सामग्री पर जाएँ

वाचस्पत्यम्/अदाय

विकिस्रोतः तः

वाचस्पत्यम्


पृष्ठ ०११५

अदाय त्रि० नास्ति दायो येषाम् । दायानर्हेपतितज्ञात्यादौ ।

“अदायाश्च स्त्रियोमता” इति स्मृतिः ।

अदायाद त्रि० दायं पित्रादिधनं सम्बन्धितया अदन्ति भुञ्जते

अद--अण् ६ त० न० त० । सम्बन्धिधनाग्राहके पतितादि
सपिण्डभेदे “अदायादाश्च परिगणितमात्रादिभिन्नाः स्त्रियः,
“अदायाश्च स्त्रियोमताः” इति स्मृतेः । द्वादशविधान्
पुत्रानुक्त्वा “कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा ।
स्वयंदत्तश्च शौद्रश्च षडदायादबान्धवा इति मनूक्ताः
कानीनादयश्च वेदितव्याः तथा विभागानार्हा अपि क्लीवा-
दयोऽदायादा इत्यवसरे वाच्यम् । सपिण्डभिन्ने च ।

अदायिक त्रि० दायमर्हन्ति दाय + ठक्--न० ब० । दायाद-

शून्ये “अदायिकं राजगामीति” स्मृतिः दायग्राह-
कपुत्रादिशून्यं तदर्थः ।

अदाह्य त्रि० न दग्धुमर्हति दह--अर्हार्थे ण्यत् न० त० ।

शास्त्रोक्तविधिना अग्निसंस्कारानर्हे पतितादौ ते च स्मृतौ
दर्शिता यथा । “शृङ्गिदंष्ट्रिनखिव्यालविषवह्निस्त्रिया
जलैः । आदरात् परिहर्त्तव्यः कुर्वन् क्रीड़ां मृतस्तु यः ।
नागानां विप्रियं कुर्वन् दग्धश्चाप्यथ विद्युता । निगृहीतः
स्वयं राज्ञा चौर्य्यदोषेण कुत्रचित् । परदारान् रमन्तश्च
द्वेषात्तत्पतिभिर्हताः । असमानैश्च संकीर्णैश्चाण्डाला-
द्यैश्च विग्रहम् । कृत्वा तैर्निहता ये तु चाण्डालादीन्
समाश्रिताः । गराग्निविषदाश्चैव पाषण्डाः क्रूरबुद्धयः ।
क्रोधात् प्रायं विषं वह्निं शस्त्रमुद्वन्धनं जलम् । गिरिवृक्ष-
प्रप्रातञ्च ये कुर्वन्ति नराधमाः । कुशिल्पजीविनश्चैव सूना-
लङ्कारकारिणः । मुखेभगाश्च ये केचित् क्लीवप्राया नपुं-
सकाः । ब्रह्मदण्डहता ये च ये च वै ब्राह्मणैर्हताः ।
महापातकिनोये च पतितास्ते प्रकीर्त्तिताः । पतितानां न
दाहः स्यान्नान्त्येथिर्नास्थिसञ्चयः । नचाश्रुपातः
पिण्डं वा कार्थ्यं श्राद्धादिकं क्वचित् । एतानि पतितानाञ्च
यः करोति विमोहितः । तप्तकृच्छ्रद्वयेनैव तस्य शुद्धिर्न-
चान्यथा” इति । दग्धुमशक्ये निरयवत्वात् परमात्मनि ।
“नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावक” इत्युपक्रम्य
“अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्यएव चेति” गोतायां
तस्यादाह्यत्वोक्तेस्तथात्वम् ।

अदिति स्त्री न दीयते खण्ड्यते वृहत्त्वात् दो--क्तिच् न० त० ।

दातुं छेत्तुं न योग्यायां पृथिव्याम् “चक्षुरदितावसनमिति”
ता० ब्रा० “अदितौ पृथिव्यामिति” भाष्यम् । वाचि
निरुक्त० । दितिर्दनुजमाता विरोधार्थे न० त० । तद्विरो-
धिन्यां देवमातरि “प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश ।
अदितिदितिर्दनुःकाला दनायुः सिंहिका तथा । क्रोधा
प्राधा च विश्वा च विनता कपिला मुनिः । कद्रुश्च
मनुजव्याघ्र! दक्षकन्यैव भारतेति” भारतम् आदिप० ।
एता एव कश्यपाय दक्षेण दत्ता यथोक्तं तत्रैव “दक्षस्त्व-
जायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः ब्रह्मणः पृथिवीपाल!
शान्तात्मा सुमहातपाः । वामादजायताङ्गुष्ठाद्भार्य्या तस्य
महात्मनः । तस्यां पञ्चाशतं कन्याः स एवाजनयत् प्रभुः ।
ददौ स दश धर्म्माय सप्तविंशतिमिन्दवे । दिव्येन
विधिना देव! कश्यपाय त्रयोदशेति” अदितिरदीना-
देवमातेति निरु० । तद्देवताके पुनर्वसुनक्षत्रे ।
अत्ति प्राणिजातम् अद--इतिच् । सर्वनाशके मृत्यौ,
पममेश्वरे च पु० । “स यद्यदेवासृजत तत्तदत्तुमध्रियत
सर्वं वा अत्तीति तददितेरदितित्वम्, सर्वस्यैतस्यात्ता भवति
सर्वमस्यान्नं भवति य एवमेतददितेरदितित्वं वेदे” ति
बृ० उ० दितिः खण्डनम् । तच्छून्ये अखण्डे ।
“क्षत्रियासि यज्ञियास्यदितिरसीति” यजु० “अदितिर-
खण्डितेति” वेददीपः ।

अदितिज पु० अदितेर्जायते जन--ड । देवे । “द्वादशैवादितेः

पुत्त्राः शक्रमुख्याः नराधिप! । तेषामवरजो विष्णुर्यत्र
लोकाः प्रतिष्ठिता इति” भारतम् द्वादश आदित्याः शक्रादयः
शक्रमुख्याश्च देवाश्चेत्यर्थः ।

अदितिनन्दन पु० ६ त० । देवे अदितिसुतादयोऽप्यत्र ।

अदीन त्रि० दी--क्त न० त० । अकातरे कातर्य्यरहिते ।

अदुष्ट त्रि० न० त० । स्मृत्युक्तदुरदृष्टसाधनतारूपदोषरहिते । “अदुष्टा

सन्तता धारा” इति स्मृतिः “दुष्टानि च दुष्टशब्दे वक्षयन्ते ।

अदूर न० न० त० । दूरत्वविरोधिसामीप्ये “अदूरे जगदम्बायाः

शारदीयो महोत्सव” इति पुरा० । तद्वति त्रि० ।
“परस्पराक्षिसादृश्यमदूरोञ्झितवर्त्मस्विति” रघुः ।

अदूषित त्रि० न० त० । दूषितभिन्ने स्मृत्युक्ते दोषानर्हे द्रव्य-

भेदे च । दूषितञ्च अस्पृश्यस्पर्शवत्त्वेन, पर्य्युषितत्वेन, विरस-
त्वेन, दोषजनकादृष्टविशेषहेतुत्वेन च स्मृत्यादौ दुष्टत्वेन
कीर्त्तितम् तस्यैव क्वचिद्विषये प्रतिप्रसवः स्मृतावुक्तस्तादृश-
पदार्थएवादूषितम् । दूषितविवरणं दुष्टशब्दे वक्ष्यते ।

अदृश् त्रि० नास्ति दृक् दृष्टिरस्य । अन्धे चक्षुरिन्द्रियशून्ये ।

न पश्यति दृश--कर्त्तरि क्विप् न० त० । अदर्शके त्रि० ।

अदृश्य त्रि० न० त० । दृश्यभिन्ने । न द्रष्टुमर्हति । दर्शना-

नर्हे, परमेश्वरे च । “यत्तददृश्यमविज्ञेयमग्राह्य-
मिति” श्रुतिः ।
पृष्ठ ०११६

अदृष्ट न० दृश--क्त न० त० । पुण्यापुण्यरूपे भाग्ये

इन्द्रियायोग्यत्वात् तस्यादृष्टत्वम् । अदृष्टसत्त्वे प्रमा-
णञ्च । “सापेक्षत्वादनादित्वात् वैचित्र्यात् विश्व-
वृत्तितः । प्रत्यात्मनियमात् भुक्तेरस्ति हेतुरलौकिक”
इति “चिरध्वस्तं फलायालं न कर्म्मातिशय विनेति” चेति
कुसु० । अस्याभिप्रायः । इह हि जगति उच्चावच
विचित्राः सुखदुःखानुभवरूपा भोगाः प्रत्यात्मवेदनीयाः, ते
च न नित्या उत्पत्तिविनाशशालित्वात् अतएव न सदातनाः
किन्तु कादाचित्का एव, सति च तेषां कादाचित्कत्वे
हेतुसापेक्षत्वमेव तथा हि विमता भोगव्यक्तयः हेतुसापेक्षाः
कादाचित्कत्वात् घटवत् । यद्यत् कादाचित्कं तत्तत् हेतु-
सापेक्षं यथा घटः भवन्ति च भोगव्यक्तयः कादाचित्काः
तस्मात् हेतुसापेक्षा इति पञ्चावयवन्यायेन भोगानां हेतु-
सापेक्षत्वसिद्धिः स च हेतुः न लौकिकप्रत्यक्षादिविषयः
कश्चित् सम्भवति तदन्वयव्यतिरेकाभावात् न च कालस्यैव
तद्धेतुत्वेनार्थान्तरापातः । कालस्य साधारणकारणतया
चिवित्रभोगं प्रत्यनियामकत्वात् अन्यथा कालस्यैकरूपतया
सर्बदा सर्वभोगप्रसङ्गः । एतेन तत्तत्कालत्वेन कारणता-
कल्पनेऽपि न निस्तारः तत्तत्कालव्यक्तीनां पुरुषमात्रसा-
धारण्येन प्रत्यात्मविचित्रभोगोपपादकत्वानुपपत्तेः । अतो
विचित्रभोगान्यथानुपपत्त्या तदाधायकमलौकिकं कारणं यत्
कल्पनीयं, तदेवादृष्टम् । एवमनुमानेन आगमप्रामाण्या-
नभ्युपगन्तॄन् प्रति अलौकिकादृष्टसाधनम् । आगमेन तु
तत्सिद्धिरेवमभियुक्तैरभ्युपेता “स्वर्गकामो यजेतेति”
वाक्ये समभिव्याहृतस्वर्गसाधनत्वं यागे विधिप्रत्ययेन
बोध्यते तच्च न सम्भवति, स्वर्गादेः कालान्तरभावितया
आशुविनाशिनो यागादेस्तदानीमसत्त्वेन कारणत्वासम्भवात्
अतो विधिबोधितं यागादेरिष्टसाधनत्व फलकालपर्य्यन्त-
स्थायिस्वजन्यव्यापारं विनानुपपन्नमित्यनुपपत्तिज्ञानेन द्वारी-
भूतमपूर्ब्बं कल्प्यते । तदमिप्रायेणैव चिरध्वस्तमित्याद्युक्तम् ।
अतएव “पौरुषं दैवसम्पत्त्या काले फलति पार्थिव! ।
त्रयमेतन्मनुष्यस्य पिण्डितं स्यात् फलावहमिति”
शास्त्रान्तरे कार्य्यजननसामग्र्यां दैवपदाभिधेयापूर्ब्बस्य
कीर्त्तनम् । तच्चादृष्टं द्विविधं पुण्यं पापञ्च विहिता-
नुष्ठानजन्यं पुण्यं, निषिद्धानुष्ठानजन्य पापम्,
तदुभयमपि त्रिविधं, प्रारब्धं फलदानोन्मुखं सञ्चित ञ्चेति ।
देहाद्यारम्भकमदृष्टं प्रारब्धं, बहूनामदृष्टानां चिरसञ्चितानां
मध्ये फलविपाकाय उन्मुखं फलदानोन्मुखं, तद्भिन्नं सञ्चि-
तम् । तत्र “ये समर्था जगत्यस्मिन् सृष्टिसंहारकारकाः ।
तेऽपि कालेन लीयन्ते इति” शास्त्रात् “कलनात् सर्वभूतानां
काल इत्यभिधीयते” इत्युक्तेश्च कालस्य सर्वनाशकत्वेऽपि
नादृष्टनाशकत्वम् “नाभुक्तं क्षीयते कर्म्म कल्पकोटिशतैरपीति”
शास्त्रान्तरात् किन्तु भोगादेव क्षयः । तथा पुण्यस्य कर्म्म-
नाशाजलस्पर्शादितोऽपि नाशः, पापस्य प्रायश्चित्ता-
दिना नाशः । प्रारब्धातिरिक्तपुण्यापुण्यकर्म्मणां तत्त्वज्ञानात्
नाशः । “ज्ञानाग्निः सर्वकर्म्माणि भस्मसात् कुरुतेऽर्जुनेति”
गीतादिशास्त्रात् । इदमदृष्टं वेदान्तिभिर्न्नानुमन्यते तैर्हि
कर्म्मणः सूक्ष्मावस्थापन्नसंस्कारविशेष एवादृष्टस्थानीयत-
याङ्गीक्रियते इति भेदः । तच्चानुशयशब्दे विस्तरतो वाच्यम् ।
तच्चादृष्टमात्मधर्म्म इति नैयायिका वैशेषिकादयश्चाभ्युप-
गच्छन्ति । वेदान्तिसाङ्ख्यपातञ्चलास्तु बुद्धिधर्म इति भेदः ।
तेषां मते हि कर्त्तृत्वस्य बुद्धिधर्म्मतया “शास्त्रदेशितं
फलमनुष्ठातरोति” न्यायांत् तत्रैवादृष्टोत्पत्तेरुचितत्वम् अन्य-
कृतकर्म्मणा अन्यस्यादृष्टोत्पत्तौ अतिप्रसङ्गात् “कृतहाना-
कृताभ्यागमप्रसङ्गश्चेति” सूत्रेण च तथैव प्रतिपादितत्वादधिक-
माकरे द्रष्टव्यम् । अस्य च अदृष्टशब्दवाच्यत्वे “प्रत्यक्ष-
मनिमित्तं विद्यमानोपलम्भनत्वादिति” जैमिनिसृत्रं
मानम् । तस्यायमभिप्रायः “नोदनालक्षणोऽर्थोधर्म्म”
इति धर्म्मे वेदैकसमधिगम्यत्वमुपक्षिप्तं तस्य द्रढीकर-
णार्थमिदं सूत्रं प्रवृत्तम् । “अनुष्ठानादूर्द्ध्वमुत्पद्यमानस्य
धर्म्मस्य पूर्ब्बमविद्यमानत्वात् न प्रत्यक्षयोग्यतास्ति उत्तर-
कालेऽपि रूपादिराहित्यान्नेन्द्रियैरवगम्यता । अतएवा-
दृष्टमिति सर्वैरभिधीयते” इति ऋ० भाष्यम् । सूत्रार्थस्तु
प्रत्यक्षं चक्षुरादि न तद्ग्रहणे निमित्तं तेषां विद्यमानो-
पलम्भहेतुत्वात् धर्म्मस्य च प्राक् अविद्यमानत्वात् । लिङ्ग-
राहित्याच्च नानुमानविषयत्वमप्यस्ति । सुखदुःखयोस्तद्गमक-
त्वेन लिङ्गत्वसम्भवेऽपि तयोर्लिङ्गत्वज्ञानमपि वेदैकगम्यं,
“कस्य कर्म्मणः? किं फल? मित्यध्यवसायस्य वेदैकसमधि-
गम्यत्वात् सुखदुःखाभ्यां सामान्येन धर्म्माधर्म्ममात्रानुमाने-
ऽपि तद्विशेषप्रतिपत्तौ वेदस्यैव साधनत्वादिति प्रतिज्ञातं
धर्म्मस्य नोदनामातप्रमाप्रकत्वं सुस्थितमिति । दृष्टभिन्ने
त्रि० “सर्वमदृष्टं शुचीति” स्मृत्यन्तरम् । “अदृष्टमप्यर्थ-
मदृष्टवैभवात् करोति सुप्तिर्जनदर्शनातिथिमिति” नैष० ।
अज्ञातमात्रे त्रि० । “अदृष्टविरहव्यथमिति” । हितो० ।
“अदृष्टमद्भिर्निर्णिक्तमिति” स्मृतिः “अदृष्टमुपघातशङ्काभि-
रज्ञातमिति” रघु० । अदृष्टहेतुके भयादौ च । दैवि-
काग्निभयादेरदृष्टसाध्यत्वाददृष्टत्वम् ।
पृष्ठ ०११७

अदृष्टपूर्व्व त्रि० न पूर्व्वं दृष्टः सह सुपेति स० परनि० ।

पूर्ब्बमदृष्टे । “अदृष्टपूर्व्वं हृषितोऽस्मि दृष्ट्वेति” गीता ।

अदृष्टि स्त्री विरुद्धा दृष्टिः विरोधार्थे अभावार्थे वा न० त० ।

क्रूरदृष्टौ, सरोषवक्रदृष्टौ, दर्शनाभावे च । ब० । दृष्टि-
शून्ये त्रि० ।

अदेय त्रि० न० त० । देयभिन्ने दानायोग्ये च । दानायोग्यञ्च

पुत्त्रादि--“स्वं कुटुम्बाविरोघेन देयं दारसुतादृते नान्वये
सति सर्वस्वं यच्चान्यस्मै प्रतिश्रुतमिति” याज्ञ० “अन्वा-
हितं याचितकमाधिः साधारणञ्च यत् । निक्षेपः
पुत्रदाराश्च सर्वस्वञ्चान्वये सति । आपत्खपि च कष्टासु
वर्त्तमानेन देहिना । अदेयान्याहुराचार्य्या यच्चान्यस्मै
प्रतिश्रुतम्” इत्येवं स्मृतिनिषिद्धदाने वस्तुनि “योऽदत्तं
प्रतिगृह्णाति यश्चादेयं प्रयच्छतीति” तदादानमपि स्मृतौ
निषिद्धम् । “मद्यमदेयमपेयमग्राह्यमिति” स्मृतिः ।

अदेवत्र त्रि० न देवान् त्रायते प्रीणाति अनेन त्रै--करणे क ।

देवप्रीणनासाधने अन्नादौ “अदेवत्रादराधस” श्रुतिः ।

अदेवमातृक पु० न० त० । देवमातृकदेशभिन्ने नदीवृष्ट्यम्बु

सम्पन्नव्रीहिपालितदेशे । “वितन्वति क्षेममदेवमातृका”
इति भार० ।

अदेवयु त्रि० न देव याति प्राप्नोति या--कु । देवाप्रापके । “अयज्वानमदेवयुमिति” ऋ० ५, ९, ११ ।

अदेश पु० न० त० । गर्हितदेशे अयोग्यदेशे च । “नादेशे तर्पणं

कुर्य्यात् न सन्ध्यां नापि पूजनमिति” स्मृतिः । “स्त्रियं
स्पृशेददेशेय” इति स्मृतिः । गर्हितदेशाश्च स्मृतौ दर्शिताः
केचित् संगृह्यन्ते । “चातुर्वर्ण्यव्यवस्था तु यस्मिन् देशे
न वर्त्तते । तं म्लेच्छदेशं जानीयादार्य्यावर्त्तं ततःपरम्”
इति विष्णु० । “आनर्त्तकाङ्गमगधाः सुराष्ट्राः दक्षिणापथः ।
तपा च सिन्धुः सौवीरा एते सङ्कीर्णयोनय इति” “पद्भ्यां स
कुरुते पापं यः कलिङ्गान् प्रपद्यते । ऋषयो निष्कृतिस्तस्य
प्राहुर्वैश्वानरं हविरिति” बौधा० । “अङ्गवङ्गकलिङ्गांश्च तीर्थ-
यात्रां विना व्रजन् । प्रायश्चित्तं प्रकुर्वीतेति” स्मृतिः ।
इष्टदेशेऽपि केचित् श्राद्धतर्पणादौ विशेषतोवर्ज्याः यथा
“रूक्षं कृमियुतं क्लिन्नं सङ्कीर्णानिष्टगन्धिकम् । देशं त्वनिष्ट-
शब्दञ्च वर्ज्जयेत् श्राद्धकर्म्मणीति” । “न म्लेच्छविषये श्राद्धं
कुर्य्यान्म्लेच्छेत्तुतं तथा नेष्टकाचरिते पितॄन् तर्पयेदिति”
शङ्खलिखितौ । “परकीयगृहे यस्तु पितॄन् संतर्पयेद्यदि ।
तद्भूमिस्वामिनस्तस्य हरन्ति षितरो बलादिति” एवमन्ये-
ऽपि गर्ह्यत्वयोजकाः स्मृत्याद्युक्ता वेदितव्याः । “अदेश-
काले यद्दानं--तद्दानं तामसं विदु” रिति सीता ।

अदैव न० दैवं वैश्वदेविकश्राद्धं तन्नास्ति यत्र । वैश्वदेविकश्राद्ध-

शून्ये नित्यश्राद्धे । तस्य पार्वणेतिकर्त्तव्यतया वैश्वदेव
श्राद्धप्राप्तौ “अदैविकन्तु तत् कार्य्यमिति” स्मृतौ पर्य्युदासा
न्नात्र वैश्वदैविकम् धिकं नित्यश्राद्धशब्दे वक्ष्यते । अदैविकम-
प्यत्र । दैवं भाग्यम् । तच्छून्ये, दुर्भाग्यवति च त्रि० ।

अदोष पु० दोषः स्मृत्युक्तदुरदृष्टसाधनत्वम् अभावार्थे न० त० ।

स्मृत्युक्तदुरदृष्तसाधनत्वदोषाभावे । न० ब० । दोषशून्ये त्रि० ।
अलङ्कारोक्तदोषशून्ययोः शब्दार्थयोः “तददोषौ शब्दार्थौ
सगुणावनलंकृती पुनः क्वापीति” काव्यप्र० । “अदोषं
गुणवत् काव्यमिति” सरस्वतीक० ।

अद्ग न० अद्यते देवैः अद--कर्म्मणि गन् । पुरोडाशे उज्ज्वलद० ।

अद्ध्वा अव्य० अत्यते अत् तं सन्ततं गमनं ज्ञानं वा दधाति

क्विप् । याथार्थ्ये, साक्षात्कारे, स्फुटे, अवधारणे, अतिशये
च । “अद्धा श्रियं पालितसङ्गारायेति” रघुः । “यस्य
स्यादद्धा न विचिकित्स्यास्तीति श्रुतिः । अयं स्वरादिः,
चादिश्च तेनोभयस्वरता । साक्षादादिषु पाठात् अद्धा-
कृत्येत्यादौ समासे ल्यप् ।

अद्भुत न० अततीत्यत् अव्ययमाकस्मिकार्थे तथा भाति भा--डु

तच् । आकस्मिके उल्कापातादौ, आलङ्कारिकप्रसिद्धे
नवरसान्तर्गतविस्मयस्थायिभावके रसभेदे यथोक्तम् “अद्भुतो
विस्मयस्थायिभावो गन्धर्व्वदैवतः ॥ पीतवर्णो वस्तु
लोकातिगमालम्बनं मतम् । गुणानां तस्य महिमा
भवेदुद्दीपनं पुनः ॥ स्तम्मः स्वेदोऽथ रोमाञ्चगद्गदस्वरस-
म्भ्रमाः । तथा नेत्रविकासाद्या अनुभावाः प्रकीर्त्तिताः ॥
वितर्कावेगसम्भान्तिहर्षाद्या व्यभिचारिणः इति” । यथा
“दोर्द्दण्डाञ्चितचन्द्रशेखरधनुर्द्दण्डावभङ्गोद्यतष्टङ्कारध्वनिरा-
र्य्यबालचरितप्रस्तावनाडिण्डिमः । द्राक्पर्य्यस्तकपालसंपुट-
मिलद्ब्रह्माण्डभाण्डोदरम्राम्यत्पिण्डितचण्डिमा
कथमहो? नाद्यापि विश्राम्यति” इति ॥ तद्वति त्रि० ।
“कम्पाद्यद्भुतसप्ताहे इति” ज्योति० । अद्भुतस्वरूपविभा-
गादि “प्रकृतिविरुद्धमद्भुतवचनन् प्रकृतिविरुद्धमद्भुतमापदः
प्राक् प्रबोधाय देवाः सृजन्तीति” ज्योतिषतत्त्वे आर्थवण
वाक्ये । “आपज्ज्ञानाय भूम्यादीनां पूर्ब्बं स्वभावप्रच्यावः
देवकर्त्तृकोऽद्भुत” इति रघु० । तेषां त्रैविध्यादि अग्न्युत्पात
शब्दे उक्तम् । “उदयति स्म तदद्भुतमालिभिरिति”
नैष० । “तममद्भुतं बालकमम्बुजेक्षणमिति” भाग० ।

अद्भुतस्वन पु० अद्भुतः स्वनो यस्य ब० । महादेवे । कर्म्म० ।

आश्चर्य्यशब्दे । ब० । तथा भूतशब्दवति त्रि० ।
पृष्ठ ०११८

अद्मनि पु० अत्ति सर्वान् अद--मनिन् । अग्नौ ।

अद्मर त्रि० अद--कर्त्तरि क्मरच् । भक्षणशीले ।

अद्य अव्य० अस्मिन्नहनि इदम्शब्दस्य निपातः सप्तम्यर्थे ।

अस्मिन् दिवसे । “कृष्ण! त्वदीयपदपङ्कजपिञ्जरान्ते
अद्यैव मे विशतु मानसराजहंस इत्युद्भटः । अद्यत्वे
इत्यादिभाष्यप्रयोगात् तद्वृत्तावपि अस्य बोधकता ।
तेनाधारार्थत्वेऽपि अस्य समासान्तरवटकता “अद्यदिन
मारभ्य इति” “अद्यप्रभृत्यवनताङ्गोति” कुमारः । एवञ्च
वर्त्तमाने काले वर्त्तमानकालवृत्तौ च वृत्तिः “अद्यावधि
भवद्भ्यो भिन्नोऽहमिति” वेणी० ।

अद्यतन त्रि० अद्य भवः अद्य + ट्यु तुडागमश्च । अद्यभवे

वस्तुमात्रे । स्त्रियामद्यतनी । अद्यतनश्च अतीतो भविष्य-
च्चेति द्विधा । तत्र अद्यतनभूते लुङ् अपाक्षीत् । अद्यतन-
भविष्यति ऌट् । पक्ष्यति । अनद्यतनभूते तु लङ्--अपचत्
अनद्यतने भविष्यति लुट् पक्त्वा ।

अद्यत्व न० अद्य तद्वृत्तेर्भावः अद्य + त्व । एतद्दिन वसवृत्तित्वे वर्त्तमानत्वे ।

अद्यश्वीना स्त्री अद्य श्वः परदिने वा प्रसोष्यते अद्य--श्वस् + ख

टिलोपः । आसन्नप्रसवायां प्रौढगव्र्भिण्याम् । “अद्य-
श्वीनावष्टब्धे” इति पा० ।

अद्रव पु० अभावार्थे न० त० । द्रवाभावे । न० ब० । द्रव-

शून्ये त्रि० “अद्रवं मूर्त्तिमत् स्वाङ्गं प्राणिस्थमविकारज-
मिति” महाभाष्य० ।

अद्रव्य न० अप्राशस्त्ये न० त० । अप्रशस्तद्रव्ये अयोग्यपदार्थे

“नाद्रव्ये निहिता काचित् क्रिया फलवती भवेदिति”

अद्रि पु० अद--क्रिन् । पर्व्वते, तदवयवे प्रस्तरे ग्रावणि ।

वृक्षे, सूर्य्ये, मेघे, परिमाणभेदे च तद्भेदश्च परिमाणशब्दे
वक्ष्यते तत्र ग्रावणि, अद्रिषुतः, मेघे “अद्रिमाता, पर्वते,
दुहितरमनुकम्प्यामद्रिरादाय दोर्भ्यामिति” कुमा० ।

अद्रिकर्ण्णी स्त्री अद्रिः अद्रिनामिका गिरिर्बालमूषिका

तस्याः कर्णः कर्ण्णतुल्यं पुष्पान्तःस्थं पत्रं यस्याः गौरादि-
त्वात् ङीष् । बालमूषिकाकर्ण्णतुल्यपुष्पाभ्यन्तरपत्रायां
अपराजितायाम् ।

अद्रिकीला स्त्री अद्रयः कुलाचलाः पर्वताः कीलाः शङ्कव

इव यस्याः ब० । पृथिव्याम् । अद्रेः सुमेरोः कोल इव
वा । विष्कुम्भपर्व्वते पु० । तद्विवरणं अचलकीलाशब्दे
दृश्यम् ।

अद्रिज न० अद्रौ जायते जन--ड ७ त० । (शिलाजतु) इति

स्वनामप्रसिद्धे गन्धद्रव्ये । (गेरि) इति प्रसिद्धे उपधाता-
विति केचित् । पार्व्वत्यां स्त्री । पर्व्वतभवमात्रे त्रि० ।
सैंहलीवृक्षे स्त्री राजनि० । अद्रिजातादयोऽप्युक्तार्थेषु
पर्वतजाते दवानले, सूर्य्यजे हंसे, रूपे आत्मनि च पु० ।

अद्रितनया स्त्री ६ त० । पार्व्वत्यां तद्विवृतिः अचलकन्या

शब्दे द्रष्टव्या अद्रिसुतादयोऽप्यत्र । “अद्रिसुतासमाग-
मोत्क” इति कुमा० ।

अद्रिद्विष् पु० अद्रिभ्यः द्वेष्टि द्विष--क्विप् । इन्द्रे । तस्य

तद्द्वेष्टृत्रं गोत्रभिच्छब्दे दृश्यम् ।

अद्रिदुग्ध पु० अद्रिभिर्ग्रावभिर्दुग्धः अभिषुतः ३ त० । ग्रावाभि-

षुते सोमे, “तिरो रोम पवते अद्रिदुग्ध” इति ऋ० ।
९, ९७, ११, “अद्रिदुग्धः ग्रावाभिषुत” इति भा० ।

अद्रिद्रोणि स्त्री अद्रेर्द्रोणिरिव । पर्वतभवनद्याम् “अद्रि-

द्रोणीरनपसारमार्गा” इति दश० ।

अद्रिपति पु० ६ त० । हिमाचले तद्विवरणम् अचलराजशब्द ।

अद्रिबर्हस् त्रि० अद्रेर्बर्ह इव बर्होऽस्य । अद्रिसारे

अतिकठिने “पीदूषं द्यौरदितिरद्रिवर्हा” इति
ऋ० १०, ६३, ३ ।

अद्रिबुध्न पु० उपमा० ब० । अतिकठिने । “अयं निधिः

सरमे अद्रिबुध्न इति” ऋ० १०, १०८, ७, ।

अद्रिभिद् पु० अद्रिं भिनत्ति भिद--क्विप् ६ त० । इन्द्रे ।

गोत्रभिच्छब्दे तद्भेदेन विवरणम् ।

अद्रिभू स्त्री अद्रावपि भवति भू--क्किप् ७ त० । अपराजिता

लतायाम् तस्याः पर्वतेऽप्यतिकठोरभूमिके जायमानत्वा-
त्तथात्वम् । पार्वत्यां स्त्री । पर्वतजातमात्रे त्रि० ।

अद्रिमातृ पु० अद्रिर्मेघस्तज्जलं मिमीते मा--तृच् । मेघजलनि-

र्म्मातरि ‘स्वर्वित् कोशं दिवो अद्रिमातरमिति’ ऋ० ९, ८६, ३ ।

अद्रिराज पु० अद्रीणां राजा टच्समा० । हिमाचले ।

अद्रिषु राजतेक्विप् अद्रिराड़पि अत्रैव पु० । विवण-
मचलराजशब्दे ।

अद्रिषुत पु० अद्रिभिः ग्रावभिः सुतः अभिषुतः ३ त० षत्वम् ।

ग्रावाभिषुते सोमे । “नृधूतो अद्रिषुतोवर्हिषीति” ऋ०
९, ७२, ४ अद्रिषुतः ग्रावभिरभिषुत इति भाष्यम् ।

अद्रिसहत पु० अद्रिभिः संहतम् अभिषुतम् । ग्रावाभिषुते

सोमे “स्वसारो अद्रिसंहताविति” ऋ० ९, ९८, ६,
अद्रिरिव संहतः कठिनः । अतिकठिने त्रि० ।

अद्रिसार पु० अद्रेः सार इव । लौहे । अद्रेरिव सारोऽस्य

अतिकठिने त्रि० ।

अद्रिसारमय त्रि० अद्रिसारात्मकः । अत्यन्तकठिने ।

पृष्ठ ०११९

अद्रीश पु० अद्रीणाम् अद्रेर्वा ईशः ६ त० । हिमाचले, शिवे च ।

अद्रुह्वन् त्रि० द्रुह--क्वनिप् न० त० । द्रोहाकर्त्तरि--“ता

वां सम्यगद्रुह्वाणेषमिति” ऋ० ५, ७०, २, “हे अद्रुह्वाणा
अद्रोग्धाराविति” भाष्यम् ।

अद्रोघ त्रि० द्रुह--घञ् वेदे घत्वम् न० ब० । द्रोहरहिते “त्वं

देहि सहस्रिणं रयिं नोऽद्रोघेणेति” ऋ० ३, ३२, ६, “अद्रो
षेण द्रोहरहितेनेति” भा० । न० त० । द्रोहाभावे पु० ।

