५३ कथासरित्सागरः । [ आदितस्तरङ्गः तस्याच्छिनत्स खजेन शिरो रचितमण्डनम् । छिन्नकण्ठं च तं सद्यः कोऽभ्येत्याद्त्त राक्षसः । सोऽयं पुराधिपानत्ति नूनमत्रेत्युदीर्य सः । आदय केशेष्वारेभे हन्तुं तं राक्षसं नृपः । तावत्स राक्षसोऽवादीन्मा राजन्मां वधीर्भूष। अन्य एव स कोऽपीह यः खादति पुराधिपान् । कोऽसौ ब्रूहीति राज्ञा तत्पृष्टं रक्षोऽब्रवीत्पुनः। अस्तीहाज्ञवरको नाम पातालनिळ्योऽसुरः॥ स ते पुराधिपानन्ति निशीथेषु परंतप । सर्वतो राजकन्याश्च हठेन हरति प्रभो । करोत्यङ्गमरवत्याश्च ताः सुतायाः परिच्छदम् । तमटव्यां भ्रमन्तं त्वं दृष्ट्वा हत्वा कृती भव ॥ इत्युक्तवन्तं मुक्त्वा तं राक्षसं स स्वमन्दिरम् । राजा ययावेकदा च जगामाखेटकं ततः । तत्रापश्यन्महाकायं कोपज्वलितलोचनम् । सूकरं सदरीखण्डमञ्जनाद्रिमिवोद्यतम् । में वराहो भवेदीद्यायी सोऽङ्गगरको नु किम् । इति ध्यायन्स राजा तं क्रोडं बाणैरताडयत् ॥ स तानगणयन्नेव बाणान्व्याधूय तद्रथम् । गत्वा वराहः सुमहद्विवेश विवरं भुवः । राजापि वीरस्तत्रैव तस्य पश्चात्प्रविश्य सः। दिव्यं पुरं दशैत्र न ददर्श च सूकरम् । वापीतटोपविष्टश्च तत्रापश्यत्स कन्यकाम् । कन्याशतपरीवारां रतिं रूपवतीमिव । सा कन्याभ्येत्य पृष्ट्वा च तत्रागमनकारणम् । पश्यन्ती साश्रुनयना जातप्रेमा जगाद तम् । कष्टं कुत्र प्रविष्टोऽसि वराहो यस्त्वयेक्षितः। स दैत्योऽङ्गारको नाम वजकायो महाबलः । संप्रति त्यक्तवाराहरूपश्चान्तः स्वपित्यसौ । प्रबुध्याहारकाले तु कुर्यादत्यहितं तव । अहं च सुभगैतस्य नाम्नाङ्गारवती सुता । तव चानिष्टमाशङ्कय प्राणाः कण्ठागता मम । इत्युक्तः स तया राजा देव्या दत्तं वरं स्मरन्। कार्यसिद्धिर्ममास्तीति जातास्थः प्रत्युवाच ताम् । यदि मय्यस्ति ते स्नेहस्तदिदं कुरु मद्वचः । गत्वा रुदिहि पार्थेऽस्य प्रबुद्धस्य सतः पितुः ॥ प्रमत्तं यदि कश्चित्वां हन्यात्तन्मम का गतिः। इति वाच्यश्व मुग्धाक्षि स पृच्छन्कारणं त्वया । एवं कृते ममाप्यस्ति ध्रुवं श्रेयस्तवापि च । इत्युक्ता तेन राज्ञा सा गत्वा मदनमोहिता ॥ उपविश्य प्रबुद्धस्य पार्श्व तस्यारुत्पितुः । पृष्टा शशंस तस्मै च हेतुं तद्वधजं भयम् । ततः स दैत्योऽवादीत्तां वङ्गाङ्ग को हि हन्ति माम् । यद्धि वामकरे मेऽस्ति मर्म रक्षति तद्धनुः। इत्येतत्तद्वचो राजा प्रच्छन्नः स तदाश्रुणोत् । सोऽथ दैत्यः प्रववृते स्नात्वा पूजयितुं हरम् ॥ तत्कालं प्रकटीभूय युद्धायाह्वयते स्म सः। दैत्यं गृहीतमौनं तं राजा रोपितकार्मुकः ॥ सोऽपि दैत्यः करं वाममुत्क्षिप्य व्यापृतेतरः। संज्ञां तस्याकरोद्राज्ञः प्रतीक्षस्व मनागिति । तत्क्षणं तेन राज्ञा च करे तत्र स मर्मणि । सिद्धलक्ष्येण बाणेन हतो दैत्योऽपतद्भुवि । तृषार्ताऽहं हतो येन सोऽब्देऽब्दे चेन्न मां जलैः । तर्पयिष्यति तत्तस्य पञ्च नह्यन्ति मत्रिणः । इत्युक्त्वैव विपन्नेऽस्मिन्दैत्ये तां तत्सुतां नृपः। आदाय सोऽन्नवारवतीमागादुज यिनीमिमाम् । परिणीय च तां देवीं स देवो देव वः पिता । अङ्गारकस्याम्बुदनं प्रतिवर्षमकारयत् । सर्वं चोकनाय्यं कुर्वन्तीह महोत्सवम् । प्राप्तः स चाद्य तत्पित्रा यत्कृतं ते कुरुष्व तत् । एतस्प्रजावचः श्रुत्वा स तं पालकभूपतिः । पुरि प्रावर्तयत्तत्र जलदानोत्सवं तदा । तस्मिन्प्रवृत्ते तब्यते जने कोलाहलाकुले। अकस्मात्रोटितालानो गजोऽत्राधावदुन्मदः । स वारणोऽङ्कशं जित्वा व्याधूताधोरणो भ्रमन् । अन्तर्नगर्यां सुबहून्क्षणाद्यापादयञ्जनान् ॥ प्रधावितेषु मैण्ठेषु महामात्रान्वितेष्वपि । पैौरेषु च न तं कश्चिन्नियन्सुमशकद्भजम् ।। क्रमात्रमति तस्मिश्च गजे चण्डालवाटकम् । संप्राप्ते निरगात्तस्मादेका चण्डाळकन्यका ॥ जितोऽनया मुखेनेन्दुर्मदैरीतीव तुष्टया । भासयन्ती भुवं पादलग्नया कमलश्रिया । व्यावृत्तचेतसोऽन्येभ्यो भावेभ्यस्तिमितस्थितेः। निद्रेव सर्वलोकृस्य दृशोर्विश्रान्तिदायिनी ॥ सा कन्या वारणेन्द्रं तं संमुखोपागतं करे । करेणाहत्य कुटिलैस्तैः कटाक्षैरताडयत् । स हस्ती तत्करस्पर्शमोहितो विनताननः । तदृष्टिविद्धस्तां पश्यन्पदमप्यत्र नाचलत् ।
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४३२
दिखावट