वाचस्पत्यम्/अन्यलिङ्ग

विकिस्रोतः तः


पृष्ठ ०२१६

अन्यलिङ्ग पु० अन्यस्य स्वविशेष्यस्य लिङ्गमिव लिङ्गमस्य ।

विशेष्यलिङ्गानुसारिलिङ्गके शब्दे । वा कप् । अन्यलिङ्ग-
कोऽप्युक्तार्थे “ज्ञेयाः सप्तान्यलिङ्गका” इत्यमरः ।

अन्यवर्ण्ण पुंस्त्री अन्यो वर्ण्णः यस्य । सविजातीयवर्ण्णे

यथा ब्राह्मणस्य क्षत्रियः क्षत्रियस्य वैश्यजातिरित्यादि ।

अन्यवादिन् पु० अन्यथा प्रतिज्ञातार्थादन्यथा वदति

वदणिनि । हीनप्रतिज्ञे वादिनि--प्रतिवादिनि च । “अन्यवादी
क्रियाद्वेषी नोपस्थायी निरुतरः । आहूतः प्रपलायी च
हीनः पञ्चविधः स्मृत” इति नारदसंहिता ।

अन्यविवर्द्धित पुंस्त्री० अन्यया स्वमातृभिन्नया विवर्द्धितः

पुंवत् । कोकिले । परवर्द्धितमात्रे त्रि० ।

अन्यव्रत त्रि० अन्यत् वैदिकाद्भिन्नं व्रतं कर्म्म यस्य । श्रुति-

स्मृति--विहितव्यतिरिक्तकर्म्मकारके असुरादौ यथेष्टाचारि-
मानुषे च । “अपद्वेषो अपह्वरोऽन्यव्रतस्य ऋ० ५, २०२,
अकर्म्मा दस्युरभि नो अमन्तुरन्यव्रतोऽमानुषः ऋ०
१०, २२, ८, ।

अन्यशाख पु० अन्या स्वाध्यायभिन्ना शाखा वेदभागभेदो यस्य ।

स्वाध्वायवेदशाखाभिन्नशाखाध्यायिनि “अन्यशाखोद्भवो-
दत्तो गृहीतश्चोपनायित” इति दत्तक० च० स्मृतिः ।
वा--कप् । अन्यशाखकोऽप्युक्तार्थे । स्वशाखामुत्सृज्य
अन्यशाखामध्येतरि च । स्वार्थे कन् । शाखारण्डे ।

अन्यसाधारण त्रि० अन्येन साधारणः । अन्येन सदृशे,

“अप्यप्रसिद्धं यशसे हि पुंसामनन्यसाधारणमेव कर्म्मेति”
कु० अन्यस्य साधारण्यवति स्वपरस्वत्वास्पदीभूते साधारणे
वित्तादौ ।

अन्यादृक्ष त्रि० अन्य इव पश्यति अन्य + दृश--“कर्त्तरि

कृत्” पा० उक्तेः कर्म्मकर्त्तरि क्स, कर्म्मणि सक्
इति मु० बो० । अन्यादृशे । क्विन् । अन्यादृगप्यत्र
स्त्रियां ङीप् । कञ् । अन्यादृशस्तत्रार्थे “इमे नूनमीदृशा
अन्यादृशा” इति छा० उप० । स्त्रियां ङीप् ।

अन्याय पु० न्यायो विचारः, सङ्गतिःऔचित्यं, प्रतिज्ञादिपञ्चक-

प्रतिपादकवाक्यञ्च अभावार्थे न० त० । विचाराभावे,
सङ्गत्यमावे, अनौचित्ये, पञ्चाङ्गन्यायाभावे च न्यायशब्दार्थे
त्वधिकं वक्ष्यते । न० ब० । विचारशून्ये, औचित्यशून्ये,
असङ्गते, प्रतिज्ञादिपञ्चकवाक्यशून्ये च त्रि० । “अन्या-
येनापि तं यान्तं येऽनुयान्ति सभासद” इति स्मृतिः ।
“अन्यायेनापि यद्भुक्तं बहून्यब्दशतानि चेति” नारदस० ।

अन्याय्य त्रि० न न्याय्यः । न्यायादनपेतभिन्ने अनुचिते ।

अन्यार्थ पु० अन्योऽर्थः वा दुगभावः । भिन्नार्थे । अन्योर्थः-

अभिधेयं प्रयोजनं तास्य । भिन्नाभिधेयवाचके शब्दे
भिन्नप्रयोजनके पदार्थे च त्रि० ।

अन्यून त्रि० न न्यूनम् । हीनभिन्ने व्याप्यभिन्ने च । “अन्यू-

नानतिरिक्तवृत्तित्वमवच्छेदकत्वमिति” न्यायप्रकरणम् ।

अन्यूनाधिक त्रि० न न्यूनं नाप्यधिकम् । समानभावप्राप्ते

न्यूनाधिकतारहिते ।

अन्यूनानतिरिक्त त्रि० अन्यूनः अहीनः अनतिरिक्तः

नाधिकः विशेषणयीरप्येकस्य विशेष्यताविवक्षया क० ।
समाने । “अन्यूनाततिरिक्ताङ्गीं योषितं सौम्यदर्शना-
मिति” स्मृतिः । अन्यूनानतिरिक्तवृत्तित्वमिति न्या० प्र० ।

अन्येद्युष्क त्रि० अन्येद्युः अन्यस्मिन्नहनि भवः कन् उदु

पधत्वात् षत्वम् । अन्यदिवसभवे । “अन्येद्युष्कमहो-
रात्रादेककालं प्रवर्त्तते इति” सुश्रुतम् ।

अन्येद्युस् अव्य० अन्यस्मिन्नहनि अन्य + एद्युस् । अन्यदिवसे

इत्यर्थे “परेद्यव्यद । पूर्ब्बेद्युरुन्येद्युश्चापि चिन्तयन्निति”
भट्टिः “अन्येद्युरात्मानुचरस्य भावमिति” रघुः ।

अन्योढा स्त्री अन्येन उढ़ा । परकीयनायिकायाम् “यात्रादि-

निरताऽन्योढ़ा कुलटा गलितत्रपेति” सा० द० ।

अन्योदर्य्य पु० अन्यस्मिन् स्वमातृभिन्ने उदरे गर्मे भवः

उदर + यत् । एकपितृके भिन्नमातृके वैमात्रेये भ्रातरि ।
“अन्योदर्य्यस्तु संसृष्टो नान्योदर्य्यीधनं हरेरिति याज्ञ०
स्मृतिः । तथाभगिग्यां स्त्री । अन्योदरजातमत्रे त्रि०
अतएव दायभागे द्विचनव्याख्याने भ्रातृपुत्त्रादीनामपि
अत्योदर्य्यपदार्थतया दायाधिकार उक्तः ।

अन्योन्य त्रि० अन्य + कर्म्मव्यतिहारे (एकजातीयक्रियाकरणे)

द्वित्वम् पूर्ब्बपदे सुश्च । परस्परार्थे । “अन्योन्यमुत्पीड़य
दुत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धमिति” “अन्योन्य
संसक्तसहस्त्रियामम्” “अन्योन्यसंस्पर्शनिमीलिताक्षौ”
इति “अन्योन्यलोलानि विलोचनानिनीति” च कुमा०
कृतद्वित्वस्यापि सर्व्वनामता तेनान्योऽन्यस्मै इत्यादि ।
“अन्योन्यस्मिन्नन्योन्यात्मकतामध्यस्येति” शारी० भा० ।
“तावेतावन्योन्यस्मिन् प्रतिष्ठितौ” इति वृ० उ० अन्यो-
न्यस्या एवैतच्छ्रिया प्रतिष्ठमानाय इति कौ० व्रा०
“अन्योन्यमुभयोरेकक्रियायाः करणं मतमि” त्युक्तलक्षणे
अर्थालङ्कारभेदे न० । “त्वया सा शोमते तन्वी तया
त्वमपि शोभसे । रजन्या शोभते चन्द्रश्चन्द्रेणापि च
यामिनी” सा० द० ।
पृष्ठ ०२१७

अन्योन्याध्यास पु० अन्योन्यस्मिन् अन्योन्यतादात्मस्या-

ध्यासः आरोपः । वेदान्तिमतसिद्धे परस्परतादात्मारोपे
यथा अन्तःकरणे चेतनाध्यासः, चेतने वा अन्तःकरण
तादात्माध्यासः “जलव्योम्ना घटाकाशो यथा सर्वस्तिरो-
हितः । तथा जीवे च कूटस्थः सोऽन्योन्याध्यास उच्यते”
इति वृद्धाः ।

अन्योऽन्याभाव पु० अन्योन्यस्मिन् अन्योऽन्यस्य अभावः ।

भेदे । भेदो हि यथा घटे पटस्य, तथा पटे घटस्य सदाऽस्ति,
संसर्गाभावस्तु नैवं, घटे भूतलस्याभाचेऽपि भूतले घटस्य
कदाचित् सत्त्वसंभवेन सदाभावाभावात् । “अभावस्तु द्विधा
संसर्गान्योऽन्याभावभेदत” इति भाषा० तादात्म्यसंबन्धाव-
च्छिन्नप्रतियोगिताकाभावत्वम् अन्योन्याभावत्वमिति मुक्ता० ।
तच्च अखण्डोपाधिरिति नान्योन्याश्रयः इति तु नव्याः ।

अन्योन्याश्रय त्रि० अन्योन्यमाश्रयतीति आ + श्रि--अच् ।

परस्परसापेक्षे । न्यायमते तर्कविशेषे पु० । स च एकस्य
ज्ञानादिजननाय यथाऽन्यज्ञानाद्यपेक्षा तथातस्य ज्ञानादि
जननायेतरस्य ज्ञानापेद्यक्षेति स्वापेक्षापेक्षित्वनिमित्तकोऽ-
निष्टः प्रसङ्गः । अपेक्षा च ज्ञप्तौ, उत्पत्तौ, स्थितौ च
ग्राह्या तत्र ज्ञप्तौ “घटोऽयम् यद्येतद्घटज्ञानजन्यज्ञान-
विषयः स्यात् तदैतद्घटभिन्नः स्यात् तत्र स्वज्ञानस्य
स्वज्ञानजन्यत्वेनानिष्टं प्रसज्येत स्वापेक्षापेक्षिज्ञानत्वात्
स्वापेक्षित्घटज्ञानरूपविषयस्य तज्जनकज्ञानविषयाद्भेद-
रूपमनिष्टञ्च सज्येत अतोघटस्य घटभेदप्रसङ्गोऽनिष्टः ।
उत्पत्तौ यथा घटोऽयं यद्येतद्घटजन्यजन्यः स्यात्
तदैतद्घटभिन्नः स्यादित्यादि । एतद्घटस्य उत्पत्तौ
एतद्घटजन्यसापेक्षत्वे कारणस्य कार्य्याद्भेदनियतया
एतद्घटस्य एतद्घटभेदरूपोऽनिष्टःप्रसङ्गः । स्थितौ यथा
घटोऽयं यद्येतद्घटवृत्तिवृत्तिः स्यात् तदा तथात्वेनोप-
लभ्येत न च तथा उपलभ्यते तथात्वे च घटस्य
घटवृत्तित्वापक्षिरनिष्टा प्रसज्येत । एतेषु ज्ञप्तिविपयतयैव
प्रायशोऽनिष्टप्रसङ्गः । सर्वत्र तन्मूलकमेव स्वग्रहसापेक्षग्रह
सापेक्षग्रहकत्वमन्योन्याश्रयत्वं तत्र तत्र व्यवह्रियते ।
अतएव परस्परज्ञानसापेक्षज्ञानाश्रयोऽन्योन्याश्रय इति
स्मार्तैरुक्तम् । एवञ्च अन्योन्यपदस्य तज्ज्ञाने, तदुत्पत्तौ,
त्तस्थितौ च लक्षणा तदाश्रयः अन्योन्याश्रय इति
त्रितयसाधारणः विग्रहः ।

अन्वक्ष त्रि० अनुगतमक्षमिन्द्रियं गतिस० । प्रत्यक्षे, अनुपदे,

अनुगते च । अक्ष्णः ममीपम् अव्ययी० टच्समा० ।
चक्षुर्निकटे अव्य० ।

अन्वग्भाव पु० अनूचोभावः । पश्चाद्गन्तृत्वे, आनुगत्ये ।

अन्वच् त्रि० अनु + अन्च--क्विन् । अनुगामिनि, स्त्रियां

ङीप् । “समानबन्धू अमृते अनूची” ऋ० १, ११३, २,
अनूची अन्वञ्चन्त्याविति भा० । “तस्मादिमे अन्वञ्चश्च
तीर्य्यञ्चश्च” श० ब्रा० । पशुश्चान्वक् कात्या० ६, ५, ६ ।
अनु पश्चादञ्चतीति तद्व्या० । अनुपदे न० अव्य०
अमरः । “अन्वग्ययौ मध्यमलोकपालैति” रघुः अनुपदं
यथावित्यर्थः स्वरादेराकृतिगणत्वेन तद्गणीयः अनुमाने
अव्य० प्रो० मनो० ।

अन्वन् त्रि० अन--वनिप् । अनुगन्तरि । “अन्वासि रात्र्यै-

त्वेति” ता० ब्रा० स्त्रियां ङीप् । भाष्यकृता तु अनुपूर्ब्बा-
द्वातेरेतद्रूपमित्युक्तम् । तेन अनु + वा--क पृ० रूपसिद्धिः ।
स्त्रियां टाप् ।

अन्वय पु० अनु + इण्--भावे अच् । सन्ततौ, अनुगतौ,

“जन्माद्यस्य यतोऽन्वयादिति” भाग० । वृत्तौ, आनुकूल्ये,
कार्य्ये--कारणस्यानुसरणे, कार्य्यसत्तापादकस्वसत्ताकस्य
कारणस्य कार्य्ये स्थितौ, स्वसत्तानियतसत्तावत्कार्य्यसंबन्धे,
च । कर्त्तरि अच् । वंशे तस्य पूर्ब्बपुरुषदेहावयवानुगमना-
त्तथात्वम् । “तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तर”
इति “रघूणामन्वयं वक्ष्ये” इति “तस्यान्वये भूपतिरेष
जात” इति “अथ स्तुते वन्दिभिरन्वयज्ञैरिति” च रघुः
पदानां, स्वोपस्थाप्यपदार्थानां वा परस्परसंबन्धे । “तात्-
पर्य्याख्यां वृत्तिमाहुः पदार्थान्वयबोधने” इति सा० द०
“परस्परनिरपेक्षाणामेकस्मिन्नन्वयः समुच्चय” इति सि०
कौ० । “मुख्यार्थस्येतराक्षेपो वाक्यार्थान्वयसिद्धये” इति
सा० द० । तत्सत्त्वे तत्सत्त्वरूपे “गुणानां तदन्वयव्यतिरेका-
नुविधायित्वादिति” सा० द० । अन्वेति इन्द्रियम् कर्त्तरि
अच् । प्रत्यक्षे, “स्यात् साहसं त्वन्वयवत् प्रसभं कर्म्म यत्
कृतम् । निरन्वयं भवेत् स्तेयमिति” मनुः । अनुगतमात्रे
त्रि० । “का त्वमेकाकिनी भीरु! निरन्वयजने वने” इति
भट्टिः अनुगतजनशून्ये इत्यर्थः ।

अन्वयबोध पु० एकपदार्थे धर्म्मिणि अपरपदार्थस्य अन्वयं

सम्बन्धं बोधयति आकाङ्क्षादिना, बुध--णिच्--अण् उप०
स० । शब्दज्ञानजन्ये शाब्दबोधरूपानुभवभेदे । स च बोधः
न प्रत्यक्षं नाप्यनुमेति नैयायिकाः । किन्तु ततोविलक्षण-
पृष्ठ ०२१८
कारणकत्वाद्भिन्न इति यथोक्तं प्रकाशिकायाम् ।
“शब्दो यदि स्वार्थस्यानुभवे भवेद्धेतुस्तर्हि प्रात्यक्षिकएवौप-
नायिके, तत्र नाकाङ्क्षाद्युपयोगः, तद्भिन्ने चेदानुमानिक
एव न च तत्र सद्यः, साकाङ्क्षत्वादिधीमात्रेण, व्याप्तिबोध-
स्याप्यधिकस्यापेक्षणादित्याशङ्काममनेतुमन्वयवोधनामकमनु-
भवातरं दर्शयति । “साकाङ्क्षशब्दैर्योबोधस्तदर्थान्वय
गोचरः । सोऽयं नियन्त्रितार्थत्वान्न प्रत्यक्षं न चानुसा” ।
शाब्दधियः प्रत्यक्षत्वाभ्युपगमे प्रत्यक्षादिसामान्यं प्रति शाब्द-
सामग्र्याः प्रतिबन्धकत्वासम्भवात्, शाब्दान्यप्रत्यक्षत्वाद्य-
वच्छिन्नं प्रति तस्यास्तथात्वमपेक्ष्य शाब्दधियः प्रत्यक्षाद्भि-
न्नत्वकल्पनायामेव लाघवाच्च । लिङ्गजन्यत्वेनान्वय-
बुद्धेरनुमितित्वसिद्धावनायत्त्या शाब्दान्यानुमित्यां तत्सा-
मग्र्याः प्रतिबन्धकत्वं वाच्यमतो लिङ्गजत्वमेव शाब्द-
धियः खण्डयति । “योग्यतार्थगताऽऽकाङ्क्षा शब्दनिष्ठाऽनु-
भाविका । प्रत्येकं वा मिलित्वा वा नैते लिङ्गमसिद्धितः” ।
गवादावस्तित्वादेरनुभवार्थं न तावदस्तित्वबाधविरहरूपं
लिङ्गं बाधनिश्चयाभावेनान्यथासिद्धस्य योग्यतानिश्चयस्या-
नावश्यकत्वात् योग्यतामात्रलिङ्गकसंसर्गानुमानस्यान्वय
बुद्धित्वे घटः कर्म्मत्वमित्यादिस्थलीयस्यापि तस्य तथात्वा-
पाताच्च । योग्यतायाः संशयस्थलेऽप्यग्वयबुद्धेरानुभविक-
त्वात् । गवादावस्तित्वादेरन्वयबोधानुकूलानुपूर्ब्बीपर्य्यवसिता
त्वाकाङ्क्षा खयमसिद्धा कथमस्तित्वाद्यन्वयबोधं साधयेत्
तत्र गवास्तित्वादेर्योग्यताविशिष्टमप्याकाड्क्षावत्त्वं न
तदन्वयस्य नुमापकप्रसिद्धेरित्यादि” ।

अन्वयिन् त्रि० अन्वेति अनु--इण--णिनि । शाब्दबोधोपयोगि

संबन्धवति अनुगते च अन्वयः वंशादिः अस्त्यस्य इनि ।
प्रागुक्तान्वयवति स्त्रियां ङीप् । न्यायनये अन्वयव्याप्ति-
युक्ते हेतौ पु० “केवलान्वयी” ।

अन्वर्था त्रि० अनुगतोऽर्थम् अत्या० स० । अर्थानुगते व्युत्पत्ति-

युक्ते शब्दे “तथैव सोऽभूदन्वर्थः राजा प्रकृतिरञ्जनादिति”
रघुः ।

अन्ववसर्ग पु० अनु + अव + सृज--घञ् अनुगतोऽवसर्गमि-

च्छानुरूपप्रचारम्, अत्या० स०, अनुरूपं स्वेच्छानुरूपतया
अवसृज्यते न प्रतिरुध्यते अनेन इति वा अनु + अव +
सृज--घञ् । यर्थष्ट क्रियतामित्येवं रूपायामनुज्ञायाम्
कामाचारानुज्ञाने, “अपिः पदार्थसंभावनान्ववसर्गगर्हा-
समुच्चयेषु” पा० अपि सिञ्च अपि स्तुहि इत्यादौ यथेष्टं
कुर्य्या इत्याद्यर्थोऽपिना द्योत्यते न तु कुत्रापि अनु-
ज्ञया प्रतिरोधः क्रियते इति तस्य तथात्वम् ।

अन्ववाय पु० अन्ववाय्यते उत्पत्त्यानुसंबध्यते अनु + अव +

अय--घञ्, इण्--अच् वा अनुन्ववेति अनुगच्छति देहा-
वयवम् अनु + अव + इण्--कर्त्तरि अच् वा । वंशे, सन्ताने च ।

अन्वयव्यतिरेकिन् त्रि० अन्वयव्यतिरेकौ स्तोऽस्य० इनि ।

साध्यसाधके हेतुविशेषे, यथा वह्निसाधने धूमः । स हि
वह्निमति महानसादौ, वह्न्यभाववति जलादौ च भावा-
भावाभ्यां वह्नेररन्वयव्याप्तेः व्यतिरेकव्याप्तेश्च तथेति
न्यायमते प्रसिद्धम् । अन्वयोऽन्वयव्याप्तिर्व्यतिरेको व्यति-
रेकव्याप्तिस्तौ विद्येते अस्य इनि । अन्वयव्याप्तिमति
व्यतिरेकव्याप्तिमति च हेतौ । यथा वह्नौ साध्ये धूमस्य
अन्वयव्यतिरेकव्याप्तिकत्वम् । तत्र च धूमसत्त्वे वह्नि
सत्त्वरूपान्वयव्याप्तिः वह्निव्यतिरेके च धूमाभावः व्यतिरेक-
व्याप्तिरित्युभयव्याप्तिसत्त्वात्तथात्वम् ।

अन्वयव्याप्ति स्त्री अन्वयेन व्याप्तिर्व्यापनं नियततया

स्थितिः ३ त० । यत्र धूमस्तत्र वह्निरित्येवं रूपायां व्याप्तौ ।
अन्वयेन तस्य सत्त्वेन व्याप्तिः इतरान्वयस्य साध्यस्यान्वयः
व्यापकता । यथा धूमसत्त्वेन वह्निसत्ता इत्यतोधूमसत्त्वेन
वह्नेर्व्यापकता । सा च साध्यसामानाधिकरण्यरूपा ।

अन्वयागत त्रि० अन्वयात् वंशपरम्परायाः आगतः ।

दायप्राप्ते धनादौ “श्रुतं शौर्य्यं तपःकन्याशिष्ययाज्या-
न्वयागतम् धनं सप्तविधं शुद्धमिति” नारस० ।

अन्ववेक्षा स्त्री अनु + अव + ईक्ष--अङ् । अपेक्षायामनुरोधे ।

अन्वष्टका स्त्री अनुगतोऽष्टकाम् । श्राद्धकालभेदे स च अग्र-

हायण्या ऊर्द्ध्वं तिस्रः कृष्णाष्टम्यः अष्टकाः, तदुत्तरवर्त्ति-
न्यस्तिस्रः कृष्णनवम्यः तद्रूपः । ताश्च साग्निकस्य मात्रादि-
श्राद्धकालः । तथाहि “अष्टका योर्द्ध्वमाग्रहायण्यास्त-
मिस्राष्टमीति” गोभि० । “पितृदानाय मूले स्युरष्टकास्तिस्र
एव च कृष्णपक्षे वरिष्ठाश्चेति” ब्रह्मपु० । आश्वलायन-
गृह्ये तु ताश्चतस्र इत्युक्तम् यथा । हेमन्तशिशिरयोश्चतु-
र्ण्णामपरपक्षाणामष्टमीष्वष्टका” इति । “एकस्यां चतुसृषु वेति”
विकल्पश्रंवणात् सामर्थ्यभेदेन एकस्यां तिसृषु चतुर्षु वा
अष्टकाश्राद्धम् अन्वष्टकाश्राद्धं च कार्य्यमिति गम्यते । तत्र
पशुकल्पस्थालीपाकाद्यङ्गजातमुक्त्वा “अपरेद्युरान्वकक्यमिति”
सूत्रेण तदुत्तरवर्त्तिकृष्णनवमीसु तद्विहितम् तच्च मात्रादि-
भ्योऽपि देयम् “पितृभ्यश्च हुत्वा मन्थवर्ज्जमुस्त्रीभ्यश्च सुरा-
चाममिति” तत्रैवोक्तेः मनुनाऽपि “पितॄंश्चैवाष्टकास्वर्चेन्नित्य-
मन्वष्टकासु” चेत्युक्तम् अत्र पितृपदमष्टकापक्षे स्वपरम्, अन्वका-
पृष्ठ ०२१९
पक्षे “स्त्रिया पुंवत्” इत्येकशेषेण मातृपितामहीप्रपिता-
महीसहितपित्रादिपरम् । एवञ्च आश्वलायनगृह्ये मनुवचने
च पित्रादेरपि देवतात्वश्रवणात् मात्रादिमात्रदैवत्यं
रघुनन्दनोक्तं चिन्त्यं वस्तुतः शाखिभेदेन सपत्नीकपितृश्राद्धं
मात्रादिदेवताकं वा तच्छाद्धमिति व्यवस्था । “पित्रादि-
त्रिकपत्नीषु भोज्या मातॄः प्रति द्विजाः । स्त्रीणामेव तु
तद्यस्मान्मातृश्राद्धमिहोच्यते” शङ्खवचनन्तु तासां वृथक्-
श्राद्धविधानार्थम् । एतच्च अन्वष्टकाश्राद्धं साग्निकमात्रेण
कर्त्तव्यम् । तथा च विष्णुः । “अन्वष्टकाष्वष्टकावदग्नौ
हुत्वा मात्रे पितामह्यै प्रपितामह्यै पूर्ब्बवद्ब्राह्म-
णान् भोजयित्वा” इति । अत्र होमत्वदेवाग्निप्राप्तेरग्नि-
ग्रहणं तन्नियमार्थम् । न चाग्नौकरणहोमे विप्रपाण्यादे
र्व्विधानादत्रापि तथेति वाच्यम् प्रकृतिभूतश्राद्धविध्यु-
क्तस्याधारान्तरस्य विकृतीभूतश्राद्धे विशेषविहिताधारेण
बाधात् । न वा लौकिकाग्नौ होमः “न पैत्र्ययज्ञियो
होमोलौकिकाग्नौ विधीयते” इति मनुवचनेन निषे-
धात् । श्राद्धचिन्तामणावप्येवम् । श्रा० त० रघुनन्दनः ।

अन्वष्टमदिश अव्य० अष्टमीं दिशमनुलक्ष्यीकृत्य अव्ययी०

अच्समा० । पश्चिमोत्तरयोर्दिशोरष्टमाभिमुखीकृतदिग्-
भागे । स च वायुकोणः तस्य च पश्चिमोत्तरयोर्वामावर्त्त-
दक्षिणावर्त्ताभ्यामष्टमभागत्वात्तथात्वम् “अरण्ये समित्-
पाणिः सन्ध्यामुपास्ते नित्यं वाग्यत उत्तराभिमुखोऽन्वष्टम-
दिशमानक्षत्रदर्शनादिति” आ० त० सांख्या० गृ० । अन्वष्टम-
दिशमिति उभयदिगष्टमभागमिति रघु० ।

अन्वह अव्य० अह्रि अह्रि वीप्सार्थेऽव्ययी० अच् समा० । प्रत्यहमित्यर्थे ।

अन्वाख्यान न० अनु + आ + ख्या--ल्युट् । तात्पर्य्यावधाराणार्थं

व्याख्याने तत्प्रतिपादने च “वस्त्वन्वाख्यानं क्रियान्वा-
ख्यानं चेति” “आत्मस्वरूपान्वाथ्यानपरेष्विति च वृ० उ० भा०

अन्वाचय पु० प्रधानस्य पश्चादन्यः आचीयते बोध्यते यत्न

अनु + आ + चि + अच् । उद्देश्यसिद्ध्यानुद्देश्यसिद्ध्यर्थोपदेशे ।
यथा भिक्षां गच्छ यदि गां पश्येस्ताञ्चानय, अत्र भिक्षाया-
मेव उद्देशः न गवानवने, तत्सिद्ध्युमुरं गवानयनमनुद्दिष्ट-
मपि साध्यतया निर्द्दिष्टम् । “चान्वाचये समाहारे” इत्य-
मरः । “चार्थे द्वन्द्व इति” पा० सूत्रे “समुच्चयान्वाचये-
तरेतरयोगसमाहाराश्चार्था” इति सि० कौ० ।

अन्वाजे अव्य० अनु--आजयत्यनेन अनु + आ + जि--डे । दुर्ब्ब-

लस्य बलाधाने । बलस्य हि जयहेतुत्वं प्रसिद्धम् । सप्तम्यन्त-
प्रतिरूपकोऽयम् । “उपाजे अन्वाजे इति” पा० वा उप-
पदसमासे अन्वाजेकृत्येत्यादौ ल्यप् । पक्षे अन्वाजेकृत्वा ।

अन्वादेश पु० अनु + आ + दिश--घञ् । पूर्ब्बोपात्तस्य किञ्चित्-

कार्य्यान्तरं विधातुं पुनरुपदेशे । यथा अनेन व्याकरण-
मधीतं न्यायमेनं प्रपाठयेति न्यायपाटनार्थं पुनरुपदेशः ।
कथितकथते, अनुवादार्थे च । “इदमोऽन्वादेशेऽशनुदात्त”
इति पा० ।

अन्वाधान न० वह्निस्थापनस्य पश्चात् आधानम् । आहित

वह्नौ--द्वयोः तिसृणां वा समिधामाधाने । स्थण्डिलादि-
करणानन्तरम् “तदभ्युक्ष्याग्निं प्रतिणाय्यान्वाधाय
परिसमुह्येति” आ० गृ० सूत्रे हि अग्न्याधानोत्तरं तदाधान-
मुक्तम् । “अग्न्यन्वाधानमध्वर्युर्यजमानो” वेति कात्या०
२, १, २’ ।

