

अवलोकिन् त्रि० अव + लुक--लोक वा णिनि स्त्रियां ङीप् ।

वीक्षके दर्शके “तव प्रियं यच्चतुरालोकिणः” कुमा० ।

अवलोप पु० अव + लुप--घञ् । १ खण्डने २ नाशने ३ विलोपने

“यदधयदधरावलोपनृत्यत्” माघः ।

अवलोम पु० अवनद्धं लोम आनुकूल्यम् प्रा० त० अच् समा० । अनुकूले ।

अवल्गुज पु० अवल्गोरशोभनाज्जायते जन--ड । १ सोमराजी-

लतायाम् । (हाकुच) २ असाधुजाते त्रि० ।

अववर्षण न० अव + वृष--भावे ल्युट् । कृत्स्नवर्षणे । “स्वप्न

नदीतरणाववर्षणामेध्यदर्शनप्रयाणेषु तु सकृत्कालद्रव्यै-
कार्थत्वात्” कात्या० १ । ७ । १३ । “तथा नदीं वृष्टिञ्च
कृत्स्नामेवाभिसन्धाय मन्त्रं प्रयुङ्क्ते न चावान्तरनिद्रां
नाप्येकं स्रोतः, नाप्येकां वर्षधाराम् तस्मात् सकृत्प्रयोगः
तत्र नदीसन्तरणे स्रोतसां भेदेऽपि नदीद्रव्यैकत्वात्
सकृन्मन्त्रः अववर्षणे कालैकत्वादेव” कर्कः ।

अववाद पु० अव + वद--घञ् । १ निन्दायाम्, २ विश्वासे,

३ अवज्ञायाम्, ४ अवलम्बने च ।

अवश त्रि० नास्तिवशमायत्तत्वं यस्य । १ अस्वाधीने, २ कामादि-

परवशे, ३ पराधीने च । “जग्ध्वाह्यविधिना मांसं
प्रेत्य तैरद्यतेऽवशः” मनुः । कार्य्यतेऽह्यवशः कर्म्म सर्वः
प्रकृतिजैर्गुणैः” “कार्य्यतेऽह्यवशोऽपि सन्” इति च गीता ।

अवशस् त्रि० अव + शन्स--क्विप् । अववादे अवशंसने

“अवशसा निःशसा यत् परागसो पारिम जाग्रतो यत्स्व
पन्तः” अथ० ६ । ४५ । २ ।

अवशातन न० अव + शद--णिच्--तङ् ल्युट् । १ नाशने २ शीर्णता

करणे । “मांसानामवशातनं श्वयथुर्दंशकोथ” इति सुश्रुतः

अवशिरस् त्रि० अवनतं शिरोऽस्य प्रा० ब० । अवाङ्मस्तके ।

अवशिष्ट त्रि० अव + शिष--क्त । १ अतिरिक्ते, २ परिशिष्टे,

३ अधिके च । “सुराकामद्यूतकृतं दण्डशुल्कावशिष्टकम्”
या० स्मृ० “वाजिभ्योवाजिनमिति श्रुतौ वाजिनं आमि
क्षाववशिष्टं जलमिति रघु० ।

अवशीभूत त्रि० न वशीभूतः । अनायत्ते । अवशीकृतोऽप्यत्र ।

अवशीर्ष(क) त्रि० अवनतं शीर्षं यस्य वा कप् । १ अवाङ्मस्तके ।

अवाक्शीर्वाख्ये सुश्रुतोक्ते २ शय्यादोषभेदे पु० “अवाक्
शीर्षे दीर्घन्युब्जोत्तानसङ्कुचितदेहस्थिततादक्षिणपार्श्वशा
यिनः प्रदानमिति सप्त शय्यादोषा” इति । ३ नेत्ररोगभेदे
नेन्नव्यापदोऽभिधाय “अतिपीड़ितवद्दोषान् विधिं चाप्यव-
शीर्षके” इति सुश्रुतः ।

अवशेष पु० न० अव + शिष--भावे घञ् । १ कृतपदार्थस्य शेषे

२ समाप्तौ च “तोयावशैषेण हिमाभमभ्रम्” भट्टिः कर्मणि
घञ् । अवशिष्टे ।
पृष्ठ ०४४५

अवशोष पु० अव + शुष--भावे घञ् । अत्यन्तशोषे ।

अवश्य त्रि० न वश्यः । अनायत्ते १ अनधीने २ दुर्दान्ते ।

अवश्यकरण न० अवश्यं करणं योगविभागात् मलोपः ।

नियतकरणे अकरणान्निवृत्तौ “अवश्यकरणञ्चाकरणान्नि-
वृत्तिः” प्रा० त० रघु० ।

अवश्यपुत्र पु० अवश्यः पुत्रः । शासितुमशक्ये अवशीभूते पुत्रे ।

तस्य भावः मनोज्ञा० वुञ् । आवश्यपुत्रकम् तद्भावे न० ।

अवश्यम् अव्य० अव + श्यै--डमु । १ निश्चये २ अशक्यनिवारणै च ।

“अवश्यं याति तिर्य्यक्त्वं जग्धा चैवाहुतं हविः” मनुः
“अवश्यम्भाविन्यर्थे वै सन्तापो नेह विद्यते” भा० शा० प० ।
“लुम्पेदवश्यमःकृत्ये तुम्काममनसोरपि” इत्युक्तेः कृत्यान्ते
मलोपः अवश्यपाच्यम् । “अवश्यभव्येष्वनवग्रहग्रहा”
नैष० अवश्यम् भवः ठञ् अव्ययस्यटिलोपः आवश्यकः ।
अवश्यम्भवे त्रि० । “एतेष्वावश्यकस्त्वसौ” भाषा० ।

अवश्या स्त्री अव + श्यै--क । १ कुज्झटिकायाम् २ अनायत्तायां

स्त्रियाञ्च ।

अवश्याय पु० अव + श्यै--ण । १ कुज्झटिकायाम्, “अवश्याय-

कणास्रावाश्चारुमुक्ताफलत्विषः” भट्टिः । २ अभिमाने च ।
पृ० ह्रस्वः अवश्ययोऽपि कुज्झटिकायाम् ।

अवश्रयण न० अव + श्रि--ल्युट् । चूल्लीतोऽवतार्य्य स्थापने ।

“अधिश्रयणावश्रयणान्तादिपूर्व्वापरीभूतः व्यापारकलापः
पाकादिशब्दवाच्यः” सा० द० ।

अवष्टब्ध त्रि० अव + स्तन्भ--क्त षत्वम् । १ आसन्ने, २ आक्रान्ते,

३ अवलम्बिते, “अवष्टब्धा यष्टिः” सि० कौ० ४ प्रतिरुद्धे च ।

अवष्टभ्य अव्य० अव + स्तम्भ ल्यप् षत्वम् । अवलम्ब्येत्यर्थे ।

अवष्टम्भ पु० अव + स्तम्भ--घञ् षत्वम् । १ प्रारम्भे २ अनम्रतायाम्

३ आलम्बने । “अवष्टम्भकरं वापि भयघ्नं दण्डधारणम्” ।
सुश्रु० कर्म्मणि घञ् । ३ स्तम्भे, “रघोरष्टम्भमयेन पत्रिणा”
रघुः “न पर्य्याप्तकावष्टम्भपादप्रसारणानि गुरुसन्निधौ
कुर्य्यात्” सुश्रुतः ४ सुवर्ण्णे च भावे ल्युट् । अवष्टम्भ-
नम् । प्रारम्भे आलम्बने च न० ।

अवष्वाण पु० अव + स्वन--घञ् षत्वम् । भोजने शब्दे अवस्वान इत्येव ।

अवस् अव्य० अवर + प्रथमायाः पञ्चम्याः सप्तम्या वाऽर्थे असि

अवादेशः । १ अवरशब्दार्थे २ पश्चादर्थे च । अवोरमणीयम्,
आगतः, वसति वा । अव--भावे असिच् । २ रक्षणे न० । कर्म्मणि
असिच् । २ यशसि ३ अन्ने ४ धने च न० । “मित्रस्य चर्षणी
धृतोऽवो देवस्य” य० ११, ६, २ “अवोरक्षणं द्युम्नं यशोऽन्नं
वा” वेददी० गमने च “आवां रथोनियुत्वान् वक्षदवसे”
ऋ० १, १३५, ४, “अवसे रक्षणाय गमनाय वा” भा० ।

अवस पु० अव + असच् । १ नृपे २ सूर्य्ये सि० कौ० ३ अर्कवृक्षे

४ पाथेयभेदे च “एतत्ते रुद्रावसं तेन” य० ३, ६१ “अवस
शब्देन देशान्तरं गच्छतो मार्गमध्ये तटागादिसमीपे
भोक्तव्य ओदनविशेष उच्यते” वेददी० ।

अवसक्त त्रि० अव + सन्ज--क्त । १ संलग्ने । “अनुजानुमध्यमवस-

क्तेति” किरा० । भावे क्त । २ संसर्गे न० ।

अवसक्थिका स्त्री अवबद्धे सक्थिनी यथा कप् । १ पर्य्यङ्कबन्धे

“शयानःप्रौढापादश्च कृत्वा चैवावसकिथकाम्” मनुः “अहिना
अवसक्थिकाबन्धहेतुभूतेन” किरा० १२, २२, टी० मल्लि० ।

अवसण्डीन न० अव + सम् + डी--क्त । विहगाधःपतनरूपे गतिभेदे ।

अवसथ पु० अव + सो--कथन् । १ निलये, २ ग्रामे च ।

अवस्यति शास्त्रमत्र अव + सो कथन् । ३ छात्रनिलये मठे हेम० ।

अवसथ्य पु० अवसथ + खार्थे यत् । अवसथशब्दार्थे ।

अवसन्न त्रि० अव + सद--कर्त्तरि क्त । १ विषादप्राप्ते २ विनाशो-

न्मुखे “अवसन्नतापमतमिस्रमभात्” माघः । ३ स्वकार्य्याक्षमे च

अवसर पु० अव + सृ--अच् । १ प्रस्तावे, जिज्ञासानिवृत्तयेऽवश्य

वक्तव्ये २ सङ्गतिभेदे सङ्कतयश्च तच्छशब्दे वक्ष्यन्ते ४ वत्सरे,
मन्त्रभेदे, ५ वर्षणे, क्रियास्थितियोग्यतासम्पादकरूपे
६ कालिकेऽवकाशे च । “शशंस सेवावसरं सुरेभ्यः” कुमा०
“अन्योन्यदर्शनप्राप्तोविक्रमावमरं चिरात्” रघुः “अवसर-
मधिगम्य तं हरन्त्यः” माघः ।

अवसरालय पु० अवसराय आलयो यत्र । अर्द्धरात्रे तत्र हि

काले सर्ब्बेः आलयएव स्थीयते इति तस्य तथात्वम् ।

अवसर्पिन् त्रि० अव + सृप--णिनि । अधोगन्तरि स्त्रियां ङीप् ।

अवसर्ग पु० अव + मृज--घञ् । १ अप्रतिबन्धे यथेष्टं क्रियता-

मिति २ कामचारानुज्ञायां “अण्ववसर्गः कामचारानुज्ञा”
सि० कौ० । २ स्वतन्त्रतायाञ्च ।

अवसर्प पु० अवसर्पति प्रभुनिदेशात् परम् । अव + सृप--अच् । चरे ।

अवसर्पिन् त्रि० अव + सृप--णिनि । अधोगन्तरि स्त्रियां

ङीप् । सा च वौद्धानां कल्पकाले हेम० सच दशकोटि-
कोटिसागरवर्षमितः ।

अवसाद पु० अव + सद--घञ् । १ नाशे, २ विषादे, ३ स्वकार्य्याक्षमत्व

रूपावसन्नतायाञ्च । “विपदेति तावदवसादकरी” किरा०
“वैद्यासनावसादो वा रोगी वा स्यादधोमुखः “स्वरावसादो
षुर्घुरक” इति च सुश्रुतः ।

अवसादक त्रि० अवसादयति अव + सद--णिच्--ण्वुल् ।

१ अवसन्नताकारके २ खेदकारके । “एष शोकः परित्यक्तः
सर्वकार्य्यावसादकः” रामा० । ३ कार्य्याक्षमतासम्पादके च ।
पृष्ठ ०४४६

अवसादन न० अव + सद णिच्--भावे ल्युट् । १ विनाशने

२ कार्य्याक्षमतासम्पादने सुश्रुतोक्ते ३ व्रणचिकित्साभेदे च
“अपतर्पणमालेप” इत्युपक्रम्य “व्रणधूर्पनमुत्सादनमवसा
दनम्” इत्यादिना षष्टिरुपक्रमा दर्शिताः “उत्सन्नमृदुमां-
सानां व्रणानामवसादनम्” इति च तत्र दर्शितम् ।

अवसान न० अव + सो--ल्युट् । १ विरामे, २ समाप्तौ, ३ सीमायां,

४ समापने ५ मृत्यौ च । “न योषिद्भ्यः पृथग्दद्यादवसान
दिनादृते” उ० त० स्मृतिः । “विरामोऽवसानम्” पा०
“होमावसाने कृततूर्य्यनादः” हेमा० दा० स्व० पुरा० ।
“दोहावसाने पुनरेव दोग्ध्रीम्” “तच्छिष्याध्ययननिवे-
दितावसानाम्” । “दिनावसानोत्सुकबालवत्साम्” इति
च रघुः “व्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः
सदा” मनुः । “दिवावसानच्छायेव” शकु० अवस्यति स्थाप्य-
तेऽस्मिन् “आघारे ल्युट् । ६ स्थाने । “अदाद्यमोऽवसानं
पृथिव्याः य० १२, ४५, “अवसानं स्थानमिति” वेददी० ।