अद्रोघावित त्रि० अद्रोघः अवितो येन । अद्रोहरक्षके ।

“कृणुत धूमं वृषण सखायोऽद्रोघाविता” इति वेदः ।

अद्रोह पु० अभावार्थे न० त० । द्रोहाभावे “अद्रोहोनाभि-

मानितेति” “अद्रोहः सर्वभूतानामिति” च पुरा० ।

अद्वय न० न द्वयम् । द्वित्वाभावे । नास्ति द्वयं द्वित्वं तज्ज्ञानं

वा यस्य । सर्वात्मतया आत्मज्ञे ब्रह्मात्मैक्यज्ञे, अभेदे च ।
“अर्थतोऽप्यद्वयानन्दमतीतद्वैतभानत” इति वे० सा० । ब्रह्मा-
द्वयं पश्यत इति अद्वयं विज्ञानाभेदः पदार्थानामस्त्यस्य
वादकत्वेन अस्त्यर्थे अच् । बौद्धभेदे ते हि “सहोपाल-
म्भनियमादभेदो नीलतद्धियोरित्यनेन” पदार्थानां संविद-
भिन्नत्वं वदन्ति विवरणं बौद्धशब्दे दृश्यम् ।

अद्वयवादिन् पु० अद्वयं वदति सर्व्वमेव वस्तु चित्खंरूपं

नान्यदतो द्वितीयमस्तीति वदतीति वद--णिनि । अद्वैत-
वादिनि वैदान्तिके, वाह्यर्थाभावेन ज्ञानात्मकं सर्वं वस्तु
स्वीकुर्वति बौद्धे च ।

अद्वयस् त्रि० नास्ति द्वयं द्वित्वमस्य ब० यीगविभागात्

असिच् समा० । द्वित्वरहिते । “सखा सुशेवो अद्वया इति”
ऋ० १, १८७, ३, “अद्वया द्वयरहित” इति भाष्यम् ।

अद्वयानन्द पु० नास्ति द्वयं द्वित्वं भेदः तज्ज्ञानं वा

यस्य यत्र वा तादृश आनन्दः । ब्रह्मरूपानन्दे अद्वैता-
नन्दे । “अर्थतोऽप्यद्वयानन्दमतीतद्वैतभावत इति” वे० सा० ।

अद्वयाविन् त्रि० अद्वयमस्त्यर्थे विनि छन्दसि दीर्घः

देवपितृयानरूपमार्गद्वयरहिते । “पुत्रस्य पाथः
पदमद्वयाविन” इति ऋ० १, ४ १५९, ३, अद्वयाविनः मार्ग-
द्वयरहितस्येति भाष्यम् ।

अद्वयु त्रि० द्वयं द्विप्रकारोऽस्त्यस्य बा० उ न० त० । द्वि-

प्रकाररूपकापट्यशून्ये अन्तर्वाह्यैकरूपे “उप द्वयुञ्चाद्वयुञ्च
वसव इति” ऋ० ८, १८, १५ ।

अद्वार न० निन्दितं द्वारम् । प्रवेशानर्हे गुप्तद्वारे “अद्वारेण

प्रवेशनमिति” “अद्वारेण न चातीयाद्ग्रामं वा वेश्म
वा पुरमिति” च पुरा० । नास्ति द्वारमस्य ब० ।
प्रवेशायोग्ये दुष्प्रवेशे, अगम्ये अनुपाये च त्रि० ।

अद्वितीय त्रि० द्विधा इतं भेदं गतम् द्वीतम् तस्य भावः द्वैतं

तन्नास्ति यस्य ब० । सजातीयादिभेदशून्ये केवले परमा-
त्मनि । वस्त्वद्वितीयमिति मा० “एकमेवाद्वितीयं ब्रह्मेति”
श्रुतिः । “अत्र एकम्, एव, अद्वितीयमिति” पदत्रयेण
ब्रह्मणि भेदत्रयराहित्यमुक्तम् । तथाहि भेदस्तावत् त्रिधा
स्वगतभेदः सजातीयभेदः विजातीयभेदश्चेति । वृक्षादीनां
स्वावयवशाखादिभ्यो भेदः स्वगतभेदः, घटात् घटान्तरस्य
भेदः सजातीयभेदः, घटस्य पटादितो भेदः विजातीयभेदः ।
ब्रह्मणश्च “तदनन्यत्वमारम्भणशब्दादिभ्य” इति सूत्रेण
स्वकार्य्यात् घटादितोऽनन्यत्वात् न स्वगतभेदः । घटादेर्व्यव-
हारिकसत्त्ववत्त्वेन पारमार्थिकसत्त्ववतो ब्रह्मणः विजातीय-
त्वेऽपि ततोऽभेदएव तद्भिन्नस्याभावात् “सर्वं खल्विदं
ब्रह्मेति” श्रुत्यन्तरात् तत्सजातीयवस्त्वन्तराभावादेव तद्भेदः
सिद्धएवेत्यादिकमाकरे दृश्यम् । द्वितीयशून्ये, असहचरे त्रि० ।

अद्विषेण्य त्रि० द्वेष्टुं शीलमस्य, द्विष--एण्यन्--किच्च न० त० ।

प्रियरूपे, “मयोभुरद्विषेण्यः सखेति” ऋ० १, १८७, ३,
अद्वेषिण्यः अद्वेष्यरसः प्रियरस इति भाष्यम् ।

अद्वेष पु० न द्वेषः अभावार्थे न० त० । द्वेषाभावे । ब० ।

द्वेषरहिते त्रि० । “अद्वेषो हस्तयोर्दधे” इति ऋ० १,
२४, ४, “अद्वेषः द्वेषरहितः नास्ति द्वेषोऽस्येति” भाष्यम् ।
एतेन अद्वेषःशब्दे एतन्मन्त्रस्योदाहरणत्वेनोपन्यासः
केषाञ्चित् भाष्यादर्शनमूलकः ।

अद्वेषस् त्रि० द्विष--असुन् न० त० । द्वेषानाश्रये द्वेषाकर्त्तरि

“अद्वेषो मरुतो गातुमेतनेति” ऋ०, ५, ८७, ८, “अद्वेषः
अद्वेषस” इति भाष्यम् ।

अद्वैत न० द्विधा इतम् द्वीतं तस्य भावः द्वैतं भेदः अभावार्थे

न० त० । अभेदे, “अद्वैतं सुखदुःखयोरनुगुणं सर्व्वास्वव-
स्थासु यदिति” उत्तरचरितम् । नास्ति द्वैतं भेदो यत्र ।
भेदरहिते त्रि० ब्रह्मणि न० । “अद्वैततत्त्व इव सत्य-
तरेऽपि लोक” इति नैषधम् ।

अद्वैतसिद्धि पु० अद्वैतस्य जगतो ब्रह्माभेदस्य सिद्धिरत्र ।

स्वनामख्याते वेदान्तप्रकरणभेदे ६ त० । तत्सिद्धौ स्त्री ।

अध अव्य० अथ वेदे “सुपांसुलुगित्यादिना” वर्णव्यत्ययः ।

अथशब्दार्थे “अधा निबद्ध उत्तर” इति ऋ० ४, १८, ९, अधा
“अथानन्तरमिति” भा० । अधापीषस्य पोषेणेति य०
१२, ८, अधेति अव्ययम् अथार्थे “निपातस्य चेति” पा०
दीर्ष इति वेददीपः ।
पृष्ठ ०१२०

अधःकाय पु० अधः अधरं कायस्य एकदेशिस० । नाभेरधः-

प्रदेशे नेत्यनुवृत्तौ “केशान्नीविमधःकायं संस्पृशन् धरणीम-
पीति” स्मृतिः । “अधःकायं नीवेरधःप्रदेशमिति” रघु० ।

अधःकार पु० अधरमित्यर्थे अधः तस्य कारः । न्यूनीकरणे,

तिरस्कारे, अधरीकरणे च ।

अधःक्षिप्त त्रि० अधोमुखेन क्षिप्तम् क्षिप--क्त शाक० त० ।

अधोमुखतया स्थापिते न्यञ्चिते न्युब्जीकृते, ऽधस्तान्निहिते च ।

अधःपुष्पी स्त्री अधोमुखं पुष्पं यस्याः (अनन्तमूल) गोजि-

ह्वायाम् अवाक्पुष्प्याम् (भाटुइ) इति ख्याते वृक्षे इत्यन्ये ।

अधः(धश्श)शय्या स्त्री अधोवर्त्तिनी शय्या वा सत्वम् । खट्वा-

वर्जनेन भूमिशय्यायाम् “अग्नीन्धनं ब्रह्मचर्य्यमधःशय्यां
गुरोर्हितम् । आ समावर्त्तनात् कुर्य्यादिति” मनु० ।

अधन त्रि० नास्ति धनमस्य । धनहीने दरिद्रे स्वातन्त्र्यरहिते

च । “अधनो हि धनं लब्ब्धा तृणवत् मन्यते जगदिति”
नीति० । “भार्य्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः ।
यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनमिति” मनुः ।
“स्वातन्त्र्यराहित्यपरमिति” दायभागः ।

अधम त्रि० अव--अम--धादेशः । कुत्सिते, हीने च । “सर्वत्र

त्रिविधा भेदा उत्तमाधममध्यमा” इति । “अधमसमवरिष्ठा
न्यर्ककेन्द्रादिसंस्थे शशिनि विनयवित्तज्ञानधीनैपुणाना-
मिति” ज्योतिषोक्ते नॄणां वित्तज्ञानादिषु अधमत्वसूचके
रविचन्द्रयोः स्थितिविशेषरूपे योगभेदे ।

अधमभृतक पु० कर्म्म० । “उत्तमस्त्वायुधीयोऽत्र मध्यमस्तु

कृषीवलः । अधमो भारवाही स्यादित्येवं त्रिविधो भृत
इति” स्मृत्युक्ते, पञ्चविधशुश्रूषकमध्ये भृतकर्भेदे ।

अधमर्ण त्रि० ऋणं अवश्यदेयम् तत् अधमं शोध्यं यस्य ब० ।

अवश्यदेयर्णशोधके (खातक) इति प्रसिद्धे ऋणग्रहीतरि ।

अधमर्णिक त्रि० अधममृणमवश्यदेयं दातृत्वेनास्त्यस्य ठन् ।

अधमर्णशब्दार्थे । “ग्रहीता च क्रमाद्दाप्यो धनिनामधम-
र्णिक” इति याज्ञ० “यैर्यैरुपायैरर्थं स्वं प्राप्नुयादुत्तम-
र्णिकः । तैस्तैरुपायैः संगृह्य दापयेदधमर्णिकमिति” मनुः ।
अस्त्यर्थे इनि । अधमर्णीत्यप्यत्रैव त्रि० स्त्रियां ङीप् ।

अधमाङ्ग न० अधमम् अङ्गम् कर्म्म० । चरणे । तस्य सर्व्वा-

ङ्गापेक्षया अधरस्थत्वात् अधमत्वम् ।

अधमार्द्ध न० अधममर्द्धम् । नाभेरधोभागे । ततः भवादौ

यत् । अधर्माद्ध्यम् तद्भवादौ, तत्सम्बन्धिनि च त्रि० ।

अधर पु० न ध्रियते धृङ--अच् न० त० । (ठोट) इति ख्याते

ऊर्द्ध्व, नीचे वा ओष्ठे । “पिबसि रतिसर्वस्वमधरमिति”
शकु० । “निर्मृष्टरागोऽधर” इति सा० दर्प० । “उमा-
मुहे विम्बफलाधोरोष्ठे” इति कुमा० । “अधरं
खलु विम्बनामकं फलमाभ्यामिति भव्यमन्वयम् ।
लभतेऽधरविम्बैत्यदः पदमस्या रदनच्छदे वददिति” नैष० ।
धरणं धरः ब० । तत्सम्बन्धरहिते हीने, ५ ब० । तले
नीचे च स्मरमन्दिरे स्त्रीचिह्नभेदे पु० न० । हीनवादिनि
त्रि० । अघं सर्वनामकार्य्यभाक् । तत्रायं विशेषः
पूर्व्वपरावरदक्षिणोत्तरापराघराणि व्यवस्थायामसंज्ञाया-
मिति (पा० ग०) । इत्युक्तेः व्यवस्थायामेवास्य सर्वनामता-
व्यवस्था च स्वाभिधेयापेक्षोऽवधिनियमः । अवधित्वञ्च दैशिकं
कालिकञ्च तत्र “पूर्ब्बापरादिशब्द्सानां केषाञ्चित् प्रविभागतः ।
सामान्येनाभिवानेऽपि प्रवृत्तिर्देशकालयोरित्य” भियुक्तोक्तेः
केषाञ्चिदेव उभयावधित्वनियमः न सर्वेषाम्, तथाहि पूर्ब्बा-
परावरपरोत्तरशब्दा मुख्यवृत्त्या दिक्कालयोर्वर्त्तन्ते
तदवच्छिन्नदेशग्रामादौ च । तत्र पूर्ब्बस्यं दिशि वसति, पूर्ब्ब-
स्यादिश आगतः पूर्बदिक्सम्बन्धात् पूर्ब्बा वापी । एवं
पूर्ब्बस्मिन् मासे वसति पूर्व्वस्मात् मासान्निवृत्तः । तत्काल-
सम्बन्धात् पूर्ब्बो गुरुः पूर्ब्बस्मिन् गुरोरागतः पूर्ब्बस्मात्
प्रासादादागत इत्यादि । एवम् अपरावरपरशब्दत्रयस्यापि
“ते च विनापि दिक्कालसम्बन्धं देशवृत्तिमन्तः इति भेदः ।
अपरदेशसम्बन्धादपरो ग्रामः अवरो वा । अपरस्मिन्
अवरस्मिन् वा पर्व्वते वसति । सन्निकर्षे विप्रकर्षे च सर्व्वासु
दिक्षु तुल्योऽयं व्यपदेशः । न तु ते दिग्गतसम्बन्धेन तत्तदर्थ
बोधकाः एकस्यामेव दिशि स्थितयोर्निकटानिकटयोः
परावरादिव्यपदेशप्रवृत्तेः । एतच्छब्दापेक्षया मुख्यवृत्त्या
वक्ष्यमाणकारिकायां देशग्रहणम् सार्थकं अन्यस्य तु
स्वतो देशवृत्तित्वम् । सन्निकर्षासन्निकर्षयोर्देशवत् कालो-
ऽप्याश्रयः । तेन परः अपरः अवरो वा कालः ।
अतएव परकालसम्बन्धात् परःपाणिनिः अपरकाल-
संबन्धादपरः कैयटादिरिति । दक्षिणाधरशब्दौ तु दिशि
दिगवच्छिन्ने पर्वतादौ च वर्त्तेते न तु काले, नापि
कालावच्छिन्ने इति भेदः । दक्षिणस्यां वसति, दक्षिणे
पर्वते वा वसति, अवरस्यां दिशि वसति अधरदिक्सम्ब-
न्धात् अधरप्रासादे वा वसति इति । तेन “स्वस्त्वज्ञातिधने-
ऽनाम्नि कालदिग्देशवृत्तयः । पूर्ब्बापरावरधरापराश्च
दक्षिणोत्तरौ” इति गणरत्ने सर्वेषां कालादिवृत्तित्वोक्तावपि
दक्षिणाधरयोस्तु न कालवृत्तित्वमिति तेनैव स्वकृतव्याख्यान-
रूपे गणरत्नमहोदधौ स्थिरीकृतम् । दक्षिणस्यां दिशि
पृष्ठ ०१२१
स्त्री० दक्षिणदिशश्च भूगोले यथाधरत्वं तथा उदक्शब्दे
वक्ष्यते । सर्वनाम्नां वृत्तौ पुंवद्भावात् अधरस्यां भवः
अधरतन इत्यादि अधरस्यां वर्त्तते अधरवृत्तिः अधरा अधरस्याः
अधरस्यामित्यर्थे अधरत इत्यादि ।

अधरतस् अव्य० अधर--तसिल् । प्रथमापञ्चमीसप्तम्यर्थवृत्तौ अधोभागे इत्यर्थे ।

अधरत्तात् अव्य० अधर + अस्ताति पृ० । अधरत इत्यर्थे ।

“पुरस्तात् सवितोत्तरत्तादधरत्तादिति” ऋ० १०, ३६, १४,

अधरमधु न० अधरस्य मध्विव आस्वादातिशयात् ।

अधररसे ।

अधरस्तात् अव्य० अधर + सप्तप्याद्यर्थे अस्ताति । अधरतैत्यर्थे

अधराच् त्रि० अधरां दक्षिणां दिशमञ्चति क्विप् । दक्षिण

दिग्गन्तरि । “प्राङ् वा उदङ् वाऽधराङ् वा प्रध्मायीताभि-
नद्धाक्ष इति छा० उ० । स्त्रियामधराचीति । सा च
दक्षिणस्यां दिशि च ।

अधराचीन त्रि० अधराचि भवः अधराच् + ख । अधःप्रदेश-

भवे । “अधराचीनमकृणोदपामप” इति ऋ० २, १७, ५,

अधराच्य त्रि० अधरच्यां भवः यत् । दक्षिणदिग्भवे

अधोदिग्भवे च । “अरसं प्राच्यं विषमरसं यदुदीच्यम्
अथैकमधराच्यमिति” वेदः ।

अधरात् अव्य० अधर + अस्त्यर्थे आति । अधरतैत्य-

स्यार्थे । “पश्चादोत्तरादधरादापुरस्तादिति” ऋ० ६, ९, ९,
अधरात् दक्षिणत इत्यर्थः ।

अधरीण त्रि० अधरे भवः अधर + ख । अधरभवे ।

अधरेण अव्य० अधरस्मिन् देशे, दिशि वा अधर +

एनप् । प्रथमासप्तमीवृत्तौ आसन्ने नीचे देशादौ, सन्नि-
कृष्टदक्षिणदिशि च ।

अधरेद्युस् अव्य० अधरे दिने अधर + एद्युस् । कालवृत्तित्वमुपचारात् । अधरदिवसे ।

अधरोत्तर न० अधरञ्च उत्तरञ्च समा० द्व० । न्यूनाधिक्यवति

निम्नोन्नते । “अद्यात् काकः पुरोडाशंश्वावलिह्याद्धविस्तथा
स्वाम्यं च न स्यात् कस्मिंश्चित् प्रवर्त्तेतावरोत्तर-
मिति” मनुः ।

अधर्म्म पु० ध्रियतेऽनेन धृ--मनिन् विरोधे न० त० । धर्म्मवि-

रोधिनि वेदादिनिषिद्धकर्म्मजन्ये पापे, तद्धेतुभूतप्राणिहिं-
सादौ च । “नोदनालक्षणोऽर्थोधर्म” इति सूत्रकारेण
निषेधलक्षणोऽनर्थोऽधर्म इति तल्लक्षणं सूचितम् तत्र
वेदप्रतिपाद्योऽर्थोघर्म्मः, तन्निषेधप्रतिपाद्योऽनर्थः अधर्मः ।
स च निषिद्धकर्म्माधीनः पापनामा अदृष्टभेदः । अनर्थश्च
अनिष्टसाधनम् । तत्सत्त्वयुक्तिस्तु “विहितस्याननुष्ठाना-
न्निन्दितस्य च सेवनात् अनिग्रहाच्चेन्द्रियाणाम् नरः
पतनमृच्छतीति” । “शरीरजैः कर्मदोषैर्याति स्था
चरतां नर” इत्यादिना शास्त्रेण कर्मणामाशुविनाशिनां
कालान्तरभाविनरकादिजन्मविशेषान् प्रति हेतुत्वोक्तावपि
तथात्वं मध्यस्थद्वारीभूतमदृष्टं विना न सम्भवतीति तत्
कल्प्यते अतः “चिरध्वस्तं फलायालमित्यादिना” अदृष्ट-
शब्दे दर्शितयुक्तेश्च पापसत्त्वसाधनम् । “अधर्मेणधते
तावत् ततो भद्राणि पश्यति । ततः सपत्नान् जयति
समूलस्तु विनश्यतीति” मनुः । “अभ्युत्थानमधर्मस्य तदात्मानं
सृजाम्यहमिति” गीता । अधर्म्मभेदात्गतिविशेषोक्ते-
श्चाधर्मसत्त्वम् यथा
“कर्म्मभिर्नियतैर्बद्धो जन्तुर्दुःखान्युपाश्नुते । येन येन तु
भावेन कर्म्मणा पुरुषो गतिम् । प्रयाति परुषां घोरां तत्ते
वक्ष्याम्यतः परम् । अधीत्य चतुरो वेदान् द्विजो
मोहसमन्वितः । पतितात् प्रतिगृह्याथ खरयोनौ प्रजायते ।
खरो जीवति वर्षाणि दश पञ्च च भारत! । खरो मृतो
बलीवर्द्दः सप्त वर्षाणि जीवति । बलीवर्द्दो मृतश्चापि जायते
ब्रह्मराक्षसः । ब्रह्मरक्षश्च मासांस्त्रींस्ततो जायेत ब्राह्मणः ।
पतितं याजयित्वा तु कृमियोनौ प्रजायते । तत्र जीवति
वर्षाणि दश पञ्च च भारत! । कृमिभावाद्विमुक्तस्तु ततो
जायेत गर्द्दभः । गर्द्दभः पञ्च वर्षाणि पञ्च वर्षाणि
शूकरः । कुक्कुटः पञ्च वर्षाणि पञ्च वर्षाणि जम्बुकः ।
श्वा वर्षमेकं भवति ततो जायेत मानवः । उपाध्यायस्य
यः पापं शिष्यः कुर्य्यादबुद्धिमान् । स जीव इह संसारां-
स्त्रीनाप्नोति न संशयः । प्राक् श्वा भवति राजेन्द्र! ततः
क्रव्यात्ततः खरः । ततः प्रेतः परिक्लिष्टः पश्चाज्जायेत
ब्राह्मणः । मनसाऽपि गुरोर्भार्य्यां यः शिष्यो याति
पापकृत् । स उग्रान् प्रैति संसारानधर्म्मेणेह चेतसा ।
श्वयोनौ तु स सम्भूतस्त्रीणि वर्षाणि जीवति । तत्रापि
निधनं प्राप्तः कृमियोनौ प्रजायते । कृमिभावमनुप्राप्तो
वर्षमेकन्तु जीवति । ततस्तु निधनं प्राप्तो ब्रह्मयोनौ
प्रजायते । यदि पुत्त्रसमं शिष्यं गुरुर्हन्यादकारणे ।
आत्मनः कामकारेण सोऽपि हिंस्रः प्रजायते । पितरं
मातरञ्चैव यस्तु पुत्त्रोऽवमन्यते । सोऽपि राजन्! मृतो
जन्तुः पूर्ब्बं जायेत गर्दभः । गर्द्दभत्वन्तु सम्प्राप्य दश वर्षाणि
जीवति । संवत्सरन्तु कुम्मीरस्ततो जायेत मानवः । पुत्त्रस्य
मातापितरौ यस्य रुष्टावुभावपि । गुर्व्वपध्यानतः सोऽपि
मृतो जायेत गर्दभः । खरो जीवति मासांस्तु दश श्वा
पृष्ठ ०१२२
च चतुर्दश । विडालः सप्त मासांस्तु ततो जायेत मानवः ।
मातापितरावाक्रुश्य सारिकः सम्प्रजायते । ताड़यित्वा तु
तावेय जायते कच्छपो नृप! । कच्छपो दशवर्षाणि त्रीणि
वर्वाणि शल्लकः । व्यालो भत्वा च षण्मासांस्ततो जायेत
मानुषः । भर्तृपिण्डमुपाश्नन् यो राजद्विष्टानि सेवते ।
सोऽपि मोहसमापन्नो मृतो जायेत वानरः । वानरो
दश वर्षाणि पञ्च वर्षाणि मूषिकः । श्वाऽथ भूत्वाऽथ
षण्मासांस्ततो जायेत मानुषः । न्यासापहर्त्ता तु नरो
यमस्य विषयं गतः । संसाराणां शतं गत्वा कृमियोनौ
प्रजायते । तत्र जीवति वर्षाणि दश पञ्च च भारत! ।
दुष्कृतस्य क्षयं कृत्वा ततो जायेत मानुषः । असूयको
नरश्चापि मृतो जायेत शार्ङ्गकः । विश्वासहर्त्ता च नरो
मीनो जायेत दुर्म्मतिः । भूत्वा मीनोऽष्ट वर्षाणि मृगो
जायेत भारत । मृगस्तु चतुरो मासांस्ततश्छागः प्रजा-
यते । छागस्तु निधनं प्राप्य पूर्णे संवत्सरे ततः । कीटः
प्रजायते जन्तुस्ततो जायेत मानुषः । धान्यान् यवांस्तिलान्
माषान् कुलत्थान् सर्षपांश्चणान् । कलायानथ मुद्गांश्च गोधू
मानतसीस्तथा । शस्यस्यान्यस्य हर्त्ता च मोहाज्जन्तुरचे-
तनः । स जायते महाराज! मूषिको निरपत्रपः । तत्र
प्रेत्यमहाराज! मृगो जायेत शूकरः । शूकरो जातमात्रस्तु
रोगेण म्रियते नृप! । श्वा ततो जायते मृढः कर्म्मणा
तेन पार्थिव! । भूत्वा श्वा पञ्च वर्षाणि ततो जायेत
मानवः । परदाराभिमर्षन्तु कृत्वा जायेत वै वृकः । श्वा
शृगालस्ततो गृध्रो व्यालः कङ्को वकस्तथा । भ्रातुर्भार्य्यान्तु
पापात्मा यो धर्षयति मोहितः । पुंस्कोकिलत्वमाप्नोति
सोऽपि संवत्सरं नृप! । सखिभार्य्यां गुरोर्भार्य्यां
राजभार्य्यान्तथैव च । धर्षयित्वा तु कामाय मृतो जायेत
शूकरः । शूकरः पञ्च वर्षाणि दश वर्षाणि वे वृकः ।
विड़ालः पञ्च वर्षाणि दश वर्षाणि कुक्कुटः । पिपीलकस्तु
मासांस्त्रीन् कीटः स्यान्मासमेव तु । एतानासाद्य
ससारान् कृमियोनौ प्रजायते । तत्र जीवति मासांस्तु
कृमियोनौ चतुर्द्दश । ततोऽधर्म्मक्षयं कृत्वा पुनर्ज्जा
मानवः । उपस्थिते विवाहे तु यज्ञे दानेऽथवा विभो! ।
मोहात्करोति यो विघ्न स मृतो जायते कृमिः ।
कृमिर्ज्जीवति वर्षाणि दश पञ्च च भारत! । अधर्मस्य क्षयं
कृत्वा ततो जायेत मानवः । पूर्ब्बं दत्त्वा तु यः कन्यां
द्विनीये दातुमिच्छति । सोऽपि राजन । मृतो जन्तुः
कृमियोनौ प्रजायते । तत्र जीवति वर्षाणि त्रयोदश
युधिष्ठिर! । अधर्म्मसङ्खये मुक्तस्ततो जायेत मानुषः ।
देवकार्य्यमकृत्वा तु पितृकार्य्यमथापि वा । अनिर्व्वाप्य
समश्नन् वै मृतो जायेत वायसः । वायसः शतवर्षाणि
ततो जायेत कुक्कुटः । जायते व्यालकश्चापि मासं तस्मात्तु
मानुषः । ज्येष्ठं पितृसमञ्चापि भ्रातरं योऽवमन्यते ।
सोऽपि मृत्युमुपागम्य क्रौञ्चयोनौ प्रजायते । क्रौञ्चो
जीवति मासांस्तु दश द्बौ सप्त पञ्च च । ततो निधन-
मापन्नो मानुषत्वमुपाश्नुते । वृषलो ब्रह्मणीं गत्वा
कृमियोनौ प्रजायते । ततः सम्प्राप्य निधनं जायते
शूकरः पुनः । शूकरो जातमात्रस्तु रोगेण म्रियते णृप! ।
श्वा ततो जायते मूढ़ः कर्म्मणा तेन पार्थिव! । श्वा भूत्वा
कृतकर्म्माऽसौ जायते मानुषस्ततः । तत्रापत्यं समुत्पाद्य
मृतो जायेत मूषिकः । कृतघ्नस्तु मृतो राजन्! यमस्य
विषयं गतः । यमस्य पुरुषैः क्रुद्धैर्ब्बधं प्राप्नोति दारु-
णम् । दण्डं समुद्गरं शूलमग्निकुम्भञ्च दारुणम् ।
असिपत्रवनं घोरं बालुकां कूटशाल्मलीम् । एताश्चान्याश्च
वह्वीः स यमस्य विषयं गतः । यातनाः प्राप्य तत्रोग्रा-
स्ततो बध्यति भारत! । ततो हतः कृतघ्नः स तत्रोग्रै-
र्भरतर्षभ! । संसारचक्रमासाद्य कृमियोनौ प्रजायते ।
कृभिर्भवति वर्षाणि दश पञ्च च भारत! । ततो गर्भं
समासाद्य अत्रैव म्रियते शिशुः । ततो गर्भशतै
र्जन्तुर्ब्बहुभिः सम्प्रपद्यते । संसारांश्च बहून् गत्वा
ततस्तिर्य्यक् प्रजायते । ततो दुःखमनुप्राप्य बहुवर्षगणा-
निह । अपुनर्भवसंयुक्तस्ततः कूर्म्मः प्रजायते । दधि
हृत्वा वकश्चापि प्लवो मत्स्यानसंस्कृतान् । चोरयित्वा तु
दुर्ब्बुद्धिर्मधुदंशः प्रजायते । फलं वा मूलकं हृत्वा
अपूपं वा पिपीलिकाः । चोरयित्वा तु निष्पावं जायते
हलगोलकः । पायसं चोरयित्वा तु तित्तिरित्वमवाप्यते ।
हृत्वा पिष्टमयं पूपं कुम्भोलूकः प्रजायते । अयो हृत्वा
तु दुर्ब्बुद्धिर्वायसो जायते नरः । कांस्यं हृत्वा तु दुर्ब्बु-
द्धिर्हारीतो जायते नरः । राजतं भाजनं हृत्वा कपोतः
संप्रजायते । हृत्वा तु काञ्चनं भाण्डं कृमियोनौ
प्रजायते । पत्रोर्णं चोरयित्वा तु क्रकरत्वं स गच्छति ।
कौशिकन्तु ततो हृत्वा नरो जायेत वर्त्तकः । अंशुकं
चोरयित्वा तु शुको जायेत मानवः । चोरयित्वा दुकू-
लन्तु मृतो हंसः प्रजायते । क्रौञ्चः कार्पासिकं हृत्वा
मृतो जायेत मानवः । चोरयित्वा नरः पट्टं त्वाविक-
ञ्चैव भारत! । क्षौमञ्च वस्त्रमादाय शशो जन्तुः प्रजायते
पृष्ठ ०१२३
सर्णान् हृत्वा तु पुरुषो मृतो जायेत वर्हिणः । हृत्वा
रक्तानि वस्त्राणि जायते जीवजीवकः । वर्णकादींस्तथा
गन्धांश्चोरयित्वेह मानवः । छुच्छुन्दरित्वमाप्नोति राजन्!
लोभपरायणः । तत्र जीवति वर्षाणि ततो दश च पञ्च
च । अधर्म्मस्य क्षयं कृत्वा ततो जायेत मानवः ।
चोरयित्वा पयश्चापि बलाका सम्प्रजायते । यस्तु
चोरयते तैलं नरो मोहसमन्वितः । सोऽपि राजन्! मृतो जन्तु-
स्तैलपायी प्रजायते । अशस्त्रं पुरुषं हत्वा सशस्त्रः
पुरुषाधमः । अर्थार्थी यदि वा वैरी स मृतो जायते
खरः । खरो जीवति वर्षे द्वे ततः शस्त्रेण
बध्यते । स मृतो मृगयोनौ तु नित्योद्विग्नोऽभिजाबत ।
मृगो बध्यति शस्त्रेण गते संवत्सरे तु सः । हतो
मृगस्ततो मीनः सोऽपि जालेन बध्यते । मासे चतुर्थे
सम्प्राप्ते श्वापदः सम्प्रजायते । श्वापदो दश वर्षाणि द्वीपी
वर्षाणि पञ्च च । ततस्तु निधनं प्राप्य कालपर्य्याय-
नीदितः । अधर्म्मस्य क्षयं कृत्वा ततो जायेत मानुषः ।
स्त्रियं हत्वा तु दुर्बुद्धिर्य्यमस्य विषयं गतः । बहुक्लेशान्
समासाद्य संसारांश्चैव विंशतिम् । ततः पश्चान्महाराज!
कृमियीनौ प्रजायते । कृमिर्विंशतिवर्षाणि भूत्वा जायेत
मानुषः । भोजनं चोरयित्वा तु मक्षिका जायते नरः ।
मक्षिकासङ्घवशगो बहून् मासान् भवत्युत । ततः
पापक्षयं कृत्वा मानुषत्वमवाप्नुते । धान्यं हृत्वा तु पुरुषो
लोमशः सम्प्रजायते । तथा पिण्याकसंमिश्रमशनं
चोरयन्नरः । स जायते वस्तुसमो दारुणो मूषिको महान् ।
दशन् वै मानुषं नित्यं पापात्मा स प्रजायते । घृतं हृत्वा
तु दुर्बुद्धिः काकमद्गुः प्रजायते । मत्स्यमांण्मथो हृत्वा
काको जायेत दुर्म्मतिः । लवणं चोरयित्वा तु चौरि-
काकः प्रजायते । विश्वासेन तु निक्षिप्तं यो वै निह्नौति
मानवः । स गतायुर्नरस्तादृक् मत्स्ययोनौ प्रजायते ।
मत्स्ययोनिमनुप्राप्य मृतो जायेत मानवः । मानुषत्व-
मनुप्राप्य क्षीणायुरुपपद्यते । पापानि तु नरः कृत्वा तिर्य्यग्
जायेत भारत! । न चात्मनः प्रमाणन्ते धर्म्मं जानन्ति
किञ्चन । ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा ।
सुखदुःखसमायुक्ता व्याधितास्ते भवन्त्युत । असंवासाः
प्रजायन्ते म्लेच्छा अपि न संशयः । नराः पापसमाचारा
लोभमोहसमन्विताः । वर्ज्जयन्ति च पापानि जन्मप्रभृति
ये नराः । अरोगा रूपवन्तश्च धनिनश्च भवन्त्युत । स्त्रियो-
ऽप्येतेन कल्पेन कृत्वा पापमवाप्नुयुः । एतेषामेव जन्तूनां
भार्य्यात्वमुपयान्ति ताः । परस्वहरणे दोषाः सर्व्व एव
प्रकीर्त्तिताः । एतद्वै लेशमात्रेण कथित ते मयाऽनघ! ।
अपरान् मल्कथायोगे भूयः श्रोष्यसि भारत! । एतन्मया
महाराज! ब्रह्मणो वदतः पुरा । सुरर्षीणां श्रुतं मध्येपृष्ट-
श्चापि यथातथम् । मयाऽपि तच्च कात्र्स्न्येन यथावदनुवर्णि-
तम् । एतच्छ्रुत्वा महाराज! धर्मे कुरु मनः सदा ह० वं० ।
“महापातकजान् घोरान्नरकान् प्राप्य दारुणान् । कर्म्मक्ष-
यात् प्रजायन्ते महापातकिनस्त्विह । मृगश्वशूकरोष्ट्राणां
ब्रह्महा योनिमृच्छति । खरपुक्कसवेणानां सुरापो नात्र
संशयः । कृमिकीटपतङ्गत्वं स्वर्णहारी सस्प्नुयात् ।
तृणगुल्मलतात्वञ्च क्रमशोगुरुतल्पग” इति । “श्वशूकरखरो-
ष्ट्राणां गोऽजाविमृगपक्षिणाम् । चण्डालपुक्कसानाञ्च ब्रह्म-
हा योनिमृच्छति । कृमिकीटपतङ्गानां विड्भुजाञ्चैव पक्षि-
णाम् । हिंस्राणाञ्चैव सत्वानां सुरापी ब्राह्मणो व्रजेत् ।
लूताहिसरटानाञ्च तिरश्चां चाम्बु चारिणाम् । हिंस्रा-
णाञ्च पिशाचानां स्तेनोविप्रःसहस्रशः । तृणगुल्मलतानां
च क्रव्यादां दंष्ट्रिणामपि । क्रूरकर्म्मकृताञ्चैव शतशोगुरु-
तल्पग” इति । “ब्रह्महा क्षययोगी स्यात् सुरापः श्यावदन्तकः ।
हेमहारी च कुनखी दुश्चर्मा गुरुतल्पगः । यो येन
संवसत्येषां स तल्लिङ्गोऽभिजायते । अन्नहर्त्तामयावो स्यान्मूको-
वागपहारकः । धान्यमिश्रोऽतिरिक्ताङ्गः पिशुनः पूति-
नासिकः । तैलहृत्तैलपायी स्यात् पूतिवक्त्रस्तु सूचकः ।
यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः । अवश्यं याति
तिर्य्यक्त्वञ्जग्ध्वा चैवाहुतं हविरिति” । “परस्य योषितं
हृत्वा ब्रह्मस्वमपहृत्य च । अरण्ये निर्जले देशे
भवति ब्रह्मराक्षसः । हीनजातौ प्रजायेत पररत्नाप-
हारकः । पत्रशाकं शिखी हृत्वा, गन्धान् छुच्छुन्दरिः
शुभान् । मणिमुक्ताप्रबालानि हृत्वा लोभेन मानवः ।
विविधानि च रत्नानि जायते हेमकर्त्तृष्विति” । “मूषिको
धान्यहारी, स्याद्यानमुष्ट्रः, कपिः फलम् । जलं प्लवः, पयः
काको, गृहकारी ह्यपस्करम् । मधु दंशः, पलं गृध्रो,
गा ङ्गोधा, ऽग्निंवकस्तथा । श्वित्री वस्त्रं, श्वा रसन्तु, चीरी
लवणहारकः । प्रदर्शनार्थमेतत्तु मयोक्तं स्तेयकर्म्मणि ।
द्रव्यप्रकाराहि यथा तथैव प्राणिजातयः” इति । “द्रव्यस्या-
पह्रियमाणस्य यादृशाः प्रकारास्तादृशा एव प्राणिजातयः
स्तेयकर्म्मण्यपहर्त्तारो भवन्ति यथा कांस्यहारी हंस
इति । अथवा यत्फलसाधनन्द्रव्यमपहरति तत्साधन-
विकलो यथा पङ्गतामश्वहारक इति” मिता० । “ब्रह्महा
पृष्ठ ०१२४
कुष्ठी, तैजसापहारी मण्डली, देवब्राह्मणाक्रोशकः खलति,
र्गरदाग्निदावुन्मत्तौ, गुरुप्रतिहन्तापस्मारी, गोध्नश्चान्धो,
धर्म्मपत्नीं मुक्त्वान्यत्र प्रवृत्तः शब्दवेधी प्राणिविशेषः,
कुण्डाशी भगभक्षो, देव--ब्राह्मण--स्वापहारी पाण्डुरोगी,
न्यासापारो च काणः, स्त्रीपण्योपजीवी षण्ढः, कौमार-
दारत्यागी दुर्भगो, मिष्टैकाशी वातगुल्मी, अभक्ष्यभक्षको-
गण्डमाली, ब्राह्मणीगामी निर्वीजी, क्रूरकर्म्मा वामनो,
वस्त्रापहारी पतङ्गः, शय्यापहारी क्षपणकः, शङ्खशुक्त्य-
पहारी, कपाली दीपापहारी कौशिको, मित्रध्रुक् क्षयी,
मातापित्रोराक्रोशकः खञ्जन” इति अनृतवागुल्वणो,
मुहुर्मुहुःसंलग्नवाक् जलोदरी, दारत्यागौ कूटसाक्षी-
श्लीपदी, उच्छूनजङ्घाचरणो, विवाहविघ्नकर्त्ता छिन्नोष्ठः,
अवगुरणः छिन्नहस्तो, मातृघ्नोऽन्धः, स्नुषागामी,
वातवृषणः, चतुष्पथे विण्मूत्रविसर्जने मूत्रकृच्छ्री, कन्यादूषकः
षण्ढः, ईर्ष्यालुर्मशकः, पित्रोर्विवदमानोऽपस्मारी, न्यासा-
पहार्यनपत्यो, रत्नापहार्यत्यन्तदरिद्रोविद्याविक्रयी पुरुष-
मृगः, वेदविक्रयी द्वीपी, बहुयाजकोजलप्लवः, अयाज्यया-
जकोवराहः, अनिमन्त्रितभोजी वायसः, मिष्टैकभोजी
बानरः, यतस्ततोऽश्नन्मार्जारः, कक्षवनदहनात्स्खद्योतः,
दारकाचार्य्योमुखविगन्धिः, पर्युषितभोजी कृभिः, अदत्तादा-
यी बलीवर्दो, मत्सरी भ्रमरः, अग्न्युत्सादी मण्डलकुष्ठी,
शूद्राचार्य्यःश्वपाकः, गोहर्ता सप्र्पः, स्नेहापहारी क्षयी,
अन्नापहार्य्यजीर्णी, ज्ञानापहारी मूर्खः, चण्डालीपुक्व-
सीगमनेऽजगरः, प्रव्रजितागमने मरुपिशाचः, शूद्रागमने
दीर्घकीटः, सवर्णाभिगामी दरिद्रः, जलहारी मत्स्यः,
क्षीरहारी वलाका, वार्द्धुषिकोऽङ्गपीनः, अविक्रेयविक्रयी
गृध्रः, राजमहिषीगामी नपुंसकः, राजाक्रोशकोगर्दभः,
गोगामी मण्डूकः, अनध्यायाध्ययने शृगालः, परद्रव्याप-
हारी परप्रेष्यः, मत्स्यबधेगर्भवासी” इत्येवं नानास्मृति
वचनैः गतिविशेषो मिताक्षरायां दर्शितस्तेन तत्कालप-
र्य्यन्तस्थायिताऽधर्म्मस्येति गम्यते । ब० अनिच्समा० अधर्म्मा ।
पुण्यरूपधम्मशून्ये त्रि० । नास्ति निवृत्तः धर्म्मो यस्य०
अनिच्समा० अधर्म्मा । क्षीणपुण्ये त्रि० । “तारकावर्ष-
मिवाधर्मविनाशपिशुनमिति” काद० । गुणाद्यपरपर्य्यायः
अधर्मस्तदुहिते ब्रह्मणि न० ।