अन्वाधि पु० पश्चात् आधीयते अनु + आ + धा--कि ।

स्वसमीपे आहितस्य वस्तुनः स्वामिने दानाय परत्राधाने
तद्विषये धने च “अर्थमार्गणकार्य्येषु अन्यस्मिन् वचना-
न्मम । दद्यास्त्वमिति योदत्तः स इहान्वाधिरुच्यते इति”
कात्या० स० । सन्तत आविः । सन्ततमानसव्याथायाम् ।

अन्वाधेय न० विवाहस्य पश्चात् आधेयम् दत्तम् । अनु +

आ + धा--यत् । विवाहात् परम् पित्रादिभिः स्त्रीभ्यो
दत्तधने स्त्रीधनभेदे “विवाहात् परतोयत्तु लब्धं भर्त्तृकुलात्
स्त्रिया अन्वाधेयं तदुक्तं तु लब्धं बन्धुकुलात्तथेति ना० स० ।
“बन्धुदत्तं तथा शुक्लमन्वाधेयकमेव च । अप्रजायामतीतायां
बान्धवास्तदवाप्नुयुरिति” या० ।

अन्वायतन अव्य० आयतनस्य मध्यम् अव्य० । गृहमध्ये

इत्यर्थे अनुगतमायतनम् अत्या० स० । गृहानुगते त्रि० ।

अन्वायत्त त्रि० अनु + यत--क्त । अनुगते “प्रस्तोतः! या देवता

प्रस्तावमन्वायत्ता ताञ्चेदविद्वानिति” “वसवोऽन्वायत्ता” इति
च छा० उप० ।

अन्वारब्ध त्रि० अनु + आ + लभ--कर्त्तरि क्त लस्य रः ।

कृतस्पर्शे “विष्णोः कर्म्माणीति वाचयति यूपमन्वारब्ध-
मिति” का० ६, ३, १२, “अन्वारब्धं स्पृष्टवन्तमिति”
वेददोपः । कर्म्मणि क्त । पश्चाद्भागे--स्पृष्टे, पश्चाल्लग्ने च ।
“अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु इति” आ० त०
या० । “अन्वारब्धेन पश्चाल्लग्नेनेति” रघु० । “द्वाभ्यां
पत्नीभ्यामन्वारब्ध” इति बौ० सू० ।

अन्वारभ्य त्रि० सह आलभ्यः लस्य रः । सहस्पृश्ये ।

अन्वारम्भ न० पश्चात् आलम्भः लस्य रः । स्पर्शे

अनुपूर्ब्बकलभेर्हि स्पर्शार्थत्वम् । “अनड्वाहमन्वारभामहे”
इति यजु० ३५, १३ स्पर्शार्थे प्रयोगात् । “अनड्वाहमन्वा
रभामहे आलभामहे स्पृशाम” इति वेददीपः ।
पृष्ठ ०२२०

अन्वारूढ त्रि० अनु + आ + रुह--क्त । अधिरूढ़े । पश्चादारूढ़े च ।

अन्वारोहण न० पश्चात् आरोहणम् । पश्चादभर्त्तरि मृते पश्चात्

सह वा स्त्रियाश्चितारोहणेतच्च “ब्रह्मचर्य्यं तदन्वारोहणं
वेति” वि० सूत्रे विहितम् विवृतमनुमरणशब्दे ।

अन्वासन न० अनु + आस--ल्यट् । अनूपवेशनेन सेवने ।

अन्वासित त्रि० अनु + आस--कर्मणि क्त । पश्चादुपवेशनादिना

सेविते “अन्वासितमरुन्धत्येति” रघुः ।

अन्वाहार्य्य न० मासि मासि आह्रियते अनु + आ + हृ--

कर्मणि ण्यत् । “यच्छ्राद्धं कर्म्मणामादौ या चान्ते दक्षिणा
भवेत् । आमावास्यं द्वितीयं स्यादन्वाहार्य्यं विदुर्बुधा इति”
कात्यायनपरिभाषिते नान्दीमुखश्राद्धे, अमावास्यायां
मासि मासि कर्त्तव्ये श्राद्धे, दक्षिणायाञ्च “पितृणां मासिकं
श्राद्धमन्वाहार्य्यं विदुर्बुधा इति मनुः । “सर्वाण्येवा-
न्वाहार्य्यवन्ति” गोभि० । अन्वाहार्य्यं नान्दीमुखश्राद्धम्
दक्षिणा च तदुभयवन्ति । स्वार्थे कन् तत्रैव । “पिण्डा-
न्वाहार्य्यकं श्राद्धं कुर्य्यान्मासानुमासिकमिति” मनुः मासि-
मासिकर्त्तव्यश्राद्धस्यानुमासमाह्रियमाणत्वात् नान्दीमुखस्य
संस्कारादौ आह्रियमाणत्वात्, दक्षिणायाः कर्म्मणां
पश्चात् आह्रियमाणत्वाच्च तथात्वम् ।

अन्वाहार्य्यपचन पु० अन्वाहार्य्यं तदर्थान्नं पच्यतेऽनेन पच +

ल्युट् । दक्षिणाग्नौ ऋग्वेदविधिना स्थापितेऽग्नौ ।
“अथ हैनमन्वाहार्य्यपचनोऽनुशशासापो दिशो नक्षत्राणि
चन्द्रमा इति छा० उप० । अन्वाहार्य्यपचनो दक्षि-
णाग्निरापो दिशो नक्षत्राणि चन्द्रमा इत्येतमोमम चतस्र-
स्तनवस्ततुर्द्धा अहमन्वाहार्य्यपचनः विभज्य आत्मानं स्थितः
इति” भा० । “प्रसिद्धं हि दर्शपौर्ण्णमासयोरन्वाहार्य्यपचने
हविः श्रपयन्तीति” आन० गि० । “यस्मिन्नग्नावृचा वा
साम्ना वा यजुषा वा समिधं वाभ्यादध्यादाहुतिं वा
जुहुयादन्ते दक्षिणां वा हरेयुरनु वा गमयेयुर्दक्षिणा
वाह्येन हरन्त्यान्वाहार्य्यपचनोभविष्यतीति अनु वा
गमयन्ति” इति शत० ब्रा० तस्य निरुक्तिर्दर्शिता ।

अन्वाहित त्रि० अनु + आ + धा--क्त । कृतान्वाधाने, वह्नौ-

प्रक्षिप्तसमिद्विशेषे अन्वारोपिते” आधेःस्वामिनोदा-
नार्थमपरस्य हस्ते निक्षिप्ते च । “अन्वाहितं याचितक-
मित्यादि या० ।

अन्विच्छा स्त्री अनु + इष--अ नि० । अन्वेषणे ।

अन्वित त्रि० अनु + इण + क्त । अनुगते, युक्ते, सहसम्बद्धे,

शाब्दबोधे विशेष्यताप्राप्ते च “प्रकृत्यर्थान्वितस्वार्थबोधकत्वं
प्रत्ययानामिति” न्यायः ।

अन्विष्ट त्रि० अनु + इष्--क्त । अन्वेषिते कृतान्वेषणे । “यद्वायु-

रन्विष्टमृगैः किरातै” रिति कुमा० । कृतानुसन्धाने च
“अन्विष्टः स्यात् प्रमातैव पाप्मदोषादिवर्ज्जित” इति
शा० भा० ।

अन्विति त्रि० इण--क्तिन् नमस्कारेण अनुकूला इतिः यस्य ।

नत्या अनुकूलताप्राप्ते “अन्वितिरसि दिवे त्वेति” ता०
ब्रा० । “अन्वितिः अनुकूलनतियुक्तोऽसीति” भा० ।

अन्वीक्षा स्त्री पश्चात् ईक्षा पर्य्यालोचना प्रा० स० । वेदवाक्य-

श्रवणस्य पश्चात् तदर्थनिश्चयार्थं तदर्थपर्य्यालोचने, अन्वीक्षायै
हिता ठक् । आन्वीक्षिकी तर्कविद्या । “आन्वीक्षिकी
कौशलानामिति” गीता । ल्युट् । अन्वीक्षणमप्यत्र न० ।

अन्वीत त्रि० अनु + ई--गतौ कर्त्तरि क्त । अनुगते अन्वितशब्दार्थे

अन्वीप त्रि० अनुगता आपो यत्र स्थानादौ अच्समा०

अचि आत ईत् । अनुगतजले स्थाने, देशे वाच्ये तु
“ऊदनोर्देशे” इति पा० ऊत्, अनूपोदेशः ।

अन्वृच अव्य० ऋचि विभ० अव्ययी० अच् समा० ।

ऋचीत्यर्थे । “त्रिष्ठुभश्चान्वाह तासायुक्तो बन्धुरुक्तं वेवा-
मन्वृचमिति” शत० ब्रा० ।

अन्वेष पु० अनु + इष--भावे घञ् । अन्वेषणे अनुसन्धाने

गवेषणे “वयं तत्त्वान्वेषान्मधुकर! हतास्त्वं खलु कृतीति”
शकु० ।

अन्वेषण न० अनु + इष--भावे ल्युट् । अनुसन्धाने गवेषणे

नष्टद्रव्यस्य दर्शनाय लाभाय वा व्यापारभेदे । “रन्ध्रान्वेषण-
दक्षाणां द्विषामामिषतां ययौ” रघुः ।

अन्वेषणा स्त्री अनुगता एषणा “इषेरनिच्छार्थकस्येति”

पा० युच् टाप् । तत्त्वानुसन्धाने तर्कादिना ज्ञातपदार्थस्य
शुद्ध्यर्थं युक्त्यादिना समर्थने गवेषणे च ।

अन्वेषित त्रि० अनु + एषृ--गतौ--इष--स्वार्थे णिच्--कर्म्मणि

वा क्त । गवेषिते, कृतानुसन्धाने च ।

अन्वेषिन् अनु + इष--णिनि । गवेषणकर्त्तरि “तौ सीतान्वे-

षिणौ गृध्रं लूनपक्षमपश्यतामिति” रघुः । स्त्रियां ङीप् ।

अन्वेष्टव्य त्रि० अनु + इष--कर्म्मणि तव्य । अनुसन्धेये “सोऽन्वेष्ट

व्यः स विजिज्ञासितव्य इति श्रुतिः “अन्वेष्टव्यात्मविज्ञा-
नात् प्राक्प्रमातृत्वमात्मन” इति शा० भा० ।

अन्वेष्टृ त्रि० अनु + इष--शीलार्थे तृच् वा इडभावः । गवेषण

शीले तत्कर्त्तरि च “अनुपदमन्वेष्टा” पा० । इट्पक्षे अन्वे-
षिताप्यत्र । उभययतः स्त्रियां ङीप् ।
पृष्ठ ०२२१

अप् स्त्री ब० व० । आप--क्विप् ह्रस्वश्च । जले । “प्रत्तं जलं

द्व्यञ्जलमन्तिकेऽपाम्” भट्टिः । “अद्भिरेव पारयित्वा नैत्यि-
कान्ते भुजिक्रियेति” स्मृतिः अग्नेरापः, अद्भ्योन्नमिति
श्रुतिः “अपएव ससर्ज्जादौ तासु वीजमवासृजदिति”
मनुः । समासान्ते अच् समासान्तः । “बह्वपानि तड़ानि
सारसाः समुपासते” इत्युद्भटः । कृतसमासान्तस्य उपसर्ग
द्व्यन्तःपरस्य आतईत्त्वम् । समीपंप्रेपम् द्वीपः अन्तरीपम् ।
अनुपूर्ब्बात्तु देशे वाच्ये ऊत् । अनूपोदेशः अन्यत्र अन्वीपो-
ग्राम इत्यादि । पूजार्थकसुपूर्ब्बात् न अच् । स्वाम्पि
नगराणि । अपां विकारः मयट् । अम्मयः वा ष्यञ् ।
आप्यम् । स्वार्थे चातु० ष्यञ् । आप्यं जले न० ।

अप अव्य० न पाति पा--ड । वियोगे विकृतौ, विपरीते,

निदर्शने, आनन्दे, वर्ज्जने, चौर्य्ये च । “अप--वियोग
विकृति--विपरीत--निदर्शनानन्द--वर्ज्जन--चौर्य्य--वारणेषु” इति
ग० म० । वियोगे “अपयाति “सत्वे निविशतेऽपैतीति” पा०
भा० । “भीत्या रामादपासरत्? । विकृतौ, अपकृतः
अपचयः” विपरीते, अपशब्दः “तएव शक्तिवैकल्यप्रमादालसता-
दिभिः । अन्यथोच्चारिताः शब्दा अपशब्दा इतीरिता”
इति हर्य्युक्तेः साधुशब्दानां वैपरीत्येनीच्चारणएवापशब्द-
त्वस्य परिभाषितत्वादस्य विपरीतशब्दत्वम् । निदर्शने निदेशे
अपदिशति । आनन्दे अपहसति, वर्जने “अपपरी वर्जने”
इति पा० उक्तेः कर्म्मप्रवचनीयसंज्ञा तद्योगे पञ्चमी । अप
त्रिगर्त्तात् वृष्टोदेवः । चौर्य्ये अपहरति । वारणेअपवर्त्तयति
“समेन केनापवर्त्त्येति” लीला० । अपकर्षे अपकर्म्म ।
अधः प्रदेशे, च अपाङ अपानः । अधोगतिमानित्यर्थः ।

अपकर्म्मन् न० अपकृष्टं कर्म्म प्रा० स० । दुष्टाचरणे ।

अपाकरणे च “ऋणस्यानपकर्म्म चेति” दत्तस्यानपकर्म्म चेति
स्मृतिः प्रा० व० । दुष्टाचरणवति त्रि० । स्त्रियां वा ङीप् ।

अपकर्त्तृ त्रि० अप + कृ--तृच् स्त्रियां ङीप् । अपकारकारके ।

अपकर्ष पु० अप + कृष--भावे घञ् । उचितधर्म्मापेक्षातो

हीनतायां, “तत्र पृथिव्यादीनामन्योन्यानुप्रवेशकृतः सलिल-
भवरसोऽत्युत्कर्षापकर्षेण चेति” यथा हि वर्णानां पञ्चा-
नामुत्कर्षापकर्षकृतेन संयोगविशेषेणेति” च सुश्रुतः “उत्-
कर्षञ्चापकर्षञ्ज मनुष्येष्विह जन्मत इति” मनुः । “उत्-
कर्षापकर्षविहीनोमध्यः सि० कौ० । स्वकर्त्तव्यकालात्
पूर्ब्बकालकरणे, परसूत्रपदानामन्वयार्थं पूर्ब्बसूत्रे आकर्षणे
आकर्षणमात्रे च । अपकृष्यते कर्म्मणि घञ् । स्वकालतः
पूर्ब्बं कर्त्तव्ये यथा अपकर्षससिण्डनम् । तथा च “मुख्यं
श्राद्धं मासिमासि अपर्य्याप्तावृतुं प्रति । द्वादशाहेन वा
कुर्य्यादेकाहे द्वादशाथवेति” स्मृतौ मरणोत्तरं मृताहे मासि
मासि कर्त्तव्यानां मृहाहनिमित्तकमासिकादीनां द्वादशाहेषु
एकाहेषु च कर्त्तव्यत्वोक्तेः सर्व्वापकर्षः । तथाऽपकर्षे च
हेतव एकपुत्रत्वादयः । “आनन्त्यात् कुलधर्म्माणां पुत्रस्य
चायुषः क्षयात् । अस्थितेश्च शरीरस्य द्वादशाहे प्रशस्यते
इति” स्मृत्युक्ताः । तत्र पाश्चात्त्यानां कुलधर्म्मात् द्वाद-
शाह एव कर्त्तव्यतायाः कुलपरम्पराचारः । वङ्गीयानान्तु
एकपुत्रस्यैव आयुषःक्षयसम्भावनायामिति भेदः । अयमेव
सर्वापकर्षः, आवश्यकवृद्ध्यारम्भकाले तु न सर्वापकर्षः ।
किन्तु पश्चाद्भाविनामेवापकर्ष इति भेदः । एवं
नवममासादिष्वप्यपकर्षणे न सर्वाप्रकर्ष इति बोध्यम् ।

अपकर्षक त्रि० अपकर्षति अप + कृष--कर्त्तरि ण्वुल् ।

अपकर्षकारके “रसस्यानपकर्षकत्वे तेषां दोषत्वमपि नाङ्गी-
क्रियते” इति “दोषास्तस्यापकर्षका” इति च सा० द० ।

अपकर्षण त्रि० अपकर्षति अपहरति कर्त्तरि ल्यु ।

अपहारके “नचास्ति सदृशं तेन किञ्चित्स्थौल्यापकर्षणमिति”
“वर्षायां बद्धविन्मूत्रारूक्षाः श्लेषापकर्षणा” इति सुश्रु०
भावे ल्युट् । आकर्षणे न० । “सशल्यः क्लिश्यते प्राणै-
र्विशल्योविनशिष्यति । इति मामाविशच्चिन्ता तस्य शल्या-
पकर्षणे” रामा० ।

अपकाम त्रि० अपगतः कामो यस्य यत्र यस्माद्वा प्रा० ब० ।

अपगतकामे वा उत्तरपदलोपाभावे अपगतकामोऽप्युक्तार्थे
“अपकामं स्यन्दमाना अवीवरत वोहितमिति” अथ०
३१३, ३, । काभस्यात्ययः अत्यये अव्ययी० । कामात्यवे
अव्य० “शत्रोरकामं कृणोति धन्वनेति” ऋ० ६, ७५, २,
“अपकामं कामस्यापायमिति” भा० ।

अपकार पु० अप + कृ--भावे घञ् । अनिष्टसम्पादने तद्धेतौ

द्रोहे च “द्रोहोऽपकार इति” सि० कौ० । “उपकर्त्त्रारिणा
सन्धिर्न मित्रेणापकारिणा । उपकारापकारौ हि लक्ष्यं
लक्षणमेतयोरिति” माघः । “अपकारोऽनिष्टचिन्ते” त्युक्तेर-
निष्टं भूयादिति चिन्तने च “ततो जातास्त्विमा धोरा
नानारूपा महाविषाः अपकाराय बर्त्तन्ते इति सुश्रुतः ।

अपकारगिर स्त्री अपकारेण द्वेषेण गीर्य्यते गॄ--क्विप् ।

भर्त्सनवाक्ये । “भर्त्सनं त्वपकारगीः” इत्यमरः ।
पृष्ठ ०२२२

अपकारिन् त्रि० अप + कृ--कर्त्तरि णिनि । अपकारकारके,

अनिष्टचिन्तके’ द्रोग्धरि च । “उपकर्त्त्रारिणा सन्धिर्न
मित्रेणापकारिणेति” माघः स्ववीर्य्येणैव तान् शिष्यान्मान-
वानपकारिण” इति मनुः ।

अपकृत त्रि० अप + कृ--कर्म्मणि क्त । यस्यानिष्टं कृतं

तस्मिन् कृतद्रोहे “किं मयापकृतं तस्येति” । भावे क्त ।
अपकारे न० । “मित्रस्य चैवापकृते द्विविधोविग्रहः स्मृत”
इति मनुः ।

अपकृति स्त्री अप + कृ--भावे क्तिन् । अपकारे, अनिष्टचिन्तने, द्रोहे च ।

अपकृत्य न० अपकृष्टं कृत्यम् प्रा० स० । अपकृष्टकर्मणि ।

अप + कृ--भावे क्यप् । अपकारे न० । भावे स्त्रियां
क्यप् । अपकृत्या अपकारे स्त्री ।

अपकृष्ट त्रि० अप + कृष--क्त । अधमे, हीने, स्वकालात् पूर्व्व-

काले कृते, परसूत्रादन्वषार्थं पूर्बसूत्रे आकृष्टे, आकृष्टमात्रे
च “स्वोच्चापकृष्टा भगणैः प्राङ्मुखंयान्ति मद्ग्रहा”
इति सूर्य्यसिद्धान्तः ।

अपक्ति स्त्री न पक्तिः अभावार्थे न० त० । पाकाभावे ।

अपक्रम पु० अप + क्रम--भावे घञ् । अपयाने । अपक्रमा-

दुहैवैषामेतद्बिभयाञ्चकार” शत० ब्रा० ४, ३, ३, ११ ।
अपक्रम्यते यस्मात् अपादाने घञ् । अपयानावधिस्थाने
“विक्षिपत्येष विक्षेपं चन्द्रादीनामपक्रमादिति” सू० सि० ।
“अपक्रमात् क्रान्तिवृत्तस्थस्पष्टग्रहभोगस्थानादिति” रङ्ग-
नाथः । अपगतः क्रमःपरिपाटी यस्मात् प्रा० स० । क्रम-
विहीने अक्रमे त्रि० वा उत्तरपदलोपाभावे अपगत-
क्रमोऽप्युक्तार्थे त्रि० । क्रमस्यात्ययः अव्ययी० । क्रमात्यये
अव्य० । क्त्वि वेट्कत्वात् वा वृद्धिः । अपक्रामोऽप्युक्तार्थे ।
“यस्यस्याभिक्रान्त्याऽपक्रामाय” इति ऐ० व्रा० ।

अपक्रमण त्रि० अप + क्रम--भावे ल्युट् । अपयाने पलायने

च । “अपक्रमणमेवाख सर्वकामैरहं वृणे” इति रामा० ।
“पुरस्तान्नापक्रमणमस्त्यत्रैवान्विच्छतेति” शत० व्रा० ।

अपक्रमिन् त्रि० अप + क्रम--कर्त्तरि णिनि वेट्कामन्तत्वात्

वा ह्रस्वः । अपयानकर्त्तरि “तानेवैतदनपक्रमिणोऽकुरुत”
शत० ब्रा० वृद्धौ अपक्रामीत्यपि स्त्रियां ङीप् ।

अपक्रिया स्त्री अप + कृ--मावे स्त्रियां श । द्रोहे, अपकारे

च । चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रियेति” माघः ।
“जन्मवेषतपसां विरोधिनीं मा कृथाः पुनरमूमपक्रिया-
मिति” किरा० ।

अपक्रोश पु० अप + क्रुश--घञ् । निन्दने । उपक्रोशोऽप्यत्र ।

भावे ल्युट् । अपक्रोशनमप्यत्र न० ।

अपक्व त्रि० न पक्वः । अपरिणते अपक्वयोगी अपरिणतयोगी

यथा योगाभ्यास उचितः तथाभ्यासशून्यः इत्यर्थः । आमे
तण्डुलफलादौ च । “अपक्वेन वर्त्तितव्यं फलमूलादि-
नापि वेति” स्मृतिः ।

अपक्ष त्रि० नास्ति पक्षो गरुत् यस्य । पक्षशून्ये उड्डयन-

शक्तिशून्ये च । पक्षः सहायः । तच्छून्ये ।

अपक्षपात पु० पक्षे सहायतायां पातः आनुकूल्यम्

अभावार्थे न० त० । पक्षपाताभावे सहायताऽकरणे ।
“अपक्षपातात् वक्तव्यं सभायामिति निश्चय इति” नीति० ।

अपक्षपातिन् त्रि० पक्षे सहायतायां पतति पत--णिनि

७० त० ततः न० त० । पक्षपातिमिन्ने यथार्थवादिनि ।

अपक्षेपण न० अप--क्षिप--ल्युट् । अधःस्थानसंयोगहेतौ

क्रियाविशेषे, अधःपातने च । अवक्षेपणमम्यत्रार्थे ।
उत्क्षेपणं तथापक्षेपणमाकुञ्चनं तथा प्रसारणञ्च गमनं कर्म्मा-
ण्येतानि पञ्च चेति” भाषा० अवक्षेपणमिति वा पाठः ।

अपगण्ड पु० गण्डोवृद्धो वैपरीत्यार्थकेनापशब्देन प्रा० स० ।

अतिबाले अपोगण्ड इति हैम० । अपोगण्डशब्दे
विवरणं दृश्यम् ।

अपगत त्रि० अप + गम--कर्त्तरि क्त । अपयाते पलायिते च । भावे घञ् । तत्रार्थे पु० ।

अपगम पु० अप + गम--भावे घञ् न वृद्धिः । अपयाने

अपसरणे । “निद्रापगमहेतुभ्यो विबोधश्चेतनागम” इति
सा० द० “पुराणपत्रापगमादनन्तरं लतेव सन्नन्धमनोज्ञ-
पल्लवेति” रघुः ।

अपगर पु० अप + निन्दार्थे गॄ--भावे अप् । निन्दने । “अन्य-

दन्तर्वेदीत्युपक्रम्य “अभिगरापगरौ” कात्या० १३, ३, ३,
“अपगरोनिन्देति” तद्व्या० ।

अपगा स्त्री अपगच्छति निष्यन्दते अप + गम--ड ।

आपगायाम् नद्याम् । अपयानकर्त्तरि त्रि० ।

अपगा(गो)रम् अव्य० अप + गुरी--उद्यमने णमुल् एच

आच्च वा । उद्यम्येत्यर्थे “अस्यपगारम् अस्यवगोरं वेति”
सि० कौ० ।

अपगोह पु० अप + गुह--घञ् । तरोधाने गोपने च । “स

विद्वानपगोहं कणीनामाविर्भवन्निति” ऋ० २, १५, ७,
“अपगोहं तिरोभावमिति” भाष्यम् ।

अपघन पु० अपहन्यते संहत्य कर्म्म कृत्वा वियुज्यते अप +

हनअप् घनादेशः । शरीरे, हस्ताद्यवयवे च । शरीरादि हि
पुरुषोपभोगाय प्रथमं संहत्य तत्तत्कर्म्म निष्पाद्य भोगादृष्ट-
क्षये पुनर्वियुज्यते इति तस्य तथात्वम् । देहादेः संहत्य
पृष्ठ ०२२३
कारित्वं च पातञ्जलादौ दर्शितं यथा । “परार्थं संहत्य
कारित्वादिति” पात० । इतरसाहित्येनार्थक्रियाकारित्वं
संहत्यकारिता, संहननञ्च आरम्भकसंयोगभेदः । तथा च
देहादिकं परार्थं (स्वेतरस्य भोगापवर्गफलकम्,) संहतत्वात्
शय्यासनादिवदित्यनुमानप्रयोगः । अतएव सांख्यसूत्रे
“संहतपरार्थत्वादिति” संहन्तृसिद्धिरुक्ता । संहतानां देहा
दीनां स्वेतरस्य भोगादिफलकत्वात् संघातातिरिक्तः पुरुषो-
ऽनुमीयते नहि अचेतनानां देहादीनां स्वतः संघातः सम्भ-
वति अतः संघातसिद्धये पुरुषसिद्धिरिति समुदितार्थः ।
“संयोगाश्च विभागान्ता” इत्युक्तेः संयोगभेदरूपसंहननस्या-
वश्यं वियोगान्तत्वात् देहादीनां तदवयवानाञ्च क्रमे-
णारम्भकसंयोगनाशेन परस्परवियोग इत्यतोऽङ्गादेरवश्य-
वियोगवत्त्वात् तथात्वम् अतएव “अन्तवन्त इमे देहा
नित्यस्योक्ताः शरीरिण” इति गीतायामारम्भकसंयोगनाश-
पूर्ब्बकपरस्परवियोगेन नाश उक्तः । “लौहोद्घनघनस्कन्धा
ललितापघनां स्त्रियमिति” भट्टिः । अपगतोघनोमेघो
यस्मात् प्रा० ब० वा गतलोपः । मेघावरणशून्ये त्रि०
वा गतलोपाभावे अपगतघनोऽप्युक्तार्थे ।

अपघात पु० अप--हन--भावे घञ् । अपकृष्टहनने दुष्टहेतुकमरणे च ।

अपघातक पु० अपहन्ति अप + हन--ण्वुल् । विनाशके ।

“जिज्ञासा तदरपघातके हेतौ” सा० का० पाठान्तरम् ।

अपघातिन् त्रि० अप + हन--कर्त्तरि णिनि । अपहनन-

कर्त्तरि स्त्रियां ङीप् ।

अपच पु० न पक्तुं शक्तः पच--“अच्कावशक्ताविति” पा० ।

अच् । पक्तुमशक्ते । “अपचः पक्तुमशक्त” इति सि० कौ० ।

अपचय पु० अप + चि भावे अच् । हानौ, अपहरणे, व्यये च ।

अपचरित न० अपकृष्टं चरितं प्रा० स० । अपकृष्टचरिते

सदोषाचरणे, “आहोस्वित् प्रसवो ममापचरितैर्विष्टम्भितो
वीरुधामिति” शकु० ।

अपचार पु० अप + चर--भावे घञ् । अहिताचरणे अपथ्यसेवने

“कृतापचारोऽपि परैरनाविष्कृतविक्रियः । असाध्यं कुरुते
कोपं प्राप्ते काले गदों यथेति” माघः । “अपचारः
अपकारः अपथ्यञ्चेति” मल्लि० । “योनिप्रदोषाच्च भवन्ति
शिश्ने पञ्चोपदंशा विविधापचारैरिति” वैद्य० । वैपरी-
त्यादिहेतुकदोषे “नापचारमगमन् क्वचित् क्रिया” इति
माघः । “अपचारं लोपविषयविपर्य्यासादिदोषमिति”
मल्लि० । विनाशे च “महाध्वरे विध्यपचारदोष” इति
किरा० । “अपचारः कर्म्मलोपदोष” इति मल्लि० ।
“मुद्गापचारे माषप्रतिनिधाविति” मीमांसा । अपकर्म्मणि
च “गूहमानाऽपचारं सा बन्धुपक्षभयात्तदा” भा० आ०
प० १११ अ० ।

अपचारिन् त्रि० अप + चर--तच्छीलार्थे कर्त्तरि घिनुण् ।

अपकर्म्मकरणशीले स्त्रियां ङीप् । “पत्यौ भार्य्यापचारिणीति”
मनुः । “भार्य्या अपचारिणी व्यभिचारिणी जारपतिं
क्षममाणे भर्त्तरि पापं संश्लेषयतीति” कुल्लूकभट्टः ।

