पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः २४
← अध्यायः २३ | पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः) अध्यायः २४ [[लेखकः :|]] |
अध्यायः २५ → |
शौनक उवाच।
विदुषांवर तत्त्वज्ञ कथयस्व महामते ।
इदानीं मम दानानां माहात्म्यं क्रमतो मुने १।
सूत उवाच।
क्षितिदानं मुनिश्रेष्ठ दानानामुत्तमं मतम् ।
येन कृतं वै तद्दानं सर्वदानफलं मतम् २।
क्षितिं ससस्यां यो दद्याद्ब्राह्मणाय द्विजोत्तम ।
विष्णुलोके सुखं भुंक्ते यावदिंद्राश्चतुर्दश ३।
पृथिव्यां जन्म चासाद्य सार्वभौमस्ततो नृपः ।
महीं सर्वां चिरं भुक्त्वा व्रजेद्वै श्रीहरेर्गृहम् ४।
गोचर्ममात्रां भूमिं यः प्रयच्छति द्विजातये ।
स गच्छति हरेर्गेहं सर्वपापविवर्जितः ५।
शतं गावो वृषश्चैको यत्र तिष्ठंत्ययंत्रिताः ।
गोचर्ममात्रां तां भूमिं प्रवदंति महर्षयः ६।
भूमिनेता भूमिदाता द्वौ चापि स्वर्गगामिनौ ।
ग्राह्या भूमिर्द्विजैः प्राज्ञैस्त्यक्त्वा दानशतान्यपि ७।
अज्ञानी भूसुरो यस्तु त्यजेद्भूमिं विमोहितः ।
प्रतिजन्मन्यसौ विप्रो भवेच्चात्यंत दुःखभाक् ८।
अन्यतो यः समासाद्य दद्याद्भूमिं द्विजातये ।
तस्मै विप्र जगन्नाथो ददाति परमं पदम् ९।
स्वदत्तां परदत्तां च मेदिनीं यो हरेद्द्विज ।
युक्तः कोटिकुलैर्याति नरकं चातिदारुणम् १०।
हरेद्यो वै महीं विप्र देवब्राह्मणयोरपि ।
न दृष्टा निष्कृतिस्तस्य कोटिकल्पशतैर्मुने ११।
भूमिं यो परदत्तां च रक्षति क्ष्मापतिर्द्विज ।
पुण्यं कोटिगुणं स्याद्वै तस्य दानं जनादपि १२।
सप्तद्वीपां महीं दत्त्वा यत्पुण्यं प्राप्यते द्विज ।
तत्पुण्यं प्राप्नुयान्मर्त्यो धेनुं यच्छन्द्विजातये १३।
ददाति वृषभं यस्तु दरिद्राय कुटुंबिने ।
सर्वपापविनिर्मुक्तो शिवलोकं स गच्छति १४।
तिलप्रमाणं स्वर्णं यो ब्राह्मणाय प्रयच्छति ।
हरेर्निकेतनं याति युक्तः कोटिकुलैरपि १५।
यो दद्याद्रजतं विप्र साधवे भूसुराय वै ।
प्राप्नोति चंद्रलोकं च पिबेत्तत्रामृतं सदा १६।
प्रवालं मौक्तिकं चैव हीरकं च मणिं तथा ।
यो ददाति द्विजश्रेष्ठ स्वर्गलोकं स गच्छति १७।
तुलापुरुषदानेन यत्पुण्यं लभते जनः ।
शालग्रामशिलां दत्त्वा तस्मात्कोटिगुणं लभेत् १८।
सप्तद्वीपां क्षितिं दत्वा सशैलवनकाननाम् ।
यत्पुण्यं लभते तद्वै शालग्रामशिलाप्रदः १९।
शालग्रामशिलां यो वै दद्याद्भूमिसुराय च ।
तेन विप्र प्रदत्तानि भुवनानि चतुर्दश २०।
तुलापुरुषदानं यः करोति द्विजपुंगव ।
जनन्याश्चोदरे तस्य पुनर्जन्म न विद्यते २१।
सालंकारां द्विजश्रेष्ठ कन्यां यच्छति यो नरः ।
स गच्छेद्ब्रह्मसदनं पुनर्जन्म न विद्यते २२।
कन्याविक्रयिणो नास्ति नरकान्निष्कृतिः पुनः ।
कन्यादानकृतो नास्ति स्वर्गादागमनं पुनः २३।
उपानहौ वातपत्रं यो ददाति द्विजातये ।
प्रेत्य चेंद्रपुरं गत्वा वसेत्कल्पचतुष्टयम् २४।
वस्त्रं यच्छति यो दिव्यं साधवे वै द्विजायते ।
स्वर्गे दिव्यांबरधरश्चिरं तिष्ठेद्द्विजोत्तम २५।
धेनुं पुरातनीं यच्छेद्वस्त्रं च जरितं द्विज ।
नूत्नां रजोवतीं कन्यां स गच्छेन्निरयं तथा २६।
कन्याविक्रयिणो ब्रह्मन्न पश्येल्लपनं बुधः ।
दृष्ट्वा चाज्ञानतो वापि कुर्य्यान्मार्तंड दर्शनम् २७।
फलदाता नरो गच्छेत्त्रिदिवं च द्विजोत्तम ।
भुंक्ते कल्पसहस्राणि फलं तत्रामृतोपमम् २८।
शाकं यच्छति यो मर्त्यो शिवस्यभवनं द्विज ।