अवसाम न० अवरं साम अच् समा० । अधमसामनि

अरण्यादौ अन्त्यकर्म्मणि च गेये सामनि ।

अवसाय पु० अव + सो--घञ् । १ समाप्तौ, २ शेषे, ३ निश्चये च ।

ल्यप् । ४ समाप्येत्यर्थे ५ निश्चित्येत्यर्थे च अव्य० ।

अवसायक त्रि० अव + सो--ण्वुल् । १ निश्चयकारके २ समापके च ।

अवसिक्त त्रि० अव + सिच--क्त । १ कृतसेके २ आप्लुते ३ स्नाते च

अवसित त्रि० अव + सो--क्त । १ समाप्ते, “वचस्यवसिते तस्मिन्

ससर्ज गिरमात्मभूः” कुमा० । “अवसितं हसितं प्रसितं मुदा”
भट्टिः । २ ऋद्धे, ३ ज्ञाते, ४ परिपक्वे ५ निश्चिते, च ६ मर्द्दि-
तधान्येन० । अव + सि--क्त । ७ संबद्धे त्रि० ।

अवसृष्ट त्रि० अव + सृज--क्त । १ दत्ते २ त्यक्ते ३ निःसृते च ।

अवसे अव्य० अव--तुमर्थे असेन् । रक्षितुमित्यर्थे । “आयात्वि-

न्द्रोऽवस उय” य० २०, ४७ ।

अवसेक पु० अव + सिच--भावे घञ् । समन्तात्सेचने । “अवसेको

भवेद्वस्तेस्तस्मात् दोषान् विवर्ज्जयेदिति सुश्रुतोक्ते नेत्र-
वस्तिरोगभेदे च ।

अवसेकिम पु० असेकेन निर्वृत्तः अवसेक + इमन् । वटकभेदे ।

अवसेचन न० अव + सिच + ल्युट् । समन्तात्सेचने

शोणिताधोनिस्सारणे “शोणितावसेचनोपाया जलौकसः
सुश्रु० रोगभेदे च तिक्तकाद्रुमपत्राणां कार्य्यः क्वाथोऽव-
सेचने” सुश्रु० ।

अवसेय त्रि० अव + सो--कर्म्मणि यत् । १ निर्ण्णेये २ समाप्ये च

अवस्कन्द पु० अव + स्कन्द--आधारे घञ् । जिगीषूणां सैन्य

निवेशस्थाने १ शिविरे । भावे घञ् । २ अवतरणे, ३ आक्रमणे च

अवस्कन्दन न० अव + स्कन्द--ल्युट् । १ सर्व्वाङ्गेणावगाहने,

२ अवतरणे, ३ आक्रमणे च ।

अवस्कर पु० अव + कॄ--अप् सुट् । विष्ठादिमले । “वर्चस्केऽव-

स्करः” पा० “कुत्सितं वर्चः वर्चस्कमन्नमलस्” सि० कौ ।
मलमात्रे च । “गृहद्वाराशुचिस्थानरथ्यावस्करशोधनम्”
मिता० ना० स्मृ० । अस्मिंन् पक्षे च पृ० सुट् इति भेदः
१ अपादाने अप् । २ गुह्यदेशे उपस्थादौ । अवस्करे
जातः वुन् । अवस्करकः अवस्करभवे त्रि० ।

अवस्कव त्रि० अव + स्कु--अच् । हिंसके “अवस्कवं व्यधवरं

कृमीन् अथ० २, ३१, ४ ।

अवस्तरण न० अव + स्तृ--भावे ल्युट् । १ विस्तारे ।

“अवनयनावस्तरणे चावटवत्” कात्या० ५, ५, १४ ।

अवस्तात् अव्य० अवरस्मिन् अवरस्सात् अवरमित्यर्थे अस्ता-

ति अवादेशः । अवरकालादौ । अवस्तात् रमणीयम्,
आगतः, वसति वा । “अवस्तात् स्वर्गलोकं प्रापयन्तः” शत० ब्रा०

अवस्तार पु० अव + स्तृ--कर्म्मणि घञ् । (परदा) इति ख्यातायां

१ जवनिकायाम्, २ आस्तरणे च ।

अवस्तु न० कुत्सितार्थे न० त० । अपकृष्टे पदार्थे “अवस्तु-

निर्बन्धपरे! कथं नु ते” कुमा० ।

अवस्था स्त्री अव + स्था--अङ् । १ कालकृतायां देहादेर्दशायाम्

२ अवस्थाने च । अवस्था च कालकृतः भावविकारभेदः
“जायतेऽस्ति वर्द्धते विपरिणमतेऽपक्षीयते नश्यतीति”
यास्कोक्तः षड्विधः । शास्त्रकारैस्तद्भेदोविषयभेदादन्यो
दर्शितः । यथा “यथासंख्यमवस्थाभिराभिर्योगात्तु पञ्चभिः”
अविद्याऽस्मितारागङ्केषाभिनिवेशाभिप्रायेण पोगशास्त्रे
पञ्चावस्था दर्शिताः । सांख्यमते कार्य्याणां कारणात्मकतया
सूक्ष्मरूपेण कारणे स्थितत्वात् उत्पत्तेः प्राक् याऽवस्था
प्रागभावस्थानीया सा अनागतावस्था, ततःकारकव्यापारेण
व्यक्ता अभिव्यक्त्यवास्था ततः ध्वंसस्थानीया कारणलयरूपा-
तिरोमावावस्था इत्येवं त्रिविधा । वेदान्तिमते जाग्रत् स्वप्न-
सुषुप्तिरूपा जीवस्यावस्था मोक्षावस्था चेति चतस्रोऽवस्था
इत्थञ्च शा० सू० “मुग्धेऽर्द्धसम्पत्तिः” इत्यनेन नुग्धावस्थायाः
सुषुप्तावेवान्तर्भावो दर्शितः” “कौमारं पञ्चमाब्दान्तं
पौगण्डं दशमावधि । कैशोरमापञ्चदशात् यौवनं तु ततः
परम् । आ षोड़शाद्भवेद्बालस्तरुणस्तत उच्यते । वृद्धस्तु सप्त-
तेरुर्द्ध्वं वर्षीयान् नवतेः परम्” इति च स्मृत्युक्ता अवस्था अष्टौ
पृष्ठ ०४४७
आपञ्चदशपर्य्यन्तं बाल्यम् आ त्रिंशर्द्धर्षं कौमारम् ।
आ पञ्चाशद्वर्षं यौवनम् ततऊर्द्ध्वं वृद्धत्वसिति वेद्यकोक्ताश्चतस्रो-
ऽवस्थाः । जीवमात्रस्य कौमारयौवनवार्द्धकरूपा अप्य-
वस्थास्तिस्रः एवमन्येषामपि वस्तूनां तत्तत्क्षणभेदेनावस्था-
भेदा उन्नेयाः । सर्व्वेषां पदार्थानां कालादिकृतपरिणामा-
न्तरत्वेऽवस्थेत्युच्यते यथा नायकयोः “श्रवणाद्दर्श-
नाद्वापि मिथः संरूढ़रागयोः । दशाविशेषोयोऽप्राप्तौ-
पूर्ब्बरागः स उच्यते” इत्युपक्रम्य “अभिलाषश्चिन्ता
स्मृतिगुणकथनोद्वेगसंलापाश्च । उन्मादोऽथ व्याधिर्जड़ता
मृतिरिति दशा कामदशाः” सा० द० उक्ता कामदशा
दशविधाः । मल्लिनाथेन तु “दृङ्मनः सङ्गसङ्कल्पौ जागरः
कृशताऽरतिः । ह्रीत्यागोन्मादमूर्च्छान्ता इत्यनङ्गदशा दश”
इत्यन्यविधा दश दशा उक्ताः । एवं दैन्यावस्था--कारुण्यावस्था-
शीकावस्था--मदावस्थादयीपि । “रसावस्थः परंभावः स्थायितां
प्रतिपद्यते” “भवेदभिनयोऽवस्थानुकारः स चतुर्विधः”
इति च सा० द० । “अन्तर्मदावस्थैव द्विपेन्द्रः” रघुः ।
“अपवित्रः पवित्रो वा सर्व्वावस्थाङ्गतोऽपि” वा पुरा०
“तस्मात् सर्व्वास्ववस्थासु मान्याः पूज्याश्च पार्थिवाः” रामा०
३ आकारे च । “कुम्भकर्ण्णः कपीन्द्रेण तुल्यावस्थः स्वसुः
कृतः” रघुः ।

अवस्थापन न० अव + स्था--णिच्--पुक् ल्युट् । १ निवेशने २ स्थापने च ।

अवस्थापित त्रि० अव + स्था--णिच्--कर्म्मणि क्त । १ निषेशिते

२ स्थापिते च ।

अवस्थाप्य त्रि० अव + स्था--णिच्--पुक् यत् । निवेशनीये ल्यप् । स्थापयित्वेत्यर्थे अव्य० ।

अवस्थायिन् त्रि० अव + स्था--णिनि स्त्रियां ङीप् ।

अवस्थितियुक्ते ।

अवस्थित त्रि० अव + स्था--क्त । १ वर्त्तमाने २ स्थिते “अन्यानपि

प्रकुर्ध्वीत शुचीन् प्रज्ञानवस्थितान्” “आधिश्चोपनिधिश्चैव”
इत्युपक्रमे “दीर्घकालमवस्थितौ” इति च मनुः ।

अवस्थिति स्त्री अव + स्था--क्तिन् । अवस्थाने ।

अवस्यन्दन न० अव + स्यन्द--ल्युट् । क्षरणे गहा० छ ।

अवस्यन्दनीयः तद्भवादौ त्रि० ।

अवस्यु त्रि० अवोरक्षणम् इच्छति--क्यच्--उन् । रक्षणेच्छा-

युक्ते । “बम्भारिरवस्युरसि दुवस्वान्” ता० ब्रा० ।
“ईलानामवस्यवे यविष्ठ” ऋ० २, ६, ६, “अवस्यवे स्वरक्षण-
मिच्छवे” भा०” ।

अवस्रंसन न० अव + स्रन्स--ल्युट् । १ अघः पतने, २ च्युतौ च ।

अवस्रंसित त्रि० अव + स्रन्स--णिच्--क्त । १ दलिते २ पातिते च ।

अवस्रस् त्रि० अवस्रंसते क्विप् । १ भ्रंसनशीले २ खण्डिते च ।

अवस्वत् त्रि० अवीरक्षणमस्त्यस्य मतुप् मस्य वः । रक्षणयुक्ते ।

अवह त्रि० न वहति वह--अच् न० ब० । नद्यादेःस्रोतः-

शून्ये १ देशे “सव्यावृतो व्रजन्त्यनवेक्षमाणा यत्रोदकमवहं
भवति तत् प्राप्य सकृदुन्मज्यैकं जलाञ्जलिमुत्सृज्य
नामगोत्रे गृहीत्वोत्तीर्य्यान्यानि वासांसि परिधायेति” आश्व०
पृ० “अवहं यत्र देशे नद्याः स्रोतो नास्ति तदिति”
शु० त० रघु० । २ तृतीयस्कन्धस्थे वायुभेदे च विवृतिर्वायुशब्दे ।

अवहत त्रि० अव + हन--कर्म्मणि क्त । अल्पाघातेन वितुषीकृते

अवहति अव + हन--क्तिन् । अवघाते अल्पावघातेन वितुषी

करणार्थे व्यापारे ।

अवहनन न० अव + हन भावे ल्युट् । अवघाते घान्यादेः वितु-

षीकरणसम्पादके १ व्यापारे । अवहन्यतेऽनेन शोणितम्
करणे ल्युट् । देहस्थे शोणितवहे स्थानभेदे २ पुप्पसे च ।
“वपावसावहनननाभिः क्लोम यकृत् प्लिहा” या० स्मृ०
“अवहननं पुप्पसः” मिता० ।

अवहरण न० अव + हृ--ल्युट् । १ स्थानान्तरनयने सैन्यानां

युद्धस्थानात् शिविरस्थाने २ नयने च ।

अवहस्त पु० अवरं हस्तस्य एक० त० । हस्तपृष्ठे हेम० ।

अवहार पु० अव + हृ--कर्त्तरि ण । १ चौरे, २ ग्राहनामके

जलजन्तुभेदे (हाङ्गोर) च । भावे घञ् । ३ निमन्त्रितवि-
प्रादिभ्यो द्रव्यहरणे । ४ स्थानान्तरनयने सैन्यानां युद्धस्थानात्
५ शिविरनयने च । “ततोऽवहारं सैन्यानां तव तेषाञ्च
मारत!” भा० भी० प० ६ विरामे ७ निवृत्तौ च “क्रियता-
मवहारोऽस्माद्युद्धाद्ब्राह्मणसंवृतात्” भा० आ० प० ।

अवहारक त्रि० अव + हृ--ण्वुल् । १ स्थानान्तरनायके २ निबा-

रके ३ युद्धात् सैन्यादिनिवारके च । (हाङ्गोर) ४ जलजन्तु-
भेदे पु० ।

अवहार्य्य त्रि० अव + हृ--ण्यत् । अवहरणीये १ स्थानान्तरं नेये

२ अवश्यदेये । “आधिश्चोपनिधिश्चैव न कालात्ययमर्हति
अवहार्य्यौ भवेतां तौ दीर्घकालमवस्थितौ” मनुः
“अवहार्य्योभवेच्चैव सान्वयः षट्पणो दमः” मनुः । ३ समाप्येच ।