अपचिकीर्षा स्त्री अपकर्त्तुमिच्छा अप + कृ--सन्--भावे स्त्रियाम्

अ । अपकर्त्तुमिच्छायाम् ।

अपचिकीर्षु त्रि० अपकर्त्तुमिच्छुः अप + कृ--सन्--उ । अपकारकरणेच्छावति ।

अपचित् त्रि० अप + चि--क्विप् । अपचयकारके । “इतस्ताः

सर्वानश्यन्तु बाधका अपचितामिव” अथ० ६, २५, १ ।

अपचित त्रि० अपचाय्यते आनन्देन पूज्यते चाय--पूजनादौ

क्त चायतेश्चिः अपशब्दस्यानन्दपूर्ब्बकत्वम् । आनन्देन
पूजिते । पूजितो हि आनन्दपूर्ब्बकं पूज्यते । अप +
चिक्त । जातापचये अवयवाद्यपचययुक्ते, हीने, व्ययिते च ।
“तत्रापचितवलाः प्राणिनोभवन्ति” सुश्रुतः ।

अपचिति स्त्री० अप + चाय--क्तिन् चायतेश्चिः । पूजायाम्

“विहितापचितिर्महीभृता” इति माघः । अप + चि--क्तिन् ।
अपचये हीनतायाम्, अपक्षयरूपभावविकारभेदे च ।

अपची स्त्री अपकृष्टं पच्यतेऽसौ पच--कर्मकर्त्तरि अच् अप्राशन्त्ये

न० त० गौ० ङीष् । गण्डमालोपरिजाते रोगभेदे
“अथातोऽग्रन्थ्यपच्यर्वुदगण्डमालानां निदानं व्याख्यास्याम”
इत्युपक्रम्य “अनन्यवर्ण्णैरुपचीयमानं चयप्रकर्षादपचीं-
वदन्ति कण्डूयनान्तेऽल्परुजाः प्रभिन्नाः स्रवन्ति नश्यन्ति
भवन्ति चान्ये” इति सुश्रुते तल्लक्षणमुक्तम् । “ते ग्रन्थयो
केचिदनाप्तपाकाः स्रवन्ति नश्यन्ति भवन्ति चान्ये । काला-
नुबन्धं चिरमादघाति सैवापचीति प्रवदन्ति केचिदिति” वै०
“नाड़ीं कफानिलकृतामपचीं व्रणांश्चेति” अपचीं गण्ड-
मालां च ग्रहणीं शोथमेव वेति” चसुश्रुतः ।

अपचीयमान त्रि० अप + चि--कर्मकर्त्तरि शानच् । अपक्षीयमाणे ।

अपच्छाय पु० अपगता देहच्छाया कान्तिर्वास्य प्रा० ब० वा

गतलोपश्च । देवे देहच्छायाशून्यत्वात्तेषामपच्छायत्वम् ।
अतएव “भजन्तु रूपं कियदस्य देवाश्छाया नलस्यास्ति
तथापि नैषाम् । इतीरयन्तीव तथा निरैक्षि सा (छाया)
नैषधे नत्वमरेषु तेषु” इति नैषधे देवानां छायाराहित्यं
लक्षणत्वेन वर्ण्णितम् । अपगतकान्तौ त्रि० ।
पृष्ठ ०२२४

अपच्यव पु० अप + च्युङ्--गतौ भावे अप् । अपसरणे निर्गमने

“यत्र नार्य्यपच्यवमुपच्यवञ्च शिक्षते” इति ऋ० १, २८, ३
“अपच्यव्यं शालायानिर्गममिति” भा० । अप--च्यु--क्षरणे,
अप् । अपक्षरणे ।

अपच्युत त्रि० अप + च्यु--कर्त्तरि क्त । अपक्षयप्राप्ते नष्टप्रायेक्षरिते च ।

अपजर्गुराण त्रि० अप + गॄ--यङ् लक्--ताच्छील्ये चानश् ।

आच्छादनादिमोचन शीले “जिगर्त्तिमिन्द्रो अपजर्गुराण”
इति ऋ० ५, २९, ४, ।

अपञ्चीकृत त्रि० अपञ्चात्मकः पञ्चात्मकः कृतः न० त० ।

पञ्चात्मकतामनासादिते सूक्ष्मभूते, पञ्चीकारप्रकारस्तु पञ्ची-
करणशब्दे वक्ष्यते “पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम्
अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनमिति” वेदा० प० ।

अपजय पु० अप + जि--भावे अच् । पराजये ।

अपटान्तर त्रि० पटेन तिरस्करिण्या अन्तरमत्र न० त० ।

अव्यवहिते, आसन्ने, संसक्ते च । अपदान्तरमित्यप्यत्रैवार्थे ।

अपटी स्त्री अल्पः पटः पटी न० त० । (कानात्) इति ख्याते

काण्डपटे वस्त्रप्रावरणे स च “दूष्याधोलम्बिवायुसञ्चा-
रार्थः पठभेद” इति मल्लिनाथः ।

अपटीक त्रि० नास्ति पटी यस्य कप् । प्रावरशपटशून्ये,

अपगता टीकाव्याख्याग्रन्थोयस्य । टीकाज्ञानशून्ये
“अपटीकोजड़ोमाघे भृशं जाड्येन ताड्यते” इत्युद्भटः ।

अपटीक्षेप पु० अपट्याः काण्डपटस्य क्षेपः । प्रावरण-

पटक्षेपे । नाट्यै हि प्रावरणपटे अन्यैराक्षिप्ते एव पात्र-
प्रवेशोऽभिनयसम्प्रदायस्तमुल्लङ्घ्य पात्रेण यत्र काण्डपटं
स्वयं क्षिप्त्वा प्रविश्यते तेन चाकस्मिकत्वं तत्प्रवेशस्य
गम्यते । एतत्प्रयोगश्च भरिशो नाटकेषु ।

अपटु त्रि० पटुर्दक्षः न० त० । रोगिणि, दक्षतारहिते,

कार्य्याक्षमे, दक्षताविरोघिमन्दत्वे च । भावे त्व अपटुत्वम् ।
अपाटवे । तल् । अपटुताप्यत्रैव त्वान्तं न० तलन्तं स्त्री ।
गुणवचनत्वात् इमनिच् । अपटिमा तत्रैव पु० ।

अपण्य त्रि० न पण्यः विक्रेयः अप्राशस्त्ये न० त० । स्मृत्यादि-

निषिद्धविक्रये पदार्थे । प्रायश्चित्तसहितानि अपण्यानि
च प्रायश्चित्तविवेके दर्शितानि यथा
विष्णुः । कृष्णवस्त्ररङ्गरत्नगुड़गन्धमधुरसोर्ण्णाविक्रयी त्रि-
रात्रमुपवसेत् । रङ्गः सिन्दूरकुसुम्भादि । एतत् सकृद्-
विक्रये पैठीनसिः । “तथाऽविक्रेयाणि ब्राह्मणस्य लवणं
पक्वान्नं मधुरक्षीरं दधि घृतमुदकं सर्व्वगन्धीलाक्षारक्तवासो
गुड़स्तैलं ग्राग्यरशूनामेकशाफाः केशिनः । सर्व्वे
चारण्याः पशबोविद्यापूर्त्तमिष्टं गावः शङ्खश्चोर्ण्णा चेति विक्र-
येण तेषामेकैकस्मिन् प्राजापत्यञ्चरेत्” । तथाच्यवनः “दघि-
मधूच्छिपिष्टसर्पिःपक्वान्नतिलतक्रक्षीररसविषतिलाश्वनीली-
कौषैयवासोलाक्षारसलवणविक्रये प्राजापत्यञ्चरेत् ।
एतच्चाभ्यासविषयं तत्र धेनुरेका दातव्या । हारीतः ।
“लाक्षालवणमांसतैलक्षीरदधिघृततक्रगन्धचर्म्मरक्तवाससा-
मेकतमविक्रये चान्द्रायणम्” तथा शातातपः । “आममांस
सुरासोमलाक्षालवणसर्पिर्षाम् । विक्रये सर्व्वपण्यानां द्विज-
श्चान्द्रायणञ्चरेत्” । ऐतच्चात्यन्ताभ्यासे चान्द्रायणे चाष्ट-
धेनवः । भविष्यपुराणे । “गुड़ं तिलांस्तथा नीलीं केशगोधू-
मकन्यकाः । विक्रये ब्राह्मणोऽपाञ्च कृच्छ्रं सान्तपनञ्चरेत्” ।
एतद्वारत्रयाभ्यासे सान्तपने धेनुद्वयम् । हारीतः “अथो-
र्ण्णिकेशिकेशरिणाञ्च धेन्वनडुदश्मशस्त्रविस्तविक्रये तप्तच्छ्रहृ-
विधिः । हिङ्गुगुग्गुलुरससर्जरसहरितालमनःशिलाञ्जन
गैरिकक्षारलवणमणिमौक्तिकप्रबालदन्तनखशुक्तिशङ्खवेणुवै-
णवमृण्मयविक्रये च । आरामतड़ागोदपानपुष्करिणी-
पूर्त्तसुहृद्विक्रयेषु त्रिषवणस्नाय्यधःशायी चतुर्थकालभुक्
संवत्सरेण पूतोभवतीति” । आरामादिनिखिलविक्रये
ह्योतदितिधर्म्मप्रदीपः । तथा “हीनोन्मानमापनसङ्कर
सङ्कीर्ण्णविक्रये च” । अत्र च कामाकामसकृदभ्यासापेक्षया-
वैषम्यदोषः समर्थनीयः । हीनमानोन्मानमापनं तुलादीना-
ङ्करसङ्कीर्ण्णत्वं द्रव्यस्याद्रव्येण । विष्णुः “प्राणिभूपुण्यसोम
विक्रयी तप्तह्रच्छ्रं कुर्य्यात् । अन्नौषधिपुष्पमूलचर्मबिदल-
तुषकार्पासकेशभस्मास्थिगोरसपिण्याकतिलतैलविक्रयी प्रा-
जापत्यम्” । विदलः पाचितवंशादिनिर्म्मितः । तथा “श्लेष्म
जतुमधूच्छ्विष्टशङ्गश्रुक्तित्रपुशीशककृष्णलोहोडुम्बरखड़्गपा-
त्रविक्रयी महासान्तपनम्” । श्लेष्मा चर्म्मविकारः वरुडेति
यस्य पर्य्यायः । महासान्तपने धेनुद्वयम्, सुमन्तुः “देवर्षि-
सोमचैत्र्यान्नापत्यकूपोदपानदारात्मनां विक्रये कृच्छ्र-
द्वयम् । घृततिलतैलरक्तवस्त्रपक्वान्नानां प्राजापत्यंचरेत् ।
गोविक्रयनिन्दामाह यमः । “गवां विक्रयकारी च गवि
रोमाणि यानि तु । तावद्वर्षसहस्राणि गवां गोष्ठे क्रमि-
र्भवेत्” ॥ यच्च मनुनोक्तं सद्यः पतति मांसेन लाक्षया लवणेन
च । त्र्यहेण शूद्रीभवति ब्राह्मणः क्षीरविक्रयीति, तन्नि-
न्दातिशयार्थम् । गौतमः । “पशवः हिंसायोगे” अस्यार्थः
यत्र विक्रीताः सन्तः पशवोहिंस्यन्ते तत्र तेषामप्यपण्यत्वम् ।
यानि चान्यानि गुरुतरप्रायश्चित्तबोधकवचनानि तानि
वहुतरकालाभ्यासे समूह्यानि शूद्रस्य त्वत्यन्तापदि दोषा-
भावमाह पराशरः । “लवणं मधु मद्यं वा दधि तक्रं घृतं
पृष्ठ ०२२५
पयः । न दुष्येत् शूद्रजातीनां कुर्य्यात् सर्वेषु विक्रयम्” ॥
कालिकापुराणे । “विक्रयं सर्ववस्तूनां कुर्वन् शूद्रो न
दोषभाक् ॥ मधुचर्मसुरां लाक्षां त्यक्त्वा मांसञ्च पञ्चमम्” ।
एतदप्यापदि, दोषापवादमाह गौतमः । “विनिमयस्तु रसानां
रसैः पशूनाञ्च लबणकृतान्नयोस्तिलानाञ्च समेनामेन पक्वस्य
संयत्यर्थे” । पशूनां समानजातीयैरसमानजातीयैर्वा पशुभिरेव
परिवर्त्तो न तु द्रव्यान्तरेण । पक्वान्नस्य चामेन तण्डुला-
दिना तावत्परिमितेनेत्यर्थः । अत्र समशब्दादत्यद्रव्यपरि-
वर्त्ते न नियमः । मनुः “रसारसैर्विमातव्या नत्वे व लवणं
रसैः । घृतान्नञ्चाहृतान्नेन तिलधान्येन तत्समाः” ॥ वशिष्ठः
“रसारसैः समतोहीनतो वा विमातव्या नत्वेव लवणं रसैः
तिलतण्डुलपक्वान्नविद्यामनुष्याश्च विहिताः परिवर्त्तकेन” ।
नारदः । “अशक्तौ भेषजस्यार्थे यज्ञहेतोस्तथैव च । यद्य-
वश्यन्तु विक्रेयास्तिला धान्येन तत्समाः” ॥ एतेन “काम-
मुत्पाद्य कृष्यात्तु स्वयमेव कृषीबलः । विक्रीणीत तिलान्
शुद्धान् धर्म्मार्थमचिरस्थितानिति” मनुवचनम्
तिलविनिमयपरम् ॥

अपतन्त्रक पु० अपगतं तन्त्रं भिषजामधीनता यत्र कप् ।

वातरोगभेदे “वायुरूर्द्ध्वं व्रजेत् स्थानात् कुपितो हृदयं
शिरः । सन्धौ च पीड़यत्यङ्गान्याक्षिपेन्नमयेच्च सः ।
निमीलिताक्षो निश्चेष्टस्तब्धाक्षो वापि कूजति । निरुच्छ्वासो-
ऽथ वा कृच्छ्रादुच्छ्वस्य नष्टचेतनः । स्वस्थः स्वाद्धृदये मुक्ते
आवृते च प्रमुह्यति । कफान्वितेन वातेन ज्ञेय
एषोऽपतन्त्रक इति” सुश्रुते २५५ पृ० तल्लक्षणमुक्तम् ।
“अपतन्त्रकातुरं नापतर्पयेदिति” सुश्रुतः ।

अपतर्पण न० अप + तृप--भावे ल्युट् । रोगादौ--उपवासे,

तृप्त्यभावे च । “अपगतं तर्पणं यस्य वा गतलोपः
तपणशून्ये त्रि० “क्रियाभिश्चिकित्सेत् स्थूलमपतर्पणं
युक्ताभिरिति” सुश्रुतः ।

अपतानक पु० अपक्रम्य अन्तरान्तरा तनुते तन कर्त्तरि--ण्वुल् ।

वातरोगभेदे “यदा तु घमनीः सर्व्वाः कुपितोऽभ्येति मारुतः ।
तदाक्षिपत्याशुमुहुर्मुहृर्देहं मुहुश्चरः । मुहुर्मुहुस्तदाक्षेपादा-
क्षेपक इति स्मृतः । सोऽपतानकसंज्ञोयः पातयत्यन्तान्तरेति
मुश्रुते आक्षेपकवातरोगस्यैवान्तरान्तरापतने अपतानकसंज्ञा”
मु० २५४ पृ० कृता “अभिघातनिमित्तश्च शोणिताभिस्ववाच्च
यः । गर्भपातनिमित्तश्च न सिध्यत्यपतानक” इति तत्रैव
तस्यासाध्यतोक्ता “अभुक्तवता पीतमम्लदधिमरिचवचायुक्त-
मनतानकं हन्ति तैलसर्पिर्वसाक्षौद्राणि चेति” सुश्रु० ।

अपत्नी स्त्री नास्ति पतिर्यस्याः “विभाषा सपूर्ब्बस्येति”

पा० वा न ङीप् च । पतिरहितायां स्त्रियाम् । पक्षे
अपतिरित्यपि कपि तु अपतिकेचेव तत्रैवार्थे ।

अपत्नीक पु० नास्ति सन्निकर्षे कर्म्मयोग्या, मृत्या वा पत्नी यस्य

कप् । असन्निकृष्टपत्नीके, कर्म्मायोग्यपत्नीके, मृतपत्नीके
च । “अपत्नीकस्याहवनीये तच्छ्रापिणः” कात्या० २, ५,
१८ । “अपत्नीकस्य रजोदोषप्रसवप्रवासादिना असन्निहित-
पत्रीकस्य तच्छ्रापिण आहवनीयश्रापिणः आहवनीये हविः-
श्रपणं कुर्ब्बतो यजमानस्य “आहवनीये आज्यमधिश्रयती”
त्युक्तेः । आहवनोयश्रापिणोऽपि सन्निहितायां पत्न्यां गार्ह-
पत्य एवाज्यमधिश्रयति, शाखान्तरे चैवं श्रूयते “यस्य व्रत्येऽ-
हनि पत्न्यनालंभुक्ती (रजस्वला) स्यात्तामनपरुध्य
यजेतेति” । केचित् अपत्नीको मृतपत्नीक इत्याहुः तस्या-
प्येकाकिन एवाघानं श्रूयते आश्वलायनब्राह्मणे, “पत्न्यां
मृतायामग्निभिर्दग्धायां पुनर्विवाहासम्भवे आत्मार्थमग्न्या-
धानमाहापस्तम्बः दर्शपौर्णमासाग्रयर्णार्थं, शेषाणि कर्म्माणि
न भवन्तीति” तथा त्रिकाण्डे मण्डनः “तस्मान्नग्न्यै-
कदेशेन दग्धव्या पूर्व्वमारिणी पत्नी ज्येष्ठेतरा वापि
यज्ञपार्श्वे निरूपितम्” ॥ कात्यायनः (कर्मप्रदीपे) “मृता-
यामपि भार्य्यायां वैदिकाग्नीन्नहि त्यजेत् । उपाधिनापि
तत्कर्म यावज्जीवं समापयेदिति” । तद्व्या० (उपाधिना
स्वर्ण्णादितत्प्रतिमूर्त्त्या) । नास्ति पत्नीसहिता यस्य कप् ।
पत्नीस्यहित्यरहिते । “पितृयज्ञमुपक्रम्य” । “अपत्नीकः”
कात्या० ५, ७, ५ । “पितृयज्ञो भवति केबलस्यैकाकिनो
यजमानस्यैवाधिकारो न तु पत्नीसहितस्य । अतोऽत्र पत्न्याः प्रति-
षेधात् “पत्नीं समुह्येति प्रैषस्याभावः । आज्यावेक्षणं
त्वाज्यसंस्कारत्वादध्वर्य्युः करोतीति” तद्व्या० ।

अपत्य न० न पतन्ति पितरोऽनेन पत--वा करणे यत् न० त० ।

पुत्रदुहितृरूपे संताने । “नापुत्रस्य लोकोऽस्तीति श्रुतेः
पुत्राभावे स्वर्गादिलोकानुत्पत्तेः “पुत्रेण लोकान् जयति
पौत्रेणानन्त्यमश्नुते अथ पुत्रस्य पौत्रेण व्रध्नस्याप्नोति पिष्टप-
मिति” या० स्मृतेश्च तदुत्पादेने स्वर्गलोकलाभोक्तेः
“पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः । तस्मात्
पुत्र” इति स्मृत्या नरकनिस्तारकत्वस्य श्रुतेश्च सुतादीनां
पतनाहेतुत्वात् तथात्वम् पौत्रादीनामपि पतनाहेतुत्वात्
अपत्यत्वम् । अतएव “अपत्यं पौत्रप्रभृति गोत्रभिति” पा०
सूत्रे पौत्रादीनामप्यपत्यशब्दपाच्यतोक्ता । पौत्रादीनां
तुगोत्रसंज्ञापीति विशेषः । “अपत्यं पितुरेव स्यात् ततः
पृष्ठ ०२२६
प्राचामपीति चेति” सि० कौ० का० । “अपत्यैरिव नीवार-
भागघेयोचितैर्मृगैरिति” रघुः । “सोऽपत्यंभ्रातुरुत्पाद्येति”
“अपत्यलाभात् या तु स्त्रीति, “अपत्यं धर्मशुश्रूषेति”
च मनुः ।

अपत्यदा स्त्री० अपत्यं तद्धेतुं गर्भं ददाति । सेवनेन गर्भ-

दायके ओषधिविशेषे गर्भदायिविद्यादौ च । अपत्यदायि-
मात्रे मन्त्रादौ त्रि० ।

अपत्यपथ पु० अपत्यस्य गर्भात् तन्निसारणस्य तदुत्पत्तेश्च

पन्थाः अच् समा० । पुत्रनिःसारणद्वारे स्त्रीणां गुह्य-
स्थानभेदे “स यदा विगुणानिललपीड़ोऽपत्यपथमनेकधा-
प्रतिपद्यते इति” स्त्रीणान्तु विंशतिरधिका, दश तासां
स्तनयोरैककस्मिन् पञ्च पञ्च, यौवने तासां परिवृद्धिः ।
अपत्यपथे चतस्र इति” । “तिर्य्यगामतस्य परिघस्येव
तिरश्चीनस्य पार्श्वादूर्द्धमूर्द्धमुत्क्षिप्य गर्भमपत्यपर्थ प्रत्यार्ज्जवमानी-
यापहरेत् पार्श्वापवृत्तशिरसमसंप्रपीड्य ऊर्द्धमुत्क्षिप्य शिरो-
ऽपत्यपधमानीयापहरेदिति” च सुश्रुतः ।

अपत्यशत्रु स्त्री अपत्यं शत्रुर्गर्भभेदनेन नाशकं यस्याः । कर्क-

ट्याम् सा हि गर्भेऽपत्यजनने तन्निःसारणसमये गर्भस्फोट-
नान्मियते इति” लोकप्रसिद्धेः “स्वनाशाय कर्कटी गर्भं धत्त
इत्युक्तेश्च तथात्वम्! ६ त० । अपत्यनाशके, कर्कटे
सर्पे च ।

अपत्यसाच् पुंस्त्री० अपत्यैः सचते संबध्यते सच--वेदे--ण्वि ।

अपत्यसमवेते । “अपत्यसाचं श्रुत्यं रराथाम्” ऋ० १,
११७, २३ ।

अपत्र पु० नास्ति पत्रं दलं पक्षोवास्य । वंशकरीरे (कोढ़)

अङ्कुरे च तदवस्थायां तयोः पत्रशून्यतयोत्पत्तेस्तथात्वम् ।
गलितपत्रे वृक्षे, गलितपक्षे विहगे च ।

अपत्रप त्रि० अपगता त्रपा लज्जा यस्मात् प्रा० ब० वा

गतलोपः । लज्जाहीने लोपाभावे अपगतत्रपीऽप्युक्तार्थे ।

अपत्रपा स्त्री अपरम् अपेक्ष्य त्रपा, अप + त्रप--भावे स्त्रियाम्

अ वा । अन्यहेतुकलज्जायाम् लज्जामात्रे च । “अपत्रपा
चेतसि च न्यषेधदिति” नैषधम् ।

अपत्रपिष्णु त्रि० अप + त्रप--शीलार्थे इष्णुच् । स्वभावतो लज्जाशीले ।

अपथ न० न पन्थाः अप्राशस्त्ये न० त० । “अपथं” पु० न०

पा० । “विभाषेति” पा० वा अच् समा० । अपकृष्टपथे
निन्दितपथे कुपथे । “घनागमे राजपथे हि पिच्छिले
क्वचिद्बुधैरप्यपथेन गम्यते” इति नै० । “को वा न
पदमप्रथेऽकार्य्यत मया” इति प्रबोध० । “अथैतदपथमिवैति
यदेतांदिशमिति” शत० ब्रा० । नास्ति पन्थाः सुन्दरमार्गो
यत्र ब० अच् समा० । सुन्दरपथशून्ये ग्रामादौ त्रि० ।
पथोऽभावः अव्ययी० अच् समा० । मार्गाभावे अव्य० ।

अपथिन् पु० न पन्थाः अप्राशस्त्ये न० त० वा अजभावः ।

अपकृष्टपथे ।

अपथ्य न० पथ्ये वैद्यकोक्तभोजनादिनियमाय नीत्युक्ताचाराय

वा हितम् यत् न० त० । वैद्यकोक्तिमुल्लङ्घ्य, अनिष्टे
मोजनादौ अहिताचारे च “अकार्य्यं कार्य्यसङ्काशमपथ्यं
पथ्यमस्मेतम्” रामा० । “संतापयन्ति किमपथ्यभुजं
न रोगा” इति वै० । पथ्यापथ्ये च सुश्रुते दर्शिते यथा
“अथातो हिताहितीयमध्यायं व्याख्यास्यामः । यद्वायोः
पथ्यं तत्पित्तस्यापथ्यमित्यनेन हेतुना न किञ्चिद्द्रव्य-
मेकान्तेन हितमहितं वास्तीति” केचिदाचार्य्या ब्रुवते
तत्तु न सम्यक् । इह खलु यस्माद् द्रव्याणि स्वभावतः
संयोगतश्चैकान्तहितान्येकान्ताहितानि हिताहितानि
च भवन्ति । तत्रैकान्तहितानि जातिसात्म्यात् सलिल-
घृतदुग्धौदनप्रभृतीनि । एकान्ताहितानि दहनपचन-
मारणादिषु प्रवृत्तान्यग्निक्षारविषादीनि । संयोगादप-
राणि विषतुल्यानि भवन्ति । हिताऽहितानि तु यद्वायोः
पथ्यं तत्पित्तस्यापथ्यमित्यतः सर्व्वप्राणिनामयमाहारार्थं
वर्ग उपदिश्यते । तद्यथा रक्तशालिषष्टिककङ्गुकमुकु-
न्दकपाण्डुकपीतकप्रमोदककालकाशनकपुष्पककर्दमकशकुना-
हृतसुगन्धककलमनीवारकोद्रवोद्दालकश्यामाकगोधूमवेणुयवा-
दयः । एणहरिणकुरङ्गमृगमातृकाश्वदंष्ट्राकरालक्रकर-
कपोतलावतित्तिरिकपिञ्जलवर्त्तीरवर्त्तिकादीनां मांसानि ।
मुद्गवनमुद्गमकुष्ठकलायमसूरमङ्गल्यचणकहरेण्वाढकीसतीनाः ।
चिल्लीवास्तूकसुनिषण्णकजीवन्तीतण्डुलीयकमण्डूकपर्ण्यः ।
गव्यं घृतं सैन्धवदाड़िमामलकमित्येष वर्गः सर्वप्राणिनां
सामान्यतः पथ्यतमः । तथा ब्रह्मचर्य्या-निवातशयनो-
ष्णोदकनिशास्वप्नव्यायामाश्चैकान्ततः पथ्यतमाः । एकान्त-
हितान्येकान्ताहितानि प्रागुपदिष्टानि ॥ हिताहितानि
तु यद्वायोः पथ्यं तत्पित्तस्यापथ्यमिति ॥ संयोगतस्त्वप-
राणि विषतुल्यानि भवन्ति । तद्यथा । वल्लीफलकवक-
करीराम्लफललवणकुलत्थपिण्याकदधितैलविरोहिपिष्टशुष्क
शाकाजाविकमांसमद्यजाम्बवचिलिचिममत्स्यगोधावराहांश्च
नैकध्यमश्नीयात् पयसा ।
रोगं सात्म्यञ्च देशञ्च कालं देहञ्चबुद्धिमान् । अवेक्ष्या-
ग्न्यादिकान् भावान् रोगवृत्तेः प्रयोजयेत् । अवस्थान्तर-
पृष्ठ ०२२७
बाहुल्याद्रोगादीनां व्यवस्थितम् । द्रव्यं नेच्छन्ति भिषज
इच्छन्ति स्वस्थरक्षणे । द्वयोरन्यतरादाने वदन्ति विषदुग्ध-
योः । दुग्धस्यैकान्तहिततां विषमेकान्ततोऽहितम् ॥ एवं
युक्तरसाद्येषु द्रव्येषु सलिलादिषु । एकान्तहिततां विद्धि
वत्स! सुश्रुत! नान्यथा ॥
अतोऽन्यान्यपि संयोगादहितानि वक्ष्यामः ॥ न च
विरूढधान्यैर्व्वसामधुपयोगुड़माषैर्व्वा ग्राम्यानूपोदकपिशि-
तादीनि चाभ्यवहरेत् । न पयोमधुभ्यां रोहिणीशाकं
जातु शाकं वाश्नीयात् । बलाकां वारुणीकुल्माषाभ्याम् ।
काकमाचीं पिप्पलीमरिचाभ्यां, नाड़ीभङ्गशाककुक्कुटदधीनि
च नैकध्यम् । मधु चोष्णोदकानुपानं पित्तेन वा मांसानि ।
सुराकृशरपायसांश्च नैकध्यम् । सौवीरकेण सह
तिलशष्कुलीम् । मत्स्येः सहेक्षुविकारान् ॥ गुड़ेन काकमाचीं,
मधुना मूलकं, गुड़ेन वाराहं, मधुना च सह विरुद्धम् ।
क्षीरेण मूलकम् । आम्रजाम्बवश्वाविच्छूकरसगोधाश्च सर्व्वांश्च-
मत्स्यान्विशेषेण चिलिचिमं पयसा । कदलीफलं
तालफलेन, पयसा, दध्ना, तक्रेण वा । लकुचफलं पयसा, दध्ना,
माषसूपेन वा मधुना, घृतेन च प्राक् पयसः पयसोऽन्ते वा ।
अतः कर्म्मविरुद्धान् वक्ष्यामः ॥ कपोतान् सर्षपतैल-
भृष्टान्नाद्यात् । कपिञ्जलमयूरलावतित्तिरिगोधाश्चैरण्ड-
दार्वग्निसिद्धा एरण्डतैलसिद्धा वा नाद्यात् । कांस्यभाजने
दशरात्रपर्य्युषितं सर्पिर्म्मधु चोष्णैरुष्णे वा । मत्स्यपरि-
पचने शृङ्गवेरपरिपचने वा सिद्धां काकमाचीम् ।
तिलकल्कसिद्धमुपोदिकाशाकम् । नारिकेलेन वराहवसापरि-
भृष्टां बलाकाम् । भासमङ्गारशूल्यं नाश्नीयादिति ॥
अतो मानविरुद्धान् वक्ष्यामः ॥ मध्वम्बुनी मधुसर्पिषी
मानतस्तुल्ये नाश्नोयात् । स्नेहौ मधुस्नेहौ जलस्नेहौ
वा विशेषादान्तरीक्षोदकानुपानौ ।
अत ऊर्द्ध्वंरसद्वन्द्वानि रसतो वीर्य्यतो विपाकतश्च विरुद्धानि
वक्ष्यामः । तत्र मधुराम्लौ रसवीर्य्यंविरुद्धौ मधुरलवणौ च
मधुरकटुकौच सर्वतः । मधुरतिक्तौ रसविपाकाभ्यां मधुर-
कषायौ चाम्ललवणौं रसतः । अम्लकटुकौ रसविपाकाभ्यामम्ल-
तिक्तावम्लकषायौ च सर्व्वतः । लवणकटुकौ रसविपाकाम्यां
लवणतिक्तौ लवणकषायौ च सर्वतः । कटुतिक्तौ रसवी-
र्य्याभ्यां कटुकषायौ तिक्तकषायौ च रसतः । तरतमयोग-
युक्तांश्च भावानतिरुक्षानतिस्निग्धानत्युष्णानतिशीतानित्येव-
मादीन् विवर्जयेत् । भवन्ति चात्र ॥
विरुद्धान्येवमादीनि रसवीर्य्यविपाकतः । तान्येकान्ता-
हितान्येव शेषं विद्याद्धिताहितम् ॥ व्याधिमिन्द्रियदौर्बल्यं
मरणञ्चाधिगच्छति । विरुद्धरसवीर्य्यादीन् भुञ्जानोऽनात्मवा-
न्नरः ॥ यत्किञ्चिद्दोषमुत्क्लेश्य भुक्तं कायान्न निर्हरेत् ।
रसादिष्वयथार्थं वा तद्विकाराय कल्पते ॥ विरुद्धाशनजान्
रोगान् प्रतिहन्ति विरेचनम् । वमनं शमनं वापि पूर्ब्बं
वा हितसेवनम् ॥ सात्म्यतोऽल्पतया वापि दीप्ताग्नेस्तरु-
णस्य च । स्निग्धव्यायामबलिनां विरुद्धं वितथं भवेत् ॥
व्यायामशोलो बलवान् शिशुश्च स्निग्धोऽग्निमांश्चापि
महाशनश्च । आप्नोति रोगान्न विरुद्धजातानभ्यासतो वाऽल्प-
तया च जन्तुः । अथ वातगुणान् वक्ष्यामः ॥
पूर्ब्बः समधुरः स्निग्धो लवणश्चैव मारुतः ।
गुरुविदाहजननो रक्तपित्ताभिवर्द्धंनः ॥ क्षतानां
विषजुष्टानां बलिनः श्लेष्मलाश्च ये । तेषामेव विशेषेण
सदा रोगविवर्द्धनः ॥ वातलानां प्रशस्तश्च श्रान्तानां
कफशोषिणाम् । तेषामेव विशेषेण व्रणक्लेदविवर्द्धनः ॥
मधुरश्चाविदाही च कषायानुरसोलघुः । दक्षिणो मारुतः
श्रेष्ठश्चक्षुष्यो बलवर्द्धनः । रक्तपित्तप्रशमनो न च
वातप्रकोपणः ॥ विषदो रूक्षपरुषः स्वरः स्नेहबलापहः ।
पश्चिमो मारुतस्तीक्ष्णः कफमेदोविशोषणः । सद्यः प्राण-
क्षयकरः शोषणस्तु शरीरिणाम् ॥ उत्तरो मारुतः
स्निग्धो मृदुर्म्मधुर एव च । कषायानुरसः शीतो दोषा-
णामप्रकोपणः ॥ तस्माच्च प्रकृतिस्थानां क्लेदनो बलवर्द्धनः ।
क्षीणक्षयविषार्त्तानां विशेषेणतु पूजितः” इति पृ० १, २० ।

