(रङ्गः ४॥ विषमशीललम्बकः १८। ५८५ सदश्च स तां सम्यगुपयेमे वराननाम् । कन्यां रूपवतीं तत्र पित्रा प्रत्तमहाधनाम् । १७८ नन्द स्त्रीजनश्चात्र तुल्यौ वीक्ष्य वधूवरौ । सा च रूपवती प्राप्तं दृष्ट्वा तं तादृशं वरम् । १७९ 'स्याः सख्योऽपि तं दृष्ट्रा जज्ञिरे जातमन्मथाः । विषादविस्मयाक्रान्तः स त्वासीत्केसटरस्तदा॥ १८० त्रौ च शयनीये तं चिन्तासक्तं पराङ्मुखम् । प्रियं रूपवती दृष्ट्वा व्याजसुप्तं चकार सा ।। १८१ अशीथे सोऽथ सुप्तां तां सत्वा निर्गत्य केसटः । राक्षसस्यान्तिकं तस्य सत्यं पालयितुं ययौ। । १८२ पि रूपवती स्वैरमुत्थायानुपलक्षिता । सकौतुका। तं भर्तारमन्वियाय पतिव्रता । १८३ तं च केसटं तत्र राक्षसः स जगाद तम् । साधु भोः पाळितं सत्यं महासत्वोऽसि केसट ॥ १८४ रे पाटलिपुत्रं तद्देसटश्च पिता त्वया । पवित्रितस्तदायाहि यावत्वां भक्षयाम्यहम् ॥ १८५ श्रुत्वा सहसोपेत्य रूपवत्यभ्यधादिदम् । मां खाद भक्षिते ह्यस्मिन्पत्यौ का मे गतिर्भवेत् ॥ १८६ न ते गतिरित्युक्ते रक्षसा साप्युवाच तम् । को मे भिक्षां महासत्व दास्यतीह स्त्रिया इति ॥ १८७ में न दास्यति भिक्षां ते याचितस्तस्य यास्यति । शतधा शिर इत्युक्ते राक्षसेन च सात्रवीत्॥ १८८ हैिं त्वमेव मे देहि भर्तृभिक्षामिमामिति । अद्य ममाराशु शीर्णमूर्धा स राक्षसः । १८९ Iथ केसटमादाय तच्चरित्रातिविस्मितम् । आगादूपवती वेश्म तावच्चक्षीयत क्षपा । १९० भूते च कृताहारं तज्जन्यबलकं ततः प्रस्थाय नर्मदातीरं संप्राप सवधूवरम् १९१ तो वधं रूपवतीं नावमारोप्य सानुगाम् । स मुख्यवृद्धविप्रोऽन्यां नावमारोहदात्मना । १९२ सटं तु पृथङ्नावि स्वीकृत्याभरणादि सः । आरोपयच्छठः कृत्वा नाविकैः सह संविदम् ॥ १९३ तः स सवधूजन्यः पारं तीर्वा ययौ द्विजः। नदीमध्येन दूरं तु दाशैर्निन्ये स केसटः । १९४ न क्षिया महत्योघे नावं तां केसटं च ते । वृद्धद्विजादात्तधना बाहुतीर्णापगा ययुः ॥ १९५ सटस्तु सनौकोऽपि नद्या हृत्वोत्तरङ्गया । क्षिप्तोऽम्बुधौ वातवशान्नयस्तोऽभूदूर्मिणा तटे । १९६ त्रायुषः सशेषत्वात्समाश्वस्य व्यचिन्तयत् । अहो प्रयुपकारोऽयं कृतस्तेन द्विजेन मे । १९७ है वा तेनैव नाख्याता तस्य निर्धर्ममूखता। युनक्ति भार्यया पुत्रं परेण परिणाप्य यत् । १९८ ति संचिन्तयन्यावदास्ते तत्र स विह्वलः । विचरखेचरीचक्र तावत्तस्ययया क्षपा । १९९ स्यां विनिद्रस्तुएँ स यामे कलकलं दिवि । श्रुत्वा ददर्श सुभगं खाद्धष्टं पुरुषं पुरः । २०० स्तश्चिराद विकृतं तं विभाव्य स केसटः । को भवानिति पप्रच्छ ततस्तं सोऽब्रवीत्पुमान् २०१ मे क्रूहि भवान्कोऽत्र ततो वक्ष्याम्यहं तव । तच्छुत्वा केसटस्तस्मै स्ववृत्तान्तमवर्णयत् २०२ तः स पुरुषोऽवादीतुल्यावस्थोऽसि ताई से । तदिदानीं स्ववृत्तान्तं तव वच्मि सखे शृणु ॥ २०३ स्ति वेणानदीतीरे पुरं रत्नपुराख्यया । तत्र कंदर्पनामाहमाख्यपुत्रो गृही द्विजः । २०४ ऽहं प्रदोषे तोयार्थं वेणामवतरन्नदीम् । तस्यां स्खलित्वा पतितो वार्योघेन हृतोऽभवम् । २०५ रं नीत्वा तया रात्र्या तेनाहं च दिनागमे । आयुर्बलाकच्छगते तरुखण्डे निवेशितः ॥ २०६ खावलम्बेनारुह्य रोधस्याश्वस्य चान्तिके । मातृदेवगृहं शून्यं तत्रापश्यमहं महत् । २०७ स्मिन्प्रविश्य हवन्तः स्फुरन्तीरिव तेजसा । मातृरहं शान्तभयो नत्वा स्तुत्वा व्यजिज्ञपम् ॥ २०८ |गवत्यः परित्राणं कुरुध्वं कृपणस्य से । अहमेष हि युष्माकं प्राप्नोऽद्य शरणागतः । २०९ ति विज्ञष्य नद्योघपरिक्छिष्टस्य तत्र से । विश्राम्यतः शनैर्भित्र विश्रान्ति वासरोऽप्यगात् । २१० गात्तारास्थिमाळाढया ज्योत्स्नाभूतिसिता ततः । शशिशुभ्रकपाला च रौद्री रजनितापसी ॥ २११ त्कालं चात्र जानामि ततो मातृगणान्तरात् । निर्गत्य योगिनीग्रामः परस्परमभाषत । २१२ (द्य चक्रपुरेऽस्माभिर्गन्तव्यं चक्रमेलके । इह च श्वापदाकीर्णे रक्षास्य ब्राह्मणस्य का ॥ २१३ देषस्थाप्यतां नीत्वा यत्रैतस्य शुभं भवेत् । आनेष्यामः पुनश्चैनमेषोऽस्माञ्शरणं श्रितः । २१४ त्युक्त्वा खेन नीत्वा मामलंकृत्य निधय च । पुरे कापि गृहे कस्याष्याद्यविप्रस्य ता गताः ।। २१५ २१६ त्र पश्यामि यावच कन्योद्वहाय सब्जिता । वेदी लग्नश्च संप्राप्तो न जन्यबलकं पुनः । ७४
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४८९
दिखावट