जातकपारिजातः/ग्रहनामस्वरूपगुणभेदाध्शाशः
तत्रादौ सूर्यादीनां कालात्मत्वादिनिरूपणम् ।
कालस्यात्मा भास्कतश्चित्तमिन्दुः सत्वं भौमः स्याद्वचश्चन्द्रसूनुः ।
देवाचार्यः सौख्यविज्ञानसारः कामः शुक्रे दुखभेवार्कसूनुः ॥ १॥
अथ र्व्यादीनां राजत्वादिनिरूपणं
दिनेशचन्द्रौ राजानौ सचिवौ जीवभार्गवौ ।
कुमारे वित् कुजो नेता प्रेष्यस्तपननन्दनः ॥ २॥
अथ सूर्यदीनां नामान्तराणि ।
द्देलिः सूर्यस्तपनदिनकृद्भानुपूषारुणार्काः
सोमः शीतद्युतिरुडुपतिग्लैर्मृगाङ्केन्दुचन्द्राः ।
आरो वक्रक्षितिजरुधिराङ्गारक्कूरनेत्राः
सौम्यस्तारातनयबुधविद्वोधनाश्चेन्दुपुत्रः ॥ ३॥
मन्त्री वाचस्पतिगुरुसुराचार्यदेवेज्यजीवाः
शुक्रः काव्यः सितभृगुसुताच्छास्फुजिद्दानवेज्याः ।
छायासूनुस्तरणितनयः कोणशन्यर्किमन्दाः
राहुः सर्पासुरफणितमः सैहिकेयागवश्च ॥ ४॥
ध्वजः शिखी केतुरिति प्रसिद्धा वदन्ति तज्ज्ञा गुलिकश्च मान्दिः ॥ ४ १/२॥
अथरव्यादीनामुपग्रहाः ।
उप्रग्रहा भानुसुखग्ररांशाः कालादयः कष्टफलप्रदाः सुय्ः ॥ ५॥
क्रमशः कालपरिधिधूमार्द्धप्रहराह्वयाः ।
यमकण्टककोदण्डमान्दिपातोपकेतवः ॥ ६॥
अथ रव्यदीनां स्वरूपम् ।
भानुः शामललोहितद्युतितनुश्चन्द्रः सिताङ्गो युवा
दूर्वाश्यमलकान्तिरिन्दुतनयः, संरक्तगौरः कुजः ।
मन्त्री गौरकलेवरः:, केतुर्विचित्रद्युति ॥ ७॥
अथ ग्रहाणां शुभाशुभत्वानिरूपणम् ।
प्रकाशकौ शीतकरप्रभाकरौ, ताराग्रहाः पङ्च धरासुतादयः ।
तमः स्वरूपौ शिखिसिंहिकासुतौ, शुभाः शशिज्ञामरवन्द्यभार्गवाः ॥ ८॥
क्षीणेन्दुमन्दरविराद्दुशिखिक्षमाजाः पापास्तु पापयुतचन्द्रसुतश्च पापः ।
तेयामतीच शुभदौ गुरुदानवेज्यौ, क्रूरौ दिवाकरसुतक्षितिजौ भवेताम् ॥ ९॥
शुक्लादिरात्रिदशकेऽहनि मध्यवीर्यशाली द्वितीयदशकेऽतिशुभप्रदोऽसौ ।
चन्द्रस्तृटीयदशके बलवर्जितस्तु सौम्येक्षणादिसहितो यदि शोभनः स्यात् ॥ १०॥
अथ रव्यादिनामुदयप्रकारः ।
रव्यारराहुमन्दाश्च पृष्टेनोद्यन्ति सर्वदा ।
शरिसा शुक्रचन्द्रज्ञा जीवस्तूभयतो व्रजेत् ॥ ११॥
अथ रव्यादीनामाकारविशेषाः ।
दिवाकरज्ञौ विहगस्वरूपौ सरीसृपाकारयुतः शशाङ्कः ।