याति कल्पद्वयं भुंक्ते दुर्ल्लभं पायसं सुरैः २९।
घृतदो दधिदश्चैव तक्रदो दुग्धदस्तथा ।
विष्णोर्निकेतनं गत्वा सुधापानं करोति सः ३०।
गंधदः पुष्पदश्चैव मर्त्यो याति सुरालयम् ।
तिष्ठेद्युगसहस्राणि गंधपुष्पविभूषितः ३१।
शय्यादानं दानसारं ब्राह्मणाय ददाति यः ।
स याति ब्रह्मसदनं पर्य्यंके शेरते चिरम् ३२।
पीठदाता दीपदाता सर्वदुष्कृतवर्जितः ।
स्वर्गे सिंहासने तिष्ठेज्ज्वलद्दीपावलीवृतः ३३।
तांबूलं यो नरो दद्याद्भूमिं भुंक्तेऽखिलां सुखम् ।
स्वर्गे देवांगनाक्रोडे सुप्तस्तांबूलमत्ति वै ३४।
विद्यादानं दानवरं करोति यो नरोत्तमः ।
प्रेत्य स सन्निधिं विष्णोस्तिष्ठेद्युगशतत्रयम् ३५।
प्राप्य ज्ञानं ततस्तत्र दुर्ल्लभं वै द्विजर्षभ ।
दुर्ल्लभं मोक्षमाप्नोति श्रीहरेः कृपया द्विज ३६।
अनाथं दुःखितं विप्रं पाठयेद्वै नरोत्तमः ।
श्रीहरेर्भवनं याति पुनर्जन्मविवर्जितः ३७।
यो नरः पुस्तकं दद्याद्भक्तिश्रद्धासमन्वितः ।
प्रतिवर्णं लभेत्पुण्यं कपिलाकोटिदानजम् ३८।
मधुदो गुडदश्चैव मर्त्यो यातीक्षुसागरम् ।
लवणप्रदो नरो याति वारुणं लोकमेव च ३९।
सर्वेषामेव दानानामन्नं वारि द्विजोत्तम ।
तत्त्वज्ञैर्मुनिभिः सर्वैः प्रवरं वै प्रकीर्त्तितम् ४०।
अन्नं वारि द्विजश्रेष्ठ येन दत्तं महीतले ।
तेन दत्तानि दानानि सर्वाणि च द्विजर्षभ ४१।
अन्नदो यो नरो विप्र प्राणदश्च प्रकीर्त्तितः ।
तस्मात्समस्तदानानामन्नदो लभते फलम् ४२।
यथाचान्नं तथा वारि द्वे तुल्ये च प्रकीर्त्तिते ।
वारिणा च विना चान्नं सिद्धं न स्याद्द्विजोत्तम ४३।
क्षुधा तृषा द्विज व्याघ्र द्वे च तुल्ये प्रकीर्त्तिते ।
अतश्चान्नं च तोयं च श्रेष्ठं प्रोक्तं बुधैरपि ४४।
अन्नदानं क्षितौ ब्रह्मन्ये कुर्वंति नरोत्तमाः ।
सर्वपापविनिर्मुक्ता गच्छंति हरिमंदिरम् ४५।
यावंत्यन्नानि भो विप्र यच्छति क्षितिमंडले ।
ब्रह्महत्याश्च तावंत्यो नश्यंत्येव तपोधन ४६।
यच्छतां चान्नदानानि शरीराणि च पातकम् ।
गात्राणि गृह्णतां त्यक्त्वा सहसा यांति शौनक ४७।
अतः पापिष्ठ चान्नानि न गृह्णंति मनीषिणः ।
गृह्णंति मोहाद्ये मूढा भवंति पापभागिनः ४८।
कुर्याद्भूमिष्ठमुदकं चैकं भो द्विजसत्तम ।
सर्वपापैर्विनिर्मुक्तो व्रजेत्स हरिमंदिरम् ४९।
प्रयत्नेन द्विजश्रेष्ठ कर्त्तव्यो धनसंचयः ।
संचितं च धनं ब्रह्मन्दानकर्मणि विक्षिपेत् ५०।
रणंति ये च कार्पण्याद्धनं ते चातिदुःखिनः ।
अंते सर्वधनं त्यक्वा निःस्वा गच्छंति भो मुने ५१।
मानवा ये सदा दानं दत्त्वा दत्त्वा दरिद्रति ।
दरिद्रास्तेन विज्ञेया नरलोके महेश्वराः ५२।
परलोके द्विजव्याघ्र साधुसंयमवर्जिते ।
निर्दये बंधुहीने च न दत्तं नोपतिष्ठते ५३।
स्थिते धने नरो यो वै नाश्नाति न ददाति सः ।
दरिद्र इव विज्ञेयः प्रेत्य निश्वासमुत्सृजेत् ५४।
तपसोऽपि वरं दानं प्रोक्तं च तत्त्वदर्शिभिः ।
अतो यत्नाद्द्विजश्रेष्ठ दानकर्म समाचरेत् ५५।
दाता दानं न दद्याद्वै समुत्सृज्य द्विजातये ।
स याति निरयं घोरं सर्वजंतुभयावहम् ५६।
दानं दाता प्रतिग्राही न स्मरेच्च न याचते ।
निरये चोभयोर्वासो यावच्चंद्र दिवाकरौ ५७।
ब्रह्महत्यादि पापानि यानि वै द्विजसत्तम ।
तानि दानेन हन्यंते तस्माद्दानं समाचरेत् ५८।
इति श्रीपाद्मेमहापुराणे ब्रह्मखंडे सूतशौनकसंवादे चतुर्विंशतितमोऽध्यायः २४।