अवहालिका स्त्री अवहलति अधःस्थित्वा ऊर्द्ध्वं स्पशति

अव + हल--विक्षेषे ण्वुल् टाप् अत इत्त्वम् । प्राचोरे
हारावली ।

अवहास पु० अव + हस--घञ् । १ मृदुहासे २ उपहासे च । “यच्चापहासार्थमसत्कृतोऽसि” गीता ।

अवहास्य त्रि० अव + हस कर्म्मणि ण्यत् । उपहास्ये

अवहित त्रि० अव + धा--क्त । कृतावधाने सावधाने ।

पृष्ठ ०४४८

अव(ब)हित्था स्त्री न बहिस्तिष्ठति स्था--क पृषो० । हृद्गत-

भावे । “भयगौरवलज्जादेर्हर्षाद्याकारगुप्तिरबहित्था, व्यापा
रान्तरासक्त्यन्यथावभाषणाविलोकनादिकरी” सा० द० उक्ते
व्यभिचारिभावभेदे । “एवं वादिनि देवर्षौ पार्श्वे पितुरधोमुखी
लीलाकमलपत्राणि गणयामास पार्व्वती” कुमा० । अयं
वर्ग्यबमध्यस्तु न्याय्यः ।

अवहेल स्त्री न० अव + हेड़--अङ् स्त्रियां, घञर्थे क वा ड़स्य लः । अनादरे ।

अवहेलन अव + हेड़ अनादरे भावे ल्युट् डस्य लः । अनादरे ।

अवहेलित त्रि० अव + हेड--कर्म्मणि क्त डस्य लः । अवज्ञाते ।

अवह्वर त्रि० अव + ह्वृ--अच् । कुटिले ।

अवाक्पुष्पी अवाक् अधोमुखं पुष्पमस्याः । (सुलफा) शतपुष्पिकायाम् ।

अवाक्शाख पु० अवाची शाखाऽस्य । “ऊर्द्धमूलमधःशाख-

मश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्ण्णानि यस्तं वेद
स वेदवित् । अधश्चोर्द्ध्वञ्च प्रसृतास्तस्य शाखा गुणप्रवृद्धा
विषयप्रबालाः । अधश्च मूलान्यनुसन्ततानि कर्म्मानुबन्धीनि
मनुष्यलोके । न रूपमस्येह तथोपलभ्यते नान्तोन चादिर्न
च संप्रतिष्ठा । अश्वत्थमेनं सुविरूढ़मूलमसङ्गशस्त्रेण
दृढ़ेन छित्त्वा । तत्पदं तत्परिमार्गितव्यम्” गीतोक्ते
संसारवृक्षे । “ऊर्द्ध्वमुत्तरः क्षराक्षराभ्यामुत्कृष्टः पुरुषो-
त्तमोमूलं यस्यतम् । अघैति ततोऽर्वाचीनाः कार्य्योपा-
धयोहिरण्यगर्भादयोगृह्यन्ते ते तु शाखाइव शाखायस्य
तम् । विनश्वरत्वेन न श्वःप्रभातपर्य्यन्तमपि स्थास्यतीति
विश्वासानर्हत्वादश्वत्थं प्राहुः । प्रवाहरूपेणाविच्छेदादव्य-
यञ्च । काः प्राहुः? “ऊर्द्ध्वमूलोऽर्व्वाक्शाखएषोऽश्वत्थः
सनातन” इत्याद्याः श्रुतयः । छन्दांसि वेदायस्य पर्णानि
धर्म्माधर्म्मप्रतिपादनद्वारेण छायास्थानीयैः कर्म्मफलैः
संसारवृक्षस्य सर्व्वजीवाश्रयणीयत्वप्रतिपादनात् पर्णस्था-
नीयावेदाः । यस्तमेवम्भूतमश्वत्थं वेद स एव वेदार्थवित्
संसारप्रपञ्चवृक्षस्य मूलमीश्वरोब्रह्मादयस्तदंशाः शाखा-
स्थानीयाः सच संसारवृक्षोऽविनश्वरः प्रवाहरूपेण नित्यः
वैदोक्तैः कर्म्मभिः सेव्यतामापादितश्च इत्येतावानेव हि
वेदार्थः अत एवं विद्वान्वेदविदिति स्तूयते । किञ्च अधश्चेति ।
हिरण्यगर्भादयः कार्य्योपाधयोजीवाः शाखास्थानीयत्वे-
नोक्तास्तेषु च ये दुष्कृतिनस्तेऽधः पश्वादियोनिषु प्रसृता-
विस्तारं गताः सुकृतिनश्चोर्द्ध्वं देवादियोनिषु प्रसृतास्तस्य
संसारवृक्षस्य शाखाः । किञ्च गुणैः सत्त्वादिवृत्तिभिर्जलसे-
चनैरिव यथायथं प्रवृद्धा वृद्धिं प्राप्ताः । किञ्च विषयारूपा-
दयः प्रबालाः पल्लवस्थानीया यासां शाखाग्रस्थानीयाभिरि-
न्द्रियवृत्तिभिः संयुक्तत्वात् । किञ्च अधः, चशब्दादूर्द्ध्वञ्च
मूलानि अनुसन्ततानि विरूढानि मुख्यं मूलमीश्वर एव
इमानि त्वन्तरालानि मूलानि तत्तद्भोगवासनालक्षणानि ।
तेषां कार्यमाह मनुष्यलोके कर्म्मानुबन्धीनि कर्म्म अनुबन्धि
उत्तरभावि येषां तानि ऊर्द्ध्वाधोलोकेष्वपि भुक्तभोगवासना
भिर्हि कर्म्मक्षये मनुष्यलोकप्राप्तानां तत्तदनुरूपेषु कर्म्मसु
प्रवृत्तिर्भवति तस्मिन्नेव हि कर्म्माधिकारोनान्येषु लोकेषु
अतोमनुष्यलोकैत्युक्तम् । किञ्च न रूपमिति । इह संसारे
स्थितैः प्राणिभिरस्य संसारवृक्षस्य तथा ऊर्द्ध्वमूलत्वादि
प्रकारेण रूपं नोपलभ्यते । न चान्तोऽवसानमपर्य्यन्तत्वात् ।
नचादिरनादित्वात् । नच संप्रतिष्ठा स्थितिः कथं तिष्ठतीति
नोपलभ्यते । यस्मादेवम्भूतोऽयं संसारवृक्षोदुरुच्छेद्यो
ऽनर्थकरश्च तस्मादेनं दृढेन वैराग्येण छित्त्वा तत्त्वज्ञानाय
यतेतेत्याह अश्वत्थमेनमिति” श्रीधरः ।

अवाक्शिरस् त्रि० अवाक्शिरोऽस्य । अवनतमस्तके “अवाक्-

शिरसमुत्पादम्” भट्टिः ।

अवाक्श्रुति पु० नास्तिवाक् च श्रुतिश्च यस्य । वागिन्द्रियश्रवणे

न्द्रियशून्ये अनेड़मूके । (कालावोवा ।)

अवाकिन् त्रि० उच्यतेऽनया वच--करणे घञ् वाकः, वागिन्द्रियं

नास्ति यस्य इनि न० त० । १ वागिन्द्रयशून्ये परात्मनि ।
“सर्व्वमिदमभ्यात्तोऽवाक्यनादरः” छा० उ० । (वोवा)रमूके चं

अवाग्र त्रि० अवनतमग्रमस्य । नम्रमुखे ।

अवाङ्मुख त्रि० अवाङ् मुखमस्य । अधोमुखे । “अवाङ

मुखस्योपरि पुष्पवृष्टिः” रघुः ।

अवाङ्मनसगोचर पु० वाक् च मनश्च वाङ्मनसौ तयोर्गोचरो

न भवति । वक्तुमशशक्ये मन्तुमशक्ये च निर्गुणे व्रह्मणि
“यद्वाचानाभ्युद्यते येन वागभ्युद्यते” “यन्मनसा न मनुते येन
मनोऽनुमन्यते” इत्यादि श्रुत्या तस्य तदविषयत्वोक्तेस्तथा
त्वम् । तज्जन्यवृत्त्यवच्छिन्नचैतन्याविषयत्वञ्च तदविषयत्वं
तयोर्वृत्तिविषयत्वस्य तस्मिन्निष्टत्वात् “फलव्याप्यत्व-
मेवास्य शास्त्रकृद्भिर्निराकृतम् । ब्रह्मण्यज्ञाननाशाय
वृत्तिव्याप्तिरपेक्षिता” इत्युक्तेः अतएव “मनसैवानुद्रष्टव्यः”
“तन्त्वौपनिषदं वेदेत्यादि” श्रुतिषु तद्विषय यतोक्तिः सङ्गच्छते
“अखण्डसच्चिदानन्दमवाङमनसगोचरम्” वे० सा० ।

अवाच् त्रि० अवाञ्चति अव + अन्च--क्विप् । १ अधोमुखगते,

“अवाक्शिरसमुतपादम्” भट्टिः । अवरे २ देशे, ३ काले
च । ४ दक्षिणस्यां दिशि स्त्री ङीप् । नास्ति वाक् यस्य
६ ब० । ५ वाक्यरहिते त्रि० वागिन्द्रियशून्ये ६ ब्रह्मणि
पृष्ठ ०४४९
न० । “अचक्षुष्कमश्रोत्रममनोऽतेजस्कम्” शत० ब्रा०
पूर्वार्थे औ अवाञ्चौ अत्र अवाचौ इत्यादिभेदः । कालाद्यर्थे
प्रथमादीनां स्थानेऽस्ताति तस्यलुक् । ७ अवरकालादावर्थे
अव्य० । अञ्चतेर्गत्यर्थत्वे नलोपः पूजार्थत्वे तु न नलोपः ।
उच्यते प्रशस्यते वाक् स्तुतिः । ८ तद्रहिते च “दुष्प्राव्यो-
ऽवहन्तेदवाचः” ऋ० ४, २५, ६, अवाचःस्तुति रहिताः
भा० भवादौ ख । अवाचीनस्तद्भवादौ त्रि० । तिसृभि-
र्भस्त्रावाचीनविला” ता० ब्रा० “अवाचीनविला अवाङ्मुख-
विला” भा० । दिगा० यत् । अवाच्यस्तद्भवादौ त्रि० ।

अवाच्य न० वच--ण्यत् न कुत्वम् न० त० । १ दुष्टवचने, “अवा-

च्यवादांश्च बहून् वदिष्यन्ति तवाहिताः” गीता २ वचना-
नर्हे, निन्दनीये त्रि० ३ अकथनीये च “अवाच्यो दीक्षितो
नाम्ना यवीवानपि योभवेत्” मनुः अवाच् + भवार्थे यत् ।
४ अवरकालादौ भवे त्रि० । ५ अभिधावृत्त्या बोधयितुम
शक्ये च । “अवाच्यत्वादिकं तस्य वक्ष्ये व्यञ्जनरूपणे”
सा० द० । यमुदिश्य कथ्यते ६ तद्भिन्ने च ।

अवात त्रि० नास्ति वातो यत्र । १ वायुशून्यदेशे वा--क्त न० त० ।

२ अन्यैरप्रतिगते च “वन्वन्नवातोऽस्तृतः” ऋ० ६, १६, २० ।
वातव्यापारशोषणशून्ये “न मृष्यन्ते युवतयोऽवाताः”
ऋ० ६, ६, ७ “अवाताः वातस्य शोषणहेतुत्वात् तच्छून्य-
तया अशुष्काः” भा० ।

अवाञ्चित त्रि० अव + अन्च--णिच्--क्त । आनमिते “तृण-

वाञ्छया मुहुरवाञ्चितान्” माघः ।

अवाच्यदेश पु० अवाचि भवः यत् कर्म० । स्त्रीणामधोदेशे त्रिका० ।

अवादिन् त्रि० वद--णिनि न० त० स्त्रियां ङीप् । १ अविरोधिनि

२ अवदनशीले च ।

अवान त्रि० अव + अन--अच् । शुष्कफलादौ “अवानमशुकादष्टमेकमाम्रफलं किल” भा० स० प०

अवान्तर त्रि० अवगतमन्तरं मध्यम् प्रा० स० । १ प्रधानान्त-

पातिनि अङ्गादौ, २ सामान्यस्य विशेषे ३ प्रसङ्गागते च “इयं
फलश्रुतिः निःश्रेयसपरमपुरुषार्थ साधनपरा भवति किन्तु
वहिर्मुखानां मोक्षविवक्षयाऽवान्तर कर्मफलैः कर्मसु रुच्यर्थतो-
त्पादनमात्रम्” श्रीधरः । यथा “पिब निम्बं प्रदास्यामि खलु
ते खण्डलड्डुकान् । पित्रैवमुक्तः पिबति तिक्तमप्यतिबा-
लकः” पुरा० । “तएतामवान्तरां दीज्ञामपश्यन्” शत० ब्रा० ।

अवान्तरदिश् स्त्री अवान्तरा द्वयोर्दिशोर्मध्ये दिक् । अन्त-

रालदिशि ऐशान्यादिदिशि कीणे । “दिशोः पार्श्वेऽ-
वान्तरदिशः पर्शवः” वृ० उ० ।

अवान्तराम् अव्य० अवान्तर + बा० आमु । सर्व्वमध्यपातिनि ।

“तदेतमवान्तरामात्मानमुपह्वयते” इति शत० ब्रा० ।

अवापित त्रि० वप--णिच्--क्त न० त० । यस्य वपनं न कृतं

तादृशे आरोपिते १ धान्यादौ २ अच्छेदिते केशादौ च ।
अव + अप--णिच्--क्त--३ प्रापिते च । “विषमां कुण्डलना-
मवापिता” नैष० ।