अपद् त्रि० न पद्यते ज्ञायते पद--कर्म्मणि क्विप् न० त० ।

अज्ञेये । “गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्प-
द्यपदसि न पद्यसे” इति शत० ब्रा० १४, ८, १५, १० ।
नास्ति पादोऽस्याः पादोऽन्त्यलोपः कुम्भ० ङीप् पादः
पच्च । पादशून्यायांस्त्रियाम् । पुंसि तु अन्त्यलोपो “न
ङीप् । अपाद् । “आपादशीर्षा गूहमान” इति ऋ० ४
१, ११ । “अपादहस्तोऽपृतन् यदिन्द्रमिति” ऋ० १, ३२, ७ ।
“अथ यदपात् समभवत्तस्मादहिरिति” शत० ब्रा० ।
“अपादपाणिर्जवनोग्रहीतेति” श्रुतिः ।

अपद न० न पदम् अप्राशस्त्ये न० त० । अप्रकृष्टस्थाने

सुप्तिङन्तभिन्ने च नापदं शास्त्रे प्रयुञ्जीतेति वृद्धाः ।

अपदान न० अपदायति परिशुध्यति येन कर्मणा अप +

दैपशोधने करणे ल्युट् । परिशुद्धाचरणे येन कर्मणा सर्व्वैः
परिशुद्धत्वेन ज्ञायते तस्मिन् कर्मणि ।

अपदान्तर त्रि० न पदान्तरं व्यवधानं यत्र । अव्यवहिते सन्निकृष्टे, संसक्ते च ।

पृष्ठ ०२२८

अपदिश अव्य० दिशयोर्मध्ये अप + दिशा + अव्ययी० । दिशो-

मध्ये विदिक् इति कोण इति च ख्याते । दिक्शब्देन
समासे तु शरदा० टच् इति भेदः ।

अपदिष्ट त्रि० अप + दिश--कर्म्मणि क्त । कथिते प्रयुक्ते ।

“कालात्ययापदिष्टश्च हेत्वाभासाश्च पञ्चधेति” भाषा० ।

अपदेश पु० अप + दिश--घञ् । लक्ष्ये, स्वरूपाच्छादनरूपे,

छले, निमित्ते स्थाने च । “रक्षापदेशान्मुनिहोमधेनो
रिति” रघुः । “न धर्म्मस्यापदेशेन पापं कृत्वा व्रतं
चरेदिति” । “भक्ष्यभोज्यापदेशैश्च ब्राह्मणानां च दर्शनैः” ।
“शौर्य्यकर्म्मापदेशेनेति” “साक्ष्यभावे प्रणिधिभिर्वयोरूप-
समन्वितैः । अपदेशैश्च संन्यस्य हिरण्यं तस्य तत्त्वत इति” च
मनुः । उपदेशे च । “दीक्षाया अपदेशात्” कात्या० २२,
१२२ । अपदेश उपदेश इत्यर्थः । अपकृष्टोदेशः प्रा०
ब० वा कृष्टपदलोपः । अपकृष्टदेशे, अनुचितस्थाने च ।

अपदेश्य त्रि० अप + दिश--कर्म्मणि यत् । छलेन कथनीये ।

अपदेशे अनुचितस्थाने भवः दिगा० यत् । अनुचितस्थान-
भवे त्रि० । “अपदिश्यापदेश्यञ्च पुनर्यस्त्वपधावतीति”
मनुः । यत्र यस्य दानमुचितं ततोऽन्यत्र स्थाने दानस्यानु-
चितत्वात् तथात्वम् ।

अपद्रव्य न० अपकृष्टं द्रव्यम् प्रा० ब० वा कृष्टभागलोपः ।

अपकृष्टद्रव्ये “अदूषितानां द्रव्याणां दूषणे भेदने तथेति”
मानव व्याख्यायाम् “अपद्रव्यप्रदानेन दूषणे” इति कुल्लकः ।

अपद्वार न० अपकृष्टं द्वारं प्रा० ब० वा कृष्टलोपः । अपकृष्ट-

द्वारे “निर्यियासुरपद्वारैरिति” सुश्रुतः ।

अपधा स्त्री अप + वारणे धा--भावे स्त्रियाम् अङ् । वारणार्थं

निरोधे, “गा उदाजदपधा बलस्य” इति ऋ० २, १२, ३ ।
“अपधाअपधायाः निरोधादिति” भा० ।

अपध्यान न० अपकृष्टं ध्यानम् प्रा० स० । अनिष्टचिन्तने ।

वैपरोत्यचिन्तने च ।

अपध्वंस पु० अप + ध्वन्स--भावे घञ् । नाशे, यस्य यथारूप-

मुचितं ततः प्रच्यवे च । “पथामपध्वंसेनैत्विन्द्र” इति
अथ० १, ३, ५ ।

अपध्वंसज पुंस्त्री अपध्वस्यतेऽनेन अपध्वंसः वर्णानां भिन्न-

रूपतासंमादकः सङ्करस्तस्माज्जायते जन--ड ५ त० ।
भिन्नवर्णसङ्गमजाते करणादौ सङ्कीर्णवर्णे । “शूद्राणां तु
सधर्म्माणः सर्व्वेऽपध्वंसजाः स्मृता” इति मनुः “ये द्विजा-
नामपसदा ये चापध्वंसजाः स्मृता” इति च मनुः । तेषां
पित्रीः समवर्णत्वाप्राप्तेः स्वरूपप्रच्यवेन जातत्वात् तथात्वम् ।

अपध्वंसिन् त्रि० अपध्वंसयति अप + ध्वन्स--णिच्--णिनि ।

नाशके । “सर्व्वैनसामपध्वंसि जप्यं स्यादधमर्षणमिति” मनुः

अपध्वस्त त्रि० अप + ध्वन्स--क्त । निन्दिते, परित्यक्ते

अवचूर्णिते च ।

अपध्वान्त न० अपकृष्टं ध्वान्तं ध्वनितम् ध्वन--क्त वेदे नि०

स्वनार्थेऽपि इडभावः । भिन्नकांस्यस्वरसमे शब्दे “वृहस्पते-
रपध्वान्तमिति” छा० उप० । वार्हस्पत्यं तदपध्वान्त
भिन्नकांस्यस्वरसममिति” भा० ।

अपनय पु० अप + नी--अच् । दूरीकरणे स्थानान्तरनयने च ।

“अपनयो वाऽदृष्टत्वादिति” कात्या० २५, ९, २ । “तस्य
तण्डुलापनयो वचनादिति” कात्या० २५, ४४, ३ ।
“अपनयतेर्दूरीकरणार्थत्वात्तथात्वम् अतएव “अविनयमपनय
विष्णो!” इति शङ्कराचार्य्येण दूरीकरणार्थतया प्रयुक्तम् ।
अपकृष्टो नयो वैपरीत्ये प्रा० स० वा । निन्दितनीतौ दुष्ट-
नीतौ च । अपकारे “ततः सपत्नापनयस्मरणानुशय-
स्फुरेति” माघः ।

अपनयन न० अप + नी--ल्युट् । दूरीकरणे, खण्डने च ।

अपनीयतेऽनेन अप + नी--करणे ल्युट् । अपकारसाधने ।
अपगतं नयनं यस्य । नेत्रहीने त्रि० ।

अपनस त्रि० अपगता नासिका यस्य प्रा० ब० नसादेशश्च ।

अपगतनासिके । “असिं कौक्षेयमुद्यम्य चकारापनसं
मुखमिति” भट्टिः ।

अपनीत त्रि० अप + नी--क्त । खण्डिते, दूरीकृते, अपसारिते च ।

अपनुत्ति स्त्री अप + नुद--क्तिन् । स्वण्डने दूरीकरणे । “परि-

जनश्रमापनुत्त्यै” इति छा० उप० । “पापानामपनुत्तये
इति” “गुरुतल्पापनुत्तये” इति च मनुः ।

अपनुद त्रि० अप + नुद--क । दूरीकारके, खण्डके, शोधके च ।

अपनोद पु० अप + नुद--भावे घञ् । स्वण्डने, दूरीकरणे,

अपसारणे च । “तस्यापनोदाय फलप्रवृत्ताविति” रघुः ।
“ब्रह्महत्यापनोदाय मितभुङ्नियतेन्द्रिय” इति मनुः ।

अपनोदन न० अप + नुद--ल्युट् । अपसारणे खण्डने च “एनसा

स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनमिति” मनुः । कर्त्तरि
ल्यु । दूरीकारके त्रि० । “यथाश्वमेधः क्रतुराट् सर्वपापा-
पनोदनः । तथाऽघमर्षणं जप्यं सर्वपापापनोदनम्” इति ।
“पराकोनाम कृच्छ्रोऽयं सर्वपापापनोदन” इति च मनुः ।

अपन्न त्रि० पत--क्त नि० ब० त० । अपतिते । “आशवोऽपन्न-

गृहस्येति” यजु० ६, २४ । न पन्नं पतितं गृहं यस्येति”
वेददोषः । पन्नग इत्यत्र हि पन्नशब्दस्य पतितार्थकत्वं दृष्टम् ॥
पृष्ठ ०२२९

अपपाठ पु० अपकृष्टः पाठः । यथा यस्य पाठः समुचितः

ततोऽन्यथा पाठे अपकृष्टपाठे “द्वादशापपाठा अस्य जाता
इति” सि० कौ० ।

अपपात्र त्रि० अपकृष्टं पात्रं भोजनपात्रं यस्य । चण्डालौ

तेषां हि भोजने पात्राणामप्रकृष्टत्वं तत्रान्यैर्भोजना-
नर्हत्वात्तेषां तथात्वम् “चण्डालश्वपचानान्तु बहिर्ग्रामान्
प्रतिश्रयः अपपात्राश्च कर्त्तव्या इति” मनुः ।

अपबर्हिस् त्रि० अपगतं बर्हिर्यत्र प्रा० ब० वा गतलोपः ।

बर्हिर्होमरहिते “सोऽपबर्हिषौ द्वावनुयाजौ” इति
श्रुतिः । “अपबर्हिषश्चतुरः प्रयाजान् यजति” । शत० व्रा० ।
अपबर्हिष इति पृथक्पदमित्येके ।

अपभय त्रि० अपगतं भयं यस्य प्रा० ब० वा गतलोपः । गतभये

भोतिशून्ये । लोपाभावे अपगतभयोऽप्युक्तार्थे त्रि० ।

अपभर्त्तृ पु० अपकृष्टोभर्त्ता प्रा० स० । अपकृष्टभर्त्तरि

अपभी त्रि० अपगता भीरस्य प्रा० ब० वा गतलोपः । भीति-

शन्ये अपभीतिरप्यत्र स्त्री ।

अपभूति स्त्री अपकृष्टा भूतिः प्रा० स० । “अपवृष्टविभूतौ

“यममी पुरोदधिरे ब्रह्माणमपभूतये” इति श्रुतिः ।

अपभ्रश पु० अप + भ्रन्श--घञ् । अपक्षरणे अधःपतने “अत्या-

रूढ़िर्भवति महतामप्यपभ्रंशनिष्ठा” शक० । “अपभ्रंशति
स्वभावात् प्रच्यवते” अप + भ्रन्श--कर्त्तरि अच् । साधु-
शब्दस्य शक्तिवेफल्यपयुक्तान्यथाच्चारणयुक्ते अपशब्दे । “त
एव शक्तिवैकल्यप्रमादालसतादिभिः । अन्यथोच्चारिताः
शब्दा अपशब्दा इतीरिता” इति हरिणा साधुशब्दाना-
मेवान्यथोच्चारणेऽपशब्दतोक्तेः तस्य स्वभावतो भ्रंशात्
तथात्वम् । “अनपभ्रंशतानादिर्यदाभ्युदययोग्यतेति” हरिः ।
“आभीरादिगिरः काव्येष्वपभ्रंशगिरः स्मृताः । शास्त्रेषु
संस्मृतादन्यदपभ्रंशतथोदितमिति” दण्डी ।

अपम त्रि० अपकृष्टं मीयते अप + मा--बा० क । अपकृष्ट-

तया ज्ञाते “भगोऽनाशोश्चिदविताऽपमस्य चित्” । ऋ० १०,
३९, ३ । “अपमस्य जात्यातिनिकृष्टस्य” भा० ।
अपकृष्यभूगोलादुपरि मीयते । भूगीलानाच्छादितान्तरिक्षमागे
ज्योतिषपरिभाषितायां सूर्य्यादिगत्यर्थतिर्य्यग्रेखायाम् क्रान्तौ
यथा । “नाड़िकामण्डलात् तिर्य्यगत्रापमः, क्रान्तिवृत्ता-
वधिः क्रान्तिवृत्ताच्छरः । विक्षेपवृत्तावधिस्तिर्य्यगेवं स्फुटो
नाड़िकावृत्तखेटान्तरालेऽपम” इति सि० शि० । “क्रान्तिवृत्ते
यत् स्फुटग्रहस्थानं तस्य नाड़ीवृत्तात् तिर्य्यगन्तरम् अपमः
क्रान्तिः । अथ विमण्डले यत् ग्रहस्थानं तस्य क्रान्ति-
वृत्तात् यत् तिर्य्यगन्तरं स विक्षेपः अथ विमण्डलस्य प्राक् च
नाड़ीवृत्तात् यत् तिर्य्यगन्तरम् सः अपमः स्फुटा क्रान्तिः
ग्रहस्य उत्तरतो याम्यदिशं याम्यान्तात् तदनु सौम्यदिग्-
भागम् । प्रमि० “परिसरतां गगनसदां चलनं किञ्चि-
द्भवेदपमः” इति । सि० शि० ।

अपमज्या स्त्री अपमस्य धनुराकृतिक्षेत्रस्य ज्येव । क्रान्तिवृत्ता-

ख्यजीवायाम् । विवरणम् क्रान्तिज्याशब्दे दृश्यम् ।

अपमण्डल न० अपक्रान्तं मण्डलात् भूमण्डलात् निरा० त० ।

सिद्धान्तशिरोमण्युक्ते क्रान्तिवृत्ते । यथा “ग्रहस्य गोले
कथिताऽपमण्डलं प्रकल्प्य कक्षाबलयं यथोदितमिति”
“क्रान्तिवृत्तं कक्षामण्डलं प्रकल्प्येति” प्रमिता० । “एष
भगोलः कथितः खेचरगोलोऽयमेव विज्ञेयः । अत्राप-
सण्डले वा सूत्राधारैव यस्य तस्यैवेति” सि० शि० ।

अपमर्द्द पु० अप + मृद--घञ् । विमर्द्दने “हयहस्तिकरीषाभ्या-

मपमर्द्दः कृतोमहानिति” रामा० ।

अपमान पु० अपकृष्टं मीयतेऽनेन अप + मा--करणे ल्युठ् ।

अनादरे “अपमानं पुरस्कृत्य स्वकार्य्यं साधयेन्नर” इति
नीतिः । “मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयो”
रिति” गीता । वेदस्य ब्राह्मणानाञ्च अपमानादधोगतिः
पुरा० अपकृष्टो मानो यस्मात् अप + मन--करणे घञ् वा ।
अनादरे पु० । नापमानः प्रयोक्तव्यः कामक्रोधकृतः क्वचि-
दिति” रामा० । “अथापमानेन पितुःप्रयुक्तेति” कुमा० ।

अपमानित त्रि० अपमानं जातमस्य तार० इतच् । यस्याप-

मानं कृतं तस्मिन् कृतापमाने अनादृते ।

अपमार्ग पु० अपकृष्टो मार्गः प्रा० स० वा कृष्टलोपः । कुत्सितवर्त्मनि ।

अपमार्जन न० अप + मृज--भावे ल्युट् वृद्धिः । संशोधने ।

“कांस्यापमार्जनमसीमधुरं सैन्धवं नतमिति” सुश्रुतः
अधस्तान्मार्जने च । अपमार्जनप्रोक्षिताभ्यामपमृष्ट इति
कात्या० ९, १०, ४ । “अपमार्जनंग्रहपात्रमुखादारभ्याध-
स्तादपमार्जनमिति” तद्व्या० ।

अपमित त्रि० अप--मा--क्त । अवज्ञाते अनादृते ।

अपमित्यक न० अपमित्य अपमानमङ्गीकृत्य गृह्यते कन् । ऋणे

अपमुख न० अपगतं पराभूतं मुखम् प्रा० त० । परावृत्ते वदने

प्रा० ब० गतलोपः । परावृत्तवदनवति पदार्थे त्रि० ।

अपमूर्द्ध त्रि० अपगतो मूर्द्धा यस्य । शिरःशून्ये कबन्धे ।

पृष्ठ ०२३०

अपमृत्यु पु० अपकृष्टः दुष्टहेतुजन्यत्वेन मृत्युर्मरणम् ।

विषोद्बन्धनादिहेतुके मृत्यौ । “अपमृत्युहेतवश्च शुद्धिपत्त्वे
कौर्म्मे दर्शिता यथा
“शृङ्गिदंष्ट्रिनखिव्यालविषवह्निस्त्रिया जलैः । आदरात्
परिहर्त्तव्यः कुर्वन् क्रीड़ां मृतस्तु यः । नागानां विप्रियं
कुर्वन् दग्धश्चाप्यथ विद्युता । निगृहीतः स्वयंराज्ञा चौर्य्य-
दोषेण कुत्रचित् । परदारान् रमन्तश्च द्वेषात्तत्पतिभिर्हताः ।
असमानैश्च सङ्कीर्ण्णैश्चाण्डालाद्यैश्च विग्रहम् । कृत्वा तैर्नि-
हतास्तांस्तु चाण्डालादीन् समाश्रिताः । गवाग्निविषदा-
श्चैव पाषण्डाः क्रूरबुद्धयः । क्रोधात् प्रायं विषं वह्निं शस्त्र-
मुद्बन्धनं जलम् । गिरिवृक्षप्रपातञ्च ये कुर्वन्ति नराधमा” इति ।

अपमृषित त्रि० न० अप + मृष--क्त वाक्ये वाच्ये नि० । क्षान्ते

वाक्ये । अन्यत्र अपमृष्टमित्येव सोढ़े क्षान्ते परामृष्टे च ।

अपयशस् न० अपकृष्टं यशः । “यशोविपरीतायामकीर्त्तौ

“अपयशो यस्यास्ति किं मृत्युना” इतिनीतिः । अपगतं
यशो यस्य । कीर्त्तिशून्ये त्रि० ।

अपयशस्कर त्रि० न यशस्करः कृ--हेतौ ट विरोधे न० । अकीर्त्तिहेतौ ।

अपयान न० अप + या--भावे ल्युट् । अपक्रम्य पलायने

“अपयानेऽपि न भवान् समर्थो लघुविक्रय” इति रामा० ।

अपर न० न पूर्य्यते यतः पृ--अपादाने, अप् । गजस्य पश्चा-

द्भागे । “बद्धापराणि परितो निगडान्यलावोदिति” माघः ।
परितो बद्धः अपरः पश्चिमग्रादोयैरिति मल्लि० । न
पृणाति सन्तोषयति पृ--अच् । शत्रौ, भिन्ने त्रि० । “अन्ये
कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे” इति मनुः “तमा समुद्रा-
दपरे परे नृपाः” नैष० पश्चिमायां दिशि स्त्री “अपर-
दिग्गणिकेति” माघः परकालवृत्तौ त्रि० । “पूर्ब्बां
सन्ध्यां जपन् तिष्ठेत् स्वकाले चापरां चिरमिति” मनुः ।
पश्चाद्वृत्तौ त्रि० “पूर्ब्बापरौ तोयनिधी वगाह्य” कुमा० ।
ऋग्वेदादिविद्यायां स्त्री । “द्वेविद्ये विदितव्ये इति
हस्म ब्रह्मविदो वदन्ति परा चैवापरा च तत्रापरा
ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो
व्याकरणं निरुक्तं छन्दो ज्योतिषमिति” ऋ० भा०
धृना श्रुतिः । अस्य च कालदेशादिनियमे सर्व्वनाम-
कार्य्यम् । तत्र “पूर्ब्बादिभ्यो नवभ्यो वा इति” पा० वा
तत्कर्म । अपरत्वञ्च दैशिकं कालिकं च द्विविधं, तत्र स्वापेक्षया
उदयाचलविप्रकृष्टत्वम् दैशिकमपरत्वम् स्वापेक्षयाधिक-
सूर्य्यस्पन्दनवत्त्वं कालिकम् । उक्तोदाहृतौ दैशिकम्
कालिकन्तु । “अपरं भवतो जन्म परं जन्म विवस्वत”
इति गीता । अल्पदेशवृत्तिरूपे व्याप्ये त्रि० “सामान्यं
द्विविधं प्रोक्तं परञ्चापरमेव च । व्यापकत्वात् परापि
स्यात् व्याप्यत्वादपरापि च” भाषा० । द्रव्यत्वादेः
घटत्वाद्यपेक्षया अधिकदेशवृत्तित्वात् परत्वं सत्तापेक्षया-
अल्पदेशवृत्तित्वात् अपरत्वमिति मुक्ता० । “द्रव्यत्वादिक
जातिस्तु परापरतयोच्यते” इति भाषा० । “स्वायम्भुवस्य
च मनो षड्वंश्या मनवोऽपरे” इति अपरकालिका
भिन्ना वा इत्यर्थः । निकृष्टे । “भूमिरापोऽनलो वायुः स्वं
मनोबुद्धिरेव च अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा
अपरेवमितस्त्वन्यां प्रकृतिं विद्धि मे परामिति” गीता । तत्र
भूम्यादीनामितरपदार्थ्यकृतित्वेऽपि जड़त्वात् संहत्य कारि-
त्वात् स्वयमसमर्थत्वेन जीवस्य भोगाद्यर्थमेव प्रवृत्ति-
मत्त्वाच्च निकृष्टत्वम् । जीवस्य तु तदपेक्षया परत्वम् ॥
उत्तरकालिकत्वात् तद्धिकारलक्षणे कार्य्ये “तदेतद्-
ब्रह्माऽपूर्ब्बमनपरमनन्तमिति” वृह० उप० । नास्ति अपरं
कार्य्यं यस्येति भा० । वस्तुतः स्वरूपप्रच्यवाभावेन कूटस्थस्य
न कार्य्यकारित्वमत एव “न कर्त्तृत्वं न कर्म्माणि लोकस्य
सृजति प्रभुः अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तव
इति” गीतायाम् तस्याकर्त्तृत्वमुक्तं कर्त्तृत्वन्तु अज्ञानोप-
हितेश्वरस्येति न विरोधः । समुदायिनः शेषभागे “अपर-
रात्रः अपराह्णः एकदेशि स० । अस्य पूर्ब्बपदस्थस्य
पश्चादेशः पश्चार्द्धम् न० शेषार्द्धे । अपरस्मिन् भवः डिमच्
पश्चिमः शेषभवे । प्रथमापञ्चम्यादिदेशकालवृत्ते
रपरशब्दात् प्रथमाद्यर्थे अति । पश्चात् । अधिकमधःशब्दे
दृश्यम् । अस्य दिग्वाचकत्वात् तेन समासे देशवाचिनः
णिदादि तद्धिते उत्तरपदस्यैव वृद्धिः अपरपाञ्चालक इत्यादि ।

अपरक्त त्रि० अपगतो रक्तः शोणितो यस्मात् । अपगतरक्त-

वर्णे अप + रग्ज--क्त । विरक्ते अनुरागशून्ये च त्रि० ।

अपरज पु० अपरस्मिन् काले जायते जन--ड ७ त० ।

रुद्रभेदे “नमः पूर्ब्बजाय चापरजाय” चेति यजु०
१६, ३२ ।

अपरति स्त्री अप + रम--भावे क्तिन् । अविरतौ ।

अपरत्र अव्य० अपरस्मिन् कालादौ । अपरस्मिन् देशे । काले वा ।

अपरत्व न० अपरस्य भावः त्व । अपरभावे तच्च वैशेषिकोक्तो

गुणभेदः । तदपि द्विविधं दैशिकं कालिकञ्च तत्स्वरूपमपर-
शब्दे उक्तम् । तत्र च कारणमपेक्षाबुद्धिविशेषः तस्य
नाशाच्च परत्वापरत्वयोर्नाशः । “संयोगश्च विभागश्च
परत्वञ्चापरत्वकमिति” “परापरत्वधीहेतुरेका नित्या दिगु-
च्यते” इति च भाषा० । तत्र दैशिकापरत्वं अल्प-
सूर्य्यसंयोगज्ञानजन्यं, कालिकं तु अल्पसूर्य्यपरिस्पन्द-
ज्ञानजन्यभिति भेदः । कालिके कालोहेतुः दैशिके तु
पृष्ठ ०२३१
दिगिति भेदः । “परत्वञ्चापरत्वञ्च द्विविधं परिकीर्त्तितम् ।
दैशिकं कालिकञ्चापि मूर्त्त एव तु दैशिकम् ॥ परत्वं
सूर्य्यसंयोगभयस्त्वज्ञानतो भवेत् । अपरत्वं तदल्पत्वबुद्धितः
स्यादितीरितम् ॥ तयोरसमावायो नु दिक्संयोगस्वदाश्रये ।
दिवाकरपरिस्पन्दपूर्ब्बोत्पन्नत्वबुद्धितः ॥ परत्वमपरत्वन्तु
तदनन्तरबुद्धितः । अत्र त्वसामवायी स्यात् संयोगः
कालपिण्डयोः ॥ अपेक्षाबुद्धिनाशेन नाशस्त्वेषामुदाहृत”
इति भाषा० ।