पुरन्दरार्चायसितौ द्विपादौ चतुष्पदौ भानुसुतक्षमाजौ ॥ १२॥
अथ रव्यादीनां सङ्चारदेशाः ।
जलाशयु चन्द्रसुरारिवन्द्यौ बुधालयग्नामचरौ गुरुज्ञौ ।
कुजाहिमन्दध्वजवासरेशा भवन्ति शैलाटविसङ्चरन्तः ॥ १३॥
अथ रव्यादीनां बाल्यादिवयोनिरूपणम् ।
बालो धराजः कुमारकस्त्रिंशद्गुरुः षोडशवत्सरः सितः ।
पङ्चाशदर्को विधुरब्दसप्ततिः शताब्दसङ्ख्याः शनिराहुकेतवः ॥ १४॥
अथ ग्रहाणां शास्त्राधिपत्यनिरूपणं धातुमूलासिसंज्ञाश्च ।
शाखाधिपा जीवसितारबोधना धानुस्वरूपद्युचरौ कुजारुणौ ।
मूलप्रधानौ तुहिनाकरार्कजौ जीवौ सितार्थौ तु विमिश्र इन्दुजः ॥ १५॥
अथ ग्रहाणामवस्थेयत्ता ।
दीप्तः प्रमुदितः स्वस्थः शान्तः शक्तः प्रपीडितः ।
दीनः खलस्तु विकलो भीतोऽवस्था दश क्रमात् ॥ १६॥
अथ स्थानविशेषादवस्थाविशेषाः ।
स्वोच्चत्रिकोणोपगतः प्रदीप्तः स्वस्थः स्वहेगे मुदितः सुहृद्भे ।
शान्तस्तु सौम्यग्रहवर्गयातः शक्तोऽतिशुद्दः स्फुटरश्मिजालैः ॥ १७॥
ग्रहाभिभूतस्त्वतिपीडितः स्यादरातिराश्यंशगतोऽतिदीनः ।
खलस्तु पापग्रहवर्गयोगान्नी वेऽतिभीतो विकलोऽस्तयातः ॥ १८॥
अथ ग्रहणां वर्णविशेषाः ।
वर्णास्ताम्रसितारक्तहरितापीतकर्बुराः ।
कृष्णकान्तिरिनादीणां नष्टादौ च प्रकीर्तिताः ॥ १९॥
अथ रव्यादीनां द्रव्याणि अधिदेवताश्च ।
द्रव्याणि ताम्रमणिकाङ्चनशुक्तिरौष्यमुक्तान्ययश्च दिननाथमुखग्र्हाणाम् ।
वह्निअम्बुषण्मुखहरीन्द्रशचीविरङ्चिमुख्या दिवाकरमुखादधिदेवताः स्युः ॥ २०॥
अथ रव्यादीनां रत्नानि ।
माणिक्यं दिननायकस्य, विमलं मुक्ताफलं शीतगोः
माहेयस्य च विद्रुमं मरकटं सौम्यस्य गारुत्मकम् ।
देवेज्यस्य च पुष्परागमसुराचार्यस्य गारुत्मकम्
नीलं निर्मलमन्ययोश्च गदिते गोमेदवैडूर्यके ॥ २१॥
अथ ग्रहाणां वस्त्रादिनिरूपणम् ।
स्यूलाम्बरं नृतनचारुचेलं कृशानुतोयाहतम्ध्यमानि ।
दृढांशुकं जीर्णमिनादिकानां वस्त्राणि सर्वे मुनयो वदन्ति ॥ २२॥
प्रागादिका भानुसितारराहुमन्देन्दुविद्देवपुगोहिताः स्युः ।
शुक्रारचन्द्रज्ञौरेज्यमन्दा वसन्तमुख्यर्त्वधिपा दृगाणैः ॥ २३॥
देवतोयतटवह्निविहाराः कोशगेदृशयनोत्करदेशाः ।