अधर्म्मचारिन् त्रि० न धर्मं चरति अनुतिष्ठति चर + णिनि

६ त० न० त० । धर्मकृत्याननुष्ठायिनि, पापानुष्ठायिनि च
स्त्रियां ङीप् ।

अधर्म्ममय त्रि० अधर्मेण प्रचुरः प्राचुर्य्यार्थे मयट् ।

पापप्रचुरे । स्त्रियां ङीप् ।

अधर्म्मात्मन् त्रि० अधर्मप्रधानः आत्मा यस्य । प्राधान्येन पापाचारिणि ।

अधर्म्मास्तिकाय पु० आर्हतमतसिद्धेषु जीवादिपञ्चकास्ति-

कायेषु मध्ये स्थितिस्वभावके पदार्थभेदे विवरणमर्हच्छब्दे
दृश्यम् ।

अधर्म्मिन् त्रि० अधर्मः पापमस्त्यस्य इनि । पापवति स्त्रियां ङीप् ।

अधर्म्मिष्ठ त्रि० अतिशयेन अधर्म्मी इष्ठन् भत्वाट्टिलोपः ।

भृशपापयुक्ते ।

अधर्म्म्य त्रि० न धर्म्माय हितं यत् । पापापादके, “पञ्चानां

तु त्रयो धर्म्म्या द्वावाधर्म्म्यौ स्मृताविहेति” मनुः ।

अधवा स्त्री न विद्यमानो धवो भर्त्ता यस्याः । मृतभर्त्तृकायां

विधवायाम् स्त्रियाम् ।

अधश्चर पु० अधःखनित्वा चरति अच् । चौरे, अधोभागगन्तरि त्रि० ।

अधश्चौर पु० अधोभागे खनित्वा चोरयति चुर--अच् स्वार्थे

अण् । सन्धिं कृत्वा चौर्य्यकारके । (सिन्धियाल) ।

अधश्शिरस् न० अधोवर्त्ति शिरः सस्य शत्वम् वा ।

अवाङ्मस्तके ।

अधस् अव्य० अधर + असि अधरशब्दस्थाने अधादेशश्च ।

पाताले, अधस्थानमात्रे च । तत्रापि अर्थवशात् प्रथमा-
पञ्चमीसप्तम्यर्था उन्नेयाः । तत्र प्रथमार्थे अधोरम्यं, पञ्च-
म्यर्थे अधोवृक्षात् पतति, सप्तम्यर्थे अधोगृहे शेते
इत्यादि । “अधः कथञ्चिद्धृतभूमिभागमिति” कुमा० ।
“पतत्यधोधाम विसारि सर्व्वतः, इति माघः ।

अधस्तन त्रि० अधोभवः अधस् + ट्यु तुट् च । अधोभवे

स्त्रियां ङीप् । “एवमागामियागीयमुख्यकालादधस्तनः
खकालादुत्तरो गौणः कालः पूर्बस्य कर्मण इति” स्मृतिः ।
“अधस्तनः पूर्वतनः दृक्षवच्छास्त्रेषु व्यवहार” इति न्याया-
दिति” रघुनन्दनोक्तेः पूर्बतनेऽर्पि ।

अधस्तरा(मा)म् अव्य० अतिशयेन अधः, तर(म)प् आमु ।

अत्यन्ताधरे । द्रव्ये तु नामु । अधस्तरोदेशैत्यादि ।

अधस्तात् अव्य० अधर + अस्ताति अधादेशः । अधःशब्दार्थे ।

अयञ्च प्रथभापञ्चमीसप्त्यम्यर्थे एव “धर्मेण गमनमूर्द्धं
गमनमधस्ताद् भवत्यधर्मेणेति” ४४ साङ्ख्यका० ।

अधस्पदम् न० अधोवृत्ति पदं वा सत्वम् । निम्नपदे ।

अधामार्गव पु० न धीयते अधाः तादृशं मार्गं वाति वा--क ।

अपामार्गे इति क्षीरस्वामी ।

अधार्म्मिक त्रि० धर्मं चरति आसेवते ठक् विरोधार्थे न० त० ।

अधर्म्मे--स्वारसिकप्रवृत्तिमति “अधर्म्माच्चेति वक्तव्यमिति”
ठकि तु आधर्म्मिक इत्यप्यत्र त्रि० ।
पृष्ठ ०१२५

अधि अव्य० न + धा--कि । अधिकारे, ऐश्वर्य्ये, स्वत्वे,

अधिकृत्येत्यर्थे, उपरि, आधिक्ये, अतिशये च । अस्य
ऐश्वर्य्ये, स्वत्वे च कर्म्मप्रवचनीयत्वेन तद्योगे सप्तमो,
अधि रामे भूः, अधि भुवि राम इति । “अधिः अध्ययनै-
श्वर्य्यवशित्वस्मरणाधिकेषु” इति गणरत्ने उक्तम् तत्रो-
पाध्यायादधीते इत्यादावध्ययने, इङोऽध्ययनार्थकत्वस्य
अधिर्द्योतकः । ऐश्वर्य्ये अधिपतिः, वशित्वे अधीनः,
अधिगतमिनम् अत्या० स० । स्मरणे मातुरध्येति इकः स्मरणार्थत्व-
मधिर्दोतयति । अधिके, अधिकमिति अधि + कन् । “अधि-
परी अनर्थकाविति” पा० उक्तेः आनर्थक्ये गतित्वाभावात्
नोपसर्गत्वं तेन अध्यागच्छति इत्यादौ गतिसंज्ञाबाधात्
“गतिर्गताविति” पा० निघातो न । अतएव अस्य धात्व-
र्थत्वमात्रद्योतकत्वेऽपि विशिष्टक्रियाद्योतकत्वाभावात्
अनर्थकत्वव्यवहारः विशिष्टक्रियायोगाभावाच्च नोपसर्गत्वम्
तेन “तस्मिन्नात्मवतुर्भागे प्राङ्नाकमधितस्थुषीति” रघौ न
षत्वम् सति च क्रियाविशेषद्योतकत्वे अधितष्ठावित्यादाविव
उपसर्गत्वेन षत्वमिति भेदः । मुग्धबोधे तु “नात्रार्च्चायां
स्वतो नातिक्रमेऽतिः पर्य्यधी गताविति” गत्यर्थद्योतकत्वे
नोपसर्गत्वमित्युक्तम् तेन नाकमधितस्थुषीत्यस्य गतवती-
त्यर्थकतयोपसर्गत्वाभावान्न षत्वमिति विवेकः । तथा
अधिके, “इतो वा सातिमीमहे दिवो वा पार्थि-
वादधि” इति ऋ० १, ६, १० “अधीमहे आधिक्येन
याचामहे” इति भाष्यम् । उपरि “ये नाकस्याधि रोचने
दिवीति” ऋ० १, १९, ६, “नाकस्य दुःखरहितस्य
सूर्य्यस्य उपरीति” भाष्यम्, अधिकारे “यदत्र सामधि-
करिष्यतीति” सि० कौ० । विभाषा कृञीति पा० ।
वा गतित्वमत्र विनियोक्तुरीश्वरत्वं गम्यते अधिकारी
विनियोगः । आधिक्ये “अधिगत्य जगत्यधीश्वरादिति”
नैष० अधिगत्येत्यादौ गमेर्विशिष्टज्ञानार्थत्वद्योतकत्वात्
उपसर्गत्वम् “धात्वर्थं बाधते कश्चित् कश्चित्तमनुवर्त्तते, तमेव
विशिनष्ट्यन्य उपसर्गगतिस्त्रिधे” त्युक्तेः विशिष्टज्ञानार्थता,
तेन गतिसमासे ल्यप् । “अधिगतं विधिवद्
यदपालयदित्यादौ” दायत्वेन लब्धमित्यर्थः । एवमन्य-
त्रापि विशेषार्थद्योतकता विज्ञेया । आधीयते दुःखमने-
नेति आ + धा--कि वा पृ० ह्रस्वः । मनःपीड़ायाम् पु० ।

अधिक त्रि० अध्यारूढ एव स्वार्थे कन् उत्तरपदलोपश्च ।

प्रधाने अतिरिक्ते, “ऊनं न सत्वेष्वधिको बबाधे” इति
रघुः । आधिक्यं च योग्यपरिमाणातिक्रमः अतिशयवृद्धिश्च ।
तत्रानुरूपातिक्रमे “अकालप्रसवा नार्य्य इत्युपक्रम्य “हीना-
ङ्गीमधिकाङ्गीञ्च जायन्ते यदि वा त्रय” इत्यरिष्टमुक्तमुदा-
हार्य्यम् । “हीनाङ्गमधिकाङ्गञ्च श्राद्धभोज्ये विवर्ज्जयेदिति”
स्मृतिः । “इयमधिकमनोज्ञा वल्कलेनापि तन्वीति”
शकु० । “अधिकं फलमश्नुते” इति पुरा० ।
असाधरणे च । “ब्राह्मणस्याधिकं लब्धं, क्षत्रियस्य विजितं,
निर्विष्टं वैश्यशूद्रयोरिति” गौतमः “ब्राह्मणस्याधिकं
लब्धमिति ब्राह्मणस्य प्रतिग्रहादिना यल्लब्धं तदधिक-
मसाधारणम् । क्षत्त्रियस्य विजितमित्यत्राधिकमित्यनुवर्त्तते
क्षत्त्रियस्य विजयदण्डादिलब्धमसाधारणम् । “निर्विष्टं
वैश्यशूद्रयोरिति” । अत्राप्यधिकमित्यनुवर्त्तते वैश्यस्य कृषि-
गोरक्षादिलब्धन्निर्विष्टन्तदसाधारणं, शूद्रस्य द्विजशुश्रूषा-
दिना भृतिरूपेण यल्लब्धन्तदसाधारणम् । एवमनुलोमजाना-
अतिलोमजानाञ्च लोकप्रसिद्धेषु स्वत्वहेतुषु यद्यदसाधारण-
मुक्तं सूतानामश्वसारथ्यमित्यादि तत्तत् सर्वं निर्विष्टशब्दे-
नोच्यते सर्वस्यापि भृतिरूपत्वात् “निर्वेशो भृतिभोगयो-
रिति” त्रिकाण्डीस्मरणात् । तत्तदसाधारणं वेदितव्यम्”
इति मिताक्षरा । दर्पणोक्ते अर्थालङ्कारभेदे यथा दर्पणे
“आश्रयाश्रयिणोरेकस्याधिक्येऽधिकमुच्यते” । “किमधिकमस्य
व्रूमो महिमानं वारिधेर्हरिर्यत्र । अज्ञात एव शेते कुक्षौ
निक्षिप्य भुवनानि” इत्यत्राश्रयस्य । “युगान्तकालप्रतिसं-
हृतात्मनो जगन्ति यस्यां सविकाशमासत । तनौ ममुस्तत्र
न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः” इति माघे तु
आश्रितस्वाधिक्यम् । भावार्थे ष्यञ्--आधिक्यम् । उचित
प्रमाणातिरेके न० ।

अधिकतर त्रि० अधिक + तरप् । द्वयोर्मध्ये उत्कृष्टे एकस्मिन्, अत्यन्तोत्कृष्टे च ।

अधिकतम त्रि० अधिक + तमप् । बहूनां मध्ये एकस्मिन्

उत्कृष्टे, अत्यन्तोकृष्टे च ।

अधिकमास पु० कर्म्म० । मलमासे तद्विरणमघिमासशब्दे ।

अधिकरण न० अधि + कृ--ल्युट् । आधारे, व्याकरणशास्त्रे

“कर्तृकर्मव्यवहितामसाक्षाद्धारयत् क्रियाम् । उपकुर्वत्
क्रियासिद्धौ शास्त्रेऽधिरणं स्मृतमिति” हरिपरिभाषिते
अधिकरणसंज्ञके कर्तृकर्म्मद्वारा क्रियाश्रये कारके, यथा
गेहेस्थाल्यामन्नं पचतीत्यादौ गृहस्य कर्तृद्वारा, स्थाल्याश्च
कर्म्मद्वारा, परम्परया पाकक्रियाश्रयत्वात्, गृहादेः ।
“आधारोऽधिकरणमिति” “सप्तम्यधिकरणे इति” पा० ।
पृष्ठ ०१२६
अधिकरणं च यस्य गुणादेया धर्म्मी स एव । यथा गुणकर्म-
जातीनां द्रव्यम्, द्रव्यस्य च संयोगादिसम्बन्धेन द्रव्यान्तरं,
तत्राधिकस्यैवाधिकरणत्वं यथा कुण्डादेर्वदरादीनामधि-
करणत्वम् गृहादेर्घटादीनां, न तु वैपरीत्ये । द्रव्यादिषु
गुणादेरेव, समवायेन तादात्म्येन वा मतभेदेन अधिकर-
णत्वं नतु गुणादीनां द्रव्याधिकरणत्वमित्येव मन्तव्यम् ।
क्रियते निर्णयार्थं विचारोऽस्मिन् । पूर्ब्बोत्तरमीमांसाशास्त्र-
प्रसिद्धे एकार्थप्रतिपादके विषयसंशयपूर्ब्बपक्षसिद्धान्त
निर्णयात्मकपञ्चाङ्गबोधकवाक्यसमुदाये न्याये । तथा हि
“विषयोविशयश्चैव पूर्ब्बपक्षस्तथोत्तरं निर्णयश्चेति” सिद्धान्तः
शास्त्रेऽधिकरणं स्मृतमिति” मीमांसा । तत्र विचा-
रार्हं वाक्यं विषयः, तस्यार्थविषये विशयः इदमित्थं
न वेति विकल्पः । तत्र सन्दिह्यमानयोः पक्षयोः असत्पक्षे
युक्तिप्रदर्शनवाक्यं पूर्ब्बपक्षवाक्यं, पूर्बपक्षोक्तां युक्तिं खण्ड
यित्वा सत्पक्षे युक्तिप्रदर्शनवाक्यम् सिद्धान्तः । ततश्चेत्याद्यभि-
लापेन सिद्धान्तसिद्धार्थोपसंहारकं वाक्यं निर्णायकवाक्यमिति
यथा “स्वाध्यायोऽध्येतव्य” इत्यादिवाक्यं विचारार्थत्वेन
विषयः । अत्राध्ययनमक्षरग्रहणमात्रम्? अर्थग्रहणपर्य्यन्ता-
ध्ययनं? वेति संशयः । तत्र अक्षरग्रहणमात्रमध्ययनमिति
पूर्ब्बपक्षः । अर्थज्ञानसहिताक्षरग्रहणमिति सिद्धान्तः । तेन
विधिवाक्यस्य सार्थवेदाध्ययनमेव फलितोऽर्थ इति निर्णय
इत्थं तत् प्रतिपादकावयवपञ्चात्मकीन्यायोऽत्रावसीयते ।
एवमन्यदप्युदाहार्य्यम् । उत्तरमीमांसायामपि एतानि
यथायथं योज्यानि विशेषस्त्वयं वेदान्ते पञ्चावयवा अन्वविधा
यथोक्तं माधवाचार्य्येण । “तत्रैकैकमधिकरणं पञ्चावयवं
विषयः सन्देहः सङ्गतिः पूर्ब्बपक्षः सिद्धान्तश्चेति पञ्चावयवा
इति” सङ्गतिश्च “शास्त्रेऽध्याये तथा पादे न्यायसङ्गतय-
स्त्रिधा । शस्त्रादिविषये ज्ञाते तत्तत्सङ्गतिरूह्यता” सित्यनेन
सङ्गतित्रैविध्यं तेनैव दर्शितं तद्विवरणं सङतिशब्दे
वक्ष्यते । तत्र वेदान्ताधिकरणं यथा “अथातो ब्रह्मजिज्ञा-
सेति प्रथमाधिकरणम् “अविचार्य्यं विचार्य्यं वा ब्रह्मा-
ध्यासानिरूपणात् । असन्देहाफलत्वाभ्यां न विचारं
तदर्हति । अध्यासोऽहंबुद्धिसिद्धोऽसङ्गं ब्रह्म श्रुतीरितम्
सन्देहान्मुक्तभावाच्च विचार्य्यं ब्रह्म वेदत” इति माधवः ।
व्याख्यातञ्चैतत् स्वेनैव यथा “आत्मा वा अरे द्रष्टव्यः
श्रोतव्य” इत्यत्र आत्मदर्शनं फलमुद्दिश्य तत्साधनत्वेन
श्रवणं विधीयते । श्रवणं नाम वेदान्तवाक्यानां ब्रह्मणि
तात्पर्य्यं निर्णेतुमनुकूलोन्यायविचारः तदेतद्विचारविधायकं
वाक्य विषयः । न चाय विषयः श्लोकयोर्न संगृहीतः,
सन्देहसंग्रहेणैवार्थात् तत् संग्रहप्रतीतेः ब्रह्मविचारात्मक-
न्यायनिर्णयात्मकशास्त्रमनारम्भणीयमारम्भणीयं वेति
सन्देहः । पूर्बोत्तरपक्षयुक्तिद्वय सर्वत्र सन्देहवीजमुन्नेयम् ।
तत्रानारभ्यमिति तावत्प्राप्तं विषयप्रयोजनयोरभावात् ।
संदिग्धं हि विचारविषयोभवति ब्रह्मा त्वसन्दिग्धं तथा हि
तत् किं ब्रह्माकारेण सन्दिह्येत? आत्माकारेण? वा, नाद्यः
“सत्यं ज्ञानमनन्तंब्रह्मेति” वाक्येन ब्रह्माकारस्य निश्चयात् ।
न द्वितीयः अहंप्रत्ययेनात्माकारस्य निश्चयात् । अध्यासात्म-
विषयत्वेन म्रान्तोऽयं प्रत्यय इति चेत् न अध्यासानिरूप
णात् तमःप्रकाशवद्विरुद्धस्वभावयोर्जडाजडयोर्देहात्मनोः
शुक्तिरजतवदन्योन्यतादात्म्याध्यासोन निरूपयितुं शक्यते ।
तस्मादभ्रान्ताभ्यां श्रुत्यहंप्रत्ययाभ्यां निश्चितस्यासंदिग्धत्वान्न
विचारस्य विषयोऽस्ति । नापि प्रयोजनं पश्यामः ।
उक्तप्रकारेण ब्रह्मात्मनिश्चयेऽपि मुक्त्यदर्शनात् तस्माद्ब्रह्म न
विचारमर्हति अतः शास्त्रमनारम्भणीयमिति पूर्बपक्षः ।
अत्रोच्यते । शास्त्रमारम्भणीयं विषयप्रयोजनसद्भावात्
श्रुत्यहंप्रत्यययोः सन्दिग्धं ब्रह्मात्मवस्तु । “अयमात्मा ब्रह्मेति”
श्रुतिरसङ्गं ब्रह्मात्मत्वेनोपदिशति । अहंमनुष्यैत्याद्यह
बुद्धिर्देहादितादात्म्याध्यासेनात्मानं गृह्णाति, अध्यासस्य-
दुर्निरूपत्वमलङ्काराय, तस्मात् संदिग्धं वस्तु विषयः तन्नि-
श्चयेन मुक्तिलक्षणं प्रयोजनं श्रुत्या, विद्वदनुभवेन च सिद्धम् ।
तस्माद्वेदान्तवाक्यविचारमुखेन ब्रह्मणो विचारार्हत्वाच्छास्त्र-
मारम्भणीयमिति सिद्धम् इति” । अभेदान्वयिपदार्थबोधक-
तुल्यविभक्तिकशब्दे ध । “समानाधिकरणस्तत्पुरुषः कर्म-
धारय” इति पा० । समानाधिकरणः अभेदान्वयिपदार्थ-
बोधकतुल्यविभक्तिकपदघटितस्तत्पुरुषः कर्मधारय इत्यर्थः
“तादृशपदघटितत्वेनान्यपदार्थत्वे समानाधिकरणबहुव्रीहिः
पीतमम्बरं यस्येति वाक्ये पीताम्बर इत्यादि । अभेदान्वयि-
पदार्थबोधकभिन्नपदघटितत्वे व्यधिकरणबहुव्रीहिरिति यथा
पद्मं नाभौ यस्येति वाक्ये पद्मनाभः । सुश्रुतोक्तेषु द्वात्रिंश-
त्तन्त्रयुक्तिषु तत्त्रयुक्तिभेदे च तन्त्रयुक्तिशब्दे तद्विवरणम् ।

अधिकरणविचाल पु० अधिकरणस्य विचालः अन्यथाकरणं

वि--चल घञ् ६ त० । द्रव्यस्य अवस्थान्तरकरणेन संख्या-
न्तरकरणे, विचालो नाम यदेकमनेकं क्रियते अनेकं वैकं
क्रियते इति । एकस्य राशेः पञ्चधा विभागे, पञ्चा
त्मकस्य वा एकधा विभागे च अधिकरणस्य संख्याया
विचालः । “अधिकरणविचाले चेति” पा० ।
पृष्ठ ०१२७

अधिकरणिक पु० अधिकरणम् धर्म्माधिकरणम् आश्रयतया-

ऽस्त्यस्य ठन् । विचारकरणाय धर्म्माधिकरणमण्डपे
नियुक्ते प्राड्विवाकादौ । तत्र नियुक्तः ठक् । आधिकर-
णिकोऽप्यत्र पु० ।

अधिकर्म्म(न्) अव्य० कर्म्मणि विभक्त्यर्थेऽव्ययी० वा अच्समा० ।

कर्म्माधिकृत्येत्यर्थे । अधिकं कर्म्म प्रा० स० । अधिक-
कर्म्मणि । न० ब० । अधिककर्म्मयुक्ते त्रि० ।

अधिकर्म्मकर त्रि० अधिकं कर्म्म तत्करोति कृ--आनुलो-

म्यादौ ट । शुश्रूषकभेदे दासभेदे । क्विप् अधिकर्म-
कृदप्यत्र त्रि० ।

अधिकर्म्मकृत त्रि० अधिकं कर्म अधिकर्म तत् कृतं येन निष्ठा-

न्तस्य परनि० । “सर्वेष्वधिकृतो यः स्यात् कुटुम्बस्य
तथोपरि । सोऽधिकर्मकृतो ज्ञेय” इति स्मृत्युक्ते शुश्रूषकभेदे ।

अधिकर्म्मिक पु० अधिकृत्य हट्टं कर्मणेऽलम् अधिकर्म--ठन् ।

हट्टाध्यक्षे, हट्टस्थबणिग्भ्यः शुल्कादानकर्म्मणि नियुक्त ।

अधिकाङ्ग न० अधिकोऽङ्गात् । वर्मधरैर्योधैर्हृदयमध्ये वर्म-

दार्ट्यार्थं बद्धपट्टिकादौ । ब० । अधिकाङ्गवति त्रि० ।
“अजाविघातने चैव अधिकाङ्गः प्रजायते” इति शाता० ।