अवाप्त त्रि० अव + आप--क्त । प्राप्ते । “नानवाप्तमवाप्तव्यं

त्रिषु लोकेषु किञ्चन” गीता ।

अवाप्तव्य त्रि० अव + आप--तव्य । प्राप्तव्ये । “नानवाप्तमवाप्तव्यम्” गीता ।

अवाप्ति स्त्री अव + आप--क्तिन् । प्राप्तौ । “तपः किलेदं

तदवाप्तिसाधनम्” कुमा० “इष्टानवाप्तेरौत्सुक्यम्” सा० द० ।

अवाप्य त्रि० अव + आप ण्यत् । १ प्राप्ये । “ज्येष्ठता च निवर्त्तेत

ज्येष्ठावाप्यञ्च” यद्धनम्” मनुः । न वाप्यः । २ आरोप्ये
३ अच्छेद्ये केशे च अव + आप--ल्यप् । ४ प्राप्येत्यर्थे अव्य० ।

अवाम न० । न० त० । वामभिन्ने १ दक्षिणे “अवामे वामार्द्धे”

नैष० । वामः प्रतिकूलः सुन्दरो वा विरोधे न० त० ।
२ अनुकूले सुन्दरभिन्ने ३ अशोभने च त्रि० ।

अवाय पु० अव + इण् घञ् । अवयवे । “अनवायं किमीदिने” ऋ० १०, ४, २

अवार न० न वार्य्यते जलेन वृ--कर्म्मणि घञ् । नद्यादेरर्वाक्

तीरे ।

अवारण न० वृ--णिच्--ल्युट् अभावे न० त० । निषेधाभावे । न० ब० । तच्छून्ये त्रि० ।

अवारणीय त्रि० न वारणीयः वारयितुमशक्यः । वारयि-

तुमशक्ये १ रिपुप्रभृतौ २ रोगादौ च । अवारणीयाश्च
रोगाः सुश्रुते दर्शिता यथा “अथातोऽवारणीयमध्यायं
व्यांख्यास्यामः । उपद्रवैस्तु ये जुष्टा व्याधयो यान्त्यवा-
र्य्यताम् । रसायनाद्विना वत्स! तान् शृण्वेकमना
मम ॥ वातव्याधिः प्रमेहश्च कुष्ठमर्शोभगन्दरः । अश्मरी
मूढगर्भश्च तथैवोदरमष्टमम् ॥ अष्टावेते प्रकृत्यैव दुश्चि-
कित्स्या महागदाः ॥ प्राणमांसक्षयश्वासतृष्णाशोषवमि-
ज्वरैः ॥ मूर्च्छातिसारहिक्कामिः पुनश्चैतैरुपद्रुताः ।
वर्ज्जनीया विशेषेण भिषजा सिद्धिमिच्छता ॥ शूलं सुप्तत्वचं
भग्नं कम्पाध्माननिपीड़ितम् । नरं रुजार्त्तिमन्तञ्च वातव्या-
धिर्व्विनाशयेत् ॥ यथोक्तोपद्रवाविष्टमतिप्रस्रुतमेव वा ।
पिडकापीड़ितं गाढं प्रमेहो हन्ति मानवम् ॥ प्रभिन्नं
प्रस्रुताङ्गञ्च रक्तनेत्रं हतस्वरम् । पञ्चकर्मगुणातीतं कुष्ठं
हन्तीह कुष्ठिनम् ॥ तृष्णारोचकशूलार्त्तमतिप्रस्रुतशोणितम् ।
शोफातिसारसंयुक्तमर्शोव्याधिर्व्विनाशयेत् ॥ वातमूत्रपुरी-
षाणि क्रिमयः शुक्रमेव च । भगन्दरात् प्रस्रवन्ति यस्य तं
परिवर्ज्जयेत् ॥ प्रशूननाभिवृषणं रुद्धमूत्रं रुगन्वितम् ।
पृष्ठ ०४५०
अश्मरी क्षपयत्याशु सिकताशर्करान्विता ॥ गर्भकोष-
परासङ्गो मक्कल्लो योनिसंवृतिः । हन्यात् स्त्रियं मूढ़-
गर्भेयथोक्ताश्चाप्युपद्रबाः ॥ पार्श्वभङ्गान्नविद्वेषशोफातिसार-
पीड़ितम् । विरिक्तं पूर्य्यमाणञ्च वर्ज्जयेदुदरार्दितम् ।
यस्ताम्यति विसंज्ञश्च शेते निपतितोऽपि वा । शीतार्दितोऽ-
न्तरुष्णश्च ज्वरेण म्रियते नरः ॥ यो हृष्टरोमा रूक्षाक्षो
हृदि संघातशूलवान् । नित्यं वक्त्रेण चोच्छस्येत् तं ज्वरो
हन्ति मानवम् ॥ हिक्काश्वासपिपासार्त्तं मूढ़ं विभ्रान्तलोच-
नम् । सन्ततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः ॥
आविलाक्षं प्रताम्यन्तं निद्रायुक्तमतीव च । क्षीणशोणित-
मांसञ्च नरं क्षपयति ज्वरः ॥ श्वासशूलपिपासार्त्तं
क्षीणं ज्वरनिपीड़ितम् । विशेषेण नरं वृद्धमतीसारो
विनाशयेत् ॥ शुक्लाक्षमन्नद्वेष्टारमूर्द्ध्वश्वासनिपीड़ितम् ।
कृच्छ्रेण बहु मेहन्तं यक्ष्मा हन्तीह मानवम् ॥ श्वासशूल-
पिपासान्नविद्वेषग्रन्थिमूढ़ताः । भवन्ति दुर्बलत्वञ्च गुल्मि-
नोमृत्युमेष्यतः ॥ आध्मानं बद्धनिष्यन्दं छर्दिहिक्कातृड़-
न्वितम् । रुजाश्वाससमाविष्टं विद्रधिर्नाशयेन्नरम् ॥ पाण्डु-
दन्तनखो यश्च पाण्डुनेत्रश्च मानवः । पाण्डुसङ्घातदर्शी
च पाण्डुरोगी विनश्यति ॥ लोहितं छर्दयेद्यश्च बहुशो-
लोहितेक्षणः । रक्तानाञ्च दिशां द्रष्टा रक्तपित्ती विनश्यति ॥
अवाङ्मुखस्तून्मुखो वा क्षीणमांसबलो नरः । जागरिष्णु-
रसन्देहमुन्मादेन विनश्यति ॥ बहुशोऽपस्मरन्तन्तु प्रक्षीणं
चलितभ्रुवम् । नेत्राभ्याञ्चविकुर्व्वाणमपस्मारो विनाशयेत्” ॥

अवारपार पु० अवारमर्वाक्तीरं पारञ्चोत्तरतीरंच स्तो यस्य

अर्शआद्यच् । उभयकूलवति समुद्रे ।

अवारपारीण त्रि० अवारपारे गच्छति + ख । पारगामिनि ।

अवारिका स्त्री नास्ति वारि यत्र । धन्याके, तस्य अतिशुष्क

त्वेन जलशून्यत्वात्तथात्वम् ।

अवारित त्रि० न वारितः । अनिषिद्धे “ग्रामेषु सैन्यैरकरो-

दवारितः” माघः ।

अवारीण त्रि० अवारं गच्छति ख । नद्यादेरर्व्वाक्पार गन्तरि ।

अवार्य्य त्रि० न वार्य्यः । अवारणीये । “उपद्रवैस्तु ये जुष्टा-

व्याधयो यान्त्यवार्य्यताम्” सुश्रु० ।

अवावट पु० “द्वितीयेन तु यः पित्रा सर्वणायां प्रजायते ।

अवावट इतिख्यातः शूद्रधर्म्मा स जातितः” स्मृत्युक्ते कुण्ड-
गोलकादौ ।

अवावन् त्रि० ओण्--अपसारणे ङ्वनिप् । अपसारके ।

स्त्रियां ङीप् वनोरश्च । अवावरी ।

अवासस् त्रि० न वासोऽस्य । १ वस्त्ररहिते नग्ने २ बौद्धभेदे च ।

अवासिन् त्रि० न वसति वस--णिनि न० त० । निवासशील

भिन्ने । स्त्रियां ङीप् ।

अवास्तव न० न वास्तवम् । सत्यभिन्ने मिथ्याभूते ।

अवाह्य त्रि० न० त० । वोढुमशक्ये ।

अवि पु० अव--इन् । १ सूर्य्ये, २ अर्कवृक्षे ३ मेषे, ४ छागे,

“महान्त्यपि समृद्धानि गोजाविधनधान्यतः” जिनकार्म्मुक-
वस्तावी पृथक् दद्याद् विशुद्धये” इति च मनुः ५ पर्व्वते,
६ मूषिककम्बले, ७ प्रमौ च । ८ लज्जायां स्त्री वा ङीप् ।
खार्थे कन् । अविशब्दार्थे । भावादौ पुरोहिता० यक् ।
आविक्यम् तद्भावादौ न० ।

अविकट पु० अवि + समूहे कटच् । १ मेषसंघाते । विकट उग्रः

न० त० । २ उग्रभिन्ने सौम्ये त्रि० ।

अविकटोरण पु० अविकटे मेघसंघे देयः उरणःमेषः । नृपाय

शुल्करूपेण देये मेघसंघातमध्ये मेघरूपे करे ।

अविकत्थन त्रि० न० त० । श्लाघाशून्ये “सन्तुष्टाश्च क्षमायुक्ता

भवेयुरविक्थनाः” देवीपुरा० ।

अविकल त्रि० न विकलः व्याकुलः । १ व्याकुलभिन्ने २ अविसं-

वादिनि च “कलमविकलतालं गायकैर्बोधहेतोः”
र्माघः “अधिकलोऽविसंवादी” मल्लि० ।

अविकार पु० अभावे न० त० । विकाराभावे न० ब०!

विकारशून्ये । विकारश्च परिणामभेदः भावधर्म्मः ।

अविकार्य्य त्रि० नविकार्यः । १ विकार्य्यभिन्ने परिणामिगुणशून्ये

“अविकार्य्योऽयमुच्यते” गीता । विकार्यञ्च द्वेधा “प्रकृत्यु-
च्छेदमम्भूतं किञ्चित् काष्ठादिभस्मवत् । किञ्चिद्गुणान्तरोत्
पत्त्या सुवर्णादिविकारवत्” इति वाक्यप० उक्तं ग्राह्यम्
यादृशवस्तुनश्च विकार्यकर्मत्वम् तद्भिन्ने २ पदार्थे परात्मनस्तु
तदुभयाभावात् सर्वथाऽविकार्यत्वमेव ।

अविकृत त्रि० न विकृतः । परिणामिगुणशून्ये ।

अविकृति स्त्री अभावे न० त० । १ विकाराभावे न० ब० २ विकार

शून्ये च । “३ सांख्योक्तायां मूलप्रकृतौ स्त्री “मूलप्रकृति
रविकृतिः” सा० का० ।

अविक्रिय त्रि० नास्ति विक्रिया यस्य । विकारशून्ये ।

अविक्रीत त्रि० न विक्रीतः । विक्रीतस्याऽपि कालविशेषमध्ये

पुनः प्रत्याहर्त्तुं शक्ये द्रव्यभेदोतत्र कालनियमो यथा “क्रीत्वा
विक्रीय वा किञ्चित् यस्येहानुशयो भवेत् । सोऽन्तर्दशाहं
तद्द्रव्यं दद्याच्चैवाददीत वा” मनुः । क्रीतानुशयकालवत्
द्रव्यविशेषे विक्रयानुशयकालविशेषोग्राह्यः । “दशैकपञ्चस-
पृष्ठ ०४५१
प्ताहमासत्र्यहार्द्धमासिकम् । वीजायोवाह्यरत्नस्त्रीदोह्य
पुंसां परीक्षणम्” या० स्मृ० । तथाच वीजे--व्रीह्यदौ
पञ्चाहं, रत्ने--मुक्ताप्रबालादौ सप्ताहं, स्त्रियां--दास्यां मासं,
दोह्ये--गोमहिष्यादौ त्र्यहम्, पुंसि--दासे पञ्चदशाहं,
व्याप्य परीक्षणं कर्त्तव्यम् तावत्कालमध्ये अनुशये प्रत्या-
हर्त्तुं शक्यते इत्यवगम्यते एवञ्च मनुवचनमेतदतिरिक्तविषयम्
एवं विक्रयस्यानुशयकालविशेषोद्रव्यविशेषे बोध्यः ।

अविक्रेय त्रि० विक्रेतुमनर्हः । स्मृतिनिषिद्धविक्रये लाक्षालव-

णादौ अपण्यशब्दे विवृतिः । “अविक्रेयस्य विक्रयः” स्मृतिः ।

अविक्षत विक्षतः नष्टः भोगादिना दुष्टोवा न० त० । १ अविनष्टे

भोगादिना १ अदूषिते च । “विक्रेतुः प्रतिदेयं तत्तस्मिन्ने
वाह्न्यविक्षतम्” स्मृतिः ।

अविक्षित त्रि० नास्ति विशेषेण क्षितम् क्षयोऽस्य भावे क्त ।

विशेषक्षयशून्ये “अविक्षितास आयुषा सुवीराः ऋ० ७,
१२३४ । वां दीर्घनत्वे । अविक्षीणः तत्रैव कर्त्तरि
क्त न० त० । अविक्षीण इत्येव ।

