इति सा हदि तस्य सशय परिमार्ष्टु किल मौनमत्यजत् ॥२६॥
ए[१]ता प्रशास्ति मुजया वनराज्यसीमा-
मेक स्वय नरभुजाभृषभो हिडिम्ब ।
अर्धाशभाग्जनवधे सममन्तकेन
तुल्याभिधानपदया स्वसृमान्मया य ॥२७॥
वीतशङ्कमिह तेऽद्य तिष्ठत कीदृश ककुदमित्यय मम ।
चित्तरङ्गभुवि नृत्तकौशलीमुत्तरङ्गयति चित्रलासक ॥२८॥
रुधिर पातुकामेन तेन वो हन्तुमीरिता ।
अधर पातुकामाहमस्मि ते रूपसपदा ॥२९॥
अद्य ते सविधमापतेदसौ हृद्यमेतदुचित वच शृणु ।
उवाचेल्यर्थ। अत्र मौनत्यागे तादृशसशयवारणफलकत्वोत्प्रेक्षया तन्मुखकान्ति- नेगनिग्यम्। तथा दृष्टिप्रतिरोधकमिति वस्तुप्रतीतेरलकारेण वस्तुध्वनि । औप-च्छन्दसिक्म् ॥२६॥
तदुक्तिप्रकारमेवाह्-एतमिति । नरभुजा मनुष्याशनाना रक्षसामृषभ श्रेष्ठ अतएव जनाना वधे हिंसाया विषये अन्तकेन सम यमेन सहार्धोश तुल्यभाग भजतीति तथोक्त हिडिम्बो नाम राक्षस स्वयमे कोऽसहाय सन्नेव भुजया । बाहुबलेनेत्यर्थ । एता वनराज्यसीमा प्रशस्ति रक्षति । एतद्वनस्य राजेत्यथ । यो हिडिम्बस्तुल्यमभिन्नमभिवानपद सग्नाशब्दो यस्वास्तया मया स्वसृमान् । तस्याह भगिनीत्यर्थ । स हिडिम्ब इति सबन्ध । वसन्ततिलका त्रुत्तम् ॥२७॥
वीतशङ्कमिति । इह यमतुल्यहिडिम्बवने वीतशङ्क गतभय यथा तथा अद्य तिष्टतस्ते तव ककुद वैर्य कीदृशमित्युक्तप्रकारोऽय चित्रमक्ष्चर्यमेव लासको नर्तक मम चित्तमेव रङ्गभूर्नाव्यदेशस्तम्या नृत्तकौशलीं नाट्यनैपुण्यमुत्तरङ्गयति वर्धयति । अत्याक्ष्चर्यमत्र त्वदवस्थानमित्यर्थ। रथोद्धता रुत्तम् ॥२८॥
रुधिरमिति । किच रुधिर युष्मद्रक्त पातु कामो यस्य तथोक्तेन तेन हि डिम्बेन वो युष्मान्हन्तुमीरिता प्रेरिताह ते तव सबन्विन्या रुपस्य सौन्दर्यस्य सपदा समृध्द्या हेतुनाघर भवदोष्ठमाधुर्य पातुकामास्मि । इद ततोऽप्याक्ष्चर्यम्। यघुष्मान्हन्तुमागताया मम विस्मृत्य सर्व त्वद्रूपसपदा त्वयि रागोदय इत्यर्थ । अत्र विरुद्धात्कार्यसपत्तिरूपो विभावनाभेद । युग्मविपुलावृत्तम्॥२९॥
अद्येति । किचासौ हिडिम्ब । हे वीर, ते तव सविध समीप प्रल्यापतेदागच्छेत् ।अत हृद्य मनोज्ञमत एवोचितमेतद्वक्ष्यमाण वच शृणु । ममेति शेष ।
- ↑ 'एना'इति पाठ