अपरदक्षिण अव्य० अपरा च दक्षिणा च “दिङ्नामा-

न्यन्तराले इति” पा० सूत्रं बाधित्वा तिष्ठद्गुप्रभृतिपाठात्
अव्ययी० । पश्चिमदक्षिणयोरन्तराले नैरृते कोणे ।
तद्गणपाठाच्च नैतस्य समासान्तरघटकतेति विशेषः ।

अपरपक्ष पु० अपरः शेषः पक्षः । कृष्णपक्षे स हि चन्द्रस्य

वृद्धिह्रासपक्षयोर्मध्ये शेषः, चैत्रशुक्लप्रतिपद्येव वर्षारम्भ-
णात् शुक्लस्य पूर्ब्बत्वम् सुतरां कृष्णस्यापरत्वम् । “पूर्ब्बपक्षो
देवानामपरपक्षः पितॄणामिति” श्रुतिः । “यथा चैवा-
ऽपरपक्षः पूर्ब्बपक्षाद्विशिष्यते” इति मनुः “अथ श्राद्ध-
ममावास्यायां पितॄणां दद्यात् पञ्चमीप्रभृति वाऽपर-
पक्षस्येति” स्मृतिः “अश्वयुक्कृष्णपक्षस्य प्रेतपक्षत्वेन
अपरपक्षत्वव्यवहारः । “अमावास्यामृतोयश्चापरपक्षमृतस्तथा ।
तस्य पार्वणमुद्दिष्टं मुनिभिः पञ्चपात्रकमिति” स्मृतिः
कचित् प्रेतपक्षेत्येव पाठः । “तुलादिषडशीत्यह्नां
षडशीतिमुखं क्रमात् । तच्चतुष्टयमेव स्याद्द्विस्वभावेषु
राशिषु ॥ षड़्विशे धनुषो भागे द्वाविंशेऽनिमिषस्य च ।
मिथुनाष्टादशे भागे कन्यायास्तु चतुर्दशे ॥ ततः शेषाणि
कन्याया यान्यहानि तु षोड़श । क्रतुभिस्तानि तुल्यानि
पितॄणां दत्तमक्षयम्” इति सूर्य्यसिद्धान्तोक्तेः षड़शीति-
मुखावशिष्टानां षोड़शानां दिनानां श्राद्धप्रशस्तकालत्वाद-
परपक्षत्वम् अथ वा नास्ति परो यस्मात् तादृशः पक्षः ।
ताथाचाक्षयपुण्यदत्वेन अत्युत्कृष्टत्वात्तथात्वम् । पञ्चादशा-
हस्यैव पक्षत्वेऽपि षोडशानां दिनानां किञ्चिदधिकपक्षत्वात्
पक्षत्वम् तेषां सौरत्वेऽपि चान्द्रे पक्षे व्यवहारस्य गौणतेति
भेदः । विकल्प्यमानयोः पक्षयोर्मध्ये शेषपक्षे च ।

अपररात्र पु० अपरं रात्रेः एकदे० त० अच् समा० । रात्रि-

शेषे “अपररात्रे सायंदोहमिति” कात्या० ७, ४, ३०,
“अपररात्रकृतम्” सि० कौ० ।

अपरव पु० अपकृष्टोरवः प्रा० त० । अकीर्त्तौ अपयशास ।

अपरवक्त्र न० “अयुजि ननरला गुरुः समे न्जमपरवक्त्रमिदं

ततोजरौ” इति वृत्तरत्नाकरोक्ते अर्द्धसमे मात्रावृत्तमेदे
“वदन्त्यपरवक्त्राख्यं वैतालीयं विपश्चितः । पुष्पिताग्राभिधं
केचिदौपच्छन्दसिकं तथेति वृ० र० । अपरवक्त्रा
स्त्रियामिति केचिदाहुः ।

अपरवैराग्य न० कर्म्म० । पातञ्जलोक्ते वैराग्यभेदे । यथा

“दृष्टानुश्राविकविषयवितृष्णस्य वशीकारसंज्ञं वैराग्य-
मिति” यतमानव्यतिरेकैकेन्द्रियवशीकारसंज्ञाश्चतस्रः तत्र
रागादीनां चित्तस्थानां कषायाणां विषयेष्विन्द्रियप्रवर्त्तकानां
पाकाय प्रयत्नो यतमानसंज्ञं वैराग्यं ततः पक्वानां केषा-
ञ्चित्कषायाणां वक्ष्यमाणेभ्यो विरागावधारणं व्यतिरेकसंज्ञं
वैराग्यं, ततः पक्वानां सर्वेषामिन्द्रियप्रवर्त्तनाऽशक्तानां
मनस्यैत्सुक्यरूपेणावस्थानमेकेन्द्रियसंज्ञं वैराग्यम्, स्त्रियोन्न-
पानमित्यादिषु दृष्टेषु, गुरूच्चारणमनु श्रुवः श्रवणं यस्य
सोऽनुश्रवो वेदः तदुक्तेष्वानुश्राविकेषु स्वर्गादिदिव्यविषयेषु
मर्त्त्येषु च विनाशपरितापसातिशयत्वासूयादिदोषाणाम-
भ्यासेन साक्षात्काराद्वितृष्णस्योपेक्षाबुद्धिः वंशीकारसंज्ञं
वैराग्यमित्यर्थः । एतानि च संप्रज्ञातसमाधेरन्तरङ्गाणि
असंप्रज्ञातसंसाधेस्तु बहिरङ्गाणि” इति पा० वृ० ।

अपरस्पर न० अपरश्च परश्च क्रियासातत्ये द्वित्वं सुश्च । क्रिया-

सातत्ये । क्रियावतां सातत्ये तु त्रि० । अपरास्पराः पुंमांसः,
योषितो वा गच्छन्ति अपरस्पराणि कुलानि यान्ति ।
सततमविच्छेदेन गच्छन्तीत्यर्थः । “अपरस्पराः सार्था
गच्छन्ति” सि० कौ० ।

अपरहैमन त्रि० अपरहेमन्ते भवः अपरहेमन्त + भवार्थे अण्

तलोपः उत्तरपदवृद्धिः । हेमन्तशेषभवे । एवं पूर्ब्बहै-
मनः हेमन्तपूर्व्वभवे त्रि० ।

अपरा स्त्री अपसृत्य राति गृह्णाति जन्म यस्याः रा--अपा-

दाने बा० ड । जरायौ ततोऽपयानादेव गर्भान्निस्मरणा-
ज्जन्मेति तस्यास्तथात्वम् । अधिकमपरशब्दे दृश्यम् ।

अपराग पु० अप + रन्ज--घञ् नलोपकुत्वे । अननुरागे

विरागे “अनुरागापरागौ च प्रचारं मण्डलस्य चेति” मनुः ।

अपराग्नि पु० द्विव० कर्म्म० । गार्हपत्यदक्षिणाग्न्योः,

“अन्तरेणापराग्नी गत्वा दक्षिणेनेति” कात्या० ४, १३, १२,
“अपराग्नी गार्हपत्यदक्षिणाग्नी” इति तद्व्या० । अन्ति-
माग्नौ अन्त्येष्टिकर्म्माङ्गवह्नौ पु० एकव०

अपराङ्ग न० अपरस्य रसादेरङ्गम् । गुणीभूतव्यङ्ग्ये काव्य-

भेदे । “अगूढ़मपरस्याङ्गमिति” काव्य० प्र० । अपरस्य
रसादेः वाक्यार्थीभूतस्य वा वाच्यस्याङ्गम् यथा “अयं स
पृष्ठ ०२३२
रशनोत्कर्षी पीनस्तनविमर्द्दनः । नाभ्यूरुजघनस्पशीं नीवी-
विस्रंसनः कर इति” । अत्र शृङ्गारस्य करुणाङ्गत्वा-
त्तथात्वम् वाच्याङ्गव्यङ्ग्यं तत्र दृश्यम् ।

अपराङ्मुख त्रि० न पराङ्मुखः न० त० ।

अनिवृत्ते कर्त्तव्यकर्म्मणोऽसोढ़तया ततोनिवृत्तिरहिते” स्त्रियां
ङीप् ।

अपराच् त्रि० न पराञ्चति परावर्त्तते परा + अञ्च--क्विन्

न० त० । अनिवृत्ते परावृत्तभिन्ने स्त्रियां ङीप् ।

अपराजित पु० परा + जि--क्त न० त० । शिवे, विष्णौ,

तयोः केनाप्यपराजितत्वात्तथात्वम् ऋषिभेदे च ।
पराजितभिन्ने त्रि० । दूर्वायां, शेफालिकायां, जयन्तीवृक्षे,
असनवृक्षे, शङ्क्षिनीवृक्षे, हपुषावृक्षे असनपर्ण्याम्, ऐशान्यां
दिशि “अपराजितां वास्थाय व्रजेद्दिशमजिह्मग” इति
मनुः “अपाजितामैशानीं दिशमिति” कुल्लू० ।
चतुवृशाक्षरपादके “ननरसलगैः स्वरैरपराजितेति” वृ० र०
उके छन्दोभेदे, दुर्गायां देव्यां “अपर्ण्णा चापराजितेति”
दुर्गास्तोत्रम् “नास्ति पराजितं शत्रोः पराजयो यस्याः
५ त० । विजयदशम्याम् पूजनेन अपराजयदातृदुर्गामूर्त्ति-
भेदे । सा च आश्विनशुक्लदशम्यां श्रवणयुतायामपराह्णे
सन्ध्यायां वा पूज्या यथा हेमाद्रौ व्रतखण्डे “आश्विनशुक्ल-
पक्षमुपक्रम्य” “दशम्यां च नरैः सम्यक् पूजनीयाऽपरा-
जिता । क्षेमार्थं विजयार्थञ्च पूर्ब्बोक्तविधिना नरैः ।
नवमीशेषयुक्तायां दशम्यामपराजिता । ददाति विजयं
देवी पूजिता जयवर्द्धिनी” स्कान्दम् । “आश्विने शुक्लपक्षे
तु दशम्यां पूजयेन्नरः । एकादश्यां न कुर्व्वीत पूजन-
ञ्चापराजितमिति” निर्ण्णयसिन्धौ स्कान्दम् । “उदये दशमी
किञ्चित् संपूर्ण्णैकादशी यदि, श्रवणर्क्षं यदा काले सा तिथि-
र्विजयाभिधेति” हेमाद्रौ काश्यपः । “कालेऽपराह्णे” इति
निर्ण्णयसिन्धुः । तस्याश्च अपराह्णपूज्यता हेमाद्रौ दर्शिता
ततएव तदगवन्तव्यम् । “नाधयोव्याधयस्तस्य भवन्ति न
पराजयः श्रियं पुण्यमवाप्नोति विजयञ्च सदा भुवीति”
तत्पूजायाः फलत्वेन अपराजयस्योक्तेस्तस्यास्तथात्वम् ।
तत्पूजाङ्गदशम्या अपि अपराजयहेतुत्वात् विजयहेतुत्वाच्च
अपराजितेति विजयेति च नाम अतएव “पूजनञ्चापराजित”
मित्युकमपराजितामधिकृत्यकृतत्वात् पूजनस्यापराजित-
त्वम् तत्र पूजनप्रकारस्तु हेमाद्रौ व्रतखण्डे अपराजित-
दशमोप्रकरणे दृश्यः । योगिनीभेदे तत्स्वरूपं ध्यानशब्दे
नक्ष्यते । अःविष्णः पराजितः तुल्यवर्णतया यया ।
विष्णुक्रान्तायां स्वनामख्यातायां लतायां च स्त्री । अधिकं
विजयदशम्यां वक्ष्यते ।

अपराद्ध त्रि० अप + राध--कर्त्तरि क्त । अपराधिनि,

स्वोचितकार्य्याकारके, स्खलिते च “निमित्तादपराद्धेषो-
र्धानुष्कस्येव वल्गितमिति” माघः भावे क्त । अंपराधे ।

अपराद्धपृषत्क पु० अपराद्धो लक्ष्यात् च्युतः पृषत्को

वाणो यस्य । लक्ष्याग्राहिसायके धानुष्के ।

अपराद्धृ त्रि० अप + राध--तृच् । अपराधकर्त्तरि स्वोचित-

कार्य्याकारके स्त्रियां ङीप् ।

अपराध पु० अप + राध--घञ् । स्वोचितकर्म्माकरणे आगसि

“कमपराधलवं मम पश्यसीति” सा० द० । दण्डयोग्य-
कर्म्मकरणे । “यथाऽपराधदण्डनामिति” रघुः । देवविषये
अपराधश्च शास्त्रविध्युल्लङ्घनेन, निषिद्धसेवनेन च
जातदुरितविशेषः । तत्र निगमे द्वात्रिंशद् अपराधा दर्शिता
यथा “यानैर्व्वा पादुकैर्व्वापि गमनं भगवद्गृहे । देवोत्स-
वाद्यसेवा च अप्रणामस्तदग्रतः ॥ उच्छिष्टे वाथवाऽशौचे
भगवद्दर्शनादिकम् । एकहस्तप्रणामश्च पुरस्तादप्रदक्षिणम् ॥
पादप्रसारणं चाग्रे तथा पर्य्यङ्कबन्धनम् । शयनं भक्षणं
वापि मिथ्याभाषणमेव च ॥ उच्चैर्भाषा मिथोजल्पो
रोदनानि च विग्रहः । निग्रहानुग्रहौ चैव नृषु च
क्रूरभाषणम् ॥ कम्बलावरणं चैव परनिन्दा परस्तुतिः ।
अश्लीलभाषणं चैव अधोवायुविमोक्षणम् ॥ शक्तौ गौणो-
पचारश्च अनिवेदितभक्षणम् । तत्तत्कालोद्भवानाञ्च
फलादीनामनर्पणम् ॥ विनियुक्तावशिष्टस्य प्रदानं व्यञ्जना-
दिके । पृष्ठीकृत्यासनं चैव परेषामभिवादनम् ॥ गुरौ
मौनं निजस्तोत्रं देवतानिन्दनं तथा । अपराघास्तथा
विष्णोर्द्वात्रिंशत् परिकीर्त्तिताः इति” ॥ आह्निकतत्त्वे
तु वाराहमूलका अन्यविधा द्वात्रिंशत् दर्शिता यथा ।
“भगवद्भक्तानां क्षत्रियसिद्धान्नभोजनम् १ अनिषिद्धदिने
दन्तधावनमकृत्वा विष्णोरुपसर्पणम् २ मैथुनं कृत्वा
ऽस्नात्वा विष्णोरुपसर्पणम् ३ मृतं नरं स्पृष्ट्वाऽस्नात्वा
विष्णुकर्म्मकरणम् ४ रजस्वलां स्पृष्ट्वा विष्णुगृहप्रवेश-
नम् ५ मानवं शवं स्पृष्ट्वाऽस्नात्वा विष्णुसन्निधाववस्था-
नम् ६ विष्णुं स्थृशतः पायुवायुप्रयोगः ७ विष्णोः-
कर्म्म कुर्वतः पुरीषत्यागः ८ विष्णुशास्त्रमनादृत्य शास्त्रा-
न्तरप्रशंसा ९ अतिमलिनं वासः परिधाय विष्णुकर्म्मा-
चरणम् १० अविधानेनाचम्य विष्णोरुपसर्पणम् । ११
विष्णोरपराधं कृत्वा विष्णोरुपसर्पणम् १२ क्रुद्धस्य विष्णु-
पृष्ठ ०२३३
स्पर्शनम् १३ निषिद्धपुष्पेण विष्ण्वर्च्चनम् १४ रक्तं
वासः परिधाय विष्णोरुपसर्पणम् १५ अन्धकारे दीपेन
विना विष्णोः स्पर्शनम् १६ कृष्णवस्त्रं परिधाय विष्णोः
कर्म्माचरणम् १७ वायसोद्धूतवासः परिधाय विष्णोः
कर्म्माचरणम् १८ विष्णवे कुक्कुरोच्छिष्टदानम् १९
वराहमांस भुक्त्वा विष्णोरुपसर्पणम् २० हसजालपादसरा
रिमांसं भुक्त्वा विष्णोरुपसर्पणम् २१ दीपं स्पृष्ट्वा हस्तम-
प्रक्षाल्य विष्णोःस्पर्शनं कर्म्मकरणं वा २२ श्मशानं गत्वा-
ऽस्नात्वा विष्णूपसर्पणम् २३ पिन्याकं भुक्त्वा विष्णोरुप-
सर्पणम् २४ विष्णवे वराहमांसनिवेदमम् २५ मद्य-
माघ्राय पीत्वा स्पृष्ट्वा वा विष्णुगृहप्रवेशनम् २६
परकीयेणाशुचिना वस्त्रेण परिहितेन विष्णुकर्म्माचरणम्
२७ विष्णवे नवान्नमप्रदाय तद्भोजनम् २८ गन्धपुष्पे
अप्रदाय धूपदीपदानम् २९ उपानहावारुह्य विष्णु-
स्थानप्रवेशनम् ३० भेरिशब्देन विना विष्णुपबोधनम्
३१ अजीर्ण्णे सति विष्णु स्पर्शनम् ३२ इति” एतदुपलक्षणम्
“अपराधसहस्राणि, अपराधशतानि चेति” मन्त्रलिङ्गात्
“अहन्यहनि योमर्त्त्यो गीताध्यायन्तु संपठेत् । द्वात्रिंश-
दपराधैस्तु अहन्यहनि मुच्यते” इति नरसिंहपुरा० ।

अपराधय त्रि० अपराधं याति या--ड । अपराधप्राप्ते ।

ब्राह्म० भावे कर्म्मणि च ष्यञ् आपराधय्यं तस्य भावे
तत्कर्म्मणि च न० ।

अपराधिन् त्रि० अप + राध--णिनि । कृतागसि अपराधकारके, स्त्रियां ङीप् ।

अपरान्त पु० “अपरस्याः पश्चिमायाः अन्तः सीमा-

भूतोदेशः । देशभेदेऽस्य पश्चिमदिशः सीमाभूतत्वात्तथात्वम्
स च देशः कतम इति तावन्निर्णीयते “तस्यानीकैर्वि-
सर्पद्भिरपरान्तजयोद्यतैः रामास्त्रोत्सारितोऽप्यासीत्
सह्यलग्न इवार्ण्णव इति” रघुः । तेनास्य सह्यपर्व्वत
सन्निकृष्टत्वम् । “अवकाशं किलोदन्वान् रामाया-
भ्यर्थितो ददौ । अपरान्तमहीपालव्याजेन रघवे
करमिति” रघुः तेनार्ण्णवसन्निकृष्टत्वं च प्रतीयते । तत्रैव देशे
रघो “त्रिकूटमेव तत्रोच्चं जयस्तम्भं चकार स” इति त्रिकूट
पर्वतवर्ण्णनात् त्रिकूटयुक्तत्वञ्च तस्य प्रतीयते । “पारसीकां-
स्ततोजेतुमित्यनन्तरोक्तेश्च पारसीकदेशात् पूर्ब्बत्वं प्रतीयते
पारसीकदेशश्च पाश्चात्त्यः “संग्रामस्तुमुलस्तस्य पाश्चात्त्यैरश्व-
साधनैरिति” तेषां पाश्चात्त्यत्वस्य तत्रैव वर्ण्णनात् । वृहत्-
संहितायाञ्च “नव भारतवर्षे मध्यात् प्रागादिविभा-
जितादेशा” इत्युपक्रम्य “अपरस्यां मणिमान् मेघवान्
वनौघः क्षुरार्पणोऽस्तगिरिः । अपरान्तशान्तिकहैहयप्रश-
स्ताद्रिकोङ्कणा” इत्यादिना मध्यस्थानात्तस्य पश्चिमदिक्स्थत्व-
मुक्तम् तत्र च मुरला नाम नदी । “मुरलामारुतोद्धूतमिति”
रधौ तत्र तस्या वर्ण्णनात् तदवान्तरदेशः केरलः । “भयोत्-
सृष्टविभूषाणां तत्र केरलयोषितामिति” रघौ तथा वर्ण्ण-
नात् । जनपदवाचित्वात् तद्धिताणोलुकि तद्देशभवे तद्रा-
जनि च ब० व० । “उन्मूर्द्धानः सन्निपत्यापरान्तैरिति” माघः ।

अपरार्क पु० स्मृतिसंग्रहभेदे ।

अपरार्द्ध पु० न परार्द्धम् । परार्द्धभिन्ने । अपरमर्द्धमिति

वाक्ये तु अपरस्य पश्चादेशे पश्चार्द्धमित्येव ।

अपरावर्त्तिन् त्रि० न परावर्त्तते परा + वृत--णिनि न० त० ।

अपराङ्मुखे कार्य्यसमाप्तिमकृत्वाऽनिवर्त्तिनि स्त्रियां ङीप् ।

अपराह्ण पु० अपरमह्न एक० त० टच् अह्नादेशः । दिनशेष-

भागे स च द्विधा विभक्तस्य, त्रिधा विभक्तस्य च दिनस्थ
शेषमागः । “पृर्ब्बंदिनं मनुष्याणामपराह्णः पितॄणामिति” श्रुतौ
द्विधा विभजनात् “पूर्ब्बाह्णोवै देवानां मध्यन्दिनं
मनुष्याणामपराह्णः पितॄणामिति श्रुतौ त्रिधा विभजनाच्च
तयोस्तेषु वा शेषस्य तथात्वम् । तथा च द्विधा विभक्तस्य
दिनस्य शेषार्द्धम्, त्रिधा विभक्तस्य तृतीयार्द्धं च
अपराह्णः । “ययास्तं सविता याति पितरस्तामुपासते ।
तिथिं तेभ्योऽपराह्णो हि स्वयं दत्तः स्वयंभुवेति”
स्मृतिः । “तथा श्राद्धस्य पूर्ब्बाह्णादपराह्णो विशि-
ष्यते” मनुः । पञ्चधा विभक्तस्य तु चतुर्थभागे च तस्य
च कर्म्मयोग्येतरापेक्षयाऽपरत्वात् तथात्वम् । अन्ति-
मत्रिमुहूर्त्तस्य तु राक्षसवेलात्वेन कर्म्मानर्हत्वात् कर्म्मयोग्य-
शेषभागत्वाभावान्नापराह्णत्वम् । तथा च “प्रातःकालो-
मुहूर्त्तां स्त्रीन् सङ्गवस्तावदेव तु । मध्याह्नस्त्रिमुहूर्त्तःस्यादप-
राह्णस्ततस्तथा । सायाह्नस्त्रिमुहूर्त्तः स्यात् श्राद्धं तत्र न
कारयेत् । राक्षसी नाम सा वेला गर्हिता सर्वकर्म्मस्विति”
त्रित्रिमुहूर्त्तात्मकतया पञ्चधा विभक्तदिनस्य चतुर्थे भागे
कर्म्मार्हापराह्णत्वेन परिभाषणात्तथात्वम् । लौकिके तु
मध्याह्नात्परतः, सूर्य्यास्तात् प्राक्कालोऽपराह्णत्वेन
व्यवह्रियते इति” भेदः । ततः भवार्थे वा वुन्
अपराह्णकः तद्भवे त्रि० । पक्षे तदर्थे ठञापराह्णिकः ।
तद्भवे त्रि० । श्राद्धे चैवापराह्णिक” इति स्मृतिः ।
स्त्रियां ङीप् । “पार्वणे पितृकृत्ये च तिथिर्ग्राह्याप-
राह्णिकीति” स्मृतिः ।

अपराह्णतन त्रि० अपराह्णे भवः ट्युल् तुट् च । अपराह्ण-

भवे त्रि० स्त्रियां ङीप् । “घकालेत्यादिना” पा० सप्तस्या
वा अलुकि अपराहणेतनोऽप्युक्तार्थेत्रि० ।
पृष्ठ ०२३४

अपरिकलित त्रि० न परिकलितः न० त० । अज्ञाते, अदृष्टे, अश्रुते च ।

अपरिक्रम त्रि० नास्ति परिक्रमः उद्योगोयस्य । अनुद्युक्ते ।

“जानन्नपि च किं कुर्य्यादशक्तश्चापरिक्रम इति” स्मृतिः ।
परितः क्रमः क्रमणम् अभावार्थे न० त० । परितः क्रम-
णाभावे पु० । परिगतः क्रमम् न० त० । क्रमापरिगते
अपरपाटीके त्रि० ।

अपरिक्लिष्ट त्रि० क्लिश भावे क्त न परिक्लिष्टं क्लेशोयत्र ।

अनायाससाध्ये । कर्त्तरि क्त न० त० । क्लेशयुक्तभिन्ने त्रि० ।

अपरिगत त्रि० न० त० । ज्ञातभिन्ने, अप्राप्ते च ।

अपरिगृहीत त्रि० न० त० । अस्वीकृते, अगृहीते, अज्ञाते च

अपरिग्रह पु० अभावे न० त० । परिग्रहाभावे, पातञ्जलोक्ते

यमभेदे च यथा “अहिंसासत्यास्तेयब्रह्मचर्य्यापरिग्रहा यमाः”
“सू० तत्रापरिग्रही नाम देहयात्रानिर्वाहकातिरिक्तभो-
गसाधनधनाद्यनङ्गीकारः । तस्य फलमपि तत्रैव दर्शितम्
यथा “अपरिग्रहस्थैर्य्ये जन्मकथन्तासंबोघः” अपरिग्रह-
शीलस्य तत्स्थैर्य्ये सति किंरूपं जन्म किंप्रकारकं, किंहेतुकं,
किंफलकम्, किमवसानमिति शरीरस्यापि परिग्रहविरो-
धिनी जिज्ञासा भवति शरीरस्यापि परिग्राह्यत्वाविशेषा-
त्कथं तत्परिग्रहो न स्यादिति जिज्ञासावश्यम्भावात् ।
ततः कार्य्यकरणसंबन्धात् पुरुषस्याज्ञस्य जन्म देवनरतिर्य्य-
कत्वप्रकारम् । क्लेशकर्म्महेतुकं, दुःखैकफलकम्, पुरुषतत्त्वाव-
सानमित्याचार्य्यादागमतश्च निश्चित्य अदेहः सन्नपरिग्रह-
यमस्य परमां काष्ठामनुभवतीत्यर्थः” इति तद्वृ० । “लोभस्य
पुरतः केऽमी? सत्यास्तेयापरिग्रहा” इति प्र० च० । नास्ति
देहयात्रानिर्व्वाहकव्यतिरिक्तस्य परिग्रहः संग्रहो यस्य ।
परिव्राजके “निराशीरपरिग्रह” इति गीता । तस्य च
कौपीनादिपरिग्रहणेऽपि तस्य शरीरयात्रानिर्वाहकत्वान्न
क्षतिः “कौपीनाच्छादनार्थं हि वासोवै बिभृयाद्यतिः ।
योगसम्भारभेदांश्च गृह्णीयात् पादुके तथेति” स्मृतौ
तत्परिग्रहविधानात् ।

अपरिचित त्रि० परि + चि--क्त न० त० । अनुशीलितभिन्ने, पूर्ब्बमज्ञाते च ।

अपरिच्छद त्रि० न परिच्छदोयस्य अप्राशस्त्ये न० ब० ।

अपकृष्टवस्त्राद्युपकरणयुक्ते दरिद्रे ।

अपरिच्छन्न त्रि० परिच्छन्नः परिष्कृतः न० त० । अपरि-

प्कृते, मार्ज्जनशुद्ध्यादिरहिते ।

अपरिच्छिन्न न० न परिच्छिन्नः । इयत्तारहिते निःसी-

मनि कूटस्थे चैतन्यात्मके ब्रह्मणि “तदेतद्ब्रह्मापूर्ब्बमनपर-
मनन्तमिति वृ० उ० श्रुत्या तस्यान्तराहित्योक्तेस्तथात्वम्
इयत्तारहितमात्रे त्रि० “जगत्यपर्य्याप्तेत्यादि”
माघव्याख्यायामपर्य्याप्तः अपरिच्छन्न” इति मल्लि० ।

अपरिच्छेद पु० अभावार्थे न०! परिच्छेदाभावे इयत्ता-

भावे । न० ब० । इयत्ताशून्ये त्रि० ।

अपरिज्ञान न० अभावे न० त० । तत्त्वविवकाभावे । न० ब० । तच्छून्ये त्रि० ।

अपरिणत त्रि० परि + नम--क्त न० त० । अपरिपक्वे । यस्य

यथा परिणाम उचितस्तथात्वमप्राप्ते अन्यरूपतामप्राप्ते च ।

अपरिणय पु० परिणयो विवाहः अभावे न० त० ।

विवाहाभावे ।

अपरिणीत त्रि० परि + नी--क्त न० त० । विवाहसंस्कारहीने कौमारावस्थायुक्ते ।

अपरितोष पु० अभावे न० त० । सन्तोषाभावे ।

अपरिपक्व त्रि० न० त० । परिपक्वभिन्ने यस्य यथा परिणति-

रुचिता तथारूपतामप्राप्ते, “यथा अपरिपक्वयोगीति” ।
विक्लित्तिप्राप्तिशून्ये आमे तण्डुलफलादौ च ।

अपरिमाण न० अभावे न० त० । परिमाणाभावे इयत्तारा-

हित्ये न० ब० । तच्छून्ये त्रि० ।

अपरिमित त्रि० न० त० । इयत्ताशून्ये परिमाणशून्ये ।

अपरिमेय त्रि० परिमातुं योग्यः न० त० । परिमातु-

मयोग्ये इयत्तारहिते ।

अपरिम्लान पु० न परिम्लायति कर्त्तरि क्त । रक्तवर्ण्णे

(आयला) ख्याते महासहावृक्षे रा० नि० । तस्य बहुमर्द्दने-
ऽपि म्लानिराहित्यात् तथात्वम् । म्लानिवर्जिते त्रि० ।