अविक्षिप त्रि० विक्षेप्तुं न शक्तः क्षिप--क-- । विक्षेप्तुमशक्ते ।

स्वार्थे कन् तत्रैव ।

अविगन्धा स्त्री अवेश्छागस्य गन्ध इव गन्धः पुष्पादावस्याः । अजगन्धावृक्षे ।

अविगर्हित त्रि० न० त० । १ अनिन्दिते

अविगीत त्रि० न० त० । अवनिन्दिते “अविगीतशिष्टाचार

परम्पराप्राप्तत्व नेति” मुक्ता० ।

अविग्न पु० विज--क्त न० त० । (करमचा) १ करमर्द्दकवृक्षे । २ उद्विग्नभिन्ने त्रि० ।

अविग्रह त्रि० नास्ति विशेषेण ग्रहो यस्य । १ विशेषरूपेणाज्ञाते

“अविग्रहा गतादिस्था यथा ग्रामादिकर्म्मभिः” हरिः । न
विग्रहो वृत्तिसमानार्थकंवाक्यं यस्य । २ व्याकरणोक्तेनित्यस-
मासे । नास्ति विग्रहो देहो यस्य । ३ निरवयवे परमेशे पु०
नास्ति मीमांसकोक्ते ४ विग्रहशून्ये देवे च । तैर्हिदेवानां विग्र-
हवत्त्वं खण्डितं तच्च शङ्कापूर्ब्बकं जै० सू० भाष्ये च दर्शितं
यथा--“देवता वा प्रयोजबेदतिथिवद्भोजनस्य तदर्थत्वात्” सू०
“नैतदस्ति,--अग्न्यादयोऽप्रयोजकाः--इति, सर्व्वा देवताः
सर्व्वेषां धर्म्माणां प्रयोजिकाः भवितुमर्हन्ति । कुतः? ।
‘भोजनस्य तदर्थत्वात्’,--भोजनं हि इदं देवतायाः,
यागो नाम, भोज्यं द्रव्यं देवतायै प्रदीथते, सा
भोक्ष्यते--इति, देवतासम्प्रदानको हि अयं यागः श्रूयते,
सम्रदानं च नाम कर्म्मणोऽपि ईप्सिततमादभिप्रेततरम्,
तस्मात् न गुणभूता देवता, देवतां प्रति गुणभूते द्रव्यकर्म्मणी ।
अपि च यागो नाम देवतापूजा, पूजा च पूजनीयं प्रति
गुणभूता लोके दृश्यते, तदेतत् ‘अतिथिवत्’ द्रष्टव्यं, यथा
यावत्किञ्चित् अतिथेः परिचरणं, सर्व्वं तत् अतिथिप्रयुक्तम्
एवम् इदमपि--इति । आह,--“ननु एवं ब्रुवता, विग्र-
हवती देवता भ्वङ्क्ते च--इत्यभ्युपगतं भवति” । उच्यते,
वाढ़ं, विग्रहवती देवता भुङ्क्ते च । कुतः? । स्मृतेः,
उपचारात्, अन्यार्थदर्शनाच्च,--एवं हि स्मरन्ति, विग्रह-
वती देवता--इति, स्मृतिश्च नः प्रमाणम् । तथा विग्रह-
वतीं देवताम् उपचरन्ति,--यमं दण्डहस्तमालिखन्ति,
कथयन्ति च, तथा वरुणं पाशहस्तम्, इन्द्रं वज्रहस्तं,
उपचारादपि स्मृतेर्द्रढ़िमानं कल्पयामः । तथा अन्यार्थवचनं,
विग्रहवतीं देवतां दर्शयति,--“जगृम्भा ते दक्षिणम् इन्द्र!
हस्तम्”--इति, पुरुषविग्रहस्य हि दक्षिणः सव्यश्च हस्तो
भवति । तथा “इमे चित् इन्द्र! रोदसी अपारे यत् संगृ
म्भा मघवन्! काशिरित्ते,--इति, काशिर्मुष्टिः, सोऽपि
पुरुषविग्रहस्य एव उपपद्यते । तथा, “तुविग्रीवो वयोदरः
सुबाहुरन्धसो मदे । इन्द्रो! वृत्राणि जिघ्नते” इति, ग्रीवा
उदरं बाहू इति पुरुषविग्रहदर्शनं भवति । तस्मात् विग्र-
हवती देवता इति । भङ्क्ते च । कथम् अवगम्यते? ।
स्मृतेः, उपचारात् अन्यार्थदर्शनाच्च, एवं स्मरन्ति,
भुङ्क्ते देवता इति । तथा च एनाम् भुञ्जानाम्
इव उपचरन्ति, यदस्यै विविधान् उपचारान्
उपहरन्ति । तथा च अन्यार्थवचनं भुञ्जनाम् देवतां
गमयति,--“अद्धीन्द्र! पिब च प्रस्थितस्य”--इति, तथा
च, “विश्वासनानि जठरेषु धत्ते” इति, “एकया प्रति धा
पिबत्साकं सरांसि त्रिंशतम्” इति । आह, “न देवता
भुङ्क्ते, यदि च भुञ्जीत देवतायै हविः प्रत्तं क्षीयेत” ।
उच्यते, अन्नरसभोजिनी देवता मधुकरीवत् अबगम्यते ।
कथम्? । देवतायै हविः प्रत्तं नीरसं भवति, तस्मात् अन्न-
रसं भुङ्क्ते देवता इति गम्यते” भा० । “आर्थपत्याच्च” सू० ।
“यदि कस्यचित् अर्थस्य ईशाना देवता उपचर्यमाणा च
प्रसीदेत् ततः तदाराधनार्थम् इयं देवतापूजा अभिनिर्व-
र्त्त्येत, न च एतदुभयम् अपि अस्ति इति, तत् उच्यते, अर्थ-
पतिर्द्देवता इति । कथम् अवगम्यते? । स्मृतेः, उपचारात्
अन्यार्थदर्शनाच्च, एवं हि स्मरन्ति, अर्थानाम् ईष्टे
देवता इति । तथा, देवग्रामो देवक्षेत्रम् इत्युपचारस्तामेव
स्मृतिं द्रढयति । तथा अन्यार्थवचनम् ईशानां देवतां
दर्शयति, “इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपामिन्द्र
इत् पर्वतानां, इन्द्रो वृधाम् इन्द्र इन्मेधिराणाम् इन्द्रः
पृष्ठ ०४५२
क्षेमे योगे हव्ये इन्द्रः’ इति, तथा, “ईशानम् अस्य
जगतः स्व ईशम् ईशानम् इन्द्र! तस्थुषे” इति । तथा,
स्मृत्युपचाराभ्यां प्रसीदति इत्युपगच्छामः, एवं हि
स्मरन्ति, प्रसीदति देवता इति । तथा उपचरन्ति, प्रस-
न्नोऽस्य पशुपतिः, पुत्रोऽस्य जातः, प्रसन्नोऽस्य वैश्रवणो
धनम् अनेन लब्धम् इति । तथा अन्यार्थदर्शनं भवति,
आहुतिभिरिव हुतादौ देवान् प्रीणाति’ इति, तस्मै प्रीता
इषमूर्जं नियच्छन्ति’ इति” भा० । “ततश्च तेन सम्बन्धः”
सू० । “ततो” देवतायाः, तेन फलेन सम्बन्धः परिचरि-
तुर्भवति, यो देवताम् इज्यया परिचरति, तं सा फलेन
सम्बध्नाति । कथम् एतत् अवगम्यते? । स्मृत्युपचाराभ्यां
स्मरन्ति हि, देवता यष्टुः फलं ददाति इति, तामेव उपचारेण
स्मृतिं द्रढ़यति, पशुपतिः, अनेनौपचरितः पुत्रोऽनेन लब्धः
इति । तथा अन्यार्थदर्शनम् इममेव अर्थं दर्शयति, “स,
इत् जनेन स विशा स जन्मना स पुत्रैर्वाजम्भरते धना
नृभिः । देवानाम् यः पितरमावि वासति श्रद्धासना
हविषा ब्रह्मणस्पतिम्” इति तथा, “तृप्त एवैनम् इन्द्रः
प्रजया पशुभिः तर्पयति” इति तस्मात् हविर्द्दानेन
गुणवचनैश्च देवता आराध्यते, सा प्रीता सती फलं प्रयच्छति
येन कर्म्मणा अग्निराराधितः, तस्य फलस्य ईष्टे, तत्
कर्त्त्रे प्रयच्छति, न तत् सूर्य्यः प्रदातुमर्हति,
वचनादेतत् अवगम्यते । कः किं प्रयच्छति? इति
यथा अग्नौ वचनं, न तत् सूर्य्ये” भा० । “अपि वा
शब्दपूर्व्वत्वाद्यज्ञकर्म प्रधानं स्याद्गुणत्वे देवताश्रुतिः”
सू० । “अपि वा इति पक्षो व्यावर्त्त्यते । न चैतदस्ति
यदुक्तं देवता प्रयोजिका” इति, “यज्ञकर्म्म प्रधानं स्यात्”
यजतेर्जातम् अपूर्व्वम् । कुतः? । “शब्दपूर्व्वत्वात्”, यत्
हि फलं ददाति, तत् प्रयोजकम् इदं फलं ददाति
इत्येतत् ज्ञानं शब्दपूर्ब्बकं न प्रत्यक्षादिभिः अवगम्यते,
शब्दश्च यजतिवाच्यात् फलम् आह, न देवतायाः ।
कथम् अवगम्यते? । दर्शपूर्णमासयोः करणत्वेन निर्द्देशः
“दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत” इति, तथा, “ज्योति-
ष्टोमेन स्वर्गकामो यजेत” इति, यजत्यर्थस्य हि स्वर्गकामेन
समभिव्याहारो न देवतायाः । “ननु द्रव्यदेवताक्रियं
यजत्यर्थः” । सत्यमेवं, किन्तु “गुणत्वे देवताश्रुतिः”,
द्रव्यदेवतं हि भूतं, भावयितव्यो यजत्यर्थः, भूतभव्य-
समुच्चारणे च भूतं भव्याय उपदिश्यते, तस्मात् न देवता
प्रयोजिका । अथ यदुक्तं “कर्मण ईप्सितादभिप्रेततरम्”
इति न अस्य अभिप्रेतताम् अपह्नुमहे, तद्धितशब्देन
चतुर्थ्या वा संयुक्तस्य देवतार्थस्य वाक्यात् अभिप्रेतता
अवगम्यते, । फलसंयोगस्तु वाक्यादेव यजत्यर्थस्य । तस्य च
श्रुत्या करणता अवगम्यते, न देवतायाः । तत्र यद्यपि
देवतार्थता यागस्य गम्यते । पलार्थतापि तेन न प्रतिषि-
ध्यते, फलं च पुरुषार्थः पुरुषार्था च नः प्रवृत्तिः, न च
असौ देवतायाः, तस्मात् न देवताप्रयुक्ताः प्रवर्त्तिष्यामहे,
या तु, सम्प्रदानस्य अभिप्रेतता सा फलवतो यजेः,
साधनत्वे सति उपपद्यते । यच्च,--यजिर्द्देवतापूजा
सा पूज्यमानप्रधाना लोके लक्ष्यते--इति, न
लोकवत् इह भवितव्यम्, इह पूज्यमानपूजा प्रधानं,
यत् हि फलवत् तत् प्रयोजकं, तस्मात् यज्ञकर्म प्रयोज-
कम् । अपिच, एतस्मिन् पक्षे विग्रहवती देवता
भुङ्क्ते च--इति अध्यवसनीयं भवति, न हि अविग्रहायै
अभुञ्जनायै च दानं भोजनं वा सम्भवति--इति” । यच्च
उक्तं स्मृत्युपचारान्यार्थदर्शनैर्विग्रहवती, भुङ्के
चइति । तन्न, स्मृतेर्मन्त्रार्थवादमूलत्वात्--मन्त्रेभ्यश्च अर्थ-
वादेभ्यश्च स्मृतिमूलं विज्ञानम् उत्पद्यते--इति प्रत्यक्षम्
अवगम्यते, ते च मन्त्रार्थवादा नैवंपराः--इत्येतत् वक्ष्यामः ।
आह, ‘यदि नैवंपरा न तर्हि मन्त्रार्थवादमूलं तद्वि-
ज्ञानम्’--इति । उच्यते,--ये आलोचनमात्रेण मन्त्रार्थ-
वादान् पश्यन्ति, तेषाम् तत् स्मृतिमूलम् ये पुनर्निपुणतः
पश्यन्ति, तेषां तत् वाधितम् । अपि च कस्यचित् स्मृति
मूलं भवति । तस्मात् ततः एव स्मृतिः । उपचारोऽपि
स्मृतिमूल एव । यत्तु अन्यार्थदर्शनम्, उक्तं--‘जगृम्भा ते
दक्षिणम् इन्द्र! हस्तम्’--इति । नैतत् एवम्परं,--इन्द्रस्य
हस्तो विद्यते--इति” यःतस्य दक्षिणो हस्तस्तं वयमगृहीत-
वन्त इति । तसमात् वाक्यात् इन्द्रस्य हस्तसत्ता न प्रतीयते ।
आह, ‘यदि त्वसौ नास्ति, वयं ते हस्तं गृहीतवन्तः--
इत्येवं न अवकल्पते--इति हस्तसत्ता अध्यवसीयते,-
अस्त्यसौ हस्तः, वयं यं गृहीतवन्तः’--इति । तन्न उपपद्यते
यद्यप्यस्य हस्तो भवेत्, तथापि न तम् उपगृहीतवन्तः-
इति प्रत्यक्षमेतत्, तथाप्येतन्न अवकल्पत एव, तत्र एतत्
असम्बद्धं वा अवकल्पयितव्यं, स्तुतिर्वा, तच्च मत्पक्षेऽपि
तुल्यम् । अथ एवम् उच्यते,--‘तस्य एतद्वचनं, यो गृहीत-
वान् तस्य हस्तम्’--इति । उच्यते, नैतत् अध्यवसेयम्, आदि
मत्तादोषो वेदस्य प्रसज्येत, न च, गृहीतवान् आसीत्--
इत्युच्यते, प्रमाणाभावात् । ‘एतस्मात् एव वचनात् अर्थात्
पृष्ठ ०४५३
कल्प्यते हस्तग्रहीता इति चेत्’ । तन्न, अयथार्थस्यापि
उच्चारणं सम्भवत्येव यतः, यथा, ‘दश दाड़िमानि षड़-
पूपाः’ इति । यस्यापि च एष पक्षो, विग्रहवान् इन्द्रः
इति, बस्यापि इन्द्रशब्देन आमन्त्रणं सम्बोधनार्थं, सम्बो-
धनम् अनुवचनाय, तत्र सम्बुद्धः इत्यवगते अनुवचनं
न्याय्यम् न च, असौ केनचित् प्रकारेण सम्बुद्ध इति
अवगम्यते, अनवगते सम्बोधनं व्यर्थम् । ‘वचनप्रामाण्यात्
सम्बुध्यते इत्येवं गम्यते इति चेत् उक्तम् अदृष्टकल्प-
नायां हस्तादिकल्पनानुपपत्तिरिति । न च, असौ
सम्बुद्धः इति अवधार्य्यते, प्रमाणाभावात् । तस्मात्
सम्बोधनवचनं न सम्बोधनाय, निर्द्देशार्थमेव । अविग्रह-
पक्षेऽपि तत् निर्द्देशार्थमेव भविष्यति । तत्र आमन्त्रितवि-
भक्तिवचनं स्तुतये, एवम् इदं देवताख्यं साधयितृतमं,
यच्चेतनादिवत् सम्बुध्य साधयति इति चेतनवदिव
उपचर्य्यमाणः सम्बुद्भिशब्देन आमन्त्र्यते, तथा सम्बोधनशब्देन
निर्द्दिश्य उच्यते, गृहीतवन्तो वयं तव हस्तं त्त्वदाश्रया
वयम् इत्यर्थः, अस्माभिः इन्द्रकर्म्म कर्त्तव्यम् इत्येतत् अनेन
स्मार्य्यते । तथा “इमे द्यावापृथिव्यौ दूते अपारे यत्
संगृह्णासि मघवन्नहो ते पूजितो मुष्टिः” इति सन्तमिव
मुष्टिं स्तुत्यर्थेन वदति, । तस्यापि भावे न प्रमाणमस्ति, न
इदं वचनं, “इत् महान् काशिः” अस्ति, किन्तर्हि, यस्तव
काशिः, स महान् इति, अन्यार्थस्तव काशिरस्ति इति,
