सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९४
[ आदितस्त
कथासरित्सागरः ।

नृत्तवादित्रगीतैश्च तत्र सातिशयैर्निशि । परितुष्टो गणानेचमादिदेश गणाधिपः ॥
मत्प्रसादाद्यं भावी सम्राट् श्रीदर्शनो भुवि । तदिदस्यपराम्भोधौ हंसद्वीपमिति श्रुतम् ॥
द्वीपं तत्रास्ति च क्ष्माभृदनङ्गेयसंज्ञकः । अनङ्गमजरीत्यस्ति स्त्रीरत्नं तस्य चात्मजा ॥
मद्भक्ता सा च कन्या मामचिंत्वा याचते सदा । सर्वपृथ्वीश्वरं देहि पतिं मे भगवन्निति ॥
अतः श्रीदर्शनेनैतां पत्या संयोजयाम्यहम् । उभयोरेतयोरेवं दत्तं भक्तिफलं भवेत् ॥
तस्माच्छीदर्शनस्तत्र नीत्वा युष्माभिरेतयोः । अन्योन्यर्शनं युक्त्या संपाद्यनीयतां द्रुतम् ॥
संयोगस्तु शनैः सम्यङ्मेण भवितानयोः । अत्रैव तु स नास्येव भवितव्यं हि तत्तथा ॥
किं चैवं वणिजोऽप्यस्य प्रतिमाप्रापकस्य मे । उपेन्द्रशक्तेरस्येव विहिता काप्युपक्रिया ॥
एवं गणेशेनादिष्टा गणा रात्रौ तदैव तम् । सुतं श्रीदर्शनं निन्युर्दसीयं स्वसिद्धितः॥
तत्र चानङ्गमजयोस्तं प्रवेश्यैव वासके । सुम्नायाः शयने तस्या राजपुत्र्या न्यवेशयन् ॥
प्रबुद्धः स क्षणात्तत्र ज्वलद्रत्नप्रदीपके । द्योतमानवितानादिनानानर्थमहमणैः ॥
राजावर्तापलश्यामतले सद्वासवेश्मनि । पर्यङ्कशयने घौतसितपद्मोत्तरच्छदे ॥
शयानाममृतस्यन्दसुन्द्र प्रसरद्युतिम् । सर्वतः प्रस्फुरत्तारतरावलिमनोरमे ॥
गगने धवलाम्भोदशकलोत्सङ्गवर्तिनीम् । शरच्छशभृतो मूर्तिमिवानन्दकरी दृशोः ॥
श्रीदर्शनस्तां सहसा दर्शानङ्गमञ्जरीम् । हृष्टविस्मितविभ्रान्तश्चिन्तयामास च क्षणम् ॥
के सुप्तः क प्रबुद्धोऽस्मि किमिदं केयमङ्गना । स्वप्नो ध्रुवमसौ सोऽपि वरमस्वयमीदृशः ॥
प्रबोध्य तदिमां तावत्पश्यामीति विविच्य सः। नुदति स्म शनैरंसे पाणिनानङ्गमञ्जरीम् ॥
सापि तस्य करस्पर्शादिन्दोरिव कुमुद्वती । व्यालोलनेत्रभ्रमरा प्रबोधं प्राप तत्क्षणम् ॥
दृष्ट्वा च तं क्षणं दध्यैौ कोऽयं दिव्याकृतिर्भवेत् । दुष्प्रवेशे प्रविष्टोऽत्र देवो नूनमसाविति ॥
उत्थाय चैतं पप्रच्छ संभ्रमप्रश्रयाकुळा । कस्त्वं कस्मास्कथं चेहू प्रविष्टोऽस्युच्यतामिति ॥
ततः श्रीदर्शनेनोक्ते स्वोदन्ते साप्यवोचत । तत्पृष्टा सुन्दरी चास्मै देशनामान्वयान्निजान् ॥
सोत्कावन्योन्यसंत्यक्तस्वप्नभ्रान्ती ततश्च तौ । भूषणानां विनिमयं चक्रतुर्निश्चयाप्तये ॥
अथोभावपि गान्धर्वविवाहोत्सुकमानसौ । ते गणा मोहयित्वा तौ निन्युर्निद्रावशं तदा ॥
जातनिद्रं गृहीत्वा च तं तु श्रीदर्शनं ततः । स्वगृहं प्रापयामासुस्तदैवाप्राप्तवाञ्छितम् ॥
तत्रापगतनिद्रश्च धाम्नि श्रीदर्शनो निजे । स्थितः ख्याभरणैर्युक्तं दृष्ट्वात्मानं व्यचिन्तयत् ॥
अहो किमेतत्क नु सा हंसद्वीपेश्वरात्मजा । क तद्वासगृहं दिव्यं काइं पुनरिहैव च ॥
न च स्वप्नः स यत्तानि तदीयाभरणानि मे । तिष्ठन्त्येतानि तनूनं विलासः कोऽप्ययं विधेः ॥
इत्यादि चिन्तयन्पत्न्या पृष्टः सुप्तप्रबुद्धया । पद्मिष्ठया धीर्यमाणः साध्व्या तां सोऽनयन्निशाम् ॥
प्रातश्च सर्वे राज्ञेऽपि श्रीसेनाय तदब्रवीत् । अनङ्गमञ्जरीनामचिह्निताभरणान्वितः ॥
राजापि तत्प्रियैषी स इंसट्टपं गवेषयन् । मार्गे दत्वापि पटहं नोपलेभे कुतश्चन ॥
ततः श्रीदर्शनस्तत्र स विनानङ्गमञ्जरीम् । आसीत्स्मरज्यराक्रान्तः सर्वभोगपराङ्मुखः ॥
नाहारं श्रद्दधे पश्यन्ना हारं तदलंकृतीः। स्वापं जहवपश्यंस्तु स्वापं तन्मुखपङ्कजम् ॥
अत्रान्तरे च सा तत्र हंसीषे नृपात्मजा । तूर्यशब्दैः प्रबुबुधे प्रभातेऽनङ्गमञ्जरी ॥
स्मृत्वा तद्रात्रिवृतं सा दृष्टा चलंकृतां तनुम् । श्रीदर्शनालंकरणैश्विन्सामौत्सुक्यतो ययौ ॥
स्वप्नभ्रान्तिहरैर्दत्तप्रेमभिर्दूर्लभे जने । एभिराभरणैर्नातास्म्यहं जीवितसंशयम् ॥
इत्यादि चिन्तयन्तीं तां पुरुषाभरणैर्युताम् । पितानङ्गदयोऽकस्मात्प्रविश्यात्र व्यलोकयत् ॥
वाससाच्छादिताङ्गीं च लज्जयावनतां ततः। पप्रच्छोत्सङ्गमारोप्य स तां राजातिवत्सलः ॥
किमयं पुत्रि पुंवेषः किं त्रपा चेदृशी च । मा कृथा मर्याविश्वासं बद्धाः प्राणा हि मे त्वयि ॥
इत्यादिभिः प्रियालापैस्तेन मन्दीकृतत्रषा। पित्रा शनैस्तं वृत्तान्तं कृत्तं तस्मै शशंस सा ॥