भानुपूर्वनिलयाः परिकल्प्या वेश्मकोणनिलयावहिकेनू ॥ २४॥
अथ पर्देशविभाग इनाहीनाम् ।
लङ्कादीकृष्णासरिदन्तमारः सितस्ततो गौतभिकान्तभूमिः ।
विन्ध्यान्तमार्यः सुरनिग्नगान्तं बुधः शनिः स्यात्तुहिनाचकान्तः ॥ २५॥
अथ ग्रहाणां जातयो गुणाश्च ।
विप्रौ जीबसितौ दिनेशरुधिरौ भूपालकौ वैश्यराड्
इन्दुः शूद्रकुलाधिपः शशिसुतो मन्दोऽवराणां पतिः ।
आदित्यामरमन्त्रिशीतकिरणाः सत्त्वप्रधानग्रहाः
शुक्रज्ञौ सरजोगुणौ शनिधरापुत्रौ तमःस्वामिनौ ॥ २६॥
अथ ग्रहाणां नरादिसंज्ञा महाभूताधिपत्यश्च ।
नराकारा भानुक्षितिजगुरवः शुक्रशशिनौ
वधूरूपौ षण्ढप्रकृतिपुरुषौ मन्दशशिजौ ।
वियत्क्षोणीतेजपवनपयसामेव पतयः
सुराचार्यज्ञारधुमणिसुतदेवारिसचिवाः ॥ २७॥
अथ ग्रहाणां कक्षाक्रम ।
कक्षायां क्रमओ दिनेशतयाज्ज्योतिर्भचक्राश्रिताः
छायासुनुगुरुक्षमाजदिनकृच्छुकेन्दुपुत्रेन्दवः ॥ २७ १/२॥
अथ सुर्यादीनां धतुविशेषादि ।
भज्जास्नायुवसाऽस्थिशुक्ररुधिरत्वग्धातुनाथा क्रमाद् ।
आरार्किज्यदिनेशशुक्रशशभृत्तारासुताः कीर्तिताः ॥ २८॥
लवणकटुकपायस्वादुतिक्ताम्लमिश्राः शशिरविशनिजीवारासुरेज्यज्ञनाथाः ।
अयनदिवसपक्षर्त्वब्दमासक्षणेशा रविकुजसितसौम्या मन्दजीवेन्दवश्च ॥ २९॥
अथ रव्यादीनां स्थानविशेषे दृष्टयः ॥
पादेक्षणं भवति सोदरमानराश्योरर्धं त्रिकोणयुगलेऽखिलखेचराणाम् ।
पादोनदृष्तिनचयश्चतुरस्त्रयुग्मे सम्पूर्णदृग्बलम्नङ्गगृहे वदन्ति ॥ ३०॥
अथ रव्यादीनां दृष्टिविशेषे बलित्वम् ।
शनिरतिबलशाली पाददृग्वीर्ययोगे सुरकुलपतिमन्त्री कोणदृष्टौ सुभः स्यात् ।
त्रितयचरणदृष्टया भूकुमारः समर्थः सकलगगनवाआः सप्तमे दृग्बलाढ्याः ॥ ३१॥
अथ ग्रहाणामृध्वार्दिदृष्टयः ।
अथोर्वदृष्टी दिननाथभौमौ दृष्टिः कटाक्षेण कवीन्दुसून्वोः ।
शशाङ्कगुर्वोः गमभागदृष्टिरधोऽक्षिपानस्त्यदिनाथशन्योः ॥ ३२॥
अथ ग्रहाणां स्थानबलम् ।
स्वोच्चत्रिकोणस्वसुहृद्दृगाणराश्यंशवैशेषिकवर्गवन्तः ।
आरोहवीर्याधिकविन्दुकास्ते खेचारिणः स्थानबलाधिकाः स्युः ॥ ३३॥
नीचारिपापस्वगयोगनिरीक्ष्यमाणास्तद्वर्गसन्धिलघुबिन्दुदुरंशकाश्च ।