अन्यः तव काशिर्महान् इति । “सता हि स्तुतिः
उपपद्यते इति चेत्” । नैतत्, नियोगतो यस्यापि पौरुषविधि-
कैरङ्गैर्न्नास्ति संयोगः, पौरुषविधिकैरङ्गैः तस्यापि स्तुति-
र्भवति, यथा’ “एते वदन्ति शतवत् सहस्रवत् अभिक्रन्दन्ति
हरितेभिरासभिः । विष्ट्वी ग्रावाणः सुकृतः, सुकृत्वया
होतुश्चित् पूर्व्वे हविरद्यमाशत” इति । तथा, “सुखं रथं
युयुते सिन्धुरश्विनम्” इति । तस्मात् न श्रुतिवचनात् अर्था-
पत्तिर्भवति पुरुषविधत्वे देवतायाः । तथा, “तुविग्रीव
इन्द्रः, इति नैतत् युक्तं भवति, ग्रोवावान् इन्द्रः इति,
किन्तर्हि याऽस्य ग्रीवा, सा महती, ग्रीवासत्त्वे नास्ति
प्रमाणम् । न च, ग्रीवास्तुतिः अर्थापत्तिः, अपुरुषविधेऽपि
स्तुत्युपपत्तेः । अपि च, “इन्द्रो वृत्राणि जिघ्नते” इत्येता-
भ्यां पदाभ्याम् इन्द्रशब्दः सम्बद्धो न शक्नोति
तुविग्रीवादिभिः सम्बन्धं यातुं, द्विरुच्चारणम् अस्य
प्रसज्यते, तुविग्रीवावान् इन्द्रो वेदितव्यः वृत्राणि च
इन्द्रो हन्ति--इति, तथा हि सति भिद्येत, अभिन्नं
च वाक्यम् उपलभ्यते, तदेवम् अवकल्पते, यदि
तुविग्रीवादयोऽस्य न उपदिश्यन्ते--इति स्तुत्यर्थं सङ्कीर्त्त्यते
तुविग्रीवादिः, ‘अन्धसो मदे ईट्टशो वृत्राणि हन्ति’--इति
एषा तु वचनव्यक्तिः, वृत्रबधोपदेशपरम् इदं वचनम्-
इति । यदपि वचनं,--बाहू ते इन्द्र रोमशौ, अक्षी ते
इन्द्र पिङ्गले’--इति, तदपि बाह्वोः रोमशत्वम् अक्ष्णोश्च
पैङ्गल्यम् आह, न बाहुसत्तामक्षिसत्तां च । यदपि
अक्षिसत्तां वदति--इति गम्यते,--‘चक्षुष्मते शृण्वते ते
ब्रवीमि’--इति, तदपि न चक्षुःसम्बन्धार्थं, चक्षुष्मते
ब्रवीमि--इति वचनसम्बन्धार्थं, तत् सतीमिव चक्षुष्मत्तां
स्तुत्यर्थम् उच्चारयति । कुतः एतत् अवगम्यते? । चतुर्थी-
निर्द्देशात्, यदि प्रातिपदिकाथाऽध्यवसीयते, तथा वाक्य-
म्भिद्येत, चक्षुष्मान्--इत्येवं च उद्दिश्येत, चक्षुष्मते ते
व्रवीमि--इति च । तस्मात् न किञ्चित् अर्न्यार्थदर्शनं
पुरुषविधतां देवतायाम् इदं ख्यापयति--इति, न च,
इदं भोजनं, न हि देवता भुङ्क्ते, तस्मात्, भोजनस्य
तदर्थत्वात्--इति तत् असद्वचनम् । यदपि स्मृत्युप-
चारान्यार्थदर्शनैर्भुङ्क्ते--इति, तत् अविग्रहत्वेन
प्रत्युक्तम् । अपि च, भुञ्जानायै देवतायै प्रत्तं हबिः
क्षीयेत । न च, मधुकरीवत् अन्नरसभोजिन्यो देवताः
--इति प्रमाणमस्ति, मधुकरीषु प्रत्यक्षं, न च तद्वत्
देवतायाम् । तस्मात् न भुङ्क्ते देवता इति । यदुक्तम् देवतायै
हविः प्रत्तं नीरसं भवति--इति । नैषदोषः, वातोपहतं
नीरसम्भवति--इति, शीतीभूतं च । न च, असौ कस्य
चित् अर्थस्य ईष्टे, अनीशा कथं दास्यति? ।--इति ।
यदुक्तं, स्मृत्युपचारान्यार्थदर्शनैः ईशाना देवता--इत्यव-
वगम्यते--इति । तन्न, स्मृतेः मन्त्रार्थवादमुलत्वात्-
इत्युक्तम्, उपचांरोऽपि,--‘देवग्रामो देवक्षेत्रम्’--इति
उपचारमात्रम्,--यो यदभिप्रेतं विनियोगमर्हति, तत्तस्य
स्वं, न च ग्रामं क्षेत्रं वा यथाभिप्रायं विनियुङ्क्ते देवता ।
तस्मात् न सम्प्रयच्छति--इति, देवपरिचारकाणान्तु ततो
भूतिर्भवति, देवताम् उद्दिश्य, यत् त्यक्तम् । यदुक्तम्,
अन्यार्थदर्शनम् ईशानां देवतां ख्यापयति,--‘इन्द्रो
दिव इन्द्र ईशे’--इत्येवमादीति, तत् प्रत्यक्षाम्
अनीशानां देवताम् उपलभ्य अध्यवस्यामः,--भाक्त एष
शब्दः--इति । ‘तत्र आह, + वचनप्रामाण्यादेव अस्य
ईशानता अवगम्यते, यद्देवलोका अर्थान् विनियुञ्जते,
तद्देवताभिप्रायादेव--इत्यध्यवस्यामः’--इति । तन्न,
पृष्ठ ०४५४
प्रत्यक्षात् प्रमाणात् देवतापरिचारकाणाम् अभिप्रायः
इत्यवगम्यते, स न शक्यो बाधितुम् । येऽपि देवताम्
ईशानां वर्णयन्ति, तेऽपि न अपह्नुवते परिचारकाणाम्
अभिप्रायम् । किं चाहुः, तथा देवता करोति, यथा
परिचारकाणाम् अभिप्रायो भवति इति, न च, स ईशानो
भवति, यः पराभिप्रायम् अनुरुध्यते, यस्य न स्वाभिप्रायात्
विनियोगो भवति । अपि च, न च एतद्वचनं, वर्त्तमानका-
लोपदेशत्वात्, प्रत्यक्षविरोधात्, स्तुतिवादोऽवधार्य्यते,
स्तुतिवादे च सम्भवति न वचनप्रामाण्यात् ईशिष्यते इति
गम्यते । न च, देवता फलेन सम्बध्नाति, या तदर्थं परि
चर्य्येत । यदुक्तं, स्मृत्युपचारान्यार्थदर्शनैर्द्ददाति प्रसीदति
च इति । तत्र स्मृत्युपचारयोर्व्यक्तं यत् अन्यार्थदर्शनं
तस्मै प्रीता इषमूर्ज्जम् इति, तन्न, अन्यस्य विधेराग्नानात्
दक्षिणतः सम्परिहर्त्तव्या इत्याह” तथा “तृप्त एवैनम्
इन्द्रः प्रजया पशुभिस्तर्पयति” इति अत्र ऐन्द्रस्य हविषो
विधातारम् । तस्मात् देवता न प्रयोजिका इति” भा० ।
“अतिथौ तत्प्रधानत्वमभावः कर्म्मणि स्यात्तस्य प्रीति-
प्रधानत्वात्” सू० । “यदुक्तम् अतिथिवत् इति तत्
परिहर्त्तव्यम् आतिथ्यम् अतिथिप्रयुक्तं स्यात् आतिथ्ये
हि तत् प्रीतिर्विषीयते अतिथिः परिचरितव्यः यथा
प्रीयते तथा कर्त्तव्यम् इति । भोजनं दानं वा कार्य्यम्
इति यद्यत् अतियये रोचते तत् कर्त्तव्यं यत् तस्मै
न रोचते न तत् बलात् कारयितव्यम् इति इह तु
कर्म्मणि अभावः प्रीतिविधानस्य । तस्मात्
विषमम् अतिथिना” शवरभाष्यम् । तदेतद्वेदा-
न्तिभिर्न्न मन्यते तैर्हि तेषां विग्रहत्त्वमङ्गीकृतं तथाच
शङ्कापूर्ब्बकं देवानां विग्रहवत्त्वं शा० सूत्रे तद्भाष्ये च
व्यवस्थापितं यथा । “विरोधः कर्म्मणीति चेन्नानेक-
प्रतिपत्तेर्द्दर्शनात्” शा० सू० “स्यादेतत् यदि विग्रह-
वत्त्वाद्यभ्युपगमेन देवादीनां विद्यास्वधिकारोवर्ण्येत
विग्रहवत्त्वादृत्विगादिवदिन्द्रादीनामपि स्वरूपसन्निधा-
नेन योगेऽङ्गभावोदृश्यते न च सम्भवति । बहुषु
युगपदेकस्येन्द्रस्य स्वरूपसन्निधानानुपपश्चेरिति चेन्नाय-
मस्ति विरोधः कस्मात्? अनेकप्रतिपत्तेः एकस्यापि देवा-
त्मनोयुगपदनेकस्वरूपप्रतिपत्तिः सम्भवति । कथमेत-
दवगम्यते? दर्शनात् । तथाहि “कति देवाः”? इत्युप-
क्रम्य “त्रयश्च त्री च शता च त्रयश्च त्री च सहस्रेति”
निरुच्य” कतमे ते? इत्यस्यां पृच्छ्वयां “महिमान
एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति ब्रुवती श्रुतिरैकैकस्य
देवतात्मनो युगपदनेकरूपतान्दर्शयति । तथा त्रयस्त्रिंश-
तोऽपि षड़ाद्यन्तर्भावक्रमेण “कतमएको देव इति प्राण”
इति प्राणैकरूपतान्देवानां दर्शयन्ती तस्यैवैकस्य प्राणस्य
युगपदनेकरूपतान्दर्शयति । तथा स्मृतिरपि “आत्मनो वै
सहस्राणि बहूनि भरतर्षभ! कुर्य्याद्योगी बलं प्राप्य तैश्च
सर्वैर्महीञ्चरेत् । प्राप्नुयाद्विषयान् कैश्चित् कैश्चिदुग्रन्तप-
श्चरेत् । संक्षिपेत्तु पुनस्तानि सूर्य्योरश्मिगणानिव” इत्येवञ्जा
तीयका प्राप्ताणिमाद्यैश्वर्य्याणां योगिनामपि युगपद-
नेकशरीरयोगं दर्शयति किमु वक्तव्यमाजानसिद्धानां
देवानाम् । अनेकरूपप्रतिपत्तिसम्भवाच्चैकैका देवता बहुरूपै-
रात्मानं प्रविभज्य बहुषु यागेषु युगपदङ्गभावं गच्छति,
परैश्च न दृश्यतेऽन्तर्द्धानादिशक्तियोगादित्युपपद्यते । अनेक
प्रतिपत्तेर्दर्शनादित्यस्यापरा व्याख्या । विग्रहवतामपि कर्माङ्ग
मावश्चोदनास्वनेका प्रतिपत्तिर्दृश्यते । क्वचिदेकोविग्रह-
वाननेकत्र न युगपदङ्गभावं गच्छति यथा बहुभिर्भोजय-
द्भिर्नैकोब्राह्मणो युगपद्भोज्यते । क्वचिच्चैको विग्रहवानने-
कत्र युगपदङ्गभावं गच्छति यथा बहुभिर्नमस्कुर्वाणैरेको
ब्राह्मणो युगपन्नमस्क्रियते तद्वदिहोद्देशपरित्यागात्मक-
त्वाद्यागस्य विग्रहतीमप्येकां देवतामुद्दिश्य बहवः स्वं-
स्वं द्रव्यं युगपत् परित्यक्ष्यन्तीति विग्रहवत्त्वेऽपि देवानां
न किञ्चित् कर्मणि विरुध्यते” भा० । “शब्द इति चेन्नातः
प्रभवात् प्रत्यक्षानुमानाभ्याम्” सू० । “मा नाम विग्रहवत्त्वे
देवादीनामुपगम्यमाने कश्चिद्विरोधः प्रसञ्जि, शब्दे तु
विरोधः प्रसज्येत, कथम्? औत्पत्तिकं हि शब्द-
स्यार्थेन सम्बन्धमाश्रित्यानपेक्षत्वादिति वेदस्य प्रामाण्यं
स्थापितम् । इदानीस्तु विग्रहवती देवताऽभ्युपगम्य-
माना यद्यप्यैश्वर्य्ययोगाद्युगपदनेककर्मसम्बन्धीनि हवींषि
भूञ्जीत तथापि विग्रहयोगादस्मदादिवज्जननमरणवती
सेति नित्यस्य शब्दस्यानित्येनार्थेनानित्यसम्बन्धे प्रमीय-
माणे यद्वैदिके शब्दे प्राभाण्यं स्थितं तस्य विरोधःस्या-
दिति चेन्नायमप्यस्ति विरोधः कस्मात्? अतः प्रभवात् अतएव
हि वैदिकाच्छब्दाद्देवादिकञ्जगत् प्रभवति । ननु जन्माद्यस्य
यत इति ब्रह्मप्रभवत्वं जगतोऽवधारितं कथमिह शब्द-
प्रभवत्वमुच्यते? । अपि च यदि नाम वैदिकाच्छब्दादस्य प्रभवो-
ऽन्युपगतः कथमेतावता विरोधः शब्दे परिहृतः? यावता
बसवोरुद्रा आदित्याविश्वेदेवामरुत इत्येतेऽर्था अनित्या एव,
उत्पत्तिमत्त्वात् तदनित्यत्वे तद्वाचकानां वैदिकानां वस्वा-
पृष्ठ ०४५५
दिशब्दानामनित्यत्वं केन वार्य्यते? प्रसिद्धं हि लोके
देवदत्तस्य पुत्रे उत्पन्ने यज्ञदत्त इति तस्य नाम क्रिय ते इति ।
तस्माद्विरोध एव इति चेन्न गबादिशब्दार्थसम्बन्धनित्यत्वदर्शनात् ।
न हि गवादिव्यक्तीनामुत्पत्तिमत्त्वे तदाकृतीनामप्युत्पत्तिमत्त्वं
स्यात् । द्रव्यगुणकर्मणां हि व्यक्तयएवोत्पद्यन्ते नाकृतयः ।
आकृतिभिश्च शब्दानां सम्बन्धो नव्यक्तिभिः व्यक्तीनामानन्त्यात्
सम्बन्धग्रहणानुपपत्तेः । व्यक्तिषूत्पद्यमानास्वप्याकृतीनां
नित्यत्वान्न गवादिशब्देषु कश्चिद्विरोधो दृश्यते । तथा
देवादिव्यक्तिप्रभवाभ्युपगमेऽपि आकृतिनित्यत्वान्न कश्चिद्-
वस्वादिशब्देषु विरोध इति द्रष्टव्यम् । आकृतिविशेषस्तु
देवादीनां मन्त्रार्थवादाभ्यां विग्रहवत्त्वाद्यवगमादवगन्तव्यः ।
स्थानविशेषसम्बन्धनिमित्ताश्चेन्द्रादिशब्दाः सेनापत्यादि
शब्दवत् । ततश्च योयस्तत्तत्स्थानमधितिष्ठति स स इन्द्रा-
दिशब्दैरभिधीयते इति न दोषो भवति । नचेदं शब्द-
प्रभवत्वं ब्रह्मप्रभवत्ववदुपादानकारणत्वाभिप्रायेणोच्यते
कथन्तर्हि? स्थितिवाचकात्मना नित्यशब्दे नित्यार्थसम्बन्धिनि शब्द
व्यवहारंयोग्यार्थ व्यक्ति निष्पत्तिरतः प्रभव इत्युच्यते” भा० ।
“ज्योतिषि भावाच्च” सू० । “यदिदं ज्योतिर्मण्डलं द्युस्था-
नमहोरात्राभ्यां बंभ्रमज्जगदवभासयति तस्मिन्नादित्यादयो
देवतावचनाः शब्दाः प्रयुज्यन्ते लोकप्रसिद्धेर्व्वाक्यशेषप्रसि-
द्धेश्च । न च ज्योतिर्मण्डलस्य हृदयादिना विग्रहेण,
चेतनतया अर्थित्वादिना वा योगोऽवगन्तुं शक्यते मृदादि-
वदचेतनत्वावगमात् । एतेनाग्म्यादयो व्याख्याताः । स्यादे-
तत् मन्त्रार्थवादेतिहासपुराणलोकेभ्यो देवादीनां विग्रह-