अधिकार पु० अधि + कृ--घञ । आरम्भे, यथेष्टं क्रयविक्रया

दिकर्तृत्वसम्पादके स्वामित्वे, “अधिकारः फले स्वाम्यमधि-
कारी प्रभुर्भवेदिति” मीमांसोक्ते विहितकर्म्मफलस्वामित्वे,
विनियोज्यपुरुषस्य सम्बन्धे, यथा याजनादिकर्मणि ब्राह्म-
णादेः, राज्ञां प्रजापालनादौ, वैश्यस्य कृष्यादौ, शूद्रस्य
द्विजसेवायाम्, “नैमित्तिकोऽयं प्रायश्चित्ताधिकार” इति
मिताक्षरा । स्वामित्वे--“सर्व्वे स्युरधिकारण” इति स्मृतिः ।
तत्र च वैदिकादिकर्मसु कर्त्तव्यताज्ञानाधीनप्रवृत्तिहेतुरधि-
कारः । यया याजनादौ ब्राह्मणस्येत्यादि । शूद्रस्य नाध्य-
यनादिष्वधिकारः यथोक्तं “निषेकादिश्मशानान्तो यस्य वेदो-
दितो विधिः । तस्य शास्त्रेऽधिकारोऽस्मिन्नान्यस्यैव कदाचनेति”
मनुना । न केवलम् अध्ययने शूद्राणामधिकारः यागा-
दावप्यनधिकारः यथोक्तं जैभिनीयसूत्रभाष्यादौ । “चातु-
र्वर्ण्यमविशेषात्” इत्याशङ्क्य “निर्द्देशाद्वा त्रयाणां स्याद-
ग्न्याधेये ह्यसम्बन्धः क्रतुषु ब्राह्मणश्रुतिरित्यात्रेय” इति ।
“वाशब्दः पक्षं व्यावर्त्तयति, “त्रयाणाम्” अधिकारः
स्यात् कुतः? अग्न्याधेये निर्देशात् अग्न्याधेये त्रयाणां
निर्द्देशो भवति, “वसन्ते ब्राह्मणोऽग्निमादधीत, ग्रीष्मे
राजन्यः, शरदि वैश्यः” इति शूद्रस्य आधाने श्रुतिर्नास्ति
इत्यनग्निः शूद्रः असमर्थोऽग्निहोत्रादि निर्वत्तयितुम् ।
तस्मात् “अग्निहोत्रं जुहुयात् स्वर्गकामः” इत्येवमादिषु
शूद्रस्य प्राषिका श्रुतिर्नास्ति । ब्राह्मणादीन् एवाधिकृत्य
सा प्रवर्त्तते, ते हि समर्था अग्निमत्त्वात्, आहवनीयादयो
न शृद्रस्य, अविधानात्, संस्कारशब्दत्वाच्च आहवनीया-
दीनाम् । तस्मात् अनधिकृतोऽग्निहोत्रादिषु शूद्रः इत्या-
त्रेयः मन्यते स्म” इति भा० । तथा कर्मप्रतिपादक सर्वशास्त्र
विहितकर्मसु मनुष्याणामेवाधिकारः न तिरश्चां न वा
देवादीनां यथोक्तं तत्रैव “फलार्थत्वात् कर्मणः शास्त्रं सर्वा-
धिकारं स्यात्” इत्याशङ्क्य “कर्त्तुर्वा श्रुतिसंयोगाद्विधिः
कात्स्न्येर्न गम्यते” इति सू० “वाशब्दः पक्षं व्यावर्त्तयति ।
न चैतदस्ति तिर्यगादीनामपि अधिकारः इति । कस्य
तर्हि? । यः समर्थः कृत्स्नं कर्म अभिनिर्वर्त्तयितुम् । न
चैते, शक्नवन्ति तिर्यागादयः कृत्स्नं कर्म्माभिनिर्वर्त्तयितुम्,
तस्मात् एषां न सुखस्याभ्युपायः कर्म, कथं यो न शक्यते
कर्त्तुम्, सोऽभ्युपायः स्यात्? इति । न देवानां, देवता-
न्तराभावात् न हि आत्मानम् उदिश्य त्यागः सम्भवति,
त्याग एवासौ न स्यात्, न ऋषीणाम्, आर्षेयाभावात्
न भृग्वादयो भृग्वादिभिः सगोत्रा भवन्ति, न चैषां
सामर्थ्यं प्रत्यक्षम् । “अपि च तिर्य्यञ्चो न कालान्तर-
फलेन अर्थिनः, आसन्नं हि कामयन्ते । “ननु च
उक्तं, कालान्तरफलार्थिनः तिरश्चः पश्यामः, शुनः
श्येनांश्चतुर्द्दश्याम् अष्टमम्यां च उपवसतःः” इति उच्यते
न जन्मान्तरफलार्थिन उपवसन्ति । “कथं अवगम्यते?
वेदाध्ययनाभावात्, ये वेदमधीयते ते एतद्विदुः, “इदं
कर्म कृत्वा, इदं फलममुत्र प्राप्नोति इति” न चैते
वेदमधीयते, नापि स्मृतिशास्त्राणि, नाप्यन्येभ्यः अवगच्छन्ति,
तस्मात् न विदन्ति धर्मम् । अविद्वांसः कथम् अनुति-
ष्ठेयुः, तस्मात् न धर्म्माय उपवसन्ति इति । किमर्थश्च
तर्ह्येषाम् उपवासः? । उच्यते, रोगात् अरुचिरे-
षाम् । कथं पुनर्नियते काले रोगो भवति? । उच्यते
नियतकाला अपि रोगा भवन्ति यथा तृतीयकाश्चातुर्थका-
श्चेति । तस्मात् मनुष्याणाम् अधिकारः इति । न च
तिरश्चां द्रव्यपरिग्रहः, न हि एते द्रव्यं स्वेच्छया
उपयुञ्जना दृश्यन्ते, तस्मात् अनीशाना धनस्य । यत्तु,
देवग्रामो हस्तिग्रामः इति, उपचारमात्नं तत् । तस्मात्
अपि न तिरश्चाम् अधिकारः इति । यानि
पुनर्लिङ्गानि, “देवा वै सत्रमासत” इत्येवमादीनि, अर्थबादाः
ते विधिप्ररोचनार्थाः । विद्यते हि विधिरन्यः तेषु सर्वेषु,
पृष्ठ ०१२८
न च विधेर्विषिनैक्यवाक्यभावो भवति, वचनव्यक्तिभेदात् ।
स्तुतिस्तु सा, इत्थं नाम सत्राणि आसितव्यानि, यत्
कृतकृत्या अपि आसते देवाः, आसन्नचेतना अपि तिर्यञ्चः,
अचेतना अपि वनस्पतयः, किमङ्ग पुनर्विद्वांसो मनुष्या”
इति भा० । ब्रह्मविद्यायान्तु सर्वेषां देवादीनामधिकार
इति “तदुपर्य्यपि वादरायणः सम्भवात्” इति शा० सूत्रेण
व्यवस्थापितं, व्याख्यातञ्चैतत् शाङ्कराचार्य्येण यथा “वाढ़ं
मनुष्यानधिकारोतु शास्त्रं न तु मनुष्यानेवेतीह ब्रह्मविज्ञाने
नियमोऽस्ति तेषां मनुष्याणामुपरिष्टात् ये देवादयस्तान-
प्यधिकरोति शास्त्रमिति वादरायण आचार्य्यो मन्यते
कस्मात्? सम्भवात् । सम्भवति हि तेषामप्यर्थितत्वाद्यधि-
कारकारणम् । तत्रार्थित्वं तावत् मोक्षविषयं देवादीना-
मपि, सम्भवति विकारविषयविभूत्यनित्यतालोचनादिनिमि-
त्तम् । तथा सामर्थ्यमपि तेषां सम्भवति मन्त्रार्थवादेति-
हासपुराणलोकेभ्यो विग्रहवत्त्वाद्यवगमात् । नच तेषां
कश्चित् प्रतिषेधोऽस्ति । नचोपनयनादिशास्त्रेणैषामधिकारो
निवर्त्तितः उपनयनस्य वेदाध्ययनार्थ त्वात् तेषाञ्च स्वयं-
प्रतिभातवेदत्वात् । अपि चैषां विद्याग्रहणार्थं ब्रह्म-
चर्य्यादि दर्शयति “एकशतं ह वै वर्षाणि मघवान् प्रजापतौ
ब्रह्मचर्य्यमुवास” “भृगुर्वै वारुणिर्वरुणं पितरमुपससाद
अधीहि भगवो! ब्रह्मेत्यादि” । यदपि कर्मस्वनधिकारकारण-
मुक्तम्, न देवानां, देवतान्तराभावात् । न ऋषीणामा-
र्षेयान्तराभावादिति । न तद्विद्याखस्ति न हीन्द्रादीनां
विद्यास्वधिक्रियमाणानामिन्द्राद्युद्देशेन किञ्चित् कृत्यमस्ति
न च भृग्वादीनां भृग्वादिसगोत्रतया । तस्माद्देवादीना-
मपि विद्यास्वधिकारः केन वार्य्येत? इति” । ततश्च
विद्वत्त्व कर्मफलार्थित्व--तत्तत्कर्मकरणसमर्थत्वापर्य्युदस्तत्वानि
अधिकारप्रयोजकानीति सिद्धम् तत्रापि विधानेन सर्व-
कर्मत्यागरूपे सन्न्यासे विप्रस्यैवाधिकार इति सर्ववादि-
सम्मतम् द्विजमात्राणामधिकार इति केषाञ्चिन्मतम् ।
अधिकमाकरे दृश्यम् । क्वचिच्चाधिकृतस्याधिकारः ।
यथा दर्शाद्यधिकृतस्य प्रयाजादिष्वधिकारः “प्रधा-
नाधिकारो अङ्गाधिकारी भवतीति” न्यायात् । “ताम्बू-
लाधिकारो दत्त इति” हितो० । “हृताधिकारां
मलिनामिति” स्मृतिः । कर्मणि घञ् । “कर्त्तव्ये
“स्वाधिकारे प्रमत्त” इति मेघ० । प्रकरणे, व्याकरण-
शास्त्रे पूर्बसूत्रोपात्तपदादेरुत्तरत्र सूत्रेषु अनुवर्त्तने ।
“अधिकारोऽयम् आ पञ्चमाध्यायसमाप्तेरिति” सि० कौ० ।
तत्राधिकारश्च प्रत्ययादिकर्म्माद्यर्थमुत्तरोत्तरसूत्रेषु पूर्व्व-
सूत्रोपात्तशब्दस्यानुवर्त्तनम् । यथा “प्रत्ययः, परश्च”
इति सूत्रोपात्तप्रत्ययपरशब्दयोः आ पञ्चमाध्यायसमाप्तेः
सर्व्वत्र सूत्रेषु अनुवर्त्तनम् । स चाधिकारः त्रिविधः
“सिंहावलोकितं चैव मण्डूकप्लुतमेव च । गङ्गाप्रवाहव-
च्चापि अधिकारस्त्रिधा मत” इत्युक्तभेदत्रयात् ।
तदुदाहरणन्तु व्याकरणेऽवगम्यम् । नियोज्यतया विषयी-
करणे, “सर्व्वाधिकारं शास्त्रमिति” जै० सू० । तदभिप्रायेण
“वाढं मनुष्यानधिकारोतु शास्त्र” मिति मनुष्याधिकार
त्वाच्छास्त्रस्येति” च श० भा० । सर्वमधिकरोति कर्म्मण्युप-
पदे अण् एवमेव मनुष्याधिकारत्वादित्यत्रापि

अधिकारविधि पु० अधिकारे फलस्वाम्ये विधिर्विधानम् ।

मीमांसकोक्ते विधिभेदे कर्मजन्यफलभोक्तृताज्ञापके विधौ
यथा स्वर्गकामो यजेत इत्यनेन यागजन्यफलभोक्ता स्वर्गका-
मीति ज्ञाप्यते । तत्र नियोज्यप्रवर्त्तनाविधिः अधिकारः
यथा “राजा राजसूयेन यजेतेति” तत्र राजसूये राज्ञ
एव नियोज्यतया तत्र प्रवर्त्तनात्तस्य तथात्वम् स्वस्वकर्मणि
नियोगे च ।

अधिकारिता स्त्री अधिकारिणो भावः तल् । विद्वत्त्व-

फलार्थित्वकर्म्मकरणशक्तिमत्त्वापर्य्युदस्तत्वप्रयोज्ये अधिकारे
“भार्य्यापुत्रविहीनस्य--नास्ति यज्ञेऽधिकारितेति” स्मृतिः ।
भावार्थे त्व । अधिकारित्वम् अत्रैवार्थे न० ।

अधिकारिन् त्रि० अधिकरोति अधि + कृ--णिनि । स्वामिनि

विहितकर्मफलभोक्तरि, शास्त्रेण कर्त्तव्यतींपदेशेन नियो-
जिते, कामनाविषयफल--तदुपायोपदेशेन प्रवर्त्तिते च स्त्रियां
ङीप् । वेदान्तमतसिद्धे अनुबन्धचतुष्टयमध्ये अनुबन्धभेदे वेदा-
न्तसारे वेदान्तशास्त्रालोचनहेतुभूतानुबन्धचतुष्टयनिरूपणाय
“अधिकारी तु विधिवदधीतवेदवेदाङ्गत्वेनापाततोऽधिगता-
खिलवेदार्थः इह जन्मनि जन्मान्तरे वा काम्यनिषिद्ध-
वर्ज्जनपुरस्मरं नित्यनैमित्तिकप्रायश्चित्तोपासनानुष्ठानेन
निर्गतनिखिलकल्मषतया नितान्तनिर्म्मलस्वान्तः साधन-
चतुष्टयसम्पन्नः प्रमाते” त्युक्तम् । स चाधिकारी उत्तममध्य-
माधमभेदेन त्रिविधः “अधिकारित्रैविध्यान्न नियम” इति
“अधिकारिभेदान्न मियम” इति च सांख्यसूत्रभ्यां तथोक्तेः ।
तत्र उत्तमाधिकारिणः विधानेन विहितसर्वकर्मत्यागपूर्ब्बकं
निराकारब्रह्मज्ञानेऽधिकारः मध्यमाधिकारिणः विहित-
वर्णाश्रमादि कर्म्मकरणपूर्ब्बकं सोपाधिब्रह्मोपासने,
अधमस्य तु वर्णाश्रमविहितकर्म्मविधानपूर्ब्बकं साकारब्रह्मोपा-
पृष्ठ ०१२९
सने “ये मन्दास्ते तु सज्जन्ते ब्रह्मणोरूपकल्पने” इत्युक्तेः ।
अतएवोक्तम् “प्रशान्तचित्ताय जितेन्द्रियाय प्रक्षीणदोषाय
यथोक्तकारिणे--प्रदेयमेतत् सततं मुमुक्षवे” इति । अत्र
यथोक्तकारिणेइत्यनेन प्राक् ज्ञानोत्पत्तेः वर्णाश्रमविहितं
कर्म्मानुष्ठेयमेवेत्युक्तं शा० सूत्रकृताऽपि “विहितत्वादाश्रम
कर्म्मापि” इत्युक्तम् गीतायामपि “आरुरुक्षोर्मुनेर्योगः कर्म्म
कारणमुच्यते । योगारूढ़स्य तस्यैव शमः कारणमुच्यते”
इत्यनेन आरुरुक्षोः यथोक्तकर्म्माधिकारः उक्तः “कषाये
कर्म्मभिः पक्वे ततोज्ञानं प्रजायते” इत्यनेन कषायशब्द-
वाच्यचित्तदोषक्षयार्थं कर्म्मावश्यकतेत्युक्तम् । “द्वे ब्रह्मणी
वेदितव्ये परञ्चापरमेव चेति” श्रुतावप्यधिकारिभेदात्
निराकरसोपाधिकयोः द्वयोर्व्रह्मणोर्वेद्यतोक्ता । गीता-
यामपि “लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता
मयानघ! ज्ञानयोगेन सांङ्ख्यानां, कर्म्मयोगेन योगिनामिति”
अधिकारिभेदात् ज्ञानकर्म्मणोरधिकार इत्युक्तम् ।
“सम्यक् संसाधनं कर्म्म कर्त्तव्यमधिकारिणा । निष्कामेण
सदा पार्थ! काम्यं कामान्वितेन चेति” भवि० पु० ।
“अधिकारिणाऽर्थिना विदुषा समर्थेनेति” रघु० तेन
विद्वत्त्वं तत्तत्कर्मजन्यफलार्थित्वम् तत्तत्कर्म्मकरणयोग्यत्वम्
अपर्य्युदस्तत्वञ्च अधिकारिताप्रयोजकम् । तत्र फलार्थि-
त्वञ्च सति कामे एव, मुमुक्षुत्वे तु न फलार्थित्वावश्यकतेति
भेदः । मार्कण्डेयपुराणे रुचिवाक्येन “पितॄन्नमस्ये दिवि
ये च मूर्त्ताः स्वधाभुजः काम्यफलाभिसन्धौ । प्रदानशक्ताः
सकलेप्सितानां विमुक्तिदा येऽनभिसंहितेष्विति” अनेन
फलार्थिनं प्रति तत्तत्फलदातृत्वं, तदनर्थिनं मुमुक्षुं प्रति
मुक्तिदातृत्वमिति स्पष्टमुक्तम् एवं देवतानामप्यधिकारिभेदेन
फलदातृत्वम् । अनभिसंहितेसु अनुद्दिष्टेषु फलेष्वित्यर्थः ।
अधिकारोऽस्त्यस्य इनि । स्वामित्ववति “सर्वे स्युरधि-
कारिण” इति स्मृतिः स्त्रियां ङीप् । “कृतात्र देवी
वचनाधिकारिणीति नैष० ।

अधिकार्थवचन न० अधिकार्थस्य स्तुतिनिन्दाभ्यामारोपि-

तस्य वस्तुधर्म्मादतिंरिक्तस्य गुणस्य वचनम् । स्तुत्यर्थवादे,
निन्दार्थवादे च । यथा वातच्छेद्यं तृणमित्यत्र दुर्बलत्वेन
निन्दा, काकपेया नदीत्यत्र च पूर्णजलत्वेन स्तुतिः गम्यते
“कृत्यैरधिकार्थवचने” इति पा० ।

अधिकाम पु० अधिकः कामः । अत्यन्ताभिलाषे । ब० । तद्वति

त्रि० । कामे विभक्त्यर्थे अव्य० । काममधिकृत्येत्यर्थे अव्य० ।

अधिकृच्छ्र पु० अधिकं कृच्छ्रं कष्टं साधनतयाऽस्त्यस्य अच् ।

“विल्वैरामलकैर्वापि कपित्थैरथवा शुभैः । मासेन लोके-
ऽधिकृच्छ्रः कथ्यते द्विजसत्तमैः” इति (शङ्खस०) उक्ते
माससाध्ये व्रतभेदे । प्रा० स० । अधिककष्टे न० । तद्वति त्रि० ।

अधिकृत पु० अधि + कृ--क्त । आयव्यायाद्यवेक्षके, अध्यक्षे

कर्म्मजन्यफलसम्बन्धिनि नियुक्ते, स्वामित्ववति च त्रि० ।
“महीपतीनां पृथगर्हणार्थं समादिदेशाधिकृतानधि-
श्रीरिति” रघुः ।

अधिकृति स्त्री अधि + कृ--क्तिन् । अधिकारे ।

अधिक्रम पु० अधि + क्रम--भावे घञ् अमन्तत्वान्न वृद्धिः । आरोहणे ।

अधिक्षित् त्रि० अधि + भावे कर्त्तरि वा क्विप्--तुक् च ।

परिक्षये, तत्कारिणि च । “विशामासामभयानामधिक्षितम्
ऋ० १०, ९२, २४ ।

अधिक्षिप्त त्रि० अधि + क्षिप--क्त । स्थापिते, निन्दिते, कृता-

धिक्षेपे, प्रेरिते, तिरस्कृते च ।

अधिक्षेप पु० अधि + क्षिप--भावे घञ् । तिरस्कारे, स्थापने,

प्रेरणे च ।

अधिगत त्रि० अधि + गम कर्म्मणि--क्त । प्राप्ते, ज्ञाते च । “अधिगतं

विधिवत् यदपालयदिति” रघुः “अधिगतसकलकलाकला-
पकमिति” काद० । अधिगताखिलवेदार्थ” इति वे० सा० ।

अधिगम पु० अधि + गम--घञ् । ज्ञाने, प्राप्तौ, स्वीकारे च ।

“अध्यात्मयोगाधिगमेनेति” गीता । निध्यादेः प्राप्तौ
च । “स्वामी ऋक्थक्रयसंविभागपरिग्रहाधिगमेष्विति”
गौत० । “अधिगमो निध्यादेः प्राप्तिरिति” मिता० ।

अधिगव अव्य० गवि विभक्त्यर्थे अव्ययो० वेदे अच् समा० ।

गवीत्यर्थे “स्वादीयो यदधिगवं क्षीरमिति” वेदः ।

अधिगुण पु० अधिको गुणः प्रा० स० । अतिशथितविनयोद-

गुणे । ब० । तद्वति त्रि० । “याच्ञा मोघा वरमधिगुणे
नाधमे लब्धकामा” इति नीति० । गुणे--विभक्त्यर्थे
अव्ययी० । गुणमधिकृत्येत्यर्थे अव्य० । अधिगतो गुणो
येन । ज्याधिरूढ़े धनुषि न० ।

अधिजिह्व पु० अधिका जिह्वा यस्य । द्विजिह्वे सर्पे तस्य

द्विजिह्वत्वञ्च अमृतास्वादाशया कुशविलेहनात् । यथोक्तं
भा० आ० प० । “यत्रैतदमृतञ्चापि स्थापितं कुशमंस्तरे ।
तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतञ्च तत् । सोमस्थान-
मिदञ्चेति दर्भांस्ते लिलिहुस्तदा । ततो द्विधा कृता जिह्वा
सर्पाणां तेन कर्म्मणा । अमवंश्चामृतस्पर्शाद्दर्भास्तेऽथ
पवित्रिणः । एवं तदमृतं तेन हृतमाहृतमेव च । द्विजिह्वाश्च
कृताः सर्पा गरुड़ेन सहात्मना” इति ।
पृष्ठ ०१३०

अधिजिह्विका स्त्री जिह्वेव इवार्थे कन् अधिरूढ़ा जिह्विका

वा । (आल्जिभ) उपजिह्वायाम् ।

अधिज्य न० अध्यारूढ़ा ज्या यत्र प्रा० ब०, अधिगतं ज्यां वा

अत्या० स० । आरोपितगुणके धनुषि “त्वयि चाधि-
ज्यकार्मुके” इति शकु० ।

अधिज्योतिष अव्य० ज्योतिषि विभक्त्यर्थे अव्ययी० अच्

समा० । सूर्य्यतारकादिज्योतींष्यधिकृत्येर्थे ।

अधित्यका स्त्री अधि + त्यकन् । पर्वतस्योपरिभूमौ । “आरूढ़ं

स्थलमधित्यकेति” सि० कौ० । “स्थाणुं तपस्यन्तमधित्यका-
यामिति” कुमा० । “अधित्यकायामिव धातुमय्यामिति”
रघुः ।

अधिदन्त पु० अध्यारूढ़ो दन्तम् अत्या० स० । दन्तोपरि

जातदन्ते (गजँदात) । प्रा० ब० । तद्वति त्रि० । दन्ते विभक्त्यर्थे
अव्ययी० । दन्तमधिकृत्येत्यर्थे अव्य० ।

अधिदेव पु० अधिकृतोदेवः येन गुणातिशयात् प्रा० ब० ।

सर्वदेवाधिपे परमेश्वरे । देवे विभक्त्यर्थे अव्ययी० । देवमधि-
कृत्येत्यर्थे अव्य० । अधिदेवं भवः ठञ् । अनुशतिका०
द्विपदवृद्धिः । आधिदैविकं देवेभ्यो जाते दुःखादौ त्रि० ।

अधिदेवता स्त्री अधिष्ठात्री देवता शा० त० । अधिष्ठात्र्यां

देवतायाम् । देवतानाम् अधिष्ठातृत्वञ्च सन्निधान-
मात्रेण तत्तत्पदार्थानां तत्तत्कर्म्मसु नियन्तृत्वरूपम् ।
तच्च साक्षात् परमेश्वरस्यैव यथोक्तम् वृ० उ० अन्तर्यामि
ब्राह्मणे । “यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो, यं
पृथिवी न वेद, यस्य पृथिवी शरीरं, यः पृथिवीमन्तरो
यमयत्येष त आत्मान्तर्याम्यमृतः ॥ योऽप्सु तिष्ठन्नद्भ्योऽ-
न्तरो, यमापो न विदुर्यस्यापः शरीरं, योऽपोऽन्तरो
यमयत्येष त आत्मान्तर्य्याम्यमृतः । योऽग्नौ तिष्ठन्नग्नेरन्तरो
यमग्निर्न वेद, यस्याग्निः शरीरं, योऽग्निमन्तरो यमयत्येप
त आत्मान्तर्य्याम्यमृतः । योऽन्तरिक्षे तिष्ठन्नन्तरिक्षादन्तरो,
यमन्तरिक्षं न वेद यस्यान्तरिक्षं शरीरं योऽन्तरिक्षमन्तरो
यमयत्येष त आत्मान्तर्य्याम्यमृतः । यो वायौ तिष्ठन्वा-
योरन्तरो, यं वायुर्न वेद, यस्य वायुः शरीरं, यो वायुमन्तरो
यमयत्येष त आत्मान्तर्य्याम्यमृतः । यो दिवि तिष्ठन्दिवो-
ऽन्तरो, यं द्यौर्न वेद, यस्य द्यौः शरीरं, यो दिवमन्तरो
यमयत्येष त आत्मान्तर्य्याम्यमृतः । य आदित्ये तिष्ठ-
न्नादित्यादन्तरो, यमादित्यो न वेद, यस्यादित्यः शरीरं,
य आदित्यमन्तरो, यमयत्येष त आत्मान्तर्य्याम्यमृतः ।
यो दिक्षु तिष्ठन्दिग्भ्योऽन्तरो यं दिशो न विदुर्यस्य दिशः
शरीरं, यो दिशोऽन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः ।
यश्चन्द्रतारके तिष्ठंश्चन्द्रतारकादन्तरो, यञ्चन्द्रतारकं न
वेद, यस्य चन्द्रतारकं शरीरं, यश्चन्द्रतारकमन्तरो
यमयत्येष त आत्मान्तर्य्याम्यमृतः । य आकाशे तिष्ठन्नाकाशा-
दन्तरो, यमाकाशो न वेद, यस्याकाशः शरीरं,
य आकाशमन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः । यस्त-
मसि तिष्ठंस्तमसोऽन्तरो, यं तमो न वेद, यस्य तमःशरीरं,
यस्तमोऽन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः । यस्ते-
जसि तिष्ठंस्तेजसोऽन्तरो, यं तेजो न वेद, यस्य तेजः
शरीरं, यस्तेजोऽन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृत
इत्यधिदैवतम् । अथाधिभूतम् यः सर्व्वेषु भूतेषु तिष्ठन्सर्व्वेभ्यो
भूतेभ्योऽन्तरो, यं सर्व्वाणि भूतानि न विदुर्यस्य सर्व्वाणि
भूतानि शरीरं, यः सर्व्वाणि भूतान्यन्तरो यमयत्येष त
आत्मान्तर्य्याम्यमृत इत्यधिभूतम् । अथाध्यात्मम् यः प्राणे
तिष्ठन्प्राणादन्तरो, यं, प्राणो न वेद, यस्य प्राणः शरीरं,
यः प्राणमन्तरो यमयत्येष त आत्मन्तर्य्याम्यमृतः । यो
वाचि तिष्ठन्वाचोऽन्तरो, यं वाङ्न वेद, यस्य वाक् शरीरं,
यो वाचमन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः । यश्च-
क्षुषि तिष्ठंश्चक्षुषोऽन्तरो, यं चक्षुर्न वेद, यस्य चक्षुःशरीरं,
यश्चक्षुरन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः । यः
श्रोत्रे तिष्ठञ्छोत्रादन्तरो, यं श्रोत्रं न वेद, यस्य श्रोत्रं
शरीरं, यःश्रोत्रमन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः ।
यो मनसि तिष्ठन्मनसोऽन्तरो, यं मनो न वेद, यस्य मनः
शरीर यो मनोऽन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः ।
यस्त्वचि तिष्ठंस्त्वचोऽन्तरो, यं त्वङ्न वेद, यस्य त्वक् शरीरं,
यस्त्वचमन्तरो यमयत्येष त आत्मान्तर्य्याम्यमृतः । यो
विज्ञाने तिष्ठन्विज्ञानादन्तरो, यं विज्ञानं न वेद, यस्य
विज्ञानं शरीरं, यो विज्ञानमन्तरो यमयत्येष त आत्मा-
न्तर्य्याम्यमृतः । यो रेतसि निष्ठन्रेतसोऽन्तरो, यं रेतो
न वेद, यस्य रेतः शरीरं, यो रेतोऽन्तरो यमयत्येष त
आत्मान्तर्य्याम्यमृतोऽदृष्टो द्रष्टा,ऽश्रुतः श्रोता, ऽमतो
मन्ता, ऽविज्ञातो विज्ञाता, नान्योऽतोऽस्ति द्रष्टा, नान्यतो-
ऽस्ति श्रोता, नान्यतोऽस्ति मन्ता, नान्यतोऽस्ति विज्ञातैष
त आत्मान्तर्य्याम्यमृतोऽतोऽन्यदार्त्तम्” इति । तस्यैवांशं-
विशेषेणाविर्भूतानां दिगाद्यभिमानिदेवानामिन्द्रियाधिष्ठा-
तृत्वं यथा “वैकारिकादहङ्काराद्देवा वैकारिका दश ।
दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रका” इति शार० ।
“शक्तिसामर्थ्याद्विकृतपरमेश्वरादुत्पन्नत्वेनाऽहङ्कारस्य तदु-
पृष्ठ ०१३१
त्पन्नदेवानाञ्च वैकारिकत्वमिति” राघवभट्टेन व्याख्या-
तम् । “वैकारिका दिगाद्याश्च चन्द्रेणैकादश स्मृताः ।
इन्द्रियाणामधिष्ठातृदेवास्ते परिकीर्त्तिता” इति तद्धृता-
भियुक्तोक्तिः । तथा च श्रोत्रस्य दिक्, त्वचो वातः,
नेत्रस्य अर्कः, रसनायाः वरुणः, घ्राणस्य अश्विनौ,
वागिन्द्रियस्य वह्निः, हस्तस्य इन्द्रः, पादस्य उपेन्द्रः,
पायोः मित्रः, उपस्थस्य (कः) प्रजापतिः, मनसः चन्द्रः,
इत्येते एकादशेन्द्रियाणामधिष्ठातृदेवाः । “ईश्वरं
भास्करे विद्यादुमां विद्यान्निशाकरे । स्कन्दमङ्गा-
रके विद्याद्बुधे नारायणं विदुः । गुरौ वेदनिघिं विद्यात्
शुक्रे शक्रो विधीयते । शनैश्चरे यमं विद्याद्राहोः कालं तथैव
च । चित्रगुप्तोऽधिपः केतोरित्येते ग्रहदेवताः” इति (मत्स्य-
पुरा०) उक्ता ग्रहाणमधिदेवाः । एतेषां पुनरधिष्ठातृदेवाश्च
प्रत्यधिदेवतात्वेन व्यवह्रियन्ते ते च प्रत्यधिदेवताशब्दे
दर्शयिष्यन्ते । अधिदेवताप्यत्रैव । “आदित्याभिमुखाः सर्वे
साधिप्रत्यधिदेवता” इति मत्स्यपु० । “शशाङ्कमूर्त्तेरधिदेव-
ताकृतिरिति” भट्टिः । चन्द्राधिदेवता उमा ।

अधिदैवत न० अधिष्ठातृ दैवतम् प्रा० स० । अधिदेवताशब्दार्थे

“शिवाधिदैवतं ध्यायेत् वह्निप्रत्यधिदैवतमिति” “विचिन्त्यो
माधिदैवत” मिति च विष्णुध० पु० । दैवते विभक्त्यर्थे
अव्ययीभावः । दैवतमधिकृत्येत्यर्थे अव्य० । “अथाधिदैवतम्
आदित्यो वा” इति छन्दो० उ० “इत्यधिदैवतमिति
वृ० उ०” । अधिदैवमप्यत्र अव्य० । “अधिदैवं किमु-
च्यते इति” गीता ।

अधिनाथ पु० अधिको नाथः प्रा० स० । अधीश्वरे । “तत्रा-

धिनाथमधिकृत्य दिवस्तथासाविति” नैष० ।

अधिनाय पु० अधिनीयते वायुना गन्धाधारसूक्ष्मांशनयनद्वारा

तत्तत्स्थानं ह्रियतेऽसौ अघि + नी--घञ् । गन्धे ।

अधिप पु० अधिपाति अधि + पा--क । प्रभौ ईश्वरे ।

“अथ प्रजानामधिपः प्रभाते” इति रघुः । “श्रियः
कुरूणामधिपस्येति” भार० ।

अधिपति पु० अधिकः पतिः, अधि + पा--डति वा । ईश्वरे

स्वामिनि “स वा एष सर्वेषां भूतानामधिपतिरिति”
श्रुतिः । “सर्व्वस्याधिपतिर्हि स” इति मनुः । “ततो
भुजङ्गाधिपतेः फणाग्रैरिति” कुमा० । पत्यन्तत्वात्
भावादौ यक् आधिपत्यम् । अत्यन्तैश्वर्य्ये न० । “शैला-
थिपत्यं स्वयमन्वतिष्ठदिति” कुमा० । सपूर्ब्बपदकत्वात्
स्त्रियां ङीष् नश्चान्तादेशः । “विष्टम्भिनीं दिशामधिप-
त्नीमिति यजु० १४, ५, अधिपत्नीं स्वामिनीमिति” दीपः ।

अधिपा त्रि० अधिपाति अधि + पा क्विप् अधिपतौ,

अधिपालके च “स्वर्यदश्मन्नधिपा उ अन्धोऽभि” ऋ० ७, ८८, २ ।

अधिपु(पू)रुष पु० अधिकः उत्तमः पु(पू)रुषः प्रा० स० ।

परंमेश्वरे । पु(पू)रुषे विभ० अव्ययी० । पु(पू)रुषमधिकृत्ये-
त्यर्थे अव्य० ।

अधिप्रज त्रि० अधिका प्रजा यस्य । बहुप्रजायुक्ते । प्रा० स० । बहुप्रजायां स्त्री ।

अधिभू पु० अभिभवति स्वामीभवति स्वाम्यर्थेऽत्राधिः अधि +

भू--क्विप् । प्रभौ ।

अधिभूत अव्य० भूतेषु विभ० अव्ययी० । भूतान्यधिकृत्ये-

त्यर्थे “अधिभूतं किमुच्यत” इत्यर्जुनप्रश्ने “अधिभूतं क्षरो-
भाव” इति भगवदुत्तरम् इति गीता । “भूतं प्राणि-
मात्रमधिकृत्य भवतीत्यधिभूतमुच्यते” इति श्रीधरः ।
अधिभूतं भवः अनुशतिका० द्विपदवृद्धिः आधिभौतिकम् ।
भूतान्यधिकृत्य जाते दुःखादौ त्रि० ।

अधिभोजन न० अधिकमत्यन्तं भोजनम् प्रा० स० । अत्यन्त-

भोजने । भोजनं निरुक्ते धननामसु पठितम् अधिकं धनं
मूल्यं यस्य । अतिमूल्यलभ्ये वस्तुनि त्रि० । “दश
वस्राधिभोजना इति ऋ० ६, ४७, २३ अधिभोजना अधिकं
धनं मूल्यं येषां तादृशानि दश वस्त्राणीति भाष्यम् ।

अधिमन्थ पु० अधिकं मथ्यतेऽनेन अधि + मन्थ--करणे घञ् ।

“उत्पाट्यत इवात्यर्थं नेत्रं निर्मथ्यते तथा । शिरसोऽर्द्धं
तु तं विद्यादधिमन्थं स्वलक्षणैः” इत्युक्ते अरणिकाष्ठ-
मन्थनावयवभेदे ।

अधिमांस न० अधिकं मांसमत्र । “विस्तीर्णं मृदु बहुलं

यकृत्प्रकारं श्यावं वा तदधिमांसजार्म विद्यादिति” वैद्यकोक्ते
रोगभेदे ।

अधिमांसक पु० अधिको मांसो यत्र ब० कप् । “हनूस्थे

पश्चिमे दन्ते महाशोथो महारुजः । कालास्नायी कफकृतो
विज्ञेयः सोऽधिमांसक” इति वैद्यकोक्ते दन्तरोगविशेषे ।