आदित्यरश्मिपरिभूतपराजितास्ते दृष्टयादिशक्त्यसहिताश्च न शोभनाः स्युः ॥ ३४॥
अथ ग्रहाणां दिग्बलम् ।
विलग्नपातालबधूनभोगा बुधामरेज्यौ भृगुसूनुचन्द्रौ ।
मन्दो धरासूनुदिवाकरौ चेत् क्रमेण ते दिग्बलशालिनः स्युः ॥ ३५॥
अथ कालबलम् ।
निशीन्दुमन्दावनिजाः परेऽहनि स्वकीयहोरासममासवासराः ।
सितादिपक्षद्वयगाः शुभाशुभा बुधः सदा कालजवीर्यशालिनः ॥ ३६॥
अथ चेष्टाबलम् ।
जैत्रा व्क्रसमागमोपगसितज्ञारामरेज्यासिताः,
दिव्याशायनगेन्दुतिग्मकिरणौ चेष्टाबलांशाधिकाः ॥ ३६ १/२॥
अथ ग्रहानां निसर्गबलम् ।
सौम्यक्षेपयुता महीसुतभुस्वा(खा)श्चेष्टाबलाढ्याः क्रमान्
नैसर्गस्य बलाधिकाः शनिकुजज्ञाचार्यशुक्रेन्द्वनाः ॥ ३७॥
क्रमेण दृक्स्थाननिसर्गचेष्टादिक्कालवीर्याणि च षड्बलानि ।
सुधाकरेष्विन्दुशरेन्दुशैलभेदानि तानि प्रवदन्ति सन्तः ॥ ३८॥
स्वरूपषष्ट्यंशविषष्टिकांशा मृगादिवीर्योपगषड्बलाढ्याः ।
क्रमेण तद्योगभवं बलं हि पूर्ण त्रिपदं दलं वा ॥ ३९॥
अथ बलप्रमाणम् ।
अर्धाधिकं षट्कमिनस्य सूरेः शुक्रस्य पङ्चाधिकमर्धरूपम् ।
सप्तेन्दुपुत्रस्य बलं षडिन्दोः सौरारयोः सायकरूपसङ्ख्या ॥ ४०॥
अथ ग्रहाणां तात्कालिक-मैत्रीविनारः ।
अन्योन्यतः सोदरलाभमानपातालवित्तव्ययराशिसंस्थाः ।
तत्कालमित्राणि स्वगा भवन्ति तदन्ययाता यदि शत्रवस्ते ॥ ४१॥
अथ सूर्यादीनां नैसर्गिकाः शत्रुमित्रोदासीनाः ।
मित्राणि भानोः कुजचन्द्रजीवाः शत्रू सितार्की शशिजः समानः ।
चन्द्रस्य मित्रे दिननायकज्ञे समा गुरुक्ष्माजसितासिताः स्युः ॥ ४२॥
आरस्य मित्राणि रवीन्दुजीवाश्चान्द्री रिपुः शुक्रशनी समानौ ।
सूर्यासुरेज्यौ बुधस्य समाः शनीज्यावनिजास्त्वरीण्दुः ॥ ४३॥
सूर्यारचन्द्राः सुहृदस्तु सूरेः शत्रू सितज्ञौ रविजः समानः ।
मित्रे शनिज्ञौ भृगुन्दनस्येन्द्वनावरी जीवकुजौ समानौ ॥ ४४॥
मन्दस्य सूर्येन्दुकुजाश्च शत्रवः समः सुरेज्यः सुहृदौ सितेन्दुजौ ॥ १/२॥
LOST PAGE
LOST PAGE
LOST PAGE
अथ सूर्यादिभ्यः फलविशेषचिन्ता ।
सूर्यादात्मपितृप्रभावनिरुजाशक्तिश्रियश्चिन्तयेत्
चेतोबुद्धिनृपप्रसादजननीसम्पत्करश्चन्द्रमाः ।
सत्त्वं रोगगुणानुजावनिसुतज्ञातीर्धरासूनुना