अपरिविष्ट त्रि० परि + विष--कर्म्मणिक्त न० त० । वेष्टनशून्ये

अव्याप्ते । “ऊर्ज्जयन्त्या अपरिविष्टमास्यमिति” ऋ० २,
१३, ८ । अपरिविष्टं मलादिभिरव्याप्तमिति” भा० ।
विष्टमाहारार्थमुपहृतं न० त० । परिवेषनशून्ये भोंज-
परिनार्थमनुपढौकिते त्रि० ।

अपरिवृत त्रि० न परिवृतः । अनाच्छादिते । परितोवेष्टन-

रहिते अनावृते क्षेत्रादौ “तत्रापरिवृतं शस्यं विहिंस्युः
पशवोयदीति” मनुः क्षेत्राद्यावरणप्रकारोऽपि तेन दर्शितः
“वृतिं तत्र प्रकुर्व्वीत यामुष्ट्रोनावलोकयेत् छिद्रञ्च वारयेत्
र्सवं श्वशूकरमुखानुगमिति” तेन तादृशच्छिद्रहीनवरणशून्ये-
ऽपि अपरिवृतत्वम् असंस्पृष्टे च “महोभिरपरीवृतो
वसति प्रचेताः” ऋ० २, १०, ३, अपरीवृतोऽसंस्पृष्टः इति
भा० वेदेदीर्घः ।

अपरिशेष पु० अभावे न० त० । परिशेषाभावे इयत्ताराहित्ये । न० ब० । इयत्ताशून्ये त्रि० ।

पृष्ठ ०२३५

अपरिष्कार पु० अभावे न० त० । मार्ज्जनादिशोधनसंस्का-

राभावे । न० ब० । तच्छून्ये त्रि० ।

अपरिष्टि स्त्री अप + वैपरीत्ये रिष--हिंसायाम् क्तिन् । पूजा-

याम् हेम० । पूजायाश्च हिंसाहेतुकद्वेषशून्यत्वात् तथात्वम् ।

अपरिसमाप्ति स्त्री अभावे न० त० । इयत्ताभावे समाप्त्यभावे

च । न० ब० । तच्छून्ये त्रि० ।

अपरिसर पु० अभावे न० त० । विस्ताराभावे प्रचाराभावे च न० ब० । तच्छून्ये त्रि० ।

अपरिहरणीय त्रि० न परिहर्त्तुं शक्यते हृ--शक्याद्यर्थे

कर्म्मणि अनीयर् । परिहर्त्तुमशक्ये, परिहर्त्तुमयोग्ये च ।

अपरिहार्य्य त्रि० न परिहर्त्तुमर्हति शक्यते वा हृ--ण्यत् ।

परिहर्त्तुमयोग्ये, परिहर्त्तुमशक्ये च ।

अपरीक्षित त्रि० न० त० । रूपवर्ण्णपरिमाणादिना यथार्थ

तत्त्वानुसन्धानशून्ये “एतच्चापरीक्षितक्रयविषयमिति”
मिताक्षरा परीक्षिते तु “परीक्षितं तु यत् क्रीतं तत् सर्वं
न निवर्त्तयेदिति” तद्धृता स्मृतिः ।

अपरीत त्रि० न० त० । परितोऽव्याप्ते अनभिगते च

“शवसाऽपरीता” इति ऋ० १, १००, ३, “अपरीताः अपरै-
रनभिगता” इति भा० । अपरिगते, अपर्य्याप्ते च
“अपरीतं नृतो शव” इति ऋ० ८, २४, ९, “अपरीतम् शत्रु-
भिरपरिगतमव्याप्तमिति वा” भा० ।

अपरुष् त्रि० अपगता रुट् यस्य । विगतक्रोधे “अपरुषा

परुषाक्षरमीरितेति” रघुः ।

अपरूप न० अप आनन्दे आश्चर्य्ये वा प्रा० स० । आश्चर्य्यरूपे

आनन्दहेतुप्रशंसितरूपे च । “ततोऽपरूपं जायते तस्मा-
दव्येष्यदेनस इति” अथ० १ २, ४, ९, अपकृष्टरूपे च ।
प्रा० ब० । तद्वति त्रि० ।

अपरेद्युस् अव्य० अपरस्मिन् अहनि एद्युस् । अपरदिने

इत्यर्थे “पूर्ब्बेद्युरपरेद्युर्वा श्राद्धकर्म्मण्युपस्थिते निमन्त्रयेत
विप्रान् वै” इति स्मृतिः ।

अपरोऽक्ष अव्य० न परोऽक्षम् इन्द्रियासन्निकृष्टम् । प्रत्यक्षे

विषयेन्द्रियसन्निकर्षोत्पन्ने ज्ञाने “सम्भावनादिनिरासे तु
विचारविपाकात्तेनैव प्रमाणेन जनितं ज्ञानं प्रतिबन्धा-
भावात् फलं जनयदपरोऽक्षमित्युच्यते” इति वृद्धाः । फलं
ज्ञाततामिति भाट्टाः चितिबुद्धेः प्रतिविम्बमिति सांख्याः बुद्धौ
चितः प्रतिविम्बमिति वेदान्तिनः । संस्कारम् विषयताविशेषं
वेति तार्किकादयः । तथा हि प्रथममिन्द्रियेण विषयः
संबध्यते ततो विषयालोचनारूपं विनिर्विकल्पकस्थानीयं
सामान्याकारं ज्ञानं जायते ततः विषयावरणरूपप्रतिबन्ध-
नाशात् चित्प्रतिविम्बरूपं फलं जनयज्ज्ञानमपरोक्षमित्यु-
च्यते इति वेदान्तिनः । नैयायिकास्तु विषयेन्द्रियसन्नि-
कर्षात् प्रथमं निर्विकल्पकरूपं विशेष्यविशेषणयोः संसर्गान-
वगाहि ज्ञानं जायते तदुत्तरं विषयप्रत्यक्षमित्यङ्गीचक्रः ।
सांख्यादयस्तु विषयेन्द्रियसन्निकर्षात् बुद्धेस्तत्तद्विषयकारेण
परिणामे जाते ततश्चेतनाशक्तौ बुद्धेः प्रतिविम्बरूपं
फलमुत्पद्यते तत्रैव ज्ञानत्वव्यवहारोमुख्यः बुद्धिवृत्तौ तु गौण
इति मन्यन्ते । “युक्तितोऽपि न बाध्यते दिङ्मोहरदपरोक्षा-
दृते” सां० सू० । ब्रह्मणस्तु अज्ञानरूपावरणाभावात् सर्वदा
प्रकाशमानत्वात् नेन्द्रियादिसन्निकर्षापेक्षेति तस्य सर्वदा
प्रत्यक्षरूपत्वम् “यत् साक्षादपरोक्षाद्ब्रह्मेति” श्रुतिः
अपरोक्षादपरोक्षमित्यर्थः । अर्शा० अस्त्यर्थे अच् । तद्विषये त्रि० ।

अपरोक्षानुभूति पु० अपरोक्षा प्रत्यक्षा अनुभूतिर्यस्मात् ।

वेदान्तप्रकरणभेदे । कर्म० । प्रत्यक्षरूपे ज्ञाने स्त्री ।

अपरोध पु० अप + रुध--भावे घञ् । “बाधने अभिप्रयाय-

मभिषुण्वन्ति देशानपरोधेन” कात्या० २४, ३, ३१ ।

अपर्ण्णा स्त्री नास्ति पर्ण्णान्यपि वृत्तिसाधनानि यस्याः ।

शैलराजदुहितरि उमायां सा हि शिवप्राप्त्यर्थं व्रतकाले
पर्ण्णान्यपि त्यक्तवती यथोक्तं कुमारे “स्वयं विशीर्ण्णद्रुमपर्ण्ण-
वृत्तिता परा हि काष्ठा तपसस्तया पुनः । तदप्यपाकीर्ण्ण
मतः प्रियंवदाम् वदन्त्यपर्ण्णामिति तां पुराविद” इति
“चतुर्थे त्यक्तपर्ण्णा च अपर्ण्णाख्यामवाप सेति” शि० पु० ।

अपर्त्तु त्रि० अपगत ऋतुर्यस्य । वसन्ताद्यृतुविगमयुक्ते ।

“यत्र विजायते यामन्यपर्त्तुरिति” अथ० ३, २८, १, अपगत-
ऋतुः स्त्रीपुष्पं यस्याः । निवृत्तरजस्कायां स्त्रियां स्त्री ।

अपर्य्यन्त त्रि० नास्ति पर्य्यन्तोमर्य्यादा यस्य । निःसीमनि

इयत्तारहिते “तदक्षयमपर्य्यन्तं दुर्ज्जयं वानरं बलम्” रा० ।

अपर्य्याप्त त्रि० परि + आप--क्त न० त० । असमर्थे, असम्पूर्णे,

स्वकार्य्याक्षमे च “परिभुक्तमवज्ञातमपर्य्याप्तमसंस्कृतम् यः
प्रयच्छति विप्रेभ्यस्तद्भस्मन्यवतिष्ठतीति “अपर्य्याप्तं स्वकार्य्या-
क्षममिति शु० त० रघु० । अपरिच्छिन्ने इयत्तारहिते
“जगत्यपर्य्याप्तसहस्रभानुनेति” माघः “अपर्य्याप्तः अपरि-
च्छन्न” इति मल्लि० ।

अपर्य्याप्ति स्त्री न पर्य्याप्तिः अभावार्थे न० त० । अपरिच्छेदे

असामर्थ्ये च । “मुख्यं श्राद्धं मासिमासि अपर्य्याप्तावृतुं
प्रतीति” स्मृतिः । न० ब० । परिच्छेदशून्ये त्रि० ।

अपर्य्याय पु० न पर्य्यायः परिपटी अभावे न० त० । पक्रमा-

भावे । न० ब० । क्रमशून्ये त्रि० ।
पृष्ठ ०२३६

अपर्य्युषित त्रि० न पर्य्युषितः । अभिनवे सद्योभवे पुष्पादौ ।

“अपर्य्युषितनिश्छिद्रैः प्रोक्षिवैर्जन्तुवर्ज्जितैरिति” नर० पु० ।

अपर्वदण्ड पु० अपर्व्वा दण्ड इव । रामतृणाख्यशरभेदे तस्ये-

तरशरस्येव ग्रन्थियुक्तत्वाभावात्तथात्वम् ।

अपर्वन् त्रि० नास्ति पर्व्व ग्रन्थिः ग्रन्थप्रकरणपरिच्छेदो वा

यस्य । ग्रन्थिशून्ये दण्डादौ विच्छेदशून्ये ग्रन्थादौ च । वा
कप् । अपर्व्वकोऽप्यत्र त्रि० । “यदपर्व्वकं स्यात् प्रतृण्णमिति”
शत० ब्रा० । “विच्छेदशून्यमिति” भा० ।

अपल न० अपक्रमनिवृत्त्यै लाति गृह्णात्यत्र ला--बा०

आधारे क । कोलके शब्द० मा० । तद्बन्धने हि अपक्रमनि-
वृत्तेस्तथात्वम् । नास्ति पलं मांसं यस्य । मांसशून्ये त्रि० ।

अपलाप पु० अप + लप--घञ । सतोऽप्यसत्त्वेन कथनरूपे

अपह्नवे, “न च प्रत्यक्षसिद्धस्यापलापः कर्त्तुं शक्यते
इति” अप + आनन्दे लप्यत्यनेन लप--करणे घञ् । स्नेहे
मेदिनिः । स्नेहेनैवानन्दभाषणात्तथात्वम् ।

अपलाषिका स्त्री लष इच्छायां पर्य्याये ण्वुच् लाषिका

पर्य्यायेण इच्छा अप वैपरीत्ये प्रा० स० । अपर्य्यायेच्छारू-
पायां तृष्णायामतिशयलालसायाम् हेम० । अत्रार्थे
अपलासिकेति पाष्ठकल्पनं प्रामादिकं लसतेरिच्छार्थत्वाभावात् ।

अपलाषिन् त्रि० अप + अपकर्षे लष--ताच्छील्यादौ घिनुण् ।

अनुचितधनादितृष्णाशीले । स्त्रियां ङीप् ।

अपलाषुक त्रि० अप + अनुचितत्वात् अपकर्षे लष--ताच्छी-

ल्यादौ बा० उकञ् । अनुचितधनादितृष्णाशीले ।

अपल्यूलन न० न पल्यूलनं शोधनम् अभावे न० त० ।

स्नानमार्ज्जनक्षारसंयोगादिना शोधनाभावे । “यदिदं
स्नातवस्यं निहितमपल्यूलनकृतं भवतीति शत० ब्रा० ।
“अपल्यूनकृतं क्षारद्रव्यसंयोगादिनाऽधौतमिति” भा० ।
अत्रासमर्थसमासात् करणे नञर्थान्वय इति भेदः । तथा
च रजकाधौतमिति तदर्थः । कर्मकाले रजकधौतवस्त्र
परिधानस्य स्मृतौ निषेधात् तथोक्तम् ।

अपवत् त्रि० अपः कर्म तदस्त्यस्य मतुप् वेदे सस्य लोपः । कर्म-

युक्ते । “अपृपवानपवांश्चरुरेह सीदतु” अथ० १८, ४, २४ ।

अपवन न० अपकृष्टं कृत्तिमत्वात् स्वल्पत्वाच्च वनम् प्रा० त० ।

उपवेने कृत्रिमवने हेम० ।

अपवरक न० अप + व्रियते अप + वृ--कृञा० संज्ञायां वुन् । अन्तर्गृहे वासगृहे ।

अपवरण न० अप + वृ--भावे ल्युट् । अनावरणे

आवरणापाकरणे च ।

अपवर्ग पु० अपवृज्यते संसारोऽत्र अप + वृज--घञ्कुत्वम् । मोक्षे ।

“स्वपर्गापवर्गयोर्मार्गमामनन्ति मनीषिण” इति कुसुमा० ।
“दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापायादनन्त-
रापायादपवर्ग” इति “ऋणत्रयापाकरणान्नास्त्यपवर्गः”
इति च न्यायसू० । अपवर्गप्रकारस्तु मोक्षशब्दे वक्ष्यते ।
भावे घञ् । दाने, त्यागे च “मुष्टेरसम्भेद इवापवर्गे” किरा० ।
अपवृज्यते विरज्यते यस्मात् अपादाने घञ् । फलप्राप्तौ तद्धे
तुके कर्म्मसमापने च “अपवर्गे तृतीयेति” पा० । “अपवर्गे
तृतीयेति भणतः पाणिनेरपीति” नैषधम् “उदगपवर्मं
मुखेषु समृज्यादिति” ता० ब्रा० । “कृत्वा गते भाग्य
इवापवर्गमिति” किरा० “अपवर्गं समाप्तिमिति” मल्लि० ।

अपवर्ज्जन न० अप + वृज--ल्युट् । दानादावपवर्गार्थे । “घटा-

पवर्जनमिति” मिताक्षरा ।

अपवर्ज्जित त्रि० अप + वर्ज्ज--क्त । परिहृते, त्यक्ते, दत्ते च ।

अपवर्त्तन न० अप + वृत--णिच्--ल्युट् । परिवर्त्तने, वक्रीकरणे

अङ्कशास्त्रे प्रसिद्धे भाज्यभाजकयोरुभयोरपि तुल्यरूपेण
केनचिदङ्केन विभाजने । “समेन केनापवर्त्त्येति” लीला० ।
अपहरणे च “न त्यागोऽस्ति द्विषन्त्याश्च न च दायाप-
वर्त्तनमिति” मनुः । भावे अच् अपवर्त्तोऽप्यत्र पु० ।

अपवाद पु० अप + वद--भावे घञ् । निन्दायाम् अपकीर्तौ

“किं करिष्यामि राज्येन सापवादेन राघव!” “प्रकाशं च हतै
तस्मिन्नपवादो भवेन्मम” इति च रामा० । मिथ्यावादे
“अपवादमात्रमबुद्धानामिति” सां० सू० “अपवादः मिथ्या-
वादः” भा० । कुत्सितवादे तत्रैव “अपवादः कुत्सितवाद”
इति व्याख्यान्तरम् । अपोद्यते सामान्यशास्त्रं स्वविष-
यात् सङ्कोच्यतेऽनेन करणे घञ् । विशेषशास्त्रे । तद्धि
स्वविषयं परिहृत्य सामान्यशास्त्रं विषयान्तरे व्यवस्थाप
यतीति तस्य सङ्कोचकं भवति यथा “मा हिंस्यात् सर्व्वाभूता-
नीति” श्रुतौ हिंसानिषेधस्य सर्वभूतविषयकत्वेऽपि “वायव्यं
श्वेतमालभेतेति” शास्त्रं वायव्यच्छागहिंसाविषयकत्वेन विरो-
धात् स्वविषयात् सङ्कोचयत् तस्येतरविषयकतां व्यवस्था-
पयति “अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैरिति” कुमारः
“परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीय” इति “अपवा-
दोयद्यन्यत्र चरितार्थस्तर्ह्यन्तरङ्गेण बाध्यते” इति च व्या०
परि० । “क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते” इति
पा० भा० । अपोद्यते अपवाह्यते मिथ्याभूतमनेन अप +
वद--करणे घञ् । वेदान्तमतसिद्धे मिथ्याभूतपदार्थनिवार-
णार्थमुपदेशभेदे । स च रज्जुविवर्त्तस्य मिथ्याभूतसर्पस्य
रज्जुमात्रत्ववत् वस्तुभूतब्रह्मणो विवर्त्तस्य प्रपञ्चादेः वस्तु-
पृष्ठ ०२३७
भूतरूपतोपदेशः । “अध्यारोपापवादाभ्यां वस्तुतत्त्वविनि-
श्चय, इति वेदा० प्र० । भावे घञ् । विश्वासे, प्रणये च ।
करणे घञ् । बाघनसाधने वस्तुमात्रे । कर्म्मणि घञ् ।
कुत्सितवाद्ये “मधुकरैरपयादकरैरिव” माघः “अपवादः
मृगवञ्चनाय घण्टादि कुत्सितवाद्यमिति” मल्लि० । भावे
घञ् । आदेशे “ततोऽपवादेन पताकिनीपतेरिति” किरा० ।
“अपवादेन आदेशेनेति” मल्लि० । निरासने च ।

अपवादक त्रि० अपसार्य्य स्वविषयात्, वदति शास्त्रान्तरम्

व्यवः यति वद--ण्वुल् । स्वविषयं परिहृत्य सामान्य-
शास्त्रस्येतरत्र व्यवस्थापके विशेषशास्त्रे । अप + वद--ण्वुल् ।
अकीर्त्तिकरे” निन्दके निरासके च त्रि० ।

अपवादिन् त्रि० अप + वद--णिनि । अपवादकर्त्तरि स्त्रियां ङीप् ।

अपवारण त्रि० अपवारयति आच्छादयति अप + वृ--णिच्

नन्द्या० ल्यु । व्यवधायके । भावे ल्युट् । व्यवधाने न०
आधारे ल्युट् । अन्तर्द्धौ सति तु व्यवधाने अन्तर्धानं
भवत्येवेति तस्य तथात्वम् ।

अपवारित त्रि० अप + वृ--णिच्--कर्म्मणि क्त । आच्छादिते

व्यवधापिते च । भावे क्त । अपवारणे, अप्रकाशे न० ।
“तद्भवेदपवारितम् । रहस्यन्तु यदन्यस्य परावृत्त्य प्रकाश्यते”
इति सा० द० उक्ते परावृत्त्यान्यस्य रहस्यकथने न०
परावृत्त्यान्यस्य रहस्यकथनमपवारितमिति तदर्थः ।

अपवारितक न० अपवारितं अपवारणम् अप्रकाशमेव स्वार्थे

कन् । अप्रकाशे “अपवारितकेन प्रावृणोतीति” नाटकम् ।
अप्रकाश्याच्छोदयतीत्यर्थः ।

अपवारुक पु० अप + वृ--ब० । उकञ् । प्रस्तरे ।

अपवार्य्य अव्य० अप + वृ--णिच्--ल्यप् । आच्छाद्येत्यर्थे

“त्रिपताककरेणान्यमपवार्य्यान्तरा कथेति” सा० द० ।

अपवास पु० अपसृत्य वासः स्थितिः । अपसरणे

“अपवासे नक्षत्राणामपवास उषसामुत” अथ० ३, ७, ७ ।

अपवाह पु० अपसार्य्य वाहः स्थानान्तरनयनम् ।

इतरस्थानादपसार्य्य स्थानान्तरप्रापणे । “भूतपूर्ब्बमभूतपूर्ब्बं वा
जनपदं परदेशापवाहेन स्वदेशाभिष्यन्दवमनेन वा निवे-
शयेदिति” कौटिल्यः “मोनाः बट् गिति नवरसशरयतियु-
तमपवाहाख्यमिति” वृ० र० उक्ते वर्ण्णवृत्तभेदे ।

अपवाहन न० अप + वह--णिच्--ल्युट् । परदेशस्थजनानां

स्वदेशप्रापणे “स्वराष्ट्रं वर्द्धयेद्राजा परदेशापवाहनादिति”
हितो० ।

अपवाह्य त्रि० अप + वह--कर्म्मणि ण्यत् । दूरीकार्य्ये ।

अप + वह--णिच्--ल्यप् । अपसार्य्येत्यर्थे अव्य० ।

अपविघ्न त्रि० अपगतो विघ्नो यस्मात् । विघ्नशून्ये “शतं

क्रतूनामपविघ्नमाप स” इति रघुः ।

अपवित्र पु० न पवित्रः कृतशौचादिः । अकृतशौचादौ,

“अपवित्रः पवित्रो वा सर्व्वावस्थां गतोऽपि वा यःस्मरेत्
पुण्डरीकाक्षं स वाह्याभ्यन्तरे शुचिरिति” स्मृतिः ।

अपविद्ध त्रि० अप + व्यध--क्त । त्यक्ते “अपविद्धगदोबाहु-

र्भग्नशाख इव द्रुम” इति कु० । “सोऽपविद्धस्तया रहस्य-
निर्भेदभयादिति” दशकु० । प्रत्याख्याते, निरस्ते च “रक्षोविप्र
कृतावास्तामपविद्धशुचाविव” रघुः “मातापितृभ्यामुत्सृष्टं
तयोरन्यतरेण वा । यं पुत्रं प्रतिगृह्णीयादपविद्धः स उच्यते”
इति मनूक्ते द्वादशपुत्रान्तर्गते पुत्रभेदे पु० ।

अपविद्या स्त्री अप विरोधे प्रा० त० । विद्याविरोधिन्यां

वेदान्तादिप्रसिद्धायामविद्यायाम् “तत्त्वस्य संवित्तिरिवाप-
विद्यामिति” किरा० । अपकृष्टा विद्या । वौद्धाद्यागम-
विद्यायाम् ।

अपविषा स्त्री अपगतं विषं यस्याः । निर्विषतृणभेदे राज० नि० । अपगतविष मात्रे त्रि० ।

अपवृत्त त्रि० अपवर्त्तते अप + वृत--कर्त्तरि क्त । समाप्ते,

“अपवृत्ते कर्मणि वामदेव्यगानं शान्त्यर्थमिति” गोभिलः ।
“अपवृत्ते समाप्ते” संस्कारतत्त्वे रघुनन्दनः ।

अपवेध पु० अपकृष्टः अस्थानकृतत्वात् वेधः प्रा० त० ।

मणीनामस्थानकृते वेधने “मणीनामपवेधे च दण्ड उत्तम-
साहसम् इति” मनुः ।

अपव्यय पु० अपकृष्टः शास्त्रादिमर्य्यादामुल्लङ्घ्यास्थाने कृतत्वात्

व्ययः प्रा० त० । द्यूतवेश्यादावस्थाने कृते व्यये । अपगतः
व्ययःक्षयोऽस्य । अविनश्वरे त्रि० ।

अपव्ययमान त्रि० अप + वि + अय--शानच् । अपलाप

कर्त्तरि । “अर्थेऽपव्ययमानन्तु कारणेन विभावितम् ।
दापयेद्धनिकस्यार्थं दण्डलेशञ्च शक्तित इति” मनुः । अपव्यय-
मानमपलपन्तमिति दि० त० रघु० । अपव्ययकर्त्तरि त्रि० ।

अपव्रत त्रि० अपगतं व्रतं श्रौतादि कर्म्म यस्य । अपगत

विहितकर्म्मणि “अनुव्रताय रन्धयन्नपव्रतानिति” ऋ० १, ५१,
९, अपव्रतान् “अपगतकर्म्मण” इति भा० । “गूढ़ं सूर्य्यं
तमसाऽपव्रतेन” ऋ० ५०, ४, ६, १, अपगतव्रतमस्य । नष्टव्रते
गृहीतव्रतत्यागिनि त्रि० । प्रा० त० । अपकृष्टे व्रते न०

अपशङ्क त्रि० अपगता शङ्कास्य प्रा० ब० । निःशङ्के शङ्कारहिते ।

अपशद त्रि० अप + शद--कर्त्तरि अच् । नीचे इति केचित् ।

तच्च सदधातुघटिततया दन्त्यमध्यमिति बहवः ।
पृष्ठ ०२३८

अपशब्द पु० अपवैपरीत्ये प्रा० त० । शक्तिवैकल्यप्रमा-

दादिना साधुशब्दस्यान्यथोच्चारणसाध्ये अपभ्रंशशब्दे “त एव
शक्तिवैकल्यप्रमादालसतादिभिः । अन्यथोच्चारिताः शब्दा
अपशब्दा इतीरिता” इति हरिः “म्लेच्छोहवा नाम
यदपशब्द” इति श्रुतिः ।

अपशव्य त्रि० पशवे हितः यत्, विरोधे न० त० ।

पशुवृद्धिविघातके “अपशव्येव तु वा ईश्वरा” इति ता० ब्रा०
“अपशव्येव पशूनां वृद्धिविघातिनी” भा० ।

अपशु पु० न पशुः अप्राशस्त्ये न० त० । गोऽश्वभिन्ने पशौ ।

“अपशवो वा अन्ये गोऽश्वेभ्यः इति” “अपशुर्व्या एष
यदारण्योनैतस्य होतव्यमिति” च शत० ब्रा० । नास्ति
पशुर्य्यस्य । पशुशून्ये “अप्रजा अपशुर्भविष्यति” । शत० ब्रा० ।

अपशुच् त्रि० अपगता शुक् शोकोयस्य प्रा० ब० । अपगत

शोके । सर्वदाऽपेतशोके आत्मनि पु० । “क उत्तमः-
श्लोकगुणानुवादात् पुमान् विरज्येत विनाऽपशुग्घ्नादिति”
भागवते पाठं प्रकल्प्य श्रीधरेण अपशुगात्मेतिव्याख्यातम् तस्य
हननञ्च यथार्थ्येनाज्ञानं “योऽन्यथा सन्तमात्मानमन्यथा
प्रतिपद्यते किंतेन न कृतं पापं? चौरेणात्मापहारिणेति”
मनुना आत्मनोऽन्यथारूपज्ञानेनैव स्वात्महन्तृत्वोक्तेः । “अन्धं
तमस्ते प्रविशन्ति ये केचात्महनोजना” इति श्रुतिभाष्येऽपि
तथैवात्माज्ञाने आत्महननमुक्तम् । अपशोकादयोऽप्यत्र त्रि० ।

अपश्चिम त्रि० न पश्चिमः विरोधे न० त० । अग्रिमे “कस्यपश्च

महाभागस्तेषामासीदपश्चिम” इति रामा० नास्ति पश्चिमः
शेषभवोयस्य । शेर्षशून्ये, इयत्ताशून्ये च “अपश्चिमामिमां
कष्टामापदं प्राप्तवत्यहमिति” रामा० ।

अपश्य त्रि० दृश--वेदे बा० श न० त० । अद्रष्टरि अदर्शके

“अन्धा अपश्या न दभन्नभिख्या” इति ऋ० १, १४८, ५,
“अपश्या अद्रष्टारः” इति भा० लोके तु अदर्शीत्येव ।

अपश्रय पु० अप + श्रि--अच् । उपाश्रये “सामासाद

उद्मीथोऽपश्रयः” अथ० १५, ३, ८, ।

अपश्री त्रि० अपगताश्रीर्य्यस्मात् श्रीःशोभादिः । शोभादिहीने ।

अपश्लिष्ट त्रि० अप + श्लिष--क्त । श्लेषशून्ये, संसर्गहीने,

वियुक्ते च ।

अपष्ठ न० अप + स्था--क अम्बा० षत्वम् । अङ्कुशाग्रे हेम० । अपक्रम्य स्थातरि त्रि० ।

अपष्ठ अव्य० अप + स्था--सुषामादि० षत्वम् । निर्द्दोषे, शोभने,

विपरीते, च । “अपष्ठु पठतः पाठ्यमधिगोष्ठि शठस्य ते”
इति नैष० । प्रतिकूले, विरुद्धार्थे च त्रि० । काले पु० ।

अपष्ठुर(ल) त्रि० अप + स्था--कुरच् वा लत्वम् । प्रतिकूले

हेम० । विपरीते त्रिका० ।

अपस् न० आप--असुन् हृस्वश्च । कम्माण निरु० । तद्वति च ।

“अपसा सन्तु नेमे” ऋ० १, ५४, ८, अपः कर्म्म तद्घन्तो-
वेति भा० “ग्लास्त्वाऽकृन्तन्नपसोऽतन्वत” ता० ब्रा० ।
“अतृष्यन्तीरपसोयन्त्यच्छा” ऋ० ७, ७१, ३ “अपसा कर्म्म-
युक्ता” इति भा० । प्राप्ते त्रि० । “माध्याम कर्म्मापसा
नवेन ऋ० १, ३१, ८, “अपसा प्राप्तेनेति भा० ।