अधिमात्र त्रि० अधिका मात्रा यस्य, अधिकं प्रमाणमस्य मात्रच्

वा । अधिकप्रमाणे ।

अधिमास पु० अधिको रविमासादतिरिक्तः शुक्लप्रतिपदादि-

दर्शान्तश्चान्द्रो मासः प्रा० स० । मलमासे “असंक्रान्त-
मासोऽधिमासो निरुक्त” इतिस्मृत्युक्तो रविसंक्रान्तिवर्जितो
मासोऽघिमासः । तथा हि “मीनादिस्थो रविर्य्येषामारम्भः
प्रथमे क्षणे । ते चैत्राद्या” इत्युक्तदिशा मीनस्थे रवौ यस्य
चान्द्रमासस्यारम्भः स चैत्रः एवं मेषस्थरवारब्धो वैशाख
पृष्ठ ०१३२
इव्येवं स्थिते यस्मिन् चान्द्रमासे रवेः राश्यन्तरसंक्रमो न
जातः, तस्य तदुत्तरस्य च चान्द्रमासस्य उभयोर्मेषस्थे रवौ
स्वारम्भात् उभयोरपि वैशाखता, तत्राद्योऽधिमासः संक्रा-
न्तिहीनत्वात् द्वितीयः शुद्धः इति स्मृतौ प्रसिद्धम् । यथा
मलमासतत्त्वे लघुहारीतः ॥ “इन्द्राग्नी यत्र हूयते” इत्युक्त्वा
“तमतिक्रम्य तु रविर्यदा गच्छेत् कथञ्चन । आद्योमलिम्लु-
चोज्ञेयोद्वितीयः प्रकृतः स्मृतः । तस्मिंस्तु प्रकृते मासि-
कुर्य्यात् श्राद्धं यथाविधि । तथैवाभ्युदयं कार्य्यं नित्यमेकं तु
मर्वदा” । “यदा तं दर्शान्तमासमतिक्रम्य तत्पूब्बमासा-
न्त्यक्षणवृत्तिराशिस्थः सन् सूर्य्योऽतिवाह्य गच्छेत् मासा-
न्तरे राश्यन्तरसंयोगं गच्छेत्तदाद्योऽतिक्रान्तोमासोमलिम्लु-
चोज्ञेयः” । ज्योतिषे । “अमावास्याद्वयं यत्र रविसंक्रान्तिवर्जि-
तम् मलमासः स विंज्ञेयोविष्णुः स्वपिति कर्कटे” । “अमा-
वास्याद्वयं अमावास्यान्त्यक्षणद्वयं रविसंक्रान्तिभ्यां क्रियोत्-
पत्तिरूपोत्तरसंयोगरूपाभ्यां यथाक्रमं वर्जितं तेन दर्शान्त्य-
क्षणद्वययोरेव क्रियोत्पत्त्युत्तरसंयोगाभ्यां यथाक्रमं संयोगे-
नाधिमासः । संक्रान्तेरेकक्षणे क्रियोत्पत्तिरपरक्षणे
पूर्ब्बसंयोगनाशः उत्तरसंयोगोत्पत्तिश्चेति क्षणद्वयवृत्ति-
त्वमिति मीमांसकसिद्धान्तात्” । गृह्यपरिशिष्टज्योतिः-
पराशरौ । “रविणा लङ्घितोमासश्चान्द्रः ख्यातोमलि-
{??}चः । तत्र यद्विहितं कर्म्म उत्तरे मासि कारयेत्”
पराशरः । “पक्षद्वयेऽपि संक्रान्तिर्यदि न स्यात् सिता-
सिते । तदा तन्मासविहितमुत्तरे मासि कारयेत्” ।
अत्र लङ्घनमसंक्रमणञ्च रवेस्तदा भवति यदा तन्मास
तत्पूर्ब्बमासान्त्यक्षणयोरेकराश्यवस्थितस्य तन्मासानन्तर-
संयोगः, न त्वेकराशिस्थितस्य मासव्यापनमात्रं तथात्वे
चतुर्द्दश्यामेकराशौ संक्रान्तस्य प्रतिपत्प्रथमक्षणेऽपरराशौ,
तत्परराशौ च द्वितीयायां प्रतिपदि वा रवेः संयोगे-
ऽपरस्यापि मलमासता स्यात्” । अतएव ज्योतिषे “अमा-
वास्यापरिच्छिन्नं रविसंक्रान्तिवर्ज्जितम् । मलमासं
विजानीयाद्गर्हितं सर्वकर्म्मसु । तस्यार्कोदर्शकश्चैकराशौ
दर्शद्वयातिगः” । “अत्रैकराशिस्थार्कस्य दर्शद्वयातिगत्व-
मुक्तम् । एतच्च पूर्ब्बोपदशितयोर्मासयोः पूर्ब्बस्यैव सम्म-
वति न परस्य” । मलमासकारणन्तु ज्योतिषे । “दिव-
सस्य हरत्यर्कः षष्टिभागमृतौ सदा । करोत्येकमह-
श्छेदं तथैवैकञ्च चन्द्रमाः । एवमर्द्धतृतीयानामब्दानाम-
धिमासकम् । ग्रीष्मे जनयतः पूर्ब्बं पञ्चाब्दान्ते तु पश्चि-
मम” । “तेन दिवसस्य तिथेः षष्टिभागं दण्डमेकं
रविर्हरति छेदयति उत्तरे छेदमित्यभिधानात् । ततश्च
ऋतौ मासद्वये षष्टिनाड़ीच्छेदादह्नस्तिथेश्छेदमाकर्घणं
करोति । एवं चन्द्रोऽपि । एवमित्युक्तक्रमेण वर्षे द्वादश
तिथ्यात्मककालाकर्षादर्द्धतृतीयानामन्ते अर्द्धं तृतीयं येषां
ते तथा । ग्रीष्मे माधवादिषु षट्केषु पूर्ब्बं माधवादित्रिक-
पतितं, पञ्चाब्दान्ते तु पश्चिमं श्रावणादित्रिकपतितं
मलमासञ्चन्द्रार्कौ जनयतः” । मिहिरः । “माधवादिषु षट्केषु
मासि दर्शद्वयं यदा । द्विराषाढः स विज्ञेयः शेते तु
श्रावणेऽच्युतः । “मिथुनोपगतो भानुरमावास्याद्वयं स्पृशेत् ।
द्विराषाढः स विज्ञेयोविष्णुः स्वपिति कर्कटे” । “अमावा-
स्याद्वयं तदन्त्यक्षणद्वयं स्पृशेत् संयुज्यात् न तन्मध्ये राश्य-
न्तरसंयोग इत्यर्थः” । “कन्यासिंहकुलीरेषु यदा दर्शद्वयं
भवेत् । आगामिनि तदा वर्षे कुलीरे माधवः स्वपेत्” ।
यद्यपि “यां तिथिं समनुप्राप्य तुलां गच्छति भास्करः ।
तयैव सर्वसंक्रान्तिर्यावन्मेषं न गच्छति” इति “राजमार्त्त-
ण्डवचनात्तुलादिषण्मासे तिथिवृद्ध्यभावाद्वर्षे द्वादशवृद्धि-
रनुपपन्ना तथापि “मध्ये विषुवतोर्भानुर्यान्यहानि तु
वर्द्धयेत् । तैः सम्भूयाधिकोमासः पतत्येव त्रयोदशः”
इति “गृह्यपरिशिष्टवाक्ये विषुवतोर्मेषतुलासंक्रान्त्योर्मध्ये
मेषादिषण्मास एव तिथिवृद्धिरुक्ता अहर्गणने मेषा-
दिषण्मासे मन्दभुक्त्या सप्तदिनवृद्धिस्तुलादौ शीघ्रभुक्त्या
दिनद्वयह्रासः” इति तथा च ज्योतिःशास्त्रम् “मेषादीना-
महर्वृन्दं षण्णां सप्ताष्टचन्द्रकम् (१८७) । तुलादीनामष्ट-
सप्तचन्द्रकन्तु (१७८) लिखेत् पृथक्” । “चन्द्र एकः “अङ्कस्य
वामा गतिः” इत्यङ्कविदां समयात् व्युत्क्रमेणाङ्का बोध्याः ।
तेन दिनवृद्धि ५ क्रमसञ्चयाभ्यां ६ मेषादिषट्के एव
एकादशतिथिवृद्धिः” । एवञ्च “गतेऽब्दद्वितये सार्द्धे पञ्चपक्षे
दिनद्वये । दिवसस्याष्टमे भागे पतत्येकोऽधिमासकः” । इति
“राजमार्त्तण्डोक्तः सप्तदशदिनाधिकाष्टमासाधिकवर्षद्वयेऽधि-
मासः । स च सौरे मासि सप्तदशदिनोत्तरं चान्द्रमासलङ्घ-
नासम्भवात् सावनमानेन ज्ञेयः इति” । सिद्धान्तशिरोमणौ तु
४३२००००००० कल्पप्रमाणवर्षेषु १५९३३०००००
एतन्मिता अधिमासाभवन्तीत्युक्तम् यथा “लक्षाहता
देवनवेषुचन्द्राः कल्पेऽधिमासाः कथिताः सुधीभिरिति” ।
“अत्रोपपत्तिः प्रकृतास्तावद्रविमासास्तेभ्यश्चान्द्रमासा
यावद्भिरधिकास्तावन्तोऽधिमासा” इति । तदेवाह । “रवेः
कोटिनिघ्नाः कृताऽष्टेन्दुवाणाः” ५१८४०००००००
“सुराग्न्यब्धिरामेषवो लक्षनिघ्नाः ५३४३३३००००० ।
पृष्ठ ०१३३
शाशाङ्कस्य मासाः पृथक् सूर्य्यमासैर्विहीनास्तु कल्पेऽथवा
तेऽधिमासाः इति” ॥ इष्टवर्षेअधिमासानयनं तत्रैवोक्तं यथा
“कथितकल्पगतार्कसमागणो रविगुणो गतमाससमन्वितः ।
खदहनै (३०) र्गुणितस्तिथिसंयुतः पृथगतोऽधिकमाससमा-
हतात् (१५९३३०००००) ॥ रविदिना (१५५५२००-
००००००) प्तगताधिकमासकैः कृतदिनैः सहितो द्युगणो
विधोः” इति । अत्र वासना कल्पगताब्दा द्वादशगुणिता
रविमासा जातास्ते चैत्रादिगतचान्द्रतुल्यैः सौरैरेव युता-
स्त्रिंशद्गुणा इष्टमासप्रतिपदादिगततिथितुल्यैः सौरैरेव
दिनैर्युताः एवन्ते सौरा जातास्तेभ्यः पृथक् स्थितेभ्योऽधि-
मासानयनं त्रैराशिकेन, यदि कल्पसौरदिनैः कल्पाधिमासा
लभ्यन्ते तदैभिः किमिति फलम् गताधिमासाः । तै र्दिनी-
कृतैः पृथक् स्थितः सौराहर्गणसहितश्चान्द्रो भवति यतः
सौरचान्द्रान्तरमधिमासदिनान्येव” इति । सूर्य्यसिद्धान्तेऽप्यु-
क्तम् । “भवन्ति शशिनो मासाः सूर्य्येन्दु भगणान्तरम् ।
रविमासोनितास्ते तु शेषाः स्युरधिमासकाः” इति ॥ सूर्य्यचन्द्र-
भगणयोरन्तरं चन्द्रस्य मासः भवन्ति ते चान्द्रमासा रविमासो
निताः सन्तः शेषा अवशिष्टा ये चान्द्रमासास्तेऽधिकमासा एव
भवन्ति नान्ये । अनेन चान्द्रत्वमघिमासानां स्पष्टीकृतम् ।
अत्रोपपत्तिः । त्रिंशत्तिथ्यात्मकस्य रवीन्दुयुतिकालरूप-
दर्शान्तावधेश्चाग्द्रस्य, द्वादशराशिमितेन सूर्य्येन्द्वन्तरेणैव सिद्धिः
कथमन्यथा दर्शान्ते जातस्य मन्दशीघ्रयोः सूर्य्येन्द्वोर्योगस्य
पुनर्दर्शान्ते सम्भवः । द्वादशराश्यन्तरं त्वेकं भगणान्तरमतो
भगणान्तरेण चान्द्रो मासः सिद्धः । सौरमासापेक्षया
यदन्तरेण चान्द्रमासानामधिकत्वं त एवाधिमासा इति ।

अधियज्ञः पु० अधिकृतोयज्ञो यस्मात् प्रा० ब० । परमेश्वरे ।

“अधियज्ञः कथं? कोऽत्रे” त्यर्जुन प्रश्ने । “अधियज्ञोऽहमे
वात्र देहे देहभृतां वर!” इति भगवदुत्तरम् गीतायाम् ।
“अत्रास्मिन् देहेऽन्तर्यामित्वे न स्थितोऽहमधियज्ञः यज्ञा-
दिकर्म्मप्रवर्त्तकस्तत्फलदाता चेति” श्रीधरः । यथा च
तस्य सर्व्वान्तर्यामित्वं तथा अधिदेवताशब्देऽन्तर्यामि-
ब्राह्मणे पुरस्ताद्दर्शितम् । यज्ञे विभ० अव्ययी० । यज्ञ-
मधिकृत्येत्यर्थे अव्य० । अधियज्ञं ब्रह्म जपेदिति मनुः,
यागे विभ० अव्ययी० । अधियागमप्युक्तार्थे अव्य० । अधिकः
अधिकाङ्गयागः प्रा० स० । अधिकाङ्गे यागे पु० ।

अधियोग पु० अधिकोयोगः प्रा० स० । ज्योतिषप्रसिद्ध

यात्रिकशुभयोगे । स च गमनसमयलग्ने--तस्माद्वा चतुर्थे,
पञ्चमे, सप्तमे, नवमे, दशमे, वा अत्यतमस्याने बुधजीव-
भार्गवाणां मध्ये द्वयोः स्थितौ सत्यां भवति । “योगे
क्षेममथाधियोगमने क्षेमं विपूणां बध इति” मुहू० ।

अधियोध पु० आधिक्येन युध्यति अधि + युध--अच् ।

अतियोद्धरि । विभ० अव्ययी० । योधे इत्यर्थे अव्य० ।

अधिरथ अध्यारूढः रथं रथिनम् अत्या० स० । अतिरथे ।

कर्णपितरि पु० । “विवेशाधिरथोरङ्गं यष्टिप्राणो ह्वयन्नि-
वेति” भा० आदि० । तस्यापत्यम् इञ् । आधिरथिः
कर्णे पु० । कर्णपर्वणि भूरिप्रयोगोऽस्य ।

अधिराज् पु० अधिराजते अधि + राज--क्किप् । साम्राज्यवति,

नृपे, सम्पन्ननृपे च “प्रायोपविष्टो गङ्गायामनादृत्याधिराट्
श्रियमिति” भाग० । अधिकशोभान्विते त्रि० ।

अधिराज पु० अधिको राजा टच् समा० । अधीश्वरे साम्रा

ज्यवति, नृपे च । “शैलाधिराजतनया न ययौ न तस्था-
विति” “हिमालयोनाम नगाधिराज” इति च कुमा० ।

अधिराज्य न० अधिकं राज्यं प्रा० स० । साम्राज्ये ।

“अत्यन्यान् पृथिवीपालान् पृथिव्यामधिराज्यभागिति” ।

अधिराष्ट्र न० अधिकृतं राष्ट्रमत्र प्रा० ब० । राज्ये । विभ०

अव्ययी० । राष्ट्रमधिकृत्येत्यर्थे अव्य० ।

अधिरुक्म त्रि० अधिगतं रुक्ममाभरणं येन प्रा० ब० । अधि

गतसुवर्णाभरणे मानवे । अधिरुक्मा विनीयते” इति ऋ०
८, ४६, ३३, अधिरुक्मा अधिकरुक्माभरणेति” भाष्यम् ।

अधिरूढ त्रि० अधि + रुह--कर्त्तरि--क्त । उपरिभागे

आरोहणकर्त्तरि, अतिवृद्धिमति च ।

अधिरोपित त्रि० अधि + रुह--णिच्--पुक् कर्मणि क्त । अतिशयेनारोपिते ।

अधिरोहण न० अधि + रुह भावे--ल्युट् । उपर्य्यारोहणे ।

घञ् । अधिरोहोऽप्यत्र पु० ।

अधिरोहणी स्त्री अधिरुह्यतेऽनया अधि + रुह--करणे

ल्युट् । (मै) इति, (सिड़ि) इति च प्रसिद्धे काष्ठवंशादि-
निर्मिते उच्चस्थानारोहणसाधने सोपानवृन्दे । अधिरोहः
साधनत्वेनाख्यस्याः इनि । अधिरोहिणीत्यप्यत्र इति
शब्दकल्पद्रुमः तन्मूलं मृग्यम् । रायमुकुटादिभिः ल्युटैव-
तत्पदसाधनान्नास्य इन्यन्त्यता ।

अधिलोक अव्य० लोके विभ० अव्ययी० । लोके इत्यर्थे ।

अधिवक्तृ त्रि० अधि + वच--तृच् । पक्षपातेन वक्तरि ।

“विश्वाहेन्द्रो अधिवक्ता” इति ऋ० १, १००, १०,
अधिवक्ता पक्षपातेन वचनयुक्त इति भा० । स्त्रियां ङीप् ।

अधिवचन न० अधि + वच--ल्युट् । पक्षपातेन कथने ।

“अधिकवचनं पक्षपातेन वचन” मिति माधवाचार्य्यः ।
पृष्ठ ०१३४

अधिवस्त्र त्रि० अध्यावृतं वस्त्रं येन प्रा० ब० । उपरिनिहित

वस्त्रे । “यज्ञेभिरावृतोऽधिवस्त्रा बधूरिवेति” ऋ० ८, २
६, १३, अधिवस्त्रा उपरिनिहितवस्त्रेति भा० ।

अधिवाक पु० अधि--वच--घञ् । पक्षपातेन वचने ।

“तमिन्धनेषु हितेष्वधिवाकाय हरति” इति ऋ० ८, १५, ५,
“अधिवाकाय पक्षपातवचनायेति” भा० ।

अधिवास पु० अधि + वस निवासे--घञ् । निवासे “श्रीः

कैटभारिहृदयैककृताधिवासेति” देवीमा० । अधि + वास
सुरभीकरणे भावे घञ् । सौरभे “ककुद्मिकन्यावक्त्रान्त-
र्वासलब्धाधिवासयेति” माघः “अधिवासस्पृहयेव मारुत”
इति रघुः । अधिवासयति देवता अनेन अधि + वस--णिच्
करणे घञ् । यज्ञारम्भपूर्ब्बदिवसे देवतास्थापनादि-
कर्म्मणि । “अधिवासः परेऽहनीति” स्मृतिः “मध्यरात्रेऽधि-
वासयेदिति” स्मृत्युक्तेस्तस्य पूर्ब्बेद्युर्मध्यरात्रे कर्त्तव्यता ।
“आत्ययिकेषु कार्य्येषु सद्यएवाधिवासये” दित्युक्ते र्यागदिनेऽपि
क्वचित् कर्त्तव्यता । गन्धमाल्याद्यैः संस्कारे च ।

अधिवासन न० अधिवासयति स्थापयति देवता अनेन अधि +

वस--णिच् ल्युट् । यागपूर्बदिने देवताद्यावाहनपूर्बक-
पूजनादिकर्म्मभेदे । अधिवास्यते सुरभीक्रियते अधि + वास
सुरभीकरणी भावे ल्युट् । गन्धमाल्यादिभिः सुरभीकरणरूप-
संस्कारभेदे तद्द्रव्याणि च “मही गन्धः शिला धान्यं दूर्व्वा
पुष्पं फलं दधि । घृतं स्वस्तिकसिन्दूरं शङ्खकज्जलरोचनाः ।
सिद्धार्थं काञ्चनं रोप्यं ताम्रचामरदर्पणम् । दीपः प्रश-
स्तिपात्रञ्च विज्ञेयमधिवासने” इति स्मृत्युक्तानि वेद्यानि ।
“सायं षष्ठ्यान्तु कर्त्तव्यं पार्वत्या अधिवासनमिति” पुरा० ।

अधिवासित त्रि० अधि + वास--सुरभीकरणे कर्म्मणि क्त ।

सुरभीकृते गन्धमाल्यादिभिः कृतसंस्कारे । अधि +
वासनिवासे णिच् कर्म्मणि क्त । कृताधिवासने देवादौ ।

अधिवाहन न० अधि + वह--णिच्--ल्युट् । उपरि प्रापणे

वाहने, च । विभ० अव्ययो० । वाहनं यानमधिकृत्ये-
त्यर्थेअव्य० ।

अधिविकर्त्तन न० अधि + वि + कृत--छेदने ल्युट् । अत्यन्त-

च्छेदने “आशासनं विशासनमथो अधिविकर्त्तनमिति”
ऋ० १०, ८५, ३५ ।

अधिविद्य अव्य० विद्यायां विभक्त्य० अव्ययी० । विद्यामधि-

कृत्येत्यर्थे । “अधिविद्यं प्रकाशते इति” वाक्यपदीयम् ।

अधिविन्ना स्त्री अधि + विद--लाभे कर्म्मणि क्त । कृताधि-

वेदनायां यस्या उपरि विवाहान्तरं कृतं तस्यां स्त्रियाम्
“अधिविन्ना तु या नारी निर्गच्छेद्रुषिता गृहादिति” मनुः ।
अधिविन्नस्त्रियै देयमाधिवेदिनकं सममिति” याज्ञ० ।

अधिवेत्तृ पु० अधि + विद--लाभे कर्तरि तृच् । विवाहोत्तरं

विवाहान्तरकर्त्तरि ।

अधिवेद अव्य० वेदे--विभक्त्य० अव्ययी० । वेदमधिकृत्येत्यर्थे ।

अधि + विद--भावे घञ् । विवाहोत्तरं विवाहान्तरकरणे पु०

अधिवेदन न० अधि + विद--लाभे भावे ल्युट् । विवाहोपरि-

विवाहान्तरकरणे । तत्र नियुक्तादि ठक् । आधिवेदनिकम्
अधिवेदनविषयनियुक्ते तत्रलब्धे च धनादौ त्रि० ।
“अधिविन्नस्त्रियै देयमाधिवेदनिकं सममिति” याज्ञ० ।
“आधिवेदनिकाद्यं च स्त्रीधनं परिकीर्त्तितमिति” स्मृतिः ।
अधिवेदनकालनिमित्ते तु मत्कृतबहुविवाहवादे विस्तरत
उक्ते ततएवावसेये ।

अधिवेदनीय स्त्री अधि + विद--लाभे कर्म्मणि--अनीयर् ।

यद्विवाहोपरि विवाहान्तरकरणयोग्यं तादृश्यां स्त्रियाम् ।
कर्मणि यत् । अधिवेद्याप्यत्र स्त्री । “बन्ध्याष्टमेऽधिवेद्याब्दे”
इति मनुः ।

अधिश्रपण न० अधि + श्रा--पाके णिच्--पुक् ह्रस्वश्च भावे ल्युट् । पाचने ।

अधिश्रय पु० अधि + श्री--पाके भावे अच् । चूल्ल्यामुपरिस्था-

पनरूपे विक्लित्तिहेतुभूते व्यापारे, पाके ।

अधिश्रयण न० अधि उपरि श्रयणं पाकार्थं स्थापनं श्रीञ्-

भावे ल्युट् । चूल्ल्या उपरि स्थापने, तत्पूर्ब्बकपाके च ।
अधिश्रीयते पच्यतेऽत्र, आधारे ल्युट् ङीप् । चूल्ल्याम्
(आका) इति, (चूला), इति च ख्यातायाम् स्त्री ।

अधिश्रयणीय त्रि० अधिश्रयणाय पाकाय हितम् छ ।

पाकसाधनपात्रे । अधिश्रयितुमर्हति अधि + श्री--पाके अर्हार्थे
कर्म्मणि अनीयर् । पाकार्हे वस्तुनि त्रि० ।

अधिश्रयितवै अव्य० अधि + श्री--पाके वेदे कृत्यार्थे तवै ।

पचनीये “गौरेव दुग्धमधिश्रयितवै ब्रूयादिति” वेदः ।

अधिश्री त्रि० अधिका श्रीर्य्यस्य । अधिकशोभान्विते अधिक-

सम्पत्तिमति च “इयं महेन्द्रप्रभृतीनधिश्रिय” इति कुमा०
“समादिदेशाधिकृतानधिश्रीरिति” रघुः ।

अधिषवण न० अधिषूयते सोमः यत्र अधि + षू अभिषवे

आधारे ल्युट् । सोमाभिषवसाधनचर्म्मादिपात्रे । “अंशू-
निव ग्रावाभिषवणे” इति वेदः । भावे ल्युट् । अभिषवे ।

अधिषवण्या त्रि० अधिषवणाय हितम् यत् । अभिषवसाषने

फलके । “यत्र द्वाविव जघनाधिषवण्या कृता” इति ऋ०
१, २८, २ अधिषवण्या उभे अधिषवणफलके इति भा० ।
पृष्ठ ०१३५

अधिष्ठातृ त्रि० अधि + स्था--तृच् षत्वम् । अध्यक्षे, नियमित-

कार्य्यविशेषाकरणेन कृताकृतावेक्षके, नियन्तरि च ।
“आत्मेन्द्रियाद्यधिष्ठातेति” भाषा० । अधिदेवे च ।
“इन्द्रियाणामधिष्ठातृदेवास्ते परिकीर्त्तिता” इति पुरा० । ते
च अधिदेवताशब्दे दर्शिताः सर्वाधिष्ठाता तु परमेश्वर एव
तदपि तत्रैवान्तर्यामिब्राह्मणेन दर्शितम् । “तत्सान्निध्या-
दधिष्ठातृत्वं मणिवदिति” सांख्यसू० । यथायस्कान्तमणेः
सान्निध्यमात्रेण शल्यनिष्कर्षकत्वं न सङ्कल्पादिना
तथैवादिपुरुषस्य संयोगमात्रेण प्रकृतेर्महत्तत्त्वरूपेण परिणम-
नम् । इदमेव च सोपाधिस्रष्टृत्वमित्यर्थः । तथाचोक्तम् ।
“निरिच्छे संस्थिते रत्ने यथा लोहः प्रवर्त्तते । सत्ता-
मात्रेण देवस्य तथा चेयं जगज्जनिः । अत आत्मनि
कर्तृत्वमकर्तृत्वं च संस्थितम् । “निरिच्छत्वादकर्त्तासौ
कर्त्ता सन्निधिमात्रतः” इति सां० भा० । स्त्रियां ङीप् ।

अधिष्ठान न० अधि + स्था--ल्युट् । नियमितकार्य्यविशेषाकरणेन

सान्निध्यमात्रेण नियमनाय, स्थितौ, वेदान्तशास्त्रप्रसिद्धे
आरोपाधिकरणे च । वेदान्तिनाञ्च अध्यासस्याङ्गमधिष्ठानं
यथा तथाऽध्यासशब्दे वक्ष्यते । अधिकरणे ल्युटि । पुरे
आधारमात्रे, आश्रये च । “तदधिष्ठानाश्रयदेहे
तद्वाद इति” सां० सू० । “तस्य लिङ्गस्य यदधिष्ठानमाश्रयो
वक्ष्यमाणभूतपञ्चकं तस्याश्रये षाट्कौशिके देहे इति
भाष्यत्” । करणे ल्युटि । चक्रे, प्रभावे च चक्रेण, प्रभावेन च
हि प्रवृत्तयुद्धकृत्यादिसम्भवः । अधिष्ठानञ्च नियन्तृत्वं
यथोक्तं सांख्ये । “संहतपरार्थत्वात् त्रिगुणादिविपर्य्य-
यादधिष्ठानादिति” “इतश्च पुरुषोऽस्ति अधिष्ठानात्
त्रिगुणात्मकानामधिष्ठीयमानत्वात् यद्यत् सुखदुःखमोहात्मकं
तत् सर्व्वं परेणाधिष्ठीयमानं दृष्टं यथा रथादि यन्त्रादिभिः,
सुखदुःखमोहात्मकञ्चेदंबुद्ध्यादि, तस्मादेतदपि परेणाधिष्ठात-
व्यम् । स च परस्त्रैगुण्यादन्य आत्मेति” सा० कौ० । भावे
ल्युट् । सन्निधिमात्रे । “अत्राधिष्ठानं कुर्विति” आवाहन-
मन्त्रः । “भोक्तुरधिष्ठानाद्भोगायतननिर्म्माणमन्यथा पूति-
भावप्रसङ्गात्” इति सांख्यसू० “भोक्तुः प्राणस्याधिष्ठानात्
व्यापारादेव भोगायतनस्य शरीरस्य निर्म्माणं भवति ।
अन्यथा प्राणव्यापाराभावे शुक्रशोणितयोः पूतिभावप्रसङ्गात्
मृतदेहवदित्यर्थः । तथाच रससञ्चारादिव्यापारविशेषैः
प्राणो देहस्य निमित्तकारणं धारकत्वादिति भाव इति भा० ।
ननु प्राणिनः निर्व्यापारस्याधिष्ठाने प्रयोजनाभाव इति
तत्राह । “भृत्यद्वारा स्वाम्याधिष्ठितिर्नैकान्त्यात्” इति सा०
सू० । “देहनिर्म्माणे व्यापाररूपमधिष्ठानं स्वामिनश्चेतनस्यै-
कान्त्यात् अपेक्षा नास्ति किन्तु प्राणरूपभृत्यद्वारा यथा
राज्ञः पुरनिर्म्माण इत्यर्थः । तथा च प्राणस्याधिष्ठातृत्वं
साक्षात्, पुरुषस्याधिष्ठातृत्वं प्राणसंयोगमात्रेणेति सिद्धम् ।
कुलालादीनां घटादिनिर्म्माणेष्वप्येवम् । विशेषस्त्वयं तत्र
चेतनस्य बुद्ध्यादेश्चाप्युपयोगोऽस्ति बुद्धिपूर्ब्बकं स्रष्टृत्वा-
दिति । यद्यपि प्राणाधिष्ठानादेव देहनिर्माणं तथापि
प्राणद्वारा प्राणिसंयोगोऽप्यपेक्ष्यते पुरुषार्थमेव प्राणेन
देहनिर्माणादित्याशयेन भोक्तुरधिष्ठानादित्युक्तम् इति भा० ।
अधिष्ठीयते कर्म्मणि ल्युट् । अधिष्ठिते रुन्निधिमात्रेण
नियन्त्रिते । “इन्द्रियाणि मनो बुद्धिरस्याधिष्ठान-
मुच्यते” इति गीता ।

अधिष्ठित त्रि० अधि--स्था--कर्म्मणि क्त । अध्युषिते “विलोक्य

वृद्धोक्षमधिष्ठितं त्वयेति” कुमा० । सन्निविमात्रेण नियो-
जिते “ईश्वराधिष्ठिताः सर्वे स्वं स्वं कार्य्यं हि कुर्वते
इति पुरा० ।

अधिहरि अव्य० हरौ, विभ० अव्ययी० । हरिमधिकृत्येत्यर्थे

अधीकार पु० अधि + कृ--घञ् उपसर्गस्य दीर्घत्वम् ।

अधिकारशब्दार्थे “सर्वाकरेष्वधीकारो महायन्त्रप्रवर्त्तनम्”
इत्युपपातकगणनायां मनुः । “स्वागतं स्वानधीकारा-
निति” कुमा० ।

अधीत न० अधि + इङ--भावे क्त । अध्ययने, कर्म्मणि क्त ।

कृताध्ययने अभ्यस्ते च त्रि० “ईषदीषदनधीतविद्ययेति”
कुसु० । “अधीतवेदवेदाङ्गत्वेनेति” वे० सा० ।

अधीति स्त्री अधि + इङ् अध्ययने क्तिन् । अध्ययने “अधी-

तिबोधाचरणप्रचारणैरिति” नैष० । अधि + इक--स्मरणे
क्तिन् । स्मरणे “नू ते पूर्ब्बस्य वसो अधीतौ तृतीये”
इति ऋ० २, ४, ८, “अधीतौ स्मरणे” इति भाप्यम् ।

अधीतिन् त्रि० अधीतमनेन अधीत + इनि । कृताध्ययने ।

“त्वगुत्तरासङ्गवतीमधीतिनीमिति” कुमा० । एतदिन्य-
न्तयोगे च कर्म्मणि सप्तमी वेदेऽधीतीत्यादि किन्तु कर्म्मा-
विवक्षया प्रथमं भावे एव क्तः पश्चात् कर्म्मणा योगः
कृतपूर्ब्बी कटमित्यत्रंव । यथोक्तं हरिणा । “अकर्म्मकत्वे
सत्येव क्तान्ते भावाभिधायिनि । पश्चात् क्रियावता कर्त्त्रा
योगो भवति कर्म्मणेति” । विस्तरः सत्कृतसरलायां द्रष्टव्यः ।

अधीन त्रि० अधिगतमिनं प्रभुम् अत्या० स० । आयत्ते । वित्ता-

धीन इत्यादौ तु वित्ते अवि--इति वाक्ये समासे अध्युत्तर-
पदात् ख । “क्व नु मां त्वदधीनजीवितामिति” कुमा० ।
पृष्ठ ०१३६
“दाराधीनस्तथा स्वर्गः पितॄणामात्मनश्च ह” इति मनुः ।
“इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः” इति रघुः ।

अधीर त्रि० धीरः धैर्य्यान्वितः न० त० । चञ्चले, “कान्तस्या

धरमणिम् अधीरमाचुचुम्बेति” दशकु० । कातरे, रोगा-
दिनाकुलचित्ते च । विद्युति, नायिकाभेदे च स्त्री ।
तल्लक्षणं नायिकाशब्दे वक्ष्यते

अधीवास अधि + वस आच्छादने करणे घञ् । सर्व्वत

आवरके महाकञ्चुके वस्त्रभेदे । “अधीवासं परिमुच्योष्णीषं
संवेष्ट्य निवीते” इति कात्या० १५, ५, १३, उपरि सर्वतः
संछाद्यतेऽनेनेत्यधीवासः महाकञ्चुक इति तद्व्याख्या ।
“अधीवासेन प्रच्छादयतीति” कात्या० २०, ६, १५,
“उपरिष्टादावरकं वासोऽधीवास” इति वेददीपः ।