वत्त्वाद्यवगमादयमदोष इति नेत्युच्यते । न तावल्लोको
नाम किञ्चित् स्वतन्त्रं प्रमाणमस्ति प्रत्यक्षादिभ्यएव ह्यव्य-
भिचरितविशेषेभ्यः प्रमाणेभ्यः प्रसिद्ध एवार्थो लोकात्
प्रसिद्ध इत्युच्यते न चात्र प्रत्यक्षादीनामन्यतमं प्रमाणमस्ति ।
इतिहासपुराणमपि पौरुषेयत्वात् प्रमाणान्तरमूलतामाका-
ङ्क्षते । अर्थवादा अपि विधिनैकवाक्यत्वात् तत्स्तुत्यर्थाः
सन्तोन पार्थगर्थ्येन देवादीनां विग्रहादिसद्भावे कारणभावं
प्रतिपद्यन्ते । मन्त्रा अपि श्रुत्यादिविनियुक्ताः प्रयोग
समवायिनोऽभिधानार्थाः न कस्यचिदर्थस्य प्रमाणमित्याचक्षते ।
तस्मादभावो देवादीनामधिकारस्य” भा० । “भावन्तु
वादरायणोऽस्ति हि” सू० । तुशब्दः पूर्व्वपक्षं व्याव-
र्त्तयति । वादरायणस्त्वाचार्य्यो भावमधिकारस्य देवाना-
मपि मन्यते । यद्यपि मध्वादिविद्यासु देवतादिव्यामिश्रासु
असम्भवोऽधिकारस्य तथाप्यस्ति शुद्धायां ब्रह्मविद्यायां
सम्भवः अर्थित्वसासर्थ्याद्यप्रतिषेधापेक्षितत्वादधिकारस्य ।
न च क्वचिदसम्भव इत्येतावता यत्र सम्मवस्तत्राप्यधि-
कारोऽपोद्येत । मनुष्याणामपि न सर्वेषां ब्राह्मणादीनां
सर्वेषु राजसूयादिष्वधिकारः सम्भवति तत्र योन्यायः
सोऽत्रापि भविष्यति । ब्रह्मविद्याञ्च प्रकृत्य भवति लिङ्गदर्शनं श्रौतं
देवाद्यधिकारस्य सूचकं “तद्योयो देवानां प्रत्यबुध्यत स
एव तदभवत्” तथर्षीणामिति “ते होचुर्हन्त तमात्मानमन्वि-
च्छामो यमन्विष्य सर्ब्बांश्च लोकानाप्नोति सर्व्वांश्च कामा-
निति” “इन्द्रो ह वै देवानामभिप्रवव्राज विरोचनोऽसुराणा-
मित्यादि” च । स्मार्त्तमपि च गन्धर्ब्बयाज्ञल्क्यसंवा-
दादि । यदप्युक्तं ज्योतिषि भावाच्चेति अत्र ब्रूमः ।
ज्योतिरादिविषया अप्यादित्यादायो देवतावचनाः शब्दा-
श्चेतनावन्तमैश्वर्य्याद्युपेतं तं तं देवतात्मानं समर्पयन्ति
मन्त्रार्थवादेषु तथा व्यवहारात् । अस्ति ह्यैश्वर्य्ययो
गाद्देवतानां ज्योतिराद्यात्मभिश्चावस्थातुं यथेष्टञ्च तं तं
विग्रहं ग्रहीतुं सामर्थ्यम् । तथाहि श्रूयते सुब्रह्मण्या-
र्थवादे “मेधातिथिं ह काण्वायनमिन्द्रोमेषो भूत्वा
जहारेति” । स्मर्य्यते च “आदित्यः पुरुषो भूत्वा कुन्तीमुप-
जगाम स” इति । मृदादिष्वपि चेतना अधिष्ठतारोऽभ्युपग-
म्यन्ते “मृदब्रवीत् “आपोऽव्रुयन्” इत्यादिदर्शनात् । ज्योति-
रादिभूतधांतोरादित्यादिष्वप्यचेतनत्वमभ्युपगम्यते चेतनास्त्व-
धिष्ठातारो देवतात्मानो मन्त्रार्थवादादिव्यवहारादित्युक्तम् ।
यदप्युक्तम् मन्त्रार्थवादयोरन्यार्थत्वान्न देवताविग्रहा-
दिप्रकाशनसामार्थ्यमिति । अत्र ब्रूमः प्रत्ययाप्रत्ययौ हि
सद्भावासद्धावयोः कारणं नान्यार्थत्वमनन्यार्थत्वं वा ।
तथाहि अन्यार्थमपि प्रस्थितः पथि पतितं तृणर्पणाद्यस्ती-
त्येवं प्रतिपद्यते । अत्राह विषम उपन्यासः तत्र हि
तृणपर्ण्णादिविषयं प्रत्यक्षं प्रवृत्तमस्ति येन तदस्तित्वं प्रति-
पद्यते अत्र पुनर्विध्युद्देशैकवाक्यभावे स्तुत्यर्थेऽर्थवादेन पार्थ
गर्थ्येन न वृत्तान्तविषया” प्रवृत्तिः शक्याऽध्यवसाययितुम् ।
न हि महावाक्ये प्रत्यायके इवान्तरवाक्यस्य पृथक् प्रत्या-
यकत्वमस्ति यथा “न सुरां पिबेदिति नञ्वति वाक्ये पद
त्रयसम्बन्धात् सुरापाणप्रतिषेध एवैकोऽर्थो गम्यते, न पुनः
सुरां पिबेदिति पदद्वयसम्बन्धात् सुरापाणविधिरपीति ।
अत्रोच्यते । विषमौपन्यासः युक्तं यत् सुरापाणप्रति-
षेधे पदान्वयस्यैकत्वादवान्तरवाक्यार्थस्याग्रहणं” विध्युद्देशार्थ
वादयोस्त्वर्थवादस्थानि पदानि पृथमन्वयं वृत्तान्तविषय-
म्प्रतिपद्यानन्तरं कैमर्थ्यवशेन विधिस्तावकत्वं प्रतिपद्यन्ते ।
पृष्ठ ०४५६
यथाहि “वायव्यं श्वेतमालभेत भूतिकामः” इत्यत्र विध्युद्दे-
शवर्त्तिनां वायव्यादीनां पदानां विधिना सम्बन्धः “वायुर्वै
क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं
भूतिङ्गमयतीति” इत्येषामर्थवादगतानाम् पदानाम् । नहि
भवति वायुर्व्वाआलभेत क्षेपिष्ठा देवता वा अलभेतेत्यादि । वायु
स्वतावसङ्कीर्त्तनेन त्ववान्तरमन्वयं प्रतिपद्य एवंविशिष्ट
दैवत्यमिदं कर्म्मेति विधिं स्तु वन्ति । तद्यत्र योऽवान्तर-
वार्क्यार्थः प्रमाणान्तरगोचरोभवति तत्र तदनुवादेनार्थ-
वादः प्रवर्त्तते । यत्र प्रमाणान्तरविरुद्धस्तत्र गुणवादेन ।
यत्र तु तदुभयं नास्ति तत्र किं प्रमाणान्तराभावाद्गुण-
वादः स्यात् आहोस्वित् प्रमाणान्तराविरोधाद्विद्यमानार्थवाद
इति प्रतीतिशरणैर्ब्बिद्यमानार्थवादआश्रथणीयो न
गुणवादः । एतेन मन्त्रो व्याख्यातः । अपि च विघिभिरे-
वेन्द्रादिदैवत्यानि हवींषि चोदयद्भिरपेक्षितमिन्द्रादीनां
स्वरूपम् । न हि स्वरूपरहिता इन्द्रादयश्चेतसि आरोहयितुं
शक्यन्ते । न च चेतस्यऽनारूदायै तस्यै तस्यै देवतायै
हविः प्रदातुं शक्यते । श्रावयति च “यस्यै देवतायै हवि
र्गृहीतं स्यात् तान्ध्यायेत् वषट्करिष्यन्निति” । न च शब्द
मात्रमर्थस्वरूपं सम्भवतीति शब्दार्थयोर्भेदात् तत्र यादृशं
मन्त्रार्थवादयोरिन्द्रादीनां स्वरूपमवगतं न तत् तादृशं
शब्दप्रमाणकेन प्रत्याख्यातुं युक्तम् । इतिहासपुराणमपि
व्याख्यातेन मार्गेण सम्भवन्मन्त्रार्थवादमूलत्वात् प्रभवति
देवताविग्रहादि प्रपञ्चयितुम् । प्रत्यक्षमूलमपि सम्भवति,
भवति ह्यस्माकमप्रत्यक्षमपि चिरन्तनानां प्रत्यक्षम् ।
तथाच व्यासादयो देवंताभिः प्रत्यक्षं व्यवहरन्तीति स्मर्य्यते ।
यस्तु ब्रूयादिदानीन्तनानामिव पूर्व्वेषामपि नास्ति देवा-
दिभिर्व्यवहर्त्तुं सामार्थ्यमिति स जगद्वैचित्र्यम्प्रतिषेधेत्
इदानीमिव च नान्यदापि सार्वभौमः क्षत्रियोऽस्तीति ब्रूयात्
ततश्च राजसूयादिचोदना उपरुन्ध्यात् इदानीमिव च
कालान्तरेऽपि अव्यवस्थितप्रायान् वर्ण्णाश्रमाधर्म्मान् प्रतिजा-
नीत ततश्च व्यवस्थाविधायिशास्त्रमनर्थ कं कुर्य्यात् । तस्मात्
धर्मोकर्षवशाच्चिरन्तनाः देवताभिः प्रत्यक्षं व्यवजह्वुरिति श्लि-
ष्यते । अपिच स्मरन्ति “स्वाध्यायादृष्टदेवतासम्प्रयीग” इत्या-
दि योगोऽप्यणिमाद्यैश्वर्य्यप्राप्तिफलकः स्मर्य्यमाणो न शक्यते
साहसमात्रेण प्रत्याख्यातुम् । श्रुतिश्च योगमाहात्म्यं
प्रत्याख्यापयति “पृथ्व्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके
योगयुणे प्रवृत्ते । न तस्य रोगो न जरा न मृत्युः प्राप्तस्य
योगाग्निमयं शरीरमिति” । ऋषीणामपि मन्त्रब्राह्मण
दर्शनात् सामर्थ्यं नास्मदीयेन सामर्थ्येनोपमातुं युक्तम् ।
तस्मात् समूलमितिहासपुराणम् । लोकप्रसिद्धिरपि न
सति सम्भवे निरालम्बनाध्यवसातुं युक्ता । तस्मादुपपन्नो
मन्त्रादिभ्यो देवादीनां विग्रहवत्त्वाद्यवगमः । ततश्चा-
र्थित्वादिसम्भवादुपपन्नो देवादीनामपि व्रह्मविद्यायामधि-
कारः । क्रममुक्तिदर्शनान्यप्येवमेवोपपद्यन्ते इति” भा० ।
विग्रहादिपदेन “विग्रहोहविषां भोगऐश्वर्य्यञ्च प्रसन्नता ।
फलप्रदानमित्येतत् पञ्चकं विग्रहादिकमिति” आन० गि०
उक्तं पञ्चकं ग्राह्यं तच्च क्रमेण मीमांसाभाष्ये पूर्ब्बपक्षे
दर्शितम् । शब्दचिन्तामणावपि देवानां विग्रहवत्त्वं
चेतनत्वञ्च व्यवस्थापितम् यथा “एवं देवतादावपि
इन्द्रमुपासीतेत्यादौ लोके प्रयोगस्यानियमाद्गौणतयैव
व्यवहाराच्चार्थाद्यनध्यवसायेन लौकिके सहस्राक्षादावि-
न्द्रादिपदशक्तिग्रहः प्रमाणञ्च इन्द्र सहस्राक्ष इत्यादि-
विधिसमभिव्याहृतोऽर्थवादएव स्वर्गपदवत् । अथ स्वर्गपदे
प्रवृत्त्यन्थथानुपपत्या “तत्सुखं स्वःपदास्पदमिति” श्रुतेश्चार्थ-
वादादेव शक्तिग्रहः नचेह तथार्थवादः किन्तु “इन्द्रः
सहस्राक्षः इत्यादिस्तावकत्वेन प्रवृत्तिपर इति चेत् न इन्द्रः
सहस्राक्षः” इत्यादिप्रसिद्धपदसामानाधिकरण्यश्रुतितो
बाधकं विना सहस्राक्षस्यैवेन्द्रादिपदवाच्यत्वावधारणात्
प्रसिद्धपदसमन्वयबलेन प्रतीयमानमर्थमबाधितमादायैव तेषां
प्रवृत्तिपरत्वात् मन्त्रप्रकाशितशशिशेखराद्युपेतमुद्दिश्य
हविस्त्यागेन तत्रैव याज्ञिकानां देवताव्यवहारात्
अपि च शिवाय गां दद्यादित्यादौ देवतासंप्रदा-
नत्वश्रुतेः, शिवादिसहस्रनाम्नां पर्य्यायत्वेन श्रुते र्महा-
जनपरिग्रहेण प्रमाणत्वाताराधितदेवताया वरदातृत्वश्रु-
तेश्च बाधकं विना चेतनैव देवता । अथ देवताचैतन्मे
तत्प्रीतिरेव यागव्यापार इति नापूर्वसिद्धिरिति चेत् न प्रीतेः
सुखस्य तदनुभवस्य चाशुतरविनाशित्वात् तज्जन्यसंस्कारस्य
स्वाविषये फलाहेतुत्वात् फलहेतुस्थायिकृतिव्यापारा-
पेक्षायां लाघवेन कृतिसमानाश्रयस्यैव व्यापारत्वकल्पनात्
नानायागेष्वेकदाह्वाने चैकदा सन्निधानं तद्बुद्धिविशेष एव
प्रतिष्ठितविधिना प्रतिमादावहङ्कारवत् । अथ राजसू-
यादिफलत्वेन श्रुतेरिन्द्रादिरचेतनएव । देवता चेतना नास्ति
मानाभावात् किन्तु देशनादेशितचतुर्थ्यन्तपदनिर्द्दिश्यत्वं
देवतात्वम् इन्द्रायेत्यादिपदमेव देवता । अतएवाग्निप्रकाशक
मन्त्रेऽग्निप्रणयनस्यान्तरम् अग्नये इति नियमतो
हविस्त्यागः न पर्य्यायान्तरेण । न चेन्द्रोद्देशेन हविस्त्यागः
पृष्ठ ०४५७
इन्द्रनिष्ठकिञ्चिज्जनकः तत्स्वरूपाजनकत्वे सति
तदुद्देशेन क्रियमाणत्वात् ब्राह्मणायदानवदिति वाच्यम्
अप्रयोजकत्वात् तदर्थत्वेन क्रियमाणत्वस्योपाधित्वाच्च
इन्द्रायस्वाहेत्यत्र न तादर्थ्ये चतुर्थी किन्तु स्वाहादि
पद--योगौपपदविभक्तिरेव अन्यथा नमःस्वस्तिस्वाहा-
स्वधेत्यादिसूत्रवैयर्थ्यात् मैवं चतुर्थ्यन्तपदस्य देवता-
त्वे मानाभावात् चतुर्थीं विनापि इन्द्रो देवतेति
व्यवहारदर्शनात् अग्नये कव्यवाहनायेत्यादौ देवताद्वय
प्रसङ्गाच्चः” इन्द्र सहस्राक्ष इत्यर्थवादस्य “इन्द्रमुपा-
सीत” त्यादिविधिसमभिव्याहारेण ऐकवाक्यतयोपास्यत्वात्
देवस्वं नाददीतेत्यत्र देवमुद्दिश्य त्यक्ते शिष्टानां
देवस्वत्वेन व्यवहारात् अग्नय इति पदेन नियमतस्त्यागम्य
श्रुतिबोधितत्वेन तथात्यागस्य फलहेतुत्वात् । नच वीजा
क्षराणां देवतात्वात् तत्रैव शिवादिपदशक्तिग्रह इति
वाच्यम् वीजाक्षराणांचतुर्थ्यन्तत्वानियमात् तदप्रतीतावपि
प्रकाशितशशिशेखराद्युपेतमुद्दिश्य हविस्त्यागेन तत्रैव
याज्ञिकानां व्यवहारः । वीजाक्षराणां हविस्त्यागि
त्वेनानुद्देश्यत्वात् शिवस्य प्रतिमन्त्रं वीजाक्षराणां नानात्वा
दननुगमेन तत्तत्पदशक्तिग्रहस्याशक्यत्वाच्च नच मूर्त्तिभेदेन
शिवशरोराणामननुगतत्वेत् तवापि न शक्तिह इति वाच्यम्-
बाल्यादिना भिन्नशरीरेषु चैत्रत्ववछिवत्वजातेरदृष्टविशे-
षोपगृहीतत्वस्य चानुगतत्वात् अदृष्टशून्थस्य चेश्वरस्य न
देवतात्वम् । ईशानश्च तद्भिन्न एव” ।