अपसद त्रि० अपकृष्ट इवसीदति सद--अच् अधमे, नीचे

च । “रेरे क्षत्त्रियापसदाः!” इति वेर० । “विप्रस्य त्रिषु
वर्ण्णेषु नृपतेर्वर्ण्णयोर्द्वयोः । वैश्यस्य वर्ण्णे चैकस्मिन् षड़ेतेऽप-
सदाः स्मृता इति” मनूक्ते अनुलोमवर्णस्त्रीजाते
वर्ण्णसङ्करभेदे मूर्द्धावसिक्तादौ पुंस्त्री० । “यद्विजा-
नामपसदा ये चापध्वं सजाः स्मृता” इति मनुः

अपसम अव्य० समाया अत्ययः अव्ययी० । वत्सरात्यये

तिष्ठस्तद्गुगणपाठान्नैतस्य समासान्तरघटकता ।

अपसर पु० अप + सृ--भावे अच् । अपयाने, अपसरत्यस्मात्

स्वत्वम् अपादाने अच् । प्रतिग्रहक्रयादौ । “निरन्वयोऽ-
नपसरः प्राप्तःस्याच्चौरकिल्लिषमिति” मनुः । “अपसरः
प्रतिग्रहक्रयादिः” कुल्लूकभट्टः ।

अपसरण न० अप + सृ--भावे ल्युट् । अपयाने “इतोऽव

सरणमेव श्रेय इति” नाटकम् “अपसरणतोह वा अग्रे देवा
जयन्तोऽजयन्” इति “दिवमेवाग्रे अथेदमन्तरिक्षमथेतोऽनप-
सरणात् सपत्नाननुदन्त इति च शत० ब्रा० १, ९, १११ ।

अपसर्ज्जन न० अप + सृज--भावे ल्युट् । त्यागे, वर्ज्जने च ।

घञ् । अपसर्गोऽप्युक्तार्थे पु० ।

अपसर्प पु० अप + सृप--कर्त्तरि अच् । गुप्तचरे ।

“सर्पाधिराजोरुभुजोऽपसर्पं पप्रच्छ भद्रं विजितारिभद्रः”
रघुः । “तयैवासर्पभूतया तत्र मृद्भाण्डशेषमचोरयावः”
इति दशकु० । भावे घञ् । अपसरणे ।

अपसर्पण न० अप + सृप--भावे ल्युट् । अपयाने पृष्ठतो गमने ।

अपसल त्रि० अप + सल--कर्त्तरि अच् । अपसव्यताप्राप्ते ।

“यथाबालं पुरस्कृत्य यज्ञोपवीतानि अपसलानि कृत्वा
तीर्थमवतीर्य्येति” शु० त० बौधा० । “अपसलानि
अपसव्यानीति शुद्धितत्त्व रघुनन्दनः ।

अपसलवि अव्य० अप + सल--बा० अवि । तर्ज्जन्यङ्गुष्ठ-

मध्यस्थानरूपे पितृतीर्थे “तर्जन्यङ्गुष्ठयोरन्तरा अपसलवि
अपसव्यं वा तेन पितृभ्योनिदधाति” शु० त० गृह्यम् ।
“सव्येनैव पाणिना सूत्रतन्तुं गृहीत्वा अपसलवि पूर्ब्बस्यां
कर्ष्वां पिण्डे निदध्यादिति” गोभिलः ।
पृष्ठ ०२३९

अपसव्य न० अपक्रान्तं सव्यात् निरा० त० । १ देहदक्षिण-

भागे “तर्ज्जन्यङ्गुयष्ठोरन्तरा अपसलवि अपसव्यं वेति”
२ गृह्यपरिभाषिते पितृतीर्थे च । अपगतं मग्नतया भूमौ-
पातितत्वात् सव्यं यत्र । भूमौ पातनेन भग्नप्रायवामाङ्गे
अप वैपरीत्ये सू--भावे यत् सव्यं गतिः । विपरीते त्रि० ।
“अपसव्यं ततः कृत्वा पितॄणामाप्तदक्षिणमिति” याज्ञ० ।
“देवकर्म्मानन्तरं पितृकर्मकरणे प्राप्तवामोपचारनिरासाया-
प्तदक्षिणव्यापार” इति श्रा० त० रघु० । आभ्युदयिके हि
“निपातो न हि सव्यस्य जानुनोविद्यते क्वचिदिति” श्रा०
त० वशिष्ठोक्तेः भूमौ पातितवाम्जानूकरणाभावः । अतएव
“नात्रापसव्यकरणं न पैत्रं तीर्थमिष्यते” इत्यादिना अप
सव्यकरणनिषेधः सूपपन्नः । पितृतीर्थञ्च “यत्रानुक्तो-
विशेषस्तु दक्षिणस्तत्र शस्यते इति” स्मृतेः । दक्षिणहस्त
एव । “प्राचीनावीतिना भाव्यमपसव्यमतन्द्रिणा । पित्र्य-
मानिधनात् कार्य्यं विधिवद्दर्भपाणिना” इति मनुः ।

अपसार पु० अप + सृ--णिच्--अच् । १ दूरीकरणे २ वहिष्करणे,

३ अपनयने ३ च । ल्युट् । अपसारणमप्यत्र न० ।

अपसारित त्रि० अप + सृ--णिच्--क्त । १ उत्सारिते २ दूरीकृते च

अपसिद्धान्त पु० अपक्रान्तः सिद्धान्तात् निरा० त० । १ स्वीकृत-

सिद्धान्तात् स्खलनरूपे दोषभेदे, “सिद्धान्तमभ्युपेत्यानिय-
मात् कयाप्रसङ्गोऽपसिद्धान्त इति” गौ० सू० । सिद्धान्तं
किञ्चिच्छास्त्रकाराभ्युपगतमर्थमभ्युपेत्य स्वीकृत्यानियमात्
तन्नियमोल्लङ्घनात् कयायां प्रसङ्गः स्वीकृतसिद्धान्तप्रच्यवो-
ऽपसिद्धान्त इति तदर्थः । यथा सांख्यमतेनाहं वदिष्यामीत्यभ्यु-
पेत्य कयायामारब्धायाम् आविर्भावस्याविर्भावाङ्गीकारेऽनव-
स्थेति दूषणे वादिनोद्भाविते प्रतिवादी यदा तद्दोषो-
द्धारणाय आविर्भावस्यासतोऽपि समुत्पत्तिमभ्युपैति तदा
सत्कार्य्यवादिसांख्यमतविरुद्धाभिधायित्वेन स्वाभ्युपगतनिय-
मातिक्रमात् स्वीकृतसिद्धान्तप्रच्यवरूपो दोषो भवति
सएवापसिद्धान्तः एवमन्योऽप्युदाहार्य्यः । वितण्डावादिनः
बौद्धभेदाश्च नापसिद्धान्तं दोषमङ्गीचक्रुः तेषां कस्यचित्
सिद्धान्तस्यानङ्गीकारात् ।

अपसोपान पु० अपक्रान्तः अतिक्रान्तः सोपानमाकारेण

अत्या० स० । १ हस्तिनखे ।

अपस्कर पु० अप + कॄ--अप् रथाङ्गे नि० सुट् । १ चक्रभिन्ने

रथारम्भके अवयवभेदे । “अपस्करोरथाङ्गमिति” पा० ।
कूवरञ्च रथस्यासीद्वासुकिर्भजगोत्तमः । अपस्करमधिष्ठने
हिमावान् विन्ध्यपर्वत” इति भा० क० प० उक्तेः क्लीवमपि ।

अपस्नात त्रि० अपकृष्टं अमङ्गलार्थत्वात् स्नातः । १ मृतमुद्दिश्य

स्नाते जने । २ स्नानसंस्काराय स्थापिते मृते पु स्त्री० क्षीर०

अपस्नान त्रि० अपक्रान्तः स्नानात् निरा० स० ।

१ स्नानावशिष्टे जले “उद्वर्त्तनमपस्नानं विण्मूत्रेरक्तमेव च ।
श्लेष्मनिष्ठ्यूतवान्तानि नाधितिष्ठेत्तु कामत” इति मनुः ।

अपस्पश त्रि० अपगतः स्पशोगूढ़चरोयतः । १ गूढ़चरशून्ये ।

“शब्दविद्येव नोभाति राजनीतिरपस्पशेति” माघः । शब्द-
विद्यापक्षे पस्पशा पातञ्जलभाष्यस्य नवाह्निकं २ तच्छून्येत्यर्थः ।

अपस्मार पु० अपस्मारयति स्मरणं विलोपयति अप + स्मृ-

णिच्--कर्त्तरि अच्, अपगतः स्मारः स्मरणंयतो वा । १
रोगभेदे । स च सुश्रुते दर्शितो यथा “स्मृतिर्भूतार्थविज्ञानमपश्च
परिवर्जने अपस्मार इति प्रोक्तस्ततोऽयं व्याधिरन्तकृत् ॥
मिय्यादियोगेन्द्रियार्थकर्म्मणामतिसेवनात् । विरुद्धमलिना-
हारविहारकुपितैर्मलैः । वेगनिग्रहशीलानामहिताशुचि-
भोजिनाम् । रजस्तमोऽभिभूतानां गच्छताञ्च रजस्वलाम् ॥
तथा कामभयोद्वेगक्रोधशोकादिभिर्भृशम् । चेतस्यभिहते
पुम्सामपस्मारोऽभिजायते ॥ संज्ञावहेषु स्रोतःसु दोषव्याप्तेषु
मानवः । रजस्तमःपरीतेषुमूढो भ्रान्तेन चेतसा ॥ विक्षिपन्
हस्तपादौ च विजिह्वभ्रूर्विलोचनः । दन्तान् वादन् वमन्
फेनं विवृताक्षः पतेत् क्षितौ ॥ अल्पकालान्तरञ्चापि पुनः
संज्ञां लभेत सः । सोऽपस्मार इति प्रोक्तः स च दृष्टश्चतुर्विधः ॥
वातपित्तकफैर्नॄणाञ्चतुर्थः सन्निपाततः । हृत्कम्पः शून्यता
स्वेदोध्यानं मूर्च्छा प्रमूढता ॥ निद्रानाशश्च तस्मिंस्तु भविष्यति
भवन्त्यथ । वेपमानो दशेद्दन्तान् श्वसन् फेनं वमन्नपि ॥
यो ब्रूयाद्विकृतं सत्वं कृष्णं मामनुधावति । ततो मे चित्त-
नाशः स्यात्सोऽपस्मारोऽनिलात्मकः ॥ तृट्तापस्वेदमूर्च्छा-
र्त्तोध्वनन्नङ्गानि विह्वलः । यो ब्रूयाद्विकृतं सत्वं पीतं
मामनुधावति ॥ ततो मे चित्तनाशः स्यात्स पित्तभव
उच्यते । शीतहृल्लासनिद्रार्त्तः पतन् भूमौ वमन् कफम् ॥
यो ब्रूयाद्विकृतं सत्वं शुक्लं मामनुधावति । ततो मे चित्त-
नाशः यात्सोऽपस्मारः कफात्मकः ॥ हृदि तोदस्तृडुत्क्लेद-
स्त्रिष्वप्येतेषु संस्थया । प्रलापः कूजनं क्लेशः प्रत्येकन्तु
भवेदिह ॥ सर्व्वलिङ्गसमावायः सर्व्वदोषप्रकोपजे ।
अनिमित्तागमाद्व्याधेर्गमनादकृतेऽपि च ॥ आगमाच्चाप्यप-
स्मारं वदन्त्यन्ये न दोषजम् क्रमोपयोगाद्दोषाणां क्षणि-
कत्वात्तथैव च ॥ आगमाद्वैश्वरूप्याच्च स तु निर्वर्ण्यते बुधैः ।
वर्षत्यपि यथा देवे भूमौ वीजानि कानिचित् ॥ शरदि
प्रतिरोहन्ति तथा व्याधिसमुद्भवः । स्थायिनः केचिदल्पेन
पृष्ठ ०२४०
कालेनाभिप्रवर्द्धिताः ॥ दर्शयन्ति विकारांस्तु विश्वरूपान्नि-
सर्गतः । अपस्मारो महाव्याधिस्तस्माद्दोषज एव तु” इति ॥
“धूर्त्तोऽपस्माररोगी स्यादिति” शाता० कर्म्म० । “अपस्मा-
रादिरोगाणां ज्वरादीनां विशेषत इति” घटुकस्तोत्रम् ।

अपस्मारिन् त्रि० अपस्मार + अस्त्यर्थे इनि । १ अपस्माररोग

युक्ते । स्त्रियां ङीप् ।

अपस्य त्रि० अपसि कम्मणि साधुः अपस् + यत् । १ साधुकर्म्मका-

रिणि “अनावृष्टा अपस्योवसाना” इति “यजु० १०, ७,
अपस्याः अपसि कर्मणि साध्व्यः” वे० दी० । “अपरेण स्वय-
मातृण्णमेत्यापस्याः पञ्च पञ्चानूकान्तेष्वपामिति” का० १७,
६, २, अपस्यास्तत्संज्ञका इष्टकाभेदा इति वेददी० ।

अपस्यु त्रि० अपः कर्मैच्छति अपस् + क्यच्--उ । १ कर्म्मेच्छौ

“गिर यदी सबन्धवः पञ्चाव्राता अपस्यव” इति ऋ० ९, १४, २

अपह त्रि० अप + हन--“अपे क्लेशतपसोः” पा० ड । १ अपघात-

कर्त्तरि । क्लेशापहः पुत्रः तमोऽपहः सूर्य्यः । योगविभागा-
दन्यत्रापि “सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्विषापहैरिति” मनुः

अपहत त्रि० अप + हन--क्त । १ विनाशिते “योऽयमात्माऽ-

पहतपाष्मेति” श्रुतिः ।

अपहति स्त्री अप + हन--क्तिन् । १ नाशने । “न ह वैसशरी-

रस्य सतः प्रियाप्रिययोरपहतिरस्ति” छा० उ० ।

अपहर त्रि० अप + हृ--कर्त्तरि अच् । १ अपहरणकर्त्तरि “भद्रं

भवेद्भवभयापहरं नृलोके” इति हेमा० भवि० पु० ।

अपहरण न० अप + हृ--ल्युट् । १ स्तेये साधारणस्य परकीयस्य वा

धनादिचौर्य्ये । “सीताद्रव्यापहरणे शस्त्राणामौषधस्य चेति”
“निक्षेपस्यापहरणं नराश्मरजतस्य चेति” “भक्ष्यभोज्याप-
हरणे यानशय्यासनस्य च” इति च मनुः स्तेयस्वरूपञ्च स्मृतौ
दर्शितं यथा “उपायैर्विविधैरेषां छलयित्वापकर्षणम् सुप्तमत्त
प्रमत्तेभ्यः स्तेयमाहुर्मनीषिण” इति नार० । “स्यात् साहसं
त्वन्वयवत् प्रसभं कर्म्मयत् कृतम् । निरन्वयं भवेत् स्तेयं कृत्वा-
पह्नूयते च यदिति” मनुः । “अन्वयवद् द्रव्यरक्षिराजा-
ध्यक्षादिसमक्षं प्रसभं बलावष्टम्भेन यत् परधनहरणा-
दिकं क्रियते तत् साहसं, स्तेयन्तु तद्विलक्षणं निरन्वयं द्रव्य-
स्वाम्याद्यसमक्ष वञ्चयित्वा यत् परधनहरणं तदुच्यते यच्च-
सान्वयमपि कृत्वा न मयेदं कृतमिति भयात् निह्नुते तदपि
स्तेयमिति” मिताक्षरा । तच्च साधारणस्य परकीयस्य वा
हरणम् “सामान्यद्रव्यप्रसभहरणात् साहसं स्मृतमिति”
याज्ञ० उक्तेः । तथाच परकीये साधारणे वा द्रव्ये स्वत्व
हेतुभूतलौकिकक्रयप्रतिग्रहादिकमन्तरेण स्वलम्पादनं
हरणम् तदेव बलपूर्ब्बकं साहसमिति भेद इति मिताक्षरादि-
मतम् दायभागमते तु साधारणद्रव्यस्य नापहरणं परमात्र
स्वत्ववद्द्रव्यस्यैवापहरणमिति तत्रोक्तेरिति विशेषः । २
बलादपकर्षणे च । “निर्विण्णोऽतिममत्वेन राज्यापहरणेन चेति”
देवी मा० ।

अपहरणीय त्रि० अपहर्त्तुमर्हति अप + हृ--अनीयर् ।

१ अपहरणयोग्ये तानि वस्तूनि च स्मृतौ दर्शितानि ।
“द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वे च मूलके । आददानः
परक्षेत्रान्न दण्डं दातुमर्हति” मनुः । “चणकव्रीहिगोधूम
यवानां मुद्गमाषयोः । अनिषिद्धैर्ग्रहीतव्या मुष्टिरेका पथि
स्थितैरिति” “तत्रैव सप्तमे भक्ते भक्तानि षडनश्नता ।
अश्वस्तनविधानेन हत्तव्यं हीनकर्म्मण इति” च मनुः ।
“द्विजस्तृणैधःपुष्पाणि सर्व्वतः स्ववदाहरेदिति” याज्ञ० ।
“गोऽग्न्यर्थं तृणमेधांसि यज्ञार्थे वीरुद्वनस्पतीनां पुष्पाणि
स्ववदासीत फलानि चेति” गौ० । २ अपनेतव्ये च ।

अपहर्त्तृ त्रि० अप + हृ--तृच् स्त्रियां ङीप् । १ अपहारके ।

“निक्षेपस्यापहर्त्तार तत्समं दापयेद्दममिति” मनुः । तृणि
तु नलोकेत्यादिना पा० षष्ठीनिषेधात् कर्मणि द्वितीया ।

अपहस्त पु० अपसारणार्थः हस्तः । १ गलहस्ते अपसारणा-

योद्यतः हस्तोयस्य । २ गलहस्तेन अपसारिते त्रि० ।

अपहस्तित त्रि० हस्तेन अपसार्यते अप + हस्त + णिच्-

कर्मणि क्त । १ गलहस्तादिना निरस्ते अपसारिते ।

अपहार पु० अप + हृ--घञ् । १ चौर्य्ये २ अपहरणे, ३ अपनयने ।

“कर्णनासापहारेण भगिनी मे विरूपितेति” रामा० स्वाम्य-
नुपकारिधनव्यये “नापहारं स्त्रियः कुर्य्युः पतिरिक्थात्
कथञ्चनेति” स्मृतिः । “अपहारश्च धनस्वाम्यनुपयोगे
भवतीति” दायभागः । ४ अपचये, ५ हानौ, ६ सङ्गोपने च ।

अपहारक त्रि० अप + हृ--ण्वुल् । १ चौर्य्यकर्त्तरि २ अपसारण

कर्त्तरि ३ सङ्गोपक ४ स्थानान्तरापकर्षके च । “जालापहार-
कान् पक्षिण” इति हितो० । अपहारकभेदाश्च मनुना दर्शिताः
“द्विविधांस्तस्करान् विद्यात् परद्रव्यापहारकान् । प्रका-
शांश्चाप्रकाशांश्च चारचक्षुर्महीपतिः । प्रकाशवञ्चकास्तेषां
नानापण्योपजीविनः । प्रच्छन्नवञ्चकास्त्वेते ये स्तेनाटविका-
दयः । उत्कोचकाश्चौपधिकावञ्चकाः कितवास्तथा । मङ्गला-
देशवृत्ताश्च भद्राश्चैक्षणिकैः सह । असम्यक्कारिणश्चैव
महात्राश्चिकित्सकाः । शिल्पोपचारयुक्ताश्च निपुणाः पण्य-
योषितः । एवमादीन् विजानीयात् प्रकाशांल्लोककण्ट-
कान्! “निगूढ़चारिणश्चान्याननार्य्यानार्य्यलिङ्गिन” इति ।
पृष्ठ ०२४१

अपहारिन् त्रि० अप + हृ--णिनि स्त्रियां ङीप् । १ अपहर्त्तरि

२ अपनायके च “इन्द्रियाणां विचरतां विषयेष्वपहारिषु” इति
मनुः “क्षेत्रदारापहारी च षड़ेते ह्याततायिन” इति मनुः

अपहास पु० अप + हस--घञ् । १ अकारणहास्ये हेमचन्द्रः ।

अपह्नव पु० अप + ह्नु--अप् । १ सतोऽपि वस्तुनोऽसत्त्वेन

कथनरूपेऽपलापे, । अपह्नवश्च द्विविघः शब्दतः अर्थतोवा “मिथ्यै-
तदिति शब्दतः, नाभिजानाम्यहं, तत्र तदा न मम स्थिति-
रित्येवमर्थतोऽपह्नव इति । २ प्रेम्णि च ।

अपह्नुत त्रि० अप + ह्नु--क्त । १ कृतापहारे वस्तुनि यस्य चौर्य्यं

कृतं तस्मिन्, २ स्थानान्तरं नीते, ३ अपसारिते च ।

अपह्नुति स्त्री अप + ह्नु--क्तिन् । १ अपह्नवे “प्रकृतं प्रतिषिध्यान्य-

स्थापनं स्यादपह्नुतिरिति” सा० द० उक्ते २ अर्थालङ्कारभेदे
च । सा च द्विधा अपह्नवपूर्ब्बकः अन्यारोपः, अन्यारोप-
पूर्ब्बकः अपह्नवश्च यथा “नेदं नभोमण्डलमम्बुराशिर्नैताश्च
तारा नवफेनभङ्गाः । नायं शशी कुण्डलितः फणीन्द्रो
नासौ कलङ्कः शयितो मुरारिः” ॥ “एतद्विभाति चरमा-
चलचूड़चुम्बि हिण्डीरपिण्डरुचिशीतमरीचिविम्बम् ।
उज्ज्वालितस्य रजनीं मदनानलस्य धूमं दधत्प्रकटलाञ्छनकैत-
वेन” ॥ “विराजते व्योमवपुः पयोधिस्तारामयास्तत्र च
फेनभङ्गाः” । इत्याद्याकारेण प्रकृतनिषेधो बोद्धव्यः ।
“गोपनीयं कमप्यर्थं द्योतयित्वा कथञ्चन । यदि श्लेषेणा-
न्यया वाऽन्यययेत् साप्यवह्नुतिः” सा० द० तत्र श्लेषेण
यथा ॥ “कालेवारिघराणामयतितया नेव शक्यते स्थातुम् ।
उत्कण्ठितासि तरले! न हि न हि सखि! पिच्छिलः
पत्थाः” ॥ अत्रापतितयेत्यत्र पतिं विनेत्युक्त्वा पतनाभावेने-
त्यन्यथाकृतम् । अश्लेषेण यथा । “इह पुरोऽनिलकम्पित-
विग्रहा मिलति का न वनस्पतिना लता । स्मरसि किं
सखि कान्तरतोत्सवं! न हि घनागमरीतिरुदाहृता” इति ॥

अपह्नुवान त्रि० अप + ह्नु--शानच् । १ चोरयति २ अपनयति

३ संगोपयति च “अपह्नुवानस्य जनाय यन्निजामिति” नैष०

अपह्नूयमान त्रि० अप + ह्नु--कर्म्मणि शानच् । १ अपनीय-

माने २ स्थानान्तरमपसार्य्यमाणे ३ चौर्य्यमाणे च ।

अपह्रियमाण त्रि० अप + हृ--कर्म्मणि शानच् । १ चौर्य्य-

माणे । २ अपाकृष्यमाणे च ।

अपांक्षय पु० ६ त० अलुक् स० । १ नेत्रे । अश्रुजलधरत्वा-

त्तथात्वम् “अपांक्षये चक्षुषि, त्वां सादयामि “चक्षु र्वा
अपांक्षय इति” श्रुतिः यजुर्वेददीपः । पदद्वयमित्येके ।

अपांज्योतिस् न० ६ त० अलुक्स० । १ विद्युत्सुता हि अप्सु

क्षियन्ति “अपांज्योतिषि विद्युति त्वां सादयामि”
“विद्युद्वा अपांज्योतिरिति” श्रुतिः वे० दी० पदद्वयमित्येके

अपांनपात् पु० न पातयति पत--णिच्--क्विप् न० त० “न

भ्राण्नपादित्या०” पा० प्रकृतिभावः अलुक्स० । १ यज्ञ
देवताभेदे । “अपोनपात् अपांनपाच्च देवतेति” सि० कौ० ।
“अपोनपाते अपांनपातेऽनुब्रूहीति” प्रैष्यः ।

अपांनप्त्रि(प्त्री)य त्रि० अपांनपात् देवताऽस्य घ, छ वा ।

१ अपांनपाद्देवताके हविरादौ ।

अपांनाथ पु० ६ त० अलुक् स० । १ समुद्रे ।

अपांनिधि पु० निधीयतेऽस्मिन् नि + धा--आधारे कि ६ त०

अलुक्स० । १ समुद्रे, २ विष्णौ च “अपांनिधिरविष्ठानम-
प्रमत्तः प्रतिष्ठित इति” विष्णुसह० । “सरितामस्सि सागर”
इति गीतोक्तेस्तस्य तथात्वम् ।

अपांपति पु० पा--डति ६ त० अलुक् स० । १ समुद्रे, २ वरुणे च ।

अपांपाथस् न० पाथः सारः ६ त० अलुक्स० । १ अन्ने

तस्य वृष्टिप्रभवत्वात्तथात्वम् “वृष्टेरन्नं ततः प्रजेति”
गीतायां तथोक्तेः । “अपांपाथसि अन्ने त्वां सादयामि”
“अन्नं वा अपांपाथ” इति श्रुतिः वे० दी० । पदद्वयमित्येके ।

अपांपित्त न० ६ त० वा अलुक् स० । १ अग्नौ, तस्य जलहेतु-

त्वात् तत्पित्तत्वम् “आकाशाद्वायुर्द्वायोरग्निरग्नेराप”
इति” श्रुतौ तस्य तथात्वावगतेः । वा लुकि अप्पित्तम प्यत्र ।

अपांपुरीष न० पुरीषं मलः ६ त० अलुक्स० । १ सिकतासु,

तासां जलमलरूपत्वात्तथात्वम् “अपांपुरोषे सितकासु त्वां
सादयामि “सिकता वा अपां पुरीषमिति श्रुतिः” वेददी०

अपांयोनि स्त्री ६ त० अलुक्समा० । १ समुद्रे “अपांयोनौ

समुद्रे” इति वेददी० “समुद्रोवै अपांयोनिरिति” शत०
ब्रा० पदद्वयमित्येके ।

अपांशु(सु)ला स्त्री पांश(स)वोव्यभिचारदोषाः सन्ति

यस्याः सिधा० लच् पांशु(सु)ला स्वैरिणी न० त० ।
१ पतिव्रतायां स्त्रियाम् “अपां(सु)शुलानां धुरि कीर्त्तनी-
येति” रघुः ।