अधीश त्रि० अधिक ईशः प्रा० स० । सार्वभौमे अधिपतौ च ।

“अङ्गाधीशः स्वगेहे बुधगुरुकविभिः संयुत” इति जात० ।

अधीश्वर त्रि० अधिक ईश्वरः प्रा० स० । स्त्रियां ङीष् ।

राजनि “अधिगत्य जगत्यधीश्वरादिति” नैष० । प्रभौ च ।

अधीष्ट न० अधि + दिवा० इष--भावे क्त । सत्कारपूर्व्वकनियोगे,

“विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङिति” पा०
“अधीष्टं सत्कारपूर्ब्बकव्यापार” इति सि० कौ० ।
कर्म्मणि क्त । सत्कारपूर्व्वकं नियोजिते त्रि० ।

अधुना अव्य० अस्मिन् काले इदम्शब्दस्य न० । संप्रती-

त्यर्थे “प्रमदानामधुना” विड़म्बनेति कुमा० । अधुना
भवार्थे ठञ् । आधुनिकः इदानीन्तने त्रि० ।

अधुनातन त्रि० अधुना + भवार्थेड्युल् तुट्च । इदानीम्भवे स्त्रियां ङीप् ।

अधुर नास्ति धूः चिन्ता भारो वा यस्य अच्समा० । भारशून्ये

चिन्ताशून्ये च, न० त० । अधूः--अभारे अचिन्ते च ।
अक्षे तु नाच्समा० । अधूरक्षः इति ।

अधूमक पु० नास्ति धूमो यत्र कप् । धूमशून्ये ज्वलदग्नौ ।

अधृत पु० न धृतः । सर्वेषां धारकत्वेन केनापि न धृते

परमश्वरे, श्रुतौ “स भवगवः! कस्मिन्नु प्रतिष्ठितः?” इति प्रश्ने
“स्वे महिम्नी” त्युत्तरम् तेनान्याधृतत्वात् स्वप्रतिष्ठत्वाच्च तस्य
तथात्वम् । “अधृतः स्वधृतः स्वास्य इति विष्णु सहस्र० ।

अधृति स्त्री धृतिर्धारणं धैर्य्यं वा अभावार्थे न० त० ।

धारणाभावे, धैर्य्याभावे, च ।

अधृष्ट त्रि० धृष--निर्लज्जत्वे क्त न० त० । लज्जाशीले ।

धृष--अभिभवे क्त न० त० । अनभिभूते “यन्तं
नोमित्रावरुणावधृष्टमिति ऋ० ६, ६७, २, अधृष्टमनभिभूत-
मिति भा० । अहिंसिते च । “दूतासोवसवोऽधृष्टा” इति
ऋ० ६, ५०, ४, “अधृष्टा अहिंसिता” इति भा० ।

अधृष्य त्रि० न धृष्यः न० त० । अनभिभवनीये “अधृष्यश्चा-

भिगम्यश्च यादोरत्नैरिवार्णव” इति रथुः । धृष--निर्लज्जत्वे
भावे क्यप् तन्नास्ति यस्य । अप्रगल्भे, लज्जाशीले च त्रि० ।

अधेनु स्त्री न० त० । दोहनशून्यायां गवि । “अधेनुं दस्रा

स्तर्य्यमिति” ऋ० १, ११७, २०, “अधेनुम् अद्रोग्ध्री-
मिति” भा० ।

अधैर्य्य न० अभावार्थे न० त० । घैर्य्याभावे । ब० । धैर्य्यशून्ये त्रि० ।

अधोअक्ष त्रि० अधः अक्षस्य, अधस्तात् अक्षति अश्नुते वा

अक्ष--अच्, अश--स वा वेदे अतोलोपाभावः । अधरस्ताद्
व्यापके । “अधोअक्षाः सिन्धवः स्रोत्याभिरिति” ऋ० ३
६३, ९, “यदापः अक्षस्याधस्ताद्भवन्ति तदा रथादीनि नेतुं
शक्यन्ते” इति भा० ।

अधोऽंशुक न० अधरमंशुकम् अधर + प्रथमार्थे असि अधरस्य अधादेशश्च । परिधानवस्त्रे ।

अधोऽक्ष न० अधरमक्षं यत्र मार्गे अधर + प्रथमार्थे असि ब० ।

हविर्धानाक्षाधोमार्गे । “दक्षिणस्याक्षं प्राञ्चो निष्क्राम-
तीति” का० १२, ४, १४, दक्षिणहविर्धानाक्षाधोगार्गेण
प्राङ्मुखा निःसरन्तीति” वेददीपः ।

अधोऽक्षज पु० अक्षात् इन्द्रियात् जायते जन--ड ५ त० ।

अक्षजं प्रत्यक्षज्ञानम् अधरं ग्राहकत्वाभावाद्धीनं यस्य
अधर--प्रथमार्थे असि अधादेशश्च । इन्द्रियायोग्ये, “अधो
न क्षींयते जातु यस्मात्तस्मादधोऽक्षज” इत्युक्तलक्षणे, वा
विष्णौ । “व्याप्ती वायुरघोऽक्षज” इति विष्णुसह० ।
“द्यौरक्षं पृथिवी चाधस्तयोर्यस्मादजायत । मध्ये वैराज-
रूपेण ततोऽधोक्षजैष्यते” इति भाष्ये तथा च अण्ड-
कपालद्वयमध्ये विराड़्रूपेण जातत्वादस्य तथात्वम् ।
अधोभूते स्वस्वविषयेभ्यो निवर्त्तनेन प्रत्यक्प्रवांहिते अक्षगणे
जायते प्रकाशते इति अधोक्षज इति वा । तत्रैवार्थे ।

अधोगति स्त्री अधरस्मिन् अधस्तात् नरकादौ गतिः

नरकादिगमने “साधकानां त्वधोगतिरिति” तन्त्र० ।
नरकस्य च पापफलत्वेन पुण्यादधरत्वात् अधरत्वम्
“और्वे च सर्वे नरकाः सदैत्या” इति (सि० शिरो०)
और्वस्थाने एव नरकस्थितिरुक्ता और्वस्थिति श्च । “स्वादू-
दकान्तर्बडवानलोऽसौ पाताललोकाः पृथिवीपुटानी” त्यनेन
पातालसन्निकृष्टे तत्रैवोक्ता । अतो नरकानामधःस्थत्वम्,
भूगोलशब्दे विवरणं दृश्यम् । “जघन्यगुणवृत्तास्तु अधोग-
च्छन्ति तामसा इत्युक्तेः तामसानामधोगतित्वम् ।
अधोगतित्वञ्च पापादेव । अधःप्रदेशमात्रे गमने च “मूला-
पृष्ठ ०१३७
नामधोगतिरिति” काद० । अधोऽधस्तात् गतिर्य्यस्य ब० ।
नरकगामिनि त्रि० “अनपेक्षितमर्य्यादं नास्तिकं विप्रलुप्तकम्
अरक्षितारमत्तारं नृपं विद्यादधोगतिमिति” मनुः ८, ३९,
४१, अधोगतिं नरकगामिनमिति कुल्लूकभट्टः ।

अधोगामिन् त्रि० अधरस्मिन् अधः गच्छति गम--णिनि ।

नरकगामिनि, अधोभागे--गन्तरि च । स्त्रियां ङीप् ।

अधोघण्टा स्त्री अधरात् अधस्तादारभ्य घण्टेव तदाकारफल-

वत्त्वात् । अपामार्गे रत्नमाला ।

अधोजानु न० अधरं जानुनः प्रथमार्थे असि । जानुनोऽधरे

ब्राह्मणादीनां प्रमाणविशेषमभिधाय “सर्वेषां वाधोजानु
इति का० २१, ४, १८, “वा विल्पार्थे सर्वेषां जानुनोरध-
स्तात् अधोजान्विति” तद्व्याख्या ।

अधोजिह्विका स्त्री अल्पा जिह्वा जिह्विका अल्पार्थे कन्

अधोऽधरा जिह्विका कर्म्म० । (आलजिभ) इति ख्याता-
याम् तालुस्थजिह्विकायाम् ।

अधोदारु न० अधरं दारु अधर + प्रथमार्थे असि । काष्ठ-

मयद्वारस्याधरकाष्ठे (गोवराट्) ।

अधोदिश् स्त्री अधरा दिश् अधर + प्रथमार्थे असि कर्म्म० ।

दक्षिणस्यां दिशि । अस्या अधरत्वञ्चोदक्शब्दे वक्ष्यते ।

अधोदृष्टि त्रि० अधरस्मिन् अधः दृष्टिरस्य । योगाभ्यास-

समये नासिकाग्रमात्रदर्शनयुक्ते, तत्प्रकारस्तु “किञ्चित्
प्रकाशस्तिमितोग्रतारैर्भ्रूविक्रियायां विरतप्रसङ्गैः । नेत्रैरवि-
स्पन्दितपक्ष्ममालैर्लक्ष्यीकृतघ्राणमधोमयूखैरिति” कुमारे
“करणान्यवहिष्कृत्य स्थाणुवन्निश्चलात्मकः । आत्मानं हृदये
ध्यायेन्नासाग्रन्यस्तलोचन” इति योगसारे “गीतायामपि
“सम्पश्यन् नासिकाग्रं स्वमित्यादिना” दर्शितः ।
अधोदर्शनयुक्तमात्रे त्रि० । “अधोदृष्टिर्नैकृतिक” इति मनुः
४, १९६ । कर्म्म० । अधस्थदृष्टौ स्त्री ।

अधोऽधस् अधस् + अधस्तात् सामीप्ये द्वित्वम् । समीपाधोदेशे

“नवानधोधोवृहतः पयोधरानिति” माघः ।

अधोपहास पु० अधः अधोभागस्य स्मरमन्दिरस्य उपहासः

सन्धिश्छान्दसः । स्त्रीणामधोभागस्योपहसने । “यएवं
विद्वानधोपहासं चरत्यासां, स्त्रीणां सुकृतं वृङ्क्त” इति
वृ० उप० । वृङ्क्ते आवर्ज्जयतीति भाष्यम् ।

अधोभक्त न० अधरं भक्तं यस्मात् अधर + प्रथमार्थे असि

५ त० । भक्तभोजनान्ते पीयमानजले ।

अधोभाग अधरोभागः अधर + प्रथमार्थे असि कर्म्म० ।

अधरभागे “पूर्ब्बभागो गुरुः पुंसामधोभागस्तु योषितामिति” ।

अधोभुवन न० अधरमधः भुवनम् लोकः । सप्तसु पाता-

लेषु । तत्स्थानञ्च “भूमेरर्द्धं क्षारसिन्धोरुदक्स्थं जम्बुद्वीपं
प्राहुराचार्य्यवर्य्याः अर्द्धेऽन्यस्मिन् द्वीपषट्कस्य याम्ये
क्षारक्षीराद्यम्बुधीनां निवेशः ॥ लवणजलधिरादौ दुग्ध-
सिन्धुश्व तस्मादमृतममृतरश्मिः श्रीश्व यस्माद्बमूव ।
महितचरणपद्मः पद्मजन्मादिदेवैर्वसति सकलवासो वासुदेवश्च
यत्र ॥ दध्नो घृतस्येक्षुरसस्य तस्मान्मद्यस्य च स्वादुजलस्य
चान्त्यः । स्वादूदकान्तर्बडवानलोऽसौ पाताललोकाः
पृथिवीपुटानीति सि० शि० ॥ अधिकं भूगोलशब्दे वक्ष्यते ।

अधोमुख त्रि० अधो मुखं यस्य ब० । ज्योतिष-

शास्त्रे प्रसिद्धेषु नक्षत्रभेदेषु । यथा “मूलाश्लेषा कृत्तिका
च विशाखा भरणी तथा । मघा पूर्ब्बात्रयं चैव अधोमुख-
गणः स्मृत” इति । गोजिह्वाख्यवृक्षे (अनन्तमूल)
अवाङ्मुखे स्त्रियां वा ङीष् । “स्तब्धदृष्टिरधोमुख” इति
“अधोमुखैरूर्द्धमुखैस्य पत्रिभिः” इति रघुः । मुद्रा-
भेदे च तत्स्वरूपं मुद्राशब्दे वक्ष्यते ।

अधोराम पु० अधोभागे अधस्ताद्भागे रामः शुक्लः दृष्टितर्प-

कत्वात् तस्य रामत्वम् । अधोभागे शुक्लवर्णे “आश्विनाव-
धोरामाविति” य० २४, १, “अधोरामौ अधोभागे शुक्लवर्णा-
वजाविति” वेददीपः ।

अधोलोक पु० अधोऽधरो लोकः कर्म्म० । भूमेरधःस्थपाताले । अधोभुवनशब्दे विवरणम् ।

अधोवर्चस् त्रि० अधोगामि वर्च ज्योतिर्यस्य । अवाचीन-

ज्योतिष्के “तत्ते विद्वान् वरुण! प्रब्रनीम्यधोवर्चस”
इति वेदः ।

अधोवायु पु० अधोगामी वायुः शा० त० । अपानवायौ

पर्द्दशब्दकारके वाते “अधोवायुसमुत्सर्गे प्रहासेऽनृतभाषणे”
इत्युपक्रम्य “कर्म्म कुर्वन्नुपस्पृशे” दित्युक्तं स्मृतौ ।

अध्यक्ष त्रि० अधिगतोऽक्षं व्यवहारम् अत्या० स० । नृपस्य छत्र-

धारणादिव्यवहारेष्वधिकृते । अध्यक्ष्णोति व्याप्नोति अधि +
अक्ष--अच् । व्यापके । अधिगतं मूलतया अक्षमिन्द्रियम्
अत्या० स० । प्रत्यक्षज्ञाने । अर्श आदित्वात् अचि । तद्वि-
षये त्रि० । “द्रव्याध्यक्षे त्वचोयोगो मनसा ज्ञानकारण-
मिति” भाषा० । “सेनापतिबलाध्यक्षाविति” मनुः ।
अधिष्ठातरि सन्निधिमात्रेण नियन्तरि च “मयाध्यक्षेण प्रकृतिः
सूयते सचराचरमिति” गीता “यदध्यक्षेण जगता वयमा-
रोपितास्त्वयेति” कुमा० क्षीरिकावृक्षे पु० शब्दार्णवः ।

अध्यक्षर अव्य० अक्षरे--विभ० अव्ययी० । अक्षरमधिकृत्येत्यर्थे ।

पृष्ठ ०१३८

अध्यग्नि अव्य० अग्नौ अग्निसमीपे वा विभक्त्यर्थे सामीप्ये-

ऽर्थे वा अव्ययी० । अग्नौ अग्निसमीपे वेत्यर्थे । तत्र स्थाने
विवाहादौ स्त्रीभ्यो दत्ते धनादौ न० । स्मृतिशास्त्रे चास्मि-
न्नर्थे पारिभाषास्य कृता यथा “विवाहकाले यत् स्त्रीभ्यो
दीयते ह्यग्निसन्निधौ । तदध्यग्नि कृतं सद्भिः स्त्रीधनं
परिकीर्त्तितमिति” कात्या० । “अध्यग्न्यध्यावाहानिकंदत्तं
च प्रीतिकर्म्मणि भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृत-
मिति” मनुः । “पितृमातृपतिभ्रातृदत्तमध्यग्न्युपागतम् ।
आधिवेदनिकाद्यञ्च स्त्रीधनं परिकीर्त्तितमिति याज्ञ० ।
“विवाहकालेऽग्नावधिकृत्य मातुलादिदत्तमिति” मिताक्षरा ।
अध्यग्निकृतमित्येकं पदं दत्तमध्यग्न्युपागतमित्येकवाक्य-
त्वात् कृतं दत्तमित्यर्थः इत्येके ।

अध्यच् त्रि० अधि + अन्चु--क्विप् । अधिगन्तरि ।

अध्यण्डा स्त्री अधिकमण्डमिव वीजं यस्याः ६ त० । अधिक

वीजवत्याम् (भुंइ आमला) इति ख्यातायाम्
भूम्यामलक्याम् ।

अध्यधिक्षेप पु० अधिकोऽधिक्षेपः प्रा० स० । अत्यन्तनिन्दा-

यामतिशयतिरस्कारे च “गुरूणामध्यधिक्षेप” इति ।

अध्यधीन त्रि० आधिक्येन अधीनः । अत्यन्ताधीने गर्भदासे

तस्य जन्मावधि दासत्वात् क्रयविक्रयार्हत्वाच्च तथात्वम् ।

अध्यय पु० अधि--इङ्--इक् वा भावे अच् । अध्ययने

स्मरणे च ।

अध्ययन न० अधि + इङ--ल्युट् । पठने, गुरुमुखोच्चारणानु-

सारिणि उच्चारणे च । अध्ययनञ्चाक्षरमात्रपाठ इति
वैदिकाः सार्थाक्षरग्रहणमिति मीमांसकाः । “इज्याध्यय-
नदानानि तपः सत्यं क्षमा दमः । अलोभ इति मार्गोऽयं
धर्म्मस्याष्टिविधः स्मृत” इति “अब्राह्मणादध्ययनमापत्काले
विधीयते” इति “श्रुताध्ययनसम्पन्न” इति च स्मृतिः
अध्ययनं च वेदाध्ययनं तत्र च त्रैवर्णिकानामधिकारः
यथोक्तं मनुना । “अध्यापनमध्ययनं यजनं याजनं तथा,
दानं प्रतिग्रहञ्चैव व्राह्मणानामकल्पयत् ॥ प्रजानां रक्षणं
दानमिज्याध्ययनमेव च । विषयेष्वप्रसक्तिञ्च क्षत्त्रियस्य
समासतः । पशूनां रक्षणं दानमिज्याध्ययनमेव च । बणिक्-
पथं कुसीदञ्च वैश्यस्य कृषिमेव च” इति मनुः । वेदाध्ययनञ्च
ब्रह्मयज्ञत्वेनाभिधीयते तच्च ब्रह्मयज्ञशब्दे वक्ष्यते तच्च
सार्थाध्ययनमेव प्रशस्तं यथोक्तं ब्राह्मणसर्वस्वे “कूर्म्म-
पुराणे । न वेदपाठमात्रेण सन्तोषं कारयेद्गुरुः ।
पाठमात्रावसनस्तु पङ्के गौरिव सीदति । योऽधीत्य विधिव-
द्विप्रोवेदार्थं न विचारयेत् स सान्वयः शूद्रसमः पात्रतां
न प्रपद्यते” । व्यासः “वेदस्याध्ययनं कार्य्यं धर्म्मशास्त्रस्य-
चापि यत् । अजानतार्थं तत् सर्वं तुषाणां कण्डनं यथा”
तथा “यथा पशुर्भारवाही न तस्य भजते फलम् । द्विज-
स्तथार्थानभिज्ञो न वेदफलमश्नुते” । तथा “पाठमात्ररता-
न्नित्यं द्विजातींश्चार्थवर्ज्जितान् । पशूनिव च तान् प्राज्ञो-
वाङ्मात्रेणापि नार्च्चयेत् । श्रुतहीनमधीतं यन्नेह नामुत्र
तद्भवेत् । श्रुतन्तु केवलमपि समुद्धाराय कल्पते” । स्थाणु-
रयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् ।
अर्थवित् सकलं भद्रमश्रुते नाकमेति ज्ञानविधूत पाष्म्या ।
व्यासः । “योऽधीते नार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा ।
भारवाहीव भृतकः केवलं क्लेशभाग्भवेत् । तस्मादर्थपरिज्ञाने
यत्नः कार्य्योविजानता” । व्यासः । “ज्ञानं कर्म्म च संयुक्तं
मुक्त्यर्थं कथितं यथा । अधीतं श्रुतसंयुक्तं तथा श्रेष्ठं
न केवलम्” व्यासः । “अधीत्य यत्किञ्चिदपि वेदार्था-
धिगमे रतः । स्वर्गलोकमवाप्नोति धर्म्मानुष्ठानविद्द्विजः” ।
मनुः “वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् । इहैव
लोके तिष्ठन् स ब्रह्मभूयाय कल्पते” । व्यासः । “समु-
च्चितं स्तोकमपि श्रुताधीतं विशिष्यते । चतुर्णामपि वेदाना
केवलाध्ययनात् द्विजात्” । वृहद्व्यासः “अनूचानाग्रन्थिनः
श्रेष्ठा ग्रन्थिभ्यो धारिणोवराः । धारिभ्यश्चार्थतत्त्वज्ञा-
स्तेप्योऽप्यध्यात्मचिन्तकाः” इति ॥ एतच्च स्याध्येयोऽध्येतव्य”
इति श्रुतौ मीमांसकैः विस्तरतो व्यवस्थापितम् ।

अध्यर्द्ध त्रि० अधिकमर्द्धं यस्य ब० । स्वार्द्धेन सहिते वस्तुमात्रे ।

“एकाधिकं हरेज्ज्येष्ठः पुत्रोऽध्यर्द्धं ततोऽनुज” इति मनुः ।
एकाधिकमंशं द्वावंशाविति यावत् ज्येष्ठपुत्त्रो गृह्णीयात्
अधिकर्मद्धं यत्रांशे सार्द्धमंशं इति कुल्लू० । अर्द्धशब्दः
रूपकार्द्धेरूढ़ः तेन सार्द्धरूपके च । अध्यर्द्धपूर्ब्बात् क्रीताद्यर्थे
“अध्यर्द्धपूर्ब्बद्विगोर्लुगसंज्ञायामिति” पा० अध्यर्द्धपूर्ब्बात्
द्विगोश्चार्हीयस्य टञो लुक् । अध्यर्द्धकंसम् । “विंशति-
कात्ख” इति षा० । खविधान्न लुक् । अध्यर्द्ध-
विंशतिकीनं “खार्य्याईकन्” पा० । अर्ध्यर्द्धखारी-
कम् “पणपादमाषशताद्यत्” पा० । अध्यर्द्धपण्यं अध्यर्द्ध-
पाद्यम् अध्यर्द्धमाष्यम् अध्यर्द्धशत्यम् “शाणाद्वेति” पा०
यत् ठञ् तस्य लुक्च वेति अध्यर्द्धशाण्यम् अध्यर्द्धशाणम् ।
इत्यादयः शब्दाः तत्क्रीतार्थे त्रि० । अध्यृध्नोति यत्र अधि +
ऋध--आधारे घञ् । वायौ । “कत्येव देवा याज्ञवल्क!
इति” याज्ञवल्क्यं प्रति शाकल्यप्रश्ने तत्र याज्ञवल्क्येन
“अध्यर्द्ध” इत्युत्तरं (वृ० उ०) दत्तम् तस्य विशेषज्ञानाय
पृष्ठ ०१३९
“कतमोऽध्यर्द्ध”? इति पुनः शाकल्यप्रश्ने, “योऽयं पवत”
इत्युक्तं तत्र पवत इत्यनेन वायुरुकः । “तदाहुर्यदयमेकएष
पवते अथ कथमध्यर्द्ध”? इति । वायोरेकत्वेन अध्यर्द्ध-
शब्दार्थस्य सार्द्धत्वस्यासम्भवे पुनराक्षिप्ते “यदस्मिन् इदं सर्व-
मध्यार्ध्नोत् तेनाध्यर्द्ध” इत्युत्तरम् तेन अधिकवृद्धिहेतुत्वात्
वायोरध्यर्द्धत्वात् तथात्वम् अधि + ऋध--लङ् अध्यार्ध्नोत् ।

अध्यवसाय पु० अधि + अव--सो--घञ् । इदमेवमेवेति विषय-

परिच्छेदे निश्चये । स चात्मधर्म इति नैयायिकाः बुद्धिधर्म
इति सांख्यादयः । “उपात्तविषयाणामिन्द्रियाणां वृत्तौ सत्यां
बुद्धेः रजस्तमोऽभिभये सतियः सत्त्वसमुद्रेकः सोऽयमध्यव-
साय इति वृत्तिरिति चाख्यायते” इति सांख्यतत्त्वकौमुदी-
परिभाषितलक्षणः, “कर्त्तव्यमिति योऽयं निश्चयः चित्-
सान्निध्यात् प्राप्तचैतन्याया बुद्धेः परिणामः सोऽयमध्य-
वसाय” इत्युक्तलक्षणो वा निश्चयः । “प्रतिविषयाध्यवसायो
दृष्टमिति सां० का० । उत्साहे च । उत्साहश्च कर्म्मसु
सुकरत्वेन ज्ञानात् उद्यमभेदः ।

अध्यवसायित त्रि० अध्यवसायो जातोऽस्य तारा० इतच् ।

जाताध्यवसाये ।

अध्यवसायिन् त्रि० अधि + अव--सो--णिनि । उत्साहान्विते निश्चयवति च ।

अध्यवहनन न० अधि--उपरि अवहननम् । पूर्ब्बावघातेन

वितुषीकरणेऽपि पुनरवघाते । तेन च “व्रीहीनवह-
न्तीति” नियमपालनम् ।

अध्यशन न० अधिकमशनम् । “साजीर्णे भुज्यते यत्तु

तदध्यशनमुच्यते” इति सुश्रुतोक्ते अजीर्णेऽपि अघिकाशने ।
“यथोक्तैः प्रकोपणैर्विरुद्धाध्यशनस्त्रीप्रसङ्गेत्यादि” सुश्रुतम् ।

अध्यस्त त्रि० अधि + अस--कर्म्मणि क्त । कृताध्यासे

आरोपिते, अध्यासश्चाग्रे वक्ष्यते तद्विषये मिथ्याभूते पदार्थे ।
शुक्तौ रजतमध्यस्तम् ब्रह्मणि जगदध्यस्तमित्यादि ।

अध्यात्म अव्य० आत्मानं देहमिन्द्रियादिकं क्षेत्रज्ञं ब्रह्म

वाऽधिकृत्य टच् समा० । देहमिन्द्रियादिकम् आत्मानं ब्रह्म
वाधिकृत्येत्यर्थे । तत्र देहाधिकारे “अध्यात्ममिति” वृ० उ०
अधिदेवताशब्दे दृश्यम्, तत्र प्राणाद्यधिकारेण अन्तर्या- ।
मित्वमुक्तम् । क्षेत्रज्ञाधिकारे “अध्यात्मयोगाधिगमेनेति” ।
“अध्यत्मरतिरासीनो निराकाङ्क्षो निरामिष” इति मनुः ।
“आत्मानं ब्रह्माधिकृत्येति” कुल्लू० । “जरामरणमोक्षाय
मामाश्रित्य यतन्ति ये । ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं
कर्म्म चाखिलमिति” गीता । “ते जनाः परं ब्रह्म
कृत्स्नमध्यात्मञ्च विदुः । ये तत् प्राप्तव्यं देहादिव्यति-
रिक्तं शुद्धमात्मानञ्च जानन्तीति” श्रीध० । “अक्षरं परमं
ब्रह्म स्वभावोऽध्यात्ममुच्यते” इति गीता । “स्वस्यैव ब्रह्मण
एवांशतया जीवस्वरूपेण भावोभवनं स एवात्मानं देहम-
धिकृत्य भोक्तृत्वेन वर्त्तमानोऽध्यात्मशब्देनोच्यते” इति
श्रीधरः । तेन देहाधिकारेण भोक्तृतया ब्रह्मणोऽंशस्य
जीवभवनेऽस्य पारिभाषिकत्वं सूचितम् “अध्यात्मविद्या
विद्यानां वादः प्रवदतामहमिति” गीता सा च विद्या
न्याय वैशेषिकमते देहभिन्नत्वेन, सांख्यादिमते प्रकृतिभिन्न-
त्वेन आत्मनः स्वरूपादिप्रतिपादिका । वेदान्तिमते तु
ब्रह्माभिन्नत्वेनेति भेदः । सर्व्वेषां मतेऽप्यात्मतत्त्व-
ज्ञानरूपत्वात्तस्या अध्यात्मविद्यात्वम् । तत्र नैयायिकवैशे-
षिकमते आत्मा द्विविधः जीवात्मा परमात्मा च । तत्र
जीवात्मानमधिकृत्य उदयनाचार्य्येण आत्मतत्त्वविवेकरूपप्रक-
रणं, परमात्मानमधिकृत्य च कुसुमाञ्जलिनामकमपरं प्रकरणं
निरमायि । सांख्ये ईश्वरानभ्युपमेन पुरुषस्य प्रकृत्यादिभ्यो
विवेकज्ञानाय षड़ध्यायीरूपं कपिलमुनिना, तन्मूलकमीश्वर-
कृष्णेन च सांख्यकारिकाः सप्ततिः निरमायिषत,
वाचस्पतिना च ता व्याख्याताः ततएव विस्तरोऽवसेयः । पातञ्जले
तु जीवानामीश्वरस्य च भेदस्वीकारेऽपि ईश्वरप्रणिधानेन
पुरुषस्य प्रकृत्यादिभ्यो भेदसाक्षात्कार इति भेदः ।
अधिकं तत्तच्छब्दे वक्ष्यते । “मयि कर्म्माणि
सर्व्वाणि संन्यस्याध्यात्मचेतसेति” गीता । “अध्यात्मचेतसा
विवेकबुद्ध्या” । अध्यात्मं जातः ठञ् । अनुशतिका० द्विपद-
वृद्धिः । आध्यात्मिकं दैहिके मानसिके च दुःखादौ त्रि० ।

अध्यात्मदृश् त्रि० अध्यात्मं पश्यति द्दृश--क्विन् । आत्मज्ञे

विषयत्यागेनात्ममात्रदर्शके ।

अध्यात्मयोग पु० आत्मानं क्षेत्रज्ञमधिकृत्य योगः । विषयेभ्यः

प्रतिसंहृत्य चेतसआत्मनि समवधाने । “अध्यात्म
योगाधिगमेनेति” ।

अध्यात्मरामायण न० आत्मानमधिकृत्य कृतं रामस्यायनं

यत्र । वाल्मीकिप्रणीते अध्यात्मज्ञानप्रतिपादके प्रस-
ङ्गतो रामचरितज्ञापके स्वनामख्याते ग्रन्थभेदे ।

अध्यात्मशास्त्र न० अध्यात्म प्रतिपादकं शास्त्रम् । आत्म-

स्वरूपादि प्रतिपादकग्रन्थे ।

अध्यापक पु० अध्यापयति अधि + इङ् णिच्--ण्वुल् ।

अध्ययनकारयितरि, उपाध्याये च । “भृतकाध्यापकोयस्तु
भृतकाध्यापितस्तथेति” मनुः । अस्य अकान्तत्वेऽपि
याजकादिगणे पाठात् षष्ठीसमासः तेन वेदाध्यापकः न्याया-
पृष्ठ ०१४०
ध्यापक इति । अध्यापकश्च द्विविधः आचार्य्य
उपाध्यायश्च यथोक्तं विष्णुना “यस्तूपनीय व्रतादेशं कृत्वा
वेदमध्यापयेत्तमाचार्य्यं विद्यात् । यस्त्वेनं मूल्येनाध्या-
पयेदकदेशं वा तमुपाध्यायमिति” ।

अध्यापन न० अधि + इङ्--णिच्--भावे ल्युट् । पाठनायाम् ।

“याजनाध्यापनं तथेति” मनुः । “अध्यापनञ्च त्रिविधं
धर्म्मार्थमृक्थकारणम् शुश्रूषाकारणञ्चेति त्रिविधं
परिकीर्त्तितमिति” हारीतसंहितोक्तेस्त्रिविधमध्यापनम्
अध्यापनप्रकारादि यथा “नापरीक्षितं याजयेत् नाध्या-
पयेत् नोपनयेत ॥ योऽधर्मेणाह यश्चाधर्म्मेण पृच्छति
तयोरन्यतरः प्रैति, विद्वेषं वाधिगच्छति ॥ धर्म्मार्थो यत्र न
स्यातां शुश्रूषा वापि तद्विधा । तत्र विद्या न वप्तव्या शुभं
वीजमिवोषरे । विद्याह वै ब्राह्मणमाजगाम गोपाय मां
शेवधिस्तेऽहमस्मि । असूयकायानृजवेऽयताय न मां ब्रूया-
वीर्य्यवती तथा स्याम् ॥ यमेव विद्याः शुचिमप्रमत्तं मेधा-
विनं ब्रह्मचर्य्योपपन्नम् । यस्ते न द्रुह्येत् कतमांश्च नाह
तस्मै मां ब्रूया विधिपाय ब्रह्मन् इति” ॥ युचि तु
स्त्रीत्वात् टापि, अध्यापना तस्मिन्नेवार्थे स्त्री ।

अध्यापित त्रि० अधि--इङ्--णिच् कर्म्मणि क्त । पाठिते

“अध्यापितस्योशनासापि नीतिमिति” कुमा० ।

अध्याप्य त्रि० अधि इङ्--णिच्--कर्म्मणि यत् । पाठनीये

अध्यापयितुमर्हे छात्रे “ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा
जितेन्द्रिय” इति मनुनाध्यपनीयार्हता दर्शिता ।

अध्याय पु० अधि + इङ्--घञ् । अध्ययने, कर्म्मणि घञ ।

वेदादिशास्त्रस्य एकार्थकविषयसमाप्तिद्योतके विश्रामस्थाने
अंशविशेषे, “सर्गोवर्गः परिच्छेदोद्घाताध्यायाङ्कसंग्रहाः ।
उच्छासः परिवर्त्तश्व पटलः काण्डमेव च । स्थानं प्रकरण-
ञ्चैव पर्व्वोल्लासाह्निकानि च । पुराणादौ परिच्छेदा
अनेके परिकीर्त्तिता” इत्युक्तान्यतमप्रकारे च “संकल्पिते
स्तोत्रपाठे संख्यां कृत्वा पठेत् सुधीः अध्याय प्राप्य विरमेन्न
तु मध्ये कदाचन । कृते विरामे मध्ये तु अध्यायादिं पुनः
पठेदिति” म० सू० “स्वाध्यायोऽध्येतव्य” इति श्रुतिः ।