विद्याबन्धुविवेकमातुलसुहृत्त्वक्कर्मकृद्धोधनः ॥ ४९॥
प्र्ज्ञानित्यशरीरपुष्टितनयज्ञानानि वागीश्वरात्
पत्नीवाहनभूषणनि मदनव्यआपारसौम्ख्यं भृगोः ।
आयुर्जीवनमृत्युकारणविपत्सम्पत्प्रदाता शनिः
सर्पेणैव पितामहं तु शिखिना मातामहं चिन्तयेत् ॥ ५०॥
अथ ग्रहाणां भावकारकत्वम् ।
द्युमणिरमरम्न्त्री भूसुतः सोमसौम्यौ गुरुरिनतनयारौ भार्गवो भानुपुत्रः ।
दिनकरदिविजेज्यौ जीवभानुज्ञमन्दाः सुरगुरुरिनसूनुः कारकाः स्युर्विलग्नात् ॥ ५१॥
अथ ग्रहाणां स्थाननविशेषे शुभाशुभप्रदता ।
कामावनीनन्दनराशियाताः सितेन्दुपुत्रामरवन्द्यमानाः ।
अरिष्ट्दास्तेऽखिलजातकेषु सदाऽष्टमस्थः शनिरिष्टदः स्यात् ॥ ५२॥
अथ सूर्यादीनां स्वरूपाणि ।
प्रतापशाली चतुरस्रदेहः श्यामारुणाङ्गो मधुपिङ्गलाक्षः ।
पित्तात्मकः स्वल्पकचाभिरामो देवाकरः सत्त्वगुणप्रधानः ॥ ५३॥
सङ्जारशीलो मृदुवाग्विवेकी शुभेक्षणश्चारुतरस्थिराङ्गः ।
सदैव धीमांस्थनुवृत्तकायः कफानिलात्मा च सुधाकरः स्यात् ॥ ५४॥
क्रूरेक्षणस्तरूणमूर्त्तिरुदारशीलः पित्तात्मकः सुचपलः कृशमध्यदेशः ।
संरक्तगौररुचिरावयवः प्रतापी कामी तमोगुणरतस्तु धराकुमारः ॥ ५५॥
दूर्वादलद्युतितनुः स्फुटवाक् कृशाङ्गः स्वामी रजोगुणवतामतिहास्यलोलः ।
हानिप्रियो विपुलपित्तकफानिलात्मा सद्यः प्रतापविभवः शशिजश्च विद्वान् ॥ ५६॥
बृहदुदरशरीरः पीतवर्णः कफात्मा सकलगुणसमेतः सर्वशास्त्राधिकारी ।
कपिलरुचिकचाक्षः सात्त्विकोऽतिव धीमान् अलधुनृपतिचिह्नः श्रीधरो देवमन्त्री ॥ ५७॥
असितकुटिलकेशः श्यामसौन्दर्यशाली समततरुचिराङ्गः सौम्यदृक् कामशीलः ।
अतिपवनकफात्मा राजसः श्रीनिधानः सुखबलसुगुणानामाकरश्चासुरेज्यः ॥ ५८॥
काठीन्यरोमावयवः कृशात्मा दूर्वासिताङ्गः कफमारुतात्मा ।
पीनद्विजश्चारुपिशङ्गदृष्टिः सौरिस्तमो बुद्धिरतोऽलसः स्यात् ॥ ५९॥
इतरयोगे ग्रहाणां वृद्धिमत्ता ।
अर्केण मन्दः, शनिना महिसुतः, कुजेन जीवो गुरुणा निशाकरः ।
सोमेन शुक्रोऽसुरमन्त्रिणा बुधो बुधेन चन्द्रः खलु वर्द्धते सदा ॥ ६०॥
अथ ग्रहाणां स्थानबलविशेषः ।
स्वोच्चस्वकीयभवनस्वदृगाणद्दोरावारांशकोदगयनेषु दिन्स्य मध्ये ।