अपांसदन न० अलुक्स० । १ दिवि “दिवि ह्यापः सन्ना

इति” शत० ब्रा० । भिन्नं पदमित्येके ।

अपांसधस्थ पु० ६ त० अलुक्स० । १ अन्तरिक्षे “अपांसथस्थे

अन्तरिक्षे” वेददी० “अन्तरिक्षं वा अपांसधस्थमिति”
शत० ब्रा० । भिन्नं पदमित्येके ।

अपांसधिम् न० ६ त० अलुक्स० । १ श्रोत्रे “अपांसधिषि

श्रोत्रे” वेददो० । “श्रोत्रं वा अपांसधिरिति” शत० ब्रा० ।
पृष्ठ ०२४२

अपांसमुद्र पु० समुद्रः सदनम् ६ त० अलुक्स० । १ मनसि

“मनो वा अपां समुद्र” इति शत० ब्रा० ।

अपाक पु० पच--घञ् न० त० । १ पाकाभावे, भुक्तान्नादेरग्नि-

मा द्यादिना २ पाकाभावे च । ७ ब० । तत्साधने ३ अजीर्ण्णता-
रोगे । ६ ब० । पाकरहिते आमे त्रि० । ४ मूर्खः पाकः
५ तद्भिन्ने, प्राज्ञे “ऐतनापाकाः प्राञ्चोन केचिदापय” इति ऋ०
१, ११०२, अपाकाः! पक्तव्यप्रज्ञाःअपरिपक्वज्ञाना इति
भा० । “अदिद्युतत् स्वपाको विभावाग्ने ऋ० ६, ११, ।
पाकः पक्तव्यप्रज्ञोसूर्खस्तद्विलक्षण इति” भा० “आ
यस्मिन् त्वेःस्वपाके यजत्रा” ऋ० ६, १२, २, “अपाके प्राज्ञे”
इति भा० “पाकः पक्तव्य” इति निरु० । पाकश्च द्विविधः
लौकिकः अलौकिकश्च तत्र लौकिकः दहनादिसाध्यः
अलौकिकस्तु द्विविधः कालकृतपरिणतिभेदः जटराग्निसाध्यश्च
तत्र तण्डुलादेः पाकः लौकिकः, आम्रफलादेः कालकृतः,
भुक्तान्नादेः जठराग्निकृतः वैद्यकप्रसिद्धः । स च सुश्रुते
दर्शितः “विपाकः प्रधानमिति” कस्मात्? सम्यङ्मिथ्या-
विपाकत्वादिह सर्व्वद्रव्याण्यभ्यवहृतानि सम्यग्मिथ्या-
विपक्वानि गुणं दोषं वा जनयन्ति । तत्राहुरन्ये
प्रतिरसं पाक इति । केचित्त्रिविधमिच्छन्ति मधुरमम्लं कटुकं
चेति तत्तु न सम्यग्भूतगुणादागमाच्चाम्लो विपाको नास्ति
पित्तं हि विदग्धमम्लतामुपैत्यग्नेर्मन्दत्वात् । यद्येवं लवणो-
ऽप्यत्यः पाको भविष्यति श्लेष्मा हि विदग्धो लवणतामुपैति
मधुरो मधुरस्याम्लोऽम्लस्यैवं सर्व्वेषामिति केचिदाहुर्दृष्टान्तं
परिदिशन्ति यथा तावत् क्षीरं स्थालीगतमभिपच्यमानं
मधुरमेव स्यात्तथा शालियवमुद्गादयः प्रकीर्ण्णाः स्वभावमुत्तर-
कालेऽपि न परित्यजन्ति तद्वदिति । केचिद्वदन्त्यबलवन्तो-
बलवतां वशमायान्तीत्येवमनवस्थितिस्तस्मादसिद्धान्त एषः ।
आगमे हि द्विविध एव पाकोमधुरः कटुकश्च तयोर्म्मधु-
राख्योगुरुः कटुकाख्यो लघुरिति तत्र पृथिव्यप्तेजोवाय्वा-
काशानां द्वैविध्यं भवति गुणसाधर्म्याद्गुरुता लघुता च
पृथिव्यापश्च गुर्व्यः, शेषाणि लघूनि, तस्माद्द्विविध एव पाक
इति । भवन्ति चात्र ।
द्रव्येषु पच्यमातेषु येष्वम्बु पृथिवीगुणाः । निर्व्वर्त्तन्ते-
ऽधिकास्तत्र पाको मधुर उच्यते ॥ तेजोऽनिलाकाशगुणाः
पच्यमानेषु येषु तु । निर्व्वर्त्तन्तेऽधिकास्तत्र पाकः कटुक
उच्यते ॥ पृथक्त्वदर्शिनामेष वादिनां वादसंग्रहः ।
चतुर्णामपि सामर्य्यमिच्छन्त्यत्र विपश्चितः ॥ तद्द्रव्य-
मात्मना किञ्चित् किञ्चिद्वीर्य्येण सेवितम् । किञ्चिद्रसविपा-
काभ्यां दोषं हन्ति करोति वा ॥ पाको नास्ति विना
वीर्य्याद्वीर्य्यं नास्ति विना रसात् । रसो नास्ति विना
द्रव्याद्द्रव्यं श्रेष्ठमतः स्मृतम् ॥ जन्म तु द्रव्यरसयोरन्यो-
ऽन्यापेक्षकं स्मृतम् । अन्योऽन्यापेक्षकं जन्म यथा स्याद्देह-
देहिनोः ॥ वीर्य्यसंज्ञा गुणा येऽष्टौ तेऽपि द्रव्याश्रयाः
स्मृताः । रसेषु न वसन्त्येते निर्गुणास्तु गुणाः स्मृताः ॥
द्रव्ये द्रव्याणि यस्माद्धि विपच्यन्ते न षड्रसाः । श्रेष्टं द्रव्य-
मतो ज्ञेयं शेषा भावास्तदाश्रयाः ॥ अमीमांस्यान्यचिन्त्यानि
प्रसिद्धानि स्वभावतः । आगमेनोपयोज्यानि भेषजानि
विचक्षणैः” इति ॥ तदुभयाभावः अपाकः । वैद्यकोक्तापाक-
लक्षणमुक्तं निदाने “अङ्गमर्द्दोऽरुचिस्तृष्णा आलस्यं गौरवं
ज्वरः ॥ अपाकः शून्यताङ्गानामामवातस्य लक्षणमिति” ।
गात्रप्रदेशे क्वचिदेव दोषाः संमूर्च्छिता मांसमसृक् प्रदुष्य,
वृत्तं स्थिरं मन्दरुजं महान्तमनल्पमूलं चिरवृद्ध्यपाकमिति”
माधवः । पाकः अल्पः ६ तद्भिन्ने त्रि० । “सेनयाग्नेरपाक-
चक्षस” इति ऋ० ८ । ७५ । ७ । “अपाकचक्षसः अनल्प-
चक्षस” इति भा० । अधिकं पाकशब्दे वक्ष्यते ।

अपाकज त्रि० न पाकाज्जायते जन--ड न० त० । १ पाकजभिन्ने

“अपाकजानुष्णाशीतः स्पर्शस्तु पवने मत” इति भाषा० ।

अपाकरण न० अप + आ + कृ--ल्युट् । १ निराकरणे । “तदपाक-

रणायाहेति” प्रश्न० उ० भा० । “ऋणत्रयापाकरणान्नास्त्यपवर्ग
इति” गौ० सू० अपसारणे, दूरीकरणे च । “निधाय वत्सा-
पाकरणं पूर्ब्बवदिति” का० ४१२ । ३५ ।

अपाकरिष्णु त्रि० अप + आ + कृ--बा० इष्णुच् । १ दूरीकरण-

शीले २ अपसारणशीले ।

अपाकर्त्तोस् अव्य० अप + आ + कृ--कृत्यार्थे तोसुन् ।

१ अपाकर्त्तव्ये तस्य च भावलक्षणत्वमौपाधिकम् ।

अपाकर्म्मन् न० अप + आ + कृ मनिन् निरासे ।

अपाकशाक पु० न पच्यते शाको यस्य । १ आर्द्रके । तस्य

मूलमेव भोजनार्थं पच्यते न शाकः ।

अपाकिन् त्रि० न पाकोऽस्त्यस्य इनि ॥ १ पाकशून्ये अपाके ।

अपाकृत त्रि० अप + आ + कृ--क्त । १ निवारिते २ दूरीकृते

“अपाकृतस्वेदलवामरुद्भिरिति” रघुः ।

अपाकृति स्त्री अप + आ + कृ--भावे क्तिन् । १ दूरीकरणे । २ अपसारणे च ।

अपाकृत्य अव्य० अप + आ + कृ--ल्यप् । १ निराकृत्येत्यर्थे

“ऋणत्रयमपाकृत्य मनोमोक्षे निवेशयेदिति” मनुः ।

अपाक्रिया स्त्री अप + आ + कृ--भावे श । १ अपाकरणे २

अपसारणे “ऋणानाम नपाक्रियेति” उपपातकगणनयां स्मृतिः
पृष्ठ ०२४३

अपाक्तात् अव्य० अपाची अवाची प्रतीची वा बा० तातिल्

१ अवाच्याः २ प्रतीच्या वा इत्यर्थे “प्राक्तादपाक्तादधरादुदक्ता-
दभि ऋ० ७, १०४ । १९ । अपाक्तात् प्रतीच्या इति भा० ।

अपाक्ष न० अपनतमनुगतमक्षमिन्द्रियम् अत्या० स० ।

१ इन्द्रियसन्निकर्षजे प्रत्यक्षे २ तद्विषये त्रि० त्रिका० ।

अपाङ्क्तेय त्रि० सद्भिः सह भोजने पङ्क्तिमर्हति अर्हार्थे ढक्

न० त० । १ सद्भिः सह एकपङक्तौ भोजनानर्हे स्तेनपति-
तादौ । अत्र ष्यञि अपाङ्क्त्य इत्यपि । ते च मनौ दर्शिताः
यथा “ये स्तेनपतितक्लीबा ये च नास्तिकवृत्तयः । तान्
हव्यकव्ययोर्विप्राननर्हान्मनुरब्रवीत् ॥ जटिलं चानधीयानं
दुर्बलं कितवं तथा । याजयन्ति च ये पूगांस्तांश्च श्राद्धे न
भोजयेत् ॥ चिकित्सकान् देवलकान् मांसविक्रयिणस्तया ।
विपणेन च जीवन्तोवर्ज्याः स्युर्हव्यकव्ययोः ।
प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः । प्रतिरोद्धा
गुरोश्चैव त्यक्ताग्निर्वार्द्धुषिस्तया ॥ यक्ष्मी च पशुपालश्च
परिवेत्ता निराकृतिः । ब्रह्मद्विट् परिवित्तिश्च गणाभ्यन्तर
एव च ॥ कुशीलवोऽवकीर्ण्णी च वृषलीपतिरेव च ।
पौनर्भवश्च काणश्च यस्य चोपपतिर्गृहे ॥ भृतकाध्या
पको यश्च भृतकाध्यापितस्तथा । शूद्रशिष्यो गुरुश्चैव वाग्-
दुष्टः कुण्डगोलकौ ॥ अकारणपरित्यक्ता मातापित्रोर्गुरो-
स्तथा । ब्राह्मैर्यौनैश्च सम्बन्धैः संयोगं पतितैर्गतः ॥ अगार-
दाही गरदः कुण्डाशी सोमविक्रयी । समुद्रयायी वन्दी
च तैलिकः कूटकारकः ॥ पित्रा विवदमानश्च कितवो
मद्यपस्तथा । पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी ॥
घनुःशराणां कर्त्ता च यश्चाग्रेदिधिषूपतिः । मित्रध्रुग्द्यूत-
वृत्तश्च पुत्राचार्यस्तथैव च ॥ भ्रामरी गण्डमाली च श्वित्र्य-
थो पिशुनस्तथा । उन्मत्तोऽन्धश्च वर्ज्याः स्युर्वेदनिन्दक एव
च ॥ हस्तिपोऽश्चोष्ट्रदमको नक्षत्रैर्यश्च जीवति । पक्षिणां
पोषको यश्च युद्धाचार्यस्तथैव च ॥ स्रोतसां भेदको यश्च तेषां
च पोषणे रतः । गृहसंवेशको दूतो वृक्षारोपक एव च ॥
श्वक्रीड़ी श्येनजीवी च कन्यादूषकं एव च । हिंस्रो वृषल-
वृत्तिश्च गणानां चैव याजकः ॥ आचारहीनः क्लीवश्च
नित्यं याचनकस्तया । कृषिजीवी श्लीपदी च सद्भिर्निन्दित
एव च ॥ औरभ्रिको माहिषिकः परपूर्वापतिस्तथा ।
प्रेतनिर्हारकश्चैव वर्जनीयाः प्रयत्नतः ॥ एतान् विगर्हिता-
चारानपाङ्क्तेयान् द्विजाधमान् । द्विजातिप्रवरोविद्वानु-
भयत्र विवर्जयेत् । ब्राह्मणस्त्वनधीयानस्तूलाग्निरिव शाम्यति ।
तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते ॥ अपाङ्क्त्य-
दाने यो दातुर्भवत्यूर्द्ध्वं फलोदयः । दैवे हविषि पित्र्ये
वा तत्प्रवक्ष्याम्यशेषतः ॥ अव्रतैर्यद्द्विजैर्भुक्तं परिवेत्त्रादिभि-
स्तथा । अपाङ्क्तेयैर्यदन्यैश्च तद्वै रक्षांसि भुञ्जते” इति ॥

अपाङ्क्त्य त्रि० न पङ्क्तिमर्हति ञ्य न० त० । १ अपाङ्क्तेये ।

“अपाङ्क्त्यदाने योदातुरिति” मनुः ।

अपाङ्ग पु० अपाङ्गति तिर्य्यक् चलति नेत्रं यत्र अप + अङ्ग

घञ् । १ नेत्रप्रान्ते, “अजनि पङ्गुरपाङ्गनिजाङ्गणभ्रमिकणे-
ऽपि तदीक्षणखञ्जन” इति नैष० २ तिलके च । अपगतमङ्गं
यस्य प्रा० व० । ३ अङ्गहीने त्रि० स्त्रियां ङीप् ।

अपाङ्गक पु० अपकृष्टमङ्गंयस्यवा कप् । (आपाङ्) इति ख्याते

अपामार्गे । स्वार्थेकन् १ नेत्रान्ते पु० । २ अपगताङ्गे त्रि० ।

अपाङ्गदर्शन न० अपाङ्गेन नेत्रान्तेन दर्शनं ३ त० । १ कटाक्षे

अपाङ्गनेत्र न० अपाङ्गं देशं व्याप्य नेत्रम् । १ दीर्घनेत्रे ।

अपाच् त्रि० अपाञ्चति अप + अन्च--क्विप् । १ अपगमनकर्त्तरि

२ अप्रकाशार्थे च । स्त्रियां ङीप् । सा च ३ दक्षिणस्यां
दिशि, ४ प्रतीच्यामिति वेदभाष्ये माधवः । “प्राक्ता-
दपाक्तादधरादिति ऋ० ७, १०४, १९ “अपाक्तात् प्रतीच्या”
इति तेन व्याख्यानात् । तत्र पदान्तरेण दक्षिणप्रतीतेर-
पाक्शब्दस्य प्रतीच्यां लक्षणैव न तत्रशक्तिरिति तु युक्तम् ।

अपाचीन त्रि० अपाच्यां दक्षिणस्यां भवः ख । १ दक्षिण-

दिग्भवे २ अप्रकाशमाने च । “योह्यपाचीने तमसि मदन्ती-
रिति” ऋ० ७, ६, ४, “अपाचीने अप्रकाशमाने” भा० ।

अपाच्य त्रि० अपाच्यां भवः “द्युप्रागित्या०” पा० यत् ।

१ दक्षिणदिग्भवे पदार्थे “ये के च नीच्यानां राजानो ये
अपाच्यानामिति” ऐत० व्रा० ।

अपाटव न० पाटवं पटुता पटु + भावेऽण् नास्ति तद्यत्रं ।

१ रोगे । न० त० । २ पटुताभावे “अपाटवाद्यशौचाद्यैर्य्यदि
विघ्नं प्रजायते” इति स्मृतिः । ६ ब० । ३ पटुताशून्येत्रि०

अपात्त त्रि० अप + आ + दा--क्त । १ प्राप्ते । “सहोवाच विज्ञा-

यते नास्ति हिरण्यस्यापात्तमिति” वृ० उ० । “अपात्तं प्राप्त-
मिति” भा० ।

अपात्र न० पात्रंश्राद्धमोजनदानादियोग्यं न० त० । १ विद्यादि-

हीनेऽनाचारे, २ दानादियोग्यताहीने कुपात्रे, नटादौ च ।
दानादिपात्रञ्च पात्रशब्दे दर्शयिष्यते । “अदेशकाले यद्दा-
नमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृत-
मिति” गीता “अपात्रेषु च यद्दत्तं तत् सर्वं विफलं भवे
दिति” स्मृतिः “अपात्रे पात्रमित्युक्ते कार्य्ये वा धर्म्मसंहिते”
इति मिताक्षरायां नारदः ।
पृष्ठ ०२४४

अपात्रीकरण न० अपात्रं श्राद्धभोजनाद्ययोग्यं क्रियतेऽनेन ।

१ निन्दितप्रतिग्रहादिजनिते “निन्दितेभ्यो धनादानं
बाणिज्यं शूद्रसेवनम् । अपात्रीकरणंज्ञेयमसत्यस्य च भाषण”
मिति मनूक्ते पापभेदे २ तद्धेतुभूते निन्दितधनादानादौ च ।

अपाद त्रि० नास्ति पादोऽस्य अन्त्यलोपः समा० । १ पादशून्ये

“अपादपाणिर्जवनोग्रहीतेति” श्रुतिः ।

अपादान न० अपगमाय आदीयतेऽवधित्वेन अप + आ +

दाल्युट् । “ध्रुवमपायेऽपादानमिति” १ व्याकरणपरिभाषि
कारकभेदे । यथोक्तं हरिणा “अपाये थदुदासीनं चलं वा
यदि वाऽचलम् । ध्रुवमेवातदावेशात्तदपादानमुच्यते” पत
तोध्रुव एवाश्चो यस्मादश्वात् पततत्यसौ । तस्याप्यश्वस्य प्रतने
कुड्यादि ध्रुवमुच्यते । मेषान्तरक्रियापेक्षमवधित्वंपृथक्पृथक् ।
मेषयोः स्वक्रियापेक्षं कर्तॄत्वञ्च पृथक् पृथक्” इति तच्चापा-
दानं त्रिविधम् । “निर्द्दिष्टविषयं किञ्चिदुपात्तविषयं तथा ।
अपेक्षितक्रियञ्चेति त्रिधापादानमिष्यते” इति हर्य्युक्तेः ।
निर्द्दिष्टः श्रूयमाणो विषयो यस्य तत्, स्वापेक्षितश्रूयमाण-
क्रियमित्यर्थः यथा वृक्षात् पत्रं पततीत्यादौ, अपादानविषयी-
भूतं पतनं हि तत्रश्रूयमाणम् । द्वितीयम् उपात्तः गृहीतः
धात्वन्तरार्थघटकीभूत इति यावत् विषयो यस्येति व्युत्पत्त्या
स्वविषयक्रियाघटितश्रूयमाणक्रियान्तरमित्यर्थः यथा मेघात्
विद्योतते विद्युदित्यादौ निःसरणपूर्ब्बकविद्योतनार्थविद्योत-
तियोगे मेघादेस्तदेकदेशे निःसरणेऽपादानत्वम् । अपेक्षित-
क्रियं तृयीयं यया कुतो भवानिति प्रश्नवाक्ये, पाटलिपुत्रा-
दित्युत्तरवाक्ये च कुत इति पाटलिपुत्रादित्यनयोरपेक्षित-
गत्यादिक्रियापेक्षत्वात् अपेक्षितक्रियापादानत्वम् । “अपा-
दाने पञ्चमीति पा० ।

अपान पु० अपानयति अपसारयति मूत्रादि अप + आ +

नीड अपसारयति अधोऽनिति गच्छति वा अप + अन--अच् वा
१ मूत्रादेरधो नयनशीले, गुह्यदेशस्थे, “अधोनयन-
त्यपानस्तु आहारञ्च नृणा पुन” तित्युक्तलक्षणे “मूत्रशुक्र-
वहोवायुरपान इति कीर्त्त्यते” इत्युक्तलक्षणे च वायौ ।
“प्राणोऽपानव्यानसमान इत्येतेत् सर्वं प्राण” इति वृ०
“अपनयनात् मूत्रपुरीषादेरपानोऽधोवृत्तिर्वावुः नाभि-
स्थान” इति मा० “अथ योऽस्य प्रत्यङ्शुषिः
सोऽपान” इति छा० उ० । “अथ योऽस्य प्रत्यङ्शुषिः पश्चिम-
दिक्थो वायुविशेवः स मूत्रपुरीषाद्यन्नथोऽनितीत्यपान”
इति भा० “यद्वै प्राणिति स प्राणः यदपानिति
सोऽपान इति” छा० उ० । “यद्वै पुरुषः प्राणिति
मुखनासिकाभ्यां वायुं वहिर्निस्सारयति स प्राणाख्यो
वायुर्वायुवृत्तिविशेषः यदपानित्यपश्यमिति ताभ्यामेव
मुखनासिकाभ्याम् अन्तराकर्षति वायुः सोऽपानोऽपानाख्या
वृत्तिरिति” भा० । पदार्थादर्शे तु पूर्ब्बोक्तैव निरुक्तिर्दर्शिता
यथा अपानयत्यपानोऽयमाहारं च मलार्पितम् । “शुक्रं
मूत्रं तथोत्सर्गमपानस्तेन मारुतः । इन्द्रगोपप्रभाकाशः
सन्ध्याजलदसन्निभः ॥ स च मेढ्रे च पायौ च ऊरुवङ्क्षण
जानुषु । जङ्घोदरे कृकाट्याञ्च नाभिमूले च तिष्ठती” ति
योगार्णवः । “प्राणापानान्तरे देवी वाग्वै नित्यं प्रति-
ष्ठतीति” महा० भा० “प्राणापानौ समौ कृत्वा नासा-
भ्यन्तरचारिणा” विति गीता । अप + अन--भावे घञ् ।
२ अपानक्रियायाम् वहिर्गतायाः ३ प्राणवृत्तेरन्तः प्रवेशने पु०
“प्रजाभ्योऽपानायेति” ता० ब्रा० । “अपानः वहिर्गतायाः
प्राणवृत्तेरन्तःप्रवेशनमपाननं तेन हि वायुः शरीरे नीयते
अपानेन, यतः “प्राणो न पराभवतीति” श्रुत्यन्तरमिति”
ता० भा० । आधारे घञ् ४ गुह्यस्थाने पु० ।

अपानन न० अप + अन--भावे ल्युट् । १ अपश्वसने, मुखनासि-

काभ्यां वहिर्निस्सारिप्राणवायोस्ताभ्यामेव मार्गाभ्यामन्तरा-
कर्षणे २ सूत्रपुरीषादेरधोनयने च अपानशब्दे ता० ब्रा० उदा०

अपान्तरतमस् पु० अपगतमान्तरं तमो यस्य । १ वेदार्थप्रकाशके

देवसुतभेदे । “अपान्तरतमा नाम जातो देवस्य वै सुतः ।
कृताश्च तेन वेदार्थास्तेन सत्येन मोक्षयेति” हरिव० २६३ अ०

अपाप त्रि० नास्ति पापं पापकारणं वा यस्य । १ पापजनका-

चारशून्ये” २ निष्पापे च “इयं दाशरथे! सीता सुव्रता
ब्रह्मचारिणी । अपापा हि त्वया त्यक्तेति” रामा० ।

अपामार्ग पु० अपमृज्यते व्याधिरनेन मृज्--करणे घञ् कुत्व-

दीर्घौ । (आपाङ्) इति १ ख्याते वृक्षे! “अपामार्ग! त्वया
वयं सर्व्वं तदपमृज्महे” अथ० ४, १८, ७ । “अर्पामार्ग
ओषधीनां सर्व्वासामेक इद्वशीति” अथ० ४, १७, ९, ७ ।

अपामार्गक्षारतैल न० “कर्णनादे कर्णक्ष्वेड़े कटुतैलेन पूरणम्

नादवाधिर्य्ययोः कुर्य्यात् कर्णशूलोक्तमौ षधम् अपामार्गक्षार-
जलैः कृतकल्केन साधितम् तिलजमपहरति कर्ण्णनादं
बाधिर्य्यञ्जापि पूरणत” इति चक्रदत्तोक्ते १ तैलभेदे ।

अपामार्गतैल न० “क्षयजे क्षुयमासाद्य कर्त्तव्यो वृंहणो

विधिः । पाने नस्ये च सार्मः स्याद्वातघ्नैर्मधुरैः शुभम् ।
कृमिजे व्योषनक्ताह्वशिग्रुवीजैश्च नायनम् । अजामूत्रयुतं
नस्यं कृमिजे कृमिजित् परम् । अपामार्गफलव्योष-
निशाक्षारकरामठैः । सविड़ङ्गं शृतं मूत्रे तैलं नस्यं
कृमिं जयेदिति” चक्रदतोक्ते १ कृमिघ्नतैलभेदे ।
पृष्ठ ०२४५

अपाय पु० अप + इण्--अच् । १ विश्लेषजनकक्रियायाम् “ध्रुव-

मपायेऽपादानमिति” पा० । “अपाये विश्लेषजनकक्रिया-
यामिति” सि० कौ० । “अपाये यदुदासीनमिति” हरि० ।
२ नाशे ३ अपगमने च ।

अपायिन् त्रि० अप + इण--णिनि । १ अपाययुक्ते २ वियो-

गिनि २ नश्वरे च “मात्रास्पर्शास्तु कौन्तेय! शीतोष्ण-
मुखदुःखदाः आगमापायिनोऽनित्यःस्तांस्तितिक्षस्व
भारतेति” गीता । “अनप्रायिनि संश्रयद्रुमे गजभग्ना
पतनाय वल्लरीति” कु० ।

अपार त्रि० नास्ति पारं यस्य । १ पारशूत्ये २ दुःखेनोत्तार्य्ये

३ दीर्घमर्य्यादे । “महीमपारां सदने सदस्यति” ऋ० ३, ३०, ९
४ अगाधे “अन्तरपार ऊर्वे अनृतं दहनोः ऋ० ३, १,
१४ । “अपारे अगाध” इति भा० । ५ दूरपारे “रजसी
अपारे ऋ० १, ४२, ४६ । “इमे चिदिन्द्र । रोदसी अपारे इति
ऋ० ३, ३०५ । “अपारे दूरपारे” इति भा० । ६ सीमारहिते
“मही अपारे रजसी” ऋ० ९, ६८, ३ । “अपारे सोमा-
रहिते” इति भा० । ७ अधिके “अपारो वो महिमा वृद्धशरण”
इति ऋ० ५, ८७, ६ । “अपारः अधिक” इति भा० । “अपारे
पारमिच्छन्तः संसारार्णवरोधसीति” महाभा० । “तदपार,
मसंख्येयं वानराणां महद्बलम्” रामा० । ८ अनुत्तार्य्ये
“रावणश्च महाशत्रुरपारः प्रतिभाति मे इति” रामा० । तस्याः
पारमपारञ्च व्रजन्ति विजयैषिण इति” भा० क० प० १९ अ० ।
९ नद्यादेरर्वाक्पारे न० । १० पृथिव्यां स्त्री निरु० ।

अपार्ण न० अप + अर्द्द--क्तनि० न । १ अभ्यर्णे समीपे निरु० ।

२ समीपवर्त्तिनि त्रि० ।

अपार्थ त्रि० अपगतीऽर्थो यस्य । १ निरर्थके २ व्यर्थे ३

निष्प्रयेजते “सर्व्वमेतदपार्थंते क्षिप्रं तौ संप्रसादयेति” वनप०
२१४ अ० । ४ अभिधेयशून्ये, “अपार्थंबहु सङ्कीर्णं भाषते”
इति सुश्रुतम् । वा कप् । अपार्थकोऽप्यत्र । अतो यदन्य-
द्विब्रूयुर्धर्म्मार्यंतदपार्थकमिति” मनुः । तच्च योग्यतासत्त्या-
काङ्क्षाशून्यं वाक्यंयथोक्तं गौतमेन “पौर्वापर्य्यायोगादप्रति-
बन्धार्थमपार्थकमिति” “पौर्वापर्य्यं कार्य्यकारणभावस्तस्याऽ-
योगादसम्भवात् शाब्दबोधजनकाकाङ्क्षाज्ञानाद्यसम्भवात्
अप्रतिबन्धः असम्बद्धोऽर्थः प्रयोजनं शाब्दबोधरूपं यत्र ।
तथाचाभिमतबाक्यार्थबोधानुकूलाकाङ्क्षादिशून्यबोधजनकत्वं
तत्त्वमिति तदर्थः ।

अपाल त्रि० नास्ति पालः पालको यस्य । १ पालकशून्ये प-

श्वादौ । २ ब्रह्मवादिन्यामत्रिसुतायां स्त्री । “अपाला-
मिन्द्र! शिष्यः पूह्यकृणोरिति” ऋ० ८, ९, १७ ।
अपालामेतन्नामिकामत्रिमुतां ब्रह्मवादिनीमिति” भा० ।

अपालम्ब पु० अपकृष्यालम्बते अप + आ--लम्ब घञ् । १

शकटपश्चाद्भागे “ततःपश्चात् परिक्रम्य अपालम्वमभिपद्याहेति”
शत० ब्रा० ३, ३, ४, १२, “अपालम्बं शकटस्य पश्चाद्भाग-
मिति” भा० ।

अपावर्त्तन न० अप + आ + वृत--ल्युट् । १ उल्लुण्ठने भूम्यादौ पतित्वा लुण्ठने, २ अपाकरणे च ।

अपावृत त्रि० अप + आ + वृ--क्त । १ अनावृते २ उद्वाटिते

३ अपसारितावरणे च “यदृच्छया चोपपन्नं स्वर्गद्वारमपा-
वृतम् । सुखिनः क्षत्रियाः पार्थ! लभन्ते युद्धमीदृशमिति”
गीता । “अहो अपावृतं द्वारमापदामयमेष मे” रामा०
४ आवृते, ५ पिहिते स्वतन्त्रे च इति मेदिनिः ।

अपावृति स्त्री अप + आ + वृ--क्तिन् । १ आवरणनिवारणे

उद्घाटने २ आवरणापसारणे च । “स ऊ स्वे रेजयत्य-
पावृतिमिति” ऋ० ।

अपावृत्त त्रि० अप + आ + वृत--क्त । १ अन्तरिते २ परावृत्ते,

३ निवृत्ते च “प्रतिग्रहादपावृत्तः सन्तुष्टो येन केनचि-
दिति” महा० भा० “कयंद्रक्ष्याम्यपावृत्तां परैरिव हतां
चमूमिति” रामा० ।

अपावृत्ति स्त्री अप + आ + वृत--क्तिन् । १ उद्वर्त्तने २ नि वृत्तौ च ।

अपाश्रय पु० अप + आ + श्रि--अच् । १ मध्ये “पर्य्यङ्कस्यापाश्रये”

इति काद० । २ अङ्गणावरणे चन्द्रातपादौ हेम०
अपगत आश्रयो यस्य । ३ आश्रयविहीने त्रि० ।

अपाष्ठ त्रि० अप + आ + स्था--क अम्बा० षत्वम् । १ अपास्थिते

“शल्याद्विषं निरवचं प्राञ्जनादुत पर्ण्णधेः । अपाष्ठाच्छुङ्गा-
दिति” अथ० ४, ६, ५ ।

अपासङ्ग पु० अप + आ + सन्ज--घञ् कुत्वम् । १ तूणे इषुधौ ।

अपासन न० अप + अस--ल्युट् । १ मारणे बधे २ अपक्षेपणे,

३ दूरीकरणे च ।

अपासित त्रि० । अप + अस + णिच्--क्त । १ अपसारिते ।

अपासृत त्रि० अप + आ + सृ--क्त । १ दूरीभूते २ पलायिते ।

अपास्त त्रि० अप + अस + क्त । १ क्षिप्ते २ निरस्ते ३ दूरीकृते

४ अपसारिते च “समुच्छ्वलितविभ्रमा गतिरपास्तसंस्था
मतिरिति” माल० “निरस्तगाम्भीर्य्यमपास्तपुष्पकमिति”
माघः ।

अपास्य अव्य० अप + अस--ल्यप् । १ निरस्येत्यर्थे । “किमित्यपास्याभरुणानि यौवने” इति कुमा० ।