अध्यारूढ त्रि० अधि + आ + रुह कर्म्मणि कर्त्तरि वा क्त ।

आक्रान्ते, अध्यारोहणकर्त्तरि उपरिष्टात् अरोहणकर्त्तरि,
समारूढे, अधिके च ।

अध्यारोप पु० अधि + आ--रुह--णिच्--पान्तादेशः घञ्

अतस्मिन् तद्बुद्धिरारोपः मिथ्याज्ञानम् किञ्चिदधिष्ठानमधिकृत्य
तादृशारोपः अध्यारोपः यथा असर्पभूतां रज्जुमधिकृत्य
सर्पारोपः तथैव अजगद्रूपे ब्रह्मणि जगद्रूपारोपः । तादृशे
मिथ्याज्ञाने । “स एष वीजाङ्कुरादिवदविद्याकृतः संसार
आत्मनि क्रियाकारकफलाध्यारोपलक्षणोऽनादिरनन्त” इति
वृ० उप० भाष्यम् ।

अध्यारोपण न० अधि + रुह--णिच् पान्तादेशः ल्युट् ।

अतिशयेनारोपणे धान्यादेर्वपने ।

अध्यावाप पु० अधि + आ + वप--षञ् । अधिवपने सस्या-

नामावापे । आधारे घञ् । तदाधारक्षेत्रे ।

अध्यावाहनिक न० अध्यावाहनं पितृगृहात् भर्त्तृगृहागमनं

तत्काले लब्धम् अधि + आ + वह--ल्युट् ततः लब्धार्थे ठन् ।
“यत् पुनर्लभते नारी नीयमाना हि पैतृकात् । अध्या-
वाहनिकं नाम स्त्रीधनं परिकीर्त्तितमिति” स्मृत्युक्तलक्षणे
पितृकुलात् भर्तृकुलगमनकाले तेभ्यः प्राप्ते स्त्रीधने ।
“अध्यग्न्यध्यावाहनिक स्त्रीधनं षद्ध्विधं स्मृतमिति” स्मृतिः ।

अध्यास पु० अधि + अस--क्षेपे घञ् । मिथ्याज्ञाने “आह

कोऽयमध्यासो? नामेति प्रश्ने “स्मृतिरूपः परत्र
पूर्ब्बदृष्टावभास” इति शा० भाष्यम् । स्मृतेः रूपमिव
रूपमस्य संस्कारप्रभवत्वात् । परत्र अन्यस्मिन् स्वभिन्ने स्वाभा-
ववति च पूर्ब्बदृष्टस्य पूर्ब्बानुभूतस्यावभासो ज्ञानम् ।
यथा शुक्तौ रजतभिन्नायां पूर्ब्बदृष्टस्य रजतस्याभेदज्ञानम्,
स्वाभाववति च स्फटिके पूर्ब्बानुभूतस्य लोहितरूपस्य वा
ज्ञानम् । तथाभूते मिथ्याभूतज्ञाने । तत्र चाध्यासे
अधिष्ठानशुक्त्यादौ इन्द्रियसंप्रयोगे सत्यपि तस्य विशेषरूपेणा-
ज्ञानात् सामान्याकारेण इदन्त्वादिरूपेण ज्ञानं, सादृ-
श्यज्ञानम्, आरोप्यमाणस्य संस्कारश्चेति कारणत्रयं सति
च तस्मिन् चाकचक्यादिदोषविशेषात् अधिष्ठानविशेष-
ज्ञानं प्रतिरुध्य, रजतादिसंस्कारे चोद्बोधिते तत्रानिर्वचनीयं
रजतादिकं शुक्त्याद्यज्ञानेनोत्पाद्यते तदाकारवृत्तिश्च जन्यते
तत्र आविद्यिकरजताद्यनुत्पत्तौ इदं रजतं पश्यामीत्याद्यनु-
भवानुपपत्तिः नच स्मरणेन तस्योपपत्तिः स्मरणस्य विषया-
प्रवर्त्तकत्वात् तदुत्तरं प्रवर्त्तते च तत्तद्ग्रहणाय सर्वः ।
नापि अलौकिकप्रत्यक्षरूपता साक्षात्करोमीत्यनुभवस्य
साक्षात्कारविषयत्वात् अन्यथानुमानादीनामपि अलौकि-
कप्रत्यक्षत्वापत्तेः तत्पूर्ब्बं नियतं तत्तज्ज्ञानस्यावश्यम्भावेन
विशिष्टालौकिकप्रत्यक्षापत्तेर्दुनैवारत्वात् अतः तत्तद्ग्रह-
णाय प्रवर्त्तकस्य तत्तज्ज्ञानस्य प्रत्यक्षत्वसमर्थनाय
अनिर्वचनीयं रजतादिकम् अधिष्ठानाज्ञानेन तत्राधिष्ठाने
उत्पद्यते इति कल्प्यं प्रत्यक्षे हि विषयसन्निकर्षः कारणेत्वेन कॢप्तः
पृष्ठ ०१४१
देशान्तरस्थरजतादिकं तु न इन्द्रियसन्निकृष्टमित्यगत्या तथा
कलप्यते । अतएव श्रुतौ “यत्र द्वैतमिव भवति तदितर
इतरत् पश्यतीति” “अथ रथान् रथयोगान् पथः सृजते”
इति च जागरे द्वैतस्य इवशब्देन मिथ्यात्वं सूचितम् ।
स्वप्न च रथादेः स्पष्टं सृष्टिरुक्ता । तथाच ब्रह्मणि जगदादे-
रनिर्वचनीयस्य तदज्ञानेनोत्पत्तिः । इयांस्तु विशेषः
रजतादेः स्वप्नरथादेश्च प्रतीतिसमकालत्वं, वियदादेस्तु व्यव-
हारिकत्वम् । “देहात्मप्रत्ययो यद्वत् प्रमाणत्वेन कल्पितः
लौकिकं तद्वदेवेदं प्रमाणं त्वात्मनिश्चयादित्युक्तेः व्यव-
हारकाले वियदादिप्रमेयाणां सत्यत्वं, “परमार्थदृष्ट्या
तु मिथ्यात्वमिति” “अन्यदार्त्तमित्यादि” श्रुत्या च
ब्रह्मभिन्नानां मिथ्यात्वावगमात् । अधिकमाकरे दृश्यम् ।

अध्यासन न० अधि + आस--उपवेशे ल्युट् । निवासे ।

विभ० अव्ययी० । आसने इत्यर्थे अव्य० ।

अध्यासित त्रि० अधि + आस आधारस्य कर्म्मसंज्ञायां कर्मणि

क्त । अधिष्ठिते । “धेन्वा तदध्यासितकातराक्ष्येति” रघुः ।

अध्याहार पु० अध्यारुह्यते ज्ञानायानुसन्धीयते अधि +

आ + हृ--घञ् । आकाङ्क्षाविषयपदानुसन्धाने, ऊहे,
तर्के, अपूर्ब्बोत्प्रेक्षणे च । ऊहस्वरूपमूहशब्दे तर्क-
स्वरूपं च तर्कशब्दे वक्ष्यते ।

अध्युषित त्रि० अधि + वस--आधारस्य कर्म्मसंज्ञया कर्म्मणि क्त । अधिष्ठिते स्थानादौ ।

अध्युष्ट्र त्रि० अधिगतमुष्ट्रं वाहनत्वेन अत्या० स० । उष्ट्रवाहन-

युक्ते शकटादौ । (उठगाड़ि) ।

अध्यूढ त्रि० अधि उपरि ऊढ़ः । अवलम्बनत्वेन उपरिभावेण

अवलम्बिते । “तस्मादृच्यध्यूढं साम गीयते” इति छा०
उप० । ऋचमवलम्ब्यैव साम्नो गीयमानतया ऋच्यध्यूढ़-
त्वम् । अधिकवृद्धियुक्ते, समृद्धे च । कृतसापत्निकायां
प्रथमायां “यस्या उपरि विवाहान्तरं कृतं” तादृश्यां
स्त्रियाम् स्त्री ।

अध्यूध्नी स्त्री अधिकमूधोयस्याः अन्ङ् ङीप् च । समृद्धा-

पीनायां धेन्वाम् “अध्यूध्नीं होत्रे प्रयच्छतीति श्रुतिः
ऊबधाध्यूध्नीवनिष्णुषु समुच्चय इति का० १, ८, ८१ ।

अध्येतव्य त्रि० अधि--इङ कर्म्मणि क्त । पाठ्ये “स्वाध्यायो-

ऽध्येतव इति” श्रुतिः । अर्हार्थे तव्य । अध्येतुमर्हे “श्रोत-
व्यमिह शूद्रेण नाध्येतव्यं कदाचनेति” स्मृतिः ।

अध्येषण न० अधि--इष--प्रेरणे ल्युट् । सत्कारपूर्ब्बकमाचा-

र्य्यादेः प्रेरणे, प्रवर्त्तनमात्रे च । युचि टाप् तस्मिन्नेवार्थे
स्त्री । अधिका एषणा प्रार्थना । अधिकप्रार्थने स्त्री ।

अध्रि त्रि० न--घृ--कि । अधृते । न + धृष--ड्रि, अधृष्ये ।

अध्रिगू त्रि० अध्रि + गम--कू--डिच्च ऊङादेशो वा । अधृत-

गमने । “यदध्रिगावोऽध्रिगू इदाचिदह्नो अश्विना” इति
ऋ० ८, २२, ११, “अध्रिगावोऽधृतगमना अध्रिगू-
अधृतगमनाविति” भा० ।

अध्रिज त्रि० अध्रिमधृतमधृष्यं वा जनयति जन--अन्तर्भूत-

ण्यर्थे, ड । अधृतजनके अधृष्यजनके च । “इति चिन्म-
न्युमध्रिज इति ऋ० ५, ७, १० “अध्रिजः अधृतमन्यैः
अग्निव्यतिरिक्तैः अधृष्यं वा जनयिता” इति भा० ।

अध्रुव त्रि० न० त० । अनिश्चिते, चञ्चले, अस्थिरे च ।

“योध्रुवाणि परित्यज्य अध्रुवाणि निषेवते । ध्रुवाणि तस्य
नश्यन्ति अध्रुवं नष्टमेव हि” इति हितो० ।

अध्रुष पु० “शोथः स्थूलस्तोददाहप्रकाशी रक्ताज्ज्ञेयः

सोऽध्रुषो रुग्ज्वराढ्य इति” सुश्रुतोक्ते विकृतरक्तादिजे
ज्वरकारके शोथरोगभेदे ।

अध्वग पु० अध्वत् + गम--ड । पथिके अध्वगमनप्रकारश्च

विष्णुसंहितायामुक्तः । यथा “नैकोऽध्वानं प्रपद्येत
नाधार्मिकैः सार्द्धम्, न वृषलैः, न द्विषद्भिः, नाति-
प्रत्यूषम्, नातिसायम्, न सन्ध्ययोः, न मध्याह्ने, न
सन्निहितपानीयम्, नातितूर्णम्, न रात्रौ, न सन्तत
व्याधितार्त्तैर्वाहनैः, न हीनाङ्गैः, न रोगिभिः, न
दीनैः, न गोभिः, नादान्तैः, यवसोदकैर्वाहनाना-
मदत्त्वात्मनः क्षुत्तृष्णापनोदने न कुर्य्यात् । न चतुष्पथ-
मधितिष्ठेत्, न रात्रौ वृक्षमूलम्, न शून्यालयं, न
तृणम्, न पशूनां बन्धनागारम्, न केशतुषकपालास्थि-
भस्माङ्गारान्, न कार्पासास्थि । चतुष्पथं प्रदक्षिणी-
कुर्य्यात् देवताञ्च । प्रज्ञातांश्च वनस्पतीन्, अग्निब्राह्मण-
गणिकापूर्णकुम्भादर्शच्छत्रध्वजपताकाश्री वृक्षवर्द्धमाननन्द्या-
वर्त्तांश्च, तालदन्तचामराग्निगजाजगोदधिक्षीरमधुसिद्धार्थ-
कांश्च, वीणाचन्दनायुधार्द्र गोमयपुष्पशाकगोरीचनादूर्वाप्ररो-
हांश्च, उष्णीषालङ्कारमणिकनकरजतवस्त्रासनयानामिषांश्च,
भृङ्गारोद्धृतोर्वरारज्जुबद्धपशुकुमारीमीनांश्च दृष्ट्वा प्राया-
दिति । मत्तोन्मत्तव्यङ्गान् दृष्ट्वा निवर्त्तेत वान्तविविक्तमुण्ड-
मलिनवसनजटिलवामनांश्च, कषायिप्रव्रजितमलिनांश्च,
तैलगुड़शुष्कगोमयेन्धनतृणकुशपलाशभस्माङ्गारांश्च,
लबणक्लीवासवनपुंसककार्पासरज्जुनिगड़मुक्तकेशांश्च, वीणाच-
न्दनार्द्रकाशोष्णीषालङ्करणकुमारीः प्रस्थानकालेऽभिवन्दये-
दिति । देवब्राह्मणगुरुदीक्षितानां छायां नाक्रामेत्,
पृष्ठ ०१४२
निष्ठ्यूतवान्तरुधिरविण्मुत्रस्नानोदकानि वा । न वत्सतन्त्रीं
र्लङ्घयेत् । प्रवर्षति न धावन्, न वृथा नदीं तरेत् ।
न देवताभ्यः पितृभ्यश्च कामं प्रदाय, न बाहुभ्याम्,
न भिन्नया नावा । न कच्छमधितिष्ठेत् । न कूपमवलो-
कयेत्, न लङ्घयेत् । वृद्धभारिनृपस्नातस्त्रीरोगिवरचक्रि-
णाम् पन्थादेयो नृपस्तेषां मान्यः स्नातश्च भूपतेरिति” ।
“सन्तानकतरुच्छायसुप्तविद्याधराध्वगमिति” कुमा० ।
सूर्य्ये, उष्ट्रे, च । पथिगामुकमात्रे त्रि० । गङ्गायां
स्त्री अश्वतरे पु० ।

अध्वगत् त्रि० अध्वानं गच्छति क्विप् । पथिके ।

अध्वगभोग्य पु० अध्वगेन अतिसौलभ्यात् अयत्नलभ्यफलत्वाच्च

भोग्यः ३ त० । (आमड़ा) इति प्रसिद्धे आम्रातकवृक्षे ।
अनायासेन तत्फलस्य भोग्यत्वात्तस्य तथात्वम् ।

अध्वजा स्त्री अध्वनि जायते जन--ड ७ त० । (सोना) इति

ख्याते स्वर्णपुष्पीवृक्षे ।

अध्वन् पु० अत्ति बलम् अद--क्वनिप् धादेशः । पथि, “अपि

लङ्घितमध्वानं बुबुधे न बुधोपमः” इति रघुः । अध्वान-
मध्वान्तविकारलङ्घ्य” इति कु० । “नैकोऽध्वानं गच्छेदिति विष्णु
स० । आकाशे पु० निरुक्तकारः । अधिकदुरारोहणे च ।
सर्वभक्षकत्वात् काले, हिंस्रेच । अद्यते खण्डशो भक्ष्यते-
ऽनेनेति करणे क्वनिप् । अवयवे । प्रा० स० । उपसर्ग-
पूर्वादच्समा० । व्यध्वःदुरध्वः (कुपथः) प्रा० ब० । कदादेशः
कदध्वा । अवयवश्च वेदस्य शाखाऽपि यथा “एवंविशत्यध्व-
युक्तमृग्वेदमृषयो विदुः । सहस्राध्वा सामवेदो यजुरेक-
शताध्वकमिति ।

अध्वनीन त्रि० अध्वानमलं गच्छति अध्वन् + ख । पथिके ।

पथिगमनक्षमे ।

अध्वन्य त्रि० अध्वानमलं गच्छति अध्वन् + यत् । पथिके ।

पथि क्षिप्रगभनक्षमे शीघ्रगामिनि । “क्षिप्रं ततोऽध्वन्य-
तुरङ्गयायीति” भट्टिः ।

अध्वपति त्रि० ७ त० । मार्गपालके । सूर्य्ये पु० दिवैव

पथिकानां गमनात् रात्रौ च “न रात्राविति” विष्णुना
गमननिषेधात् सूर्य्यस्य तत्पालकत्वम् “अध्वनामध्वपते! प्रसा
तिर स्वस्ति मेऽस्मिन् देवयाने पथीति यजु० । “अध्वपते!
मार्गपालकरवे” इति वेददीशः ।

अध्वर पु० अध्वानं सत्पथं राति रा + क । यज्ञे । “अध्वरे-

ष्विष्टिनां पातेति” भट्टिः । “तमध्वरे विश्वजिति क्षितीश-
मिति” रघुः । आकाशे निरुक्तकारः । अष्टवसुमध्ये द्विती-
यवसौ च । नध्वरति कुटिला न भवति ध्वृ--अच् न० त० ।
अकुटिले च । दैव्या होतारा उर्द्धमध्वरं न इति २७, १८
“इमं यज्ञमवतामध्वरं न” इति यजु० । २७, १७ अध्वरं
“अकुटिलं शास्त्रोक्तमिति” वेददीपः । सावधाने त्रि०
नडा० फक् । आध्वरायणः ।

अध्वरकर्म्मन् न० अध्वरएव कर्म्म । यज्ञरूपकर्मणि ।

अध्वरमीमांसा स्त्री अध्वरस्य यज्ञस्य कर्त्तव्यताज्ञानाय

मीमांसा विचारः । जैमिनीयप्रोक्ते “अथातो धर्मजिज्ञासे-
त्यादि धर्ममीमांसाख्ये शास्त्रे ।

अध्वरथ पु० अध्वैवंरथो यस्य ब० । पथिप्रज्ञे दूते ।

अध्वने हितः पर्य्याप्तो रथो यस्य ब० । पथिगमनोपयुक्ते
रथे । चक्रविशिष्टोरथस्तावत् क्रीडार्थः, देवयानार्थः
विनयार्थः पथिगमनार्थः गन्त्रीरथचेति भेदात् पञ्चविधः ।
इति हेमचन्द्रः ।

अध्वर्य्यु पु० अध्वरमिच्छति अध्वर + क्यच्--युच् ततोऽन्त्या-

कारलोपः । यजुर्वेदज्ञे होमकारिणि ऋत्विजि ।
“निर्मिमीते क्रियासङ्घैरध्वर्य्युर्यज्ञियं वपु” रिति सा० भा० ।
सोमयागे षोड़शसु ध्वत्विक्षु चतुर्षु प्रधानेषु मध्ये ऋत्वि-
द्भेदे तद्विवरणम् अच्छावाकशब्दे दृश्यम् । “होता प्रथमं
शंसति तमध्वर्युः प्रोत्साहयतीति” सि० कौ० । “त्वम-
ध्वर्य्युरुत होतासि पूर्ब्बाः प्रशास्तापोता जनुषा पुरोहित”
इति ऋ० १, ९४, ६ । योपधत्वात् स्त्रियां न ङीप् ।
अध्वर्योर्भावः कर्म उद्गा० अण् आध्वर्य्यवम् तद्भावादौ न० ।

अध्वशल्य पु० अध्वनि शल्यमिवाचरतीति क्विप् + अच् ।

पथिकानां पादवस्त्रादौ शल्यवद्वेधकारके (आपाङ्) इति ख्याते
अपामार्गवृक्षे ।

अध्वस्मन् त्रि० ध्वन्स--मनिन् किच्च न० त० । ध्वंसरहिते

“अध्वस्मभिः पथिभिः भ्राजदृष्टय” इति ऋ० २, २४, ५,
अध्वस्मभिः ध्वंसरहितैरिति भा० अध्वस्मानोदिविष्विति
ऋ० १३०४० ।

अध्वाति पु० अध्वानमतति अत इ ६ त० । पथिके । अद्धा

निश्चयमतति अद्धेति दोपदो धान्तः । मेधाविनि निरुक्त० ।

अध्वान्तशात्रव पु० अध्वान्तस्य मार्गसीमायाः शात्रव इव ।

श्चोनाकवृक्षे । ६ त० । मार्गसीमारिपौ पु० ।

अध्वायन न० अध्वनि अयनं गतिः । यात्रायाम्

“अध्यायनञ्च ग्रहचारकर्म्म सौरेण मानेन सदाध्य-
वस्ये” दिति विष्णुध० पुरा० । “अध्वायनमध्वगमनं यात्रेति
यावदिति” रघु० ।
पृष्ठ ०१४३

अन जीवने अदा० पर० अक० सेट् । अनिति आनीत् । घञ्

आनः, अच्नः, ल्युट् अननम् । आनयति अनिनिषति ।
क्विप् अत् “सर्वं खल्विदं ब्रह्म तज्जलानिति विश्वे
चनेदना ऋ० ४३०, ३, अना प्राणेनेति भा० छा० उप०
“यद्येष आकाश आनन्दो न स्यात् कोह्येवान्यात्?
कः प्राण्यात्? इति श्रुतिः “प्राणिवस्तव मानार्थमिति”
भट्टिः । प्राद्युपसर्गतोविशेषगत्यर्थता । प्र + प्राग्गतौ, प्राणः
अप + अधोगतौ अपानः, उद् + उर्द्ध्वगतौ उदानः, वि +
आ + विष्वग्गतौ व्यानः, सम् + समन्ताद्गतौ समानः । “यद्वै
प्राणिति स प्राणः यदपानिति सोऽपानः” इति श्रुतिः ।
जीवनं च प्राणधारणं तेन धात्वर्थगृहीतकर्मकत्वादकर्मकः
यस्य संयोगात् देहनिर्म्माणमित्युक्तमधिष्ठानशब्दे ।
उपसर्गनिमित्तात् हलन्तत्वेऽप्यस्य णत्वं प्राण् ।

अन जीवने दिवा० आत्म० अक० सेट् । अन्यते आनिष्ट ।

अन पु० आ + नी--बा० ड पृ० आङी ह्रस्वः अन--बा० अच्

वा । आनयने प्राणने च “प्राणोऽपानो व्यान उदानः
समानोऽन इत्येतत्सर्वं प्राण इति” वृ० उप० । “अथ प्राण
उच्यते । प्राणो मुखनासिकसञ्चार्य्याहृदयवृत्तिः । प्रण-
यनात् प्राणः । अपनयनान्मुत्रपुरीषादेरपानोऽधोवृत्तिः
आनाभिस्थानः । व्यानो व्यानयनकर्मा, व्यानः प्राणापानयोः
सन्धिर्वीर्य्यवत्कर्म्महेतुश्च । उदान उत्कर्षोर्द्ध्वगमनादिहेतुरा-
पादतलमस्तकस्थान ऊर्द्ध्ववृत्तिः । समानः समं नयनाद्भुक्तस्य
पीतस्य च कोष्ठस्थानोऽन्नपक्ता । अन इत्येषां वृत्तिविशेषाणां
सामान्यभूता सामान्यदेहचेष्टासग्वन्धिनी वृत्तिरेवं यथोक्तं
प्रणादिवृत्तिजातमेतत् सर्वं प्राण एवेति” भा० । प्राणे च “स
होवाच किं मेऽन्नं भविष्यतीति” यत्किञ्चिदिदमा श्वभ्य
आ शकुनिभ्य इति होचुस्तद्धा एतदनस्यान्नमनो ह वै नाम
प्रत्यक्षमिति छा० उ० “स होवाच मुख्यः प्राणः, किं मेऽन्नं
भविष्यतीति” मुख्यप्राणं प्रष्टारमिव कल्पयित्वा वागादीन्
प्रतिवक्तॄनिव कल्पयन्ती श्रुतिराह । यदिदं लोकेऽन्नजातं
सर्वप्रसिद्धमा श्वभ्य आ श्वभिः सह, आ शकुनिभ्यः सह
शकुनिभिः सर्वं प्राणिनां यदन्नं तत्तवान्नमिति होचुर्वागादय
इति । प्राणस्य सर्वमन्नं प्राणोऽत्ता सर्वस्यान्नस्येत्येवंप्रतिपत्तये
कल्पिताख्यायिकारूपाद्व्यावृत्य स्वेन श्रुतिरूपेणाह । तद्वै
एतद्यत्किञ्चिल्लोके प्राणिभिरन्नमद्यते अनस्य प्राणस्य तदन्नम् भा०

अनंश त्रि० नास्ति अंशोदायग्रहणाधिकारोऽस्य । अंशानधि-

कारिणि स्मृत्युक्ते क्लीवपतितादौ । ते च “सर्व्वे हि धर्म्मयुक्ता
भागिनो द्रव्यमर्हन्ति यस्त्वधर्म्मेण द्रव्याणि प्रतिपादयति
ज्येष्ठोऽपि तमभागं कुर्वीतेति” आप० । “सवर्णाजोप्यगुणवा-
न्नार्हः स्यात् पैतृके धने । तत्पिण्डदाः श्रोत्रिया ये
तेषां तदभिधीयते । उत्तमर्णाधमर्णेभ्यः पितरं त्रायते
सुतः । अतस्तद्विपरीतेन नास्ति तेन प्रयोजनम् ।
तया गवा किं क्रियते या न धेनुर्न गर्भिणी । कोऽर्थः
पुत्रेण जातेन यो न विद्वान् न धार्म्मिकः । शास्त्र-
शौर्य्यार्थरहितस्तपोविज्ञानवर्ज्जितः । आचारहीनः पुत्त्रस्तु
मूत्रोच्चारसमस्तु स इति वृह० “श्राद्धादेः पुत्त्रकर्त्तृकतया
महाफलश्रुतेस्तत्कर्म्मवेतनं धनसम्बन्धित्वं अतस्तदकुर्व्वतः
कुतो वेतन? मिति दा० भा० । अतएवाह मनुः । “सर्व-
एव विकर्म्मस्था नार्हन्ति भ्रातरो धनम्” । तथा “अनंशौ
क्लीवपतिती जात्यन्धबधिरौ तथा । उन्मत्तजड़मूकाश्च ये च
केचिन्निरिन्द्रियाः इति । “पतितस्तत्सुतः क्लीवः पङ्गरुन्म-
त्तको जड़ः । अन्धोऽचिकित्स्यरोगार्त्तो भर्त्तव्यास्ते निरं-
शका” इति कात्या० । देवलः “मृते पितरि न क्लीवकुष्ठ्युन्म-
त्तजड़ान्धकाः । पतितः पतितापत्यं लिङ्गी दायांशभागिनः ।
तेषां पतितवर्ज्जेभ्यो भक्तवस्त्रं प्रदीयते । तत्सुताः पितृ-
दायांशं लभेरन् दोषवर्ज्जिता” इति । बौधायनः ।
“अतीतव्यवहारान् ग्रासाच्छादनैर्बिभृयुः, अन्धजड़क्लीव-
व्यसनिव्याधितादींश्चाकर्म्मिणः पतिततज्जातवर्जम् इति” ।
“पितृद्विट् पतितः पण्डो यश्च स्यादौपपातिकः ।
औरसा अपि नैतेऽंशं लभेरन् क्षेत्रजाः कुतः? ।
इति” नार० “अक्रमोढासुतश्चैव सगोत्राद्यस्तु जायते ।
प्रव्रज्यावसितश्चैव न रिक्थं तेषु चार्हति । अक्रमोढ़ा-
सुतस्त्वृक्थी सवर्णश्च यदा पितुः । असवर्णप्रसूतश्च
क्रमोढ़ायाश्च यो भवेत् । प्रतिलोमप्रसूतोयस्तस्याः पुत्त्रो न
रिकथभाक् । ग्रासाच्छादनमात्रं तु देयं तद्बन्धुभिर्मतम्
बन्धूनामप्यभावे तु पित्र्यं द्रव्यं तदाप्नुयात् । स्वपित्र्यं
तद्धनं प्राप्तं दापनीया न बान्धवा इति कात्या० । एवं
दर्शिताः । अंशः अवयवः । तच्छून्ये निरयवे
आकाशादौ, परमेश्वरे च ।

अनंशुमत्फला स्त्री न अंशुमत् मोचकाभ्यन्तरस्थत्वात् फलं यस्याः । कदल्याम् जटाधरः ।

अनक पु० अणकवत् । अधमे, कुत्सिते च ।

अनक्ष् त्रि० न अक्ष्णोति व्याप्नोति विषयमिन्द्रियेण अक्ष--क्विप्

न० त० । अन्धे चक्षुरिन्द्रियशून्ये । “प्रतिश्रोणः स्था व्यन-
गचष्टेति” ऋ० २, १५, ७, “पूर्ब्बमन्धः अधुना चक्षुर्ला-
भात् व्यचष्टेति भा० ।
पृष्ठ ०१४४

अनक्ष त्रि० नास्ति अक्षं चक्रंनेत्रादिकमिन्द्रियं वा यस्य ब० ।

चक्रशून्ये, चक्षुरादीन्द्रियशून्ये च । “अपानक्षासो बधिरा
अहासत” इति ऋ० ९, ७३, ६, अनक्षासश्चक्षुर्वर्ज्जिताः
इति भा० वेदे सौम्यास इति वत् अनक्षास इति ।
रूपसिद्धिः ।

अनक्षर न० अप्रशस्तान्यक्षराणि यत्र ब० । सद्गुणस्याक्षेपके

दोषोद्घोषकवाक्ये, अवाच्ये निन्दावचने, (गालि) इति
प्रमिद्धे दुष्टवचने च । न सन्ति अक्षराणि ज्ञेयत्वेनास्य ।
अक्षरज्ञानशून्ये मूर्खे त्रि० ।

अनक्षि पु० अप्रशस्तं मन्दमक्षि न० त० । मन्दनेत्रे । ब० ।

षच्समासान्तः । तत्र अनक्ष इत्येव । तद्वति । स्त्रियां ङीष् ।

अनगार त्रि० नास्ति अगारमस्य । गृहशून्ये । अनिकेतने ।

प्रव्रजिते, मुन्यादौ च पु० ।

अनग्न त्रि० न नग्नः । अदिगम्बरे आच्छदनवति च “यह्वोन-

वसना अनग्ना” इति ऋ० ३, १, ६, । “स होवाच किं मे
वासो भविष्यतीत्याप इति होचुस्तस्माद्वा एतदशिष्यन्तः
पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदवति लम्भुको यथा वासो भवत्य-
नग्नो ह भवतीति छा० उ० । “तस्मात्प्राणस्य वास
आपस्तस्माद्वा एतदशिष्यन्तो भोक्ष्यमाणा भुक्तवन्तश्च ब्राह्मणा
विद्वांस एतत्कुर्वन्ति । किं अद्भिर्वासस्थानीयाभिः पुरस्ता-
द्भोजनात्पूर्ब्बमुपरिष्टाच्च भोजनादूर्द्ध्वञ्च परिदधति परिधानं
कुर्व्वन्ति मुख्यस्य प्राणस्य लम्भुको लम्मनशीलो वासो-
भवति । वाससो लब्धैव भवतीत्यर्थः । अनग्नो भवति ।
वाससो लम्भुकत्वेनार्थसिद्धैवानग्नता इत्यनग्नो ह
भवतीत्यु त्तरीयवान् भवतीत्येतत्” इति भाष्यम् ।

अनग्नि पु० नास्ति अग्निः श्रौतः स्मार्त्तो वाऽस्य । श्रोतेन

स्मार्त्तेन वा विधिना अनाहिताग्नौ गृहस्थभेदे, सर्व्वथा
अग्निशून्ये, प्रव्रजिते च । “अनग्निरनिकेतश्च मुनिर्मूल-
फलाशन” इनि मनुः । न० त० । अग्निभिन्ने पु० ।
“अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचिदिति” स्मृतिः ।
७ ब० । अग्निचयनरहिते यज्ञे च । “अनग्नावुत्तरवेदिम्,
कात्या० २६, ७, ११, “अनग्नौ अग्निरहिते अनग्नि-
चित्ये यज्ञे, उत्तरवेदिं प्रतिगच्छतीति” तद्वाख्या ।

अनग्नित्रा न अग्निं त्रायते रक्षति असम० स० । अग्निरक्ष-

णाकरे पापिष्ठे “अनग्नित्रा अभ्यमन्त कृष्टीः ऋ० १, १८९,
३, “अनग्नित्राः पापिन्यः कृष्टयः प्रजा” इति भा० ।

अनग्निदग्ध त्रि० न अग्निना दग्धः अस० स० । श्मशानकर्म्मणि

अग्निसंस्कारहीने “ये अग्निदग्धा ये अनग्निदग्धा मध्ये
दिव” इति ऋ० १०, १५ २४, “अनग्निदग्धाः श्मशान-
कर्म्म न प्राप्ता” इति भा० । विप्राणां पितृभेदे “अग्निदग्धा-
नग्निदग्धान् काव्यान् वर्हिषदस्तथा अग्निष्वत्तांश्च सौम्यांश्च
विप्राणामेव निर्देशेदिति” मनुः । वह्निना अदग्धे च ।

अनघ त्रि० नास्ति अघं पापं दुःखं व्यमनं कालुष्यं वा यस्य ।

पापशून्ये, दुःखहीने, व्यसनशून्ये, मलशून्ये, स्वच्छे च ।
विष्णौ पु० “अनघो विजयो जेतेति” वि० सह० । “स
आत्माऽपहतपाप्मेत्यादि” श्रुतौ तस्य पापराहित्योक्तेस्तथा-
त्वम् । तत्र दुःखशून्ये, “दयालुमनघस्पृष्टमिति” माघः ।
दोषरहिते “अगाधस्यानघा गुणा” इत्यमरः । व्यसनरहिते
“कच्चित् मृगीनामनघा प्रसूतिः? इति” रघुः ।

अनङ्ग न० नास्ति अङ्गमाकारो यस्य । आकाशे, चित्ते च ।

कन्दर्पे पु० । अङ्गशून्यमात्रे त्रि० । तत्राकाशस्य
निरवयवत्वात्, न्यायवैशेषिकनये चित्तस्याणुत्वेन च निरयवत्वा-
त्तथात्वम् । कामस्य हरनेत्रेण दग्धाङ्गत्वात् अनङ्गत्वम् ।
तत्कथा च शिवपुराणे “कामोधनुषि संयोज्य पुष्पवाणं
तदा मुने! पार्वतीसम्भुखे स्थाणौ मोक्तुकामो व्यव-
स्थितः । हरस्तु धैर्य्यमालम्बा किमेतदिति चिन्तयन् ।
ददर्श पृष्ठतः कामं पुष्पवाणधनुर्धरम् । विवृद्धमन्योस्त-
स्याथ तृतीयनयनान् मुने! । स्फुरन्नुदर्च्चिरग्निस्तु पपात
मदनोपरि । क्रोधं संहर हे देव! इति यावत् वदन्ति
खे । इन्द्रादिसकला देवास्तावद्भस्मीचकार तम्” इति ॥
“त्वमनङ्गः कथमक्षता रतिरिति” “तनुतां दुःखमनङ्ग!
मोक्ष्यतीति” च कुमा० । अङ्गमुपकरणं न० त० । अङ्ग-
भिन्ने । न० ब० । तच्छून्ये त्रि० ।