अविघ्न न० विघ्नं कार्य्यप्रतिबन्धकम् अभावे न० त० । १ विघ्ना-

भावे “अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम्” रघुः
“अविघ्नमस्तु सावित्र्याः प्रदाने दुहितुस्तव” भा० व० प०
न० ब० २ विघ्नशून्ये त्रि० “अविघ्नं गच्छ पन्थानम्”
रामा० । अर्थाभावे अव्ययी० ३ विघ्नाभावे अव्य० ।

अविचक्षण त्रि० विरोधे न० त० । विचक्षणभिन्ने मन्दे अपटौ

अविचार पु० विचारः अभावे त० त० । १ विचाराभावे

“अविचारेण कर्त्तव्यम्” स्मृतिः न० ब० । २ विचारशून्ये
“अविचारपुरेदेशे यः पलायति जीवति” हितो० । अवीनां
चारो यत्र । ३ मेषचारणयोग्ये देशे न विगतश्चारो दूतो यस्य
न० ब० । ४ चारयुक्ते त्रि० ।

अविचारित त्रि० न विचारितः । इदं कर्त्तव्यं न वेति विवेकाभावेनाकृते ।

अविचाल्य त्रि० न विचाल्यः अन्यथा कार्य्यः । अन्यथाकार्य्य-

भिन्ने स्थिरैकरूपे । “अविचाल्यमेतदुक्तं तथ्यञ्च भवता
वचः” भा० व० प० ।

अविचेतन विशेषेण चेतना विचेतना प्रा० त० न० ब० । विशे-

षतोज्ञानशून्ये १ संज्ञारहिते २ नष्टचैतन्ये । “यद्वाग्-
वदन्त्यविचेतनानि” ऋ० ८, १००, १० ।

अविच्छिन्न त्रि० न० त० । सन्तते । अविच्छिन्न तैलधारा ।

अविच्छेद पु० न विच्छेदः अभावे न० त० । १ विच्छेदाभावे

सन्ततौ न० ब० । २ विच्छेदशून्ये सन्तते । विच्छेदो नाम
एकजातीयद्रव्यगुणादीनामन्यजातीयेन व्यवधानम् ।

अविज्ञात त्रि० न० त० । १ विशेषेणाज्ञाते “अविज्ञातं तु यत्

क्रीतं क्रेता वा यदि वा मृतः” नाविजाते जलाशये”
इति च स्मृतिः अर्थनिश्चयशून्ये त्रि० २ यदधोतमविज्ञातं
निगदेनैव पव्यते” इति वेदानु० ।

अविज्ञातृ पु० विज्ञाता जीवस्तद्विलक्षणः । १ परमेश्वरे जीवेन

हि आत्मनि कर्त्तृत्वाभिमानेन ज्ञातृत्वं कल्पितमिति
तद्वासनया च तेन कुण्ठीभूयते ईश्वरस्तु ततो विलक्षणः ।
“अविज्ञाता सहस्रांशुः” विष्णुस० २ तत्तद्विषयज्ञातृभिन्ने
त्रि० स्त्रियां ङीप् ।

अविज्ञेय त्रि० न० त० । १ अवेद्ये २ इदन्तया विज्ञातुमशक्ये

परमेश्वरे पु० स हि प्रमाणान्तरावेद्यतया स्थूलदृष्ट्या
न विज्ञेयः ।

अविडीन न० न विडीनम् । पक्षिणामाभिमुख्येन गमने

अवित त्रि० अव--क्त । रक्षिते पालिते च ।

अवितथ न० वितथं मिथ्या विरोधे न० त० । सत्ये वचनादौ

“तदवितथमवादीर्यन्मम त्वं प्रियेति” माघः “य आवृणो-
त्यवितथं ब्रह्मणा श्रवणावुभौ” मनुः २ तद्वति त्रि० ।
“अवितथा वितथा सखि! मा गिरः” माघः ।

अवितर्क्य न० तर्कयितुमशक्यः । तर्कयितुमशक्ये १ श्रौतार्थे ।

“अचिन्त्याः खलु ये भावा न तांस्तर्केण बाधयेत्” इत्युक्तेः
विपरीततर्केणाबाध्यः श्रौतार्थः । २ तर्कमात्रेणावि-
ज्ञेये च ।

अवितारिन् त्रि० वितारो विगमोऽस्त्यस्य न० त० स्त्रियां

ङीप् । अनपायिनि “सुमेधामवितारिणीम्” । ऋ० २८,
५, ६, । “अवितारिणीम् वितारः विगमनमपायः
अनपायिनीम्” भा० ।

अवितृ त्रि० अव--तृच् स्त्रियां ङीप् । रक्षितरि “सखीयताम-

विता बोधि सखा” ऋ० ४, १७, १८, सा नो बोध्यवित्री”
ऋ०७, ९६, २ ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/अवधीर&oldid=310875" इत्यस्माद् प्रतिप्राप्तम्