सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६ ।]
४८९
शशाङ्कवतीलबकः १२ ।

वैतदस्याः स्वं तातानुप्रेषितं तु यत् । विवाहवेद्यमस्यैतप्रदास्यामि क्रमादिति ॥ १८६
ऽपि ते तत्र भुक्तपीता नृपान्तिके । मृगाङ्कदत्तादियुता निन्युस्तन्निर्दूता दिनम् ॥ १८७
दिनेऽन्येद्युर्यत्रे राज्ञि स्वयं मुदा । मृगाङ्कत्तः स्नानादि चकारात्मानुरूपतः ॥ १८८
झवतीं चात्र कान्यैव कृतकौतुकाम् । नार्यः प्रसाधयामासुराचार इति केवलम् ॥ १८९
झौतुकागारादथ व्यग्नसुषेणतः । हुताशनवतीं वेदीमध्यासातां वधूवरौ ॥ १९०
राजदुहितुस्तस्या राजसुतोऽग्रहीत् । धृताञ्जशोभारुचिरं पाणिं लक्ष्म्या इवाच्युतः ॥ १९१
मपि तापाच्च धूमाञ्चाग्निप्रदक्षिणे। अकोपेऽप्यरुणोदुष्पं तच्छशाङ्कवतीमुखम् ॥ १९२
लाजाञ्जलयो विकीर्णा विबभुस्तया । हाखाः प्रयत्नसाफल्यहृष्टस्येव मनोभुवः ॥ १९३
जविसर्गे च सुषेणः प्रथमे तदा । पञ्चश्वानां सहस्राणि वारणानां शतं तथा ॥ १९४
शते द्वे च नवतिं च करेणुकाः । भूताः सहस्रसद्रत्नमुक्ताभरणभारकैः ॥ १९५
यजं वित्तं तदेव द्विगुणं क्रमात् । अन्येषु लाजमोक्षेषु प्रादात्तस्याः स सोदरः ॥ १९६
     अथोल्लसत्युरसवतूर्यनिःस्वने विवेश निष्पन्नविवाहमङ्गलः ।
     मृगाङ्कदत्तः स नवोढया तया शशाङ्कवत्या सह मन्दिरं निजम् ॥ १९७
     पिता च राजास्य यथार्हदतैर्हस्त्यश्वरत्नाभरणान्नपानैः।
     आ राजचक्रे शुकशारिकान्तं सोऽरजयाः प्रकृतीः सपौराः ॥ १९८
     त्यागप्रकर्षश्च तदास्य राज्ञस्तेनैव पर्याप्ततयात्र जज्ञे ।
     आयद्धवस्राभरणा वितेरुर्द्धमा महीकल्पतरुभ्रमं यत् ॥ १९९
     ततः स राजा समृगाङ्कदत्तः शशाङ्कवत्या सह राजभिश्च ।
     भुक्त्वा सुषेणेन च साकमेतमापानगोष्ठया दिवसं निनाय ॥ २००
     अथ सेवितनृत्तचर्चरीके गृहगे तत्र जने सुभुक्तपीते ।
     परिपीतधारसो गताध्वा रविरस्ताचलकंदरं विवेश ॥ २०१
     तमवेक्ष्य च संध्यया समेतं नवरागोज्ज्वलया कचित्प्रयातम् ।
     विचलखगमेखळा किलेब्र्याकुपितेवानुदधाववासरश्रीः ॥ २०२
     ददृशे च विलोलतारकेण प्रबलीभूतमनोभुवा मुखेन ।
     विलसतिमिरासितांशुकान्ता प्रसृता राज्यभिसारिका क्रमेण ॥ २०३
     उदयाचलवारणाञ्शत्वं नवसिन्दूरसमुज्ज्वलो जगाम ।
     उदयन्नथ कुप्यदायताक्षीकुटिलापाङ्गसहोदरः शशाङ्कः॥ २०४
     शशिना छुतकेलिकर्णपूरं रतिवहीनवपल्लवेन तेन ।
     तमसोऽपगमे धृतप्रसाद हरिंदैन्द्री हसदाननं बभार ॥ २०५
     कृत सांध्यविधिश्च सोऽपि नक्तं नववध्वा सहितो मृगाङ्कदत्तः ।
     प्रविवेश तया शशाङ्कवत्या रजनीवासगृहं महार्हशय्यम् ॥ २०६
     मुखचन्द्रमसा तदाङ्गनाया निशि तस्याः प्रविलुप्ततामसेन ।
     अवभासितचित्रभित्तिनान्तः पुनरुक्तीकृतसन्मणिप्रदीपम् ॥ २९७
     शयनीयगतश्च तत्र तस्याः स्थितवत्याः परिवृत्य स प्रियायाः ।
     अहरत्परिरभ्य चुम्बनेन क्रमशश्चाधरखण्डनेन लज्जाम् ॥ २०८
     चिरकाङ्कितमन्वभूच मा मेत्यलमपोखरवक्षरं स तस्याः।
     नबमोहनमश्रसारसैौख्यं त्रुटितस्फारमहर्हरनकाञ्चि ॥ २०९
     अरमत लुलितालकेन चास्या मुखशशिनार्धनिमीलितेक्षणेन ।
     श्रमवशशिथिलालसैश्च सोऽभैर्विरलविलुप्तविलेपनै रतान्ते ॥ २१०