राशिप्रवेशसमये सुहृदंशकादौ मेषूरणे दिनमणिर्बलवानजस्रम् ॥ ६१॥
चन्द्रः कर्किणि गोपतौ निजदिनद्रेक्काणहोरांशके
राश्यन्ते शुभवीक्षणे निशि सुखे याम्यायने वीर्यवान् ।
इन्दुः सर्वकलाधरो यदि बली सर्वत्र सन्धि विना
सर्वव्योमचरेक्षितस्तु कुरुते भूपालयोगं नृणाम् ॥ ६२॥
आरः स्ववारनवभागदृगाणवर्गे मीनालिकन्भमृगसुन्बुरुयामिनीषु ।
वक्रे च याम्यदिशे राशिमुखे बलाढ्यो मीने कुलिरभवने च ददाति ॥ ६३॥
अन्यानृयुग्मभवने निजवारवर्गे चापे विना रविमहुर्निशमिन्दुसूनुः ।
सौम्यायने च बलवानपि राशिमध्ये लग्ने सदा यदि यशोबलवृद्धिदः स्यात् ॥ ६४॥
मीनालिचापकटके निजवर्गवारे मध्यन्दिनोदगयने यदि राशिमध्ये ।
कुम्भे च नीचभवनेऽपि बली सुरेज्यो लग्ने सुखे च दशमे बहुवित्तदः स्यात् ॥ ६५॥
स्वोच्चस्ववर्गदिवसे यदि राशिमध्ये शत्रुव्ययानुजगृहे हिबुकेऽपराह्ण ।
युद्धे च शीतकरसङ्गमवक्रचारे शुकोऽरुणस्य पुरतो यदि शोभनः स्यात् ॥ ६६॥
मन्दस्तुलामकरकुम्भगृहे कलत्रे याम्यायने निजदृगाणदिने दशायाम् ।
अन्ते गृहस्य समरे कृष्णपक्षे वक्रः समस्तभवनेषु बलाधिकः स्यात् ॥ ६७॥
मेषालिकुम्भतरुणिवृषकर्कटेषु मेषूरणे च बलवानुरगाधिपः यात् ।
कन्यावसानवृषचापधरे निशायामुत्पातकेतुजनने च शिखी बली स्यात् ॥ ६८॥
प्रोक्तप्रकारप्रबलान्विता ये मूलं विबला भवन्ति ।
भावेषु योगेषु दशाकलषु न सम्यगुक्तानि फलानि सन्ति ॥ ६९॥
अथ ग्रहाणामधिमुखत्वादि ।
अधोमुखा दिनेशस्य पूर्वषट्कस्थिता ग्रहाः ।
अपरार्द्धस्थिताः भानोरूर्ध्वास्याः सुखवित्तदाः ॥ ७०॥
भानामवस्थानगताः क्रमेण मदार्यभौमार्किसितज्ञचन्द्राः ।
तेषामधःस्थानगतो बलीयान् राहुर्भहीमण्डलमूर्धि संस्थः ॥ ७१॥
स्थानविशेषे स्थितिक्रमविशेषे च ग्रहाणां विफलता ।
सभानुरिन्धुः शशिजश्चतुर्थे गुरुः सुते भूमिसुतः कुतुम्बे ।
भृगुः सपत्ने रविजः कलत्रे विलग्नतस्ते विफला भवन्ति ॥ ७२॥
अथ दोषापहरणम् ।
राहुदोषम्बुधो हन्यादुभयोस्तु शनैश्चरः ।
त्रयाणां भूमिजो हन्ति चतुर्णा दानवार्चितः ॥ ७३॥
पङ्चानां देवमन्त्री च षण्णां दोषं तु चन्द्रमाः ।