अनङ्गक्रीड़ा स्त्री अनङ्गेन क्रीड़ा । कामहेतुकक्रीड़ायाम् ।

“अष्टावर्द्धे गा द्व्यभ्यस्ता यस्याः सानङ्गक्रीड़ेत्युक्तेति”
(वृत्त०) उक्ते मात्रावृत्तभेदे च ।

अनङ्गलेख पु० अनङ्गस्य तद्व्यञ्जको लेखः । कामव्यञ्जकलेखे ।

“अनङ्गलेखक्रिययोपयोगमिति” कुमा० ।

अनङ्गशेखर पु० क्रमेण लघुगुरुनिवेशवति दण्डकभेदे, छन्दो-

विशेषे । यथा “लघुर्गुरुः क्रमेण यत्र बध्यते सुधीभिरि-
च्छया स दण्डकस्त्वनङ्गशेखरः स्मृतः” इति छन्दो० ।

अनङ्गासुहृत् पु० ६ त० । शिवे तस्य तद्देहभस्मीकरणात्तत्त्वम् ।

अनच्छ त्रि० न अच्छः निर्मलः न० त० । कलुषे, अप्रसन्ने च ।

अनञ्जन न० न अज्यते लिप्यते अन्ज--कर्मणि ल्युट् न० त० ।

निःसबन्धे, आकाशे, परब्रह्मणि च । “निरञ्जनं साम्यमुपति
दिव्यमिति” श्रुत्या तस्य सम्बन्धराहित्योक्तेस्तथात्वम् ।
अञ्जनं दोषस्तद्रहिते नारायणे पु० । तथाभूतवन्तुमात्रे
त्रि० । कज्जलशून्ये त्रि० । “नेत्रे दूरमनञ्जने पुलकि-
तेति” सा० द० ।
पृष्ठ ०१४५

अनडुज्जिह्वा स्त्री अनडुहोजिह्वेव । गोजिह्वायाम्

(अनन्तमूल) । तस्या गोजिह्वाकृतिपत्रत्वात्तथात्वम् ।

अनडुह् पु० अनः शकटं वहतीति नि० । (एड़े) इति प्रसिद्धे

गवि । स्त्रियां गवि ङीपि अनडुही, अनड्वाहीति च ।
ऋश्यादि० क । अनुडुत्कः अनडुदासन्नदेशादौ त्रि० ।
ऋषिभेदे । तद्गोत्रापत्ये गर्गा० यञ् । आनुडुह्यः
तदपत्ये पु० स्त्री ।

अनणु पु० न अणुः । स्थूलधान्ये “अनणुषु दशमांशोऽणुष्वथै-

कादशांशः” लीला० । अणुभिन्ने स्थूले त्रि० स्त्रियां ङीप् ।

अनतिक्रम न० न० त० । अतिक्रमाभावे ।

अनतिक्रमणीय त्रि० न० त० । अतिक्रमणीयभिन्ने अनुल्लङ्घनीये ।

अनतिद्भुत त्रि० सर्व्वाणि अतिक्रम्य न भवति अति--भू--डुतच्

न० त० पृ० । सर्वातिक्रमेणाभूते यथार्थभूते । “ब्रह्मा त
इन्द्र! गिर्वणः क्रियन्ते अनतिद्भुता” इति ऋ० ८, ९१, ३,
अनतिद्भुता सर्वानतिक्रम्य न भवन्ति इन्द्रगुणव्यापकानि
यथार्थभूतानीति” भा० ।

अनतिप्रश्न्य त्रि० अतिप्रश्नमर्हति यत् न० त० ।

अतिप्रश्नानर्हे वस्तुनि । “सहीवाच गार्गि! मातिप्राक्षीः मा
ते मूर्द्धा व्यपप्तदनतिप्रश्न्यां वै देवतामतिपृच्छसीति” वृ० उ०

अनतिरिक्त त्रि० न० । अधिके । “न्यायोक्ते स्वानधिकरण-

वृत्तिभिन्ने च “अनतिरिक्तवृत्तित्वमवच्छेदकत्वमिति” गदा० ।

अनतिविलम्बिता स्त्री न अतिविलम्बिता अभावार्थे

न० त० । अतिविलम्बाभावे वाग्गुणभेदे च । वाग्गुणाश्च
हेमचन्द्रे दर्शिताः यथा “संस्कारवत्त्वमौदार्य्यमुपचार
परीतता । मेघगाम्भीय्यनिर्घोषप्रतिनादविधायिता दक्षि-
णत्वमुपनीतरागत्वं च महार्थता । अव्याहतत्वं
श्लिष्टत्वं संशयानामसम्भवः । निराकृतान्योत्तरत्वं हृदय-
ङ्गमिताऽपि च । मिथः साकाङ्क्षता प्रस्तावौचित्यं तत्त्व-
निष्ठता । अप्रकीर्णप्रसृतत्वमसंश्लाघ्यान्यनिन्दिता ।
आभिजात्यमतिस्निग्धमधुरत्वं प्रशस्यता । अमर्मवेधि
तौदार्य्यं धर्म्मार्थप्रतिविद्धता । कारकाद्यविपर्य्यासोविभ्र-
मादिवियुक्तता चित्रकृत्त्वमद्भुतत्वं तथानतिविलम्बिता
अनेकजातिवैचित्र्यमारोपितविशेषता । सत्वप्रधानता वर्ण-
पदवाक्यविविक्तता । अव्युत्थितिरखेदित्वम्पञ्चत्रिशच्च
वाग्गुणाः” इति ।

अनद्धा अव्य० न अद्धा । अनिश्चवे “अनद्धा वैतद्यदि-

माल्लोकानतीति” वेदः । नह--क्त न० त० । अपरिबद्धे त्रि० ।

अनद्धापुरुष न अद्धा स्वकार्य्ये निश्चयो यस्य तादृशः पुरुषः ।

देवपितृकार्य्यविमुखे । “अनद्धापुरुषमीक्षते” इति का०
१६, ३, १३, “अनद्वापुरुषं देवपितृकार्य्ये विमुखमध्यर्यु-
मिति” वेददीपः ।

अनद्य पु० न अद्यं भक्ष्यम् अप्राशस्त्ये न० त० ।

गौरशर्षपे राजनिघ० । भक्ष्यभिन्ने त्रि० ।

अनद्यतन पु० न अद्यतनः । अद्यतनभिन्ने भूते भविष्यति

च काले “अनद्यतने लङि” ति “अनद्यतने लुङिति” च
पा० । अनद्यतने भूते लङ अपचत्, अनद्यतने भविष्यति
लुट् पक्तेति “परोक्षानद्यतने लिडिति” पा० पपाच ।
तत्कालवृत्तौ त्रि० । अद्यतनश्च “अतीतायारात्रेः पश्चा-
र्द्धेन, आगामिन्याः रात्रेः पूर्ब्बार्द्धेन सहितोदिवसोऽद्यतन”
इति सि० कौ० तद्भिन्नः कालः ।

अनधिकार पु० न अधिकारः अभावार्थे न० त० ।

अधिकाराभावे । ब० । अधिकारशून्ये ।

अनधिकारचर्चा स्त्री अनधिकारस्य चर्च्चा चिन्ता । यत्र

यस्याधिकारो नास्ति तस्य तद्विषये चिन्तायाम् ।

अनधिकारिन् त्रि० न अधिकारी । अधिकारिभिन्ने ।

अनधिकृत त्रि० न अधिकृतः । अधिकृतभिन्ने ।

अनधिगत त्रि० न० त० । गतभिन्ने, प्राप्तभिन्ने, ज्ञातभिन्ने च

अनधिगताबाधितार्थज्ञानत्वेन प्रमाणतमिति वे० प० ।

अनधिष्ठित त्रि० न अधिष्ठितः । अधिष्ठितभिन्ने ।

अनधीन त्रि० न अधीनः परस्य । स्वाधीने । संज्ञायाम्

कन् । औटतक्षे । स हि कुट्यां वसन् न कस्यचित् अधीनः

अनध्यक्ष न० अध्यक्षम् अभावे न० त० । प्रत्यक्षाभावे “मनो-

ऽपि न तथा ज्ञानाद्यनध्यक्षं तदा भवेत्” इति भाषा०
द्रव्यवत्यक्षं प्रति आश्रयमहत्त्वस्य कारणत्वेन मनसश्च “अयौ-
गपद्याज्ज्ञानानां तस्याणुत्वमिहेष्यते इत्युक्तेः अणुत्वेन
ज्ञानादिप्रकारकं अहम्जानामोत्याद्याकारं ज्ञानं प्रत्यक्षं न
स्यात् ज्ञानाश्रयत्वेन अभिमतस्य मनसो महत्त्वाभावादिति
तदाशयः । ब० । अध्यक्षरहिते त्रि० ।

अनध्याय पु० अध्यायोऽध्ययनमभावार्थे न० त० । अध्यय-

नाभावे । न अधीयतेऽस्मिन् काले इति अधिकरणे घञ् ।
अध्ययनाय निषिद्धे “चातुर्मास्यद्वितीयादौ स्मृतिषूक्तान-
ध्यायकाले “अष्टकासु च संक्रान्तौ शयने बोधने हरेः ।
अनध्यायं प्रकुर्व्वी” तेत्यादुक्ते काले, “निर्घाते भूमिचलने”
इत्याद्याकालिकानध्यायकाले च । अनध्यायकालाश्च स्मृतौ
पृष्ठ ०१४६
दर्शिताः यथा “प्रेकोचचा द्वितीयास्ताः प्रेतपक्षे गते तु
या । या तु कोजागरे याते चैत्रावल्याः परेऽपि या ।
चातुर्मास्ये समाप्ते च द्वितीया या भवेत्तिथिः । परास्वेता-
स्वनध्यायः पुराणैः परिकार्त्तित” इति राजमार्त्तण्डः ।
“चैत्रकृष्णद्दितीयायां तिसृष्वेवाष्टकासु च मार्गे च फाल्गुने
चैव आषाढ़े कार्त्तिके तथा । पक्षयोर्माघमासस्य द्वितीयां
परिवर्ज्जयेदिति” भुजबलः । “मन्वादौ च युगादौ च
शिष्यान्नाध्यापयेद्बुधः” । निर्णयामृते “रात्रौ
यामद्वयादर्व्वाक् सप्तमी च त्रयोदशी । प्रदोषः स तु विज्ञेयो
वेदाध्ययनगर्हितः ॥ रात्रौ नवसु नाड़ीषु चतुर्थी यदि
दृश्यते । प्रदोषः स तु विज्ञेयोवेदाध्ययनगर्हित” इति ॥
निर्णयसिन्धौ प्रजापतिः । “षष्ठी च द्वादशी चैव अर्द्धरात्रो-
ननाड़िका । प्रदोषे त्वनधीयीत तृतीया नवनाड़िका” ॥
वृद्धगर्गः । “स्मृतिषूक्ताननध्यायान् सप्तमीञ्च त्रयोदशीम् ।
पक्षयोर्माघमासस्य द्वितोयां परिवर्जयेत्” इति । अनध्या-
यास्तु द्विविधा नित्या नैमित्तिकाश्चेति तत्र नित्याः ।
“आषाढ़ेफाल्गुने ज्येष्ठे या द्वितीषा विधुक्षये । चातुर्मास्य-
द्वितीयास्ताः प्रवदन्ति महर्षयः” ॥ गर्गोऽपि ॥ “कृष्णपक्षे
द्वितीयायां फाल्गुनाषाढ़कार्त्तिके । शुक्लाश्वयुग्द्वितीयायां
नैवाध्ययनमाचरेत्” इति ॥ “एतायुगादयः प्रोक्ताः स्वाध्यायं
वर्जयेद्बुध” इति उश० । गौतमः । “चातुर्मास्यद्वितीयासु,
मन्वादिषु युगादिषु । अष्टकासु च संक्रान्तौ शयने बोधने
हरेः । अनध्यायं प्रकुर्वीत तथा सोपपदासु चेति” ।
सोपपदास्तु । “सिता ज्यैष्ठे द्वितीया च आश्विने दशमी तथा ।
चतुर्थी द्वादशी माधे एताः सोपपदाः स्मृता इति” गर्गोक्ताः ।
वृहन्मनुः “पक्षद्वये चतुर्दश्योरष्टमीद्वितीये तथा । पक्षा-
दावपि पक्षान्ते ब्रह्म नाधीयते नरैः ॥ अष्टमी हन्त्युपा-
ध्यायं शिष्यं हन्ति चतुर्द्दशी । अमावस्योभयं हन्ति प्रतिपत्
पाठमात्रत” इति । मनुः नैमित्तिकानध्यायानाह स्म ।
“सन्ध्यागर्जितनिर्घातभूकम्पोल्कानिपातने । व्रतबन्धं न
कुर्व्वीत” इति ॥ तथापस्तम्बः ॥ “उल्कायामग्न्युत्-
पाते च सर्वासां विद्यानामाकालिकमिति” ॥ स्मृत्यन्तरे ॥
“विद्युद्गर्जितवृष्टीनां सन्निपातोयदा भवेत् । अनध्यायं
प्रकुर्व्वीतेत्यादि” । “व्रतेऽह्नि पूर्बसन्ध्यायां वारिदो यदि
गर्ज्जति । तद्दिनं स्यादनध्यायं व्रतं तत्र विवर्जयेत् ॥ “सायं
सन्ध्यास्तनिते, प्रातःसन्ध्यास्तनिते अहोरात्रौ, विद्युत्यपर-
रात्रावधि विद्युति, नक्तञ्चापररात्रादिति गौत० ।
स्मृतिरत्नावल्याम् “कालवृष्टौ च तत्कालमकाले च
त्रिरात्रकम् । अतिमात्राथवा वृष्टिर्नाधीयीत दिनत्रयम् ।
अनुराधर्क्षमारभ्य षोड़शर्क्षेषु भास्करः । यावच्चरति
चैतावदकालं मुनयो विदुः ॥ तथा च वराहः । मार्गा-
न्मासात् प्रभृति मुनयोव्यासवाल्मीकिगर्गाश्चैत्रं यावत् प्रव-
र्षणविधौ नेतिकालं वदन्ति । नाड़ीजङ्घः सुरगुरुमुनिः
प्राह वृष्टेरकालौ मासावेतावशुभफलदौ पौषमाघौ न
शेषाः” । तत्राकालवृष्टौ पशुमर्त्यचरणाङ्कितायामेव दोषो-
नान्यथा उक्तञ्च मुहूर्त्तचिन्तामणौ “यदि मास्सु चतुर्षु
पौषमासादिषु भवेदकालवृष्टिः । पशुमर्त्यचरणाङ्कितायां
यावद्वसुधा नहि तावददोष” इति । तत्र दिनसंख्याप्युक्ता
तत्रैव । एकैनैकमहः प्रोक्तं द्वितीयेन त्रिरात्रकम् । तृतीये-
न तु सप्ताहं दशरात्रमतः परमिति, पौषे दिनत्रयं वर्ज्यं
माघे चैव दिनद्वयम् । फाग्लुने दिनमेकन्तु चैत्रेतु घटिका-
द्वय” मित्यावश्यककार्य्यविषयम् । “अनध्यायस्य पूर्ब्बेद्युस्तस्य
चैवापरेऽहनि । व्रतबन्धं विसर्गञ्च विद्यारम्भं न
कारयेत्, इति नैमित्तिकानध्यायः । मनुरपि नित्याद्यनध्याय-
माह स्म । “इमान्नित्यानध्यायानधीयानो विवर्जयेत् ।
अध्यापनञ्च कुर्व्वाणः शिष्याणां विधिपूर्ब्बकम् ॥ कर्णश्रवे-
ऽनिले रात्रौ दिवा पांशुसमूहने । एतौ वर्षास्वनध्यायावध्य-
यज्ञाः प्रचक्षते । विद्युत्स्तनितवर्षेषु महोल्कानाञ्च संप्लवे ।
आकालिकमनध्यायमेतेषु मनुरब्रवीत् । एतांस्त्वभ्युदितान्
विद्यात् यदा प्रादुष्कृताग्निषु । तदा विद्यादनध्यायमनृतौ
चाभ्रदर्शने । निर्घाते भूमिचलने ज्योतिषाञ्चोपसर्जने ।
एतानाकालिकान् विद्यादनध्यायानृतावपि । प्रादुष्कृते-
ष्वग्निषु तु विद्युत्स्तनितनिस्वने । सज्योतिः स्यादनध्यायः
शेषे रात्रौ यथा दिवा । नित्यानध्यायएव स्याद्ग्रामेषु
नगरेषु च । धर्म्मनैपुण्यकामानां पूतिगन्धे च सर्व्वदा ।
अन्तर्गतशवे ग्रामे वृषलस्य च सन्निधौ । अनध्यायो
रुद्यमाने समवाये जनस्य च । उदके मध्यरात्रे च
विण्मूत्रस्य विसर्जने । उच्छिष्टः श्राद्धभुक् चैव मनसापि
न चिन्तयेत् । प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य
केतनम् । त्र्यहं न कीर्त्तयेद्ब्रह्म राज्ञो राहोश्च सूतके ।
यावदेकानुद्दिष्टस्य गन्धो लेपश्च तिष्ठति । विप्रस्य विदुषो
देहे तावद्ब्रह्म न कीर्त्तयेत् । शयानः प्रौढ़पादश्च कृत्वा
चैवावशक्थिकाम् । नाधीयीतामिषं जग्ध्वा सूतकान्नाद्य-
मेव च । नीहारे वाणशब्दे च सन्ध्ययोरेव चोभयोः ।
अमावास्याचतुर्द्दश्योः पौर्णमास्यष्टकासु च ।
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्द्दशी । ब्रह्माष्टका-
पृष्ठ ०१४७
पौर्णमास्यौ तस्मात्ताः परिवर्जयेत् । पांशुवर्षे दिशां दाहे
गोमायुविरुते तथा । श्वखरोष्ट्रे च रुवति पङ्क्तौ च न
पठेद् द्विजः । नाधीयीत श्मशानान्ते ग्रामान्ते गोव्रजेऽपि
वा । वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृह्य च ।
प्राणि वा यदि वा प्राणि यत्किञ्चिच्छ्राद्धिकं भवेत् ।
तदालभ्याप्यनध्यायः पाण्यास्यो हि द्विजः स्मृतः । चौरै-
रुपप्लुते ग्रामे संभ्रमे चाग्निकारिते । आकालिकमनध्यायं
विद्यात् सर्वाद्भुतेषु च । उपाकर्मणि चोत्सर्गे त्रिरात्रं
क्षपणं स्मृतम् । अष्टकासु त्वहोरात्रमृत्वन्तासु च रात्रिषु ।
नाधीयीताश्वमारूढ़ो न वृक्षं, न च हस्तिनम् । न नावं,
न खरं, नोष्ट्रं, नेरिणस्थो, न यानगः । न विवादे, न
कलहे, न सेनायां, न सङ्गरे । न भुक्तमात्रे, नाजीर्णे, न
वमित्वा, न सूक्तके । अतिथिञ्चाननुज्ञाप्य, मारुते वात
वा भृशम् । रुधिरे च स्रुते गात्राच्छस्त्रेण च
परिक्षते । सामध्वनावृग्यजुषी नाधीयीत कदाचन ।
वेदस्याधीत्य वाप्यन्तमारण्यकमधीत्य च” इति । याज्ञवल्क्यस्तु ।
“त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विग्गुरुबन्धुषु । उपाकर्मणि,
चोत्सर्गे, स्वशाखश्रोत्रिये मृते । सन्ध्यागर्जितनिर्घात
भूकम्पोल्कानिपातने । समाप्य वेदं द्युनिशमारण्यकम-
धीत्य च । पञ्चदश्यां चतुर्द्दश्यामष्टम्यां राहुसूतके ।
ऋतुसन्धिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च ।
पशुमण्डूकनकुलमार्जारश्वाहिमूषिकैः । कृतेऽन्तरे त्वहो-
रात्रं, शक्रपाते, तथोच्छ्रये । श्वक्रोष्टुगर्द्दभोलूकसाम-
वाणार्त्तनिस्वने । अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ।
देशेऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे । भुक्त्वार्द्र-
पाणिरम्भोऽन्तरर्द्धरात्रेऽतिमारुते । पांशुवर्षे दिशां दाहे
सन्ध्यानीहारभीतिषु । धावतः पूतिगन्धे च शिष्टे च
गृहमागते । खरोष्ट्रयानहस्त्यश्वनौवृक्षेरिणरोहणे । सप्त-
त्रिंशदनध्यायानेतांस्तात्कालिकान् विदुः” इति । वशिष्ठः ।
“तस्यानध्यायाः सन्ध्यास्तमिते स्युस्तत्र शवे दिवाकोर्त्तौ
नगरेषु काम गोमयपर्य्युषिते परिलिखिते वा श्मशानान्ते
शयानसा श्राद्धिकस्य । मानवञ्चात्र श्लोकमुदाहरन्ति ।
फलाग्वापस्तिलान् भक्ष्यमथान्यच्छ्राद्धिकं भवेत् । प्रति-
गृह्याप्यनध्यायः पाण्यास्या, ब्राह्मणाः स्मृता इति ॥
धावतः पूतिगन्धिप्रसृतेरिणवृक्षमारूढस्य, नावि, सेनायाञ्च,
भुक्त्वा चार्द्धघ्राणे, वाणशब्दे, चतुर्द्दश्याममावास्यायामष्टम्या-
मष्टकासु प्रसारितपादोपस्थस्योपाश्रितस्य गुरुसमीपे मिथु-
नव्यपेतायां वाससा मिथुनव्यपेतेनानिर्मुक्ते न ग्रामान्ते-
छर्दितस्य, मूत्रितस्योच्चरितस्य, यजुषाञ्च सायंशब्दे,
वाजीर्णे निर्घातभूमौ च न चन्द्रसूर्य्योपरागेषु, दिङ्-
नादपर्वतनादकम्प्रयातेषूपलरुधिरपांशुवर्षेष्वाकालिकम् ।
उल्काविद्युत्सज्योतिपमपर्त्त्वाकालिकं वा । आचार्य्ये च
प्रेते त्रिरात्रर्माचार्य्यपुत्रशिष्यभार्य्यास्वहोरात्रम् । ऋत्विग्-
योनिसम्बन्धेषु च” इति । शङ्ख्योऽप्याह । अनव्यायेष्वव्य-
यनं वर्जयेच्च प्रयत्नतः । चतुर्दशीं पञ्चदशीमष्टमीं राहु-
सूतकम् । उल्कापातं महीकम्पमशौचं ग्रामविप्लवम् । इन्द्र-
प्रयागं सुरतं घनसंघातनिस्वनम् । वाद्यकोलाहलं युद्ध-
मनध्यायं विवर्जयेत् । नाधीयीताभियुक्तोऽपि प्रयत्नान्न
च वेगत” इति । “यद्दिनमहः क्रियते तद्दिनमनध्याय”
इत्युक्तेः देवोत्सवादिदिनेऽपि अनध्याय इति केचित् तेन
सारस्वतोत्सवेश्रीपञ्चमीदिवसे रथयात्रोसवादौ चानध्यायः ।
“महानवम्यां द्वादश्यां भरण्यामपि पर्वसु । तथाक्षय-
तृतीयायां शिष्यान्नाध्यापयेद्बुधः । माघमासे तु सप्तम्यां
रथाख्यायाञ्च वर्जयेदिति” हारीतः । एवं नानास्मृत्युक्ते-
ष्वेषु च येन सर्वसंग्रहस्तथाचरणीयम् ।

अनन न० अन--भावे ल्युट् । जीवने, गतौ च “प्रागननवान्

प्राण” इत्यादि वे० सा० ।

अननुगत त्रि० न अनुगतः । अनुगतभिन्ने अनुगतश्च तुल्या-

कारप्रतीतिप्रयोजको धर्मभेदः यथा षट इति वुद्धौ घटत्वम्
एवं पटत्वम् तस्य सर्वत्र एकरूपेण प्रतीयमानत्वात् ।
अननुगतञ्च तत्तद्यक्तित्वादिकं तस्य सर्वत्र प्रतीत्यभावात् ।
अपश्चाद्गते, अनधीने च ।

अननुगम पु० न अनुगमः अभावार्थे न० त० । अनुगमाभावे

अनुगमश्च तुल्यप्रतीतिप्रयोजकधर्म्मानुसरणम् एतस्य
न्यायादिदर्शनेषु भूरिप्रयोगः ।

अनन्त पु० नास्ति अन्तः गुणानां यस्य ब० । “गन्धर्वाप्सरसः

सिद्धाः किन्नरोरगचारणाः । नान्तं गुणानां जानन्ति तेना-
नन्तोऽयमुच्यते” इत्युक्तलक्षणे विष्णौ, अनन्त! “संसार-
महासमुद्रे मग्नान् समभ्युद्धर वासुदेव!” इति भविष्य-
पुरा० । “विष्णुर्वीरोऽनन्त” इति विष्णुस० । मेघे । बहुशीर्ष
कत्वादपरिच्छिन्ने शेषनागे, तदवतारे बलभद्रे च । अन्तः
परिच्छेदः देशतः कालतः वस्तुतश्च नास्ति यस्य । तस्मिन्
परब्रह्मणि न० “सत्यं ज्ञानमनन्तं ब्रह्मेति” श्रुतिः ।
“न व्यापित्वाद्देशतोऽन्तो नित्यत्वान्नापि कालतः । न वस्तु-
तोऽपि सर्वात्म्यादानन्त्यं ब्रह्मणि त्रिधा । देशकालान्य-
वस्तूनां कल्पितत्वाच्च मायया । न देशादिकृतोऽन्तीऽस्ति
पृष्ठ ०१४८
ब्रह्मानन्तं ततः स्फुटमिति” पञ्चदशी । आकाशे च ।
बहुविस्तारवति सिन्दुवारवृक्षे पु० । अवधिशून्ये, इयत्ता-
शून्ये वस्तुमात्रे, सकले च त्रि० “अनन्तरत्नप्रभवस्य
यस्येति” कुमा० । जिनभेदे पु० ।

अनन्तचतुर्द्दशी स्त्री अनन्तस्य विष्णोराधानार्था चतुर्दशी ।

भाद्रपदशुक्लचतुर्दश्याम् ।

अनन्तजित् अनन्तानि भूतानि जितवान् जि--क्विप् । सर्वभूत-

जयिनि वासुदेवे । “सहस्रजिदनन्तजिदिति” विष्णुसह० ।
अनन्तान् चित्तदोषान् जयति । जिनदेवभेदे पु० ।

अनन्ततीर्थक्लत् पु० अनन्तानि अनेकानि तीर्थानि शास्त्राणि

करोति कृ--क्विप् । जैनभेदे । बहुतीर्थगन्तरि त्रि० ।

अनन्ततृतीया स्त्री “नभस्ये वाथ वैशाखे मार्गशीर्षेऽथवा

पुनः । शुक्लपक्षतृतीयाया” मित्युपक्रम्य पद्मपुराणे तत्त-
दन्यतमतिथिषुव्रतविशेषमभिधाय “उक्तानन्ततृतीयैषा सुता-
नन्दफलप्रदा” इत्यनेन परिभाषितायां भाद्रमार्गवैशाखा-
न्यतममासीयशुक्लतृतीतायाम् हेमा० व्रत० ।

अनन्तदृष्टि पु० अनन्ता दृष्टयो नेत्राणि यस्य । इन्द्रे परमेश्वरे च ।

अनन्तदेव पु० अनन्तो देव इव । शेषनागे, अनन्ते शेषनागे

दीव्यति दिव--अच् । शेषशायिनि नारायणे ।

अनन्तमूल पु० अनन्तानि मूलान्यस्य । स्वनामख्याते मूलप्रधाने

वृक्षभेदे ।

अनन्तर त्रि० नास्ति अन्तरं व्यवधानं यत्र । अव्यवहिते,

व्यवधानञ्च द्विविधं दैशिकं कालिकञ्च । तत्र दैशिके “विष-
यानन्तरो राजा शत्रु” रित्यमरः । “एष ब्रह्मर्षिदेशो वै
आर्य्यावर्त्तादनन्तर” इति मनुः । कालिके । “तदिद
क्रियतामनन्तरं भवता बन्धजनप्रयोजनमिति” कुमा० ।
“पितुरनन्तरमुत्तरकोशलामिति” रघुः । कालिकमपि द्विविधं
पूर्ब्बापरकालकृतव्यवधानभेदात् उत्तरकालकृतमुक्तोदारणे
“अनन्तरोदीरितलक्ष्मभाजावित्यत्र” पूर्ब्बकालावधिकृतम् ।
मध्यशून्ये, अवकाशशून्ये, अवधिशून्ये च । “तदेतद्ब्रह्मा-
पूर्ब्बमनपरमनन्तरमवाह्यमिति” स यथा “सैन्धवघनोऽन-
न्तरोऽवाह्य” इति च वृ० उ० । अव्यवहितकाले । “पुराण-
पत्रापगमादनन्तरं--लतेव सन्नद्धमनोज्ञपल्लवा” इति रघुः ।
तत्र व्याप्तौ द्वितीया । तत्कालवृत्तिसंनहनक्रिया-
विशेषणतया क्लीवत्वादि । एवमन्यत्र एवञ्च एतस्य क्लीवो-
क्तिरर्वाचीनानां प्रामादिकी । एतेन अनन्तरस्याभावः अभा
वार्थेऽव्ययीभाव इत्याशयेन मान्तत्वकल्पनमपि तत्तदुदा-
हरणेषु अनन्वयादुपेक्ष्यमेव । उक्तोदाहरणेषु “अथास्य
गोदानविधेरनन्तरमिति” “अनन्तरं भर्त्तुरुपस्थितो-
दयेति” च रघौ “योगाच्छान्तिरनन्तरमित्यादौ” च व्यव-
धानाभावार्थकत्वे समभिव्याहृतपदार्थानां हि नान्वयः
तस्य देशकालादिबोधकत्वाभावेन व्याप्त्यर्थे द्वितीयाया अप्यस
म्भवः । अतः बहुव्रीहिबलात् कालबोधकतया उक्तोदा-
हरणादिषु व्याप्त्यर्थे द्वितीयेति बोध्यम् । न० त० । अन्तर-
भिन्ने त्रि० तस्य अपुरि सर्व्वनामता । अनन्तरे भवः
गहा० छ । अनन्तरीयः अविलम्बभवे त्रि० ।

अनन्तरज पु० स्त्री अनन्तरस्याः अनन्तरवर्णायाः जायते

जन--ड पुंवद्भावः । क्रमोढाजे पुत्रादौ । अनन्तरं जातः ।
ज्येष्ठे कनिष्ठे च भ्रातरि । तथाभूतभगिन्यां स्त्री ।

अनन्तरय पु० अन्तरयति दूरीकरोति अन्तर + कृत्यर्थे णि भावे

अच् अन्तरयः दूरीकरणम् अभावार्थे न० त० ।
अपरित्यागे । “यदुक्थो यज्ञक्रतोरनन्तरयायेति” ऋ० ४, १,
६, “अनन्तरयाय अपरित्यागायेति” भा० ।

अनन्तराय त्रि० नास्ति अन्तरायः प्रतिबन्धको यस्य । निष्-

प्रतिबन्धके निर्विघ्ने “ताएतानवानन्तरायमन्वाहेति” वृ० उ० ।

अनन्तराशि पु० अनन्तस्य आकाशरूपशून्यस्य राशिः ।

वीजगणितोक्ते शून्यभागहाराद्यर्थं परिकल्पिते राशौ ।

अनन्तरूप पु० अनन्तानि रूपाण्यस्य । परमेश्वरे विष्णौ

“अनन्तरूपोऽनन्तश्रीरिति” वि० स० । “इन्द्रोमाथाभि-
पुरुरूपईयत” इति श्रुत्या तस्य बहुरूप्रत्वप्रतिपादनात्तत्त्वम् ।

अनन्तर्गभिन् अन्तर्गर्भोऽस्य अस्त्यर्थे इनि न० त० । अन्त-

र्गर्भशून्ये पवित्रार्थे कुशे । “अनन्तर्गर्भिणं साग्रं कौशं द्विद-
लमेव चेति” आ० तत्त्वे छन्दो० प० । अनन्तर्गर्भिणमन्त-
र्गर्भशून्य” मिति रघुनन्दनः ।

अनन्तविजय पु० अनन्तान् विजयतेऽनेन ध्वनिद्वारा । युधि-

ष्ठिरशङ्खे “अनन्तविजयं नाम कुन्तीपुत्त्रोयुधिष्ठिरः” इति
गीता ।

अनन्तवीर्य्य पु० । ब० । जैनभेदे ।

अनन्तव्रत न० अनन्तस्य व्रतमुपासनार्थम् ६ त० । भाद्र-

शुक्लचतुर्द्दश्यां कर्त्तव्ये स्वनामख्याते व्रते । “अनन्तव्रतमेतद्धि
सर्वपापहरं शुभम्” इत्युपक्रम्य “तथा शुक्लचतुर्द्दश्यां मासि
भाद्रपदे भवेदिति” भवि० पुरा० ।

अनन्तशक्ति पु० अनन्ता अपरिच्छेदा शक्तिरस्य । परमेश्वरे

“परास्य शक्तिर्विविधैव श्रूयते” इति श्रुतौ तस्य बहुशक्ति-
श्रवणात् तथात्वम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/अदाय&oldid=310357" इत्यस्माद् प्रतिप्राप्तम्