सप्तदोषं रविर्हन्याद्विशेषादुत्तरायणे ॥ ७४॥
अथ ग्रहाणां पीडाकरणप्रकारः ।
सदाऽग्निरोगज्वरवृद्धिदीपनक्षयातिसागदिकरोगसङ्कुलम् ।
नृपालदेवावनिदेवकिङ्करैः करोति चित्तव्यसनं देवाकरः ॥ ७५॥
पाण्डुदोषजलदोषकामलापीनसादिरमणीकृतामयैः ।
कालिकासुरसुवासिनीगणैराकुलं च कुरुते तु चन्द्रमाः ॥ ७६॥
पीनबीजकफशास्त्रपावकग्रन्थिरुग्व्रणदरिद्रजामयैः ।
वीरशैवगणभैरवादिभिर्भीतिमाशु कुरुते धरासुतः ॥ ७७॥
गुह्योदरादृश्यसमीरकुष्ठमन्दाग्निशूलग्रहणीरुगाद्यैः ।
बुधादिविष्णुप्रियदासभूतैरतीव दुःखं शशिजः करोति ॥ ७८॥
आचार्यदेवगुरुभूसुरशापदोषैः शोकं च गुल्मरुजमिन्द्रगुरुः करोति ।
अन्ताविकारजनिमेहरुजा सुराद्यैः स्वेष्टाङ्गनाजनकृतैर्भयमासुरेज्यः ॥ ७९॥
दारिद्यदोषनिजकर्मपिशाचचौरेः क्लेशं करोति रविजः सह सन्धिरोगैः ।
कण्डूमसूरिरोपुकृत्रिमकर्मरोगैः स्वाचारहीनलघुजातिगणैश्च केतुः ॥ ८०॥
करोत्यपस्मारमसूरिरज्जूक्षुद्दृक्कृमिप्रेतपिशाचभूतैः ।
उद्वन्घनेनारुचिकुष्ठरोगैर्विधुन्तुदश्चातिभयं नराणाम् ॥ ४१॥
अथ राशौ ग्रहफलपरिपाककालः ।
आद्यन्तमध्यभवनोपगता नभोगाश्चादित्यभूमितनयौ शनिशीतरश्मी ।
जीवासुरेन्द्रसचिवौ फलदाःक्रमेण तारासुतः सकलकालफलप्रदः स्यात् ॥ ४२॥
अथ धातुजरोगे धातुनाथोपासना ।
यद्धातुकोपजनिताखिलरोगशान्त्यै तन्नाथमाशु उपतर्पणहोमदानैः ।
सम्पूज्य रोगभयशोकविमुक्तचित्ताः सर्वे नराः सुखयशोबलशालिनः स्युः ॥ ४३॥
अथ ग्रहाणां बाल्याद्यवस्थानिरूपणम् ।
बालः कुमारोऽथ युवा च वृद्धो मृतश्च राशावयुजि क्रमेण ।
त्रिंशल्जवैर्ष्यत्ययतः समे स्युरेकैकशोऽशाः पुनरेव कार्याः ॥ ८४॥
अथ जाग्रदाद्यावस्थाः ।
उच्चांशे स्वनवांशे च जागरूकं वदन्ति हि ।
सुहृन्नवांशकं स्वप्नं सुप्तं नाचारिभांशकम् ॥ ८५॥
अथ ग्रहाणां फलदानकालः ।
शीर्षोदयगतः खेटः पाकादौ फलदो भवेत् ।
पृष्ठोदयस्थः पाकान्ते सदा चोभयराशिगः ॥ ८६॥
समस्तहोराफलसारसान्द्रविराजिते जातकपारिजाते ।
ग्रहक्रियारूपगुणप्रभेदः सङ्कीर्र्तितः खेटकृपाकटाक्षात् ॥ ८७॥
इति नवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते
ग्रहनामस्वरूपगुणमेदाध्यायः ॥ २॥